महाभारतम्-05-उद्योगपर्व-086

← उद्योगपर्व-085 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-086
वेदव्यासः
उद्योगपर्व-087 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण विदुरपुरतः समेष्यते तस्मै रथगजादिवितरणप्रतिज्ञा ।। 1 ।।

धृतराष्ट्र उवाच।

5-86-1x

उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः।
वृकस्थले निवसति स च प्रातरिहैष्यति ।।

5-86-1a
5-86-1b

आहुकानामधिपतिः पुरोगः सर्वसात्वताम्।
महामना महावीर्यो महासत्वो जनार्दनः ।।

5-86-2a
5-86-2b

स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान्प्रपितामहः ।।

5-86-3a
5-86-3b

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ।।

5-86-4a
5-86-4b

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः श्रुणु ।।

5-86-5a
5-86-5b

एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः।
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ।।

5-86-6a
5-86-6b

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः।
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ।।

5-86-7a
5-86-7b

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावताम् ।।

5-86-8a
5-86-8b

आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्त्राणि दाशाष्ट च ।।

5-86-9a
5-86-9b

अजिनानां सहस्राणि चीनदेशोद्भवानि च।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ।।

5-86-10a
5-86-10b

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ।।

5-86-11a
5-86-11b

एकेनाभिपतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ।।

5-86-12a
5-86-12b

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ।।

5-86-13a
5-86-13b

मम पुत्राश्च पौत्रश्च सर्वे दुर्योधनादृते।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ।।

5-86-14a
5-86-14b

स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ।।

5-86-15a
5-86-15b

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ।।

5-86-16a
5-86-16b

सस्त्रीपुरुषबालं च नगरं मधुसूदनम् ।
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ।।

5-86-17a
5-86-17b

महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ।।

5-86-18a
5-86-18b

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदद्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ।।

5-86-19a
5-86-19b

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ।।

5-86-20a
5-86-20b

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च।
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ।।

5-86-21a
5-86-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वमि षडशीतितमोऽध्यायः ।।

सम्पाद्यताम्

5-86-3 प्रपितामहः पितामहस्य ब्रह्मणोपि पिता ।। 5-86-7 ईषा लाङ्गलदण्डस्तत्सदृशदन्तान्। अष्टौ अनुचराः यस्य गजस्य ।। 5-86-20 सर्वर्तु सर्वे ऋतवो युगपदस्मिन्सन्तीति तथा ।।

उद्योगपर्व-085 पुटाग्रे अल्लिखितम्। उद्योगपर्व-087