महाभारतम्-05-उद्योगपर्व-040

← उद्योगपर्व-039 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-040
वेदव्यासः
उद्योगपर्व-041 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ।। 1 ।।




















विदुर उवाच।

5-40-1x

योऽभ्यर्चितः मद्भिरसञ्जमानः
करोत्यर्थं शक्तिमहापयित्वा।
क्षिप्रं यशस्तं समुपैति मन्त-
मलं प्रसन्ना हि सुखाय सन्तः ।।

5-40-1a
5-40-1b
5-40-1c
5-40-1d

महान्तमप्यर्थमधर्मयुक्तं
यः मन्त्यजत्यनपाकृष्ट एव।
सुखं सुदुःखान्यवमुच्य शेते
जीर्णां त्वचं सर्प इवावमुच्य ।।

5-40-2a
5-40-2b
5-40-2c
5-40-2d

अनृते च समुत्कर्पो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ।।

5-40-3a
5-40-3b

असूयैकपदं मृत्युरतिवादः श्रियो वधः।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ।।

5-40-4a
5-40-4b

आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ।।

5-40-5a
5-40-5b

एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ।
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ।।

5-40-6a
5-40-6b
5-40-6c

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ।।

5-40-7a
5-40-7b

आशा धृतिं हन्ति समृद्धिमन्तकः
क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राज-
न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ।।

5-40-8a
5-40-8b
5-40-8c
5-40-8d

अजाश्च कांस्यं रजतं च नित्यं
मध्वाकर्षः शकुनिः श्रोत्रियश्च ।
वृद्धो ज्ञातिरवसन्नः कुलीन
एतानि ते सन्तु गृहे सदैव ।।

5-40-9a
5-40-9b
5-40-9c
5-40-9d

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ।।

5-40-10a
5-40-10b

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्।
देवब्राह्मणपूजार्थमतिथीनां च भारत ।।

5-40-11a
5-40-11b

इदं च त्वां सर्वपरं ब्रवीमि
पुण्यं पदं तात महाविशिष्टम्।
न जातु कामान्न भयान्न लोभा-
द्धर्मं जह्याज्जीविस्यापि हेतोः ।।

5-40-12a
5-40-12b
5-40-12c
5-40-12d

नित्यो धर्मः सुखदुःखे त्वनित्ये
जीवो नित्यो धातुरस्य त्वनित्यः।
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये
संतुष्य सन्तोषपरा हि सन्तः ।।

5-40-13a
5-40-13b
5-40-13c
5-40-13d

महाबलान्पश्य महानुभावान्
प्रशास्य भूमिं धनधान्यपूर्णाम्।
राज्यानि हित्वा विपुलांश्च भोगान्।
गतान्नरेन्द्रान्वशमन्तकस्य ।।

5-40-14a
5-40-14b
5-40-14c
5-40-14d

मृतं पुत्रं दुःखपुष्टं मनुष्या
उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति।
तं मुक्तकेशाः करुणं रुदन्ति
चितामध्ये काष्ठमिव क्षिपन्ति।।

5-40-15a
5-40-15b
5-40-15c
5-40-15d

अन्यो धनं प्रेतगतस्य भुङ्क्ते
वयांसि चाग्निश्च शरीरधातून्।
द्वाभ्यामयं सह गच्छत्यमुत्र
पुण्येन पापेन च वेष्ट्यमानः ।।

5-40-16a
5-40-16b
5-40-16c
5-40-16d

उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः।
अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ।।

5-40-17a
5-40-17b

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्।
तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ।।

5-40-18a
5-40-18b

अस्माल्लोकादूर्ध्वममुष्य चाधो
महत्तमस्तिष्ठति ह्यन्धकारम्।
तद्वै महामोहनमिन्द्रियाणां
बुद्ध्यस्व मा त्वां प्रलभेत राजन् ।।

5-40-19a
5-40-19b
5-40-19c
5-40-19d

इदं वचः शक्ष्यसि चेद्यथाव-
न्निशम्य सर्वं प्रतिपत्तुमेव।
यशः परं प्राप्स्यसि जीवलोके
भयं नचामुत्र नचेह तेऽस्ति ।।

5-40-20a
5-40-20b
5-40-20c
5-40-20d

आत्मा नदी भारत पुण्यतीर्था
सत्योदया धृतिकूला दयोर्मिः।
तस्यां स्नातः पूयते पुण्यकर्मा
पुण्यो ह्यात्मा नित्यमलोभ एव ।।

5-40-21a
5-40-21b
5-40-21c
5-40-21d

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ।।

5-40-22a
5-40-22b

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं
विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः संपृच्छेन्न स मुह्येत्कदाचित् ।।

5-40-23a
5-40-23b
5-40-23c
5-40-23d

धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ।।

5-40-24a
5-40-24b

नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी पतितान्नवर्जी ।
सत्यं ब्रुवन्गुरवे कर्म कुर्व-
न्न ब्राह्मणश्र्यवते ब्रह्मलोकात् ।।

5-40-25a
5-40-25b
5-40-25c
5-40-25d

अधीत्य वेदान्परिसंस्तीर्य चाग्नी-
निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च।
गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा
हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ।।

5-40-26a
5-40-26b
5-40-26c
5-40-26d

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च
धनैः काले संविभज्याश्रितांश्च।
त्रेतापूतं धूममाघ्राय पुण्यं
प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ।।

5-40-27a
5-40-27b
5-40-27c
5-40-27d

ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः
क्रमेणैतान्न्यायतः पूजयानः।
तुष्टेष्वेतेष्वव्यथो दग्धपाप-
स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ।।

5-40-28a
5-40-28b
5-40-28c
5-40-28d

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो
हेतुं चानुब्रुवतो मे निबोध।
क्षात्राद्धर्माद्धीयते पाण्डुपुत्र-
स्तं त्वं राजन्राजधर्मे नियुङ्क्ष ।।

5-40-29a
5-40-29b
5-40-29c
5-40-29d

धृतराष्ट्र उवाच।

5-40-30x

एवमेतद्यथा त्वं मामनुशासनि नित्यदा।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ।।

5-40-30a
5-40-30b

सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ।।

5-40-31a
5-40-31b

न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्।
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ।।

5-40-32a
5-40-32b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि चत्वारिंशोऽध्यायः ।।

।। समाप्तमिदं प्रजागरपर्व ।।

सम्पाद्यताम्

5-40-1 प्रमन्नः सन्तः साधवः सुखाय अलं सुखं दातुं पर्याप्ताः ।। 5-40-4 एकपदं सर्वात्मना ।। 5-40-5 मदमोहौ एकीकृत्य सप्त ।। 5-40-9 आकर्षः विषादीनाम् ।। 5-40-10 अजेन सहितः उक्षा अजोक्षा। औदुम्बरं ताम्रमयं पात्रजातम्। विषं लोहमिति सर्वज्ञः। स्वर्णनाभः शालग्रामः । दक्षिणावर्तः शङ्खः । 5-40-11 धन्यानि मङ्गलावहानि ।। 5-40-12 महाविशिष्टं महेन उत्सवेन अविशिष्टं समानं माङ्गलिकमित्यर्थः ।। 5-40-19 अस्माल्लोकादूर्ध्वं स्वर्गे। अमुष्य अमुष्मात् स्वर्गात्। प्रलभेत स्पृशेत् ।। 5-40-20 प्रतिपत्तुं ज्ञातुं शक्ष्यसि चेदिति संबन्धः ।। 5-40-21 पुण्यमपि किं नित्य मलोभ एव। वैराग्यात्र परं पुण्यमित्यर्थः ।। 5-40-24 मनो वाचं च विद्ययेति ङ पाठः ।। 5-40-25 नित्योदकी यथाकालं स्नानाचमनपरः ।।

उद्योगपर्व-039 पुटाग्रे अल्लिखितम्। उद्योगपर्व-041