मध्यमकशास्त्रम्/कर्मकारकपरीक्षा अष्टमं प्रकरणम्

← मध्यमकशास्त्रम्/संस्कृतपरीक्षा सप्तमं प्रकरणम् मध्यमकशास्त्रम्
कर्मकारकपरीक्षा अष्टमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/पूर्वपरीक्षा नवमं प्रकरणम् →

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥ ८.१ ॥
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥ ८.२ ॥
करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥ ८.३ ॥
हेतावसति कार्यं च कारणं च न विद्यते ।
तदभावे क्रिया कर्ता करणं च न विद्यते ॥ ८.४ ॥
धर्माधर्मौ न विद्येते क्रियादीनामसंभवे ।
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥ ८.५ ॥
फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥ ८.६ ॥
कारकः सदसद्भूतः सदसत्कुरुते न तत् ।
परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥ ८.७ ॥
सता च क्रियते नासन्नासता क्रियते च सत् ।
कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥ ८.८ ॥
नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥ ८.९ ॥
नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः ॥ ८.१० ॥
करोति सदसद्भूतो न सन्नासच्च कारकः ।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥ ८.११ ॥
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥ ८.१२ ॥
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥ ८.१३ ॥