महाभारतम्-05-उद्योगपर्व-122

← उद्योगपर्व-121 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-122
वेदव्यासः
उद्योगपर्व-123 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

स्वदौहित्रादिदत्तपुण्यफलप्रभावेण पुनर्ययातेः स्वर्गगमनम् ।। 1 ।।




नारद उवाच।

5-122-1x

प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः।
समारुरोह नृपतिरस्पृशन्वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ।।

5-122-1a
5-122-1b
5-122-1c

दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ।।

5-122-2a
5-122-2b

ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।।
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ।।

5-122-3a
5-122-3b

प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ।।

5-122-4a
5-122-4b

यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ।।

5-122-5a
5-122-5b

ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ।।

5-122-6a
5-122-6b

प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः ।
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ।
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज ।।

5-122-7a
5-122-7b
5-122-7c

शिबिरौशीनरो धीमानुवाच मधुरां गिरम्।
यथा बालेषु नारीषु वैवाह्येषु तथैव च ।।

5-122-8a
5-122-8b

सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ।।

5-122-9a
5-122-9b

यथा प्राणांश्च राज्यं च राजन्कामसुखानि च।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ।।

5-122-10a
5-122-10b

यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ।।

5-122-11a
5-122-11b

अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः।
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ।।

5-122-12a
5-122-12b

शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ।।

5-122-13a
5-122-13b

न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ।।

5-122-14a
5-122-14b

नारद उवाच।

5-122-15x

यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ।।

5-122-15a
5-122-15b

एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ।।

5-122-16a
5-122-16b

दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।
चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ।।

5-122-17a
5-122-17b
5-122-17c

राजान ऊचुः ।

5-122-18x

राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ।।

5-122-18a
5-122-18b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
द्वाविंशत्यधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-122-1 प्रत्यभिज्ञातेति ।। 5-122-5 आधाने अग्र्याधानोपलक्षिते श्रौतधर्मे ।। 5-122-9 आपत्सु संकटेषु । व्यसनेषु द्यूतादिषु । खं स्वर्गम् ।।

उद्योगपर्व-121 पुटाग्रे अल्लिखितम्। उद्योगपर्व-123