महाभाष्यम्/अष्टमोऽध्यायः/तृतीयः पादः

-8-3-1- मतुवसो रु संबुद्धौ छन्दसि
।। मतुवसोरादेशे वन उपसङ्ख्यानम्।। मतुवसोरादेशे वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। ।। विभाषा भवद्भगवदघवतामोच्चाऽवस्य।। छन्दसि भाषायाञ्चभवत्भगवत्अघवदित्येतेषां विभाषा रुर्वक्तव्यः, ओच्चाऽवस्य वक्तव्यः। भोः। भवन्। भगोः। भगवन्। अघोः। अघवन्निति।। संबुद्धावित्युच्यते तत्रैदं न सिध्यति-भो ब्राह्मणा इति। तथा विभक्तौ लिङ्गविशिष्टग्रहणं(3) नेतीह न प्राप्नोति भो ब्राह्मणि!।। नैषः दोषः। अव्ययमेष भोःशब्दो नैषा भवतः प्रकृतिः(4)।। कथमव्ययत्वम्?।। विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोऽव्ययमित्यव्ययसंज्ञा।। मतुवसो रु
-8-3-5- समः सुटि
पुमः खय्यम्परे ।। कानाम्रिडिते ।।
।। संपुंकानां सत्वम्।। संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)।। रुविधौ ह्यनिष्टप्रसङ्गः।। रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः (क)(पा(2)विति)(कः प्रसज्येत।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते।। यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति।। सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परःथ्द्य;ति निवृत्तम्। ।। समो(1) वा लोपमेके।। समो वा लोपमेक इच्छन्ति।। संस्कर्ता सँस्कर्ता।। समः सुटिः।।
-8-3-6- पुमः खय्यम्परे
समः सुटि ।। कानाम्रिडिते ।।
।। संपुंकानां सत्वम्।। संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)।। रुविधौ ह्यनिष्टप्रसङ्गः।। रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः)(क)(पा(2)विति)(कः प्रसज्येत।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते।। यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति।। सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परःथ्द्य;ति निवृत्तम्। ।। समो(1) वा लोपमेके।। समो वा लोपमेक इच्छन्ति।। संस्कर्ता सँस्कर्ता।। समः सुटिः।।
-8-3-12- कानाम्रिडिते
समः सुटि ।। पुमः खय्यम्परे ।।
।। संपुंकानां सत्वम्।। संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)।। रुविधौ ह्यनिष्टप्रसङ्गः।। रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः)(क)(पा(2)विति)(कः प्रसज्येत।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते।। यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति।। सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परःथ्द्य;ति निवृत्तम्। ।। समो(1) वा लोपमेके।। समो वा लोपमेक इच्छन्ति।। संस्कर्ता सँस्कर्ता।। समः सुटिः।।
-8-3-13- ढो ढे लोपः
।। ढलोपेऽपदान्तग्रहणम्।। ढलोपेऽपदान्तग्रहणं कर्तव्यम्। इह मा भूत्-श्वलिड्ढौकते गुडलिड्ढौकते।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। जश्त्वमत्र बाधकं भविष्यति।। जश्भावादिति चेदुत्तरत्र ढस्याऽभावादपवादप्रसङ्गः।। जश्भावादिति चेदुत्तरत्र ढकारस्याऽभावादसिद्धत्वादपवादोऽयं विज्ञायेत।। कस्य?।। जश्त्वस्य।। तस्मात्सिद्धवचनम्।। तस्मात्सिद्धत्वं वक्तव्यम्।। कस्य?।। सङ्ग्रहणं वा।। सङ्ग्रहणं वा कर्तव्यम्। सङि ढ इति वक्तव्यम्।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। आनन्तर्यमिहाश्रीयतेढकारस्य ढकार इति।। क्व चिच्च सन्निपातकृतमानन्तर्यं शास्त्रकृतमनानन्तर्यं(1), क्व चिच्च नैव सन्निपातकृतं, नापि शास्त्रकृतम्। ष्टुत्वे संनिपातकृतमानन्तर्यं शास्त्रकृतमनानन्तर्यं(2), जश्त्वे नैव संनिपातकृतं, नापि शास्त्रकृतम्। यत्तु कुतश्चिदेवानन्तर्यं तदाश्रयिष्यामः।
-8-3-15- खरवसानयोर्विसर्जनीयः
।। विसर्जनीयोऽनुत्तरपदे।। विसर्जनीयोऽनुत्तरपद इति वक्तव्यम्। इह मा भूत्-नार्कुटो नार्पत्य इति।। तत्तर्हि वक्तव्यं विसर्जनीयोऽनुत्तरपद(1) इति?।। न वा बहिरङ्गलक्षणत्वात्।।न वा वक्तव्यम्।। किं कारणम्?।। बहिरङ्गलक्षणत्वात्। बहिरङ्गो रेफोऽन्तरङ्गो विसर्जनीयः। असिद्धं बहिरङ्गमन्तरङ्गे।। नैष युक्तः परिहारः। अन्तरङ्गं बहिरङ्गमिति प्रतिद्वन्द्वभाविनावेतौ पक्षौ, सत्यन्तरङ्गे बहिरङ्गं, सति च(2) बहिरङ्गेऽन्तरङ्गं भवति(2)। न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति(3)।। किं कारणम्?।। असिद्धत्वात्।। कथमसिद्धत्वम्(1)?।। पूर्वत्रासिद्धमिति। न चाऽनभिनिर्वृत्ते(1) बहिरङ्गेऽन्तरङ्गं प्राप्नोति, तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य भवति(2)। -अनिमित्तं बहिरङ्गमन्तरङ्गस्याऽसिद्धत्वात्(2)- अनि(3) मित्तं बहिरङ्गमन्तरङ्गस्य।। किं कारणम्?।। असिद्धत्वात्।। कथमसिद्धत्वं यावतापूर्वत्राऽसिद्धमित्यसिद्धा परिभाषा। असिद्धं बहिरङ्गमन्तरङ्गे।। कथम्?।। कार्यकालं संज्ञापरिभाषामिति। खरवसानयोर्विसर्जनीयः। उपस्थितमिदं भवत्यसिद्धं बहिरङ्गमन्तरङ्ग इति। एवमेषा सिद्धा परिभाषा(1) भवति।। कुतो नु(2) खल्वेतद्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्रासिद्धमिति च,(1)असिद्धं बहिरङ्गमन्तरङ्गः इति च,-पूर्वत्रासिद्धमित्येतामुपमृद्याऽसिद्धं बहिरङ्गमन्तरङ्ग इत्येतया व्यवस्था भविष्यति, न पुनरसिद्धं बहिरङ्गमन्तरङ्ग इत्येतामुपमृद्य पूर्वत्रासिद्धमित्येतया व्यवस्था स्यात्?।। अतः किम्?।। अतोऽयुक्तः परिहारो न वा बहिरङ्गलक्षणत्वादिति।।
-8-3-16- रोः सुपि
किमर्थमिदमुच्यते न खरवसानयोर्विसर्जनीय इत्येव सिद्धम्?।। नियमार्थोऽयमारम्भः(1)।। नियमार्थोऽयमारम्भः(1) ठरोरेव सुपि नान्यस्य सुपि।। क्व मा भूत्?।। गीर्षु धूर्षु।। रोः सुपि।
-8-3-17- भोभगोअघोअपूर्वस्य योऽशि।
।। अश्ग्रहणमनर्थकमन्यत्राऽभावात्।। अश्ग्रहणमनर्थकम्। किं कारणम्?।। अन्यत्राऽभावात्। न ह्यन्यत्र रुरस्त्यन्यदतोऽशः।।
ननु चायमस्ति-छन्दःसु पयःस्विति।। किं पुनः कारणं सुकारपर एवोदाह्रियते न पुनरयं वृक्षस्तत्र प्लक्षस्तत्रेति(1)?।। अस्त्यत्र विशेषः-विसर्जनीये कृते न भविष्यति।. इहापि तर्हि विसर्जनीये कृते न भविष्यति-छन्दःसु पयः-स्विति।। स्थानिवद्भावात्प्राप्नोति।। ननु चेहापि स्थानिवद्भावात् प्राप्नोतिवृक्षस्तत्र प्लक्षस्तत्रेति।। अनल्विधौ स्थानिवद्भावः।। अथाऽयमल्विधिः स्याच्छक्यमश्ग्रहणमवक्तुम्?।। बाढं शक्यम्।। अल्विधिस्तर्हि भविष्यति।। कथम्?।। इदमस्ति रो रीति। ततो वक्ष्यामि-खरवसानयोर्विसर्जनीय-रः। ततो रोः सुपि। विसर्जनीयो रःथ्द्य;त्येव।।
उत्तरार्थं तर्ह्यश्ग्रहणं कर्तव्यं,-हलि सर्वेषां,-हल्यशीति यथा स्यादिह मा भूत्-वृक्षवयतेरप्रत्ययो-वृक्षव्करोति।। भोभगोअघो।।
-8-3-20- ओतो गार्ग्यस्य
किमर्थमिदमुच्यते न लोपः शाकल्यस्येत्येव सिद्धम्?।।
।। ओकाराल्लोपवचनं नित्यार्थम्।। ओकारल्लोपवचनं क्रियते।। किमर्थम्?।। नित्यार्थम्(1)। नित्यार्थोऽयमारम्भः।। ओतो गार्ग्यस्य।।
-8-3-21- उञ्ञि च पदे
पद इति किमर्थम्?।। तन्त्रे उतं, तन्त्रयुतं, तन्त्र उतम्।।
।। पद इति शक्यमवक्तुम्(2)।। पदे इति शक्यमवक्तुम्(3)। कस्मान्न भवति-तन्त्रे उक्तं तन्त्रयुत तन्त्र उतमिति(3)?।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति।। उत्तरार्थं तर्हि पदग्रहणं कर्तव्यं-ङमो ह्रस्वादचि ङमुण्नित्यमित्यपदे मा भूत्-दण्डिना शकटिना।। उञ्ञि च पदे।।
-8-3-26- हे मपरे वा
।। यवलपरे यवला वा।। यवलपरे हकारे यवला वेति वक्तव्यम्। किं ह्यः किय्ह्यः(1)। किं ह्वलयति। किव्ह्वँलयति(1)। किं ह्लादयति। किल्ह्लाँदयति(1)। (हेमे)
-8-3-28- ङ्णोः कुक्टुक शरि
डः सि धुट् ।। नश्च ।। शितुक।। ङमो ह्रस्वादचि ङ्मुण्नित्यम्
इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।
-8-3-29- डः सि धुट्
नश्च ।। शितुक ।। ङ्णोः कुक्टुक शरि ।। ङमो ह्रस्वादचि ङ्मुण्नित्यम्
इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति
प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः
दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।
-8-3-30- नश्च
डः सि धुट् ।। शितुक ।। ङ्णोः कुक्टुक शरि ।। ङमो ह्रस्वादचि ङ्मुण्नित्यम् ।।
इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।
-8-3-31- शितुक
डः सि धुट् ।। नश्च ।। ङ्णोः कुक्टुक शरि ।। ङमो ह्रस्वादचि ङ्मुण्नित्यम्
इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।
-8-3-32- ङमो ह्रस्वादचि ङमुण्नित्यम्
डः सि धुट् ।। नश्च ।। ङ्णोः कुक्टुक शरि ।।
।। ङमुटि पदादिग्रहणम्।। ङमुटि पदादिग्रहणं कर्त्तव्यम्। इह मा भूत्-दण्डिना शकटिनेति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।। पदादिति वर्तते।। एवमपि-परमदण्डिना परमच्छत्रिणेत्यत्र प्राप्नोति।। पदस्येति वर्तते ङम इति च नैषा पञ्चमी।। का तर्हि?।। संबन्धषष्ठी। पदान्तस्य ङमो ङमुड्भवति(1) ह्रस्वादुत्तरस्याऽचीति।।
यदि ङम एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते,-रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति।। पदान्तस्य(2) नेति प्रतिषेधो भविष्यति।। पदान्तस्येत्युच्यते नैष पदान्तः।। पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते(4)।। एवमपि न सिध्यति।।
नैषः दोषः।। उक्तमेतत्-उत्तरपदत्वे चाऽपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवती(4)ति।। एवमपि पदादिति वक्तव्यं, यद्धि तत्प्रकृतं, प्राक् सुपि कुत्सनादित्येवं तत्।। एवं तर्हि ङम एवायं ङमुट् क्रियते।। कथम्?।। किं कारणम्?।। उक्तमेतत्-न वा पदाधिकारस्य विशेषणत्वादिति। तेन दण्डिना(1) शकटिना इत्यत्र प्राप्नोति।। एवं तर्हि पद इति वर्तते।। क्व प्रकृतम्?।। उञ्ञि च पदे इति।। ङमो ह्रस्वादचि ङमुण्नित्यम्।
-8-3-33- मय उञ्ञो वो वा
किमर्थं मय उत्तरस्य उञ्ञो वो वेत्युच्यते(2) नेको यणचीत्येव सिद्धम्?।। न सिध्यति। प्रगृह्यः प्रकृत्येति प्रकृतिभावः प्राप्नोति।। यदि पुनस्तत्रैवोच्येत-इको यणचि मय उञ्ञो वेति?।। नैवं शक्यमिह हि दोषः स्यात्-किम्वावपनं महत्। मोऽनुस्वारो हलीत्यनुस्वारः प्रसज्येत। वत्वे पुनः सत्यसिद्धत्वान्न भविष्यति।। मय उञ्ञो वो वा।।
-8-3-34- विसर्जनीयस्य सः
इह कस्मान्न भवति-वृक्षः प्लक्ष इति।। संहितायामिति वर्तते।। एवमप्यत्र प्राप्नोति।। किं कारणम्?।। परः संनिकर्षः संहितेत्युच्यते स यथैव परेण परः सन्निकर्ष एवं पूर्वेणाऽपि(1)।। एवं तर्ह्यनवकाशाऽवसानसंज्ञा संहितासंज्ञां बाधिष्यते।। अथ वा संहितासंज्ञायां प्रकर्षगतिर्विज्ञास्यते,-साधीयो यः परः सन्निकर्षःथ्द्य;ति।। कश्च साधीयः?।। यः पूर्वपरयोः।।
यद्येवाऽनवकाशाऽवसानसंज्ञा संहितासंज्ञां बाधतेऽथापि संहितासंज्ञायां प्रकर्षगतिर्विज्ञायते उभयथा दोषो भवति। इष्यन्ते इत उत्तरमवसाने संहिताकार्याणि, तानि न सिध्यन्ति-अणोऽप्रगृह्यस्यानुनासिकःथ्द्य;ति।। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति-न सर्वस्य विसर्जनीयस्य सत्वं भवतीति यदयं खरवसानयोर्विसर्जनीय इत्याह। इतरथा खरवसानयोः सो भवतीत्येव ब्रूयात्। तच्च(1) लघु भवति, विसर्जनीयस्य स इत्येतच्च(2) न वक्तव्यं भवति।। अवश्यं शर्परे विसर्जनीय इत्यत्र प्रकृतिनिर्देशार्थं विसर्जनीयग्रहणं कर्तव्यम्।। अथेदानीमेतदपि रसान्निध्यार्थं(3) पुरस्तादपक्रक्ष्यते(4)-खरवसानयोःस इत्यत्रैव, एवमपि कुप्वोः)(क)(पौ चेत्येवमादिनाऽनुक्रमणेन व्यवच्छिन्नं भोभगोअघोअपूर्वस्य योशीत्यत्र रुग्रहणं कर्तव्यं स्यात्।। एवमप्येकं विसर्जनीयग्रहणं व्याजो भवति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति(1) यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यो न सर्वस्य विसर्जनीयस्य सत्वं भवतीति।। एवमप्यनैकान्तिकं ज्ञापकम्, एतावज्ज्ञाप्यते(2) न सर्वस्य विसर्जनीयस्य सत्वं भवतीति, तत्र कुत एतदिह भविष्यति-वृक्षस्तत्र प्लक्षस्तत्रेति, इह न भविष्यति-वृक्षः प्लक्ष इति।।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति-नास्य विसर्जनीयस्य सत्वं भवतीति यदयं शर्प रे विसर्जनीय इत्याह।। अथ वा हलीति वर्तते।। क्व प्रकृतम्?।। हलि सर्वेषामिति।। यदि तदनुवर्तते मय उञ्ञो वो वा हलि चेति हल्यपि वत्वं प्राप्नोति। शमु(1) नः, शमु योरस्तु।। एवं तर्हि विसर्जनीयस्य स इत्यत्र खरीत्यनुवर्तिष्यते।। अथ वा संबन्धमनुवर्त्तिष्यते।।
-8-3-36- वा शरि
।। वा(2) शर्प्रकरणे खर्परेलोपः।। वा शर्प्रकरणे खर्परे लोपो वक्तव्यः। वृक्षा स्थातारः। वृक्षाः स्थातारः।। वा शरि।
-8-3-37- कुप्वोः )(क)(पौ च
।। सस्य कुप्वोर्विसर्जनीयजिह्वामूलियोपध्मानीयाः।। सस्य कुप्वोर्विसर्जनीयजिह्वामूलीयोपध्मानीया वक्तव्याः।। विसर्जनीयादेशे(2) हि शर्परयोरेवादेशप्रसङ्गः।। विसर्जनीयादेशे हि सति शर्परयोरेव कुप्वोः)(क)(पौ स्याताम्-अदि्भः प्सातं वासः क्षौमम्।। वचनान्न भविष्यतः।।
अस्ति वचने प्रयोजनम्।। किम्?।। पुरुषः त्सरुकः।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। यदेतद्विसर्जनीयस्य स इत्यत्र विसर्जनीयग्रहणमेतदुत्तरत्रानुवर्तिष्यते, तस्मिंश्च शर्परे विसर्जनीयोऽसिद्धः।।
नाऽसिद्धः।। कथम्?।। अधिकारो नाम त्रिप्रकारः। कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति(1)। यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माऽभिज्वलयति। अपरो(1) यथा-रज्ज्वाऽयसा वा बद्धं काष्ठमनुकृष्यते तद्वत्। अपरोऽधिकारः प्रतियोगं तस्याऽनिर्देशार्थ इति योगे योगे उपतिष्ठते। तद्यदैष पक्षः-प्रतियोगं तस्याऽनिर्देशार्थःथ्द्य;ति तदा हि यदेतद्विसर्जनीयस्य स इत्यत्र विसर्जनीयग्रहणमेतदुत्तरत्राऽनुवृत्तं सदन्यत्संपद्यते। तस्मिंश्च सर्परे विसर्जनीयः सिद्धः। एवं च कृत्वा शर्परयोरेव कुप्वोः)(क)(पौ स्याताम्, वासः(2) क्षौममदि्भः प्सातमिति।। एवं तर्हि योगविभागः करिष्यते। शर्परे विसर्जनीयः। वा शरि। ततः कुप्वोः। कुप्वोश्च शर्परयोर्विसर्जनीयस्य(3) विसर्जनीयो भवतीति।।
किमर्थमिदम्?।। कुप्वोः)(क)(पौ वक्ष्यति तद्बाधनार्थम्। ततः)(क)(पौ(4) च।)(क)(पौ च भवतः। कुप्वोरित्येव।
शर्परयोरिति निवृत्तम्।। अथवा शर्परे विसर्जनीय इत्येतत् कुप्वोः )(क)(पौ चेत्यत्रानुवर्तिष्यते।।
-8-3-38- सोऽपदादौ
।। सोऽपदादावनव्ययस्य।। सोपदादावनव्ययस्येति वक्तव्यम्। इह मा भूत्-प्रातःकल्पम् पुनः कल्पम्।। रोः काम्ये नियमार्थम्।।रोः काम्य इति वक्तव्यम्।। किं प्रयोजनम्?।। नियमार्थम्। रोरेव काम्ये नान्यस्य। पयस्काम्यति।। क्व मा भूत्?।। गीःकाम्यति धूः(1) काम्यति पूः काम्यति।। उपध्मानीयस्य(1) च।। उपध्मानीयस्य च सत्वं वक्तव्यम्।। किं प्रयोजनम्?।। अयमु)(ब्जिरुपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्ग इत्येतद्रूपं यथा स्यात्।। यद्युपध्मानीयोपधः पठ्यते-उब्जिजिपतीत्युपध्मानीयस्य द्विर्वचनं प्राप्नोति। दकारोपधे पुनः सति न न्द्राः संयोगादयःथ्द्य;ति प्रतिषेधः सिद्धो भवति।। यदि दकारोपधः पठ्यते का रूपसिद्धिः-उब्जिता उब्जितुमिति?।। असिद्धे भ उद्जेः(1)।। इदमस्ति-स्तोःश्चुना श्चुः। ततो वक्ष्यामि-भ उद्जेः(1)। उद्जेश्च(1) श्चुना सन्निपाते भो भवतीति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। निपातनादेतत्सिद्धम्(2)।। किं निपातनम्?।। भुजन्युब्जौ पाण्युपतापयोरिति।। इहापि प्राप्नोति-अभ्युद्गः समुद्गः।। अकुत्वविषये निपातनम्। अथ वा नैतदुब्जे रूपम्।। किन्तर्हि?।। गमेर्द्ध्युपसर्गाड्डो विधीयते-अभ्युद्गतः-अभ्युद्गः। समुद्गतः समुद्गः। सोऽपदादौ।।
-8-3-39- इणः षः
किमविशेषेण सत्वमुक्त्वा इण उत्तरस्य सकारस्य षत्वमुच्यते आहो स्विदिण उत्तरस्य विसर्जनीसस्यैव षत्वं विधीयते?।। किञ्ञ्चातः?।। यद्यविशेषेण सत्वमुक्त्वेण उत्तरस्य सकारस्य षत्वमुच्यते, निष्कृतं निष्पीतमित्यत्र सत्वस्याऽसिद्धत्वात्षत्वं(4) न प्राप्नोति। अथेण उत्तरस्य विसर्जनीयस्यैव षत्वं विधीयते(1) सत्वमप्यनुवत्तते उताहो न?।।
किं चातः(2)?।। यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तं नमस्पुरसोर्गत्योरित्यत्र सकारग्रहणं(3) कर्त्तव्यम्।।
तस्मिंश्च क्रियमाणे षत्वप्यनुवर्त्तते उताहो न?।।
किं चातः?।। यद्यनुवर्तते षत्वमपि प्राप्नोति, अथ निवृत्तम्---इदुदुपधस्य(4) चाऽप्रत्ययस्येत्यत्र षकारग्रहणं कर्त्तव्यम्।।
तस्मिंश्च क्रियमाणे सत्वमप्यनुवर्त्तते उताहो न?।।
किञ्ञ्चातः?।। यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तं तिरसोऽन्यतरस्यामित्यत्र सकारग्रहणं कर्त्तव्यम्।।
तस्मिंश्च क्रियमाणे षत्वमप्यनुवर्त्तते उताहो न?।। किञ्ञ्चातः(2)।।
यद्यनुवर्त्तते षत्वमपि प्राप्नोति। अथ निवृत्तं-द्विस्त्रिश्चतुरिति कृत्वोर्थे इसुसोः सार्मथ्ये नित्यं समासेऽनुत्तरपदस्थस्येति षकारग्रहणं कर्त्तव्यम्।।
तस्मिंश्च क्रियमाणे सत्वमप्यनुवर्त्तते उताहो न?।।
किञ्ञ्चातः(1)?।। यद्यनुवर्त्तते सत्वमपि प्राप्नोति। अथ निवृत्तम् अतः
कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्येति सकारग्रहणं कर्त्तव्यम्।।
यथेच्छसि तथास्तु। अस्तु तावदविशेषेण सत्वमुक्त्वा इण उत्तरस्य सकारस्य षत्वमुच्यते।। ननु चोक्तं-निष्कृतं निष्पीतमित्यत्र सत्वस्याऽसिद्धत्वात्षत्वं न प्राप्नोतीति।।नैषः दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न योगे योगोऽसिद्धः।। किं तर्हि?।। प्रकरणे प्रकरणमसिद्धमिति,यदयमुपसर्गादसमासेऽपि णोपदेशस्येत्यसमासेऽपिग्रहणं करोति।। अथ वा पुनरस्तु इण उत्तरस्य विसर्जनीयस्य षत्वं विधीयते।। ननु चोक्तं--सत्वमप्यनुवर्तते उताहो न। किञ्ञ्चातः,(1) यद्यनुवर्तते सत्वमपि प्राप्नोतीति। नैषः दोषः। सम्बन्धमनुवर्त्तिष्यते(2)। सोऽपदादौ इणः षः। नमस्पुरसोर्गत्योः सकारः, इण उत्तरस्य षकारः। इदुदुपधस्य(2) चाऽप्रत्ययस्य षकारः। नमस्पुरसोर्गत्योः सकारः। तिरसोऽन्यतरस्यां सकारः। इदुदुपधस्य(3) चाप्रत्ययस्यषकारः। द्विस्त्रिश्चतुरिति कृत्वोर्थे इसुसोः सार्मथ्ये नित्यं समासेऽनुत्तरपदस्थस्येति, षकारः। तिरसोऽन्यतरस्यांसकारः। अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य। सकारोऽनुवर्त्तते। षकारग्रहणं निवृत्तम्।। इणः षः
-8-3-41- इदुदुपधस्य चाऽप्रत्ययस्य
।। इदुदुपधस्य(3) चाप्रत्ययस्येति चेत्पुंमुहुसोः प्रतिषेधः।। इदुदुपधस्य चाऽप्रत्ययस्येति चेत्पुंमुहुसोः प्रतिषेधो वक्तव्यः। पुँस्कामा(1)। मुहुः कामेति(2)।। वृद्धिभूतानां षत्वम्।। वृद्धिभूतानां(3) षत्वं वक्तव्यम्। दौष्कुल्यम्। नैष्पुरुष्यम्(4)।। प्लुतानां तादौ च।। प्लुतानां तादौ च कुप्वोश्चेति वक्तव्यम्। सर्पी3ष्टर। वही3ष्टर(4)। नी3ष्कुल। दू3ष्पुरुष।। न वा बहिरङ्गलक्षणत्वाद्वृद्धेः(5)।। न वा वक्तव्यम्।। किं कारणम्?।। बहिरङ्गलक्षणत्वाद्वृद्धेः(5)। बहिरङ्गलक्षणा वृद्धिः।। इह कस्मान्न भवति पितुः करोति मातुः करोति?, अप्रत्ययविसर्जनीयस्येति षत्वं प्रसज्येत।। अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्जनीयश्चाऽयम्।। लुप्यतेऽत्र प्रत्ययविसर्जनीयो रात्सस्येति।। एवं तर्हि--।। भ्रातुष्पुत्रग्रहणं(3) ज्ञापकमेकादेशनिमित्तात् षत्वप्रतिषेधस्य।। यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं(1) पठति तज्ज्ञापयत्याचार्यो नैकादेशनिमित्तात्षत्वं भवतीति।।
-8-3-43- द्विस्त्रिश्चतुरिति कृत्वोर्थे
द्विस्त्रिश्चतुर्ग्रहणं किमर्थम्?।। इह मा भूत्-पञ्चकृत्वः करोति।। अथ कृत्वोर्थग्रहणं किमर्थम्?।। इह मा भूत्-चतुष्कपालः चतुष्कण्टक इति।। नैतदस्ति। अस्त्वनेन(2) विभाषा, पूर्वेण नित्यो विधिर्भविष्यति।। नाप्राप्ते पूर्वेणेयं विभाषाऽऽरभ्यते, सा यथैवेह बाधिका भवति चतुःकरोति चतुष्करोतीत्येवं चतुष्कपालेऽपि बाधिका स्यात्।। नाऽत्र पूर्वेण षत्वं प्राप्नोति।। किं कारणम्?।। अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्जनीयश्चाऽयम्।। लुप्यतेऽत्र(2) प्रत्ययविसर्जनीयो रात्सस्येति।। तस्मात्कृत्वोर्थग्रहणं(3) कर्त्तव्यम्।।
द्विस्त्रिश्चतुर्ग्रहणं शक्यमवक्तुम्।। कस्मान्न भवति पञ्चकृत्वः करोतीति?। इदुदुपधस्येति वर्त्तते। नैवं शक्यम्, अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोर्थग्रहणेन विसर्जनीयो विशेष्येत(1)।। तत्र को दोषः?।। इहैव स्यादि्द्वष्करोति द्विःकरोति,(2) त्रिष्करोति(3) त्रिः करोति(3) इति। इह न स्याच्चतुः(2) करोति चतुष्करोतीति(2)। द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोर्थग्रहणेन द्विस्त्रिश्चतुरो विशेष्यन्ते, द्विस्त्रिश्चतुर्णां(4) कृत्वोर्थे वर्त्तमानानां यो विसर्जनीय इति।। एतदपि नास्ति प्रयोजनं, पदस्येति वर्तते। तत्कृत्वोर्थग्रहणेन विशेषयिष्यामः-पदस्य कृत्वोऽर्थे वर्तमानस्य यो विसर्जनीय इति।।
।। कृत्वसुजर्थे(5) षत्वं ब्रवीति कस्माच्चतुष्कपाले मा(6)।
      षत्वं विभाषयाऽभून्ननु सिद्धं तत्र पूर्वेण।।1।।
      सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोर्थे।
      लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि।।2।।
      एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्?।
      अन्यो हि नेदुदुपधः कृत्वोर्थे कश्चिदप्यस्ति।।3।।
      अक्रियमाणे ग्रहणे विसर्जनीयस्तदा(1) विशेष्येत।
      चतुरो न सिध्यति तदा(3) रेफस्य विसर्जनीयो हि।।4।।
      तस्मिंस्तु गृह्यमाणे युक्तं चतुरो विशेषणं भवति।
      प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम्।।5।।
-8-3-45- नित्यं समासेऽनुत्तरपदस्थस्य
अनुत्तरपदस्थस्येति किमर्थम्?।। परमसर्पिःकुण्डिका।। अथेदानीमनेन मुक्ते पूर्वेण षत्वं विभाषा कस्मान्न भवति-इसुसोः सार्मथ्य इति?।।
।। नाना पदार्थयोर्वर्तमानयोः ख्यायते यदा योगः।
तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह।।1।।
व्यपेक्षासार्मथ्ये पूर्वयोगो(1) न चाऽत्र व्यपेक्षासार्मथ्यम्।।
किं पुनः कारणं पूर्वस्मिन्योगे(2) व्यपेक्षासार्मथ्यमाश्रीयते न पुनरेकार्थीभावो, यथाऽन्यत्र?।।
।। ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत।।
ऐकार्थ्ये सार्मथ्ये सति वाक्ये षत्वं न स्यात्- सर्पिष्करोति, सर्पिःकरोति इति।।
।। तस्मादिह व्यपेक्षां(3) सार्मथ्यं साधु मन्यन्ते।।
अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः।।
यदि कृदन्तमेतत्ततोऽधिकस्य षत्वं न प्राप्नोति(5)।। किं कारणम्?।। प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति।। वाक्येऽपि तर्हि न प्राप्नोति परमसर्पिष्करोति परमसर्पिः करोतीति।।
।। वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत।।
यदयमनुत्तरपदस्थस्येति प्रतिषेधं शास्तितज्ज्ञापयत्याचार्यो भवति वाक्ये विभाषेति।। अथ चेत्संविज्ञानं नित्ये षत्वे(1) ततो विभाषेयम्।। अथाऽव्युत्पन्नं प्रातिपदिकं ततो नित्ये षत्वे प्राप्ते इयं विभाषा आरभ्यते।। सिद्धं च मे समासे।। सिद्धं च(2) मे समासे षत्वम्। किमर्थं तर्हीदमुच्यते?।। प्रतिषेधार्थस्तु यत्नोऽयम्।। प्रतिषेधार्थोऽयं यत्नः। अनुत्तरपदस्थस्येति प्रतिषेधं वक्ष्यामीति।
।। नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योगः।
     तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह।।1।।
     ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत।
     तस्मादिह व्यपेक्षां सार्मथ्यं साधु मन्यन्ते।।2।।
     अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः।
     वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत।।3।।
     अथ चेत्संविज्ञानं नित्ये षत्वे ततो विभाषेयम्।
     सिद्धं च मे समासे, प्रतिषेधार्थस्तु यत्नोऽयम्।।4।।
-8-3-55- अपदान्तस्य मूर्द्धन्यः
अथ मूर्द्धन्यग्रहणं किमर्थं, नाऽपदान्तस्य षो भवतीत्येवोच्येत, तत्रायमप्यर्थः(1) षकारग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते।। क्व प्रकृतम्?।। इणः ष इति।। नैवं शक्यम्। अवश्यं मूर्द्धन्यग्रहणं कर्तव्यम् इहार्थमुत्तरार्थं(2) च।। इहार्थं-तावत्-इणः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र मूर्द्धन्यग्रहणं न कर्तव्यं भवति। उत्तरार्थम्-रषाभ्यां नो णः समानपद इत्यत्र णकारग्रहणं न कर्तव्यं भवति। तत्रायमप्यर्थः(3) पदान्तस्य नेति प्रतिषेधो न वक्तव्यो भवति। अपदान्ताभिसम्बद्धं मूर्धन्यग्रहणमनुवर्तते(4)।।
-8-3-56- सहेः साडः सः
सग्रहणं किमर्थं न सहेस्साडो मूर्द्धन्यो भवतीत्येवोच्येत?।। सहेस्साडो मूर्द्धन्यो भवतीत्युच्यमानेऽन्त्यस्य प्रसज्येत।। ननु चाऽन्त्यस्य मूर्द्धन्यवचने(1) प्रयोजनं नास्तीति कृत्वा सकारस्य भविष्यति।। कुतो नु खल्वेतदनन्त्यार्थे आरम्भे सकारस्य भविष्यति न पुनराकारस्य स्यात्?।। स्थानेन्तरतमो भवतीति सकारस्य भविष्यति।। भवेत्प्रकृतितोऽन्तरतमनिर्वृत्तौ सत्यां सिद्धं स्यात्। आदेशतस्त्वन्तरतमनिर्वृत्तौ सत्यामाकारस्य प्रसज्येत। तस्मात् सकारग्रहणं कर्तव्यम्।।सकार(2)ग्रहणमुत्तरार्थम्।। उत्तरार्थं च सकारग्रहणं क्रियते। आदेशप्रत्यययोस्सकारस्य यथा स्यादिह मा भूत्,-चितं स्तुतम्।। अथ सहिग्रहणं किमर्थं न साडः सो
भवतीत्येवोच्येत?।। सहेरेव साड्रूपं भवति नान्यस्य भवति(1)। यद्येवं-।। साडः षत्वे समानशब्दप्रतिषेधः ।। साडः षत्वे समानशब्दानां प्रतिषेधो वक्तव्यः। साऽडो दण्डः, साऽडो वृश्चिक इति।। अर्थवद्ग्रहणात्सिद्धम्।। अर्थवतः साड्(रूप(2))शब्दस्य ग्रहणं, न चैषोऽर्थवान्।। अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधः।। अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधो वक्तव्यः। सह अडेन साऽडः, साऽडस्यापत्यं साऽडिरित्यत्र(3) प्राप्नोति।। स तर्हि वक्तव्यः?(1)।। न वक्तव्यः। षत्वतुकोरेकादेशस्याऽसिद्धत्वान्नैष साड्शब्दः।। एवमपि सह डेन सडः, सडस्यापत्यं साडिः,-अत्र प्राप्नोति।। तस्मात्सहिग्रहणं कर्तव्यम्।।(सहेः साडः सः।)
-8-3-57- इण्कोः
नुम्विसर्जनीयर्शव्यवायेऽपि ।।
।। नुम्विसर्जनीयर्शव्यवोये निंसेः प्रतिषेधः।। नुम्विसर्जनीयर्सव्यवाये निंसेः प्रतिषेधो वक्तव्यः। निंस्से निंस्स्वेति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नुमैव व्यवाये, विसर्जनीयेनैव व्यवाये शरैव व्यवाये इति।। किं वक्तव्यमेतत्?।। न हि कथमनुच्यमानं गंस्यते?।। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा गुणवृद्धिसंज्ञे प्रत्येकं भवतः।। ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिः। तद्यथा-गर्गाः शतं दण्ड्यन्तामर्थि नश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति।। एवं तर्हि।।योगविभागात्सिद्धम्।।(योगविभागात्सिद्धमेतत्(1))। योगविभागः करिष्यते। नुम्व्यवाये। ततो,-विसर्जनीयव्यवाये। ततः र्शव्यवाये।। स तर्हि योगविभागः कर्तव्यः?।। न कर्तव्यः। प्रत्येकं व्यवायशब्दः परिसमाप्यते।।
-8-3-58- नुम्विसर्जनीयर्शव्यवायेऽपि
इण्कोः ।।
।। नुम्विसर्जनीयर्शव्यवोये निंसेः प्रतिषेधः।। नुम्विसर्जनीयर्सव्यवाये निंसेः प्रतिषेधो वक्तव्यः। निंस्से निंस्स्वेति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नुमैव व्यवाये, विसर्जनीयेनैव व्यवाये शरैव व्यवाये इति।। किं वक्तव्यमेतत्?।। न हि कथमनुच्यमानं गंस्यते?।। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा गुणवृद्धिसंज्ञे प्रत्येकं भवतः।। ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिः। तद्यथा-गर्गाः शतं दण्ड्यन्तामर्थि नश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति।। एवं तर्हि।।योगविभागात्सिद्धम्।।(योगविभागात्सिद्धमेतत्(1))। योगविभागः करिष्यते। नुम्व्यवाये। ततो,-विसर्जनीयव्यवाये। ततः र्शव्यवाये।। स तर्हि योगविभागः कर्तव्यः?।। न कर्तव्यः। प्रत्येकं व्यवायशब्दः परिसमाप्यते।।
-8-3-59- आदेशप्रत्यययोः
आदेशप्रत्यययोः षत्वे सरकः(2) प्रतिषेधः।। आदेशप्रत्यययोः षत्वे सरकः(2) प्रतिषेधो वक्तव्यः। कृसरः धूसरः।। अत्यल्पमिदमुच्यते सरक इति।।सरगादीनामिति वक्तव्यम्।। इहापि यथा स्यात्-वर्सं तर्समिति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। न वा एत(4)त्षत्वे शक्यं विज्ञातुम्--उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति। इह हि न स्यात्-सर्पिषः(1) यजुष इति।। एवं तर्हि-।। बहुल वचनात्सिद्धम्।। (बहुलवचनात्सिद्ध(2)मेतत्)। बहुलं प्रत्ययसंज्ञा भवति(3)।
अथ किं पुनरियमवयवषष्ठी-आदेशस्य यः सकारः प्रत्ययस्य यः सकार इति, आहो स्वित् समानाधिकरणा-आदेशो यः सकार प्रत्ययो यः सकार इति।। कश्चात्र विशेषः?।। आदेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने(4) प्रतिषेधः।। आदेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने प्रतिषेधो वक्तव्यः। बिसं बिसम्। मुसलं मुसलम्।। समानाधिकरणानां चाऽप्राप्तिः।। समानाधिकरणानां च षत्वस्याऽप्राप्तिः। एषः अकार्षीत्।। अस्तु समानाधिकरणा।। यदि समानाधिकरणा सिषेच सुष्वाप,-अत्र न प्राप्नोति।। न धातुद्विर्वचने स्थाने द्विर्वचनं शक्यमास्थातुम्, इहापि(1) हि प्रसज्येत - सरीसृप्यते इति। तस्मात्तत्र द्विःप्रयोगो(2) द्विर्वचनम्।। इह तर्हि करिष्यति हरिष्यति,प्रत्ययो यः सकार इति षत्वं न प्राप्नोति।। अस्तु तर्ह्यादेशो यः सकारः प्रत्ययस्य यः सकार इति।। इह तर्हि-अकार्षीत्,-प्रत्ययस्य यः सकार इति षत्वं न प्राप्नोति।। मा भूदेवम्, आदेशो यः सकारःथ्द्य;त्येवं भविष्यति। इह तर्हि जोषिषत्, मन्दिषदिति,-प्रत्ययस्य यः(3) सकार इति षत्वं न प्राप्नोति। एषोऽपीटि कृते प्रत्ययस्य सकारः।। इह तर्हि,-इन्द्रो मा वक्षत्, स देवान्यक्षत्।। नानाविभक्तीनां च समासानुपपत्तिः।।
नानाविभक्तीनां च समासो नोपपद्यते आदेशप्रत्यययोरिति।। योगविभागात्सिद्धम्।।(योगविभागात्सिद्धमेतत्(4))। योगविभागः करिष्यते। आदेशस्य। (आदेशस्य(4))षोभवतीति। ततः(5) प्रत्ययस्य। प्रत्ययस्य(3) सकारस्य षो भवतीति।। स तर्हि योगविभागः कर्तव्यः?।। न कर्त्तव्यः।। कथम्?।। अस्तु तावदवयवषष्ठी।। ननु चोक्तमादेशप्रत्यययोरित्यवयवषष्ठी चेदि्द्वर्वचने प्रतिषेध इति।। नैषः दोषः। द्विःप्रयोगो(6) द्विर्वचनम्।. यदप्युच्यते-समानाधिकरणानां चाप्राप्तिरिति। (नैषः(5) दोषः)।। व्यपदेशिवद्भावेन भविष्यति।। अथ वा पुनरस्तु समानाधिकरणा।। कथं करिष्यति हरिष्यति?।। आचार्यप्रवृत्तिर्ज्ञापयतिभवत्येवंजातीयकानां षत्वमिति यदयं सात्पदाद्योरिति सात्प्रतिषेधं शास्ति।। अथ वा पुनरस्त्वादेशो यःसकारः प्रत्ययस्य यः सकार इति।। कथमिन्द्रो मा वक्षत्, स देवान्यक्षत्?।। व्यपदेशिवद्भावेन भविष्यति।। स तर्हि व्यपदेशि वद्भावो वक्तव्यः?।। न वक्तव्यः।। उक्तं वा ।।झ्र्उक्तंवाट।। किमुक्तम्?।। तत्र व्यपदेशिवद्वचनमेकाचो द्वे प्रथमार्थं, षत्वे चादेशसंप्रत्ययार्थम्, अवचनाल्लोकविज्ञानात्सिद्धमिति। यदपि-नानाविभक्तीनां च समासानुपपत्तिरिति। आचार्यप्रवृत्तिर्ज्ञापयति-नानाविभक्तयोरेष समास इति, यदयं शासिवसिघसीनां चेति घसिग्रहणं करोति।।
कथं कृत्वा ज्ञापकम्?।। यदि ह्यादेशस्य यः सकार इत्येवं स्याद्धसिग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यः-आदेशो यः सकारस्तस्य षत्वमिति,-ततो घसिग्रहणं करोति।। (आदेशप्रत्यययोः)।
-8-3-61- स्तौतिण्योरेव षण्यभ्यासात्
स्तौतिणिग्रहणं(1) किमर्थम्?।। अस्तौतिण्यन्तानां मा भूत्-सिसिक्षति(2)।। अथैवकारः किमर्थः।। एवकारो नियमार्थः(3)।। (एवकारो नियमार्थः)। स्तौतिण्यन्तानामेव नान्येषा(1)मिति।। नैतदस्ति प्रयोजनं, सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारकरणं(4) नियमार्थो भविष्यति।। इष्टतोऽवधारणार्थस्तर्हि। यथैवं विज्ञायेत स्तौतिण्योरेव(5) षणीति, मैवं विज्ञायि-स्तौतिण्योः(5) षण्येवेति। इह न स्यात्-तुष्टाव।।
अथ षणीति किमर्थम्?।। सेषीव्यते। को विनतेऽनुरोधः?।। अविनते नियमो मा भूत्-सुषुप्सतीति।। कः सानुबन्धेऽनुरोधः?।। षशब्दमात्रे नियमो मा भूत्-सुषुपिष इन्द्रम्। सुषुपिष इहेति।। अभ्यासादिति किमर्थम्?।। अभ्यासाद्या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद्या प्राप्तिस्तस्या नियमो मा भूत्-अभिषिषिक्षति।। नैतदस्ति, असिद्धमुपसर्गात्षत्वं, तस्याऽसिद्धत्वान्नियमो न भविष्यति।। इदं तर्हि प्रयोजनं,-सनि योऽभ्यासस्तस्माद्या प्राप्तिस्तस्या नियमो यथा स्याद्यङि योऽभ्यासस्तस्माद्या प्राप्तिस्तत्र नियमो मा भूत्सोषुप्यतेः(6) सन्(1)-सोषुपिषते।। अथ वाऽभ्यासाद्या प्राप्तिस्तस्या नियमो यथा स्याद्धातोर्या प्राप्तिस्तस्या नियमो मा भूत्(2)-अधीषिषति प्रतीषिषतीति(7)।। ननु च षणीत्युच्यते; षणीति नैषा परसप्तमी शक्या विज्ञातुम्। सन्यङन्तं हि द्विरुच्यते, तस्मादेषा सत्सप्तमी षणि सतीति। सत्सप्तमी चेत्प्राप्नोति।।
-8-3-64- स्थादिष्वभ्यासेन चाभ्यासस्य
किमर्थमिदमुच्यते?।। स्थादिष्वभ्यासवचनं(1) नियमार्थम्।। नियमार्थोऽयमारम्भः-स्थादिष्वभ्यासस्य(2) यथा स्यादिह मा भूत्-अभिसुसूषति।। अथ किमर्थभ्यासेन
चेत्युच्यते?।। तद्व्यवाये चाषोपदेशार्थम्।। तद्व्यवायेऽभ्यासव्यवाये चाऽषोपदेशस्यापि यथा स्यात्। अभिषिषेणयिषति।। अवर्णान्ताभ्यासार्थं(3) षणिप्रतिषेधार्थं च।। अवर्णान्ताभ्यासार्थं(3) तावत्-अभितष्ठौ। षणिप्रतिषेधार्थं च ।। अवर्णान्ता(3)भ्यासार्थं तावत्-अभितष्ठौ। षणिप्रतिषेधार्थम्-अभिषिषिक्षति।।
-8-3-65- उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जाम्
।। उपसर्गात्षत्वे निस उपसङ्ख्यानमनिणन्तत्वात्।। उपसर्गात्षत्वे निस उपसङ्ख्यानं कर्तव्यम्। निष्षुणोति। निष्षिञ्चति।। किं पुनः कारणं न सिध्यति?।। अनिणन्तत्वात्। इणन्तादुपसर्गात्षत्वमुच्यते न च निसिणन्तः।। न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषक उपसर्गो धातुश्च।। न वा वक्तव्यम्। किं कारणम्?। वर्णाश्रयत्वात् षत्वस्य। वर्णाश्रयं षत्वम्। तद्विशेषक उपसर्गो धातुश्च। नैवं विज्ञायते-इणन्तादुपसर्गादिति।। कथं तर्हि?।। इण उत्तरस्य सकारस्य, स चेदिणुपसर्गस्य, स चेत्सकारस्सुनोत्यादीनामिति। तत्र र्शव्यवायेःथ्द्य;त्येव(1) सिद्धम्।। यद्येवं धातूपसर्गयोरभिसम्बन्धोऽकृतो भवति।। तत्र को दोषः?।। इहापि प्राप्नोति-विगताः सेचका(1) अस्माद्वामात्-विसेचको ग्रामः।। धातूपसर्गयोश्चाऽभिसम्बन्धः कृतः।। कथम्?।। सुनोत्यादिभिरत्रोपसर्गं
विशेषयिष्यामः सुनोत्यादीनां य उपसर्गस्तस्य (उपसर्गस्य(2)) य इणिति।। सुनोत्यादीनां(1) षत्वे ण्यन्तस्योपसङ्ख्यानमधिकत्वात्।। सुनोत्यादीनां षत्वे ण्यन्तस्योपसङ्ख्यानं कर्तव्यम्। अभिषावयति।। किं कारणं(3)(न सिध्यति?(2))। अधिकत्वात्। व्यतिरिक्तः सुनोत्यादिरिति कृत्वोपसर्गात्सुनोत्यादीनामिति षत्वं न प्राप्नोति।। न वाऽवयवस्याऽनन्यत्वात्।। न वा वक्तव्यम्।। किं कारणम्?।। अवयवस्यानन्यत्वात्। अवयवोत्राऽनन्यः (इति(2))।। नामधातोस्तु प्रतिषेधः।। नामधातोस्तु प्रतिषेधो वक्तव्यः। सावकमिच्छत्यभिसावकीयति। परिसावकीयति(4)।। न वाऽनुपसर्गत्वात्।। न वा वक्तव्यः।। किं कारणम्?।। अनुपसर्गत्वात्। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाऽत्र सुनोतिं प्रति क्रियायोगः।। किं तर्हि?।। सावकीयतिं प्रति।। इहापि तर्हि न प्राप्नोति-अभिषावयति। अत्रापि न(2) सुनोतिं प्रति क्रियायोगः।। किं तर्हि?।। सावयतिं प्रति।। सुनोतिं प्रत्यत्र क्रियायोगः।। कथम्?।। नासावेवं प्रेष्यतेसुन्वभीति।। किं तर्हि?।। उपसर्गविशिष्टामसौक्रियां प्रेष्यते-अभिषुण्विति।।
-8-3-67- स्त(1)म्भेः
अप्रतेरिति वर्तते(2) उताहो निवृत्तम्?।। निवृत्त(3)मित्याह।। कथं ज्ञायते?।। योगविभागकरणसार्मथ्यात्(3)। इतरथा हि सदिस्तम्भ्योरप्रते(1)रित्येव ब्रूयात्।। अस्त्यन्यद्योगविभागकरणे प्रयोजनम्।। किम्?।। अवाच्चालम्बनाविदूर्ययोरिति वक्ष्यति तत्स्तम्भेरेव(1) यथा स्यात्सदेर्मा भूदिति।। नैतदस्ति प्रयोजनम्। एकयोगेऽपि सति यस्यालम्बनाविदूर्येस्तस्तस्य भविष्यति।। कस्य चाऽऽलम्बनाविदूर्ये स्तः?।। स्तम्भेरेव(1)।। (स्तम्भेः)।।
-8-3-72- अनुविपर्याभिनिभ्यः स्यन्दतेरप्राणिषु ।।
अथ यः प्राण्यप्राणी च कथं तत्र भवितव्यम्, अनुष्यन्देते मत्स्योदके इति, आहो स्विदनुस्यन्देते मत्स्योदके इति
? यदि तावदप्राणी विधिनाश्रीयते, अस्त्यत्राप्राणीति कृत्वा भवितव्यं षत्वेन , अथ प्राणी प्रतिषेधेनाश्रीयते , अस्त्यत्र प्राणीति कृत्वा भवितव्यं प्रतिषेधेन।।
       किं पुनरत्राऽर्थसत्त्वं ? देवा एतज्ज्ञातुमर्हन्ति।।
-8-3-74- परेश्च
अथाऽनिष्ठायामिति(1)(2) वर्तते उताहो निवृत्तम्?।। निवृत्तमित्याह।। कथं ज्ञायते?।। योगविभागकरणसार्मथ्यात्(2)। इतरथा हि विपरिभ्यां च स्कन्देरनिष्ठायामित्येव ब्रूयात्।। (परेश्च)।।
-8-3-78- इणः षीध्वंलुङ्लिटां धोऽङ्गात्
विभाषेटः ।।
इण्ग्रहणं किमर्थम्?।। इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम्।। इण्ग्रहणं क्रियते।। (किं प्रयोजनम्? ढत्वे कवर्गनिवृत्त्यर्थम्)।। कवर्गाड्ढत्वं मा भूत्(1) पक्षीध्वम् यक्षीध्वम्।। किं पुनरिदमिण्ग्रहणं प्रत्ययविशेषणम्-इण उत्तरेषां षीध्वंलुङि्लटां यो धकार इति, आहो स्विद्धकारविशेषणम्--इणः उत्तरस्य धकारस्य, स चेत्षीध्वंलुङ्लिटान्धकारःथ्द्य;ति।। कश्चात्र विशेषः?।। तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात्।। तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं न प्राप्नोति। लुलुविढ्वे(4) लुलुविध्व इति।। किं कारणम्?।। परादित्वात्। इट् परादिः(5)।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। अलविढ्वम् अलविध्वम्।। अस्तु तर्हि धकारविशेषणम्।। धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावः।। धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषा न प्राप्नोति। लविषीध्वं लविषीढ्वम्।।
वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। लुलुविढ्वे लुलुविध्वे इति(1)।। इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः।। इण्ग्रहस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वं प्राप्नोति। पक्षीध्वं(2) यक्षीध्वमिति।। नैषः दोषः। अङ्गादिति वक्ष्यामि।। अङ्गग्रहणाच्च दोषः।। अङ्गग्रहणाच्च दोषो भवति(2)। इह न प्राप्नोति-उपदिदीयिध्वे उपदिदीयिढ्वे इति(3)। यो ह्यत्राऽङ्गाऽन्त्य इण्न तस्मादुत्तर(4) इट्। यस्माच्चोत्तर इड्गाऽसावङ्गान्त्य इणिति।। यथेच्छसि तथाऽस्तु।। अस्तु तावत्प्रत्ययविशेषणम्।। ननु चोक्तं-तत्र प्रत्ययपरत्वे
इटो लिटि ढत्वं परादित्वात् लुलुविध्वे लुलुविढ्वेःथ्द्य;ति।। वचनाद्भविष्यति।। ननु चोक्तमस्ति वचने प्रयोजनम्।। किम्?।। अलविढ्वम् अलविध्वमिति।। यदेतस्मिन् योगे लिङ्ग्रहणं तदनवकाशं तस्याऽनवकाशत्वाद्वचनाद्भविष्यति।। अथ वा पुनरस्तु-धकारविशेषणमिति।। ननु चोक्तं धकारविशेषणत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावो लविषीध्वं लविषीढ्वमिति।। वचनाद्भविष्यति।। ननु चोक्तमस्ति वचने प्रयोजनं, किं, लुलुविध्वे लुलुविढ्वेःथ्द्य;ति।। यदेतस्मिन् योगे षीध्वंग्रहणं तदनवकाशं, तस्याऽनवकाशत्वाद्वचनाद्भविष्यति।। यदप्युच्यते-इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गःथ्द्य;ति।। अङ्गादिति वक्ष्यामि।। ननु चोक्तमङ्गग्रहणाच्च दोषःथ्द्य;ति।। पूर्वस्मिन् योगे यदङ्गग्रहणं तदुत्तरत्र निवृत्तम्। अथ वा पूर्वस्मिन् योगे इण्ग्रहणं प्रत्ययविशेषणमुत्तरत्र धकारविशेषणम्।।
-8-3-79- विभाषेटः
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ।।
इण्ग्रहणं किमर्थम्?।। इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम्।। इण्ग्रहणं क्रियते।। (किं प्रयोजनम्? ढत्वे कवर्गनिवृत्त्यर्थम्)।। कवर्गाड्ढत्वं मा भूत्(1) पक्षीध्वम् यक्षीध्वम्।। किं पुनरिदमिण्ग्रहणं प्रत्ययविशेषणम्-इण उत्तरेषां षीध्वंलुङि्लटां यो धकार इति, आहो स्विद्धकारविशेषणम्--इणः उत्तरस्य धकारस्य, स चेत्षीध्वंलुङ्लिटान्धकारःथ्द्य;ति।। कश्चात्र विशेषः?।। तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात्।। तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं न प्राप्नोति। लुलुविढ्वे(4) लुलुविध्व इति।। किं कारणम्?।। परादित्वात्। इट् परादिः(5)।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। अलविढ्वम् अलविध्वम्।। अस्तु तर्हि धकारविशेषणम्।। धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावः।। धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषा न प्राप्नोति। लविषीध्वं लविषीढ्वम्।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। लुलुविढ्वे लुलुविध्वे इति(1)।। इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः।। इण्ग्रहस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वं प्राप्नोति। पक्षीध्वं(2) यक्षीध्वमिति।। नैषः दोषः। अङ्गादिति वक्ष्यामि।। अङ्गग्रहणाच्च दोषः।। अङ्गग्रहणाच्च दोषो भवति(2)। इह न प्राप्नोति-उपदिदीयिध्वे उपदिदीयिढ्वे इति(3)। यो ह्यत्राऽङ्गाऽन्त्य इण्न तस्मादुत्तर(4) इट्। यस्माच्चोत्तर इड्गाऽसावङ्गान्त्य इणिति।। यथेच्छसि तथाऽस्तु।।
<M.6.200*>
अस्तु तावत्प्रत्ययविशेषणम्।। ननु चोक्तं - तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात् लुलुविध्वे लुलुविढ्वेःथ्द्य;ति।। वचनाद्भविष्यति।। ननु चोक्तमस्ति वचने प्रयोजनम्।। किम्?।। अलविढ्वम् अलविध्वमिति।। यदेतस्मिन् योगे लिङ्ग्रहणं तदनवकाशं तस्याऽनवकाशत्वाद्वचनाद्भविष्यति।। अथ वा पुनरस्तु-धकारविशेषणमिति।। ननु चोक्तं धकारविशेषणत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावो लविषीध्वं लविषीढ्वमिति।। वचनाद्भविष्यति।। ननु चोक्तमस्ति वचने प्रयोजनं, किं, लुलुविध्वे लुलुविढ्वेःथ्द्य;ति।। यदेतस्मिन् योगे षीध्वंग्रहणं तदनवकाशं, तस्याऽनवकाशत्वाद्वचनाद्भविष्यति।। यदप्युच्यते-इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गःथ्द्य;ति।। अङ्गादिति वक्ष्यामि।। ननु चोक्तमङ्गग्रहणाच्च दोषःथ्द्य;ति।। पूर्वस्मिन् योगे यदङ्गग्रहणं तदुत्तरत्र निवृत्तम्। अथ वा पूर्वस्मिन् योगे इण्ग्रहणं प्रत्ययविशेषणमुत्तरत्र धकारविशेषणम्।।
-8-3-82- अग्नेः स्तुत्सोमसोमाः
।। अग्नेर्दीर्घात्सोमस्य।। अग्नेर्दीर्घात्सोमस्येति वक्तव्यम्। अग्नीषोमौ।। इतरथा ह्यनिष्टप्रसङ्गः।। इतरथा ह्यनिष्टं प्रसज्येत।
<M.6.201*>
अग्निसोमौ माणवकाविति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। गौणमुख्य(1)योर्मुख्ये सम्प्रतिपत्तिः। तद्यथा गौरनुबन्ध्योऽजो(2) ऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते।। कथं
तर्हि वाहीके वृद्ध्यात्वे भवतो-गौस्तिष्ठति गामानयेति?।। अर्थाश्रय एतदेवं भवति। यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति।। शब्दाश्रये च वृद्ध्यात्वे।। (अग्नेःस्तुत्स्तोमसोमाः)।
<M.6.202*>
-8-3-85- मातुः पितुर्भ्यामन्यतरस्याम्
।। सान्ताभ्यां(1) च ।। सान्ताभ्यां चेति वक्तव्यम्। इहापि यथा स्यात्-मातुःष्वसा मातुःस्वसा। पितुःष्वसा पितुस्वसा (इति(2))।। मातुः पितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात्।। मातुः पितुरिति सान्तग्रहणमनर्थम्।। किं कारणम्?।। एकदेशविकृतस्यानन्यत्वात्।। एकदेशविकृतमनन्यवद्भवतीति सान्तस्यापि(3) भविष्यति।।
-8-3-87- उपसर्गप्रादुर्भ्यामस्तिर्यच्परः
अस्तिग्रहणं किमर्थम्?।। इह मा भूत्-अनुसृतं विसृतमिति।।
<M.6.203*>
नैतदस्ति प्रयोजनं-यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चैतं सकारं प्रति क्रियायोगः।। इहापि तर्हि न प्राप्नोति,-अभिषन्ति विषन्तीति। न ह्यस्तिः क्रियावचनः।। कः पुनराह नाऽस्तिः क्रियावचन इति। क्रियावचनोऽस्तिः। आतश्च क्रियावचनः,-व्यत्यनुषते-कर्तरि कर्मव्यतिहारे इत्यनेनात्मनेपदं भवति।। कर्मव्यतिहारश्च कः?।। क्रियाव्यतिहारः।। प्रादुःशब्दात्तर्हि मा भूत्।। प्रादुःशब्दश्च नियतविषयः कृभ्वस्तियोग एव वर्तते।। उपसर्गात्तर्हि स्यतेर्मा भूदिति।। इष्यते उपसर्गात्स्यतेः षत्वम्। आतश्चेष्यते-एवं (तर्हि(1)) ह्याह-उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जामिति।। प्रादुःशब्दात्तर्हि स्यतेर्मा(1) भूत्।। प्रादुःशब्दश्च नियतिविषयः कृभ्वस्तियोग एव वर्तते।। इदं तर्हि प्रयोजनमिह मा भूत्-अनुसूतेरप्रत्ययः-(अनुसूः(1)), अनुस्वोऽपत्यमानुसेयः।।
-8-3-88- सुविनिर्दुर्भ्यः सुपिसूतिसमाः
किमर्थं स्वपेः सूपिभूतस्य ग्रहणं क्रियते?।। सुपेः षत्वं(2) स्वपेर्मा भूत्।। सुपेः षत्वमुच्यते तत्स्वपेर्मा भूदिति। सुस्वप्नः(3) विस्वप्नगिति। ।। विसुष्वापेति(2) केन न।। विसुष्वापेत्यत्र कस्मान्न भवति?।।
<M.6.204*>
हलादिशेषान्न(1) सुपिः।। हलादिशेषे कृते नैष सुपिर्भवति।। इदमिह संप्रधार्यं हलादिशेषः क्रियतां संप्रसारणमिति; किमत्र कर्तव्यम्?।। परत्वाद्धलादिः शेषः।। इष्टं पूर्वं प्रसारणम्(1)।। इष्यते हलादिः शेषात्पूर्वं संप्रसारणम्।। आतश्चेष्यते-एवं(तर्हि) ह्याह(2)-अभ्याससम्प्रसारणं हलादिः शेषाद्विप्रतिषेधेनेति।। एवं तर्हि स्थादिष्वभ्यासेन चाभ्यासस्ये(3)त्येतस्मान्नियमान्न भविष्यति।। स्थादीनां नियमो नात्र प्राक्सितादुत्तरः(1) सुपिः।। प्राक्सितसंशब्दनात्स नियमः, उत्तरश्च सुपिः पठ्यते।। एवं तर्ह्यर्थवद्ग्रहणेनानर्थकस्येत्येवमेतस्य न भविष्यति।। अनर्थके विषुषुपुः(1)।। यद्यर्थवतो ग्रहणं विषुषुपुरिति न सिध्यति।। नैषः दोषः।। कथम्?।। सुपिभूतो(4) द्विरुच्यते(1)।। सुपिभूतस्य द्विर्वचनम्।
<M.6.205*>
।। सुपेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न।
     हलादिःशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्।।1।।
     स्थादीनां नियमो नाऽत्र प्राक्सितादुत्तरः सुपिः।
     अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते।।2।।
-8-3-91- कपिष्ठलो गोत्रे
।। कपिष्ठलो गोत्रप्रकृतौ।। कपिष्ठलो गोत्रप्रकृताविति वक्तव्यम्। गोत्र इत्युच्यमाने इहैव स्यात्-कापिष्ठलिः।
<M.6.206*>
इह न स्यात्-कपिष्ठलः कापिष्ठलायनः।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नैव विज्ञायते कपिष्ठल इति गोत्रे निपात्यत इति।। कथं तर्हि?।। गोत्रे यः कपिष्ठल शब्दस्तस्य षत्वं निपात्यते यत्र वा तत्र वेति।। (कपिष्ठलो गोत्रे)।।
-8-3-97- अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्ञ्जिपुञ्ञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः
स्थ इति किमिदं धातुग्रहणमाहो स्विद्रूपग्रहणम्?।। किं चातः?।। यदि धातुग्रहणं-गोस्थानमित्यत्र प्राप्नोति। अथ रूपग्रहणं सव्येष्ठाः(1) परमेष्ठी सव्येष्ठा सारथिरित्यत्र न प्राप्नोति।। यथेच्छसि तथास्तु।। अस्तु तावद्धातुग्रहणम्।। कथं गोस्थानमिति?।। सवनादिषु पाठः करिष्यते।।
अथ वा पुनरस्तु रूपग्रहणम्।। कथं सव्येष्ठाः परमेष्ठी सव्येष्ठा सारथिरिति?।। स्थःस्थास्थिन्स्थॄणामिति वक्तव्यम्।।
<M.6.207*>
-8-3-98- सुषामादिषु च
।। अविहितलक्षणमूर्धन्यः सुषामादिषु ।। अविहितलक्षणमूर्धन्यः सुषामादिषु द्रष्टव्यः ।
-8-3-101- ह्रस्वात्तादौ तद्धिते
।। ह्रस्वात्तादौ तिङ्प्रतिषेधः(3)।। ह्रस्वात्तादौ तिङः(3) प्रतिषेधो वक्तव्यः। भिन्द्युस्तराम्। छिन्द्युस्तरामिति।। (ह्रस्वात्तादौ तद्धिते)।।
-8-3-105- स्तुतस्तोमयोश्छन्दसि
।। स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्वपदादिति सिद्धत्वात्।। स्तुतस्तोमयोश्छन्दसि वचनमनर्थकम् (इत्येव(2))।। किं कारणम्?।। पूर्वपदादिति सिद्धत्वात्। पूर्वपदादित्येव सिद्धम्।। (स्तुतस्तोमयोः)।।
-8-3-108- सनोतेरनः
।। सनोतेरन इति च।। (सनोतेरन इति च)।। किम्?।। वचनमनर्थकमित्येव।। किं कारणम्?।। (पूर्वपदादिति सिद्धत्वात्)।। पूर्वपदादित्येव सिद्धम्।। नियमार्थं तर्हीदं वक्तव्यम्-सनोतेरनकारस्यैव यथा स्यादिह मा भूत्-गोसनिमिति।। सनोतेरन इति नियमार्थमिति चेत्सवनादिकृतत्वात्सिद्धम्।। सनोतेरन इति नियमार्थमिति चेत्सवनादि (कृतत्वात्सिद्धम्। सवनादि)षु पाठः करिष्यते।। सन्नर्थं तु।। सन्नर्थं त्विदं वक्तव्यम्। सिसनिषति।। एतदपि नास्ति प्रयोजनम्। स्तौतिण्योरेव षण्यभ्यासादित्येतस्मान्नियमान्न भविष्यति।। ण्यर्थं तर्हीदं वक्तव्यं-सिसानयिषतीति(1)।। कथं पुनरण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यो विज्ञातुम्?।। सार्मथ्यात्। अण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यन्तो(2) विज्ञास्यते।। अथ वाऽयमस्त्यण्यन्तः सिसनिषतेरप्रत्ययः-सिसनीः।। (सनोतेरनः)।
-8-3-110- न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्
किमर्थं सवनादिष्वश्वसनिशब्दः पठ्यते? ।। षत्वबाधनार्थम्।। पूर्वपदादिति षत्वं प्राप्नोति तद्बाधनार्थम्।। नैतदस्ति प्रयोजनम्, इणन्तादिति तत्रानुवर्तते, अनिणन्ताश्चायं, नैव प्राप्नोति नाऽर्थः प्रतिषेधेन।। एवं तर्हि सिद्धे सति यत्सवनादिष्यश्वसनिशब्दं पठति तज्ज्ञापयत्याचार्योऽनिणन्तादपि षत्वं भवतीति।। किमेतस्य ज्ञापने प्रयोजनम्?।। जलाषाहं माष इत्येतत्सिद्धं भवति।। अथ वैकदेशविकृतार्थोऽयमारम्भः। अश्वषा इति।।
-8-3-113- सिचो यङि
अथोपसर्गादिति(1) या प्राप्तिः-भवितव्यं तस्याः प्रतिषेधेनोताहो न?।। न भवितव्यम्।। किं कारणम्?।। उपसर्गात् षत्वं प्रतिषेधविषये आरभ्यते, तद्यथैव पदादिलक्षणं(3) प्रतिषेधं बाधते एवं सिचो यङीत्येतमपि बाधते(4)।। न बाधते(4)।। किं कारणम्?।। येन नाऽप्राप्ते तस्य बाधनं भवति। न चाऽप्राप्ते पदादिलक्षणे(1) प्रतिषेधे उपसर्गात् षत्वमारभ्यते, सिचो यङीत्येतस्मिन् पुनः प्राप्ते चाऽप्राप्ते च।। अथ वा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्तःथ्द्य;त्येवमुपसर्गात्षत्वं पदादिलक्षणं प्रतिषेधं बाधिष्यते। सिचो यङीत्येतन्न बाधिष्यते। तस्मादभिसेसिच्यते इति भवितव्यम्।।
-8-3-115- सोढः
किमर्थं सहिः सोढभूतो गृह्यते?।। यत्रास्यैतद्रूपं तत्र यथा स्यादिह मा भूत्परिषहत इति।। (सोढः)।
-8-3-116- स्तम्भुसिवुसहां चङि
।। स्तम्भुसिवुसहां चङ्युपसर्गात्।। स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्।। किं प्रयोजनम्?।। उपसर्गाद्या प्राप्तिस्तस्याः प्रतिषेधो यथा स्यादभ्यासाद्या प्राप्तिस्तस्याः प्रतिषेधो मा भूदिति। पर्यसीषहत्।। (स्तम्भुसिवु)
-8-3-117- सुनोतेः स्यसनोः
सनि किमुदाहरणम् ? ।। सुसूषति ।। नैतदस्ति प्रयोजनं स्तौतिण्योरेव षण्यभ्यासा दित्येतस्मान्नियमान्न भविष्यति ।। इदं तर्हि - अभिसुसूषति ।। एतदपि नास्ति प्रयोजनम्। स्थादिष्वभ्यासेन चाऽभ्यासस्येत्येतस्मान्नियमान्न भविष्यति।। इदं तर्हि प्रयोजनम् -- अभिसुसूतेः अप्रत्ययः -- अभिसुसूः । विसुसूः। निसुसूः ।। (सुनोतेः स्यसनोः)।।
-8-3-118- सदेः परस्य लिटि
।। सदो लिटि प्रतिषेधे स्वञ्ञ्जेरुपसङ्ख्यानम्।। सदो लिटि प्रतिषेधे स्वञ्ञ्जेरुपसङ्ख्यानं कर्तव्यम्। परिषस्वजे।।
।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्येऽष्टमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्।। पादश्च तृतीयः समाप्तः।।
-9-9-999-