महाभाष्यम्/अष्टमोऽध्यायः/प्रथमः पादः
-8-1-1- सर्वस्य द्वे
सर्ववचनं किमर्थम्।। सर्ववचनमलोऽन्त्यनिवृत्त्यर्थम्।। सर्वग्रहणं क्रियते।। (किं प्रयोजनम्?)।। अलोऽन्त्यनिवृत्त्यर्थम्। अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य द्विर्वचनं मा भूदिति।। क्व पुनरलोन्त्यनिवृत्त्यर्थेनाऽर्थः सर्वग्रहणेन ?।। नित्यवीप्सयोरिति।। नित्यवीप्सयोरित्युच्यते, न चाऽन्त्यस्य द्विर्वचनेन(1) नित्यता वीप्सा वा गम्यते।। ःथ्द्य;ह तर्हि-परेर्वर्जने ःथ्द्य;त्यन्त्यस्याऽपि(2) द्विर्वचनेन(1) र्वज्यमानता गम्येत। ।। षष्ठीनिर्द्वेशार्थञ्ञ्च(3)।। षष्ठीनिर्देशार्थं च सर्वग्रहणं कर्तव्यम्। षष्ठीनिर्देशो यथा प्रकल्पेत।। अनिर्देशे हि षष्ठ्यर्थाऽप्रसिद्धिः।। अक्रियमाणे हि सर्वग्रहणे षष्ठ्यर्थस्याऽप्रसिद्धिः स्यात्।। कस्य ?।। स्थानेयोगत्वस्य।। क्व पुनरिह षष्ठीनिदेशाऽर्थेनार्थः सर्वग्रहणेन यावता सर्वत्रैव षष्ठ्युच्चार्यते-परेर्वर्जने प्रसमुपोदः पादपूरणे उपर्यध्यधसः सामीप्ये वाक्यादेरामन्त्र्रितस्येति।।
ःथ्द्य;ह न काचित् षष्ठी-नित्यवीप्सयो(1)रिति?।। ननु चैषैव षष्ठी।। नैषा षष्ठी।। किं तर्हि?।। अर्थनिर्देश एषः-नित्ये चाऽर्थे वीप्सायां चेति।।
अलोऽन्त्यनिवृत्त्यर्थेन तावन्नार्थः सर्वग्रहणेन। ःथ्द्य;दं तावदयं प्रष्टव्यः--नित्यवीप्सर्योर्द्वे भवत ःथ्द्य;त्युच्यते, द्विशब्द आदेशः कस्मान्न भवति?।। आचार्यप्रवृत्तिर्ज्ञापयति-न द्विशब्द आदेशो भवतीति-यदयं तस्य परमाम्रेडितम्अनुदात्तं चेत्याह।। कथं कृत्वा ज्ञापकम्?।। द्विशब्दोऽयमेकाच्, तस्यैकाच्त्वात्तस्य परमाम्रेडितमनुदात्तं चेत्येतन्नास्ति। पश्यति त्वाचार्यो-न द्विशब्द आदेशो भवतीति, ततस्तस्य परमाम्रेडितमनुदात्तं चेत्याह।। यदि तर्हि न द्विशब्द आदेशो भवति के तर्हीदानीं द्वे भवतः?।। द्विशब्देन यदुच्यते।। किं पुनस्तत्?।। द्विशब्दोऽयं सङ्ख्यापदं, सङ्ख्यायाश्च सङ्ख्येयमर्थः। (1)सङ्ख्येये द्वे भविष्यतः।। के पुनस्ते?।। पदे वाक्ये मात्रे (वा5)।।
तद्यदा तावत्पदे वाक्ये वा तदाऽनेकाल्त्वात्सर्वादेशः(2) सिद्धः। यदातावन्मात्रे(3) अपि तदाऽनेकाल्शित्सर्वस्येति सर्वादेशो (4)भविष्यति।।
यदा तर्ह्यर्द्धमात्रे तदा सर्वादेशो न सिध्यति।। नैषः दोषः। (तदापि सिद्धः(5))। न चार्द्धमात्रे द्विरुच्येते।। किं कारणम्?।। ःथ्द्य;ह व्याकरणे यत्सर्वाऽल्पीयान्(6) स्वरव्यवहारः स मात्रया भवति। नाऽर्द्धमात्रया व्यवहारोऽस्ति, तेनाऽर्द्धमात्रे न भविष्यतः।। एवमपि कुत एतत्-पदे द्वे भविष्यतःथ्द्य;ति, न पुनर्वाक्ये स्यातां मात्रे वा?।। नित्यवीप्सयोर्द्वे भवत ःथ्द्य;त्युच्यते न च वाक्यद्विर्वचनेन(7) मात्राद्विर्वचनेन(7) वा नित्यता वीप्सा वा गम्यते।।
षष्ठीनिर्देशार्थमेव तर्हि सर्वग्रहणं कर्त्तव्यम्।।
।। न वा पदाधिकारात्।। न वा वक्तव्यम्।। किं कारणम्?।। पदाधिकारात्। पदस्येति प्रकृत्य(1) द्विर्वचनं वक्ष्यामि।। तच्च समासतद्धितवाक्यनिवृत्त्यर्थम्।। तच्चावश्यं पदग्रहणं कर्त्तव्यम्।। (किं कारणम्?।। समासतद्धितवाक्यनिवृत्त्यर्थम्(1)) समासनिवृत्त्यर्थं तद्धितनिवृत्त्यर्थं वाक्यनिवृत्त्यर्थञ्ञ्च।। समासनिवृत्त्यर्थं तावत्-सप्तपर्णः। अष्टापदम्(2)। तद्धितनिवृत्त्यर्थं-द्विपदिका त्रिपदिका। माषशः कार्षापणशः। वाक्यनिवृत्त्यर्थं ग्रामे ग्रामे पानीयम्। माषं माषं देहि (ःथ्द्य;ति(1))।।
अथ क्रियमाणेऽपि वै पदग्रहणे समासनिवृत्त्यर्थमिति कथमिदं विज्ञायते-समासस्य निवृत्त्यर्थं समासनिवृत्त्यर्थमाहो स्वित्समासे निवृत्त्यर्थं समासनिवृत्त्यर्थमिति?।। किं चातः?।। यदि विज्ञायते समासस्य निवृत्त्यर्थं समासनिवृत्त्यर्थमिति, सिद्धं-सप्तपर्णः सप्तपर्णौ सप्तपर्णा ःथ्द्य;ति। सप्तपर्णाभ्यां सप्तपर्णेभ्य ःथ्द्य;त्यत्रापि प्राप्नोति।। अथ विज्ञायते-समासे निवृत्यर्थं समासनिवृत्यर्थमिति,-सप्तपर्णः सप्तपर्णौ सप्तपर्णा ःथ्द्य;त्यत्रापि प्राप्नोति।।
तथा-तद्धितनिवृत्त्यर्थमिति,-कथमिदं विज्ञायते-तद्धितस्य निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति, आहो स्वित्तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति?।। किं चातः?।। यदि विज्ञायते तद्धितस्य निवृत्त्यर्थं
तद्धितनिवृत्त्यर्थमिति, सिद्धं द्विपदिका(1) त्रिपदिका(2)(ःथ्द्य;ति(2)), द्विपदिकाभ्यां त्रिपदिकाभ्यां माषशः कार्षापणश ःथ्द्य;त्यत्र प्राप्नोति।। अथ विज्ञायते-तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति, द्विपदिका(:)त्रिपदिका
ःथ्द्य;त्यत्रापि
प्राप्नोति।।
तथा वाक्यनिवृत्त्यर्थमिति कथमिदं विज्ञायते वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति। आहो स्विद्वाक्ये निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति?।।
किं चातः?।। यदि विज्ञायते-वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति,- यदि वाक्यं वीप्सायुक्तं; भवितव्यमेव द्विर्वचनेन। अथाऽप्यवयवः,-भवत्येव। तदेतत्क्रियमाणेऽपि पदग्रहणे आलूनविशीर्णं(1) भवति, किं चित्सङ्गृहीतं किं चिदङ्गृहीतं(च)(2)। ।। सगतिग्रहणं(2) च ।। सगतिग्रहणञ्ञ्च कर्त्तव्यम्। प्रपचति-प्रपचति, प्रकरोति-प्रकरोतीति(4)।।
किं पुनः कारणं न सिध्यति?।। न हि सगतिकं पदं भवति।।
समासनिवृत्त्यर्थेन तावन्नार्थः पदग्रहणेन। समासेनोक्तत्वाद्वीप्साया द्विर्वचनं न भविष्यति।। किं च भोः समासो वीप्सायामित्युच्यते?।। न खलु वीप्सायामित्युच्यते गम्यते तु सोऽर्थः।। ततः किम्(1)?।। उक्तः(2) समासेनेति कृत्वा द्विर्वचनं न भविष्यति। यत्र च(3) समासेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-एकैकविचिताः अन्योन्यसहाया ःथ्द्य;ति।
अथ वा यदत्र वीप्सायुक्तं नाऽदः प्रयुज्यते।। किं पुनस्तत्?।। पर्वणि पर्वणि सप्त पर्णान्यस्य, पङ्क्तौ पङ्क्तावष्टौ पदान्यस्येति।।
तद्धितनिवृत्त्यर्थेन चाऽपि नार्थः पदग्रहणेन। तद्धितेनोक्तत्वाद्वीप्साया द्विर्वचनं न भविष्यति। तद्धितः खल्वपि वीप्सायामित्युच्यते। यत्र च तद्धितेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-एकैकशो ददातीति।।
वाक्यनिवृत्त्यर्थेन चाऽपि नार्थः पदग्रहणेन। पदद्विर्वचनेनोक्तत्वाद्वीप्साया वाक्यद्विर्वचनं न भविष्यति। यत्र च पदद्विर्वचनेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-प्रपचति-प्रपचति, प्रकरोति-प्रकरोतीति।।
(।। उत्तरार्थन्तु(2)।।) उत्तरार्थं तर्हि पदग्रहणं कर्त्तव्यम्। तस्य परमाम्रेडितम् अनुदात्तं चेति वक्ष्यति(3)। तत्पदद्विर्वचने(4) यथा स्याद्वाक्यद्विर्वचने माभूत्-मह्यं ग्रहीष्यति-मह्यं ग्रहीष्यति, मामभिव्याहरिष्यतिमामभिव्याहरिष्य(ती)ति।।
कथं चाऽत्र द्विर्वचनम्?।। छान्दसत्वात् ।।
स्वरोऽपि तर्हि च्छान्दसत्वादेव न भविष्यति।। उत्तरार्थमेव तर्हि पदग्रहणं कर्त्तव्यं,पदस्य पदादिति वक्ष्यति, तत्पदग्रहणं न कर्त्तव्यं भवति।।
सर्वग्रहणमपि तर्ह्युत्तरार्थम्। अनुदात्तं सर्वमपादादाविति वक्ष्यति तत्सर्वग्रहणं न कर्तव्यं भवति।। उभयं क्रियते तत्रैव।।
ःथ्द्य;हार्थमेव तर्हि षष्ठीनिर्देशार्थमन्यतरत्कर्त्तव्यं, षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनं यथा स्याद्विःप्रयोगो मा भूदिति।। किं च स्यात्?।। आम् पचसि पचसि देवदत्ता3। आम एकान्तरमामन्त्रितमनन्तिक ःथ्द्य;त्येकान्तरता न स्यात्। ःथ्द्य;ह च पौनःपुन्यम् ,पौनः पुनिक ःथ्द्य;ति,(1)-अप्रातिपदिकत्वात्तद्धितोत्पत्तिर्न स्यात्।।
यदि तर्हि स्थाने द्विर्वचनं-राजा-राजा वाग्वाक्,-पदस्येति नलोपादीनि न सिध्यन्ति।। ःथ्द्य;दमिह संप्रधार्यं-द्विर्वचनं क्रियतां नलोपादीनीति, किमत्र कर्त्तव्यम्?।। परत्वान्नलोपादीनि।। पूर्वत्राऽसिद्धे नलोपादीनि। सिद्धाऽसिद्धयोश्च नास्ति संप्रधारणा।। एवं तर्हि-पूर्वत्राऽसिद्धीयमद्विर्वचन ःथ्द्य;ति (वक्ष्यामि(1)। तच्चावश्यं-) वक्तव्यम्।। किं प्रयोजनम्?।। विभाषिताः प्रयोजयन्ति-द्रोग्धा- द्रोग्धा। द्रोढा-द्रोढेति।। ःथ्द्य;ह तर्हि - बिसंबिसम् मुसलंमुसलम् , -आदेशप्रत्यययोरिति षत्वं प्राप्नोति।। आदेशो यः सकारः प्रत्ययो यः सकार ःथ्द्य;त्येवमेतद्विज्ञायते।। ःथ्द्य;ह तर्हि-नृभिर्नृभिः,-रषाभ्यां नो णः समानपद ःथ्द्य;ति णत्वं प्राप्नोति।। समानपद ःथ्द्य;त्युच्यते, समानपदमेव(2) यन्नित्यं, न चैतन्नित्यं समानपदमेव।। किं वक्तव्यमेतत्?।। न हि।। कथमनुच्यमानं गंस्यते?।। समानग्रहणसार्मथ्यात्। यदि हि यत्समानं चाऽसमानं च तत्र स्यात्समानग्रहणमनर्थकं स्यात्।।
अथ वा पुनरस्तु द्विःप्रयोगो द्विर्वचनम्।। ननु चोक्तम् - आम् पचसि पचसि देवदत्ता 3 1-आम
एकान्तरमामन्त्रितमनन्तिक ःथ्द्य;त्येकान्तरता न प्राप्नोतीति।। नैष दोषः-सुप्तिङ्भ्यां पदं विशेषयिष्यामः।
सुप्तिङन्तं पदं। यस्मात्सुप्तिङि्वधिस्तदादि सुप्तिङन्तं च (पदम्(1))।। ननु चैकैकस्मादेवात्र सुप्तिङि्वधिः।। समुदाये या वाक्यपरिसमाप्तिस्तया पदसंज्ञा।। कुत एतत्?।। शास्त्राऽहानेः(1)।। एवं हि(2) शास्त्रमहीनं भवति।। यदप्युच्यते-ःथ्द्य;ह पौनःपुन्यं पौनःपुनिकमिति,-अप्रातिपदिकत्वात्तद्धितोत्पत्तिर्न प्राप्नोति (ःथ्द्य;ति)। मा भूदेवं समर्थादित्येवं भविष्यति।
अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकेभ्यस्तद्धितोत्पत्तिरिति, यदयं कस्कादिषु कौतस्कुतशब्दं पठति।। (सर्वस्य द्वे)।।
-8-1-4- नित्यवीप्सयोः
ःथ्द्य;ह कस्मान्न भवति-हिमवान्, वाडवः,(2) पारियात्रः,(2) समुद्र ःथ्द्य;ति। नित्ये द्वे भवतःथ्द्य;ति प्राप्नोति।। नैषः दोषः-अयं नित्यशब्दोऽस्त्येव कूटस्थेष्वविचालिषु भावेषु वर्त्तते। तद्यथा-नित्या(1)। द्यौः नित्या पृथिवी नित्यम् आकाशम् ःथ्द्य;ति। अस्त्याभीक्ष्ण्ये वर्तते। तद्यथा - नित्यप्रहसितः नित्यप्रजल्पित ःथ्द्य;ति। तद्य आभीक्ष्ण्ये वर्तते तस्येदं ग्रहणम्।।
अथ किमिदं वीप्सेति?।। आप्नोतेरयं विपूर्वादिच्छायामर्थे सन् विधीयते।। यद्येवं - चिकीर्षति जिहीर्षति ःथ्द्य;त्यत्रापि प्राप्नोति।। नैष दोषः - नैवं विज्ञायते - वीप्सायामभिधेयायामिति?।। कथं तर्हि?।। कर्तृविशेषणमेतत्। (वीप्सतीति वीप्सः। (1)) वीप्सश्चेत्कर्त्ता(2) भवतीति।
कः पुनर्वीप्सार्थः?। ।। अनवयवाभिधानं वीप्सार्थः(1)।। अनवयवेन द्रव्याणामभिधानमेव(2) वीप्सार्थः। ।। अनवयवाभिधानं वीप्सार्थ ःथ्द्य;ति चेज्जात्याख्यायां द्विर्वचनप्रसङ्गः।। अनवयवाभिधानं वीप्सार्थ ःथ्द्य;ति चेज्जात्याख्यायां द्विर्वचनं प्राप्नोति। व्रीहिः यवः (3) ःथ्द्य;ति।।न वैकार्थत्वाज्जातेः।। न वैष दोषः।। किं कारणम्?।। एकार्थत्वाज्जातेः। एकार्थो(4) हि जातिः। एकमर्थं प्रत्याययिष्यामीति जातिशब्दः प्रयुज्यते।। अनेकार्थाश्रयत्वाच्च वीप्सायाः।। अनेकार्थाश्रया च पुनर्वीप्सा। अनेकमर्थं संप्रत्याययिष्यामीति वीप्सा प्रयुज्यते। एकार्थत्वाज्जातेरनेकार्थाश्रयत्वाच्च(2) वीप्साया जात्याख्यायां द्विर्वचन न भविष्यति।। निवर्त्तकत्वाद्वा।। अथ वा नाऽनेन द्विर्वचनं निर्र्वत्यते(1)किं तर्हि?।। अद्विर्वचनमनेन निर्वत्यते। यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, तत्राऽनेन निवृत्तिः क्रियते-नित्यवीप्सयोरर्थयोर्द्वे एव शब्दरूपे प्रयोक्तव्ये नातिबहु प्रयोक्तव्यमिति।।
।। सर्वपदसगतिग्रहणानर्थक्यं(2) चार्थाभिधाने द्विर्वचनविधानात्।। सर्वग्रहणं चानर्थकम्।। किं कारणम्?।। (अर्थाभिधाने(3) द्विर्वचनविधानात्)। सर्वस्यैव हि द्विर्वचनेनाऽर्थो गम्यते नावयवस्य।। पदग्रहणं चानर्थकम्। पदस्यैव हि द्विर्वचनेनाऽर्थो गम्यते नावयवस्य। पदग्रहणं चानर्थकम्। पदस्यैव हि द्विर्वचनेनाऽर्थो गम्यते(4) नाऽपदस्य। सगतिग्रहणं चानर्थकम्। सगतिकस्यैव हि द्विर्वचनेनाऽर्थो गम्यते(4) नाऽगतिकस्य।।
किं पुनरिदं वीप्सायां सर्वमभिधीयते आहो स्विदेकम्?।। कश्चाऽत्र विशेषः।। वीप्सायां सर्वाभिधाने वचनाऽप्रसिद्धिः।। वीप्सायां सर्वाऽभिधाने वचनं न सिध्यति-ग्रामो-ग्रामः जनपदो जनपदः (ःथ्द्य;ति)।। बहवस्तेऽर्थास्तत्र बहुषु बहुवचन मिति बहुवचनं प्राप्नोति।। अस्तु तर्ह्येकम्।। एकाऽभिधानेऽसर्वद्रव्यगतिः(1)।। एकाऽभिधाने सर्वद्रव्यगतिर्न सिध्यति।। अस्तु तर्हि सर्वाभिधानम्(2)।। ननु चोक्तं-वीप्सायां सर्वाभिधाने वचनाऽप्रसिद्धिरिति।। न वा पदार्थत्वात्।। न वैष दोषः।। किं कारणम्?।। पदार्थत्वात्। पदस्याऽर्थो वीप्सा, सुबन्तं च(3) पदं, ङ्याप्प्रातिपदिकाच्चैकत्वादिष्वर्थेषु स्वादयो विधीयन्ते, न चैतत्प्रातिपदिकम्।। यत्तर्हि प्रातिपदिकं दृषद्-दृषत् समित् समित्।। एतदपि प्रत्ययलक्षणेन सुबन्तं न(4) प्रातिपदिकम्।। अपर आह-।। न वा पदार्थत्वात्।। न वैष दोषः।। किं कारणम्?।। पदार्थत्वात्। पदास्याऽर्थो वीप्सा। सुबन्तं च(1) पदम्। ङ्याप्प्रातिपदिकाच्चैकत्वादिष्वर्थेषु स्वादयो विधीयन्ते न चैतत्प्रातिपदिकम्।। यत्तर्हि प्रातिपदिकं दृषद्-दृषत् समित् समित् ःथ्द्य;ति।। एतदपि प्रत्ययलक्षणेन सुबन्तं न प्रातिपदिकम्।।
अथेह कथं भवितव्यं-पचति-पचतितरां तिष्ठति, आहो स्वित् पचतितरां-पचतितरां तिष्ठतीति?।। पचतिपचतितरां तिष्ठतीति भवितव्यम्।। कथम्?।। द्विर्वचनं क्रियतामातिशायिक ःथ्द्य;ति द्विर्वचनं भविष्यति
विप्रतिषेधेन।। ःथ्द्य;हापि तर्ह्यातिशायिकादि्द्वर्वचनं स्यात्-आढ्यतरमाढ्यतरमानयेति।। अस्त्यत्र
विशेषः-अन्तरङ्ग आतिशायिकः।। काऽन्तरङ्गता?।। ङ्याप्प्रातिपदिकादातिशायिकः, पदस्य द्विर्वचनम्।। आतिशायिकोऽपि नाऽन्तरङ्गः।। कथम्?।। समर्थात्तद्धितोऽसावुत्पद्यते, सार्मथ्यं च सुबन्तेन। अथ वा स्पर्द्धायामातिशायिको विधीयते नं चाऽन्तरेण प्रतियोगिनं स्पर्धा गम्यते।।
एवं तर्हीह द्वावर्थौ वक्तव्यौ नित्यवीप्से चाऽतिशयश्च, न चैकस्य प्रयोक्तुरनेकमर्थं(1) युगपद्वक्तुं
संभवोऽस्ति। तदेतत्प्रयोक्तर्यधीनं भवति, एतस्मिंश्च(2) प्रयोक्तर्यधीने क्व चित्का चित्प्रसृततरा गतिर्भवति। ःथ्द्य;ह तावत्-पचतिपचतितरां तिष्ठतीत्येषा प्रसृततरा गतिर्यन्नित्यमुक्त्वाऽतिशय उच्यते।
ःथ्द्य;हेदानीमाढ्यतरमाढ्यतरमानयेत्येषा प्रसृततरा गतिर्यदतिशयमुक्त्वा वीप्साद्विर्वचनमुच्यते।। (नित्यवीप्सयोः)।।
-8-1-5- परेर्वर्जने
।। परेरसमासे।। परेरसमासे ःथ्द्य;ति वक्तव्यम्। ःथ्द्य;ह मा भूत्परित्रिगर्तं वृष्टो देवः।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यं। (ठपरेर्वर्जन(1)ःथ्द्य;त्येव सिद्धम्।।)। परेर्वर्जनःथ्द्य;त्युच्यते न चाऽत्र परिर्वर्जने वर्तते।। कस्तर्हि?।। समासः। ।। परेर्वर्जने वावचनम्।। (परेर्वर्जने वावचनङ्कर्त्तव्यम्(1))। परेर्वर्जने वेति वक्तव्यम्। परि त्रिगर्तेभ्यो वृष्टो देवः। परि-परि त्रिगर्तेभ्यो वृष्टो देवः।। (परेर्वर्जने)
-8-1-9- एकं बहुव्रीहिवत्
ःथ्द्य;ह कस्माद्बहुव्रीहिवद्भावो न भवति-एक ःथ्द्य;ति?।। एकस्य द्विर्वचनसम्बन्धेन(3) बहुव्रीहिवद्भाव उच्यते न चाऽत्र द्विर्वचनं पश्यामः।। एकस्य द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः(1)।। एकस्य द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः कर्तव्यः। द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः कर्तव्यः। द्विर्वचनमपि ह्यत्र कस्मान्न भवति तस्माद्वाच्यम्-अस्मिन्नर्थे द्वे भवतो बहुव्रीहिवच्चेति।। न वा वीप्साधिकारात्।। न वा वक्तव्यम्।। किं कारणम्?।। वीप्साधिकारात्। नित्यवीप्सयोरिति वर्तते।।
अथ बहुव्रीहिवत्त्वे किं प्रयोजनम्?।। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ।। (बहुव्रीहिवत्त्वे सुब्लोपपुंवद्भावौ प्रयोजनम्(2))। सुब्लोपः- एकैकम्(1)। पुंवद्भावः-गतगता।। यद्येवम्-।। सर्वनामस्वरसमासान्तेषु दोषः।। सर्वनामस्वरसमासान्तेषु दोषो भवति। (सर्वनाम-)सर्वनामविधौ दोषो भवति-एकैकस्मै। न बहुव्रीहाविति प्रतिषेधः प्राप्नोति। सर्वनाम। स्वर-नन(2) सुसु। नञ्ञ्सुभ्यामित्येष स्वरः प्राप्नोति। स्वर।। समासान्त ऋगृक्। पूः पूः। ऋक्पूरब्धूःपथामानक्षे ःथ्द्य;ति समासान्तः प्राप्नोति।।
सर्वनामविधौ तावन्न दोषः। उक्तं तत्र बहुव्रीहिग्रहणस्य प्रयोजनम्-बहुव्रीहिरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्याद्बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति। स्वरसमासान्तयोरपि-प्रकृतं समासग्रहणमनुवर्तते, तेन(1) बहुव्रीहिं विशेषयिष्यामः-समासो यो बहुव्रीहि(2)रिति।।
-8-1-11- कर्मधारयवदुत्तरेषु
कर्मधारयवत्त्वे कानि प्रयोजनानि?।। कर्मधारयवत्त्वे प्रयोजनं(1) सुब्लोपपुंवद्भावान्तोदात्तत्वानि।। (कर्मधारयत्त्वे सुब्लोपपुंवद्भावाऽन्तोदात्तत्वानि) ? ।। प्रयोजनं(1) सुब्लोपः-पटुपटुः। (सुब्लोपः)।। पुंवद्भावः-- पटुपट्वी (पुंवद्भावः)।। अन्तोदात्तत्वम्-पटुपटुः (कर्मधारयवदुत्तरेषु)।।
-8-1-12- प्रकारे गुणवचनस्य
गुणवचनस्येति किमर्थम्?।। अग्निर्माणवकः गौर्वाहीकः। ।। प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः(1)।। (प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः)। सर्वे हि शब्दाः प्रकारे वर्तमाना गुणवचनाः सम्पद्यन्ते। तेनेहापि प्राप्नोति-अग्निर्माणवकः। गौर्वाहीक ःथ्द्य;ति।। सिद्धन्तु प्रकृत्यर्थविशेषणत्वात्।। सिद्धमेतत्।। कथम्?।। प्रकृत्यर्थविशेषणत्वात्। प्रकृत्यर्थो विशेष्यते। नैवं विज्ञायते-प्रकारे वर्तमानस्य गुणवचनस्ये(2)ति।। कथं तर्हि?।। गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्येति। अथवा-प्रकारे गुणवचनस्येत्युच्यते, सर्वश्च शब्दः प्रकारे वर्तमानो गुणवचनः सम्पद्यते। तत्र प्रकर्षगतिर्विज्ञास्यते-साधीयो यो गुणवचनःथ्द्य;ति।। कश्च साधीयः?।। यः(1) प्रकारे च प्राक्च(2) प्रकारात्।।
अथवा प्रकारे गुणवचनस्येत्युच्यते, सर्वश्च शब्दः प्रकारे वर्त्तमानो गुणवचनः संपद्यते त(3) एवं
विज्ञास्यामः--प्राक्प्रकाराद्यो गुणवचनःथ्द्य;ति।। आनुपूर्व्ये(4) द्वे भवतः।। आनुपूर्व्ये द्वे भवत ःथ्द्य;ति वक्तव्यम्। मूलेमूले स्थूलाः। अग्रेऽग्रे(5) सूक्ष्माः।। स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवतः।। स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत ःथ्द्य;ति वक्तव्यम्। अस्मात्कार्षापणादिह भवद्भ्यां माषं माषं देहि।। अवधार्यमाण ःथ्द्य;ति किमर्थम्?।। अस्मात्कार्षापणादिह भवद्भ्यां माषं देहि द्वौ देहि त्रीन् देहि।। अनेकस्मिन्निति किमर्थम्?।। अस्मात्कार्षापणादिह भवद्भ्यां माषं देहि। माषमेव देहि।। किं पुनः कारणं न सिध्यति?।। अनवयवाभिधानं वीप्सार्थ ःथ्द्य;त्युच्यते, अवयवाभिधानं चाऽत्र गम्यते। आतश्चावयवाभिधानं,(1) यो ह्युच्यते-अस्मात्कार्षापणादिह भवद्भ्यां(2) माषं माषं देहीति। माषं माषमसौ दत्त्वा पुनः शेषं पृच्छति-किमनेन क्रियतामिति।। यः पुनरुच्यते-ःथ्द्य;मं कार्षापणमिह भवद्भ्यां(2) माषं माषं देहीति माषं माषमसौ(3) दत्त्वा तूष्णीमास्ते।। चापले(4) द्वे भवतः।। चापले द्वे भवत ःथ्द्य;ति वक्तव्यम्। अहिरहिर्बुध्यस्व बुध्यस्व।। न चावश्यं द्वे एव, यावदि्भः शब्दैः सोऽर्थो गम्यते तावन्तः प्रयोक्तव्याः। अहिरहिरहिबुध्यस्व(5) बुध्यस्व बुध्यस्वेति।।
।।क्रियासमभिहारे द्वे भवतः(6)।। क्रियासमभिहारे द्वे भवत ःथ्द्य;ति वक्तव्यम्। स भवान् लुनीहिलुनीहित्येवायं लुनाति। पुनीहि(6) पुनीहीत्येवाऽयं पुनाति।। आभीक्ष्ण्ये(7) द्वे भवतः।। आभीक्ष्ण्ये द्वे भवत ःथ्द्य;ति वक्तव्यम्। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। ।। डाचिच द्वे भवतः(1)।। डाचि च द्वे भवत ःथ्द्य;ति वक्तव्यम्।। पटपटायति घटघटायति(2) शरशरायति(3)।। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवतः(1) ।।। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत ःथ्द्य;ति वक्तव्यम्। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं प्रथमं पच्यन्ते।। डतरडतमयोः समसंप्रधारणायां स्त्रीनिगदभावे(2) द्वे भवतः।। डतरडतमयोः समसम्प्रधारणायां स्त्रीनिगदे भावे द्वे भवत ःथ्द्य;ति वक्तव्यम्। उभाविमावाढ्यौ, कतराकतराऽनयोराढ्यता(3)। सर्व ःथ्द्य;मे आढ्याः, कतमा कतमैषामाढ्यतेति(4)। ।। कर्मव्यतिहारे सर्वनाम्रो (द्वे भवतः) समासवच्च बहुलं, यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य।। कर्मव्यतिहारे सर्वनाम्नो(द्वे भवतः) समासवच्च बहुलं, यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य।। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत ःथ्द्य;ति वक्तव्यम्। समासवच्च बहुलम्। यदा न समासवत्प्रथमैकवचनं भवति तदा पूर्वपदस्य। अन्योन्यमिमे ब्राह्मणा भोजयन्ति। अन्योऽन्यस्य भोजयन्ति। ःथ्द्य;तरेतरं भोजयन्ति। ःथ्द्य;तरेतरस्य भोजयन्ति। ।। स्त्रीनपुंसकयोरुत्तरपदस्य वाऽम्भावः।। स्त्रीनपुंसकयोरुत्तरपदस्य वाऽम्भावो वक्तव्यः। अन्योन्यमिमे ब्राह्मण्यौ भोजयतः। अन्योन्यां (च(1)) भोजयतः। ःथ्द्य;तरेतरम् (ःथ्द्य;मे ब्राह्मण्यौ(1)) भोजयतः। ःथ्द्य;तरेतरां भोजयतः। अन्योन्यमिमे ब्राह्मणकुले भोजयतः। अन्योन्यां भोजयतः। ःथ्द्य;तरेतरम् (ःथ्द्य;मे ब्राह्मणकुले(1)) भोजयतः। ःथ्द्य;तरेतरां भोजयतः।। (प्रकारे गुणवचनस्य)।।
-8-1-15- द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाऽभिव्यक्तिषु
।। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्युपसङ्ख्यानम्।। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्युपसङ्ख्यानं कर्तव्यम्। द्वन्द्वं स्कन्दविशाखौ। द्वन्द्वं-नारदपर्वतौ। अत्यन्तसहचरित ःथ्द्य;ति किमर्थम्?।। द्वौ युधिष्ठिरार्जुनौ।। लोकविज्ञात ःथ्द्य;ति किमर्थम्?।। द्वौ देवदत्तयज्ञदत्तौ। अथ द्वन्द्वमिति किं निपात्यते।। द्वन्द्वमिति पूर्वपदस्य चाऽम्भाव उत्तरपदस्य(1) चाऽत्वं नपुसंकत्वं च(2)।। द्वन्द्वमिति पूर्वपदस्य चाऽम्भावो निपात्यते उत्तरपदस्य चात्वं नपुंसकत्वं च।। उक्तं वा।। (उक्तंवा)।। किमुक्तम्?।। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति, तत्र नपुंसकत्वमनिपात्यम्।। (द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्र)।।
-8-1-16- पदस्य
पदात् ।।
आ कुतः पदाधिकारः?।। पदाधिकारः प्रागपदान्ताधिकारात्।। अपदान्तस्य मूर्द्धन्य ःथ्द्य;त्यतः(1) प्राक् पदाधिकारः।।
अथ पदादित्यधिकार आ कुतः?।। पदात्प्राक्(2) सुपि कुत्सनात्।। पदादित्यधिकारः प्राक्सुपि
कुत्सनात्। कुत्सने च सुप्यगोत्रादा(3) विति वक्ष्यति प्रागेतस्मात्।। यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्।। यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्कर्तव्यः।। ःथ्द्य;ह वचने ह्यपदान्तस्याऽप्राप्तिः।। ःथ्द्य;ह
क्रियमाणेऽपदान्तस्याऽप्राप्तिः स्यात्। उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्येति। ःथ्द्य;हैव स्यात्-कुमार्यौ किशोर्यौ(1)। ःथ्द्य;ह न स्यात् कुमार्यः किशोर्यः।। एकादेश उदात्तेनोदात्तः-ःथ्द्य;हैव स्यात्-वृक्षौ प्लक्षौ। ःथ्द्य;ह न स्यात्-वृक्षाः प्लुक्षाः।। न वा पदाधिकारस्य विशेषणत्वात्।। न वोर्ध्वं पदाधिकारात् कर्तव्यो यणेकादेशस्वरः।। किं कारणम्?।। पदाधिकारस्य विशेषणत्वात्। पदस्येति नैषा स्थानषष्ठी।। का तर्हि?।। विशेषणषष्ठी।। किं वक्तव्यमेतत्?।। न हि।। कथमनुच्यमानं गंस्यते?।। प्रत्याख्यायते स्थानषष्ठी। ।। अन्तग्रहणाद्वा नलोपे।। अथवा यदयं नलोपः प्रातिपदिकान्तस्येत्यन्तग्रहणं करोति तज्ज्ञापयत्याचार्योविशेषणषष्ठ्येषा न स्थानषष्ठीति।। (पदस्य पदात्)
-8-1-17- पदात्
पदस्य ।।
आ कुतः पदाधिकारः?।। पदाधिकारः प्रागपदान्ताधिकारात्।। अपदान्तस्य मूर्द्धन्य ःथ्द्य;त्यतः(1) प्राक् पदाधिकारः।।
अथ पदादित्यधिकार आ कुतः?।। पदात्प्राक्(2) सुपि कुत्सनात्।। पदादित्यधिकारः प्राक्सुपि कुत्सनात्। कुत्सने च सुप्यगोत्रादा(3) विति वक्ष्यति प्रागेतस्मात्।। यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्।। यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्कर्तव्यः।। ःथ्द्य;ह वचने ह्यपदान्तस्याऽप्राप्तिः।। ःथ्द्य;ह क्रियमाणेऽपदान्तस्याऽप्राप्तिः स्यात्। उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्येति। ःथ्द्य;हैव स्यात्-कुमार्यौ किशोर्यौ(1)। ःथ्द्य;ह न स्यात् कुमार्यः किशोर्यः।। एकादेश उदात्तेनोदात्तः-ःथ्द्य;हैव स्यात्-वृक्षौ प्लक्षौ। ःथ्द्य;ह न स्यात्-वृक्षाः प्लुक्षाः।। न वा पदाधिकारस्य विशेषणत्वात्।। न वोर्ध्वं पदाधिकारात् कर्तव्यो यणेकादेशस्वरः।। किं कारणम्?।। पदाधिकारस्य विशेषणत्वात्। पदस्येति नैषा स्थानषष्ठी।। का तर्हि?।। विशेषणषष्ठी।। किं वक्तव्यमेतत्?।। न हि।। कथमनुच्यमानं गंस्यते?।। प्रत्याख्यायते स्थानषष्ठी। ।। अन्तग्रहणाद्वा नलोपे।। अथवा यदयं नलोपः प्रातिपदिकान्तस्येत्यन्तग्रहणं करोति तज्ज्ञापयत्याचार्योविशेषणषष्ठ्येषा न स्थानषष्ठीति।। (पदस्य पदात्)
-8-1-18- अनुदात्तं सर्वमपदादौ
सर्ववचनं किमर्थम्?।। सर्ववचनमनादेरनुदात्तार्थम्।। सर्ववचनं(1) क्रियते।। (किं प्रयोजनम्(2)? ।। अनादेरनुदात्तार्थम्)। अनादेरप्यनुदात्तत्वं यथा स्यादिति। तिङ्ङतिङ ःथ्द्य;ति, ःथ्द्य;हैव स्यात् देवदत्तः पचतीति। ःथ्द्य;ह न स्यात्-देवदत्तः करोतीति।।
।। सर्ववचनमनादेरनुदात्तार्थमिति चेल्लुटि प्रतिषेधात्सिद्धम्।। सर्ववचनमनादेरनुदात्तार्थमिति चेत्तन्न। किं कारणम्?।। लुटि प्रतिषेधात्सिद्धम्। यदयं लुटि प्रतिषेधं शास्ति नलुडिति तज्ज्ञापयत्याचार्योऽनादेरप्यनुदात्तत्त्वं भवतीति।। कथं कृत्वा ज्ञापकम्?।। न हि लुडन्तमाद्युदात्तमस्ति। ।। अलोन्त्यविधिप्रसङ्गस्तु(1)।। अलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्यविधिः प्राप्नोति। यत्र ह्यादिविधिर्नास्ति(2) अलोनत्य(स्य(3)) विधिना तत्र भवितव्यम्।। तत्र को दोषः?।। तिङ्ङतिङःथ्द्य;तीहैव स्यात्-देवदत्तयज्ञदत्तौ कुरुतः। ःथ्द्य;ह न स्यात्-देवदत्तः करोतीति।
।। लृटि प्रतिषेधात्सिद्धम्।। (लृटि प्रतिषेधात्सिद्धमेतत्(3)) यदयं लृटि(4) प्रतिषेधं शास्ति यज्ज्ञापयत्याचार्योऽनन्त्यस्याप्यनुदात्तत्वं भवतीति।। कथं कृत्वा ज्ञापकम्?।। न हि लृडन्तमन्तोदात्तमस्ति।। ननु चेदमस्ति भोक्ष्ये ःथ्द्य;ति? ।। उक्तं वा।। किमुक्तम्?।। न वा पदाधिकारस्य विशेषणत्वा(5) दिति।। ःथ्द्य;दं तर्हि प्रयोजनम्-युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावाविति(वक्ष्यति ते)(3) वाम्नावादयः सविभक्तिकस्य यथा स्युरिति।। एतदपि नास्ति प्रयोजनम्। पदस्येति हि वर्तते(6)। विभक्त्यन्तं च पदम्। तत्राऽन्तरेण सर्वग्रहणं सविभक्तिकस्य(1) भविष्यति।। भवेत्सिद्धं यत्र विभक्त्यन्तं पदं, यत्र तु खलु विभक्तौ पदं तत्र न सिध्यति-ग्रामो वां दीयते, ग्रामो नौ दीयते। जनपदौ वां दीयते, जनपदो नौ दीयते।।
ननु च स्थग्रहणं क्रियते तेन सविभक्तिकस्यैव भवति।। अस्त्यन्यत्स्थग्रहणस्य प्रयोजनम्।। किम्?।। श्रूयमाणविभक्तिविशेषणं(2) यथा विज्ञायेत-यत्र विभक्तिः श्रूयते तत्र यथा स्युः। ःथ्द्य;ह मा(3) भूवन् ःथ्द्य;ति युष्मत्पुत्रो ददाति ःथ्द्य;त्यस्मत्पुत्रो ददातीति।। समानवाक्ये निघातयुष्मदस्मदादेशाः।। समानवाक्य ःथ्द्य;ति
प्रकृत्य निघातयुष्मदस्मदादेशा वक्तव्याः।। किं प्रयोजनम्?।। नानावाक्ये मा भूवन्निति। अयं दण्डो, हराऽनेन। ओदनं पच, तव भविष्यति, मम भविष्यति।।
।। पश्यार्थैश्च प्रतिषेधः।। पश्यार्थैश्च प्रतिषेधः समानवाक्य ःथ्द्य;ति प्रकृत्य वक्तव्यः। ःथ्द्य;तरथा हि यत्रैव पश्यार्थानां(1) युष्मदस्मदी साधनं तत्र प्रतिषेधः स्यात्--ग्रामस्त्वां संप्रेक्ष्य संदृश्य समीक्ष्य गतः।। ग्रामो मां संप्रेक्ष्य संदृश्य(1) समीक्ष्य गतः। ःथ्द्य;ह न स्यात्-ग्रामस्तव स्वं संप्रेक्ष्य संदृश्य(1) समीक्ष्य गतः।। ग्रामो(1) मम स्वं संप्रेक्ष्य संदृश्य समीक्ष्य गतः(1)।।
-8-1-26- सपूर्वायाः प्रथमाया विभाषा
।। युष्मदस्मदोरन्यतरस्यामनन्वादेशे।। युष्मदस्मदोरन्यतरस्यामनन्वादेश ःथ्द्य;ति वक्तव्यम्। ग्रामे कम्बलस्ते स्वम्(2), ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्।। अनन्वादेश ःथ्द्य;ति किमर्थम्?।। अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्।।
अपर आह।। सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः।। कम्बलस्ते स्वम् कम्बलस्तव स्वम्। कम्बलो मे स्वम् कम्बलो मम स्वम्।। अनन्वादेश ःथ्द्य;ति किमर्थम्?।। अथो कम्बलस्ते स्वम् अथो कम्बलो मे स्वम्।। न तर्हीदानीमिदं वक्तव्यं,-सपूर्वायाः प्रथमाया(3) विभाषेति?।। वक्तव्यञ्ञ्च।। किं प्रयोजनम्?।। अन्वादेशार्थम्। अन्वादेशे विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलस्तव स्वम्। अथो ग्रामे कम्बलो मे स्वम्। अथो ग्रामे कम्बलो मम स्वम्।। (सपूर्वायाः प्रथमायाः)
-8-1-27- तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः
किमिदं तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणं-कुत्सनाभीक्ष्ण्ययोरर्थयोर्गोत्रादीनि भवन्ति तिङः पराण्यनुदात्तानीति, आहो स्विदनुदात्तविशेषणं-तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोरर्थयोरनुदात्तानि भवन्तीति?।। तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम्।। तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं क्रियते।।(किं प्रयोजनम्?(1))।। पाठविशेषणम्। पाठो विशेष्यते।। अनुदात्तविशेषणे ह्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम्।। अनुदात्तविशेषणे हि सत्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणं कर्तव्यं स्यात्-चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेरिति। कुत्सनाभीक्ष्ण्ययोरिति वक्तव्यं स्यात्।।अनुदात्तग्रहणं वा।। अथ वा यान्यनुदात्तानीति वक्तव्यं स्यात्। तस्मात्सुष्ठूच्यते-तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणमनुदात्तविशेषणेह्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणमनुदात्तग्रहणं वेति।।
-8-1-28- तिङ्ङतिङः
अतिङ ःथ्द्य;ति किमर्थम्?।। पचति करोति।। अतिङ्वचनमनर्थकं समानवाक्याधिकारात्।। अतिङ्वचनमनर्थकम्।। किं कारणम्?।। समानवाक्याधिकारात्। समानवाक्य ःथ्द्य;ति वर्त्तते, न च समानवाक्ये द्वे तिङन्ते स्तः।। (तिङ्ङतिङः)।।
-8-1-30- निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्
निपातैरिति किमर्थम्(1)?।। यत्कूजति शकटम्। यती(2) कूजति शकटी। यन् रथः(3) कूजति।। निपातैरिति शक्यमवक्तुम्। कस्मान्न भवति-यत्कूजति शकटम्, यती(2) कूजती शकटी, यन्रथः(3) कूजतीति?।। लक्षणप्रत्तिपदोक्तयोः प्रतिपदोक्तस्यैवेति।। नैषा परिभाषेह(4) शक्या विज्ञातुम्, ःथ्द्य;ह हि दोषः स्याद्यावद्यथाभ्याम्। ःथ्द्य;ह न स्यात्-यावदस्त्यत्रैषः(5) सरो जनेभ्यः कृणात्(6)। ।। चण्णिद्विशिष्टश्चेदर्थे।। चण्णिद्विशिष्टश्चेदर्थे द्रष्टव्यः। अयं च वै मरिष्यति। अयं चेन्मरिष्यति न च पितृभ्यः पूर्वेभ्यो दास्यति। अप्रायश्चित्तिकृतौ च स्याताम्।। (तिङ्ङतिङः)।।
-8-1-35- छन्दस्यनेकमपि साकाङ्क्षम्
अनेक(1)मिति किमुदाहरणम्?।। यदाह्यसौ मत्तो भवति अथ यत्तपति।। नैतदस्ति। एकमत्र(2)
हियुक्तमपरं यद्युक्तन्तत उभयोरप्यनिघातः।।
ःथ्द्य;दं तर्हि अनृतं हि मत्तो वदति पाप्मा एनं विपुनाति(3)।। एकं खल्वपि अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयदिति।। (छन्दस्यनेकमपि साकाङ्क्षम्)।।
-8-1-39- तुपश्यपश्यताऽहैः पूजायाम्
पूजायामिति वर्त्तमाने पुनः पूजाग्रहणं किमर्थम्?।। अनिघातप्रतिषेधाऽभिसंबद्धं तत्(1)। यदि तदनुवर्त्तेत(2) ःथ्द्य;हाऽप्यनिघातप्रतिषेधः प्रसज्येत। ःथ्द्य;ष्यते चाऽत्र निघातप्रतिषेधः।। यथा पुनस्तत्र यावद्यथेत्येताभ्यामनिघाते प्राप्तेऽनिपातप्रतिषेध उच्यते ःथ्द्य;हेदानीं केनाऽनिघाते प्राप्तेऽनिघातप्रतिषेध उच्येत(7)?।। ःथ्द्य;हापि यद्वृत्तान्नित्यमित्येवमादिभिः।। (तुपश्यपश्य)
-8-1-46- एहि मन्ये प्रहासे लृट्
किमर्थमिदमुच्यते, न गत्यर्थलोटा लृडित्येव सिद्धम्?।। (।। नियमाऽर्थोऽयमारम्भः।।) नियमार्थोयमारम्भः-एहि मन्ये प्रहास एव यथा स्यात्।। क्व मा भूत्?।। एहि मन्ये रथेन यास्यसीति।। (एहि मन्ये प्रहासे लृट्)।।
8-1-47- जात्वपूर्वम्
किमिदमपूर्वग्रहणं जातुविशेषणं-----जातुशब्दादपूर्वात्तिङ्न्तमिति,आहो स्वित्तिङ्न्तविशेषणं जातुशब्दात्तिङ्न्तमपूर्वमिति?।। जातुविशेषणमित्याह।। कथं ज्ञायते?।। यदयं किंवृत्तं च चिदुत्तरमित्याह।। कथं कृत्वा ज्ञापकम्?।। अत्राऽप्यपूर्वमित्येतदनुवर्तते न चाऽस्ति संंभवो यत्किंचवृत्तं च चिदुत्तरं स्यात्तिङ्न्तं चाऽपूर्वम्। अत्रापि तिङ्न्तविशेषणमेव स्यात्।। कथम्?।। किंवृत्ताच्चिदुत्तरात्तिङ्न्तमपूर्वमिति।। यत्तर्हिआहो उताहो चानन्तरमित्यनन्तरग्रहणं करोति।। एतस्याप्यस्ति वचने प्रयोजनम्।। किम् ?।। शेषप्रक्लृप्त्यर्थमेतत्स्यात्--- शेषे विभाषा ।। कश्च शेषः ?।। सान्तरं शेष ःथ्द्य;ति अन्तरेणाऽप्यनन्तरग्रहणं प्रक्लृप्तः शेषः ।। कथम् ?।। अपूर्व ःथ्द्य;ति वर्तते।।
-8-1-50- शेषे विभाषा
कश्च शेषः?।। सपूर्वः शेषः ।। ःथ्द्य;ति।। (शेषे विभाषा)।।
-8-1-51- गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत्
।। लृटः प्रकृतिभावे कर्त्रन्यत्व उपसङ्ख्यानं कारकाऽन्यत्वात्।। लृटः प्रकृतिभावे कर्त्तुर्यत्कारकमन्यत्तस्याऽन्यत्व(2) उपसङ्ख्यानं कर्त्तव्यम्। आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे।। किं पुनः कारणं न सिध्यति?।। कारकान्यत्वात्। न चेत्कारकं सर्वान्यदित्युच्यते सर्वान्यच्चाऽत्र कारकम्।। किं पुनः कारणं सर्वान्यत्प्रतिषेधेनाश्रीयते न पुनरसर्वाऽन्यद्विधानेनाश्रीयेत(3)?।। कर्त्ता चाऽत्राऽसर्वान्यस्ततः(1) कर्तृसामान्यात्सिद्धम्।। कर्तृसामान्यात्सिद्धमिति चेत्तद्भेदेऽन्यसामान्ये प्रकृतिभावप्रसङ्गः ।। कर्तृसामान्यात्सिद्धमिति चेत्तद्भेदे-कर्तृभेदे-अन्यस्मिन्कारकसामान्ये(3) प्रकृतिभावः प्राप्नोति। आहर देवदत्त शालीन्यज्ञदत्त एनान्भोक्ष्यते।। एवं तर्हि-व्यक्तमेव पठितव्यं न चेत्कर्त्ता सर्वाऽन्य(4) ःथ्द्य;तीति।। न चेत्कर्ता सर्वान्य ःथ्द्य;ति चेदन्याऽभिधाने प्रतिषेधेमेके।। न चेत्कर्त्ता सर्वान्य ःथ्द्य;ति चेदन्याभिधाने प्रतिषेधमेके ःथ्द्य;च्छन्ति। उह्यन्तां देवदत्तेन शालयो यज्ञदत्तेन(5) भोक्ष्यन्ते ःथ्द्य;ति प्राप्नोति। भोक्ष्यन्तःथ्द्य;ति चेष्यते।। सिद्धं तु तिङोरेकद्रव्याऽभिधानात्।। सिद्धमेतत्।। कथम्?।। तिङोरेकद्रव्याभिधानात्। यत्र तिङ्भ्यामेकं द्रव्यमभिधीयते(6)तत्रेति वक्तव्यम्।। (गत्यर्थलोटा)
-8-1-55- आम एकान्तरमामन्त्रितमनन्तिके
कस्यायं प्रतिषेधः?।। आम एकान्तर ऐकश्रुत्यप्रतिषेधः ।। आम एकान्तर ऐकश्रुत्यस्याऽयं प्रतिषेधः।। कथं पुनरप्रकृतस्याऽसंशब्दितस्यैकश्रुत्यस्य प्रतिषेधः शक्यो विज्ञातुम्?।। अनन्तिक ःथ्द्य;त्युच्यते। अनन्तिक च किम्?।। दूरम् ।। दूरात्संबुद्धौ चैकश्रुतिरुच्यते(1)।। अस्ति प्रयोजनमेतत्?।। किं तर्हीति।। निघातप्रसङ्गस्तु।। निघातस्तु प्राप्नोति-- आम् भो देवदत्ता3। आमन्त्रितस्या(2)ऽनुदात्तत्वं प्राप्नोति सिद्धं तु प्रतिषेधाधाधिकारे प्रतिषेधवचनात्। ।। सिद्धमेतत्।। कथम्?।। प्रतिषेधाधिकारे(प्रतिषेधवचनात्(2))।
।। प्रतिषेधाधिकारेट प्रतिषेधवचनसार्मथ्यान्निघातो न भविष्यति ।। नैव वा पुनरत्रैकश्रुत्यं प्राप्नोति।। किं कारणम्?।। अनन्तिक ःथ्द्य;त्युच्यते, अन्यच्च दूरमन्यदनन्तिकम्।। यद्येवं प्लुतोऽपि तर्हि न प्राप्नोति, प्लुतोऽपि हि दूरादित्युमच्यते?।। ःथ्द्य;ष्टमेवैतत्संगृहीतम्, आम् भो देवदत्ता ःथ्द्य;त्येव भवितव्यम्।।
-8-1-56- यद्धितुपरं छन्दसि
किमर्थमिदमुच्यते यदाद्यैरेव(1) सर्वैरेतैरनिघातकारणैर्योगेऽनिघात(2) उच्यते, यथैव पूर्वैर्योगे एवं परैरपि?।। अत उत्तरं पठति।। यद्धितुपरस्य च्छन्दस्यनिघातोऽन्यपरप्रतिषेधार्थः(3)।। यद्धितुपरस्य च्छन्दस्यनिघात उच्यते।। (किं प्रयोजनम्?।।)ठअन्यपरप्रतिषेधार्थः। अन्यपरस्य प्रतिषेधो मा भूदिति। जाये स्वो रोहावेहि(1)।। अथेदानीं रोहावेत्यनेन युक्तेएही त्यस्य कस्मान्न भवति?, लोट्चगत्यर्थलोटा युक्त ःथ्द्य;ति प्राप्नोति।। न हिरुहिर्गत्यर्थः।।कथं ज्ञायते?।। यदयं गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्चे(1)ति पृथग्रुहिग्रहणं करोति।। यदि न गत्यर्थः,-आरोहन्ति हस्तिनं मनुष्याः, आरोहयति हस्ती स्थलं मनुष्यान्,-गतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणामणि कर्ता स णाविति कर्मसंज्ञा न प्राप्नोति। तस्मान्नैतच्छक्यं वक्तुं न रुहिर्गत्यर्थःथ्द्य;ति।। कस्मात्तर्हि रोहावेत्यनेन युक्ते एहीत्येतस्य न भवति?।। छान्दसत्वात्।। (यद्धितुपरं छन्दसि)।।
-8-1-57- चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः
।। आम्रेडितेष्वगतेः(1) सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणम्।। आम्रेडितेष्वगतेः सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यम्(2)। ःथ्द्य;ह मा भूत्। शुक्लीकरोति चन कृष्णीकरोति चन । यत्काष्ठं(3) शुक्लीकरोति यत्काष्ठं(3) कृष्णीकरोति।। अपर आह - सर्वत्रैवाष्टमिके गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यं(2)-गतिर्गतौतिङि चोदात्तवतिवर्जमिति।। (चनचिदि)
-8-1-66- यद्वृत्तान्नित्यम्
यद्वृत्तादित्युच्यते तत्रेदं न सिध्यति-यः पचति यं पचति येन पचतीति(2)।। (।। वृत्तग्रहणेन तद्विभक्तयन्तम्।।) वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्।। कथं यतरः पचति यतमः पचतीति।। (।। डतरडतमौ च।।) डतरडतमौ च प्रतीयात्।। कथं यदा ददातीति?।। एषोऽपि विभक्तिसंज्ञः।। कथं यावदस्यस्त्यत्रैषः(2) सरो जनेभ्यः कृणवत्।। यावद्यथाभ्यामित्येवं भविष्यति।। कथं यद्य्रङ्वायुः पवतेयत्कामास्ते जुहुमः।। एवं तर्हि यदस्मिन् वर्तते यद्वृत्तं, यद्वत्तादित्येवं भविष्यति।। वा याथाकाम्ये।। वा याथाकाम्य ःथ्द्य;ति वक्तव्यम्। यत्र क्व च न यजते तद्देवयजन(3) एव यजते।।
-8-1-67- पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः(4)
।।पूजितस्याऽनुदात्तत्वे काष्ठादिग्रहणम्।। पूजितस्यानुदात्तत्वे काष्ठादिग्रहणं कर्तव्यम्। काष्ठादिभ्यः पूजनादिति वक्तव्यम्।। ःथ्द्य;ह मा भूत्-शोभनोऽध्यापकः। ।। मलोपवचनं च।। मलोपश्च वक्तव्यः। दारुणाध्यापकः(1)। दारुणाभिरूपः(2)।। (पूजनात्पूजितमनुदात्तम्)।
-8-1-68- सगतिरपि तिङ्
सगतिग्रहणं किमर्थम्?।। सगतिग्रहणमपदत्वात्(3)।। सगतिग्रहणं क्रियते।। (किं कारणम्?)।। अपदत्वात्। पदस्येति वर्तते च(1) सगतिकं पदं भवति।। उत्तरार्थञ्ञ्च।। उत्तरार्थं चापि(2) सगतिग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। सगतिरपि पचति(3)। प्रपचति पूति।।
अथाऽपिग्रहणं किमर्थम्?।। अगतिकस्यापि यथा स्यात्-यत्काष्ठा पचतीति। नैतदस्ति प्रयोजनं सिद्धं, पूर्वेणाऽगतिकस्य।। न सिध्यति। मलो पाभिसम्बद्धं तत्। यदि तदनुवर्तते(4) ःथ्द्य;हापि मलोपः प्रसज्येत-दारुणं पचतीति(।। उत्तरार्थञ्ञ्च(3)।।) उत्तरार्थं चापि ग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। अगतिरपीति। पचति पूतीति।। तिङ्निघातात्पूजनात्पूजितमनुदात्तं विप्रतिषेधेन।। तिङ्निघातात्पूजनात्पूजितमित्येतद्भवति(5) विप्रतिषेधेन। तिङ्निघातस्याऽवकाशः--देवदत्तः पचति। पूजनात्पूजितमित्यस्यावकाशः-काष्ठाध्यापकः। (काष्ठाभिरूपकः) । ःथ्द्य;होभयं प्रार्प्नोतिकाष्ठा पचति। पूजनात्पूजितमित्येतद्भवति विप्रतिषेधेन।। कः पुनरत्र विशेषस्तेन वा सत्यनेन वा?।। अयमस्ति विशेषः।
साऽपवादकः स विधिः; अयं र्निरपवादकः। यदि हि तेन स्यादिह न स्यात्-यत्काष्ठा पचति।।(सगति)
-8-1-69- कुत्सने च सुप्यगोत्रादौ
।। सुपि कुत्सने क्रियायाः।। क्रियायाः कुत्सन ःथ्द्य;ति वक्तव्यम्। कर्तुः(1) कुत्सने मा भूत्। पचति
पूतिः (गिरति(2) पूतिः(3))।। पूतिश्च(4) चानुबन्धः।। पूतिश्च चानुबन्धो द्रष्टव्यः। पचति पूति।।
।। विभाषितं चापि(4) बह्वर्थम्।। विभाषितं चापि बह्वर्थं द्रष्टव्यम्। पच्न्ति(5) पूति। पचन्ति(6) पूतिः।।
-8-1-70- गतिर्गतौ
गताविति किमर्थम्?।। प्रपचति। प्रकरोति।। गतेरनुदात्तत्त्वे गतिग्रहणानर्थक्यं तिङ्यवधारणात्।। गतेरनुदात्तत्वे गतिग्रहणमनर्थकम्।। किं कारणम्?।। तिङ्यवधारणात्। तिङि चोदात्तवतीत्येतन्नियमार्थं भविष्यति।तिङ्युदात्तवत्येव गतिरनुदात्तो भवती(1)ति।।(।। छन्दोर्थन्तु(2)।।)।। छन्दोऽर्थं तर्हि गतिग्रहणं कर्त्तव्यम्। छन्दसि गतौ परतोऽनुदात्तत्वं(1) यथा स्यान्मन्द्रशब्दे मा भूत्। आ मन्द्रैरिन्द्र हरिभिर्याहि मयूरः(2) रोमभिः।। छन्दोऽर्थमिति चेन्नाऽगतित्वात्।। छन्दोऽर्थमिति चेत्तन्न।। किं कारणम्?।। अगतित्वात्-। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः। न चात्राऽऽङो मन्द्रशब्दं प्रति क्रियायोगः।। किं तर्हि?।। याहिशब्दं प्रति।। ःथ्द्य;हापि तर्हि न प्राप्नोति-अभ्युद्धरति समुदानयति(3) उपसमादधाति ःथ्द्य;ति (4)।। अत्रापि नाऽभेरुदं प्रति क्रियायोगः।। किं तर्हि?।। हरतिं प्रति क्रियायोगः।। नैषः दोषः। उदं प्रति(1) क्रियायोगः।। कथम्?।। उत्-हरतिक्रियां विशिनष्टि। उदा विशिष्टाम् अभिर्विशिनष्टि। तत्र यत्क्रियायुक्ताःथ्द्य;ति भवत्येव सङ्घातं प्रति क्रियायोगः।। ःथ्द्य;हापि तर्हि मन्द्रसाधना क्रियाऽऽङाऽभिव्यज्यते(2)-आयाहि मन्द्रैरिति।। ननु(3)पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति ?।। साधनं हि क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टि, अभिनिर्वृत्तस्य चोपसर्गेण(4) विशेषः शवयो वक्तुम्।। सत्यमेवमेतत्। यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरीकृत्य(1) धातुः साधनेन युज्यते। अवश्यं चैतदेवं विज्ञेयं, यो हि मन्यते-पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति। आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्?।।
गतिना तु(3) विशिष्टस्य गतिरेव विशेषकः।
साधने केन ते न स्याद्धाह्यमाभ्यन्तरो हि सः।।1।।
-8-1-71- तिङि चोदात्तवति
तिङ्ग्रहणं किमर्थम्?।। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्।। तिङ्गहणं क्रियते।। (किं प्रयोजनम्(1)?)। उदात्तवतः परिमाणार्थम्। तिङ्युदात्तवति यथा स्यान्मन्द्रशब्दे मा भूत्-आ मन्द्रैरिन्द्र हरिभिर्याहि। ।। यद्योगाद्गतिः(2)।। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः।। किं तर्हि?।। यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिः स्यात्। यत्प्रकरोति। तस्मात्तिङ्ग्रहणं कर्तव्यम्।।
यदि तिङ्ग्रहणं क्रियते आमन्ते न प्राप्नोति,- प्रपचतितराम् ,प्रजल्पतितराम्। असति पुनस्तिङ्ग्रहणे क्रियाप्रधानमाख्यातं तस्मादतिशये तरबुत्पद्यते,(1) तरबन्तात्स्वार्थे आम्, तत्र यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत ःथ्द्य;ति भवत्येतं(2) सङ्घातं प्रति क्रियायोगः। तस्मान्नार्थस्तिङ्ग्रहणेन।। कस्मान्न भवति-आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः?।। यद्योगाद्गति(3)रिति। (यद्योगाद्गतिस्तं(4) प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः)।। ननु चोक्तं-यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिरिति ।। नैषः दोषः । यत्क्रियायुक्ता ःथ्द्य;ति नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत ःथ्द्य;ति।। कथं तर्हि?।। या क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत ःथ्द्य;ति।।
-8-1-72- आमन्त्रितं पूर्वमविद्यमानवत्
वत्कारणं किमर्थम्?।। स्वाश्रयमपि यथा स्यात्। आम् भो देवदत्तेत्यत्र(1) आम एकान्तरमामन्त्रितमनन्तिक ःथ्द्य;त्येकान्तरता यथा स्यात्। ।।पूर्वं प्रति विद्यमानत्वादुत्तरत्रानन्तर्याप्रसिद्धिः।।
पूर्वं प्रति विद्यमानत्वादुत्तरत्रानन्तर्यस्याऽप्रसिद्धिः(2) स्यात्। ःथ्द्य;मं मे गङ्गे यमुने सरस्वति शुतुद्रि(3)। गङ्गेशब्दोऽयं(4) यमुनेशब्दं(5) प्रत्यविद्यमानवद्भवति। (न तु(3) मेशब्दं प्रति)। तत्रामन्त्रितस्य पदात्परस्येत्यनुदात्तत्वं न स्यात्।। सिद्धं तु पदपूर्वस्येति वचनात्।। सिद्धमेतत्।। कथम्?।। पदपूर्वस्येति वचनात्। पदपूर्वस्य चामन्त्रितस्याऽविद्यमानवद्भावो भवतीति वक्तव्यम्।।
कानि पुनरस्य योगस्य प्रयोजनानि? ।। अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मत्तिङ्निघाताः(6)।। (अविद्यमानवत्त्वे(3) आमन्त्रितयुष्मदस्मत्तिङि्नघाताः प्रयोजनम्)।। आमन्त्रितस्य पदात्परस्यानुदात्तो भवतीतीहैव
भवतिपचसि देवदत्त। देवदत्त यज्ञदत्तेत्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य। युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ःथ्द्य;तीहैव भवति-ग्रामो वां स्वम् जनपदो नौ स्वम्। देवदत्तयज्ञदत्तौ युवयोः स्वमित्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य। तिङ्ङतिङ ःथ्द्य;तीहैव भवति-देवदत्तः पचतीति(1)। देवदत्त पचसीत्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य।। पूजायामनन्तरप्रतिषेधः(1)।। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावत्पचति शोभनम्। यावदेवदत्त पचसीत्यत्रापि सिद्धं भवति।। जात्वपूर्वम्।। जात्वपूर्वं प्रयोजनम्। जातु पचति। देवदत्त जातु पचसीत्यत्रापि सिद्धं भवति।। आहो उताहो चानन्तरविधौ(1)।। आहो उताहो चानन्तरविधौ प्रयोजनम्। आहो(2) पचसि, उताहो पचसि। आहो देवदत्त पचसि उताहो देवदत्त पचसीत्यत्रापि सिद्धं भवति। ।। आम एकान्तरविधौ।। आम एकान्तरविधौ प्रयोजनम्। आम् पचसि देवदत्त। आम् भोः पचसि देवदत्तेत्यत्रापि(1) सिद्धं भवति। अविद्यमानवत्त्वादामन्त्रितस्य(1)।। (आमन्त्रितं पूर्वमविद्यमानवत्)।।
-8-1-73- नामन्त्रिते समानाधिकरणे सामान्यवचनम्
ःथ्द्य;ह कस्मान्न भवति-अघ्न्ये देवि सरस्वति ःथ्द्य;डे काव्ये विहव्ये एतानि ते अघ्न्ये नामानि?।। योगविभागः करिष्यते-नामन्त्रिते समानाधिकरणे सामान्यवचनम्। ततो विभाषितं विशेषवचन ःथ्द्य;ति।। (नामन्त्रिते समानाधिकरणे)।।
-8-1-74- विभाषितं विशेषवचने
ःथ्द्य;ह कस्मान्न भवति-ब्राह्मण वैयाकरण?।। बहुवचनमिति वक्ष्यामि।। सामान्यवचनमिति शक्यमवक्तुम्।। कथम्?।। विभाषितं विशेषवचन ःथ्द्य;त्युच्यते, तेन यत्प्रति विशेषवचनमित्येतद्भवति तस्य भविष्यति।। किं च प्रत्येतद्भवति?।। सामान्यवचनम्। अपर आह-विशेषवचन ःथ्द्य;ति शक्यमवक्तुम्।। कथम्?।। सामान्यवचनं विभाषितमित्युच्यते तेन यत्प्रति सामान्यवचनमित्येतद्भवति(तस्य भविष्यति(1))।। किं च प्रत्येतद्भवति?।। विशेषवचनम्। सामान्यवचनं(1) विभाषितं विशेषवचन ःथ्द्य;ति।।
।। ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिमुनिविरचिते व्याकरणमहाभाष्ये अष्टमाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम्।। पादश्च समाप्तः।।
-9-9-999-