महाभारतम्-05-उद्योगपर्व-068

← उद्योगपर्व-067 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-068
वेदव्यासः
उद्योगपर्व-069 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भगवद्वेदनसाधनं पृष्टेन सञ्जयेन धृतराष्ट्रंप्रति तत्कथनम् ।। 1 ।। श्रीव्यासेन धृतराष्ट्रंप्रति सञ्जयाद्भगद्वेदनाभ्यनुज्ञा ।। 2 ।।

धृतराष्ट्र उवाच।

5-68-1x

कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ।।

5-68-1a
5-68-1b

सञ्जय उवाच।

5-68-2x

श्रृणु राजन्न ते विद्या मम विद्या न हीयते।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ।।

5-68-2a
5-68-2b

विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ।।

5-68-3a
5-68-3b

धृतराष्ट्र उवाच।

5-68-4x

गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने।
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ।।

5-68-4a
5-68-4b

सञ्जय उवाच।

5-68-5x

मायां न सेवे भद्रं ते न वृथाधर्ममाचरे।
शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम् ।।

5-68-5a
5-68-5b

धृतराष्ट्र उवाच।

5-68-6x

दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ।।

5-68-6a
5-68-6b

दुर्योधन उवाच।

5-68-7x

भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ।।

5-68-7a
5-68-7b

धृतराष्ट्र उवाच।

5-68-8x

अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ।।

5-68-8a
5-68-8b

गान्धार्युवाच।

5-68-9x

ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग।
ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश ।।

5-68-9a
5-68-9b

वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताति वचनं पितुः ।।

5-68-10a
5-68-10b

व्यास उवाच।

5-68-11x

प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ।।

5-68-11a
5-68-11b

जानात्येष हृषीकेशं पुराणं यच्च वै परम्।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ।।

5-68-12a
5-68-12b

वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ।।

5-68-13a
5-68-13b

यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ।।

5-68-14a
5-68-14b

एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति ।।

5-68-15a
5-68-15b

धृतराष्ट्र उवाच।

5-68-16x

अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ।।

5-68-16a
5-68-16b

सञ्जय उवाच।

5-68-17x

नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ।।

5-68-17a
5-68-17b

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ।।

5-68-18a
5-68-18b

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः ।।

5-68-19a
5-68-19b

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ।।

5-68-20a
5-68-20b

अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ।।

5-68-21a
5-68-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि अष्टषष्टितमोऽध्यायः ।।

सम्पाद्यताम्

5-68-4 भक्तिः आराध्यत्वेन ज्ञानं एच्च कीदृशम् ।। 5-68-5 वृथाधर्मं भगवदर्पणं विना न चरामि। शुद्धभावं मनसः कामक्रोधादिराहित्येन नैर्मल्यम् ।। 5-68-12 ऐकाग्र्यं शुश्रूषमाणं सेवमानं त्वां मोक्ष्यते मोचयिष्यति ।। 5-68-13 सिताः बद्धाः । पाशैः कामादिभिः ।। 5-68-14 अन्धनेत्रा अन्धश्चासौ नेता च तेन ।। 5-68-17 आत्मनः स्वस्य इन्द्रियनिग्रहादन्यत्र इन्द्रियनिग्रहंविना क्रियायागादिरूपा उपायः प्राप्त्युपायो नास्ति ।। 5-68-21 योगात् चित्तवृत्तिनिरोधात्। वशी ईश्वरः। तत्त्वे स्वयाथात्म्ये विषये। प्रसीदति ज्ञानदानेन अनुगृह्णाति ।।

उद्योगपर्व-067 पुटाग्रे अल्लिखितम्। उद्योगपर्व-069