महाभाष्यम्/चतुर्थोऽध्यायः/चतुर्थः पादः

-4-4-1- प्राग्वहतेष्ठक् (1739)
(ठकोऽधिकरणम्)
(5556 संग्रहवार्तिकम्।। 1 ।।)
- ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसंख्यानम् -
(भाष्यम्) ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसंख्यानं कर्तव्यम्। माशब्दिकः, नैत्यशब्दिकः, कार्यशब्दिकः।।
(5557 संग्रहवार्तिकम्।। 2 ।।)
- आहौ प्रभूतादिभ्यः -
(भाष्यम्) आहौ प्रभूतादिभ्यष्ठग्वक्तव्यः। प्रभूतमाह--प्राभूतिकः, पार्याप्तिकः।।
(5558 संग्रहवार्तिकम्।। 3 ।।)
- पृच्छतौ सुस्नातादिभ्यः -
(भाष्यम्) पृच्छतौ सुस्नातादिभ्यष्ठग्वक्तव्यः। सौस्नातिकः, सौखरात्रिकः, सौखशायनिकः।।
(5559 संग्रहवार्तिकम्।। 4 ।।)
- गच्छतौ परदारादिभ्यः -
(भाष्यम्) गच्छतौ परदारादिभ्यष्ठग्वक्तव्यः। पारदारिकः, गौरुतल्पिकः।।
-4-4-9 आकर्षात् ष्ठल् (1747)
(ष्ठल्प्रत्ययाधिकरणम्)
(प्रत्ययानां षित्त्वनिर्द्धारणे भाष्यम्)
ःथ्द्य;ह केषांचित्सांहितिकं षत्वम्, केषांचित्षिदर्थम्।
तत्र न ज्ञायते केषां सांहितिकं षत्वम्, केषां षिदर्थमिति?
तत्र किं न्याय्यम्?
परिगणनं कर्तव्यम्।।
(5560 परिगणनवार्तिकम्।। 1 ।।)
- आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च। आवसथात्किसरादेः षितः षडेते ठगधिकारे -
-4-4-17- विभाषा विवधात् (1755)
(ष्ठनो विभाषाधिकरणम्)
(5561 पूरकवार्तिकम्।। 1 ।।)
- वीवधाच्चेति वक्तव्यम् -
वैवधिकः।।
-4-4-23- चूर्णादिनिः (1761)
(ःथ्द्य;निप्रत्ययाधिकरणम्)
(सूत्रप्रत्याख्यायकभाष्यम्)
अयं योगः शक्योऽवक्तुम्।
कथं चूर्णी, चूर्णिनौ, चूर्णिन ःथ्द्य;ति?
ःथ्द्य;निनैतन्मत्वर्थीयेन सिद्धम्।।
-4-4-24- लवणाल्लुक् (1762)
(लुकोऽधिकरणम्)
(5564 सूत्रप्रत्याख्याने वार्तिकम्।। 1 ।।)
- लवणाल्लुग्वचनानर्थक्यं रसवाचित्वात् -
(भाष्यम्) लवणाल्लुग्वचनमनर्थकम्।
किं कारणम्?
रसवाचित्वात्। रसवाच्येष लवणशब्दः, नैष संसृष्टिनिमित्तः।
आतश्च रसवाची।।
(5565 लवणशब्दस्य रसवाचकत्वबोधकवार्तिकम्।। 2 ।।)
- असंसृष्टे च दर्शनात् -
(भाष्यम्) असंसृष्टेऽपि हि लवणशब्दो वर्तते।
तद्यथा--लवणं क्षीरम्, लवणं पानीयमिति।।
(5566 रसवाचकत्वबोधकवार्तिकम्।। 3 ।।)
- संसृष्टे चादर्शनात् -
(भाष्यम्) संसृष्टेऽपि च यदा नोपलभ्यते, तदाह--अलवणः सूपः, अलवणा यवागूः, अलवणं शाकमिति।।
-4-4-30- प्रयच्छति गर्ह्यम् (1768)
(ठकोऽधिकरणम्)
(सूत्रनिर्देशाक्षेपभाष्यम्)
अयुक्तोऽयं निर्देशः, यदसावल्पं दत्वा बहु गृह्णाति तद्गर्ह्यम्।
कथं तर्हि निर्देशः कर्तव्यः?
(5567 निर्देशसाधकवार्तिकम्।। 1 ।।)
- प्रयच्छति गर्ह्याय -
(भाष्यम्) ःथ्द्य;ति। स तर्हि तथा निर्देशः कर्तव्यः।
न कर्तव्यः।
तार्दथ्यात्ताच्छब्द्यं भविष्यति--गर्ह्यार्थं गर्ह्यम्।।
(5568 निर्देशोपपादकवार्तिकम्।। 2 ।।)
- मेस्याल्लोपो वा -
(भाष्यम्) मेस्याच्छब्दलोपो वा द्रष्टव्यः। द्विगुणं मे स्यादिति प्रयच्छति--द्वैगुणिकः, त्रैगुणिकः।।
(5569 लक्ष्यसाधकवार्तिकम्।। 3 ।।)
- वृद्धेर्वृधुषिभावः -
(भाष्यम्) वृद्धेर्वृधुषिभावो वक्तव्यः। वार्धुषिकः।।
-4-4-41- धर्मं चरति (1789)
(ठकोऽधिकरणम्)
(5570 पूरकवार्तिकम्।। 1 ।।)
- अधर्माच्च -
(भाष्यम्) अधर्माच्चेति वक्तव्यम्। आधर्मिकः।।
-4-4-49- ऋतोऽञ्ञ् (1787)
(अञ्ञोऽधिकरणम्)
(5571 पूरकवार्तिकम्।। 1 ।।)
- नृनराभ्यामञ्ञ्वचनम् -
(भाष्यम्) नृनराभ्यामञ्ञ्चेति वक्तव्यम्। नुर्र्धम्या-नारी। नरस्यापि--नारी।।
(5572 पूरकवार्तिकम्।। 2 ।।)
- विशसितुरिड्लोपश्च -
(भाष्यम्) विशसितुरिड्लोपश्चाञ्ञ्च वक्तव्यः। विशसितुर्र्धम्यं वैशस्त्रम्।।
(5573 पूरकवार्तिकम्।। 3 ।।)
- विभाजयितुर्णिलोपश्च -
(भाष्यम्) विभाजयितुर्णिलोपश्चाञ्ञ्च वक्तव्यः। विभाजयितुर्र्धम्यं--वैभाजित्रम्।।
-4-4-55- शिल्पम् (1793)
(ठञ्ञोऽधिकरणम्)
(अनिष्टनिवारकं भाष्यम्)
किं यस्य मृदङ्गः शिल्पं स मार्दङि्गकः?
किं चातः?
कुम्भकारे प्राप्नोति।
एवं तर्ह्युत्तरपदलोपो द्रष्टव्यः। शिल्पमिव--शिल्पम्। मृदङ्गवादनं शिल्पमस्य--मार्दङि्गकः, मौरजिकः, पाणविकः, पैठरिकः।।
-4-4-59- शक्तियष्ट्योरीकक् (1797)
(ःथ्द्य;र्ककोऽधिकरणम्)
(सूत्रन्याससमर्थकं भाष्यम्)
किमर्थमीकगुच्यते, न कगेवोच्येत?
कारूपसिद्धिः--शाक्तीकः, याष्टीक ःथ्द्य;ति?
शक्तियष्ट्योरीकारोऽन्ते, कशब्दश्च प्रत्ययः।।
न सिध्यति।
विभाषा चैव हि शक्तियष्ट्योरीकारः, अपि च केऽणः (7।4।13) ःथ्द्य;ति ह्रस्वत्वम् प्रसज्ज्येत।
एवं तर्हि--ःथ्द्य;कगुच्यते।
का रूपसिद्धिः--शाक्तीको याष्टीक ःथ्द्य;ति।
सवर्णदीर्घत्वेन सिद्धम्।
न सिध्यति, यस्येति लोपः प्राप्नोति।।
ःथ्द्य;कारोच्चारणसार्मथ्यान्न भविष्यति।।
यदि तर्हि प्राप्नुवन् विधिरिकारोच्चारणसार्मथ्याद्वाध्यते, सवर्णदीर्घत्वमपि न प्राप्नोति।
यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते। यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते।
यस्येति लोपं च प्रतीकारोच्चारणमनर्थकम्, सवर्णदीर्घस्य तु निमित्तमेव।।
4-4-1- आ. 12 (818 विधिसूत्रम्
-4-4-60- 1798 अस्तिनास्तिदिष्टं मतिः
(ठकोऽधिकरणम्)
(सूत्रार्थोपपादकभाष्यम्)
किं यस्यास्ति मतिः स आस्तिकः?
किं चातः?
चौरऽपि प्राप्नोति।।
एवं तर्हि--ःथ्द्य;तिलोपोऽत्र द्रष्टव्यः। अस्तीत्यस्य मतिः--आस्तिकः। नास्तीत्यस्य मतिः--नास्तिकः। दिष्टमित्यस्य मतिः--दैष्टिकः।।
-4-4-62- छत्रादिभ्यो णः (1800)
(णप्रत्ययाधिकरणम्)
(सूत्रार्थबोधकभाष्यम्)
किं यस्य च्छत्रधारणं शीलं स च्छात्रः?
किं चातः?
राजपुरुषे प्राप्नोति।
एवं तर्हि--उत्तरपदलोपोऽत्र द्रष्टव्यः--छत्रमिवच्छत्रम्। गुरुश्छत्रम्। गुरुणा शिष्यश्छत्रवत् छाद्यः। शिष्येण गुरुश्छत्रमिव परिपाल्यः।।
-4-4-65- हितं भक्षाः (1803)
(5574 आक्षेपवार्तिकम्।। 1 ।।)
- हितं भक्षा ःथ्द्य;ति चतुर्थीनिर्देशः -
(भाष्यम्) हितं भक्षा ःथ्द्य;ति चतुर्थीनिर्देशः कर्तव्यः।।
(5575 आक्षेपसमर्थकवार्तिकम्।। 2 ।।)
- ःथ्द्य;तरथा ह्यनिर्देशः -
(भाष्यम्) ःथ्द्य;तरथा हि निर्देशो न भवति। हितशब्देन च योगे चतुर्थी विधीयते, सा प्राप्नोति।
स तर्हि चतुर्थीनिर्देशः कर्तव्यः?
न कर्तव्यः।
एवं वक्ष्यामि--हितं भक्षास्तदस्मै। ततः--दीयते नियुक्तम्। तदस्मा ःथ्द्य;ति।।
-4-4-76- तद्वहति रथयुगप्रासङ्गम् (1814)
(यतोऽधिकरणम्)
(5576 सूत्राक्षेपवार्तिकम्।। 1 ।।)
- वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यं विहितत्वात् -
(भाष्यम्) वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्।।
किं कारणम्?
विहितत्वात्। विहितोऽत्र प्रत्ययः तस्येदम् (4।3।120) ःथ्द्य;ति।।
शब्दभेदादविधानम्। शब्दभेदादविधिः स भवति--अन्यो हि शब्दो रथं वहति, अन्यो हि रथस्य वोढेति।।
(5577 आक्षेपसमर्थकं वार्तिकम्।। 2 ।।)
- शब्दभेदादविधानमिति चेदर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात्सिद्धम् -
(भाष्यम्) शब्दभेदादविधानमिति चेदर्थाश्रयः प्रत्ययविधिः। य एवार्थो रथं वहति, स एव रथस्य वोढेति।
तत्रार्थसामान्यात्सिद्धम्।।
(सिद्धान्तभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--यो द्वौ रथौ वहति स द्विरथ्यः। यो द्वयो रथयोर्वोढा स द्विरथः। तेन सति लुग्भवति।।
अनेन सति कस्मान्न भवति?
प्राग्दीव्यत ःथ्द्य;त्युच्यते।।
-4-4-82- संज्ञायां जन्याः(1820)
(सूत्रार्थोपपादकभाष्यम्)
किं निपात्यते?
जनन्या जनीभावो निपात्यते यच्च प्रत्ययः।।
(5578 सूत्राक्षेपवार्तिकम्।। 1 ।।)
- जन्या ःथ्द्य;ति निपातनानर्थक्यं पञ्ञ्चमीनिर्देशात् -
(भाष्यम्) जन्या ःथ्द्य;ति निपातनमनर्थकम्।
किं कारणम्?
पञ्ञ्चमीनिर्देशात्। जनीशब्दादेषा पञ्ञ्चमी।।
(सूत्रफलबोधकं भाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--सर्वकालः प्रत्ययविधिर्यथा विज्ञायेत।
जनीं वहन्ति जन्याः। जनीं वोढारो जन्याः। जनीमवाक्षुर्जन्या ःथ्द्य;ति।।
-4-4-83- विध्यत्यधनुषा (1821)
(5579 आक्षेपवार्तिकम्।। 1 ।।)
- विध्यत्यकरणेन -
(भाष्यम्) विध्यत्यकरणेनेति वक्तव्यम्।।
(5580 आक्षेपसमर्थकं वार्तिकम्।। 2 ।।)
- ःथ्द्य;तरथा ह्यनिष्टप्रसङ्गः -
(भाष्यम्) अधनुषेति ह्युच्यमानेऽतिप्रसङ्गो भवति।
ःथ्द्य;हापि प्रसज्येत--शर्कराभिर्विध्यति, कण्टकैर्विध्यतीति।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।।
(सिद्धान्तभाष्यम्)
कस्मान्न भवति--कण्टकैर्विध्यति, शर्कराभिर्विध्यतीति।
अनभिधानात्।।
-4-4-90- गृहपतिना संयुक्ते ञ्ञ्यः (1828)
(ञ्ञ्यप्रत्ययाधिकरणम्)
(आक्षेपभाष्यम्)
गृहपतिना संयुक्त ःथ्द्य;त्युच्यते, तत्रदक्षिणाग्नावपि प्राप्नोति। दक्षिणाग्निरपि गृहपतिना संयुज्यते।।
(सिद्धान्तभाष्यम्)
एवं तर्हि--गृहपतिना संयुक्त ःथ्द्य;त्युच्यते, सर्वश्च गृहपतिना संयुक्तः।
तत्र प्रकर्षगतिर्विज्ञास्यते--साधीयो यो गृहपतिना संयुक्त ःथ्द्य;ति।
कश्च साधीयः?
यस्मिन् पत्नीसंयाजाः क्रियन्ते।।
अथ वा गृहपतिर्नाम मन्त्रः स यस्मिन्नुच्यते।।
अथ वा संज्ञायामिति वर्तते।।
-4-4-128- मत्वर्थे मासतन्वोः (1866)
(5581 पूरकवार्तिकम्।। 1 ।।)
- मासतन्वोरनन्तरार्थे वा -
(भाष्यम्) मासतन्वोरनन्तरार्थे वेति वक्तव्यम्। मध्वस्मिन्नस्ति मध्वनन्तरमिति वा मधव्यः। माधवः।।
(5582 पूरकवार्तिकम्।। 2 ।।)
- लुगकारेकाररेफाश्च -
(भाष्यम्) लुगकारेकाररेफाश्च प्रत्यया वक्तव्याः। लुक्--मधुः, नभः, तपः।
अकारः--ःथ्द्य;षः, ःढ़द्य;र्जः।
ःथ्द्य;कारः--शुचिः।
रेफश्च--शुक्रः।।
4-4-1- आ. 20 (826 विधिसूत्रम्
-4-4-140- 1878 वसोः समूहे च
(5583 पूरकवार्तिकम्।। 1 ।।)
- अक्षरसमूहे छन्दस उपसंख्यानम् -
(भाष्यम्) अक्षरसमूहे छन्दस उपसंख्यानं कर्तव्यम्। ओ श्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्, ये यजामह ःथ्द्य;ति पञ्ञ्चाक्षरम्, यजेति द्व्यक्षरम्, द्व्यक्षरो वषट्कारः। एष वै सप्तदशाक्षरः--छन्दस्यः
प्रजापतिर्यज्ञमनुविहितः।।
(5584 एकदेशिवार्तिकम्।। 2 ।।)
- छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् -
(भाष्यम्) छन्दसि बहुभिर्वसव्यैरुपसंख्यानं कर्तव्यम्। हस्तौ पृणस्व बहुभिर्वसव्यैः।।
(5585 एकदेशिवार्तिकम्।। 3 ।।)
- अग्निरीशे वसव्यस्य -
(भाष्यम्) अग्निरीशे वसव्यस्येत्युपसंख्यानं कर्तव्यम्।
तत्तर्हि उपसंख्यानं कर्तव्यम्?
न कर्तव्यम्।।
(5586 सिद्धान्तवार्तिकम्।। 4 ।।)
- स्वार्थविज्ञानात्सिद्धम् -
(भाष्यम्) स्वार्थविज्ञानात् सिद्धमेतत्। वसव एव वसव्याः पान्तु।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम्।।
पादोऽध्यायश्च चतुर्थः समाप्तः।।
-9-9-999-