महाभारतम्-05-उद्योगपर्व-029

← उद्योगपर्व-028 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-029
वेदव्यासः
उद्योगपर्व-030 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन स्वस्य कुरुपाण्डेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ।। 1 ।।

तथा सञ्जयंप्रति दुर्योधनादिकृत्यनयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ।। 2 ।।

तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रंप्रति यथाभिलषितकरणकथनचोदनम्


























































वासुदेव उवाच।

5-29-1x

अविनाशं सञ्जय पाण्डवाना-
मिच्छाम्यहं भूतिमेषां प्रियं च।
तथा राज्ञो धृतराष्ट्रस्य सूत
समाशंसे बहुपुत्रस्य वृद्धिम् ।।

5-29-1a
5-29-1b
5-29-1c
5-29-1d

कामो हि मे सञ्जय नित्यमेव
नान्यद्ब्रूयां तान्प्रति शाम्यतेति।
राज्ञश्च हि प्रियमेतच्छृणोमि
मन्ये चैतत्पाण्डवानां समक्षम् ।।

5-29-2a
5-29-2b
5-29-2c
5-29-2d

सुदुष्करस्तत्र शमो हि नूनं
प्रदर्शितः सञ्जय पाण्डवेन।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः
कस्मादेषां कलहो नावमूर्च्छेत् ।।

5-29-3a
5-29-3b
5-29-3c
5-29-3d

न त्वं धर्मं विचरं सञ्जयेह
मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य
उत्साहिनः पूरयतः स्वकर्म ।।

5-29-4a
5-29-4b
5-29-4c
5-29-4d

यथाख्यातमावमतः कुटुम्बे
पुरा कस्मान्साधुविलोपमात्थ।
अस्मिन्विधौ वर्तमाने यथाव-
दुच्चावचा मतयो ब्राह्मणानाम् ।।

5-29-5a
5-29-5b
5-29-5c
5-29-5d

कर्मणाऽऽहुः सिद्धिमेके परत्र
हिन्वा कर्म विद्यया सिद्धिमेके।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये-
द्विद्वानपीह विहितं ब्राह्मणानाम् ।।

5-29-6a
5-29-6b
5-29-6c
5-29-6d

या वै विद्याः साधयन्तीह कर्म
तासां फलं विद्यते नेतरासाम्।
तत्रेह वै दृष्टफलं तु कर्म
पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ।।

5-29-7a
5-29-7b
5-29-7c
5-29-7d

सोऽयं विधिर्विहितः कर्मणैव
संवर्तते सञ्जय तत्र कर्म।
तत्र योऽन्यत्कर्मणः साधु मन्ये-
न्मोघं तस्यालपितं दुर्बलस्य ।।

5-29-8a
5-29-8b
5-29-8c
5-29-8d

कर्मणाऽमी भान्ति देवाः परत्र
कर्मणैवेह प्लवते मातरिश्वा।
अहोरात्रे विदधत्कर्मणैव
अतन्द्रितो नित्यमुदेति सूर्यः ।।

5-29-9a
5-29-9b
5-29-9c
5-29-9d

मासार्धमासानथ नक्षत्रयोगा-
नतन्द्रितश्चन्द्रमाश्चाभ्युपैति।
अतन्द्रितो दहते जातवेदाः
समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ।।

5-29-10a
5-29-10b
5-29-10c
5-29-10d

अतन्द्रिता भारमिमं महान्तं
बिभर्ति देवी पृथिवी वलेन।
अतन्द्रिताः शीघ्रसपो वहन्ति
सन्तर्पयन्त्यः सर्वभूतानि नद्यः ।।

5-29-11a
5-29-11b
5-29-11c
5-29-11d

अतन्द्रितो वर्षति भूरितेजाः
सन्नादयन्नन्तरिक्षं दिशश्च।
अतन्द्रितो ब्रह्मचर्यं चचार
श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ।।

5-29-12a
5-29-12b
5-29-12c
5-29-12d

हित्वा सुखं मनसश्च प्रियाणि
तेन शक्रः कर्मणा श्रैष्ठ्यमाप।
सत्यं धर्मं पालयन्नप्रमत्तो
दमं तितिक्षां समतां प्रियं च ।।

5-29-13a
5-29-13b
5-29-13c
5-29-13d

एतानि सर्वाण्युपसेवमानो
यो देवराज्यं मघवान्प्राप मुख्यम्।
बृहस्पतिर्ब्रह्मचर्यं चचार
समीहितः संशिमात्मा यथावत् ।।

5-29-14a
5-29-14b
5-29-14c
5-29-14d

हित्वा सुख प्रतिरुध्येन्द्रियाणि
तेन देवानामगमद्गौरवं सः।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति
रुद्रादित्या वसवोऽथापि विश्वे ।।

5-29-15a
5-29-15b
5-29-15c
5-29-15d

यमो राजा वैश्रवणः कुबेरो
गन्धर्वयक्षाप्सरसश्च सूत।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च
निपेवमाणा ऋषयोऽमुत्र भान्ति ।।

5-29-16a
5-29-16b
5-29-16c
5-29-16d

जानन्निमं सर्वलोकस्य धर्मं
विप्रेन्द्राणां क्षत्रियाणां विशां च।
स कस्मात्त्वं जानतां ज्ञानवान्सन्
व्यायच्छसेक सञ्जय कौरवार्थे ।।

5-29-17a
5-29-17b
5-29-17c
5-29-17d

आम्नायेषु नित्यसंयोगमस्य
तथाऽश्वमेधे राजसूये च विद्धि।
संयुज्यते धनुपा वर्मणा च
हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ।।

5-29-18a
5-29-18b
5-29-18c
5-29-18d

ते चेदिमे कौरवाणाम्रुपाय-
मवगच्छेयुवधेनैव पार्थाः।
धर्मत्राणं पुण्यमेषां कृतं स्या-
दार्ये वृत्ते भीमसेनं निगृह्य ।।

5-29-19a
5-29-19b
5-29-19c
5-29-19d

ते चेत्पित्र्ये कर्मणि वर्तमाना
आपद्येरन्दिष्टवशेन मृत्युम्।
यथाशक्त्यापूरयन्तः स्वकर्म
तदप्येषां निधनं स्यात्प्रशस्तम् ।।

5-29-20a
5-29-20b
5-29-20c
5-29-20d

उताहो त्वं मन्यसे शाम्यमेव
राज्ञां युद्धे वर्तते धर्मतन्त्रम्।
अयुद्धे वा वर्तते धर्मतन्त्रं
तथैव ते वाचमिमां श्रृणोमि ।।

5-29-21a
5-29-21b
5-29-21c
5-29-21d

चातुर्वर्ण्यस्य प्रथमं संविभाग-
मवेक्ष्य त्वं सञ्जय स्वं च कर्म।
निशम्याथो पाण्डवानां च कर्म
प्रशंस वा निन्द वा या मतिस्ते।।

5-29-22a
5-29-22b
5-29-22c
5-29-22d

अधीयीत ब्राह्मणो वै यजेत
दद्यादीयात्तीर्थमुख्यानि चैव।
अध्याप्रयेद्याजयेच्चापि याज्यान्
प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ।।

5-29-23a
5-29-23b
5-29-23c
5-29-23d

` अधीयीत क्षत्रियोऽथो यजेत
दद्याद्धनं न तु याचेत किंचित्।
न याजयेन्न तु चाध्यापयीत
एवं स्मृतः क्षत्रधर्मः पुराणः ।।'

5-29-24a
5-29-24b
5-29-24c
5-29-24d

तथा राजन्यो रक्षणं वै प्रजानां
कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य
दारान्कृवा पुण्यकृदावसेद्गृहान् ।।

5-29-25a
5-29-25b
5-29-25c
5-29-25d

स धर्मात्मा धर्ममधीत्य पुण्यं
यदृच्छया व्रजति ब्रह्मलोकम्।
वैश्योऽधीत्य कृषिगोरक्षपण्यै-
र्वित्तं चिन्वन्पालयन्नप्रमत्तः ।।

5-29-26a
5-29-26b
5-29-26c
5-29-26d

देवं स्मृतः शूद्रधर्मः पुराणः ।।

5-29-27f

एतान्राजा पालयन्नप्रमत्तो
नियोजयन्सर्ववर्णान्स्वधर्मे।
अकामात्मा समवृत्तिः प्रजासु
नाधार्मिकाननुरुध्येत कामात् ।।

5-29-28a
5-29-28b
5-29-28c
5-29-28d

श्रेयांस्तस्माद्यदि विद्येत कश्चि-
दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां
न चैतद्बुध्येदिति तस्मिन्नसाधुः ।।

5-29-29a
5-29-29b
5-29-29c
5-29-29d

उत्पादितं वर्म शस्त्रं धनुश्च ।।

5-29-30f

तत्र पुण्यं दस्युवधेन लभ्यते
सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः
प्रादुर्भूतः सञ्जय साधु तन्न ।।

5-29-31a
5-29-31b
5-29-31c
5-29-31d

तत्र राजा धृतराष्ट्रः सपुत्रो
धर्म्यं हरेत्पाण्डवानामकस्मात्।
नावेक्षन्ते राजधर्मं पुराणं
तदन्वयाः कुरवः सर्व एव ।।

5-29-32a
5-29-32b
5-29-32c
5-29-32d

स्तेनो हरेद्यत्र धनं ह्यदृष्टः
प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ
किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ।।

5-29-33a
5-29-33b
5-29-33c
5-29-33d

सोऽयं लोभान्मन्यते धर्ममेतं
यमिच्छति क्रोधवशानुगामी।
भागः पुनः पाण्डवानां निविष्ट-
स्तं नः कस्मादाददीरन्परे वै ।।

5-29-34a
5-29-34b
5-29-34c
5-29-34d

अस्मिन्पदे युध्यतां नो वधोऽपि
श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्।
एतान्धर्मान्कौरवाणां पुराणा-
नाचक्षीथाः सञ्जय राजमध्ये ।।

5-29-35a
5-29-35b
5-29-35c
5-29-35d

एते मदान्मृत्युवशाभिपन्नाः
समानीता धार्तराष्ट्रेण मूढाः।
इदं पुनः कर्म पापीय एव
सभामध्ये पश्य वत्तं कुरूणाम् ।।

5-29-36a
5-29-36b
5-29-36c
5-29-36d

प्रियं भार्यां द्रौपदीं पाण्डवानां
यशस्विनीं शीलवृत्तोपपन्नाम्।
यदुपैक्षन्त कुरवो भीष्ममुख्याः
कामानिगेनोपरुद्धां व्रजन्तीम् ।।

5-29-37a
5-29-37b
5-29-37c
5-29-37d

तां चेत्तदा ते सकुमारवृद्धा
अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत्
पुत्राणां च कृतमस्याभविष्यत् ।।

5-29-38a
5-29-38b
5-29-38c
5-29-38d

दुःशासनः प्रतिलोम्यान्निनाय
सभामध्ये श्वशुराणां च कृष्णाम्।
सा तत्र नीता करुणं व्यपेक्ष्य
नान्यं क्षत्तुर्नाथमवाप किंचित् ।।

5-29-39a
5-29-39b
5-29-39c
5-29-39d

कार्पण्यादेव सहितास्तत्र भूपा
नाशक्नुवन्प्रतिवक्तुं सभायाम्।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो
धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ।।

5-29-40a
5-29-40b
5-29-40c
5-29-40d

अबुद्ध्वा त्वं धर्ममेतं सभाया-
अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं
सुदुष्करं तत्र सभां समेत्य ।।

5-29-41a
5-29-41b
5-29-41c
5-29-41d

येन कृच्छ्रात्पाण्डवानुज्जहार
तथाऽऽत्मानं नौरिव सागरौघात्।
यत्राब्रवीत्सूतपुत्रः सभायां
कृष्णां स्थितां श्वशुराणां समीपे ।।

5-29-42a
5-29-42b
5-29-42c
5-29-42d

न ते गतिर्विद्यते याज्ञसेनि
प्रपद्येथा धार्तराष्ट्रस्य वेश्म।
पराजितास्ते पतयो न सन्ति
पतिं चान्यं भामिनि त्वं वृणीष्व ।।

5-29-43a
5-29-43b
5-29-43c
5-29-43d

यो बीभत्सोर्हृदये प्रोत आसी-
दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः
प्रतिष्ठितो हृदये फाल्गुनस्य ।।

5-29-44a
5-29-44b
5-29-44c
5-29-44b

कृष्णाजिनानि परिधित्समानान्
दुःशासनः कटुकान्यभ्यभाषत्।
एते सर्वे षण्डतिला विनष्टाः
क्षयं गता नरकं दीर्घकालम् ।।

5-29-45a
5-29-45b
5-29-45c
5-29-45d

द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ।।

5-29-46f

स्वयं त्वहं प्रार्थये तत्र गन्तुं
समाधातुं कार्यमेतद्विपन्नम् ।
` जानासि त्वं धार्तराष्ट्रस्य मोहं
दुरात्मनः पापवशानुगस्य ' ।।

5-29-47a
5-29-47b
5-29-47c
5-29-47d

अहापयित्वा यदि पाण्डवार्थं
शमं कुरूणामपि चेच्छकेयम्।
पुण्यं च मे स्याच्चरितं महोदयं
मुच्येरंश्च कुरवो मृत्युपाशात् ।।

5-29-48a
5-29-48b
5-29-48c
5-29-48d

अपि मे वाचं भाषमाणस्य काव्यां
धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं
मां च प्राप्तं कुरवः पूजयेयुः ।।

5-29-49a
5-29-49b
5-29-49c
5-29-49d

अतोऽन्यथा रथिना फाल्गुनेन
भीमेन चैवाहवदंशितेन।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि
प्रदह्यमानान्कर्मणा स्वेन पापान् ।।

5-29-50a
5-29-50b
5-29-50c
5-29-50d

पराजितान्पाण्डवेयांस्तु वाचो
रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो
दुर्योधनं स्मारयिता हि काले ।।

5-29-51a
5-29-51b
5-29-51c
5-29-51d

सुयोधनो मन्युमयो महाद्रुमः
स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे
मूलं राजा धृतराष्ट्रोऽमनीषी ।।

5-29-52a
5-29-52b
5-29-52c
5-29-52d

युधिष्ठिरो धर्ममयो महाद्रुमः
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे
मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ।।

5-29-53a
5-29-53b
5-29-53c
5-29-53d

` वनं राजा धृतराष्ट्रः सपुत्रः
सिंहा वने सञ्जय पाण्डवेयाः।
सिंहाभिगुप्तं न वनं विनश्येत्
सिंहो न नश्येत वनाभिगुप्तः ।।

5-29-54a
5-29-54b
5-29-54c
5-29-54d

निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम्।
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ।।'

5-29-55a
5-29-55b

वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना।।

5-29-56a
5-29-56b

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ।।

5-29-57a
5-29-57b

लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः।
न लता वर्धते जातु महाद्रुममनाश्रिता ।।

5-29-58a
5-29-58b

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ।।

5-29-59a
5-29-59b

स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ।।

5-29-60a
5-29-60b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ।।

सम्पाद्यताम्

5-29-2 शाम्यतेति वचनादन्यत्तान्प्रति न ब्रूयाम् । पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि। अहं च एतन्मन्ये मानयामि ।। 2 ।।

5-29-3 तत्र राज्ये निमित्ते। गृद्धः लिप्सावान् । एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ।। 3 ।।

5-29-4 विचरं विचलितम्। पूरयतः पालयतः ।। 4 ।।

5-29-5 यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्टतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम्। अस्मिन्विधौ ।। 5 ।।

5-29-17 व्यायच्छसे निग्रहं करोषि ।। 17 ।।

5-29-18 विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ।। 18 ।।

5-29-19 कौरवाणां अवधेन उपायम्। राज्यप्राप्ताविति शेषः। एषां एतैः। भीमसेनं आर्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ।। 19 ।।

5-29-21 शाम्यमेव शमः कार्यएवेति मन्यसे तर्हि धर्ममन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे । तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं श्रृणोमि करिष्यामीत्यर्थः ।। 21 ।।

5-29-26 सः क्षत्रियः अधीत्य प्राप्य ।। 26 ।।

5-29-29 तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठी। प्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः। अनुशिष्यन् अनुशासितुमिच्छत् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत्। नच तस्मिन्नसाधुः युधिष्ठिरेऽसाधुरधर्मो न चास्तीत्यपि बुध्येत् ।। 29 ।।

5-29-30 परभूतौ परैश्वर्ये नूशंसश्चोरकल्पो राजा विधिप्रकोषात् दैवप्रातकूल्यात् गृद्ध्येत्। ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । कर्म युद्धम्। वर्म कवचम्। शस्त्रं खङ्गादि धनुश्चेति।। 30 ।।

5-29-31 कुरुभिर्निमित्तभूतैरयं दोषः वञ्जनारूपः प्रादुर्भूतः ।। 31 ।।

5-29-32 धर्म्यं धर्मादागतं पित्र्यं राज्यम्। तदन्वयास्तदनुसारिणः ।। 32 ।।

5-29-33 पृथत्क्वं स्तेनादन्यत्वम् ।। 33 ।।

5-29-34 एतं छलेन राज्यापहारम्। निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ।। 34 ।।

5-29-35 पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ।। 35 ।।

5-29-37 कामानुगेन रजसा। उपरुद्धां गृहकर्मतो निरुद्धाम् ।। 37 ।।

5-29-39 प्रातिलोम्यात् अक्रमेण ।। 39 ।।

5-29-40 कार्पण्यात् दैन्यात् ।। 40 ।।

5-29-41 पाण्डवस्य धर्मं उपदेष्टुं इच्छसे ।। 41 ।।

5-29-47 विपन्नं नष्टं समाधातं समीकर्तुम् ।। 47 ।।

5-29-48 शकेयं शक्तश्चेत्स्याम् ।। 48 ।।

5-29-49 काव्यां शोक्रीम् ।। 49 ।।

5-29-51 रौद्राः मर्मच्छिदः। रूक्षाः निःस्नेहाः। भाषते द्यूतावसानेऽभाषत ।। 51 ।।

5-29-53 ब्रह्म वेदः ।। 53 ।।

उद्योगपर्व-028 पुटाग्रे अल्लिखितम्। उद्योगपर्व-030