मध्यमकशास्त्रम्/दुःखपरीक्षा द्वादशमं प्रकरणम्

← मध्यमकशास्त्रम्/पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् मध्यमकशास्त्रम्
दुःखपरीक्षा द्वादशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/संस्कारपरीक्षा त्रयोदशमं प्रकरणम् →

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ १२.१ ॥
स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि ॥ १२.२ ॥
यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥ १२.३ ॥
स्वपुद्नलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥ १२.४ ॥
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥ १२.५ ॥
परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥ १२.६ ॥
स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः ।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥ १२.७ ॥
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ १२.८ ॥
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
पराकारास्वयंकारं दुःखमहेतुकं कुतः ॥ १२.९ ॥
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ १२.१० ॥