मत्तविलासप्रहासनम्
पल्लववंशभूपतिना महेन्द्रवर्मणा विरचतं नाटकम् । (प्रविश्य)नटी :(सरोषम्)आर्य!किम् चिरस्य कालस्य यौवनगुणभरमत्तविलासप्रहासनम् द्रष्टुम् आगतः असि? सुत्रधरः :यथः भवति । नटी : तयैव तावद् दर्शय या त्वया रमयितव्या । सुत्रधरः : त्वया सह दर्शयिष्यामिति । नटी : किम् तयैव नियुक्तः असि । सूत्रधरः : अलम् प्रियाख्यानिकपुनरुक्तेन । पश्य । उद्भिन्नरोमाञ्च कपोल रेखम् अविर्मयुखस्मितम् अञ्चितभ्रु । लब्ध्वा प्रिये दुर्लभम् आननम् ते भूयोsपि किम् प्रार्थयितव्यम् अस्ति ॥ नटी :किम् दाणि अय्येन पज्जिदव्यम् ? सूत्रधरः : ननु त्वयैवभिहितम् मत्तविलासप्रहासनम् इति । नटी: सूत्रधरः : भवति, श्रुयताम् । पल्लव-कुल-धरणी-मण्डल-कुल-पर्वतस्य सर्व-नय-विजित-समस्त-सामन्त-मण्डलस्य अखण्ड-सम-पराक्रम्-श्रियः श्रिमहिमानुरुप-दान-विभूति-परिभूत-राजराजस्य श्रिसिंहविष्णुवर्मणः पुत्रः शत्रु-सद्-वर्ग-निग्रह-परः पर-हित-परतन्त्रतया महा-भूत-सधर्मा महाराजः श्रिमहेन्द्रविक्रमवर्मा नाम । अपि च - प्रज्ञादानदयानुभावधृतयः कान्तिकलाकौशलम् सत्यं शौर्यम् अमायता विनयम् इत्येवम् प्रकारगुणाः। अप्राप्तस्थितयः समेत्य शरणम् याता यम् एकम् कलौ कल्पन्ते जगदादिम् आदिपुरुषम् सर्गप्रभेदा इव ॥ किम् च— आकरे सूक्ति-रत्नानाम् यस्मिन् गुणम्-गरीयसाम् । अर्घन्ति बहुसूक्तानि सताम् सारलघूनि अपि ॥ (निष्क्रान्तौ)