महाभारतम्-04-विराटपर्व-045

← विराटपर्व-044 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-045
वेदव्यासः
विराटपर्व-046 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ।। 1 ।। तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् ।। 2 ।।











वैशंपायन उवाच।

4-45-1x

उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ।।

4-45-1a
4-45-1b

ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ।।

4-45-2a
4-45-2b

ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् ।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ।।

4-45-3a
4-45-3b
4-45-3c

स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ।।

4-45-4a
4-45-4b

सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ।।

4-45-5a
4-45-5b

रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ।।

4-45-6a
4-45-6b
4-45-6c

सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् ।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ।।

4-45-7a
4-45-7b
4-45-7c

[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ।।

4-45-8a
4-45-8b

आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ।।

4-45-9a
4-45-9b

यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]।।

4-45-10a
4-45-10b

शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ।।

4-45-11a

तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ।।

4-45-12a
4-45-12b
4-45-12c

शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ।।

4-45-13a
4-45-13b

अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ।।

4-45-14a
4-45-14b

शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ।।

4-45-15a
4-45-15b

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ।।

4-45-16a
4-45-16b

श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ।।

4-45-17a
4-45-17b

स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ।।

4-45-18a
4-45-18b

उत्तर उवाच।

4-45-19x

श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ।।

4-45-19a
4-45-19b

नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ।।

4-45-20a
4-45-20b
4-45-20c

अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ।।

4-45-21a
4-45-21b
4-45-21c

व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ।।

4-45-22a
4-45-22b
4-45-22c

वैशंपायन उवाच।

4-45-23x

पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ।।

4-45-23a
4-45-23b

स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ।।

4-45-24a

स्थिरो भव महाबाहो संज्ञां चात्मानमानय।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ।।

4-45-25a
4-45-25b
4-45-25c

एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ।।

4-45-26a
4-45-26b
4-45-26c

ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः ।

4-45-27a
4-45-27b
4-45-27c

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ।।

4-45-28a
4-45-28b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ।। 45 ।।

विराटपर्व-044 पुटाग्रे अल्लिखितम्। विराटपर्व-046