मत्स्यपुराणम्/विषयानुक्रमणिका

अथ श्रीमन्मत्स्यमहापुराणानुक्रमणिका प्रारभ्यत ।
नत्वा श्रीशं भारतीशं गुरून्वै केशवाभिधः ।
कुर्वेऽनुक्रमणीं मत्स्यप्रोक्तार्थानुप्रकाशिकाम् ।।१।।

१ -मङ्गलाचरणम् । नैमिषारण्यवासिनः शौनकादयो दीर्घसत्रान्ते पुराणीषु धर्म्यासु कथासु प्रवृत्तासु भगवतो मत्स्यरूपधारणे किं निमित्तमिति सूतं पौराणिकं प्रति पप्रच्छुः । तत्र सूतो भगवतो मत्स्यरूपधारणकारणं मत्स्यमनुमेलनं च शौनकादीन् प्रति कथितवान् । श्लोकाः १-३२.
२-भगवतादिष्टो मनुर्नावं भगवतः शृङ्गे भुजगरज्ज्वा संयम्य जनार्दनं प्रणम्य नाव्यास्थिता अभूतसंप्लवान्ते मत्सरूपिणं केशवमुत्पत्तिप्रलयादि पप्रच्छ । तत्र भगवान् नारायणाद्ब्रह्मा- ण्डोत्पत्तिं तद्दलनं च कथितवान् । श्लो० १- ३६
३-मात्स्योक्तौ ब्रह्मणः सकाशाद्वेदादिप्राहुर्भावस्ततो मरीच्यादिदशमानसानां नारदादिदश- शारीराणां चोत्पत्तिः । ततोऽग्रे शतरूपारूपालोकनेच्छया ब्रह्मणः पञ्चमुखानां प्रादुः -र्भाव इत्यादिकथनम्। श्लो० १ः४७ ।
४ आदिसृष्टिविवरणम्। तत्र स्वसुतोपगमाल्लज्जितो ब्रह्मा कुसुमायुधं त्वामचिरादेव रुद्रो भस्मीकरिष्यतीति शशाप । कामप्रार्थनया संतुष्टो ब्रह्मा पुनश्चोत्पत्तौ कामाय वरान् दत्तवान् । ततो मनोः शतरूपायां वामदेवादिसृष्टिः । वामदेवाद्ब्राह्मणाद्युत्पत्तिः । पुनश्च तपश्चरतो मनोरनन्तीनामपत्न्यां प्रियव्रतोत्तानपादौ, उत्तानपादात्सूनृतायां ध्रुवः । त्रीणि वर्षसहस्राणि तपश्चरतो ध्रुवस्य ब्रह्मणोऽचलस्थानत्वरूपवरप्राप्तिः । दशप्रचेतोभ्यः सोमकन्यायां मारिषायां दक्षोत्पत्तिः। दक्षस्याप्यशीतिकोटयः प्रजा आसन्नित्यादिकथनम् । श्लो० १-५५.
५-देवादिसृष्टिविवरणम् । तत्र दक्षाः पाञ्चजन्यामुत्पन्नानां सहस्रपुत्राणां हर्यश्वानां नारदोपदे- शतो महाप्रयाणं दृष्ट्वा पुनर्वैरिण्यां पुत्राणां सहस्रं शबलनामकमसृजत् । तेऽपि पूर्ववदेव नारदोपदेशतो भ्रातृपथा जग्मुः । ततस्तस्यामेव षष्टिं कन्या दक्ष उत्पाद्य धर्मादिभ्यो दत्त- वान् । तासु तेभ्यः सर्वेषां देवयोनीनामुत्पत्तिरित्यादिकथनम् । श्लो० १-३२.
६-कश्यपान्वयवर्णनम् । षो० १-४७. ।
७-दितिपुत्राणां मरुतामुत्पत्तिः । तत्र सरस्वत्यास्तटे स्यमन्तपञ्चके हतपुत्रा दितिरुग्रं तपश्च- रन्ती पुत्रप्राप्त्यर्थं वसिष्ठाद्युक्तं मदनद्वादशीव्रतं यथोक्तविधिना चचार । व्रतमाहात्म्यात्कश्यपो भगवान् तामुपागत्य वरैश्छन्दयामास । तत्र दितिरिन्द्रहन्तारं सर्वामरनिषूदनं पुत्रं वृतवती । कश्यपोऽपि तस्यै नियमानुक्त्वा तथा वरं दत्तवान् । कश्यपाद्दितेर्वरप्रदानं श्रुत्वेन्द्रो मातृसेवाव्याजेन समीपस्यश्छिद्रान्तरं प्रेप्सुर्नियमविकलां निद्रितां दितिमवलोक्य तदुदरे प्रविश्य वज्रेण गर्भं सप्तधा पुनश्च सप्तधा चक्रे तथापि कृष्णपूजनमाहात्म्यान्न मृता अवध्या एवैते इति निश्चित्य प्रबुद्धां मातरं प्रसाद्य मा रुदतेत्युक्ता इति मरुन्नामानो मखभागिनो भवन्त्वित्युक्त्वा दितिं विमानमारोप्प मरुद्गणसहितो दिवमगमदिति कथनम् । श्लो० १-६५.
८-आधिपत्याभिषेचनम् । तत्र ब्रह्मा धरित्र्यां सकलाधिराज्ये पृथुमोषधीनां यज्ञव्रततपसां नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च चन्द्रमपां वरुणं धनानां कुबेरं रवीणां विष्णुं वसूनामग्निं प्रजापतीनां दक्षं मरुतां शक्रं दैत्यदानवानां प्रह्लादं पितॄणां यमं पिशाचादीनां शूलपाणिं गिरीणां हिमवन्तं सरिदादीनां समुद्रं गन्धर्वादीनां चित्ररथं नागानां वासुकिं सर्पाणां तक्षकं दिग्गजानामैरावतं सुपर्णं पक्षिणामश्वानामुच्चैःश्रवसं सिंहं मृगाणां वृषभं गवां सर्ववनस्पतीनां वृक्षमधिपं चकार । पूर्वादिचतुर्दिक्षु च क्रमेण सुधर्मशंखपदकेतुमद्धिरण्यरोम्णोऽधिपांश्चक्रे इति कथनम्। श्लो० १-१२ ।
९-मन्वन्तरानुकीर्तनम् । तत्र तत्तन्मन्वन्तरस्यदेवतर्षिप्रतिसर्गकर्तृतत्पुत्राणां नामनिर्देशनम् । श्लो- १-३९.
१०-वैन्यचरितम् । तत्रांगात्प्रजापतेर्मृत्युकन्यायां सुनीथायामुत्पन्नस्य वेनस्याधर्मनिरतस्य सतो धर्माचारस्य सिध्यर्थं महर्षिभिरनुनीतोऽपि यदा धर्माचरणेऽनुज्ञां न दत्तवांस्तदा शापेन तं मारयित्वाऽराजकभयार्दिता ब्राह्मणा बलात्तद्देहं ममन्थुः । मथ्यमानात्तत्कायान्मातुरंशेन म्लेच्छजातयः कृष्णाञ्जनचयप्रमा निपेतुः । पितुरंशेन च दक्षिणहस्तात्सधनुः सशरो गदी दिव्यतेजोमयवपुः पृथोरेव यत्नात्पृथुनामकः पुरुषोऽजायत । स विप्रैरभिषिक्तोऽपि सुदारुणं तपः कृत्वा विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत् । निःस्वाध्यायवषट्कारं निर्धर्मं भूतलं वीक्ष्य कोपाद्दग्धुमेवोद्यतः पृथुर्भीतां गोरूपमास्थाय पलायितुमुद्यतां भुवमवलोक्य दीप्तशरासनः पृष्ठतोऽनुगत्यैकदेशे स्थित्वा किं करोमीति ब्रुवतीं स्वायंभुवं मनुं वत्सं कृत्वा सर्वस्य चराचरस्य जगत ईप्सितमन्नं स्वके पाणौ दुदो- हित्यादिकथनम् । श्लो० १-३५.
११-सोमसूर्यवंशवर्णने बुधसंगमवृत्तान्तः । तत्र विवस्वतो रैवतसुतायां राज्ञ्यां रेवतः प्रभायां प्रभातं त्वाष्ट्र्यां संज्ञायां मनुर्यमो यमुना च यमलौ बभूवुः ततः संज्ञा विवस्वतस्तेजोमयं रूपमसहन्ती स्वशरीरात्स्वसमानां छायानाम्नीं नारीमुत्पाद्य तत्सविधे स्थापयित्वाऽन्यत्र गता सूर्योऽपि संज्ञेयमिति मत्वाऽऽदरात्तां कामयामास । स तस्यां च संवर्णत्वात्सावर्णिं मनुं शनिं तपतीं विष्टिं च जनयामास । ततश्छायायमयोः परस्परं शापदानं तच्छमनं च । पश्चाच्छायेयमिति ज्ञात्वा त्वष्टृमुखात्संज्ञा वडवारूपेण मत्समीपे आगता मया निवारिता मरुदेशे वडवारूपेणैव स्थितिं श्रुत्वा कामार्तः स्वयमप्यश्वरूपेण तत्र गत्वा तन्मुखे एव कामयामास । संज्ञा स्वयं पर इति शङ्कया नासापुटाभ्यां तद्वीर्यं बहिरुत्सृष्टवती । ततस्तदेतसोऽश्विनौ जातौ । विवस्वतमनोरिक्ष्वाक्वाकादयो दश पुत्रा आसंस्तत्रेलो दिग्जयसिद्ध्यर्थं सर्वां महीं भ्रमन् शरवणं नाम शंभोरुपवनं गतः पुरादत्तशिवशापेन सपरिवारः स्त्रीत्वमाप्तवान् । सेला नारी वने भ्रमन्ती सोमपुत्रेण बुधेन दृष्टा कामिता च । सापि रूपमोहिता तेन सममतिकालं रेम इति कथनम् । श्लो० १-६५.
१२-राजानमन्विषन्तो भ्रातरो बुधाश्रमागताश्चन्द्रप्रभं वाजिनं स्त्रीत्वं प्राप्तं दृष्ट्वा वसिष्ठमुखात्तत्कारणं श्रुत्वा शिवमाराधयामासुः । भगवाञ्छिवोपि तानिक्ष्वाकोरश्वमेधपुण्यमात्राभ्पां दत्तं चेत्सः पुनः किंपुरुषो भविष्यतीति कथितवान् । तैरपि तया कृतं तेनेळः किंपुरुषोऽभवत् । मासमेकं पुमान् मासमेकं च स्त्री भूत्वा बुधस्य भवने तिष्ठन्निलो गर्भधरोऽभवत् । तत्र पुरूरवाश्चन्द्रवंशवर्धनंनामोऽभवत् । इळः किंपुरुषत्वे सुद्युम्न इत्यु च्यते । तस्मादुत्कलादयस्त्रयः पुत्रा अभवन् । स पुरूरवसं प्रतिष्ठाने ऽभिषिच्येळावृतं भोक्तुं जगाम । इत ऊर्ध्वमिक्ष्वाक्वादिनवार्कवंशवर्धनानामनुकीर्त्तनम् । श्लो ० १-५७.
१३ वैराजपितृवंशवर्णनम् । तत्र स्वर्गे त्रयोऽमूर्तयः पितृगणाश्चत्वारश्च मूर्तय एतेषां माना- सीनाम्न्यां कन्यायां हिमवतो मैनाकः क्रौञ्चश्च द्वौ पुत्रौ मेनायां चोमैकपर्णाऽपर्णा चेति तिस्रः कन्या योगवत्यः क्रमेण रुद्रसितजैगीषव्याणां पतयोऽभवन्निति कथनम् । ततो दक्षयज्ञे दक्षकन्या सती समाहूतेषु देवेषु स्वभर्तारं शंकरमनाहूतं दृष्ट्वा किमर्थं मे भर्ता नाभिमन्त्रित इति तया देव्या पृष्टो दक्ष उपसंहारकृत्वादमंगलभागयं रुद्रो यज्ञेष्वयोग्य इत्युत्तरितवान् । तच्छ्रुत्वा कोपात्तऽतदुद्भवं देहं दिधक्षन्तीं दशानां पितॄणां भवानेकः पुत्रो भविता, क्षत्रियत्वेऽश्वमेधे रुद्रात्त्वं नाशमेष्यसीति पितरं शप्त्वा योगमास्थाय स्वतेजसाऽऽत्मानं दहन्तीं दक्ष उपगम्य दुःखितः किमेतदित्यब्रवीत् । प्रसादं कुरु सर्वज्ञे न मां त्यक्तुमिहार्हसीति दक्षेण प्रार्थिता सती मे यदारब्धं तत्कार्यमेव मया किंतु त्वं मर्त्ये शूलिना हतयज्ञः प्रसादे ममान्तिके तपश्चर । भवान्दशानामंगजः प्रजापतिर्भविता, मदंशेनांगनाषष्टिस्त्वदंगजा भविष्यन्ति । मत्सन्निधौ तपः कुर्वता त्वया वाराणस्याद्यष्टोत्तरशतस्थानेषु विशालाक्ष्याद्यष्टोत्तरशतनाम्नो मद्विभूतयो द्रष्टव्यास्तेन त्वमुत्तमं योगमवाप्स्यसीति दक्षं प्रति कथितवती। तत्राष्टोत्तरशतगौरीनामकीर्तनम् १-६४.
१४-अग्निश्वात्तपितृवंशवर्णनम् । तत्रामावास्योत्पत्तिः । पितॄणामच्छोदा नाम कन्या दिव्यवर्षसहस्रकं तपश्चरन्ती तपसा तुष्टाः पितरो वरदानार्थमागता इति ज्ञात्वा कुसुमायुधपीडिता तन्मध्येऽमावसुं पितरं संगार्थं कामितवती । व्यभिचारेण योगभ्रष्टा कज्जिताऽधोमुखी पितॄन्प्रार्थयामास । प्रार्थिताः पितरः पितॄणां व्यतिक्रमान्मर्त्ये त्वं राज्ञो वसोः कन्या भूत्वा पराशरवीर्येण बादरायणनामकमेकं पुत्रमवाप्स्यसि । स एकं वेदं बहुधा विभजिष्यति । पौरवस्य च समुद्रांशस्य शन्तनोर्विचित्रवीयश्चित्रांगदश्च द्वौ पुत्रौ क्षेत्रजा उत्पाद्य प्रौष्ठपद्यष्टकारूपा पितृलोके सत्यवतीनाम्ना च मर्त्यलोके प्रसिद्धा भविष्यसीत्यादिवरान्ददुरिति कथनम् । श्लो० १-२१.
१५.-बर्हिषत्पितृवंशवर्णनम् । तत्रैतेषां पीवरी नाम कन्या तपः कुर्वती तपसा प्रसन्नं वरदातारं भगवन्तं दृष्ट्वा योगवन्तं सुरूपं विजितेन्द्रियं भर्तारं वृतवती । तदा भगवान् व्यासपुत्रः शुको भविता स योगाचार्यस्ते भर्ता मविष्यति । तस्मात्ते कृत्वी नाम योगिनी पाञ्चालाधिपतेर्भार्या ब्रह्मदत्तस्य जननी कृष्णो गौरः प्रभुः शंभुरेते सुताश्च भविष्यन्ति ।। तानुत्पाद्य पुनर्योगात्प्तवरा मोक्षमेष्यति तस्यै वरं दत्तवान् । मार्तण्डमण्डले मरीचिगर्भा लोका यत्र हविष्मन्तो नाम राज्ञां पितरः सन्ति । येषां च क्षत्रियपितॄणां यशोदा नाम मानसी कन्या पाञ्चजनस्यांशुमतः पत्नी दिलीपजननी भगीरथपितामही विश्रुताऽऽस्त इत्यादि पित्रवंशानुकीर्तनम् । श्लो० १-४३.
१६-श्राद्धकल्पः । तत्र पितृवंशानुवर्णनं श्रुत्वा मनुः कस्मिन् दिने कथं कदा श्राद्धभेदं . श्राद्धे भोजनीयाभोजनीयविप्राश्च केशवं प्रति पप्रच्छ । श्राद्धदिने मात्स्योक्तौ श्राद्धकर्तृभोक्तॄणां कर्तव्यनियमादिकथनम् । श्लो०१-५८.
१७-साधारणाभ्युदयकीर्तनम् । तद्दिनकथनं श्राद्धप्रकारश्च वर्णितः । तथा च अन्नेन कस्य.कस्य मांसेन च कियत्कालपर्यन्तं तृप्यन्ति तद्वर्णनम् । तथा च श्राद्धभोजनकाले को वेदभागः पठितव्यस्तद्वर्णनम् । अनुपनीतानामपि एताच्छाद्धकर्माधिकारः । अस्मिन् श्राद्धे प्रथमं मातृपूजनमनन्तरं पितृपूजनं तथा च तिलस्थाने यवाः कार्याः । शूद्राणामपि नमश्शब्देनाधिकार इति कथनम् । श्लो०१-७१.
१८-सपिण्डीकरणकल्पः । तत्र चतुर्वर्णानामाशौचकथनम् । तथा च प्रथमदिनादारभ्य सपिण्डीकरणपर्यन्तप्रकारकथनम् । तथा च लेपभाक्त्वसापिण्ड्यकथनम् । श्लो० १-२९.
१९-श्राहकल्पे फलानुगमनकथनम् । तत्र हव्यकव्यानि कथं देयानि । अत्र मृत्युलोके अग्नौ वा ब्राह्मणादिषु दत्तानि हव्यकव्यानि कः पितॄन् प्रापयति तत्कथनम् । तथा च श्राद्धकर्तॄणां फलकथनम् । श्लो०-१-१२.
२०-श्राद्धमाहात्म्यप्रसङ्गे पिपीलिकावहासवृत्तान्तः । तत्र पञ्चजन्मभिः कौशिकानां स्वसृपकोधनहिंस्रपिशुनकविवाग्दुष्टपितृवर्त्तिनां गर्गशिष्याणां सप्तानां कर्मक्षय उत्तमयोगप्रापणं च कथं तत्कथनम् । तथा च मदनाधीनस्य पिपीलिकस्य पिपीलिकां प्रति भाषणं पिपलिकया अनादरकरणम् | पश्चात्संमेलनम् । श्लो० १-३८.
२१-श्राद्धकल्पे पितृमाहात्म्यकथनम् । तत्र तस्मिन्नगरे वृद्धद्विजस्य ते पुत्राः सुदरिद्रस्य पुत्रा अभूवंस्तदा तेषां बुद्धिस्तपसे जाता तदा तान् सुदरिद्रः वृद्धपितरमुत्सृज्य वने गमनमधर्म्यमिति तान्न्यवारयत् । तदा पुत्रैरात्मपूर्वजन्मकथनम् । तथा वनगमनम् । सुदरिद्रस्य राजभवनगमनम् । पुत्रार्थिवैभ्राजनाम्ना भगवदाराधनकरणम् । भगवता वरदानकरणम् । पुत्रस्य ब्रह्मदत्तस्य पिपीलिकमिथुनस्थाने आगमनम् । तत्र ब्रह्मदत्तहासनेन ब्रह्मदत्तसन्नत्योः संवादः । तेन उत्पन्नकलहनाशार्थं भगवत्स्मरणं स्वप्नेभगवद्दर्शनम् ।। प्रभाते वृद्धब्राह्मणमेलनम् । उभयोः संवादेन पूर्वजन्मज्ञानम् । योगभ्रष्टत्वाद्विलप्य तं ब्राह्मणं द्रव्यादिकं दत्त्वा विसर्जनम् । राज्ये विष्वक्सेननाम्नः पुत्रस्याऽभिषेचनम् । मानसे सर्वेषां मेलनम् | पितृमाहात्म्य श्रवणफलं च वर्णितम् । श्लो०-१-४१.
२२-श्राद्धकल्पसमाप्तिः। तत्र श्राद्धकालकथनम् । उक्तकाले कृतश्राद्धफलम् । गयेत्यादितीर्थमाहात्म्यवर्णनं देवतावर्णनं च । नैमिषारण्यवर्णनम् । तथा सरय्विरावतीयमुनाचन्द्रभागावेणुमतीवेत्रवतीतीरेषु कृतश्राद्धफलम् । तथान्यत्तीर्थनद्या दिमाहात्म्यकथनं तत्र देवतावर्णनञ्च | तत्र काललक्षणम् । तीर्थमाहात्म्यपठनश्रवणफलम् । श्लो०१-९४.
२३-सोमवंशाख्याने सोमापचारवर्णनम् । तत्र सोमोत्पत्तिकथनम् । सोमस्य ब्राह्मणेष्वाधिपत्यभवनम् । सोमस्यापचारकथनम् । तत्र तारावृत्तान्तवर्णनम् । शंकरेण सह सोमस्य युद्धवर्णनम् । ताराबृहस्पत्योर्मेलनम् | श्लो० १-४७..
२४-ययातिचरितकथानकप्रारम्भः। तत्र तारायां बुधोत्पतिः। तदा तारां प्रति कस्यायं पुत्र इति देवानां प्रश्नः। सोमस्येत्युक्ते सोमस्तमगृह्णात् । बुधादिलोदरे पुरूरवस उत्पत्तिः तस्य कथानकम् । अर्थकामयोः पुरूरवसं प्रति शापदानं धर्मस्य आशीर्दानं च । केशिनः सकाशात्तं विनिर्जित्य चित्रलेखोर्वश्योराहरणम् । इन्द्रं प्रत्युर्वशीदानम् । अप्सरसां नृत्यसमये पुरूरवसं दृष्ट्वा मोहितवतीमुर्वशीं तं च भरतः शशाप तद्वर्णनम् । शापान्ते पुरूरवसः उर्वश्यां सुतोत्पत्तिः । तेषु रजेः पुत्रशतभवनम् । रजेर्भगवदाराधनम् । वरदानं रजिकथानकं च । रजिपुत्रैरिन्द्रं जित्वा राज्यहरणम् । इन्द्रेण वज्रेण धर्मबाह्यरजिपुत्रहननवर्णनम् । रजिपुत्रेषु नहुषस्य वंशवर्णनम् । ययातेः पुत्रान् मे जरा गृह्यतामिति कथनम् । पूरुं प्रति राज्याभिषेचनम् । श्लो०१-७१.
२५-कचस्य सजीवनी विद्यालाभः । तत्र इन्द्राद्यादेशेन सज्जीवनी विद्यालाभार्थं कचस्य शुक्रं प्रति गमनम् । वने गा रक्षन्तं कचं हत्वा शालावृकेभ्यो दानम् । शुक्रेणाहूते आगमनानन्तरं दैत्यैर्मारितोऽहमिति कथनम् । पुष्पाहारकर्मणि योजितकचस्य पुनर्मारणं पुनः कुक्षिविदारणेन संजीवनकरणम् । कचेन शुक्रसंजीवनकरणम् । ब्राह्मणस्य सुरापानदोषकथमम् | श्लो० १-६६.
२६-कचदेवयान्योः परस्परशापप्रदानम् । तत्र कचदेवयान्योः संवादः । विद्यासिद्धिर्न भविष्यतीति देवयानीशाप: । कचस्य ऋषिपुत्रस्तव पाणिं नैव ग्रहीष्यतीति देवयानीं
प्रति शापः । कचस्य त्रिदशालयं प्रति गमनम् । श्लो०१-२४.
२७-शर्मिष्ठादेवयानीककलहादि । तत्र देवयान्याः शर्मिष्ठया वस्त्रग्रहणम् । तथा च देवयान्याः कूपे प्रक्षेपः । नाहुषिदेवयान्योर्मेलनं कूपादुद्धरणं च । गते ययातौ घूर्णिकां प्रति देवयान्या भाषणम् । घूर्णिकया शुक्रं प्रति वनवर्तनकथनम् । शुक्रस्य वने आगमनम् । शुक्रं प्रति शर्मिष्ठाभाषणकथनम् । श्लो० १-३७.
२८-शुक्रदेवयानीसंवादः। तत्र देवयानीं प्रति शुक्रस्योपदेशः। शुक्रोपदेशखण्डनम्। श्लो०१-१३
२९-शर्मिष्ठाया देवयानीदास्यम् । काव्यस्य वृषपर्वाणं प्रति गमनम् । वृषपर्वगर्हणम् । शुक्रवृषपर्वणोः संवादः । देवयानीवृषपर्वणोः संवादः देवयान्याः शर्मिष्ठादासीभवनम् ।
३०-देवयानीविवाहः । तत्र दासीसहस्रेण सह क्रीडार्थं वनगमनम् । तत्र ययातेरागमनम् । देवयानीययात्योः संवादः । शुक्रेण ययातिं प्रति देवयानीदानकरणम् । ययातेर्गृहप्रवेशनम् । श्लो० १-३७.
३१-ययातिशर्मिष्ठासङ्गमः । तत्र देवयान्याः पुत्रभवनम् । शर्मिष्ठाययात्योरशोकवनिकाभ्याशे संवादः तत्र भार्यादाससुतानामधनत्वकथनम् । ययातेः शर्मिष्ठापुत्रभवनम् । श्लो० १-२७.
३२-ययातिं प्रति शुक्रस्य शापः । तत्र शर्मिष्ठादेवयान्योः संवादः । ययातर्देवयान्यां यदुतुर्वसुजननम् । देवयान्याः शर्मिष्ठापुत्राणां च समागमः । तत्र देवयानीशर्मिष्ठासंवादः
ययातिदेवयान्योः शुक्रं प्रति गमनम् । शुक्रस्य तं प्रति शापदानम् । शरणागतस्य
ययातेः शापमोक्षणम् । श्लो०१-४१.
३३-पूरोः पितृजराग्रहणाङ्गीकारः । तत्र जराऽग्रहणात्तुर्वसुं प्रति ययातेः शापदानकरणम् । द्वितीयपुत्रं द्रुह्युं प्रति जराऽग्रहणाद्ययातेः शापदानम् । तृतीयपुत्रमनुं प्रति जराऽग्रहणाच्छापदानम् | चतुर्थेन पूरुणा पितृजराग्रहणम् । श्लो०१-३०.
३४-पूरो राज्याभिषेकः । तत्र जरात्यागेन ययातेर्धर्मेण प्रजापालनम् । पुरोः सकाशाज्जराग्रहणेन यौवनदानम् । पूरवे राज्यदानानन्तरं ययातेर्वनवासाय गमनम् । श्लो-१-३१.
३५-ययातिस्वर्गारोहणम् । तत्र ययातेः स्वर्गादिन्द्रेण पातनपूर्वकस्वर्गगमनम् । श्लो०१-१७.
३६-इन्द्रययातिसंवादः । तत्रेन्द्राय पूरुं प्रति कृतोपदेशभाषणकथनम् । श्लो० १-१३. ३७-पुण्यक्षयेण स्वर्गात्पतन्तं ययातिं प्रत्यष्टकस्योक्तिः । तत्र इन्द्रययातिसंवादः प्रभु
कथनं च | श्लो०१-१३.
३८-अष्टकययातिसंवादः । तत्र ययातिनाऽष्टकं प्रति वेदान्तकथनम् । तथा च भुक्तभोगकथनम् । श्लो०१-२२.
३९-ययात्युपदेशः । तत्र अष्टकं प्रति शरीरोत्पत्तिकथनम् । पुण्येन पुण्ययोनिगमनमपुण्येन पापयोनिगमनम् । स्वर्गसाधनकथनम् । श्लो०१-२८. .
४०-ययातेराश्रमधर्मकथनम् । तत्र मुनिलक्षणकथनम् | श्लो०१-१७. .
४१-ययाते: परपुण्येन स्वर्गारोहणानङ्गीकारः । तत्र दिवि लोककथनम् । प्रतर्दनययातिसंवादः । श्लो० १-१८.
४२-ययातेरुद्धारः। तत्र वसुमद्ययातिसंवादः। श्लो० १-२९.
४३-यदुवंशकीर्तनम् । तत्र कार्तवीर्यो दत्तस्याराधनेन चतुरो वरान् वव्रे । तत्र बाहुसहस्रेण सागरक्षोभणम् । रावणस्य माहिष्मत्यां बंधनम् । अर्जुनं प्रति शापदानम् । कार्तवीर्यजन्मकथनफलम् श्लो० ०१-५२
४४-कार्तवीर्यादिकथा । तत्रादित्यस्य ब्रह्मणरूपेण कार्तवीर्ये प्रत्यागमनम् । कार्तवीर्येण तस्याहारदानम् । आपवस्य जले प्रवेशः क्रोष्टोर्वंशवर्णनम् विदर्भवंशवर्णनम् अन्धकवंशवर्णनफलम् श्लो०१-८५.
४५-वृष्णिवंशकथनारम्भः । तत्र स्यमन्तकमणिकथावर्णनम् । सत्यभामावरणम् ! कृष्णवंशवर्णनम् । श्लो० १-३४. .
४६-वृष्णिवंशवर्णनम् । श्ले०१-२९.
४७-असुरशापः। तत्र श्रीकृष्णभवनम् । षोडशसहस्रप्रधानस्त्रीनामानि पुत्रनामानि च । दशावतारवर्णनम् । भार्गवतपसा संतुष्टेन शंकरेण वरदानम् शुक्रेण शंकरस्य. स्तोत्रकरणम् । जयन्तीशुक्रयोर्मेलनम् । असुरान्प्रति बृहस्पतेः काव्यरूपेण वञ्चनम् । प्रह्लादेन शुक्रसमीपे भगवदत्तवरकथनम् । देवासुरविचेष्टितकथनम् । श्लो० १-२६३.
४८-तुर्व्वसुप्रभृतिवंशवर्णनम् । तत्रानुवंशवर्णनम् । अङ्गस्योत्पत्तिवर्णनम् । दीर्घतमसो बलेश्च समागमः । अंगस्य वंशवर्णनम् । तत्र कर्णोत्पत्तिवर्णनम् । श्लो०१-१०८..
४९-पूरुवंशवर्णनम् । तत्र बृहस्पतेर्भरद्वाजजन्मवर्णनम् । बृहत्क्षत्रवंशवर्णनम् । उग्रायुधोत्पत्तिवर्णनम् । तत्र वंशवर्णनम् श्लो०१-७९.
५०-पूरुवंशानुकीर्तनम् । तत्र अजमीढवंशवर्णनम् । जरासन्धजन्म, अपध्यातदेवापेर्वर्णनम् । शन्तनुत्ववर्णनम् । परीक्षितं प्रति वैशंपायनस्य शापदानमधिसोमकृष्णभाविवंशवर्णनम् । श्लोक० १-८९.
५१-अग्निवंशवर्णनम् । तत्र अग्न्युत्पत्तिरग्निनामानि च । विष्णूत्पत्तिकथनम् । श्लो० १-४७.
५२-योगमाहात्म्यम् । तत्र ज्ञानयोगात्कर्मयोगप्रशंसाकथनम् । आत्मगुणकथनम् ।
श्लोक० १-२६.
५३-पुराणानुक्रमकथनम् । तत्र पुराणसंख्याकथनम् । पुराणपुस्तकदानफलकथनम् । पुराणलक्षणम् । पुराणानुक्रमश्रवणपठनफलम् । श्लोक० १-७३.
५४-दानधर्मे नक्षत्रपुरुषव्रतम् । तत्र तद्व्रतफलकथनम् । श्लो० १-३१.
५५-आदित्यशयनव्रतम् । तत्र तद्व्रतफलकथनम् । श्लो० १-३३.
५६-कृष्णाष्टमीव्रतम् । तत्र कस्मिन्मासि केन नाम्ना शंभुपूजनं कर्तव्यमति कथनम् । श्लो० १-११.
५७-रोहिणीचन्द्रशयनव्रतम् । तत्र नारदभगवत्संवादः। व्रतफलम् । श्लो० १-२८.
५८-तडागविधिः । तत्र यूपप्रमाणम् । प्रावृडादिकाल उदकस्थितफलम् । श्लो० १-५६. ५९-वृक्षोत्सवविधिः। श्लो. १-१९.
६०-सौभाग्यशयनव्रतम् । तत्र सौभाग्याष्टककथनम् । सौभाग्यमयीदेव्याराधानप्रकारः । श्लो० १-४९.
६१-अगस्त्योत्पत्तिः पूजाविधिकथनं च। तत्र नारदमहेश्वरसंवादः । वह्निमारुतौ- प्रतीन्द्रशापेन अगस्त्यजन्म। श्लो० १-५४.
६२-अनन्ततृतीयाव्रतम् । तत्र व्रतप्रकारः। व्रतफलकथनम् श्लो० १-३९.
६३-रसकल्याणिनीतृतीयाव्रतम् तथाऽग्निष्टोमविधिस्तत्फलं च । श्लो० १-२९.
६४-आर्द्रानन्दकरीतृतीयाव्रतम् । तत्र तत्प्रकारः । श्लो० १-२८.
६५-अक्षय्यतृतीयाव्रतम् । तत्फलकथनम् । श्लो०१-७.
६६-सारस्वतव्रतम् । तत्राष्टतनुनामकथनम । व्रतविधितत्फलकथनं च। श्लो० १-१८. ६७-चन्द्रसूर्यग्रहणस्नानविधिः ।श्लो०.१-२४.
६८-सप्तमीव्रतम् । तत्र व्रतविधिस्तत्फलं च । श्लो० १-४२.
६९-भौमद्वादशीव्रतम् । तत्र तद्व्रतविधिस्तफलकथनम् । श्लो० १-६५.
७०-अनङ्गदानव्रतम् । तत्र दाल्भ्यसन्निधौ कुमारकान् प्रति स्त्रीणां वेश्याधर्मप्रश्नः । तत्र कामपूजाप्रकारः। श्लो० १-६४.
७१-अशून्यशयनद्वितीया व्रतम् । तत्र तत्प्रकारश्च । श्लो.० १-१९.
७२-अङ्गारकव्रतम् । तत्र पिप्पलादयुधिष्ठिर संवादः । तत्र विरोचनभार्गवसंवादः ! व्रतप्रकारकथनम् । श्लो०.१-४५.
७३-गुरुशुक्रपूजाविधिः । श्लो० १-११.
७४-कल्याणसप्तमीव्रतम् । तत्र व्रतविधिस्तत्फलम् । श्लो० १-२०.
७५-विशोकसप्तमीव्रतम् । तत्र व्रतविधिकथनम् श्लो० १-१३.
७६-फलसप्तमीव्रतम् । व्रतविधिकथनम् । श्लो. १-१३.
७७-शर्करासप्तमीव्रतम् । व्रतविधिकथनम् । श्लो० १-१७.
५८-कमलसप्तमीव्रतम् व्रतविधिश्च । श्लो० १-११..
७९-मन्दारसप्तमीव्रतम् । तत्र तद्व्रतावधिः। श्लो० १-१५.
८०शुभसप्तमीव्रतम् । तत्र कपिलापूजनं तत्प्रकारश्च श्लो० १-१४.
८१-विशोकद्वादशी व्रतम् । तद्व्रतविधानम् । तत्र लक्ष्मीपूजनम् । श्लो० १-२८.
८२-विशोकद्वादशीव्रते गुडधेनु दानम् । तत्र धेनुकरणं दानविधिश्च श्लो० १-३१.
८३-दानमाहात्म्यम् । तत्र नारदशम्भुसंवादः। तत्रान्नप्रशंसा । श्लो० १-४५.
८४-लवणाचलकीर्तनम् । तत्र लवणाचलदानविधिः । श्लो० १-९.
८५-गुडपर्वतकीर्तनम् । तत्र गुडपर्वतदानाविधिः । श्लो०१-९.
८६-सुवर्णाचलकीर्तनम् । तत्र दानविधिः । श्वो०.१-६...
८७-तिलाचलकीर्तनम् । तत्र विष्णुदेहात्तिलोत्पत्तिवर्णनं दानप्रकारश्च श्लो० १-७.
८८-कार्पासशैलकीर्तनम् । कार्पासपर्वतदानफलम् । श्लो० १-५.
८९-घृताचलकीर्तनम् । तत्र दानविधिर्घृतोत्पत्तिश्च । श्लो० १-१०.
९०-रत्नाचलकीर्तनम् । तत्र दानविधानम् । श्लो० १-११.
९१-रौप्याचलकीर्तनम् । तत्र ब्रह्मविष्ण्वर्कवत्पर्वतकरणम् । श्लो० १-१०.
९२-पर्वतप्रदानमाहात्म्यम् । तत्र लीलावतीवेश्याख्यानम् । श्लो०१-३५.
९३-नवग्रहहोमशान्तिविधानम् । श्लो० १-१६१.
९४ नवग्रहरूपाख्यानम् । श्लो० १-९.
९५-शिवचतुर्दशीव्रतम् । तत्र नारदनन्दिकेश्वरसंवादः । तत्र शिवपूजनप्रकारः । व्रतकथाश्रवणपठनफलम् श्लो० १-३८.
९६-सर्वफलत्यागमाहात्म्यम्। फळत्यागव्रतारम्भकालः क्रमविधिश्च । श्लो- १-२५. ९७-आदित्यवारकल्पः । तत्र आदित्यपूजनप्रकारः फलं च । श्लो० १-२०.
९८-संक्रान्त्युद्यापनविधिः । तत्र श्रवणपठनफलम् । श्लो० १-१५.
९९-विष्णुव्रतम् । तत्र विभूतिद्वादशीव्रतविधिकथनम् श्लो० १-२१.
१००-विभूतिद्वादशीव्रतम् । तत्र पुष्पवाहनप्राचेतसोः संवादकथनम् । श्लो० १-३७. १०१-षष्टिव्रतमाहात्म्यम् । तत्र एकैकव्रते देवतादिकथनम् । तत्तत्फलकथनम्। श्लो० १-८५.
१०२-स्नानफलस्नानविधिकथनम् । तत्र तीर्थसंख्याकथनम् । श्लो० १-३१.
१०३-प्रयागमाहात्म्यकथनोपक्रमः। तत्र मार्कण्डेयस्य हास्तिनपुरगमनम् । युधिष्ठिरमार्कण्डेयसंवादः । श्लो० १-२४.
१०४-प्रयागनिरूपणं प्रयागस्मरणादिफलकथनम् । श्लो० १-२०.
१०५-प्रयागमरणादिफलम् । श्लो० १-२२.
१०६-प्रयागे कर्मभेदेन फलभेदकथनम् । श्लो० १-५६.
१०७-प्रयागमाहात्म्ये विविधकर्मकथनम् । तत्र मानसतीर्थमाहात्म्यवर्णनम् । यामुने उत्तरकूले प्रयागस्य दक्षिणे ऋणमोचनतीर्थकथनम् श्लो० १-२१.
१०८-प्रयागेऽनाशकफलकथनम् । तत्र युधिष्ठिरमार्कण्डेयसंवादः । श्लो० १-३४.
१०९-प्रयागस्य तीर्थराजत्वकथनम् । श्लो० १-२५.
११०-प्रयागे सर्वतीर्थानामधिष्ठानकथनं तत्प्रशंसा च । श्लो० १-१९.
१११-प्रयागमाहात्म्यकथनसमाप्तिः । श्लो० १-१४.
११२-प्रयागमाहात्म्यश्रवणादिफलं वासुदेवकर्तृकप्रयागप्रशंसनं च । श्लो० १-२२.
११३-द्वीपादिवर्णनम् । तत्र जम्ब्वादिद्वीपनामवर्णनम् । श्लो० १-७९.
११४-भारतनिरुक्तिसंस्थाननिर्देशः । तत्र नदीनामानि देशनामानि च । श्लो० १-८६. ११५-पुरूरवसः पूर्व जन्मविवरणे तपोवनगमनकथनम् ! श्लो० १-१९.
११६-ऐरावतीवर्णनम् । श्लो०१-२५..
११७-हिमालयवर्णनम् । श्लो० १-२१.
११८-हिमालये आश्रमवर्णनम् । तत्र अत्रेराश्रमवर्णनम् । श्लो० १-७६.
११९-तत्रायतनवणर्नम् । अत्रिप्रतिष्ठितवासुदेवमूर्तिकथनं च । श्लो० १-४५.
१२०- पुरूरवसस्तपश्चर्याकथनम् । तत्र गन्धर्वाप्सरसां राज्ञश्च संमेलनम् । अत्रिं प्रति राज्ञा स्वप्नकथनम् । श्लो० १-४८.
१२१-जम्बूद्वीपवर्णनम् । श्लो० १-८२.
१२२-शाकद्वीपादिवर्णनम् । तत्र पर्वतनद्यादिकथनम् । श्लो० १-१०४.
१२३- षष्ठसप्तमद्वीपवर्णनम् । तत्र नदीपर्वतसमुद्रविस्तारादिकथनम् । श्लो० १-६४. १२४-खगोलकथने सौर्याचन्द्रमसमण्डलविस्तारादिवर्णनम् । तत्र मेरुप्रमाणं पृथिवीविस्तारो। विषुववर्णनम् । तत्र कालवर्णनम् । श्लो० १-११३.
१२५-ध्रुवकार्यसूर्याचन्द्रमसचारादिकथनम् । तत्र गजपर्वतमेघयोनिकथनम् । श्लो० १-५८.
१२६-सूर्यगत्यादिकथनम्। तत्र ऋतुकथनम् । सूर्याश्ववर्णनम् । चन्द्राश्ववर्णनम् । श्लो०१--७२.
१२७-बुधभौमादीनां स्थविवरणं ध्रुवप्रशंसा च । तत्र तारामयस्तम्भवर्णनम् । श्लो० १..२९.
१२८-सूर्यमण्डलग्रहस्थानग्रहसंनिवेशादिकथनम् । तत्राग्निकथनम् । ऋत्वादिमागे वर्षादिकथनम् ग्रहाणां स्थानविवरणम् श्लो०।१-८४.
१२९-त्रिपुरोपाख्याने त्रिपुरोत्पत्तिः । तत्र मयस्य ब्रह्मणो वरप्राप्तिः । श्लो० १-३६.
१३०-त्रिपुरदुर्गप्राकारादिविभागकथनम् । तत्र त्रिपुरकरणम् । तत्र प्रत्येकपुरवर्णनम् ।। श्लो० १-२८.
१3१-त्रिपुरप्राबल्यं मयस्य दुःस्वप्नविवरणं च । तत्रालक्ष्म्यादिप्रवेशकथनम् ! दानवानामशौचत्वेन वर्तनकथनम् । श्लो०१-५०
१३२-देवगणकृतशिवस्तवः । तत्र ब्रह्माणं प्रति आदित्यादीनां शरणगमनम् । ब्रह्मणा सह देवतानां भवसंसद्गमनम् । श्लो० १-२८.
१३३-अद्भुतरथनिर्माणम् । तत्र शिवब्रह्मादिसंवादः । देवानां शिवस्य वरदानम् । ऋषिकृतहरस्तववर्णनम् । श्लो० १-७१.
१३४-नारदस्य त्रिपुरगमनम् । तत्र मयं प्रति नारदागमनम् । उभयोः संवादः । मयेन दानवान्युद्धार्थमाज्ञाकरणम् श्लो०१-३३.
१३५-देवासुरयुद्धम् । तत्र मयमायया गणेश्वराणां मोहकरणम्। कुमारं प्रति प्रहारकरणम् ।श्लो०१-८४.
१३६-प्रमथगणकर्तृकं त्रिपुरवासिदानवानां कथनम् । तत्र विद्युन्मालिमरणम् । मयमायया वापीसर्जनम् । वापी हतानुज्जीवयिष्यतीति शंकरं प्रति शंकुकर्णकथनम् । श्लो० १-६८.
१३७-त्रिपुराक्रमणम् । तत्र मयं प्रति वापी वृषरूपेण पीतेति वापीपालकथनम् । तथा मयस्य त्रिपुरेण सह समुद्रगमनम् । तत्र त्रिपुरवधार्थमिन्द्रस्यागमनम् ! श्लो०१-३६. १३८-तारकाख्यवधः । तत्र देवान्प्रति तडिन्मालिवचनम् । श्लो०१-५७.
१३९-दानवमयसंवादः रात्रिसमागमः। श्लो० १-४७.
१४०-त्रिपुरदाहः। तत्र नन्दिना विद्युन्मालिहननम् । स्त्रीबालानां शोककथनम् । एतदाख्यानश्रवणपठनफलम् श्लो० १-८७.
१४१-ऐलसोमसमागमश्राद्धभुक्पितृगणकीर्तनम् । तत्र सिनीवालीकुहूलक्षणम् । श्राद्धानुकीर्तनम् । श्लो० १-८४.
१४२--मन्वन्तरानुकल्पः । तत्र निमेषादियुगपर्यन्तकालमानकथनम् । युगवर्षसंख्याकथनम् । वेदधर्मरत्नादीनां कथनम् । श्लो० १-७७.
१४३-यज्ञप्रवर्तनम् ऋषिदेवगणसंवादे वसोर्देवपक्षपातस्तं प्रति ऋषीणां शापदानं च।। तत्र सनातनधर्मस्य मूलकथनम् । श्लो० १-४२.
१४४ द्वापरादिकलियुगपर्यन्तकीर्तनम् । तत्र लोकानां वृत्तिकथनम्। आयुष्यकथनं च । कलौ भाविप्रजाकथनम् श्लो० १-१०८.
१४५-युगभेदेन शरीरमानादिकथनं धर्मकीर्तनं च। तत्र क्षेत्रक्षेत्रज्ञकथनम् ऋष्यादिनामकथनम् । श्लो० १-११८.
१४६-संक्षेपेण तारकवधकथनम् । विस्तरतस्तत्कथनप्रस्तावे वज्राङ्गविवरणं च । तत्र मातृशक्रसंवादः । श्लोक० १-७७.
१४७-तारकोत्पत्तिकथनम् । तत्र वज्राङ्गवरांगीसंवादः । श्लोक० १-२९.
१४८-तारकवरलाभो देवदानवयुद्धोद्योगश्च । तत्र ब्रह्मतारकसंवादः । ब्रह्मणा तारकाय वरदानम् । इन्द्राय गुरुणा सामाद्युपायकथनम् । दण्डविधानकरणनिश्चयाः। देवसेनासिद्धभवनम् श्लो० १-१०१.
१४९-सुरासुराणां संकीर्णयुद्धम् श्लो० १-१६.
१५०-महासंग्रामे कालनेमिपराजयः । तत्र विष्णोर्योगनिद्राविहापनं युद्धे गमनं च। श्लो० १-२४३
१५१-चक्रस्य ग्रसनदैत्यवधपूर्वक विष्णुहस्तप्रवेशः । श्लो० १-१३६.
१५२-मथनादिसंग्रामः । तत्र गरुत्मतो मथनवधाय प्रेषणम् । तत्र सकेशवगरुडपलायनम्। श्लो० १-३६.
१५३-तारकजयलाभः । तत्र जम्भवधवर्णनम् । विष्णुना दैत्येन्द्रवाहनकर्तनम् । दैत्येन .इन्द्रादिबन्धनम् । श्लो०१-२२९.
१५४-देवगणमन्त्रणा, पार्वतीतपस्या, मदनदाहः, शिवविवाहश्च | श्लो० १-५८८.
१५५-गौरीत्वलब्धये कालिकायाः पार्वत्यास्तपस्यायै गमनम् । तत्रोमामहेश्वरयोः परस्परनिन्दाकरणम् । श्लो० १-३४.
१५६-आडिवधः । तत्र आडये ब्रह्मणो वरदानम् । देव्याडिसंवादः । श्लो०१-३९.
१५७-वीरकशापः । तत्र ब्रह्मणो देव्यै वरदानम् । श्लो० १-२४.
१५८-कार्तिकेयोत्पत्तिः । तत्र वीरकपार्वतीसंवादः । तत्र वीरकस्तुतिकरणम् । श्लो० १-४१.
१५९-देवानां रणोद्योगः। तत्र षण्मुखस्य देवकृतस्तवनम् । तारकं प्रति दूतप्रेषणम्।श्लो० १-४३.
१६०-कुमारेण तारकासुरवधः श्लो० १-३२.
१६१-हिरण्यकशिपोस्तपश्चर्याकरणवर्णनम् । तत्र ब्रह्मसकाशादनेकवरदानप्राप्तिः, हिरण्यकशिपोर्वराञ्छ्रुत्वा भयभीतानां ब्रह्मणोभ्याशे सर्वदेवानां गमनम् । तत्र ब्रह्मणा तपसोन्ते हिरण्यकशिपुं विष्णुर्वधिष्यतीति कथनम् । वरदर्पितेन हिरण्यकशिपुना पीडितानां देवानां विष्णुसकाशे गमनम् । तत्र देवेभ्यो विष्णुना 'हिरण्यकशिपुं वधिष्यामि' इति आश्वासदानम् । अथोङ्कारसहायस्य भगवतो नारसिंहवपुषो विष्णोर्हिरण्यकशिपुनगर्यां गमनं विस्तारेण तत्सभाया वर्णनं च । तत्र मृगाधिपेन बलिविरोचनप्रह्लादाद्यनेकदैत्यवरैः परिवेष्टितस्य विश्वाचीसहजन्याप्रम्लोचेत्याद्यनेकाप्सरोभिर्नृत्यगीतैरुपास्यमानस्य विचित्राभरणाम्बरस्य स्त्रीसहस्रैः परिवृतस्य सिंहासनोपर्युपविष्टस्य हिरण्यकशिपोर्दर्शनम् । श्लो० १-८९.
१६२-सभायां प्रविष्टस्य मृगाधिपस्य हिरण्यकशिपुं प्रति प्रह्लादेन जगदाकाररूपेण कथनम् । तच्छ्रुत्वा हिरण्यकशिपुना सर्वदैत्यान्प्रति मृगाधिपग्रहणेऽनुज्ञानम् । आज्ञप्ताश्च ते सर्वे दानवा मृगाधिपं प्रति अनेकास्त्रशस्त्रप्रहारांश्चक्रुस्तदानीं नृसिंहवपुर्भगवान् विष्णुः क्षणेनैव तान् सर्वदैत्ययोधान सागरो मैनाकं प्लावयामासेवातीव संत्रासयामासेति वर्णनम् । श्लो० १-३८.
१६३-अनेकघोररूपधारिणो बलदर्पिता दैत्या अवध्यस्य मृगेन्द्रस्य शरीरे शरवृष्टिमकुर्वंस्तदानीमाकाशे खद्योता इव विलयं जग्मुः ततश्च तान् विनष्टान् दृष्ट्वा हिरण्यकशिपुर्भूयोऽमर्षादश्मवर्षेण मृगाधिपं छादयामास, तदपि विफलीभूतं दृष्ट्वा क्रोधात्मदहन्निवतेजसा जगत्तमोभूतं कृतवान् । तदा दैत्यविनाशसूचका देवानां च शुभशंसिनोऽनेके घोरा उत्पाता बभूवुः । तदा गदी शूली करालश्च हिरण्यकशिपुर्वीरो नृसिंहं समुपाद्रवत् भगवता च मृगेन्द्रेण महानखैरोङ्कारसहायेन युधि स विदार्य निहतः । तदा तं ब्रह्मादयश्च तुष्टुवुः । पुराणरूपेण च गरुडध्वजः स्वस्थाने निश्चक्रामेति वर्णनम् । श्लो० १-१०६.
१६४-पद्मे कल्पे नाभौ पद्ममयं जगत् कथमभूत्तत्र च कथं देवादीनां सृष्टिरिति पृष्टवन्तं मनुं प्रति भगवतो मत्स्यरूपिण उत्तरदानोपक्रमः । श्लो० १-२८.
१६५-मनुं प्रति मत्स्यरूपिणा भगवता कृतादिचतुर्युगस्य संक्षेपतो धर्मानुक्त्वा जगत्संहारकथनम् । श्लो० १-२४.
१६६-मत्स्येन नारायण एव क्रमेण विभावस्वादिर्भूत्वा सर्वं जगदेकार्णवीकृत्य भूयः शयनमरोचयदिति कथनम् । श्लो० १-२४.
१६७-मत्स्येन एकार्णवीभूते लोके भूयश्व हंसो नारायणः प्रथमं वक्रादिभ्यो ब्रह्मोद्गातृसामगादीन् सृष्टवानिति कथनम् । भगवति स्वपति गीर्णो मार्कण्डेयो भगवतस्तस्य कुक्षावेव तीर्थप्रसंगेन अटञ्छनैर्वक्त्राद्विनिःसृतस्तत्र सागरे मग्नं जीमूतमिव भास्करमिव तेजोभिर्ज्वलन्तं देवं दृष्ट्वा को भवानिति ज्ञातुं समीपमागतः । पुनश्च कुक्षिं प्रवेशितो यथापूर्वं धरामटते स्म। तथैव तीर्थान्यटन् पुनश्च मुखाद्बहिर्विनिःसृतोन्यग्रोधशाखायां गुप्तं बालकमेकं निरैक्षत । ततस्तत्समीपे गत्वा को भवानिति पृष्टो भगवानहं ते जनको वत्सेत्यादिवाक्यैर्मार्कण्डेयं प्रति बोधित्वा पुनश्च गीर्णवानिति कथनम् श्लो० १-६७.
१६८-पुनश्चाहं विश्वं सिसृक्षुरर्णवं क्षोभयित्या शब्दादीन् स्थूलभूतानि चोत्पाद्य तस्मिंस्तोये स्वयं क्रीडंश्च नाभ्युद्भवं चैकं पद्मं समुत्पादितवानिति कथनम् । श्लो० १-१६.
१६९-भगवान् पद्मं सृष्ट्वा तन्मध्ये सर्वलोकानां स्रष्टारं ब्रह्माणमसृजत्, तच्च पद्मं पुराणज्ञाः पृथ्वीरूपं वदन्ति, या पद्मा सा रसा देवी, ये पद्मसारगुरवस्ते पर्वता इत्यादिपृथ्वीरूपेणैव पुष्करस्य कथनम् । श्लो० १-१८.
१७०-तस्मिन्पुष्करे ब्रह्मणि तपस्यति मधुकैटभौ तपसो विघ्नभूतौ संभूतौ ज्ञात्वा ब्रह्मकरुणया भगवान् वरेणाभिसंधायोरुतले तौ ममन्थेति कथनम् श्लो० १-३०. १७१-पुनश्च तत्र ब्रह्मणि तपसि स्थिते तत्र योगाचार्यस्य सांख्यचार्याकपिलस्य चोभयोरपि आगमनम् । शम्भुभूर्भुवादिमानसपुत्राणां ब्रह्मण उत्पत्तिः पुनश्च दक्षादीनां नागान्तानामुत्पत्तिः । इति पौष्करप्रादुर्भावे रणं तच्छ्रवणफलकथनं च । श्लो० १-७१.
१७२-वृत्रवधानन्तरमनिष्टसूचकप्रवृत्ततारकामयसंग्रामवर्णनम् । पश्चाद्दैत्यपराजितान्देवाञ्छरणागतान्दृष्ट्वा विष्णुर्दानवानां विनाशाय मनश्चक्रे । तदा आकाशे स्थितस्य विष्णोर्देवताः शान्तिं व्रजत, भद्रं वो मा भैष्ट, मे दानवा जिताः त्रैलोक्यं परिगृह्यतामिति सप्रतिज्ञं वचः श्रुत्वा देवा अमृतं प्राश्यैव प्रीतिं समाजग्मुस्तदा ग्रहा विग्रहं न चक्रुः प्रशान्ताः सिन्धव आसन्नित्यादिकथनम् । श्लो०१-५१.
१७३-दैत्यविनाशाय विष्णोः प्रतिज्ञां श्रुत्वा मयविरोचनहयग्रीववाराहखरत्वष्टृलम्बस्वर्भान्वादयो दैत्या अपि स्वस्वसैन्यैः परिवृता युयुत्सया देवानामभिमुखमागत्य संग्रामोद्यमं चक्रुरिति कथनम् । श्लो० १-३२.
१७४-देवा अपि पुरुहूतपुरोगमा दैत्यान् प्रति युयुत्सया स्वस्वसैन्यैः सन्नद्धा बृहस्पतिना स्वस्त्यस्तु देवेभ्य इति भाषिता युद्धाय समवर्तन्तेति वर्णनम् । श्लो० १-५०.
१७५-देवदैत्ययोर्घोरसंग्रामवर्णनम् । तत्र मयेनोत्सृष्टौर्विनिर्मिता माया देवसैन्यानि दहतीति दृष्वायस देवराजचोदितो वरुणो देवराजं प्रति और्वाग्न्युत्पत्तितन्निर्मितमायातच्छापकथनपुरःसरं तन्मायानिवारणार्थं तोययोनिं निशाकरं याचितवानिति वर्णनम् । श्लो० १-७५..
१७६-इन्द्रप्रेरितावुभावप्यम्बुनाथौ शशाङ्कवरुणौ मयमायां शमयन्तौ दैत्यानत्यन्तं त्रासयामासतुरिति दृष्ट्वा भूयो मयो देवान् प्रति पार्वतीं मायामसृजत् । तदुपरि भगवद्विष्णुप्रेरितौ पावकमारुतौ दैत्यसेनां ददहतुः तदानीं सर्वं सुशान्तमिवाभूद्दानवाश्च विमुखा बभूवुः। अनन्तरं विख्यातो दानवः कालनेमी त्रैविक्रममिव रूपं धृत्वा दानवान् हर्षयन् देवान संत्रासयामासेति वर्णनम् । श्लो० १-६१.
१७७-कालनेमिर्वर्धमानः सर्वान् वज्रिपुरोगमान हीनतेजस्कान् कृत्वा वीर्यात्सर्वमात्ममयं कृत्वा पारमेष्ठ्ये स्थाने स्थित इव रराज, तं च देवाः पितामहमिव दैत्यगणास्तुष्टवुरिति वर्णनम् । श्लो० १-५९..
१७८-कालनेमेः सार्वात्म्यभूतत्वेपि विपरीतेन कर्मणा वेदो धर्मः क्षमा सत्यं श्रीश्चेमे पञ्च तं नाभ्यवर्तन्त, तेषामनुपस्थानात्सक्रोधो दानवेश्वरो वैष्णवं पदमन्विच्छन्नारायणान्तिकं जगाम । तत्र सुपर्णस्थं शंखचक्रगदाधरं भगवन्तं विष्णुमवलोक्य दानवानां स्वस्य च विनाशाय गदां भ्रामयित्वा बहुविधं वाग्भिर्नारायणं क्षिपन्नक्षोभ्यं क्षोभयामास । तदानीं कालनेमिनं धिक्कृत्य प्रजापति सेतुं भेत्तारं हत्वा देवताः स्वेषु स्वेषु स्थानेषु स्थापयिष्यामीति श्रीवत्सधारिणि ब्रुवति सति दानवः प्रहस्य क्रोधाद्बाहुशतमुद्यम्य विष्णुवक्षस्यताडयत्, सुपर्णस्यापि मूर्ध्नि गदां पातयामास तदा सुपर्णं व्यथितं दृष्ट्वा वर्धमानः श्रीधरश्चक्रेण कालनेमिनो बाहुशतं शिरःशतं च छित्त्वा गरुडेन तं भुवि पातयामासेति वर्णनम् । विष्णुमुद्दिश्य ब्रह्मकृतस्तुतिः । विष्णुना स्वस्वाधिकारेषु सर्वदेवानां पुनः स्थापनं तस्य स्वलोकं ब्रह्मणा सह गमनं च । श्लो० १-८०.
१७९--अन्धकासुरवधः । तत्र अन्धकासुररक्तपानार्थं शंकरण माहेश्वर्यादिमात्रुत्पादनम् । रक्तपानानन्तरं शंकराज्ञामुल्लङ्घ्य विश्वभक्षणाय प्रवृत्तानां.रुद्रमातॄणां वारणाय रुद्रप्रार्थितनृसिंहप्रादुर्भावस्तन्निर्मितवाणीश्वर्यादिमातृभी रुद्रमातॄणां पराभवनमित्यादि वर्णनम् १-९०.
१८० -वाराणसीमाहात्म्यम् ! तत्र पिंगलस्य क्षेत्रपालत्वान्नदत्वगणत्वादिसंप्राप्तिकथनम् । तत्र शिवयोर्वाराणस्यां गमनम्, पथि चोद्यानवर्णनम्, अविमुक्ते शिवमाराध्य कुबेरादयः सिद्धिं प्राप्तवन्त इति शिवां प्रति शिवेन कथनम् । शिवेन हरिकेशं प्रति दर्शनदानं तस्मै वरदानं च ।-श्लो० १-१००.
१८१-नन्दिकेश्वरसनत्कुमारसंवादे पार्वतीं प्रति शंकरेणाविमुक्तस्थानां कतिनांचित्तीर्थानां वर्णनम् । श्लो० १-३२.
१८२-स्कन्दोक्ताविमुक्तक्षेत्रवर्णनम् । श्लो० १-२७.
१८३-ईश्वरपार्वतीसंवादेऽविमुक्तमाहात्म्यवर्णनम् । तत्र ब्रह्मणः पञ्चमशिरश्छेदनजनितब्रह्महत्यया पीडितस्येतश्चेतश्च भ्रमतः शंकरस्याविमुक्ते आगमनं तत्र ब्रह्महत्यानाशः कपालस्य सहस्रधा स्फोटनं चेति वर्णनम् । श्लो० १-१०४.
१८४-अविमुक्तमाहात्म्यम् । श्लो० १-६३. ।
१८५-ऋषिस्कन्दसंवादे द्वादशाब्दतपसा क्षुधितस्य भगवतो व्यासस्य क्वापि भिक्षालामे कुटुम्बिरूपेण शिवाभ्यामन्नदानम् । दण्डनायकमाहात्म्यमित्यादिवर्णनम् । श्लो० १-६८.
१८६-मार्कण्डेययुधिष्ठिरसंवादे नर्मदामाहात्म्यम् । तत्रामरकण्टकमहत्त्वम् श्लो० १-६८.
१८७-नर्मदामाहात्म्ये मार्कण्डेयेन बाणत्रस्तऋषीणां शिवसमीपे आगमनं शिवेन च नारदं प्रति त्रिपुरस्थनाराणां मतिवैपरीत्यं कर्तुं प्रेषणं तत्र च नारदस्य गमनम् बाण पत्न्या अनौपम्या नारदस्य च संवादः । तत्र नारदप्रभावेण अन्यतोगतमानसाः पतिव्रता पुरे छिद्रमुत्पन्नमिति वर्णनम् । श्लो० १-५२...
१८८-नर्मदातटे माहेश्वरस्थाने स्थितस्य शंकरस्य त्रिपुरभेदने संभ्रमः । हरकोपानलेन दह्यमानपुरस्थानां जनानां हाहाकारवर्णनम् । ततो बाणस्त्रिपुरं दीपितं वीक्ष्य पुत्रदारादीन् सर्वांस्त्यक्त्वा शिरसि लिङ्गं गृहीत्वा शिवं स्तुतवान् । स्तुतो हरः प्रसन्नो भूत्वा बाणं प्रति देवैरवध्य इत्यादिवरान दत्तवानिति वर्णनम् । श्लो० १-८८. १८९--कावेरीनर्मदासंगममाहात्म्यम् । श्लो० १.-२०.
१९०-मन्त्रेश्वरगर्जनमेघनादेत्यादितीर्थानां कथनम् । श्लो० १--२५.
१९१--शूलभेदेत्यादिनर्मदातीरस्थतीर्थानां शताधिकानां कथनम् । श्लो० १.-१२४.
१९२--नर्मदामाहात्म्ये शुक्लतीर्थोत्पत्तितन्माहात्म्यवर्णनम् । श्लो० १-३८.
१९३-नर्मदामाहात्म्ये नरकादितीर्थयात्रावर्णनम् । भृगुक्षेत्रोत्पत्तिस्तन्माहात्म्यं च । धौतपापैरण्डीत्यादितीर्थानां वर्णनम् । श्लो० १.-८६.
१९४-नर्मदामाहात्म्येंऽकुशादितीर्थानां वर्णनम् । ऋषिकन्यातीर्थोत्पत्तिः । स्वर्णबिन्द्वादितीर्थानां कथनम् । श्लो० १.-५०.
१९५--ऋषीणां प्रवरानुकीर्तने तत्र ब्रह्मादीनां पुनरुत्पत्तिः। तत्र भृगुवंशजानां कीर्तनम् ।१-४६.
१९६--प्रवरानुकीर्तनेऽङ्गिरोवंशकीर्तनम् । श्लो० १-५४.
१९७-प्रवरानुकीर्तने ऽत्रिवंशकीर्तनम् । श्लो० १--११.
१९८ -प्रवरानुकीर्तने विश्वामित्रवंशवर्णनम् श्वो०१--२०
१९९--प्रवरानुकीर्तने कश्यपवंशवर्णनम् श्लो० १-२०.
२००. प्रवरानुकीर्तने वसिष्ठवंशवर्णनम् । श्लो० १-१९.
२०१-प्रवरानुकीर्तने पराशरवंशवर्णनम् । तत्र मैत्रावरुणयोः सकाशाद्वसिष्ठागस्त्ययोरुत्पत्तिर्वसिष्ठान्नारदभगिन्यामरुन्धत्यां पराशरोत्पत्तिस्तस्माच्च द्वैपायन इत्यादि वर्णनम्।१--४०.
२०२--प्रवरानुकीर्तनेऽगस्त्यपुलहक्रतुपुलस्त्यानां वंशकीर्तनम् । श्लो० १-१४.
२०३- धर्मवंशवर्णने धर्मप्रवरानुकीर्तनम् । श्लो० १--१४.
२०४-पितृगाथाकीर्तनम् श्लो० १--१८
२०५--धेनुदानप्रशंसा । श्लो० १-९.
२०६-कृष्णाजिनप्रदानकथनम् । श्लो० १-३१.
२०७-वृषोत्सर्गकीर्तनम् । तत्र वृषलक्षणम् । श्लो० १-४१.
२०८-पतिव्रतामाहात्म्ये सावित्र्युत्पत्तिकथनं द्विजमुखाज्ज्ञातभर्तृमरणावध्या सावित्र्या भर्त्रा वने गमनं चेति कथनम् । श्लो० १-२१.
२०९-वने प्रियां प्रति वसन्तर्तुशोभां दर्शयतः सत्यवतोऽन्यतः सावित्रीं स्थापयित्वा काष्ठचयार्थमन्यत्र गमनम् । श्लो०१-३५.
२१०-काष्ठं पाटयन्सत्यवान्सहसा शिरोवेदनया तमः प्राप्त इव प्रियाङ्के सुप्तवान् । तत्र कालमृत्युभ्यां सार्द्धं धर्मराजमागत्य सत्यवतो देहस्थमंगुष्ठमात्रं पुरुषं पाशैर्वशंगतं कृत्वा भूयः स्वधाम गच्छन्तमनुधावनं सावित्र्यास्तत्र च धर्मात्पातिव्रत्येन परितुष्टात्प्रथमवरप्रापणकथनम् । श्लो० १-२४.
२११-पुनश्च सावित्र्या धर्मयुक्तभाषणेन परितुष्टेन धर्मेण सावित्र्यै द्वितीयवरदानम्।श्लो० १-२८.
२१२-भूयोपि सावित्र्या धर्मसङ्गतैर्वाक्यैः परितुष्टेन धर्मेण सावित्र्यै तृतीयवरदानम् श्लो० १-२८.
२१३-सावित्र्या अतीवमधुरगिरा स्तुत्या परितुष्टाद्धर्मात् सत्यवतोपि जीवितलाभः श्लो० १-१८.
२१४-ततः प्राप्तजीवितेन भर्त्रा सह सावित्र्याः श्वशुरसमीपे आगमनम् । तत्र श्वशुरस्य चक्षुः प्राप्तिस्ततो राज्यप्राप्तिश्चेत्यादिकथनम् । श्लो० १-२२.
२१५--भगवता मत्स्येन मनुं प्रति राज्ञोभिषिक्तस्य कर्तव्यवर्णनम् । ततो राज्ञां सहायसंपत्तिवर्णनं च श्लो० १-९६.
२१६-राजधर्मेऽनुजीविवर्तनम् । श्लो० १-३८.
२१७-राजधर्मे सहायसंपत्तौ सुगुप्तदुर्गे वृक्षौषध्यादीनां संग्रहकथनम् । श्लो० १-८७. २१८-राजधर्मे सहायसंपत्तौ रक्षोघ्नविषघ्नाङ्गदादीनामगदानां कथनम् । श्लो० १-३८. २१९-राजधर्मे दुर्गे निधाप्यानां राजरक्षारहस्यानां कथनम् श्लो० १-३४.
२२०-राजधर्मे राजरक्षाकथनम् । श्लो० १-३४.
२२१-देवपुरुषकारवर्णनम् । तत्र देवात्पौरुषत्वत्स्य श्रेष्ठत्ववर्णनम् । सात्विकराजसतामसकर्मफलवर्णनम् । श्लो० १-१२.
२२२-राजधर्मे सामकथनम् । श्लो० १-१०.
२२३-राजधर्म भेदकथनम् । श्लो० १-१६.
२२४-राजधर्मे दानकथनम् । श्लो० १-८.
२२५-राजधर्मे दण्डप्रशंसाकरणम् । तत्रादण्ड्यदण्डकरणे राजदोषश्रवणम् । श्लो० १-१८.
२२६-राज्ञो लोकपालसाम्ये कारणनिर्देशः। तत्र राज्ञो दृष्टान्तैः सह प्रजायमकथनम्। श्लो०१-१२
२२७-राजधर्मे दण्डप्रणयनम् । श्लो० १-२१७.
२२८-राजधर्मकथनेऽद्भुतशान्तिकथनम् । श्लो० १-२९.
२२९-नश्यतां जनानां नगराणां राज्ञां पूर्वरूपकथनम् । श्लो० १-२६.
२३०-अद्भुतशान्तावर्च्चाधिकारकथनम् श्लो० १-१२.
२३१- अद्भुतशान्तावग्निवैकृत्यकथनम् । श्लो० १-११.
२३२-अद्भुतशान्तौ वृक्षोत्पातप्रशमनकथनम् । श्लो० १-१५.
२३३-अद्भुतशान्तौ वृष्टिवैकृतिप्रशमनम् । श्लो० १-९..
२३४-अद्भुतशान्तौ सलिलाशयवैकृत्यकथनम् । श्लो० १-७
२३५-अद्भुतशान्तौ स्त्रीप्रसववैकृत्यकथनम् श्लो० १-४.
२३६-अद्भुतशान्तावुपस्करवैकृत्यकथनम् । श्लो०१-५
२३७-अद्भुतशान्तौ मृगपक्षिवैकृत्यम् । श्लो० १-१४.
२३८-अद्भुतशान्तावुत्पातप्रशमनम् । श्लो० १-१६.
२३९-राजधर्मे ग्रहयज्ञविधानम् । तत्र लक्षहोमकोटिहोमकथनम् । श्लो० १-४०.
२४०-यात्राप्रकरणम् मत्स्यमनुसंवादे यात्रानिमित्तकालयोज्यचिन्तनम् । श्लो० १-२७.
२४१-यात्रानिमित्तकदेहस्पन्दनकथनम् श्लो०१-१४.
२४२-यात्रानिमित्ते स्वप्नाध्यायकथनम् । श्लो०१-३५. ॥
२४३-यात्राप्रकरणे मङ्गलाध्यायकथनम् । श्लो० १-२८.
२४४-विष्णुमाहात्म्यवर्णनम् । तत्र वामनप्रादुर्भावकथनम् । तत्र च शक्रादिषु विजितेषु स्वकीयानां पुनरुद्भवार्थं परमदुश्चरं तपश्चरन्त्याऽदित्या प्रसन्नो भूत्वा वरदानार्थमागमं तस्य हरेः स्तवनम् । स्तुत्या संतुष्टं विष्णुं प्रति वरो यो हृदि स्थितस्तमाशु कामं व्रियतामित्युक्ताया आदित्यामत्पुत्रो वासवस्त्रैलोक्याधिपतिर्भवत्विति प्रार्थनम् । तदनु कृत:प्रसादो हि मया कश्यपात्ते गर्भे स्वांशेन सम्भूय सुरारीन् हत्वा तवेप्सितं करिष्यामीत्यदित्यै भगवतो वरप्रदानम् । श्लोक १-५२.
२४५-भगवतो वामनरूपेण प्रादुर्भावः । तत्र भगवतस्तेजसाऽसुरादयो निस्तेजस्का बभूवरिति ज्ञात्वा बलिना सर्वेषामसुरादीनां तेजोहानिभवनकारणं पृष्टः पितामहः प्रह्लादः पश्यन्विस्मायाविष्टो बलिं प्रति वत्स यस्य स्वरूपं ब्रह्मादयो न जानन्ति यस्मात्सर्वमिदं जायते एतादृशो वासुदेवः स्वकलयाऽदित्यां । कश्यपादवतीर्णः स पृथ्वीभारभूतदैत्यादीन्हत्वेन्द्रादीन्सुखिनः करिष्यतीत्यादि कथितवान् । तच्छ्रुत्वा तात कोऽयं हरिर्नाम यतो नो भयमागतं मे शतशो वासुदेवबलाधिका विप्रचित्त्यादयो भूभारहरणक्षमाः सन्ति तेषामेकैकशो वीर्यार्धेनापि कृष्णो न सस्मित इति ब्रुवन्तं बलिं प्रह्लादो धिक्कृत्य यो गुरुगुरोर्गुगुरौ कृष्णे निन्दां करोषि स त्वमचिरादेवेहैश्वर्याद्भ्रंशमेष्यसीति शप्तवान् । पुनश्च बलिना प्रार्थितः प्रह्लादोऽद्यप्रभृति स्वं हरौ भक्तिमान्भवेथाः स एव ते त्राता भविष्यतीत्याद्युक्त्वा विरराम। तदनु वामनरूपेणावतीर्णस्य भगवतो व्रतबन्धकथनं बलेरध्वरं प्रति गमनं चेत्यादिकथनम् । श्लो०१-९०.
२४६-तत्र भगवतो वामनस्य गमनेन सपर्वतवनामुर्वीं संक्षोभितां दृष्ट्वा बलिनोशनसं प्रणिपत्यं आचार्य कस्मान्मही क्षोभमायाता कस्माच्चासुरान्माभान्वह्नयो न प्रतिगृह्णन्तीति पृष्टः काव्यश्चिरं ध्यात्वा दैत्यपतिनित्यमुवाच । 'कश्यपस्य गृहे जगद्योनिर्हरिर्वामनरूपेणावतीर्णः स एष तव यज्ञमायाति तत्पादन्यासविक्षोभादियं मही प्रचलति, नैनं भूतपतिं भूमिर्वोढुं समर्था । तत्सन्निधानादेवामी अग्नय आसुरान्भागान्न भुञ्जते इति । इति काव्यमुखाच्छ्रुत्वा हर्षेण बलिना गुरो काव्य सर्वेश्वरेश्वरे कृष्णे मदध्वरमुपागते यन्मया कर्तव्यं तन्ममादिशेत्युक्तः काव्यः पुनश्च दानवपते अयं देवः सत्वस्थः सृष्टिपालनार्थं तव निग्रहार्थं चायाति तदा त्वया स्वल्पकेऽपि वस्तुनि प्रतिज्ञा नहि वोढव्या, नालं. दातुमहं देव दैत्य वाच्यं त्वया वचः' इत्युवाचेति श्रुत्वा बलौ 'ब्रह्मन्विविधैर्व्रतोपवासैः प्रतिसंग्राह्यो हरिः साक्षाद्देहीति वक्ष्यति चेत्कथमहं नास्तीति ब्रूयां तस्मिन्मे दृढा भक्तिः स मां हन्तुं कथं यत्नं करिष्यतीत्येतद्विदित्वा गुरो दानाविघ्नकरणे त्वया न भाव्यम् इति गुरुं प्रति बलौ वदति मायावामनरूपधृक् संप्राप्तः । तं दृष्ट्वा तत्तेजसाऽसुरा यज्ञवाटान्तःप्रविष्टाः सभासदः क्षोभं जग्मुर्मुनयो जेपुः । बलिश्चात्मनो जन्म सफलं मेने। ततो न कश्चित्किचिदुक्तवान् । तदनु दैत्यपतिं प्रह्वं दृष्ट्वा वामनरूपधृग् विष्णुः सर्वांस्तुष्टाव । ततो बलिना यज्ञवाटस्थितं वामनं साधु साध्वित्युदीरयित्वा ऽर्घमादाय गोविन्दं संपूज्य 'सर्वस्वं सकलामुर्वीं भवतो वा यदीप्सितम् ॥ तदहं दास्यामि वृणीष्व' इत्युक्ते। मगवान् 'राजन्ममाग्निशरणार्थाय पदत्रयमितां भूमिं देहि' इत्युवाच । एतच्छ्रुत्वा बलिस्तस्मै वामनाय पदत्रयं ददौ । पाणौ तोये पतिते वामनोऽवामनो भूत्वा सर्वदेवमयं रूपं दर्शयामास । ततः पुरन्दराय त्रैलोक्यं दत्त्वा बलये चानेकवरान् दत्त्वा सुतले तं सादरं स्थापयामासेत्यादीनां शौनकार्जुन संवादद्वारा कथनम् । श्लो० १-२६.
२४७-शौनकार्जुनसंवादे वराहचरितम् । तत्र क्रमेण प्रलयकालं वर्णयित्वा पुनश्च जगदुत्पत्तिवर्णनम् । श्लो०१-४४,
२४८-पृथिवीकृतविष्णुस्तवः । विष्णोर्वराहमूर्तिपरिग्रहश्च । श्लो० १-७९.
२४९-देवानाममरत्वकथनप्रस्तावेऽमृतकथनकथारम्भः । तत्र शुक्राय शंकरस्य संजीवनीविद्यादानम् । मन्दराचलप्रार्थनम् । देवदानवकृतविष्णुस्तवनम् । श्लो० १-८२,
२५०-कालकूटोत्पत्तिः । तत्र सोमश्रीसुरादेवीतुरगकौस्तुभ पारिजातोत्पत्तिकथनम् । वह्न्युत्पत्तिकथनम् । डुण्डुमादिसर्पोत्पत्तिकथनम् ।विष्णुकालकूट संवादः। देवदानवकृत-शिवस्तवकथनम् । सुरासुरशिवसंवादकथनम् । श्लो० १-५१.
२५१-अमृतमन्थनम् । तत्र धन्वन्तर्युत्पत्तिः । रत्नग्रहणकथनम् भगवता स्त्रीरूपेण दानवेभ्योऽमृतहरणम् । राहुशिरःकृन्तनम् । तत्र देवदानवयुद्धकथनम् । श्लो०१-३६. २५२-अन्धकवधयुद्धे शिवललास्वेदसलिलाद्वास्तु तोत्पत्तिकथनम् । श्लो०१-१९.
२५३-एकाशीतिपदवास्तुनिर्णयः । तत्र ग्रहकालविनिर्णये मासफलं नक्षत्रवारादिफलं च । गृहनिर्माणप्रकारकथनम् । श्लो० १-५१.
२५४-गृहमाननिर्णयः तत्र द्वारकरणनिर्णयः। तत्र जातिविशेषेण गृहप्रमाणकथनम । १-४४
२५५-वेधपरिवर्जनम् । तत्र पञ्चमहास्तम्भकथनम् । भवनपूर्वभागे वटादिवृक्षफलकथनम् । श्लो० १-२४,
२५६-शल्यादिकथनं दिङ्निर्णयश्च । तत्र सूत्रादिच्छेददोषकथनम् । देवतागृहादिकरणप्रकारवर्णनम् । श्लो० १-३५,
२५७-दार्वाहरणकथनम् । वास्तुविद्यासमाप्तिश्च । तत्र शुभाशुभदारुकथनम् । आयकथनम् श्लो० १ -२२
२५८-देवार्चानुकीर्तने प्रमाणकथनम् श्लो० १-७५.
२५९-प्रतिमालक्षणम् । तत्र प्रतिमाकारकथनम् श्लो० १-२६.
२६०-अर्धनारीश्वरादिप्रतिमास्वरूपकथनम् । श्लो० १-७०.
२६१-प्रभाकरादिप्रतिमाप्रकारकथनम् श्लो० १-५७.
२६२-पीठिकालक्षणकथनम् । तत्र वैद प्रकारकथनेन फलकथनम् । श्लो०१-२१.
२६३-लिङ्गलक्षणकथनम् । तत्र नवलिङ्गभेदकथनम् । श्लो० १-२५
२६४-कुण्डादिप्रमाणकथनम् । तत्र प्रतिमास्थापनदिनकथनम् । प्रतिमास्थापनप्रकारश्च ।। श्लो०१-४०.
२६५-अधिवासनविधिः । तत्राचार्यलक्षणवर्णनम् । अधिवासनफलकथनम् । श्लो०१-५२. २६६-प्रतिष्ठाप्रयोगः। श्लो० १-६९...
२६७-देवतास्नानविधिवर्णनम् । श्लो० १-३३.
२६८-प्रतिवर्णवास्तुदोषोपशमनविधिकरणकथनम् । श्लो०१-३६.
२६९-प्रासादनिर्देशः । तत्र प्रासादनामस्वरूपकथनम् । श्लो०१-५६.
२७०-मण्डपलक्षणादिकथनम् । तत्र सप्तविंशतिसंख्याकमण्डपनामकथनम् । तल्लक्षणानि च । श्लो०१-३६.
२७१-ऐक्ष्वाकमागधभविष्यराजवर्णनम् श्लो० १-३०.
२७२-पुलकादिवंश्यानां राजत्वकथनम् । तत्र वंश्यनामकथनं च। श्लो० १-३६.
२७३-आन्ध्रयवनम्लेच्छानां राजत्ववर्णनं युगक्षयवर्णनं च । तत्र कलियुगोत्पत्तिकथनम् ।१-८१
२७४-तुलापुरुषदानवर्णनम् । महादानवर्णनं च। तत्र तुलापुरुषदानप्रकारकथनम् । श्लो० १-७८.
२७५-हिरण्यगर्भप्रदानविधिः । श्लो०१-२९.
२७६-ब्रह्माण्डदानविधिवर्णनम् । एतत्करणश्रवणपठनफलकथनम् । श्लो० १-१९.
२७७-कल्पपादपदानविधिः। एतच्छ्रवणपठनफलम श्लो० १-२२.
२७८-गोसहस्रदानप्रकारकथनम् । एतच्छ्रवणपठनफलम् । श्लो० १-२९.
२७९-हिरण्यकामधेनुदानप्रकारवर्णनम् तत्र दानपात्रब्राह्मणवर्णनम् । श्लो० १-१३. २८०-हिरण्याश्वदानविधिवर्णनम् । तत्र श्रवणपठनफलम् । श्लो० १-१५.
२८१-हिरण्याश्वरथप्रदानविधिकथनम् । श्लो० १-१६.
२८२-हिरण्यहस्तिरथप्रदानप्रकारवर्णनम् । तत्र श्रवणपठनफलम् । श्लो० १-१६.
२८३-पञ्चलाङ्गलप्रदानप्रकारकथनम् । श्लो० १-१९.
२८४-हेमपृथिवीदानविधिवर्णनम् । तत्राख्यानश्रवणपठनफलकथनम् श्लो० ॥ १-२१.
२८५-विश्वचक्रप्रदानविधिः। तत्र चक्रकरणप्रकारकथनम् । श्लो० १-२३.
२८६-हेमकल्पलतादानप्रकारवर्णनम् । तच्छ्रवणपठनफलकथनं च । श्लो० १-१७.
२८७-सप्तसागरप्रदानप्रकारः। दानफलं च । श्लो० १-१५
२८८-रत्नधेनुदानविधिवर्णनं दानफलं च श्लो० १-१७ –
२८९-महाभूतघटदानविधिकथनम् । तच्छ्रवणपठनफलकथनं च । श्लो० १-१७.
२९० कल्पकथनम् । तत्र कल्पनामसंख्याकथनम् । ब्राह्मपाद्मपुराणश्रवणपठनफलम् ।
भगवतो मत्स्यस्यान्तर्धानादिवर्णनम् । श्लो० १-२५.
२९१-मत्स्यपुराणोक्तार्थसंग्रहः पठनफलश्रुतिश्च । श्लो० १-३१.