मध्यमकशास्त्रम्/तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्

← मध्यमकशास्त्रम्/संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् मध्यमकशास्त्रम्
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् →

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः ॥ २२.१ ॥
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ २२.२ ॥
प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः ॥ २२.३ ॥
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।
स्वभावपरभावाभ्यामृते कः स तथागतः ॥ २२.४ ॥
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानीमुपादद्यादुपादाय ततो भवेत् ॥ २२.५ ॥
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।
यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ २२.६ ॥
न भवत्यनुपादत्तमुपादानं च किंचन ।
न चास्ति निरुपादानः कथंचन तथागतः ॥ २२.७ ॥
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्येत तथागतः ॥ २२.८ ॥
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते ।
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥ २२.९ ॥
एवं शून्यमुपादानमुपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ २२.१० ॥
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ २२.११ ॥
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥ २२.१२ ॥
येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ २२.१३ ॥
स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ २२.१४ ॥
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ २२.१५ ॥
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ २२.१६ ॥