मध्यमकशास्त्रम्/आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्

← मध्यमकशास्त्रम्/विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् मध्यमकशास्त्रम्
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् →

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ २४.१ ॥
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते ॥ २४.२ ॥
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च ।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ॥ २४.३ ॥
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः ।
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ॥ २४.४ ॥
धर्मे चासति संघे च कथं बुद्धो भविष्यति ।
एवं त्रीण्यपि रत्नानि ब्रूवाणः प्रतिबाधसे ॥ २४.५ ॥
शून्यतां फलसद्भावमधर्मं धर्ममेव च ।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥ २४.६ ॥
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ २४.७ ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ २४.८ ॥
येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः ।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने ॥ २४.९ ॥
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥ २४.१० ॥
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् ।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥ २४.११ ॥
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः ।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम् ॥ २४.१२ ॥
शून्यतायामधिलयं यं पुनः कुरुते भवान् ।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते ॥ २४.१३ ॥
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ २४.१४ ॥
स त्वं दोषानात्मनीनानस्मासु परिपातयन् ।
अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः ॥ २४.१५ ॥
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि ।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥ २४.१६ ॥
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥ २४.१७ ॥
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ २४.१८ ॥
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते ।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते ॥ २४.१९ ॥
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते ॥ २४.२० ॥
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते ॥ २४.२१ ॥
स्वभावतो विद्यमानं किं पुनः समुदेष्यते ।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः ॥ २४.२२ ॥
न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥ २४.२३ ॥
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते ॥ २४.२४ ॥
यदा दुःखं समुदयो निरोधश्च न विद्यते ।
मार्गो दुःखनिरोधत्वात्कतमः प्रापयिष्यति ॥ २४.२५ ॥
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः ॥ २४.२६ ॥
प्रहाणसाक्षात्करणे भावना चैवमेव ते ।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च ॥ २४.२७ ॥
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम् ।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः ॥ २४.२८ ॥
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः ॥ २४.२९ ॥
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ।
धर्मे चासति संघे च कथं बुद्धो भविष्यति ॥ २४.३० ॥
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते ॥ २४.३१ ॥
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि ।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति ॥ २४.३२ ॥
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति ।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि ॥ २४.३३ ॥
विना धर्ममधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥ २४.३४ ॥
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥ २४.३५ ॥
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥ २४.३६ ॥
न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया ।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः ॥ २४.३७ ॥
अजातमनिरुद्धं च कूटस्थं च भविष्यति ।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत् ॥ २४.३८ ॥
असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च ।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥ २४.३९ ॥
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ २४.४० ॥