गुप्तबिन्दुः ।

अधुना गुप्तबिन्दौ तु क्रियादेर्गोप्यगुम्फनम् ।
निरूप्यते समासेन विबुधानन्दवृद्धये ॥
भङ्गश्लेषाद्युपायेन क्रियादेर्गोपनं भवेत् ।
अथवा चरणान्तादिष्वक्षराणां निवेशनात् ॥

तत्र क्रियागुप्तं यथा--

गृहद्वारगतस्यास्य पुंसः कामार्तचेतसः ।
विलासैर्गणिकां सख्यो वित्ताकर्षणनिर्भराम् ॥ १ ॥

          अत्र 'वित्त' इति ।

आलोलनयनां कृष्णो लिं[१]पन्ती वीक्षणैर्दिशः ।
गच्छन्ती सद्मसंकेतं तिमिरे राधिका मुदा ॥ २ ॥

        अत्र ‘आलिंगति' इति ।

हेरम्बचरणाम्भोजं महद्भृङ्गनिषेवितम् ।
दावाग्निं विघ्नदावस्य वंदारूणां वयं सदा ॥ ३ ॥

        अत्र 'वंदामहे' इति ।

जितकाञ्चनकुम्भश्रि सुघृणायतनं द्युतेः ।
तादृक्षमस्या वक्षोजद्वन्द्वं सोऽतिमुदा हरिः ॥ ४ ॥

        अत्र 'जिघृक्षति' इति ।

रमासमानया कृष्णः सहासो राधया तया ।
निकुंजनिकुरम्बेषु कालिन्दीविलसत्तटे ॥ ५ ॥

        अत्र 'विजहार' इति ।

अञ्चितोऽपि निकुञ्जोऽसौ कुञ्चत्कण्टकिवीरुधा ।
स्वैरिण्याश्चिररात्राय लुठन्त्याः कामिनः कृते ॥ ६ ॥

        अत्र 'सौधायते' इति ।

वसन्तं प्राणिनां देहे वसतस्ते सुरोत्तम ।
पादे स्पृश्ये त्रयीवाचा वयं भक्ति सदा तया ॥ ७ ॥

        अत्र 'याचामहे' इति ।

इति क्रियागोपनम् ।

कर्तृगुप्तं यथा--

सर्पात्क्रूरतरान्दैत्याननेकानवधीद्युधि ।
कमलापतिविद्वेषपरिदूषितमानसान् ॥ ८ ॥

        अत्र 'सर्पात्' इति ।

दृप्तानामात्मनारीणां सर्वसाम्राज्यसंभवः ।
तादृशो दर्पभारोऽयं व्यभञ्जीत्यवदन्मुदा ॥ ९ ॥

        अत्र 'आत्मना' इति ।

अन्ये भेदाः पूर्ववत् ।

इति कर्तृगोपनम् ।

कर्मगुप्तं यथा--

[२]शंकरः कुरुताच्छ्रीमान्भक्तस्य मम ते सदा ।
निजाश्रितकदम्बस्य निलिम्पविटपोपमः ॥ १० ॥

        अत्र 'शम्' इति ।

[३]मनोजस्य परीहासैरारामे राधया तया ।
अहारि गोपकान्तानां रासक्रीडामहोत्सवे ॥ ११ ॥

        अत्र 'मनः' इति ।

अन्ये भेदाः पूर्ववत् ।

इति कर्मगोपनम् ।

संबन्धगुप्तं यथा--

[४]बालेवयस्य मुद्युक्ता मुखमालोकसे सदा ।
तमद्य कामसंतप्तं गाढालिङ्गनसंभ्रमैः ॥ १२ ॥

        अत्र 'यस्य' इति ।

पूर्ववदन्ये भेदाः ।

 पदगुप्तं यथा--

[५]नालंकृतकुलं क्रूरं विहरन्तं सरस्तटे ।
दुद्राव दूरतो दृष्ट्वा चक्री भीतियुतो जवात् ॥ १३ ॥

        अत्र 'नकुलम्' इति ।

[६]यामध्यमं च सुकृतं लेभे त्वत्तः पुरा नृपः ।
अद्य धत्ते स्मरार्ता सा [७]नवं कवचमाकुलम् ॥ १४ ॥

        अत्र 'सुतं, कचम्' इति च ।

'इदमेवार्थगुप्तम्' इति केचित् ।

पदार्थोभयगुप्तं यथा--

[८]सनिषिद्धोऽप्यगराजः कुचोपमायां पुनश्च गतिवण्योः (?) ।
योग्योऽभूदुपमायां सर्वं धात्रोपयुक्तमिह सृष्टम् ॥ १५ ॥

 अत्र सनिषिद्धो निषेधवाचकनकारयुक्त इत्यर्थगोपनम्, 'नागराजः' इति पदगोपनं च । अत्र क्रियागुप्तवद्भेदा बोध्याः ।

 कर्तृकर्मोभयगुप्तं यथा--

नारीनाशोदयद्धूलीपालीपिहितपूषणि ॥
स्वान्तरे खण्डयामास खड्गेनैकेन खण्डशः ॥ १६ ॥

        अत्र 'ना, अरीन्' इति ।

भावगुप्तं यथा--

मारनाराचनिर्भिन्नमानसा मत्तकाशिनी ।
मन्दरं मृगशावाक्षी मुहुर्निन्दति लुण्ठति ॥ १७ ॥

        अत्र 'चन्द्रोत्पत्तिहेतुत्वात्' इति भावः ।

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतो गुप्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणश्चन्द्रदेवनाम्नश्च कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे गुप्तबिन्दुः षष्ठः समाप्तिमगमत् ।

पूर्वार्धः समाप्तः ।


  1. परसवर्णमकृत्वैव गुप्तताश्रिता.
  2. 'ते करः' इति योजना.
  3. अजस्य कृष्णस्य
  4. 'हे बाले,यस्य मुखमालोकसे ते
    कामसंतप्त गाढालिङ्गनविभ्रमैरेव' इति योजना
  5. 'नकारेणालंकृतः कुलशब्दो यत्र त
    नकुलम्' इति बोध्यम्.
  6. मध्यमेन 'कृ' इत्यनेन रहितमध्यमम्
  7. नास्ति वकारो यत्र, अर्थात् वकाररहितम्.
  8. कुचोपमाया निषिद्धोऽपि सोऽगराजः पर्वतः पुनश्च गतिवर्णनाया नकारयुक्तोऽगराजो नागराजो गजो योग्योऽभूत्.