मध्यमकशास्त्रम्/सामग्रीपरीक्षा विंशतितमं प्रकरणम्

← मध्यमकशास्त्रम्/कालपरीक्षा एकोनविंशतितमं प्रकरणम् मध्यमकशास्त्रम्
सामग्रीपरीक्षा विंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् →

हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.१ ॥
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.२ ॥
हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ २०.३ ॥
हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् ।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः ॥ २०.४ ॥
हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते ।
यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् ॥ २०.५ ॥
हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते ।
हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् ॥ २०.६ ॥
फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः ।
एककालौ प्रसज्येते जनको यश्च जन्यते ॥ २०.७ ॥
पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि ।
हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् ॥ २०.८ ॥
निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् ।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥ २०.९ ॥
जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम् ।
तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः ॥ २०.१० ॥
अथावृतः फलेनासौ कतमज्जनयेत्फलम् ।
न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम् ॥ २०.११ ॥
नातीतस्य ह्यतीतेन फलस्य सह हेतुना ।
नाजातेन न जातेन संगतिर्जातु विद्यते ॥ २०.१२ ॥
न जातस्य ह्यजातेन फलस्य सह हेतुना ।
नातीतेन न जातेन संगतिर्जातु विद्यते ॥ २०.१३ ॥
नाजातस्य हि जातेन फलस्य सह हेतुना ।
नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ २०.१४ ॥
असत्यां संगतौ हेतुः कथं जनयते फलम् ।
सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ २०.१५ ॥
हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् ।
हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम् ॥ २०.१६ ॥
फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते ।
अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति ॥ २०.१७ ॥
कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते ।
शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥ २०.१८ ॥
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते ।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ २०.१९ ॥
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः ।
पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना ॥ २०.२० ॥
फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति ।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति ॥ २०.२१ ॥
न चाजनयमानस्य हेतुत्वमुपपद्यते ।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ २०.२२ ॥
न च प्रत्ययहेतूनामियमात्मानमात्मना ।
या सामग्री जनयते सा कथं जनयेत्फलम् ॥ २०.२३ ॥
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् ।
अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २०.२४ ॥