मध्यमकशास्त्रम्/बन्धमोक्षपरीक्षा षोडशं प्रकरणम्

← मध्यमकशास्त्रम्/स्वभावपरीक्षा पञ्चदशमं प्रकरणम् मध्यमकशास्त्रम्
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/कर्मफलपरीक्षा सप्तदशमं प्रकरणम् →

संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः ॥ १६.१ ॥
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति ॥ १६.२ ॥
उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥ १६.३ ॥
संस्काराणां न निर्वाणं कथंचिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥ १६.४ ॥
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ १६.५ ॥
बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थोऽथ बध्यते ॥ १६.६ ॥
बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि ।
न चास्ति तत्शेषमुक्तं गम्यमानगतागतैः ॥ १६.७ ॥
बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे ॥ १६.८ ॥
निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः ॥ १६.९ ॥
न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥ १६.१० ॥