मत्तविलासप्रहसनम् (सम्पादकः-टी.गणपतिः शास्त्री)

मत्तविलासप्रहसनम् (सम्पादकः-टी.गणपतिः शास्त्री)
महेन्द्रविक्रमवर्मा

TRITANDRIY SANSKRIT SERIES, No. L. THE MATTAVILASAPRAHASANA OF SRI MAHENDRAVIKRAMAVARMAN EDITED BY T. GANAPATI SASTRI Curator of the Department for the prbtia.ka.tion of Sanskrit fantscripts, Tric cudrisma PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE TRIVANDRUM: PRINTED BY THE SUPERINTENDENT. GOVERNMENT PRESS - 1917 -.. . अनन्तशयनसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ५५. -. - -- - .... मत्तविलासपहसनं श्रीमहेन्द्रविक्रमवर्मप्रणीतम् । संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण त. गणपतिशास्त्रिणा संशोधितम् । अनन्तशयने महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण मुद्रयित्वा प्रकाशितम् । कोळम्बाब्दाः १०९२, कैस्ताब्दाः १९१७. PREFA(JE. The trunken rerclrs ola Karalikn with his female companion, his falling out with a hypocritical Sikvabhikshu believing him to liate stolen his Kapala (alms-you-l) which had been curierl away by utpy, his having recourse to a degene- rate Pasuntal for the settlement of disputes and finaily the recovery of the Kapala from a madimanare in riel the inci- dents that make up the post of the Prahasat. Tlie style is simple auntl yeautiful and is site to the humous charitter of the play. . It is evilent from the Sthapunt of tle play that it was written lvning of the Pallantasty marned Mahendra- vikrama Varma, SO!! of imha Vishnu PutrmaThis Mahen- dravikrama Varma can lye identifierl with the Mahendra Varman I, mentionerl in a number of South Indian Pallasal inscriptions as the stull alittlccessor of the curly Pallava King simharishuu (575-600 A. D.) iindl as husing youme a number of titles. For, We knor from the Mahendra-Vadi Inscription that Gunabhurn built it cave temples :Murari grilha',* and from the Vallam Inscription that (Glunablhan is known lhy the mame "Mahendra Potarayan". The two cave inscriptious at Trihinopolyt disclose that Gulablhara was Palls Kine and hall the title Satruullu. Rao Bahadur Tenkayyu M.A. in his article "Tuscriptions in the Trichinopoly care" contri- buted to the Director General's Archeological Survey Annual for 19103-01 (pp.270 ff.) gives the contents of a (larnaged inscription wicli (Consist of the titles Malhendin. vikrama, Mattarilasu and Asamibhajanm which were held by Gunabharn. of these titles held brone and the same person, Mahendravikrama erjilently seems to ln his own name, and Gunabharu and others his titles. Malhendra is shortened form of Mahendravikrama Varna. The title Satrumalla night Sce South Indian

  • Vide Epigraphia Indicatol IV.p 152,

Inscriptions Vol. I. pp. 22.30 huye yet:}} obtained by him or account of his valour in VAIL- quishing enemics, ithich is mentiotical in the concluding line of tite play 'राजन्वानस्तु शक्लिप्रशमितरिपुणा शत्रुमल्लेन लोकः'। The title Avanilbhitjana is referjeel ty.in the th Parlh of the Mangala Sloku ‘स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः' and the titles Gunalbhara andl Mattarilast alre also found in the words of Nati in the Sthityala. 'जोवणगुणभरमत्तविकासपहसणं'. The title Gunbharta inight have lytech given to him as he was the scat of all the virtues descrilbert in the Tere 'प्रज्ञादानदयानुभावधृतयः कान्तिः क्षमा कौशलम् (11. 3.). It is prolably on account of the term Avanibhajana lhappily emplosit in the line 'स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः' has to suggest the central incident of the plot namely the handing over the versel', that the author wus known by the title Avnnilbha.jit. Similarly the title Mattavilasat might haryen inferred on hillm as it was aptly placerl in the Citteelice 'जोवणगुणभरमत्तविकास' to suggest the name of the play also. The author. Maheritarikanha Trma Hourished in the early part of the 7th century I. D.. as he is known to be a contemporarr of Chalukya Pulake in IL.who came to the throne on ti0) A. D. My thanks are due to Rao Bahadur H. Krishna Sustri B. A., (Officiatiny Epigraphist for the Crovernment of Indiar, for helping me with references to inscriptions relating to Mahenklra Varman I. ___The edition of this work is bascet toh two palm-leaf manuscripts in Malayalam characters. alhout threes centuries old. * One of then Tas obtuineal by me from the Manali- kkarn Mathom in Soutli Travancore in the year 1903, and the other manmlscript fron M. Nilakanthn Chakyau of Man- ganam in North Tarulere in tlic Year 1911, Trivandrunm, 18th May 1917. T. GANAIPATI SASTRT.

  • 11.3. Tiscript of the in2 licripti.s Lont some six inonths ago. at

lhis request to Mr. T. lopinatha. IRD. M.A.Superintendent of Arche- ology. Travancore, at the lispublisheet 111 article on the work "Matta. vilasa-Prahasutia" in the Indras Christian College Nagazine उपोद्धातः। युवतिसमेतस्य कस्यापि कापालिकस्य मधुपानविभ्रमः, कुकुरापहृत- मात्मीयं कपालभाजनं केनचिन्मिथ्याचारेण शाक्यभिक्षुणा चोरितं मन्यमा- नस्य तेन सह विवादः, विवादनिर्णयाय पाशुपतापशदाश्रयणम्, उन्मत्तस- काशादन्ते यदृच्छया कपाललाभ इत्येतावद् वस्तु हास्यरसानुगुणं निपुणर- मणीयमिह प्रहसने वर्णितम् । ___ अस्य प्रणेता पल्लवभूपालकुलजन्मा सिंहविष्णुवर्मसूनुर्महेन्द्रविक्रम- वर्मेति स्थापनायां प्रतिपादितम् । कोऽसौ महेन्द्रविक्रमवर्मेति वीक्षायां, पहवेषु भूपतिषु वृद्धतरस्य सिंहविष्णुवर्मणः पुत्रो बहुबिरुदशाली यो महे- न्द्रवर्मा नाम दक्षिणभारतप्राचीनलेखेभ्योऽवगतः स एवायमिति निश्चयः । तथाहि -- एपिग्राफियाइन्दिकायां “महेन्द्रवाडिशिलालेखे मुरारिगृहनिर्मा- पयिता गुणभरो नामाभिहितः । तम्यामेब (बल्लं) शिलालेखे गुणभर एव 'महेन्द्रपोतरयन्' इति महेन्द्रसंज्ञया निर्दिष्टः । त्रिशिरःपुरशिलालेखयोः 'द्वयोः एकत्र गुणभर एव पह्नवो राजेति, अन्यत्र गुणभरो राजा शत्रुमल्ल इति च कीर्तितः । भारतवर्षपुराणवस्तुविचाराध्यक्षस्य १९०३-०४तम. वर्षवृत्तनिवेदनायां (p. 271). ki.) प्रकाशिते त्रिशिरःपुरशिलालेख विषये स्वनिबन्धे श्रीवेङ्कय्यमहाशयो(एम् . ए.) गुणभरस्यैव महेन्द्रविक्रम इति मत्तविलास इति अवनिभाजनम् इति चाख्यान्तराणि वचन शिला- लेखे दृष्टान्याह । एकव्यक्तिनिवेशिनीषु आसु गुणभराद्याख्यासु औचित्याद् महेन्द्रविक्रम इति सांस्कारिकी संज्ञा, गुणभर इत्येवमादीनि तु बिरुदानि महेन्द्र इति च नामैकदेशग्रहणामिति शक्यमवसातुम् । नूनं, बिरुदेप्येतेषु See puge bY. Tol.. . 51111 111dian Institions tol. I. pp. 21-:310, . .. ... ... ... . --- .-...-.. अन्यान्यपि तु बिरुदानि अस्यावगतानि पुरुषोत्तम, सत्यसन्ध, ललिताङ्कर, पकाप्पिदुगु, चट्टकारि, इत्यादीनि । तत्र चट्टकारीति चैत्यकारयिर्थकं शिलोचयेषु देवायत- ननिर्माणस्य दक्षिणभारते महेन्द्रवोपक्रमतां सत्यतीति भारतमण्डलप्राचीनलेखाधिकृतः श्रीकृष्णशास्त्रमहामाय आह । शत्रुमल्ल इत्येतत् शत्रुधर्पणशक्त्यतिशयात् सिद्धम् । तच्चास्मत्प्रहसने 'राजन्वा- नस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः' इति भरतवाक्यश्लोकपादे गृही- तमेव । अवनिभाजन -गुणभर - मत्तविलासबिरुदानि तु ‘स व्या. तावनिभाजनं दिशतु वो दिन्यः कपाली यशः' इति मङ्गलश्लोके, 'जोव्व- णगुणभरमत्तविलासप्पहसणं' इति नटीवाक्ये चोपात्तानि । तत्रापि गुण- भरबिरुदम् उच्चावचसद्गुणातिशययोगान्नूनं निष्पन्नम् । स च सद्गुणातिश- ययोगः 'प्रज्ञादानदयानुभावधृतयः' (श्लो० ३) इत्यादिना प्रकाशित एव । प्रहसनवस्तुभूतकपालरूपभाजनदानसूचनानुगुण्येन अवनिभाजनशब्दस्य य- चमत्कारकारि संघटनं, तन्निबन्धनः संघटयितरि कवौ अवनिभाजनपदव्य- पदेशो विदग्धैर्मन्ये प्रवर्तितः । एवं मत्तविलासपदव्यपदेशोऽपि तत्पदसंघट- ननिबन्धनः, अर्थान्तरपरेण तेन पदेन प्रहसननामधेयस्य मुद्रालङ्कारभङ्गया संसूचनात् । महेन्द्रविक्रमवर्मणो जीवितसमयम्तु ऊस्ताब्दीयस्य षष्ठशतकस्य पूर्वो भागः, यस्मात् स मद्रमण्डलपुराणवस्तुविमर्शकैः ६०९तम ऊस्ताब्दा- वाप्तराज्याधिपत्यस्य चालूक्यस्य द्वितीयपुलकेशिनः समकालिको निर्णीतः । अस्य प्रहसनस्य संशोधनाधारभूतौ केरलग्रन्थलिपी तालपत्रात्मकौ त्रिचतुरशतवर्षवृद्धौ द्वावाद । तत्रैक: १९०९तमे ऊस्ताब्दे मणलिक्कर- मठान्मयोपलब्धः, द्वितीयः १९१४ तमे (माङ्गानम् ) नीलकण्ठचाक्यार्- महाशयसकाशादासादितः ॥ अनन्तशयनम् , त. गणपतिशास्त्री. १४-५-१९१७. । ॥ श्रीः॥ मत्तविलासपहसनं श्रीमहेन्द्रविक्रमवर्मप्रणीतम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः- भाषावेषवपुःक्रियागुणकृतानाश्रित्य भेदान् गतं भावावेशवशादनेकरसतां त्रैलोक्ययात्रामयम् । नृत्तं निष्प्रतिबद्धबोधमहिमा यः* प्रेक्षकश्च स्वयं स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः॥ भोः! समासादितः खलु मया यवीयसी भार्यामधिकृत्य समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसा- दनोपायः, यच्चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्मः । तद् यावदेनामुपसामि । (नेपथ्याभिमुखमवलोक्य) आयें ! इतस्तावत् । (प्रविश्य) नटी- (सरोषम् ) (क) अय्य! किं चिरस्स काळस्स जोव्वणगुणभरमत्तविळासप्पहसणं (ओ ? दं)सेदु आअदोसि । (क) आर्य ! किं चिरस्य कालस्य यौवनगुणभरमत्तविलासपहसनं दर्श- यितुमागतोऽसि ।

  • करोतीत्यध्याहर्तव्यम। मत्तविलासप्रहसनम् ।

सूत्रधारः -- यथाह भवती । नटी--- (क) ताए एव दाव दंसेहि, जा तुए रमइद- व्वा। सूत्रधारः -- त्वया सह दर्शयिष्यामीति । नटी-(ख) किं ताए एव्व णिउत्तो सि । सूत्रधारः-- एवमेतत् । अपिच , तत्र गता महान्तम- नुग्रहं लप्स्य से । नटी- (ग) तव एव्व खु एवं जुज्जइ। सूत्रधारः ---- भवति ! किमिव न युज्यते । त्वत्प्रयोग- परितोषिता परिषदनुग्रहीष्यतीति । नटी - (सहर्षम् ) (घ) एवं । लद्धो अय्यमिस्साणं प- सादो । सूत्रधारः-- बाढम् । लब्धः । नटी-(ड) जइ एवं , किं दे पिअक्खाणिअं देमि । सूत्रधारः - अलं प्रियाख्यानिकपुनरुक्तेन । पश्य , उद्भिन्नरोमाञ्चकपोलरेख- माविर्मयूखस्मितमञ्चितश्रु । (क) तयैव तावद् दर्शय, या त्वया रमयितव्या । (ख) किं तयैव नियुक्तोऽसि । (ग) तवैव खल्वेतद् युज्यते । (घ) एवम् । लन्ध आर्यमिश्राणां प्रसादः । (ङ) यद्येवं, किं ते प्रियाख्यानिकं ददामि । मत्तविलासप्रहसनम् । लब्ध्वा प्रिये ! दुर्लभमाननं ते भूयोऽपि किं प्रार्थयितव्यमस्ति ॥ २ ॥ नटी- (क) किं दाणि अय्येण पउज्जिदव्यं । सूत्रधारः -- ननु त्वयैवाभिहितं मत्तविलासग्रहसन- मिति । नटी- (ख) शृणं इमरिस पक्खबादी मे कोबो , जेण अभिप्पाआणुरूवं भणाविद मि । अय्य! कदमो उण सो कवी, जो इमाए किदीए पआसीअदि । सूत्रधारः -- भवति!श्रूयताम् । पल्लवकुलधरणिमण्डल. कुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आख- ण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतरा. जराजस्य श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपर; परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रवि- क्रमवर्मा नाम । अपिच, प्रज्ञादानदयानुभावधृतयः कान्तिः कलाकौशल सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः । अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥ (क) किमिदानीमार्येण प्रयोक्तव्यम् । (ख) नूनमस्मिन् पक्षपाती मे कोपः, येनाभिप्रायानुरूप भाणितास्मि ! आर्य ! कतमः पुनः स कविः, योऽनया कृत्या प्रकाश्यते । 1. 'गद भ' ख. पाठः, मत्तविलासग्रहसनम् । किञ्च, आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् ।

  • अर्धन्ति बहु सूक्तानि सतां सारलघून्यपि ॥ ४ ॥

नटी--(क) किं दाणि अय्येण विळम्बीअदि । णं अ. पुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ । सूत्रधारः-- अहं तु, सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निम्नतां नीतः। (नेपथ्ये) प्रिये ! देवसोमे! सूत्रधारः- युवतिसख एष सुरया कपालविभवः कपालीव ॥ ५ ॥ (निष्क्रान्तौ ।) स्थापना। (क) किमिदानीमार्येण विलम्ब्यते । नन्वपूर्वतया त्वरितमनुष्ठातव्योऽयं प्रयोगः ।

  • अर्घति मूल्यप्राप्त्यर्थको धातुः । बहु. इति क्रियाविशेषणम् । बहु अर्धन्ति

बहु मूल्यं प्राप्नुवन्ति श्लाघामनल्पां लभन्त इति यावत् । यः स्वयं गुणोत्तरसूक्ति- रत्नानेधिः सन् परकीयसूक्तान्यल्पगुणान्यपि नावमन्यते , प्रत्युत लापत एवं केवल- मिति तात्पर्यम् । यस्मिन्निति वैषयिके सामीपिके बाधिकरगे सप्तमी । मत्तविलासग्रहसनम् । (ततः प्रविशति सपरिग्रहः कपाली ।) कपाली- (क्षीबतां रूपयित्वा) प्रिये ! देवसोमे! सत्यमे- वैतत् - तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः । तव हि, उहिन्नश्रमवारिबिन्दु वदनं सभ्रूलताविभ्रम खेलं यातमकारणानि हसितान्यव्यक्तवर्ण गिरः । रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयो- रंसोपान्तविलम्बिनश्च विगलन्मालागुणा मूर्धजाः ॥६॥ देवसोमा- (क) भअव! मत्तं विक्ष मत्तं विअ म भणासि । कपाली --किमाह भवती । देवसोमा - (ख) ण हु किश्चि भणामि । कपाली- किन्नुखलु मत्तोऽस्मि । देवसोमा--(भअवं! परिब्भमइ परिन्भमइ पुहुवी। पुरो वदामि विअ । अबळम्ब दाणि मं । कपाली- प्रिये! तथास्तु । (अवलम्बमानः पतनं रूपयित्वा) (क) भगवन् ! मत्तामिव मत्तामिव मां भणसि । (ख) न खलु किञ्चिद् भणामि । (ग) भगवन् ! परिभ्रमति परिभ्रमति पृथिवी । पुरः पतामीव । अवलम्ब. स्वेदानी माम् । मत्तविलासंग्रहसनम् । प्रिये! सोमदेवे ! किं त्वं कुपितासि, यदवलम्बितुमुपसर्पतो मे दूरीभवसि । देवसोमा – (क) अहोणुखु आअदकोवा सोमदेवा, जा तुए सीसेण पणमिअ अणुणीअमाणा वि दूरीहोइ। कपाली-ननु त्वमेवासि सोमदेवा । (ध्यात्वा) नहि, देवसोमा। देवसोमा-- (स्व) भअवं! णं तहा वळ्ळहा सोमदेवा, णार्हदि मम णामकेणाभिधाएं । कपाली--भवति ! सुलभपदस्खलितो मे मदोऽयं तवा, त्रापराधः। । देवसोमा- (ग) दिट्ठिआ ण तुवं । कपाली--कथं मद्यदोषो मामेवं सङ्कामयति । भवतु भवतु । अद्यप्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि । देवसोमा- (घ) भअब ! मा मा मम कारणादो वदभ ड्रेण तवो खण्डेदु । (पादयोः पतति । ) (क) अहोनुखल्वागतकोपा सोमदेवा, या त्वया शीर्षण प्रणम्यानुनीय- मानापि दूरीभवति । (ख) भगवन् ! ननु तथा वल्लभा सोमदेवा, नार्हति मम नामकेनाभिधा- तुम्। (ग) दिया न त्वम् । (घ) भगवन! मा मा मम कारणाद् व्रतभङ्गेन तपः खण्डयितुम् । मत्तविलासप्रहसनम् । कपाली- (सहर्षमुत्थाप्यालिङ्गय) धृर्ण धूर्ण नमः शिवाय । प्रिये! पेया सुरा प्रियतमामुखीक्षितव्यं ग्राह्यः स्वभावललितो विकृतश्च वेषः । येनेदर्मादृशमदृश्यत मोक्षवर्ल्स दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥ ७ ॥ देवसोमा - (क) भअवं! णं. तहा भणिदव्वं । अधन्ते मोक्खमग्गं अण्णहा वण्णअन्ति । कपाली- भद्रे! ते खलु मिथ्यादृष्टयः। कुतः, कार्यस्य निःसंशयमात्महेतोः सरूपता हेतुभिरभ्युपेत्य । दुःखस्य कार्य सुखमामनन्तः खेनैव वाक्येन हता वराकाः ॥ ८ ॥ देवसोमा-- (ख) सन्तं सन्तं पावं । कपाली- शान्तं शान्तं पापम् । नखलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति , ये ब्रह्मचर्य-केशनिर्लोटन-म- लधारण-भोजनवेलानियम-मलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानी कुतीर्थसङ्कीर्तनोपहतां जिह्वां सु- रया प्रक्षालयितुमिच्छामि । (क) भगवन् ! ननु तथा भणितव्यम् । अर्हन्तो मोक्षमार्गमन्यथा वर्णयन्ति । (ख) शान्तं शान्तं पापम् । मत्तविलासग्रहसनम् । देवसोमा --- (क) तेण हि अण्णं दाणिं सुरापणं ग- च्छामो । कपाली--प्रिये ! तथास्तु । (उभौ परिक्रामतः।) कपाली- अहोतुखलु विमानशिखरविश्रान्तधनरसि- तसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्या- पणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य का. चीपुरस्य परा विभूतिः । अपिच, अनतिशयमनन्तं सौख्यमप्रत्यनीकं समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः । तदिह निरवशेषं दृष्टमेतत् तु चित्रं यदुत करणभोग्यं कामभोगात्मकं च ॥ ९॥ देवसोमा- (ख) भअवं! भअवदी वारुणी विअ अण- वगीअमहुरा कञ्ची। कपाली-प्रिये! पश्य पश्य। एष सुरापणो यज्ञवाटवि- भूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः , शौण्डा ऋत्विजः, चषकाश्चमसाः, शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः सुवाः, तर्षोऽग्निः, सुरापणाधिपतिर्यजमानः । -....-.-.-. -..--.--.--- (क) तेन ह्यन्यमिदानी सुरापणं गच्छावः । (ख) भगवन् ! भगवती वारुणीवानवगीतमधुरा काञ्ची । मत्तविलासप्रहसनम् । देवसोमा- (क) अह्माअं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि। . कपाली - अहो दर्शनीयानि प्रहतमर्दळकरणानुग- तानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावल- म्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितल- यानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि । देवसोमा- (ख) अहो रसिओ खु आअय्यो। कपाली- एषा भगवती वारुणी चषकेष्वावर्जिता प्र- त्यादेशो मण्डनानाम् , अनुनयः प्रणयकुपितानां, पराक्रमो यौवनस्य, जीवितं विभ्रमाणाम् । किं बहुना, मिथ्या त्रिलोचनविलोचनपावकेन भस्मीकृतां मदनमूर्तिमुदाहरन्ति । स्नेहात्मिका तदभितापवशाद् विलीना सेयं प्रिये! मदयति प्रसभं मनांसि ॥१०॥ देवसोमा- (ग) भअवं ! जुज्जइ एदं । णहि कोओव- आरणिरदो लोअणाहो कोअंविणासेदि । (उभौ कपोलपटहं कुरुतः ।) (क) आवयोरप्यत्र भिक्षा रुद्रभागो भविष्यति । (ख) अहो रसिकः खरुवाचार्यः । (ग) भगवन् ! युज्यत एतत् । नहि लोकोपकारनिरतो लोकनाथो लोकं विनाशयति। . . मत्तविलासप्रहसनम् । कपाली -- भवति ! भिक्षां देहि । (नेपथ्ये) (क) भअब! एसा भिक्खा । पडिगण्हदु भअयं । कपाली- एष प्रतिगृह्णामि । प्रिये ! क मे कपालम्। देवसोमा- (ख) अहं वि ण पेक्खामि । कपाली- (ध्यात्वा) आ, तस्मिन्नेव सुरापणे विस्मृत- मिति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः।। देवसोमा- (ग) भअवं ! अध-मो खु एसो आदरो वणीदाए भिक्खाए अप्पडिग्गहो । किं दाणि करम्ह । कपाली- आपद्धर्म प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्य- ताम् । देवसोमा- (घ) भअब ! तह । (प्रतिगृह्णाति ।) (उभौ परिक्रम्यावलोकयतः ।) ___ कपाली --- कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः! माहेश्वराः! अस्मदीयं भिक्षाभाज- नमिह भवद्भिः किं दृष्टम् । किमाहुर्भवन्तः --नखलु वयं (क) भगवन् ! एषा भिक्षा । प्रतिगृह्णातु भगवान् । (ख) अहमपि न पश्यामि । (ग) भगवन् ! अधर्मः खल्वेष आदरोपनीताया भिक्षाया अप्रतिग्रहः । किमिदानी कुर्वः । (घ) भगवन् ! तथा । मत्तविलासप्रहसनम् । पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः। केनाहमिदानी कपाली भविष्यामि । भोः! कष्टम् । येन मम पानभोजन- ___ शयनेषु नितान्तमुपकृतं शुचिना । तस्याद्य मां वियोगः सन्मित्रस्येव पीडयति ॥ ११ ॥ (पतितः शिरस्ताडनं रूपयित्वा ) भवतु । अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः। (उत्तिष्ठति । ) देवसोमा- (क) भअवं ! केण खु गहीदं कवाळं । कपाली-प्रिये ! तयामि शूल्यमांसगर्भत्वाच्छुना वा शाक्यभिक्षुणा वेति । देवप्लोमा-(ख) तेण हि अग्गेस गणिमित्तं सव्वं कञ्ची. उरं परिब्भमामो। कपाली- प्रिये ! तथा । __ (उभौ परिक्रामतः । ) (ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।) शाक्यभिक्षुः---- ग) अहो उवासभरस धणदाससे- ट्ठिणो सव्वावासमहादग्णमहिमाणो, जहिं मए अभिमदव- (क) भगवन् ! केन खलु गृहीतं करालम् । (ख) तेन ह्यन्वेषणानामत म क चौरं परिप्रभावः । (ग) अहो उपासक-य धनदास श्रेष्ठिनः सर्वावासमहादानमहिमा, य- स्मिन् मयाभिमतवर्णगन्धरसो मत्स्यमांपप्रकारब लोऽयं पिण्डपातः प. 1. 'ज्ञया ।' ख. पाठः. २. 'ध' क. पारः, मत्तपिलासप्रहसनम् । ण्णगन्धरसो मच्छमंसप्पआरबहुळो अअं पिण्डवादो समा. सादिदो । जाब दाणि राअविहारं एव गच्छामि । (परिकम्प भात्मगतम् ) भोः! परमकारुणिएण भअवदा तहागएण पासादे. सु वासो, सुविहि(अ)सय्येसु पजङ्केसु सअणं, पुवण्हे भो. अणं, अवरण्हे सुरसाणि पाणआणि, पञ्चसुग(न्धब्बो ?न्धोव)- हिनं तम्बोळं, सण्हवसणपरिधाणं ति एदेहि उवदेसेहि भि. खुसङ्घरस अणुग्गहं करन्तेण किण्णुहु इथिआपरिग्गहो सुरावागविहाणं च ण दिलु । अहब कहं सव्वञो एवं ण पेक्खदि । अवस्सं एदेहि दुहबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजगाणं मच्छरेण पिडअपुत्थएसु इथिआ- सुरावाणावहागाणि पळामिहाणि ति तक्कमि । कहिणुहु अविणट्ठभूळपाठं समासादएअं । तड़ो सम्पुण्णं बुद्धवअणं लोए पआसअन्तो सङ्खोवआरं करिस्सं । (परिक्रामति ।) मासादितः । यावदिदानी राजविहारमेव गच्छामि । भोः! परमकारुणिकेन भगवता तथागतेन प्रामादषु वासः, सुविहितशय्येषु पर्यङ्केषु शयनं, पूर्वाहे भो- जनम्, अपराहे सुरसाने पानकानि, पञ्चसुगन्धोपहितं ताम्बूल, लक्ष्णवसनपरि. धानमित्येतैरुपदेशैभिक्षुसङ्घम्यानुग्रहं कुर्वता किन्नुखलु स्त्रीपरिग्रहः सुरापानवि. धानं च न दृष्टम् । अथवा कथं सर्वज्ञ एतन्न पश्यति । अवश्यमेतैर्दुष्टचु. द्धस्थविरौनरुत्साहरैम्माकं तरुणजनानां मत्सरण पिटकपुस्तकेषु स्त्रीसुरापान- विधानानि परामृष्टानीति तर्कगामि । कुत्रनुखल्वविनष्टमूलपाठं समासादये- यम् । ततः सम्पूर्ण बुद्धवचने लोके प्रकाशयन् सङ्घोपकारं करिष्यामि । 1. 'वाधिक. पाठः । १. 'वभणा' ख. पाठः। मत्तविलासप्रहसनम् । देवसोमा - (क) भअवं ! पेक्ख पेक्ख । एसो रत्त- पडो इमरिंस विरसत्थपुरिससम्पादे रामनग्गे सह इस वङ्गो उभयपक्खसञ्चारिदविट्ठी सङ्किवादविखेको तुरिअ. तुरिअं गच्छइ । कपाली-प्रिये! एवमेतत् । अपिचास्य हस्ते चीव- रान्तःप्रच्छादितं किमप्यस्तीव । देवसोमा- (ख) भअवं! तेण हि ओळम्बिअ आसा- दिअ जाणीमो। कपाली - भवति! तथा । (उपगम्य) भो भिक्षो ! तिष्ठ । शाक्यभिक्षुः-(ग)कोणुखुमं एवं भगादि। (निवृत्यावलोक्य ) अइ अयं एअंववासी दुट्ठकवाळिओ। भोदु, इमस्स सुरावि- ब्भमस्स ळक्वं ण होमि । (सत्वरं गच्छति :) कपाली-प्रिये! हन्त लब्धं कपालम् । अस्य हि मदर्शनजनितभयात् त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमु. पगम्याग्रतो रुणद्धि ।) आः धूर्त ! वेदानी गमिष्यसि । (क) भगवन् ! पश्य पश्य । एष रक्तपटोऽन्मिन् विश्वानपुरुषसम्पाते राज- मार्गे सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारितदृष्टिः शङ्कितपदविक्षेपस्त्वरितत्वरितं गच्छति । (ख) भगवन् ! तेन हि अवलम्ब्यासाद्य जानीवः । (ग) कोनुखलु मामेवं भणति । अयि अयमेकाम्रवामी दुष्टकापालिकः । भवतु , अस्य सुराविभ्रमस्य लक्ष्यं न भवाामे । १. 'ओ', २, 'अविळ', ३. 'स्वरिता ग' ख. पायः. मत्तविलासपहसनम् । शास्यभिक्षुः- (क) कवाळिआउस! मा मा एवं । किं एदं । (आत्मगतम्) अहो लळिअरूबा उवासिआ । काली-भो भिक्षो! दर्शय तावत् । यावदेतत् ते पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि । शाक्यभिक्षुः -- (ख) किं एत्थ पेक्खिदब्वं । भिक्खाभा- अगं खु एदं। कमाली - अत एवं द्रष्टुमिच्छामि । शाक्यभिक्षुः- (ग) आ, उस! मा मा एवं । पच्छण्णं खु एवं णेदव्यं । कमाली-नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्रेनोपदिष्टम् । शाक्यभि तुः --- (प) सचं एवं । कमाली-इई तत् संवृत्तसत्यम् । परमार्थसत्यं श्रोतु- मिच्छामि। शायभि पुः - () भोदु एत्तओ परिहासो । अदिक्क- माद मिक्यावळा । साहामे अहं । (प्रतिष्ठते ।) (क) का मालिका गलक! मामयम् । किमेतत् । अहाँ लालतरूपा उपा- सिका। (ख) मित्र द्रष्टव्यम् । भिक्षाभाजनं स्वत्येतत् । (ग) । , उपस.. मा मेंम् । प्रचनं खलो तन्ने तव्यम् । (घ) सत्यमेतत् । (ङ) भवत्वतावान् परिहासः । अतिकामति भिक्षावेला । साधयाम्यहम् । मचविलासपहसनम् । कपाली-आः, धूर्त! क गमिप्यसि । दीयतां मे क. पालम् । (चीवरान्तमालम्बते।) शाक्यभिक्षुः- (क) णमो बुद्धाअ । कपाली-नमः खरपटायति वक्तव्यं , येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकार बुद्ध एवाधिकः । कुतः, वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि । विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥ १२ ॥ शाक्यभिक्षुः- (ब) सन्तं पापं सन्तं पापं । कपाली--एवं सुवृत्तस्य तपस्विनः कथमित्र पापं न शाम्यति । देवसोमा- (ग) भअव ! परिस्सन्तो विअ ळक्खीअसि । ण एवं सुहोवाअसुळहं कवाळं । ता एदिणा गोसिङ्गेण सुरं पिबिअ जादबळो भविअ इमिणा सह विवादं करहि । कपाली-तथास्तु । (देवसोमा कपालिने सुरां प्रयच्छति।) कपाली-(पीत्वा) प्रिये ! त्वयापि श्रमापनोदः कर्तव्यः । देवसोमा- (घ) भव! तह । (पिबति ।) (क) नमो बुद्धाय । (ख) शान्तं पापं शान्तं पापम् । (ग) भगवन् ! परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालम् । तदेतेन गोश्रृङ्गेण सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु । (घ) भगवन् ! तथा । मत्तविलासप्रहसनम् । कपाली - अयमस्माकमपकारी । संविभागप्रधानः स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् । देवसोमा ---- (क) जं भअब आणवेदि । गह्नदु भअवं । शाक्यभिक्षुः--- (आत्मगतम् ) (ख) अहो सुहोवणदो अ- भुदओ । एत्तओ दोसो-महाजणो पेक्खिस्सदि। (प्रकाशम्) भोदि ! मा मा एवं । ण वदि अह्माणं । (सृकणी लेढि ।) देवसोमा- (ग) धंस । कुदो दे एत्तिआणि भाअधे. आणि । कपाली-प्रिये ! इयमस्थेच्छाविरोधिनी वाग् मुखप्रसे- केन स्खल(य ?)ति । शाक्यभिक्षुः-(घ) इदाणिं वि णस्थि दे करुणा । कपाली-यद्यस्ति करुणा, कथं वीतरागो भविष्यामि। शाक्यभिक्षुः---- (ङ) एवं बीदरागिणा वीदरोसेण वि होदव्वं । कपाली-वीतरोषो भाविष्यामि, यदि मे स्वकं दास्यति। (क) यद् भगवानाज्ञापयति । गृह्णातु भगवान् । (ख) अहो सुखोपनतोऽभ्युदयः । एतावान् दोषः-- महाजनो द्रक्ष्यति । भवांत! मा मैवम् । न वर्धतऽस्माकम् । (ग) ध्वंसस्व । कुतस्ते एतावन्ति भागधेयानि । (घ) इदानीमपि नास्ति ते करुणा । (ङ) एवं वीतरागिणा वीतरोषेणापि भवितव्यम् । १. 'दई अक. पा. मत्तविलासप्रहसनम् । शाक्यभिक्षुः---- (क) किं दे सों। कपाली-कपालम् । शाक्यभिक्षुः- (ख) कहं कबाळं। कपाली-कथं कपालमित्याह । अथवा युक्तमेतत् । दृष्टानि वस्तूनि महीसमुद्र- महीधरादीनि महान्ति मोहात् । अपहृवानस्य सुतः कथं त्व- मल्पं न निहोतुमलं कपालम् ॥ १३ ॥ देवसोमा -- (ग) भअवं! केवळं ळाळीयमाणो ण दइ- स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो । कपाली-प्रिये ! तथा । (आच्छेत्तुं व्याप्रियते । ) शाक्यभिक्षुः- (घ) धंस दुट्ठकवाळिअ ! । (हस्तेन नुदन् पादेन ताडयति ।) कपाली-कथं पतितोऽस्मि । (क) किं ते स्वकम् । (ख) कथं कपालम् । (ग) भगवन् ! केवलं लाल्यमानो न दास्यति । तदेतस्य हस्तादाच्छिन्द्र गच्छावः। (घ) बसस्व दुष्टकापालिक ! मचविलासपहसनम् । देवसोमा– (क) मुदो सि दासीएयुत्त ! (केशापकर्षणं रूप- यित्वा निरालम्बना पतिता ।) शाक्यभिक्षुः- (आत्मगतम् ) (ख) अघं बुद्धस्स विण्णा- णं, जेण मुण्डणं दिटुं । (प्रकाशम् ) उठेहि उडेहि उसिए ! उठेहि । (इति देवसोमामुत्थापयति ।) कपाली-~-पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षु- नामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् । शाक्यभिक्षुः- (ग) आ वुस ! मा मा एवं । धम्मो खु अह्माणं विसमपदिदाणुकम्पा । कपाली-- किमयमपि सर्वज्ञधर्मः । नन्वहं पूर्वं पति- तोऽस्मि । भवतु, किमनेन । इदानीं तब शिरःकपालं मम भिक्षाकपालं भविष्यति । . (सर्वे कलहं रूपयन्ति ।) शाक्यभिक्षुः--: (घ) दुक्खं दुक्खं । कपाली---- पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षु. नामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाक्रन्दति । भवतु, अहमप्याक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् । (क) मृतोऽसि दास्याःपुत्र! ।। (ख) अर्ह (अर्घ वा) बुद्धस्य विज्ञानं, येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ उपासिके उत्तिष्ठ । (ग) आ उपासक ! (आयुष्मन् ! वा) मा मैवम् । धर्मः खल्वस्माकं विषम पतितानुकम्पा । (घ) दुःखं दुःखम् । १. किदं । के. पाठः. मत्तविलासप्रहसनम् । (ततः प्रविशति पाशुपतः ।) पाशुपतः--- सत्यसोम! किमर्थमाक्रन्दसि। कपाली --- भो बभ्रकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति । पाशुपतः --- (आत्मगतम्) यदस्माभिरनुष्ठेयं , गन्धर्वैः तद- नुष्ठितम् । एष दुरात्मा, तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया। आकर्षति काकण्या बहुशो गां ग्रासमुष्टयेव ॥ १४॥ तदिदानी प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि। (प्रकाशम् ) भो नागसेन ! अप्येवमेतद् , यथायमाह । शाक्यभिक्षुः - (क) भअव ! तुवं पि एवं भणासि । अ. दिण्णादाणा बेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खा- पदं । अब्बम्हचय्या वेरमणं सिक्खापदं । पाणादिपादा वेरमः णं सिक्खापदं । अकाळभोअणा वेरमणं सिक्खापदं । अह्मा- अं बुद्धधम्म सरणं गच्छामि । पाशुपतः--- सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् । (क) भगवन् ! त्वमप्येवं भणसि । अदत्तादानाद्विरमणं शिक्षापदम् । मृषावादाद्विरमणं शिक्षापदम् । अब्रह्मचर्याद्विरमण शिक्षापदम् । प्राणातिपा- ताद्विरमणं शिक्षापदम् । अकालभोजनाद्विरमणं शिक्षापदम् । अस्माकं बुद्ध- धर्मं शरणं गच्छामि । १. 'म्हजच', २. 'दं। भोअणकाळत्थेरावे' क. पाठः. मत्तविलासप्रहसनम् । कपाली-नन्वस्माकमनृतं न वक्तव्यमिति समयः । पाशुपतः- उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः । शाक्यभिक्षुः– (क) बुद्धवअणं पमाणीकरअन्तो भि- क्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदु । पाशुपतः-- नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धि- गस्ति । कपाली--प्रत्यक्षे हेतुवचनं निरर्थकम् । पाशुपतः-- कथं प्रत्यक्षमेव । देवसोमा- (ख) भअव ! एदस्स हत्थे चीवरान्तप्प- च्छादिदं कवाळं । पाशुपतः - श्रुतं भवता। शाक्यभिक्षुः- (ग) भो भअवं! एदं कवाळं ण पर- केरअं। कपाली --~-तेन हि दर्शय तावत् । शाक्यभिक्षुः - (घ) तह । (दर्शयति ।। कपाली-पश्यन्तु पश्यन्तु माहेश्वराः कापालिकेन कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च । (क) बुद्धवचनं प्रमाणीकुर्वन् भिक्षुः सुराभाजनं गृह्णातीति कोऽत्र हेतुः। (ख) भगवन् ! एतस्य हस्ते चीवरान्तःप्रच्छादितं कपालम् । (ग) भो भगवन् ! एतत् कपालं न परकीयम् । (घ) तथा । १. कपालिने कक. पाठः. मत्तविलासपहसनन् । २१ शाक्यभिक्षुः--- (क) अदिण्णादाणा वेरमणं सिक्खा. पदं *(इति पुनस्तदेव पठति ।) __ (उभौ नृत्यतः।) शाक्यभिक्षुः- (ख) हद्धि । लज्जिदव्वे काळे णच्चदि। कपाली--आः को नृत्यति । (सर्वतो विलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु । शाक्यभिक्षुः-- (ग) भअवं! केण कारणेण एवं ण ळ- क्खीअदि । भो! आचिक्खदु भअवं । इमस्स अअं वण्णो । कपाली-- किमत्र वक्तव्यम् । ननु मया दृष्टम् । काका- दपि कृष्णमिदं कपालम्। शाक्यभिक्षुः- (घ) तेण हि एवं ममकेरअं ति सों एव अब्भुवगदं। कपाली- सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपु- ण्यम् । पश्य, (क) अदत्तादानाद्विरमणं मुनिशिक्षापदम् । (ख) हा धिक् । लजितव्ये काले नृत्यति । (ग) भगवन् ! केन कारणेनैतन्न लक्ष्यते । भोः ! आचष्टां भगवान् । अस्यायं वर्णः। (घ) तेन वेतन्मदीयमिति स्वयमेवाभ्युपगतम् । 1. 'भवं' ख. पाठः. -.-..-..--..--...-

  • पूर्वोक्त सर्व पुनलिखितं क. ग्रन्थे, पुनरित्यादि न लिखितं च । . मत्तविलासप्रहसनम

यदेतदासीत् प्रथमं स्वभावतो मृणालभङ्गच्छविचोरमम्बरम् । ननु त्वया नीतमचिन्त्यकर्मणा तदेव बालारुणरागताम्रताम् ॥१५॥ अपिच, आवृतं बहिरन्तश्च कषायेणानपायिना । त्वां प्राप्तं स्यात् कथं नाम कपालमषायितम्॥१६॥ देवसोमा- (क) हा हदह्मि मन्दभाआ । सबळक्ख- णसम्पण्णदाए कमळासणसीसकवाळाणुभावस्स पुण्णमासिसो- मदंसणस्स णिच्चसुरागन्धिणो एदस्स मळिणपडसंसग्गेण इअ ईदिसी अवस्था संवुत्ता । (इति रोदिति ।) कपाली--प्रिये! अलमलं सन्तापेन । पुनः शुचिर्भ- विष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्म- षाणि भवन्ति । तथाहि - आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः। नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस्तनूजं पुरा हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥ १७ ॥ भो बभ्रकल्प ! नन्वेवमेतत् । (क) हा हतास्मि मन्दभागा। सर्वलक्षणसम्पन्नतया कमलासनशीर्षकपा- लानुभावस्य पौर्णमासीसोमदर्शनम्य नित्यसुरागन्धिन एतस्य मलिनपटसंसर्गे- णेयमीदृश्यवस्था संवृत्ता। मत्तविलासप्रहसनम् । . पाशुपतः- आगमानुगतमभिहितम् । शाक्यभिक्षुः – (क) भो ! वण्णो दाव मए किदो। इमस्स सण्ठाणपरिमाणं केण णिम्मिदं । कपाली - ननु मायासन्तानसम्भवाः खलु भवन्तः । शाक्यभिक्षुः --- (ख) केत्तिअं बेळं भवन्तं अक्कोसामि । गण्हदु भअवं । कपाली-नूनमेवं बुद्धेनापि दानपारमिता पूरिता। . शाक्यभिक्षुः---- (ग) एवं गदे किं दाणिं मे सरणं । कपाली-ननु बुद्धधर्मसङ्घाः । पाशुपतः- नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः । देवसोमा-(घ) भअवं! जइ एवं, णमो कवाळरस । पाशुपतः- कोऽभिप्रायः। देवसोमा- (ङ) एसो उण अणेअविहारभोअसम- धिगदवित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि (क) भोः ! वर्णस्तावन्मया कृतः । अस्य संस्थानपरिमाणं केन निर्मितम् । (ख) कियती वेलां भवन्तमाक्रोशामि । गृह्णातु भगवान् । (ग) एवं गते किमिदानी मे शरणम् । (घ) भगवन् ! यद्येवं, नमः कपालाय | (ङ) एष पुनरनेकविहारभोगसमधिगतवित्तसञ्चयो यथाकाममधिकरणका- रुणिकानां मुखानि पूरयितुं पारयति । अस्माकं पुनरहि चर्मभूतिमात्रविभमत्तविलासपहसनम् । पूरेदं पारेदि । अमाअं पुण अहिचम्मभूदिमत्तविभवस्स दरि- द्दकवाळिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिढुं। पाशुपतः-नैतदेवम् । अजिङ्गैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः। तैधर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥ कपाली - कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति। शाक्यभिक्षुः----- (क) भो भअवं! तुमं दाव अग्गदो हो(दु ? हि)। पाशुपतः --- बाढेम् । (सर्वे परिक्रामन्ति । (ततः प्रविशत्युन्मत्तकः ।) उन्मत्तकः --- (ख) एशे एशे दुट्ठकुक्कुळे । शुळ्ळमंशगभं कवाळं गहिअ धावशि । दाशीएपुत्त ! कहिं गमिश्शिशि । एशे दाणिं कवाळं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावइ । (दिशो विलोक्य ।) इमिणा पत्थळेण दन्ताणि शे भंजिश्शं । कहं कवाळं उज्झिअ पळाशि । उम्मत्ते दुट्ठकु- . .-...- वस्य दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् । (क) भो भगवन् ! त्वं तावदग्रतो भव । (ख) एष एष दुष्टकुकुरः। शूल्यमांसगर्भ कपालं गृहीत्वा धावसि । दास्याः- पुत्र ! कुत्र गमिष्यसि । एष इदानी कपालं निक्षिप्य मां खादितुकामोऽभिमु. खमाधावति । अनेन प्रस्तरेण दन्तानस्य भक्ष्यामि । कथं कपालमुज्झित्वा पला- --- --- - 1. 'य', २. 'दम् ।प्रथमः इल्मः ।' ख पाठः. मत्तविलासप्रहसनम् । __ २५ क्कुळे ईदिशेण णाम शूळत्तणेण मए शह वि लोशं कळे. शि । गामशूगळं आळुहिअ गगणमुप्पदिदेण शागळेण पडि- भञ्जिअ लावणं बळा गहीदे शकशुदे तिमिङ्गळे । अइ एळण्डलुक्ख! किं भणाशि- अळिअं अळिअं त्ति । णं एशे मुशळशमविशाळळम्बहत्थे दद्दळे मे शक्खी । अहव तेळळोकविदिअपळक्कमश्श शक्खिणा किं कय्यं । एवं क- ळिशं । कुकिळखादिअशेशं मंशखप्डं खादिश्शं । (खादन् प्रान्तः ।) हा हा माळिदो म्हि बप्फेण माळिदो म्हि । (रुदित्वा विलोक्य) के एशे मं ताळेशि । (विलोक्य) दुट्ठदाळआ! जश्श वा कश्श वा भाउणेओ खु अहं , भीमशेणश्श घटुक्कओ विअ । अविअ शुणाथ , गहीदशूळा बहुवेशधाळिणो शदं पिशाआ उदळे वहन्ति मे । शदं च वग्घाण णिशग्गभीशणं मुहेण मुञ्चामि अहं महोळए ॥ १९ ॥ यसे । उन्मत्तो दुष्टकुकुर ईदृशेन नाम शूरत्वेन मया सहापि रोषं करोषि । प्रामस्करमारुह्य गगनमुत्पतितेन सागरेण प्रभज्य रावणं बलाद् गृहीतः शक्रसुतस्तिमिशिलः । अयि एरण्डवृक्ष ! किं भणसि --- अलीकमलीकमिति । नन्वेष मुसलसमविशाललम्बहस्तो दर्दुरो मे साक्षी । अथवा त्रैलोक्यविदित- पराक्रमस्य साक्षिणा किं कार्यम् । एवं करिष्यामि । कुकुरखादितशेषं मांसखण्डं खादिष्यामि । हा हा मारितोऽस्मि बाप्पेण मारितोऽस्मि । क एष मां ता. डयसि । दुष्टदारकाः ! यस्य वा कस्य वा भागिनेयः खरवहं, भीमसेनस्य घटो- स्कच इव । अपिच शृणुथ, गृहीतशूला बहुवेषधारिणः __ शतं पिशाचा उदरे वहन्ति मे । शतं च व्याघ्राणां निसर्गभीषणं मुखेन मुञ्चाम्यहं महोरगान् ।॥ १९ ॥ २६ मत्तविलासप्रहसनम् । कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दाळअभट्टा । इमश्श मंशखण्डश्श काळणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणं आआळिए शूळनन्दी । जाव णं उवशप्पामि । (इति धावति ।) पाशुपतः --- अये ! अयमुन्मत्तकः इत एवाभिवर्तते। य एषः, निर्विष्टोझितचित्रचीवरधरो रूक्षैनितान्ताकुलैः केशैरुद्धतभस्मपांसुनिचयनिर्माल्यमालाकुलैः । उच्छिष्टाशनलोलुपैबलिभुजामन्बास्यमानो गणै- भूयान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥ उन्मत्तकः --- (क) जाव णं उवशप्पामि । (उपसृत्य) महाशाहुणो चण्डाळकुक्कुळश्श शआशादो अहिअदं एवं कवाळं पडिगण्हदु भअवं । पाशुपतः ---- (सदृष्टिक्षेपम् ) पात्रे प्रतिपाद्यताम् । उन्मत्तकः- (ख) महाबम्हण ! कळिअदु पशादो । शाक्यभिक्षुः ----- (ग) एसो महापासुवदो एदस्स जोग्गो । कथं मां बाधन्ते । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः । अस्य मांसखण्डस्य कारणाद् मा मां बाधध्वम् । एष खत्वस्माकमाचार्यः शूरनन्दी । यावदेनमुप- सामि । (क) यावदेनमुपसामि । महासाधोश्चण्डालकुक्कुरस्य सकाशादधिगतमे- तत् कपालं प्रतिगृह्णातु भगवान् । (ख) महाब्राह्मण ! क्रियतां प्रसादः । (ग) एष महापाशुपत एतस्य योग्यः । मत्तविलासप्रहसनम् । उन्मत्तकः -- (कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणी- कृत्य पादयोः पतित्वा) (क) महादेव! कळीअदु पशादो । एशो दे अञ्जळी। कपाली--- अस्मदीयं कपालम् । देवसोमा ---- (ख) एवं एदं। कपाली-भगवत्प्रसादात् पुनरपि कपाली संवृत्तः । (ग्रहीतुमिच्छति।) उन्मत्तकः ---. (ग) दाशीएपुत्त ! विशं खादेहि । (कपा- लमाच्छिद्य गच्छति ।) कपाली-- (अनुसृत्य) एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्यतां भवन्तौ । उभौ-- (घ) होदु । अम्हे दे सहाआ होम । (सर्वे रुन्धन्ति ।। कपाली-भोः ! तिष्ठ तिष्ठ । उन्मत्तकः- (ङ) किश्श में लुन्धन्ति । कपाली- अस्मदीयं कपालं दत्त्वा गम्यताम् । उन्मत्तकः- (च) मूढ ! किं ण पेक्खशि, शुवण्णभाअ- णं खु एदं। -.--. -.-.-.--- ..-: .-- -- --- (क) महादेव ! क्रियतां प्रसादः । एष तेऽस्जलिः । (ख) एवमेतत् । (ग) दास्याःपुत्र ! विषं स्वाद । (घ) भवतु । आवां ते सहायौ भवावः । (ङ) कस्मान्मां रुन्धन्ति । (च) मूढः किं न पश्यसि, सुवर्णभाजनं खल्वेतत् । २८ मत्तविलासप्रहसनम् । कपाली --- एवंविधं सुवर्णभाजनं केन कृतम् । उन्मत्तकः -- (क) एदिणा शुवण्णवण्णपडावुदेण शुव. ण्णकारावुत्तएण किदं त्ति भवअं! शुवण्णभाअणं न्ति भणामि । शाक्यभिक्षुः – (ख) किं भणासि । उन्मत्तकः - (ग) शुवण्णभाअणं त्ति । शाक्यभिक्षुः-- (घ) किमअं उम्मत्तओ। उन्मत्तकः --- (ङ) उम्मत्तओ त्ति बहुशो एवं शदं शु- णोमि । एदं गहिअ दळिशेहि उम्मत्तअं । (कपालिने कपालं प्रयच्छति । ) कपाली- (कपाल गृहीत्वा ) अयमिदानी कुड्येनान्त. हितः । शीघ्रमनुगम्यताम् । उन्मत्तकः--- (च) ळद्धप्पशादे मि । (निष्क्रान्तो जवेनोन्मत्तकः ।) . शाक्यभिक्षुः- (छ) अहो. अच्छरिअं। परवक्खस्स लाभेण अहं परितुट्ठो ह्मि । (क) एतेन सुवर्णवर्णपटावृतेन वर्णकारावुत्तेन कृतमिति भगवन् ! सुव. भाजनमिति भणामि । (ख) किं भणसि। (ग) सुवर्णभाजनमिति । (घ) किम यमुन्मत्तकः । () उन्मत्तक इति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयो- न्मत्तकम् । (च) लब्धप्रसादोऽस्मि । (छ) अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टोऽस्मि । . . .- -- - मत्तविलासपहसनम् । कपाली- (कपालं परिप्वज्य) चिरं मया चरितमखण्डितं तपो ___ महेश्वरे भगवति भक्तिरस्ति मे। तिरोहितः स तु सहसा सुखेन न- स्त्वमद्य यत् कुशलि कपाल! दृश्यसे ॥ २१ ॥ देवसोमा-(क) भअवं ! चन्दसमागदं विअ पओसं भअवन्तं पेक्वन्तीए अज्ज आणन्ददी विअ मे दिट्ठी । पाशुपतः - दिष्टया भवान् वर्धते। कपाली-नन्त्रभ्युदयो भवतामेव । पाशुपतः- (आत्मगतम् ) सत्यमेतत् -- नास्त्यदोषवतां भयमिति, यदयमद्य भिक्षुर्व्याघ्रमुखात् परिभ्रष्टः। (प्रकाशम् ) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो धूमवेला प्रतिपालयामि ।अयं चायप्रभृति, विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः। 'परस्परप्रीतिकरः किरातार्जुनयोरिव ॥ २२ ॥ (निष्क्रान्तः पाशुपतः ।) कपाली-भो नागसेन! यन्मयापराधः कृतः, तत् प्रसन्नहृदयं त्वामिच्छामि । (क) भगवन् ! चन्द्रसमागतमिव प्रदोषं भगवन्तं पश्यन्त्या अद्यानन्दतीव मे दृष्टिः । 1. 'व' क. पाठ:. भत्तविलासप्रहसनम् । शाक्यभिक्षुः- (क) किं एदं पि अब्भत्थणीअं । किं दे पिअं करोमि । कपाली-- यदि मे भगवान् प्रसन्नः, किमतः परमह- मिच्छामि। शाक्यभिक्षुः -- (ख) गच्छामि दाव अहं । कपाली- गच्छतु भवान् पुनदर्शनाय । शाक्याभक्षुः-- (ग) तह होदु । (निष्क्रान्तः। ) कपाली--प्रिये देवसोमे! गच्छावस्तावत्। (भरतवाक्यम् ) शश्वद् भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु । उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापदाचन्द्रतारं राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः ॥ २३' (निष्क्रान्तौ ।) मत्तविलासप्रहसनं समाप्तम् । शुभं भूयात् । (क) किमेतदप्यभ्यर्थनीयम् । किं ते प्रियं करोमि । (ख) गच्छामि तावदहम् । (ग) तथा भवतु ।