मध्यमकशास्त्रम्/दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्

← मध्यमकशास्त्रम्/द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् मध्यमकशास्त्रम्
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्
नागार्जुन

अभूमतीतमध्वानं नाभूमिति च दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ २७.१ ॥
दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २७.२ ॥
अभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ २७.३ ॥
स एवात्मेति तु भवेदुपादानं विशिष्यते ।
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः ॥ २७.४ ॥
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति ।
स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः ॥ २७.५ ॥
न चोपादानमेवात्मा व्येति तत्समुदेति च ।
कथं हि नामोपादानमुपादाता भविष्यति ॥ २७.६ ॥
अन्यः पुनरुपादानादात्मा नैवोपपद्यते ।
गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ २७.७ ॥
एवं नान्य उपादानान्न चोपादानमेव सः ।
आत्मा नास्त्यनुपादानः नापि नास्त्येष निश्चयः ॥ २७.८ ॥
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ २७.९ ॥
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् ।
तथैव च स संतिष्ठेत्तत्र जायेत वामृतः ॥ २७.१० ॥
उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् ।
अन्येन परिभोगः स्यादेवमादि प्रसज्यते ॥ २७.११ ॥
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ २७.१२ ॥
एवं दृष्टिरतीते या नाभूमहमभूमहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते ॥ २७.१३ ॥
अध्वन्यनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ २७.१४ ॥
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् ।
अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् ॥ २७.१५ ॥
देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् ।
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ॥ २७.१६ ॥
दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः ।
अशाश्वतं शाश्वतं च भवेतच्च न युज्यते ॥ २७.१७ ॥
अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि ।
सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि ॥ २७.१८ ॥
कुतश्चिदागतः कश्चित्किंचिद्नच्छेत्पुनः क्वचित् ।
यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः ॥ २७.१९ ॥
नास्ति चेच्छाश्वतः कश्चित्को भविष्यत्यशाश्वतः ।
शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ २७.२० ॥
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् ।
अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् ॥ २७.२१ ॥
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव ।
प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ २७.२२ ॥
पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २७.२३ ॥
पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदथ ॥ २७.२४ ॥
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् ।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २७.२५ ॥
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ २७.२६ ॥
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७.२७ ॥
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि ।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ २७.२८ ॥
अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः ।
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ २७.२९ ॥
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् ।
अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ २७.३० ॥