मध्यमकशास्त्रम्/आत्मपरीक्षा अष्टादशमं प्रकरणम्

← मध्यमकशास्त्रम्/कर्मफलपरीक्षा सप्तदशमं प्रकरणम् मध्यमकशास्त्रम्
आत्मपरीक्षा अष्टादशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/कालपरीक्षा एकोनविंशतितमं प्रकरणम् →

आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः ॥ १८.१ ॥
आत्मन्यसति चात्मीयं कुत एव भविष्यति ।
निर्ममो निरहंकारः शमादात्मात्मनीनयोः ॥ १८.२ ॥
निर्ममो निरहंकारो यश्च सोऽपि न विद्यते ।
निर्ममं निरहंकारं यः पश्यति न पश्यति ॥ १८.३ ॥
ममेत्यहमिति क्षीणे बहिर्धाध्यात्ममेव च ।
निरुध्यत उपादानं तत्क्षयाज्जन्मनः क्षयः ॥ १८.४ ॥
कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः ।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥ १८.५ ॥
आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् ।
बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ १८.६ ॥
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे ।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ १८.७ ॥
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च ।
नैवातथ्यं नैव तथ्यमेतद्बुद्धानुशासनम् ॥ १८.८ ॥
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् ।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ १८.९ ॥
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १८.१० ॥
अनेकार्थमनानार्थमनुच्छेदमशाश्वतम् ।
एतत्तल्लोकनाथानां बुद्धानां शासनामृतम् ॥ १८.११ ॥
संबुद्धानामनुत्पादे श्रावकाणां पुनः क्षये ।
ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तते ॥ १८.१२ ॥