मध्यमकशास्त्रम्/रागरक्तपरीक्षा षष्ठं प्रकरणम्

← मध्यमकशास्त्रम्/धातुपरीक्षा पञ्चमं प्रकरणम् मध्यमकशास्त्रम्
रागरक्तपरीक्षा षष्ठं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/संस्कृतपरीक्षा सप्तमं प्रकरणम् →

रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥ ६.१ ॥
रक्तेऽसति पुना रागः कुत एव भविष्यति ।
सति वासति वा रागे रक्तेऽप्येष समः क्रमः ॥ ६.२ ॥
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ ६.३ ॥
नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह ।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ ६.४ ॥
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥ ६.५ ॥
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥ ६.६ ॥
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
सहभावं किमर्थं तु परिकल्पयसे तयोः ॥ ६.७ ॥
पृथङ्न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥ ६.८ ॥
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥ ६.९ ॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ ६.१० ॥