महाभारतम्-04-विराटपर्व-012

← विराटपर्व-011 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-012
वेदव्यासः
विराटपर्व-013 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ।। 1 ।।
विराटेन नकुलस्याश्वपालने नियोजनम् ।। 2 ।।

वैशंपायन उवाच।

4-12-1x

अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ।। 1 ।।

4-12-1a
4-12-1b

स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट्।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ।। 2 ।।

4-12-2a
4-12-2b

को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम्
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ।। 3

4-12-3a
4-12-3b

अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ।। 4 ।।

4-12-4a
4-12-4b

वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात्।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ।। 5 ।।

4-12-5a
4-12-5b

तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ।। 6 ।।

4-12-6a
4-12-6b

विराट उवाच।

4-12-7x

ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ।। 7

4-12-7a
4-12-7b

नकुल उवाच।

4-12-8x

पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ।। 8 ।।

4-12-8a
4-12-8b

अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ।। 9 ।।

4-12-9a
4-12-9b

न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ।। 10

4-12-10a
4-12-10b

मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ।। 11 ।।

4-12-11a
4-12-11b

युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात्।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ।। 12 ।।

4-12-12a
4-12-12b

विराट उवाच।

4-12-13x

यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ।। 13 ।

4-12-13a
4-12-13b

इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम्।
...ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ।। 14 ।।

4-12-14a
4-12-14b

युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ।। 15

4-12-15a
4-12-15b

वैशंपायन उवाच ।

4-12-16x

तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः।
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ।। 16 ।।

4-12-16a
4-12-16b

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः ।। 12 ।।

विराटपर्व-011 पुटाग्रे अल्लिखितम्। विराटपर्व-013