मनीषापञ्चकम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

मनीषापञ्चकम्
शङ्कराचार्यः
१९५३

॥ मनीषापञ्चकम् ॥

सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् । काशीक्षेत्रं प्रति सह गौर्या मार्गे तु शङ्करम् ॥ १ अन्त्यवेषधरं दृष्ट्वा गच्छगच्छेति चाब्रवीत् । शङ्करस्सोऽपि चण्डालः तं पुनः प्राह शङ्करम् ॥ २ अन्नमयादन्नमयमथवाचैतन्यमेव चैतन्यात् । यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेद- भ्रम: । किंगङ्गाम्बुनि बिम्बितेऽम्बरमणौ चण्डालवीधी- पयः पूरेवाऽन्तरमस्ति काश्चनघटीमृत्कुम्भयोर्वाम्बरे ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते याब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढमज्ञापि यस्यास्तिचे. च्चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥ मनीषापञ्चकम् ५२१

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणया शेषं मया कल्पितम् । इत्थं यस्य दृढा मतिस्सुखतरे नित्ये परे निर्मले चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥ शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना । भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ या तिर्यङ्नरदेवताभिरहमित्यन्तस्फुटागृह्यते यद्भासा हृदयाक्ष देहविषया भान्ति स्वतोचेतनाः । तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसोऽहिगुरुरित्येषामनीषामम ॥ ४ यत्सौख्याम्बुधि लेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन् नित्यसुखाम्बुधौ गळितधीर्ब्रह्मैव नब्रह्मवि- द्यः कश्चित्ससुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ इति श्रीमच्छङ्कर भगवत्पादविरचितं मनीषा पञ्चकम् ॥