मध्यमकशास्त्रम्/अग्नीन्धनपरीक्षा दशमं प्रकरणम्

← मध्यमकशास्त्रम्/पूर्वपरीक्षा नवमं प्रकरणम् मध्यमकशास्त्रम्
अग्नीन्धनपरीक्षा दशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् →

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥ १०.१ ॥
नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ १०.२ ॥
परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥ १०.३ ॥
तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् ।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥ १०.४ ॥
अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनः ।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥ १०.५ ॥
अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि ।
स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥ १०.६ ॥
अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् ।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥ १०.७ ॥
यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् ।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥ १०.८ ॥
यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् ।
एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥ १०.९ ॥
योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति ।
यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥ १०.१० ॥
योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम् ।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥ १०.११ ॥
अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम् ।
अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥ १०.१२ ॥
आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते ।
अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः ॥ १०.१३ ॥
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥ १०.१४ ॥
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ।
सर्वो निरवशेषेण सार्धं घटपटादिभिः ॥ १०.१५ ॥
आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् ।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥ १०.१६ ॥