मङ्गोपिरप्रदेशे मकरपूजा
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । |
भारतीया: देवताराधनप्रिया: । वृक्षनद्यादय: अपि तेषां दृष्ट्या देवायन्ते । शिलासु अपि देवं पश्यन्ति ते । किं बहुना, हिंस्रपशुषु अपि दैवत्वम् अस्ति इति तेषां विश्वास: ।
अत्र ‘भारत’पदेन अभिप्रेत: भूभाग: तु न वर्तमानभौगोलिकसीमोपेत:, अपि तु सांस्कृतिकभारताङ्गभूत: । एतत् एतदर्थम् अत्र स्मारितं यत् अग्रे लेखेऽस्मिन् विव्रियमाणं वस्तुजातं पाकिस्थानपदेन निर्दिश्यमानेन भूभागेन अभिसम्बद्धम् अस्ति ।
कराचीसमीपे मङ्गोपिरनामके प्रदेशे अविशाल: (200 ft X 400 ft ) सरोवर: कश्चन अस्ति, यस्मिन् च शताधिका: मकरा: निवसन्ति । एते मकरा: भक्त्या पूज्यन्ते अत्रत्यै: जनै: ।
एतस्मिन् परिसरे शीडीजना: (मक्रानी इति तेषां नामान्तरम्) आधिक्येन निवसन्ति । वस्तुत: एते आफ्रिकन्मूला: । पूर्वं भूस्वामिन: कृषिक्षेत्रादिषु कार्याय एतान् आनीतवन्त: । गच्छता कालेन ते तत्रत्या: एव जाता: । अत: एव अद्यापि आफ्रिकीया: काश्चन परम्परा: दृश्यन्ते एतेषां व्यवहारे । मकरस्य आराधनम् अपि तासु अन्यतमम् ।
एते मकरा: यवनसाधुना मोङ्गोवर्येण आशीर्वादेन अनुगृहीता: इति तत्रत्यानां विश्वास: । अत: एव अत्र मकरपूजनप्रथा आरब्धा इति वदति स्थलपुराणम् । मोङ्गोसाधो: विषये विविधा: कथा: श्रूयन्ते । स: द्वादशे शतके आसीत् इति काचित् कथा । मोङ्गो कश्चन लुण्ठाक: आसीत्, मोङ्गोपिरस्थस्य आलयस्य दर्शनात् तस्य मनस: परिवर्तनं जातम् इति वदति अपरा कथा । मोङ्गोसाधु: 40 वर्षाणि यावत् अत्र तप: कृत्वा 150 वर्षाणि अजीवत् इति वदति अन्या कथा ।
मोङ्गोसाधुना मकराणाम् अनुग्रह: य: कृत: तत्कारणत: अत्र मकरा: आधिक्येन दृश्यन्ते इत्यत्र वैज्ञानिका: न सहमता: । ते अभिप्रयन्ति यत् महाप्रवाहकारणत: एते मकरा: कुतश्चित् आगता: स्यु:, प्रवाहस्य अपगमनस्य अनन्तरम् एते अत्र सरोवरे वासम् आरब्धवन्त: स्यु: इति । प्रतिवर्षम् अत्र मेला काचित् प्रचलति । ‘शीडी जात’ इति तस्य नाम । आफ्रो-पाकिस्थानीया: पञ्चाधिकजातीया: सन्ति । ते सर्वे मेलावसरे स्वस्थानत: आगत्य सप्ताहं यावत् शिबिरं निर्माय अत्र वसन्ति । धार्मिकनृत्यगीतादिकं प्रचलति तदवसरे । साधो: अनुयायिन: एते मकरा: इति भावयन्त: जना: एतेषु महतीं भक्तिं दर्शयन्ति । अत: एव यदि कश्चन मकर: मरणं प्राप्नुयात् तर्हि मानवानाम् इव तस्य अपि अन्त्यसंस्कार: यथापरम्परं क्रियते । तदर्थं पार्थक्येन श्मशानभूमि: एव काचित् परिकल्पिता अस्ति अत्र ।
मेलावसरे ज्येष्ठाय मकराय (स: ‘मोर साहिब’ इति पदेन निर्दिश्यते) प्रमुख: अर्चक: आदौ मालादिकं समर्प्य नैवेद्यरूपेण हलवाखाद्यानि, पक्वान् अन्यपदार्थान्, मांसादिकं च अर्पयति । 1872 तमे वर्षे एवम् आहारम् अर्पयत: जनस्य चित्रम् उपरि अस्ति । तत्रत्य: मकर: आसीत् द्वादशपाददीर्घ: । मुख्यस्य पूजाया: अनन्तरम् अन्ये अपि अन्येभ्य: मकरेभ्य: आहारान् अर्पयन्ति ।
यद्यपि पूर्वम् अत्र बहव: मकरा: आसन्, तथापि 1960 तमे वर्षे तेषां सङ्ख्या आसीत् त्रिमात्रमिता ! सरोवरस्य पङ्कै: आवृतता, आहारदाने अनास्था, पर्यवेक्षणे अनादर: इत्यादय: तत्र कारणानि आसन् । किन्तु अनन्तरकाले पाकिस्थानीयस्य वन्यजीविसंरक्षणविभागस्य प्रयत्नात् मकराणां सङ्ख्या प्रवृद्धा । इदानीं तत्र शतं मकरा: सन्ति । किन्तु तावतां सुखावासाय सरोवरे स्थलस्य अपर्याप्तता । अत: आहार: यदा प्राप्येत तदा तस्य स्वायत्तीकरणाय मकरेषु कलह: दृश्यते आधिक्येन ।
मकरपूजा प्राय: विरला एव । अत: एव मकरपूजापरम्परायुक्त: एष: मङ्गोपिरप्रदेश: अन्येभ्य: पृथग्भूत: सन् स्वीयेन वैशिष्ट्येन विराजते ।
उष्णजलकुण्डः
सम्पाद्यताम्मङ्गोपिरत: किलोमीटर्दूरे उष्णजलकुण्ड: कश्चन वर्तते । औषधगुणयुक्तं भवति अत्रत्यं जलम् । अत: चर्मरोगनिवारणोद्देशेन बहव: अत्र आगत्य स्नानं कुर्वन्ति । महिलाभ्य: पुरुषेभ्य: च स्नानागाराणि पार्थक्येन सन्ति अत्र । ‘जलं सल्फर्-अंशेन युक्तं सत् केषाञ्चन रोगाणां निवारणे उपकरोति इति तु सत्यम् एव’ इति वदन्ति विज्ञानिन: । एष: जलकुण्ड: मङ्गोपिरक्षेत्रस्य जनप्रियतावर्धने उपकरोति विशेषत: ।
आधारः
सम्पाद्यताम्'सम्भाषणसन्देशः' - जून् २००९
|