महाभारतम्-05-उद्योगपर्व-186

← उद्योगपर्व-185 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-186
वेदव्यासः
उद्योगपर्व-187 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

राममामन्त्र्य गतया अम्बया पुण्याश्रमादिषु दुष्करतपश्चरणम् ।। 1 ।।


राम उवाच।

5-186-1x

प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ।।

5-186-1a
5-186-1b

न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ।।

5-186-2a
5-186-2b

एषा मे परमा शक्तिरेतन्मे परमं बलम् ।
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ।।

5-186-3a
5-186-3b

भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ।।

5-186-4a
5-186-4b

एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।
तूष्मीमासीत्ततः कनक्या प्रोवाच भृगुनन्दनम् ।।

5-186-5a
5-186-5b

भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा ।
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ।।

5-186-6a
5-186-6b

यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया ।
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ।।

5-186-7a
5-186-7b

ने चैव शक्यते युद्धे विशेषयितुमन्ततः ।
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन ।।

5-186-8a
5-186-8b

गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।
समरे पातयिष्यामि स्वयमेव भृगूद्वह ।।

5-186-9a
5-186-9b

एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।
तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम् ।।

5-186-10a
5-186-10b

ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः ।
यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत ।।

5-186-11a
5-186-11b

ततो रथं समारुह्य स्तूयमानो द्विजातिभिः ।
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ।।

5-186-12a
5-186-12b

यथावृत्तं महाराज सा च मां प्रत्यनन्दत।
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ।।

5-186-13a
5-186-13b

दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् ।
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ।।

5-186-14a
5-186-14b

यदैव हि वनं प्रायात्सा कन्या तपसे धृता।
तदैव व्यथितो दीनो गतचेता इवाभवम् ।।

5-186-15a
5-186-15b

न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि ।
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ।।

5-186-16a
5-186-16b

अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ।।

5-186-17a
5-186-17b

न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति।
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ।।

5-186-18a
5-186-18b

सा कन्या तु महाराज प्रविश्याश्रममण्डलम् ।
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ।।

5-186-19a
5-186-19b

निराहारा कृशा रूक्षा जटिला मलपङ्किनी ।
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ।।

5-186-20a
5-186-20b

यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् ।
उदवासं निराहारा पारयामास भामिनी ।।

5-186-21a
5-186-21b

शीर्णपर्णेन चैकेन पारयामास सा परम् ।
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ।।

5-186-22a
5-186-22b

एवं द्वादश वर्षाणि तापयामास रोदसी ।
निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते ।।

5-186-23a
5-186-23b

ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् ।
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।।

5-186-24a
5-186-24b

तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् ।
व्यचरत्काशिकन्या सा यथाकामविचारिणी ।।

5-186-25a
5-186-25b

नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे ।
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ।।

5-186-26a
5-186-26b

त्रयागे देवयजने देवारण्येषु चैव ह ।
भोगवत्यां महाराज कौशिकस्याश्रमे तथा ।।

5-186-27a
5-186-27b

माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा ।
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ।।

5-186-28a
5-186-28b

एतेषु तीर्थेषु तदा काशिकन्या विशांपते ।
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ।।

5-186-29a
5-186-29b

तामब्रवीच्च कौरव्य मम माता जले स्थिता ।
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ।।

5-186-30a
5-186-30b

सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
भीष्मेण समरे रामो निर्जितश्चारुलोचनि ।।

5-186-31a
5-186-31b

कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः ।
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ।।

5-186-32a
5-186-32b

विचरामि महीं देवि यथा हन्यामहं नृपम् ।
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ।।

5-186-33a
5-186-33b

ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि।
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ।।

5-186-34a
5-186-34b

यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्।
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ।।

5-186-35a
5-186-35b

नदी भविष्यसि शुभे कुटिला वार्षिकोदका।
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ।।

5-186-36a
5-186-36b

भीमग्राहवती घोरा सर्वभूतभयंकरी ।
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ।।

5-186-37a
5-186-37b

माता मम महाभागा स्मयमानेव भामिनी ।
कदाचिदष्टमे मासि कदाचिद्दशमे तथा।
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ।।

5-186-38a
5-186-38b
5-186-38c

सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।
पतिता परिधावन्ती पुनः काशिपतेः सुता ।।

5-186-39a
5-186-39b

सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत ।
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ।।

5-186-40a
5-186-40b

सा कन्या तपसा तेन देहार्धेन व्यजायत ।
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ।।

5-186-41a
5-186-41b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
षडशीत्यधिकशततमोऽध्याय- ।।

सम्पाद्यताम्

5-186-36 वार्षिकी वर्षास्वेव वहतीति वार्षिकी ।।

उद्योगपर्व-185 पुटाग्रे अल्लिखितम्। उद्योगपर्व-187