महाभाष्यम्/चतुर्थोऽध्यायः/तृतीयः पादः

-4-3-1- युष्मदस्मदोरन्यतरस्यां खञ्ञ्च (1571)
(खञ्ञोऽधिकरणम्)
(5444 योगविभागबोधकवार्तिकम्।। 1 ।।)
- युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः -
(भाष्यम्) युष्मदस्मद्भ्यां प्रत्ययविधाने योगविभागः कर्तव्यः।
युष्मदस्मदोरन्यतरस्याम्। छो भवति। युष्मदीयः, अस्मदीयः।
ततः--खञ्ञ्च।
खञ्ञ्च भवति युष्मदस्मदोरन्यतरस्याम्। यौष्माकीणः, आस्माकीनः।।
किमर्थो योगविभागः?
(5445 योगविभागफलबोधकवार्तिकम्।। 2 ।।)
- समसंख्याप्रतिषेधार्थः -
(भाष्यम्) संख्यातानुदेशो मा भूदिति।।
-4-3-2- तस्मिन्नणि च युष्माकास्माकौ (1572)
(आदेशाधिकरणम्)
(5446 योगविभागे वार्तिकम्।। 1 ।।)
- आदेशवचने च -
(भाष्यम्) किम्?
योगविभागः कर्तव्यः। तस्मिन्नणि युष्माकास्माकौ भवतः। यौष्माकः, आस्माकः।
ततः--खञ्ञि। खञ्ञि च युष्माकास्माकौ भवतः। यौष्माकीणः, आस्माकीनः।
किमर्थो योगविभागः?
समसंख्याप्रतिषेधार्थ ःथ्द्य;त्येव।।
(5447 योगविभागसाधने वार्तिकम्।। 2 ।।)
- तत्र पुनः खञ्ञ्ग्रहणम् -
(भाष्यम्) तत्र पुनः खञ्ञ्ग्रहणं कर्तव्यम्। न ह्यन्तरेण खञ्ञ्ग्रहणं योगाङ्गमुपजायते।।
(योगविभागवाधनप्रत्याख्याने भाष्यम्)
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्।
एवं वक्ष्यामि--तस्मिन् खञ्ञि युष्माकास्माकौ भवतः।
ततः--अणि च युष्माकास्माकौ भवत ःथ्द्य;ति।।
4-3-1- आ. 3 (763 विधिसूत्रम्
-4-3-3- 1573 तवकममकावेकवचने
(5448 उपसंख्यानवार्तिकम्।। 1 ।।)
- एकार्थग्रहणं च -
(भाष्यम्) एकार्थग्रहणं च कर्तव्यम्। एकार्थयोर्युष्मदस्मदोरिति वक्तव्यम्।
किमर्थम्?
न एकवचन ःथ्द्य;त्येव सिद्धम्?
न सिध्यति।
किं कारणम्?
एकवचनाभावात्। एकवचन ःथ्द्य;त्युच्यते, न चात्रैकवचनं पश्यामः।।
(वार्तिकान्यथासिद्धिबोधकं भाष्यम्)
यदि पुनरेकवचनपरत्वेनाण्खञ्ञौ विशेष्येयाताम्।
नैवं शक्यम्, ःथ्द्य;ह हि प्रसज्येयाताम्--युष्माकं छात्रो यौष्माकीणः। आस्माकीनः।
ःथ्द्य;ह च न स्याताम्। तव छात्रास्तावकीनाः। मामकीनाः।
तस्मान्नैवं शक्यम्।
न चेदेवमेकार्थग्रहणं कर्तव्यम्।।
न कर्तव्यम्।
नेदं पारिभाषिकस्यैकवचनस्य ग्रहणम्।
किं तर्हि?
अन्वर्थग्रहणम्। उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति।।
4-3-1- आ. 4 (764 विधिसूत्रम्
-4-3-4- 1574 अर्धाद्यत्
(यतोऽधिकरणम्)
(5449 विधिवार्तिकम्।। 1 ।।)
- अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् -
(भाष्यम्) अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञ् वक्तव्यः। बालेयार्धिकः। गौतमार्धिकः।।
(5450 विधिवार्तिकम्।। 2 ।।)
- दिक्पूर्वपदाद्यच्च -
(भाष्यम्) दिक्पूर्वपदाद्यच्च ठञ्ञ्च वक्तव्यः। पूर्वार्ध्यः, पौर्वार्धिकः; दक्षिणार्ध्यः, दाक्षिणार्धिकः, उत्तरार्ध्यः, औत्तरार्धिकः।।
(वार्तिकाक्षेपभाष्यम्)
किमर्थमिदमुच्यते, यथान्यास एव दिक्पूर्वपदादर्धादुभयमुच्यते।
ःथ्द्य;दमद्यापूर्वं क्रियते--अर्धाद्यद्विधाने सपूर्वाट्ठञ्ञिति।।
(समाधानभाष्यम्)
तद् द्वेष्यं विजानीयात्--सर्वमेव विकल्पत ःथ्द्य;ति।
तदाचार्यः सुहृदभूत्वाऽन्वाचष्टे दिक्पूर्वपदादर्धाद्यथान्यासमेव भवतीति।।
-4-3-15- श्वसस्तुट् च (1585)
(ठञ्ञोऽधिकरणम्)
(5451 आगमस्य टित्वकरणे आक्षेपवार्तिकम्।। 1 ।।)
- श्वसस्तुठ्यादेशानुपपत्तिरनादित्वात् -
(भाष्यम्) श्वसस्तुटि कृते आदेशानुपपत्तिः।
किं कारणम्?
अनादित्वात्। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति।।
(तुडागमस्य पूर्वान्तत्वबोधकं भाष्यम्)
एवं तर्हि पूर्वान्तः करिष्यते।।
(5452 पूर्वान्तत्वे दोषवार्तिकम्।। 2 ।।)
- पूर्वान्ते कप्रतिषेधः -
(भाष्यम्) यदि पूर्वान्तः, कादेशस्य प्रतिषेधो वक्तव्यः। शौवस्तिकम्।
तान्तादिति कादेशः प्राप्नोति।
(परादित्वाभ्युपगभाष्यम्)
अस्तु तर्हि परादिः।
ननु चोक्तं श्वसस्तुठ्यादेशानुपपत्तिरनादित्वादिति।।
(5453 परादित्वाभ्युपगतदोषनिराकरणवार्तिकम्।। 3 ।।)
- सिद्धं त्वादिष्टस्य तुड्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
तुडादिष्टस्येति वक्तव्यम्।।
(5454 सिद्धान्तवार्तिकम्।। 4 ।।)
- संनियोगाद्वा -
(भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च।
किं च?
यच्चान्यत्प्राप्नोति।
किं चान्यत्प्राप्नोति?
आदेशः।।
-4-3-22- सर्वत्राण्च तलोपश्च (1592)
(अणोऽधिकरणम्)
(5455 सूत्रैकदेशप्रत्याख्यानवार्तिकम्।। 1 ।।)
- हेमन्तस्याणि तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्तरत्वात् -
(भाष्यम्) हेमन्तस्याणि तलोपवचनमनर्थकम्।
किं कारणम्?
हेम्नः प्रकृत्यन्तरत्वात्। प्रकृत्यन्तरं हेमन्शब्दः। आतश्च प्रकृत्यन्तरम्, एवं ह्याह--हेमन् हेमन्नागनीगन्ति कर्णौ तस्मादैतौ हेमन्नशुष्यत ःथ्द्य;ति।।
(5456 प्रत्याख्यानोपष्टम्भकवार्तिकम्।। 1 ।।)
- अलोपदर्शनाच्च -
(भाष्यम्) अलोपः खल्वपि दृश्यते-- पङि्क्तः हैमन्तीति।
(सूत्रप्रत्याख्यानभाष्यम्)
अपर आह--हेमन्तस्याण्वचनम्, अणि च तलोपवचनमनर्थम्।
किं कारणम्?
हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनाच्चेत्येव।
तत्र ऋतुभ्य ःथ्द्य;त्येव सिद्धम्।।
-4-3-23- सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (1593)
(ठ्युठ्युलोरधिकरणम्)
(विद्ध्युपष्टम्भकभाष्यम्)
चिरपरुत्परारिभ्यस्त्नो वक्तव्यः।
चिरत्नम्, परुत्नम्, परारित्नम्।
प्रगस्यच्छन्दसि गलो--
पश्च त्नश्च वक्तव्यः।
प्रत्नमात्मानम्।
अग्रादिपश्चाडि्डमच् स्मृतः।
अग्रिमम्, आदिमम्, पश्चिमम्।
अन्ताच्चेति वक्तव्यम्।
अन्तिमम्।।
(वार्तिकावतरणभाष्यम्)
अथ सायचिरयोः किं निपात्यते?
(5457 निपातनबोधकं वार्तिकम्।। 1 ।।)
- सायचिरयोर्मकारान्तत्वं प्रत्ययसांनयुक्तम् -
(भाष्यम्) सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियोगेन निपात्यते। सायन्तनम्, चिरन्तनम्।।
(वार्तिकाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्, मकारान्तः सायंशब्दः।
(प्रत्याक्षेपभाष्यम्)
यदि मकारान्तः,
कथं सायाह्नः?
(प्रत्याक्षेपसमाधानभाष्यम्)
सायमोऽह्ने मलोपः।
सायमोऽह्ने मलोपो वक्तव्यः।
कथं सायतरे?
तरे चेति वक्तव्यम्।
कथं सायम् साये?
वा सप्तम्यामिति वक्तव्यम्।।
(वार्तिकावतरणभाष्यम्)
अथ प्राह्णप्रगयोः किं निपात्यते?
(5458 निपातनबोधकं वार्तिकम्।। 2 ।।)
- प्राह्णप्रगयोरेदन्तत्वम् -
(भाष्यम्) प्राह्णप्रगयोरेकारान्तत्वं निपात्यते। प्राह्णेतनम्, प्रगेतनम्।।
(वार्तिकाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्, सप्तम्या अलुकाऽपि सिद्धम्।।
(आक्षेपसमाधानभाष्यम्)
भवेत्सिद्धम्, यदा सप्तमी। यदा त्वन्या विभक्तयः, तदा न सिध्यति।।
(5459 टित्त्वकरणाक्षेपवार्तिकम्।। 3 ।।)
- तुट्युक्तम् -
(भाष्यम्) किमुक्तम्?
तुट्यादेशानुपपत्तिरनादित्वादिति। तुटि कृतेऽनादित्वादादेशो न प्राप्नोति।।
(पूर्वान्तत्वबोधकं भाष्यम्)
एवं तर्हि पूर्वान्तः करिष्यते।।
(5460 पूर्वान्तत्वे दोषवार्तिकम्।। 4 ।।)
- पूर्वान्ते विसर्जनीयः -
(भाष्यम्) यदि पूर्वान्तः, विसर्जनीयो वक्तव्यः। प्रातस्तनम्, पुनस्तनम्।
परादौ पुनः सति खरवसानयोर्विसर्जनीयः (8।3।15) ःथ्द्य;ति विसर्जनीयः सिद्धो भवति।।
(सिद्धान्तोपक्रमभाष्यम्)
अस्तु तर्हि परादिः।
ननु चोक्तं तुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति।
(5461 एकदेशिवार्तिकम्।। 5 ।।)
- सिद्धं त्वादिष्टस्य तुड्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
आदिष्टस्य तुड्वचनात्। तुडादिष्टस्येति वक्तव्यम्।
तत्तर्हि वक्तव्यम्?
(सिद्धान्तभाष्यम्)
न वक्तव्यम्।।
(5462 सिद्धान्तवार्तिकम्।। 6 ।।)
- संनियोगाद्वा -
(भाष्यम्) अथ वा चेन संनियोगः करिष्यते। तुट् च।
किं च?
यच्चान्यत्प्राप्नोति।
किं चान्यत् प्राप्नोति?
आदेशः।।
-4-3-24- विभाषा पूर्वाह्णापराह्णाभ्याम् (1594)
(5463 एदन्तत्वसाधकवार्तिकम्।। 1 ।।)
- पूर्वाह्णापराह्णाभ्यां सुबन्तवचनं सप्तमीश्रवणार्थम् -
(भाष्यम्) पूर्वाह्णापराह्णाभ्यां सुबन्तत्वं वक्तव्यम्।
किं प्रयोजनम्?
सप्तमीश्रवणार्थम्। सप्तम्याः श्रवणं यथा स्यात्। पूर्वाह्णेतनम्, अपराह्णेतनम्।
तत्तर्हि वक्तव्यम्?
(पूर्ववार्तिकस्यान्यथासिद्धत्वबोधकं भाष्यम्)
न वक्तव्यम्।
आचार्यप्रवृत्तिर्ज्ञापयति--भवत्यत्र सप्तमीति, यदयं घकालतनेषु कालनाम्नः (6।3।17) ःथ्द्य;ति सप्तम्या अलुकं शास्ति।।
(5464 आक्षेपवार्तिकम्।। 2 ।।)
- अलुग्वचनं ज्ञापकमिति चेदव्ययात्सप्तमीप्रसङ्गः -
(भाष्यम्) अलुग्वचनं ज्ञापकमिति चेदव्ययात्सप्तमी प्राप्नोति। दोषातनम्, दिवातनम्।।
(प्रत्याक्षेपपरं भाष्यम्)
अस्तु। अव्ययात् ःथ्द्य;ति लुग्भविष्यति।
ःथ्द्य;हापि लुक्प्राप्नोति--पूर्वाह्णेतनम्, अपराह्णेतनम्।
अलुगत्र लुकं बाधिष्यते।
ःथ्द्य;हापि तर्हि बाधेत--दोषातनम्, दिवातनम्।
समानाश्रयो लुगलुका बाध्यते।
कश्च समानाश्रयः?
यः प्रत्ययाश्रयः, अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग्भवति।।
न सिध्यति। ःथ्द्य;ह हि सति प्रत्यये लुका भवितव्यम्, सति लुक्यलुका भवितव्यम्। तत्र च प्रत्यय एव नास्ति कुतो लुग्भविष्यति।।
सैषा ज्ञापकेनासती विभक्तिराकृष्यते। सा यथैवेह बाधिका भवति--पूर्वाह्णेतनम्, अपराह्णेतनमिति, एवमिहापि
स्यात्--दोषातनम्, दिवातनम्।।
(एदन्तत्वे साधकान्तरबोधकं भाष्यम्)
एवं तर्हि न ब्रूमः--अलुग्वचनं ज्ञापकम्--भवत्यत्र सप्तमी ःथ्द्य;ति।
किं तर्हि?
भवति सुबन्तादुत्पत्तिरिति।
किं पुनर्ज्ञाप्यमेतद्, यावता समर्थानां प्रथमादिति वर्तते सामर्थं च सुबन्तेन?
ज्ञाप्यमित्याह।
कथम्?
ङ्याप्प्रातिपदिकादित्यपि वर्तते, तत्र कुत एवत्--सुबन्तादुत्पत्तिर्भविष्यति, न पुनर्ङ्याप्प्रातिपदिकादिति।।
(साधकान्तराक्षेपभाष्यम्)
कथं यत्तदुक्तम्--वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्संप्रत्ययार्थंम् ःथ्द्य;ति?
(आक्षेपनिरासभाष्यम्)
समर्थस्य यद् वृद्धं ङ्याप्प्रातिपदिकमित्येवमेतद्विज्ञायते।।
(प्रत्याक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते, कथं द्विपद आगतं द्विपाद्रूप्यम्, प्रष्ठौह आगतं प्रष्ठवाड्रूप्यम्, कीलालप आगतं कीलालपारूप्यम्, पपुष आगतं पपिवद्रूप्यम्?
पद्भावः, ःढ़द्य;ठ्, आकारलोपः, प्रसारणमित्येते विधेयः प्राप्नुवन्ति।।
(प्रत्याक्षेपनिरासभाष्यम्)
लुकि कृते न भविष्यन्ति।।
(पुनः प्रत्याक्षेपभाष्यम्)
ःथ्द्य;ह तर्हि सामसु साधु सामन्यः, वेमन्यः। न लोपः प्रातिपदिकान्तस्य (8।2।7) ःथ्द्य;ति नलोपः प्राप्नोति।।
(प्रत्याक्षेपनिरासभाष्यम्)
लुकि कृते भत्वान्न भविष्यति।
ःथ्द्य;दमिह संप्रधार्यम्--लुक् क्रियतां नलोप ःथ्द्य;ति, किमत्र कर्तव्यम्?
परत्वान्नलोपः।
एवं तर्हीदमिह संप्रधार्यम्--नलोपः क्रियतां तद्धितोत्पत्तिरिति, किमत्र कर्तव्यम्?
परत्वान्नलोपः।
असिद्धो नलोपः, तस्यासिद्धत्वात्तद्धितोत्पत्तिर्भविष्यति।
परिगणितेषु कार्येषु नलोपोऽसिद्धः, न चेदं तत्र परिगण्यते।
ःथ्द्य;दमपि तत्र परिगण्यते।
कथम्?
सुब्विधिरिति सर्वविभक्त्यन्तः समासः--सुपो विधिः सुब्विधिः, सुबन्ताद्विधिः सुब्विधिरिति।।
-4-3-25- तत्र जातः (1595)
(जातार्थाधिकरणम्)
(सूत्राक्षेपभाष्यम्)
किमर्थं जातादयोऽर्था निर्दिश्यन्ते?
(सूत्रप्रयोजनभाष्यम्)
जातादिष्वर्थेषु घादयो यथा स्युः, स्वार्थे मा भूवन्निति।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्।
शेषे (4।2।92) ःथ्द्य;त्यनुवर्तते, तेन स्वार्थे न भविष्यन्ति।।
(वार्तिकावतरणभाष्यम्)
अत उत्तरं पठति--
(5465 सूत्रप्रयोजनवार्तिकम्।। 1 ।।)
- तत्र जातादिषु वचनं नियमार्थम् -
(भाष्यम्) नियमार्थोऽयमारम्भः। जातादिष्वेव घादयो यथा स्युरिह मा भूवन्--तत्रास्ते, तत्र शेत ःथ्द्य;ति।।
(नियमानर्थक्यबोधकभाष्यम्)
यदि नियमः क्रियते, दार्षदाः सक्तवः, औलूखलो यावक ःथ्द्य;ति न सिध्यति।
संस्कृतमित्येवं भविष्यति।
भवेत् सिद्धम्--दार्षदाः सक्तव ःथ्द्य;ति।
ःथ्द्य;दं तु न सिध्यति--औलूखलो यावक ःथ्द्य;ति। संस्कृतं नाम तद्भवति यत्तत एवापकृष्याभ्यवह्रियते, न च यावक उलूखलादेवापकृष्याभ्यवह्रियते। अवश्यं रन्धनादीनि प्रतीक्ष्याणि।
तस्मान्नार्थोऽनेन नियमेन।।
(नियमफलसाधकभाष्यम्)
कस्मान्न भवति--तत्रास्ते, तत्र शेत ःथ्द्य;ति।
अनभिधानात्।।
तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेष्वपि ह्यर्थनिर्देशेषु यत्र जातादिषूत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं न भवति, न भवति तत्र प्रत्ययोत्पत्तिः। तद्यथा--अङ्गुल्या खनति, वृक्षमूलादागत ःथ्द्य;ति।।
(सूत्रफलबोधकभाष्यम्)
न तर्हीदानीं जातादयोऽर्था निर्देष्टव्याः।
निर्देष्टव्याश्च।
किं प्रयोजनम्?
अपवादविधानार्थम्। प्रावृषष्ठप् (4।3।26) प्रावृषि जातः प्रावृषिकः।
क्व मा भूत्?
प्रावृषि भवाः प्रावृषेण्या बलाहकाः।
यानि त्वेतानि निरपवादान्यर्थादेशनानि तानि शक्यान्यकर्तुम्। कृतलब्धक्रीतकुशलाः (4।3।38) स्रौघ्नो देवदत्त ःथ्द्य;ति।।
-4-3-34- श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् (1604)
(लुकोऽधिकरणम्)
(5466 उपसंख्यानवार्तिकम् ।। 1 ।।)
- लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् -
(भाष्यम्) लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानं कर्तव्यम्। चित्रायां जाता--चित्रा स्त्री। चित्रा।।
रेवती। रेवती स्त्री। रेवती।।
रोहिणी। रोहिणी स्त्री।।
(5467 विधिवार्तिकम्।। 2 ।।)
- फल्गुन्यषाढाभ्यां टानौ -
(भाष्यम्) फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। फल्गुनी, अषाढा उपदधाति।।
(5468 विधिवार्तिकम्।। 3 ।।)
- श्रविष्ठाषाढाभ्यां छण् -
(भाष्यम्) श्रविष्ठाषाढाभ्यां छण्वक्तव्यः। श्राविष्ठीयाः, आषाढीयाः।
स तर्हि वक्तव्यः?
(5369 प्रथमवार्तिकखण्डनवार्तिकम्।। 4 ।।)
- न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् -
(भाष्यम्) न वा वक्तव्यः।
किं कारणम्?
नक्षत्रेभ्यो बहुलं लुग्वचनात्। नक्षत्रेभ्यो बहुलं लुगित्येवमत्र लुग्भविष्यति।।
-4-3-39- प्रायभवः (1609)
(प्रायभवार्थाधिकरणम्)
(5470 सूत्रप्रत्याख्याने वार्तिकम्।। 1 ।।)
- प्रायभवग्रहणमनर्थकं तत्र भवेन कृतत्वात् -
(भाष्यम्) प्रायभवग्रहणमनर्थकम्।
किं कारणम्?
तत्र भवेन कृतत्वात्। यो हि राष्ट्रे प्रायेण भवति तत्र भवोऽसौ भवति। तत्र तत्र भवः (4।3।53) ःथ्द्य;त्येव सिद्धम्।
न सिध्यति।
अनित्यभवः प्रायभवः। नित्यभवस्तत्र भवः।।
(5471 प्रत्याख्यानोपष्टम्भकं वार्तिकम्।। 2 ।।)
- अनित्य भवः प्रायभव ःथ्द्य;ति चेन्मुक्तसंशयेन तुल्यम् -
(भाष्यम्) यद्भवान् मुक्तसंशयं तत्र भव उदाहरणं न्याय्यं मन्यते--स्रौघ्नौ देवदत्त ःथ्द्य;ति, तेनैतत्तुल्यम्। सोऽपि ह्यवश्यमुदकदेशादीन्यभिनिष्क्रामति।
अथैतद्भवान् प्रायभवे उदाहरणं न्याय्यं मन्यते, तत्र भवे किमुदाहरणम्?
यत्तत्र नित्यं भवति-स्रौघ्नाः प्रासादाः, स्रौघ्नाः प्राकारा ःथ्द्य;ति।
एवं तर्हि तत्र भव ःथ्द्य;ति प्रकृत्य जिह्रामूलाङ्गुलेश्छो विधीयते। स यथा तस्मिन् दृष्टापचारे--अङ्गुलीयम्। ःथ्द्य;ति भवति, एवं प्रायभवेऽपि भविष्यति।।
(सूत्रप्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--प्रायभव ःथ्द्य;ति प्रकृत्य उपजानूपकर्णोपनीवेष्ठकं वक्ष्यति स प्रायभव एव यथा स्यात्, तत्र भवे मा भूत्। उपजानुभवं गडि्वति।।
(सूत्रप्रयोजननान्यथासिद्धिप्रदर्शकं भाष्यम्)
अथेदानीं तत्र भव ःथ्द्य;ति प्रकृत्य शरीरावयवाद्यद्विधीयते सोऽत्र कस्मान्न भवति?
अनभिधानात्।
यथैव तर्ह्यनभिधानाद्यन्न भवति, एवं ठगपि न भविष्यति।।
-4-3-42- कोशाड्ढञ्ञ् (1612)
(सम्भूताधिकरणे ढञ्ञ्प्रत्ययः)
(5472 प्रत्ययस्यार्थबोधकवार्तिकम्।। 1 ।।)
- विकारे कोशाड्ढञ्ञ् -
(भाष्यम्) विकारे कोशाड्ढञ्ञ्वक्तव्यः। कोशस्य विकारः कौशेयम्।।
(5473 उत्तरसूत्रानुपपत्तिदर्शकवार्तिकम्।। 2 ।।)
- संभूते ह्यर्थानुपपत्तिः -
(भाष्यम्) संभूत ःथ्द्य;ति ह्युच्यमानेऽर्थस्यानुपपत्तिः स्यात्। न ह्यदः कोशे संभवति।
किं तर्हि?
कोशस्यादो विकारः।।
(प्रथमवार्तिकातिव्याप्तिदर्शकं भाष्यम्)
यदि विकार ःथ्द्य;त्युच्यते, भस्मन्यपि प्राप्नोति। भस्मापि कोशस्य विकारः।।
(अतिव्याप्तिनिवारकभाष्यम्)
अथ सम्भूत ःथ्द्य;त्युच्यमाने क्रिमौ कस्मान्न भवति? क्रिमिरपि कोशे सम्भवति।
अनभिधानात्।
यथैव तर्ह्यनभिधानात्क्रिमौ न भवत्येवं भस्मन्यपि न भविष्यति। अर्थश्चोपपन्नो भवति।।
-4-3-48- कलाप्यश्वत्थयवबुसाद्वुन् (1618)
(देयमृणाधिकरणे वुन्प्रत्ययः)
(सूत्रार्थोपपादकभाष्यम्)
अयुक्तोऽयं निर्देशः। कालादिति वर्तते, न च कलापी नाम कालोऽस्ति।।
नैष दोषः।
साहचर्यात्ताच्छब्द्यं भविष्यति। कलापिसहचरितः कालः कलापी काल ःथ्द्य;ति।।
-4-3-53- तत्र भवः (1623)
(तत्र भवार्थाधिकरणम्)
(पदकृत्यभाष्यम्)
तत्रेति वर्तमाने पुनस्तत्रग्रहणं किमर्थम्?
(5474 तत्रग्रहणप्रयोजनवार्तिकम्।। 1 ।।)
- तत्रप्रकरणे पुनस्तत्रवचनं कालनिवृत्त्यर्थम् -
(भाष्यम्) तत्रप्रकरणे तत्रेति पुनर्वचनं क्रियते कालनिवृत्त्यर्थम्। कालाधिकारो निर्वत्यते।।
(वार्तिकार्थोपष्टम्भकभाष्यम्)
न हि काको वाश्यत ःथ्द्य;त्येवाधिकारा निवर्तन्ते, को वाऽभिसम्बन्धो यत्तत्रग्रहणं कालाधिकारं निवर्तयेत्।
एषोऽभिसम्बन्धः--
कालाभिसम्बद्धं तत्रग्रहणमनुवर्तते, तत्रग्रहणं च तत्रग्रहणस्य निवर्तकं भवति, तस्मिन्निवृत्ते
कालाधिकारोऽपि निवर्तते।।
-4-3-58- गम्भीराञ्ञ्ञ्ञ्यः (1628)
(तत्रभवाधिकरणे ञ्ञ्यप्रत्ययः)
-4-3-59- अव्ययीभावाच्च (1629)
(5475 उपसङ्ख्यानवार्तिकम्।। 1 ।।)
- ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानम् -
(भाष्यम्) ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानं कर्तव्यम्। पारिमुख्यम्, पार्योष्ठ्यम्, पारिहनव्यम्।।
(5476 उत्तरसूत्रातिव्याप्तिनिवारकं वार्तिकम्।। 2 ।।)
- अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः -
(भाष्यम्) अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधो वक्तव्यः। औपकूलः, औपमूलः, औपशालः।।
-4-3-60- अन्तः पूर्वपदाट्ठञ्ञ् (1630)
(तत्रभवाधिकरणे ठञ्ञ्)
(वार्तिकावतरणभाष्यम्)
अत्यल्पमिदमुच्यते।
(5477 संग्राहकवार्तिकम्।। 1 ।।)
- समानस्य तदादेश्च अध्यात्मादिषु चेष्यते -
(भाष्यम्) समानस्य--सामानिकः।
तदादेः--सामानग्रामिकः, सामानदेशिकः।
अध्यात्मादिषु चेष्यते--आध्यात्मिकः, आधिदैविकः, आधिभौतिकः।।
(5478 वार्तिकम्।। 2 ।।)
- ःढ़द्य;र्ध्वंदमाच्च देहाच्च -
(भाष्यम्) ठञ्ञ्वक्तव्यः--और्ध्वन्दमिकम्, और्ध्वदेहिकम्।।
(5479 वार्तिकम्।। 3 ।।)
- लोकोत्तरपदस्य च -
(भाष्यम्) ठञ्ञ् वक्तव्यः। ऐहलौकिकम्, पारलौकिकम्।।
(5480 वार्तिकम्।। 4 ।।)
- मुखपार्श्वतसोरीयः -
(भाष्यम्) मुख पार्श्व ःथ्द्य;त्येताभ्यां तसन्ताभ्यामीयप्रत्ययो वक्तव्यः। मुखतीयम्, पार्श्वतीयम्।।
(5481 वार्तिकम्।। 5 ।।)
- कुग्जनस्य परस्य च -
(भाष्यम्) ःथ्द्य;र्यो वक्तव्यः, कुक्चागमः। जनकीयम्, परकीयम्।।
(5482 वार्तिकम्।। 6 ।।)
- ःथ्द्य;र्यः कार्योऽथ मध्यस्य -
(भाष्यम्) मध्यीयः।।
(5483 वार्तिकम् 7 )
- मण्मीयौ चापि प्रत्ययौ -
(भाष्यम्) मण्मीयौ चापि प्रत्ययौ वक्तव्यौ। माध्यमः, मध्यमीयः।।
(5484 वार्तिकम्।। 8 ।।)
- मध्यो मध्यं दिनण् चास्मात् -
(भाष्यम्) मध्यशब्दो मध्यंशब्दमापद्यते, दिनण् चास्मात्प्रत्ययो वक्तव्यः। माध्यन्दिन उद्गायति।।
(5485 वार्तिकम्।। 9 ।।)
- स्थाम्नो लुगजिनात्तथा -
(भाष्यम्) स्थाम्नो लुग्वक्तव्यः। अश्वत्थामा। अजिनात्तथा। अजिनान्ताच्च लुग्वक्तव्यः। कृष्णाजिनः, उलाजिनः, सिंहाजिनः, व्याघ्राजिनः।।
(5486 वार्तिकम् ।। 10 ।।)
- बाह्यो दैव्यः पाञ्ञ्चजन्यो गाम्भीर्यं च ञ्ञ्य ःथ्द्य;ष्यते -
-4-3-66- तस्य व्याख्यान ःथ्द्य;ति च व्याख्यातव्यनाम्नः (1636)
(व्याख्यानार्थाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते?
(5487 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः -
(भाष्यम्) भवव्याख्यानयोर्युगपदधिकारः क्रियते, अपवादविधानार्थः। युगपदपवादान् वक्ष्यामीति।
(वार्तिकाक्षेपभाष्यम्)
किमुच्यतेऽपवादविधानार्थ ःथ्द्य;ति, न पुनर्निर्देशार्थोऽपि स्यात्?
(5488 आक्षेपनिरासवार्तिकम्।। 2 ।।)
- कृतनिर्देशौ हि तौ -
(भाष्यम्) कृतनिर्देशौ ह्येतावर्थौ। एकः तत्र भवः (4।3।53) ःथ्द्य;ति, अपरः तस्येदम् (120) ःथ्द्य;ति।।
(पदकृत्यभाष्यम्)
अथ व्याख्यातव्यनाम्नो ग्रहणं किमर्थम्?
(5489 पदप्रयोजनवार्तिकम्।। 3 ।।)
- तत्र व्याख्यातव्यनाम्नो ग्रहणं भवार्थम् -
(भाष्यम्) तत्र व्याख्यातव्यनाम्नो ग्रहणं क्रियते भवार्थम्।
किमुच्यते भवार्थमिति न पुर्नव्याख्यानार्थमपि स्यात्?
(5490 पदप्रयोजनसमर्थकवार्तिकम्।। 4 ।।)
- व्याख्याने ह्यवचनात्सिद्धम् -
(भाष्यम्) व्याख्याने हि सति अन्तरेण वचनं सिद्धम्। यत्प्रति व्याख्यानमित्येतद्भवति, तस्मादुत्पत्तिर्भविष्यति।
किं प्रत्येतद्भवति?
व्याख्यातव्य नाम।।
(अन्यदपि प्रयोजनप्रदर्शनपरं भाष्यम्)
यदुच्यते भवार्थमिति, तन्न। व्याख्यानार्थमपि व्याख्यातव्यनाम्नो ग्रहणं क्रियते। ःथ्द्य;ह मा भूत्--पाटलिपुत्रस्य व्याख्यानी सुकोसलेति।
अथ क्रियमाणेऽपि व्याख्यातव्यनाम्नो ग्रहणे कस्मादेवात्र न भवति? अवयवशो ह्याख्यानं व्याख्यानम्, पाटलिपुत्रं चाप्यवयवश आचष्टे--ःथ्द्य;र्दृशा अस्य प्राकाराः, ःथ्द्य;र्दृशा अस्य प्रासादा ःथ्द्य;ति।
सत्यमेवमेतत्।
क्वचित्तु काचित्प्रसृततरा गतिर्भवति। शब्दग्रन्थेषु चैषा प्रसृततरा गतिर्भवति--निरुक्तं व्याख्यायते, व्याकरणं व्याख्यायत ःथ्द्य;त्युच्यते, न कश्चिदाह--पाटलिपुत्रं व्याख्यायत ःथ्द्य;ति।।
(5491 पूर्वपक्षवार्तिकम्।। 5 ।।)
- भवे मन्त्रेषु लुग्वचनम् -
(भाष्यम्) भवे मन्त्रेषु लुग्वक्तव्यः। अग्निष्टोमे भवो मन्त्रः--अग्निष्टोमः, राजसूयः, वाजपेयः।।
(5492 पूर्वपक्षवार्तिकम्।। 6 ।।)
- कल्पे च व्याख्याने -
(भाष्यम्) कल्पे च व्याख्याने लुग्वक्तव्यः। अग्निष्टोमस्य व्याख्यानः कल्पः--अग्निष्टोमः, राजसूयः, वाजपेयः।
स तर्हि वक्तव्यः।।
(5493 वार्तिकप्रत्याख्याने वार्तिकम्।। 7 ।।)
- न वा तार्दथ्यात्ताच्छब्द्यम् -
(भाष्यम्) न वा वक्तव्यः।
किं कारणम्?
तार्दथ्यात्ताच्छब्द्यम्।
तार्दथ्यात्ताच्छब्द्यं भविष्यति। अग्निष्टोमार्थः--अग्निष्टोमः, राजसूयः वाजपेयः।।
-4-3-68- क्रतुयज्ञेभ्यश्च (1638)
(ठञ्ञोऽधिकरणम्)
(पदकृत्यभाष्यम्)
क्रतुग्रहणं किमर्थम्?
यज्ञेभ्य ःथ्द्य;तीयत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत एवोत्पत्तिः स्याद्। आग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः।
यत्र वा यज्ञशब्दोऽस्ति--नावयज्ञिकः, पाकयज्ञिकः।
ःथ्द्य;ह न स्यात्--पाञ्ञ्चौदनिकः, दाशौदनिकः, शातौदनिकः, साप्तौदनिकः। क्रतुग्रहणे पुनः क्रियमाणे न दोषो भवति।।
अथ यज्ञग्रहणं किमर्थम्?
क्रतुभ्य ःथ्द्य;तीयत्युच्यमाने य एव संज्ञीभूतकाः क्रतवस्तत उत्पत्तिः स्यात्। अग्निष्टोमिकः, राजसूयिकः, वाजपेयिकः।
ःथ्द्य;ह न स्यात्--पाञ्ञ्चौदनिकः, शातौदनिकः, साप्तौदनिक ःथ्द्य;ति।
यज्ञग्रहणे पुनः क्रियमाणे न दोषो भवति।।
-4-3-72- द्व्यजृद्ब्राह्मर्णक्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् (1642)
(ठकोऽधिकरणम्)
(5494 नामग्रहणवैर्यथ्यनिवारकवार्तिकम्।। 1 ।।)
- नामाख्यातग्रहणं संघातविगृहीतार्थम् -
(भाष्यम्) नामाख्यातग्रहणं संघातविगृहीतार्थं द्रष्टव्यम्। नामिकः, आख्यातिकः, नामाख्यातिकः।।
-4-3-84- विदूराञ्ञ्ञ्ञ्यः (1654)
(ञ्ञ्याप्रत्ययाधिकरणम्)
(सूत्रानुपपत्तिदर्शकभाष्यम्)
अयुक्तोऽयं निर्देशः, न ह्यसौ विदूरात्प्रभवति।
किं तर्हि?
वालवायात्प्रभवति, विदूरे संस्क्रियते।
एवं तर्हि--
(सूत्रोपपत्तिप्रदर्शकं श्लोकभाष्यम्)
वालवायो विदूरं च प्रकृत्यन्तरमेव वा।
वालवायशब्दो विदूरशब्दमापद्यते ञ्ञश्चास्मात्प्रत्ययो वक्तव्यः।।
अथवा प्रकृत्यन्तरं विदूरशब्दोऽस्ति वालवायस्य। न वै तत्र वालवायं विदूर ःथ्द्य;त्युपाचरन्ति।।
न वै तत्रेति चेद्ब्रूया-
ज्जित्वरीवदुपाचरेत्।
तद्यथा--वणिजो वाराणसीं जित्वरीत्युपाचरन्ति।
एवं वैयाकरणा वालवायं विदूर ःथ्द्य;त्युपाचरन्ति।।
वालवायो विदूरं च
प्रकृत्यन्तरमेव वा।
न वै तत्रेति चेयाद्ब्रू-
ज्जित्वरीवदुपाचरेत्।।
-4-3-86- अभिनिष्क्रामति द्वारम् (1656)
(अभिनिष्क्रामतिद्वारमित्यर्थाधिकरणम्)
(सूत्रानुपपत्तिदर्शकं भाष्यम्)
अयुक्तोऽयं निर्देशः, चेतनावत एतद्भवति--निष्क्रमणमपक्रमणं वा, द्वारं चाचेतनम्।
कथं तर्हि निर्देशः कर्तव्यः?
अभिनिष्क्रमणं द्वारमिति। स तर्हि तथा निर्देशः न कर्तव्यः।
(सूत्रोपपत्तिप्रदर्शकं भाष्यम्)
अचेतनेष्वपि चेतनवदुपचारो दृश्यते।
तद्यथा--अयमस्य कोणोऽभिनिसृतः, अयमभिप्रविष्ट ःथ्द्य;ति।।
-4-3-87- अधिकृत्य कृते ग्रन्थे (1657)
(अर्थाधिकरणम्)
(5495 लक्ष्यविशेषसाधकवार्तिकम्।। 1 ।।)
- अधिकृत्य कृते ग्रन्थे लुबाख्यायिकाभ्यो बहुलम् -
(भाष्यम्) अधिकृत्य कृते ग्रन्थ ःथ्द्य;त्यत्राख्यायिकाभ्यो बहुलं लुब्वक्तव्यः। वासवदत्ता, सुमनोत्तरा।।
(बहुलफलबोधकं भाष्यम्)
न च भवति--भैमरथी।।
-4-3-88- शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (1658)
(5496 द्वन्द्वे विशेषबोधकवार्तिकम्।। 1 ।।)
- द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः -
(भाष्यम्) द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्, राक्षोऽसुरम्। दैवासुरी, राक्षोऽसुरी।।
-4-3-89- सोऽस्य निवासः (1659)
-4-3-90- अभिजनश्च (1660)
(अर्थाधिकरणम्)
(निवासाभिजनविशेषे भाष्यम्)
निवासाभिजनयोः को विशेषः?
निवासो नाम यत्र संप्रत्युष्यते।
अभिजनो नाम यत्र पूर्वैरुषितम्।।
-4-3-98- वासुदेवार्जुनाभ्यां वुन् (1668)
(वुनोऽधिकरणम्)
(वुनि--आक्षेपभाष्यम्)
किमर्थं वासुदेवशब्दाद्वुन् विधीयते, न गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् (4।3।99) ःथ्द्य;त्येव सिद्धम्? न ह्यस्ति विशेषो वासुदेवशब्दाद् वुनो वा वुञ्ञो वा। तदेव रूपं स एव स्वरः।।
(आक्षेपनिराकरणभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--वासुदेवशब्दस्य पूर्वनिपातं वक्ष्यामीति।
अथ वा नैषा क्षत्रियाख्या। संज्ञैषा तत्र भवतः।।
-4-3-100- जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने (1670)
(प्रत्ययातिदेशाधिकरणम्)
(सर्वशब्दाक्षेपे भाष्यम्)
सर्ववचनं किमर्थम्?
(5497 आक्षेपनिराकरणवार्तिकम्।। 1 ।।)
- सर्ववचनं प्रकृतिनिर्ह्रासार्थम् -
(भाष्यम्) सर्ववचनं क्रियते प्रकृतिनिर्ह्रासार्थम्। प्रकृतिनिर्ह्रासो यथा स्यात्।।
(5498 प्रयोजनवार्तिकम् ।। 2 ।।)
(भाष्यम्) तच्च मद्रवृज्यर्थं द्रष्टव्यम्। माद्रो भक्तिरस्य माद्रौ वा भक्तिरस्य--मद्रक ःथ्द्य;त्येव यथा
स्यात्। वार्ज्यो भक्तिरस्य वार्ज्यौ वा भक्तिरस्य--वृजिक ःथ्द्य;त्येव यथा स्यात्।।
-4-3-101- तेन प्रोक्तम् (1671)
(प्रोक्तार्थाधिकरणम्)
(5499 प्रोक्तग्रहणाक्षेपे वार्तिकम्।। 1 ।।)
- प्रोक्तग्रहणमनर्थकं तत्रादर्शनात् -
(भाष्यम्) प्रोक्तग्रहणमनर्थकम्।
किं कारणम्?
तत्रादर्शनात्। ग्रामे ग्रामे कालापकं काठकं च प्रोच्यते। तत्रादर्शनात्, न च तत्र प्रत्ययो दृश्यते।।
(5500 आक्षेपसाधकवार्तिकम्।। 2 ।।)
  ग्रन्थे च दर्शनात्।।
(भाष्यम्) यत्र च दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थे (4।3।116) ःथ्द्य;त्येव सिद्धम्।।
(आक्षेपनिवारकभाष्यम्)
छन्दोऽर्थं तर्हीदं वक्तव्यम्। न हि छन्दांसि क्रियन्ते, नित्यानि च्छन्दांसि।।
(5501 प्रत्याक्षेपे वार्तिकम्।। 3 ।।)
- छन्दोऽर्थमिति चेत्तुल्यम् -
(भाष्यम्) छन्दोऽर्थमिति चेत्तुल्यमेतद्भवति। ग्रामे ग्रामे काठकं कालापकं च प्रोच्यते तत्रादर्शनात्। न च तत्र प्रत्ययो दृश्यते। ग्रन्थे च दर्शनात्। यत्र दृश्यते ग्रन्थः सः, तत्र कृते ग्रन्थ ःथ्द्य;त्येव सिद्धम्।
ननु चोक्तम्--न हि च्छन्दांसि क्रियन्ते नित्यानि च्छन्दांसीति।
यद्यप्यर्थो नित्यः, या त्वसौ वर्णानुपूर्वी साऽनित्या। तद्भेदाच्चैतद्भवति--काठकम्, कालापकम्, मौदकम्, पैप्पलादकमिति।।
(सिद्धान्तभाष्यम्)
न तर्हीदानीमिदं वक्तव्यम्।
वक्तव्यं च।
किं प्रयोजनम्?
यत्तेन प्रोक्तं न च तेन कृतम्। माधुरी वृत्तिः।
यदि तर्हि अस्य निबन्धनमस्ति, ःथ्द्य;दमेव वक्तव्यम्,
तन्न वक्तव्यम्।
तदप्यवश्यं वक्तव्यम्। यत्तेन कृतं न च तेन प्रोक्तम्--वाररुचं काव्यम्, जालूकाः श्लोकाः।।
-4-3-104- कलापिवैशम्पायनान्तेवासिभ्यश्च (1674)
(णिनिप्रत्ययाधिकरणम्)
(5502 पूर्वपक्षवार्तिकम्।। 1 ।।)
- प्रत्यक्षकारिग्रहणम् -
(भाष्यम्) प्रत्यक्षकारिग्रहणं कर्तव्यम्, अन्तेवास्यन्तेवासिभ्यो मा भूदिति।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।।
(5503 पूर्वपक्षनिराकरणे वार्तिकम्।। 2 ।।)
- कलापिखाडायनग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य -
(भाष्यम्) यदयं कलापिखाडायनग्रहणं करोति तज्ज्ञापयत्याचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति।
कथं कृत्वा ज्ञापकम्? वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाडायनः। वैशम्पायनान्तेवासी कलापी।
यदि चान्तेवास्यन्तेवासिभ्योऽपि स्यात्कलापिखाडायनग्रहणमनर्थकं स्यात्। पश्यति त्वाचार्यो नान्तेवास्यन्तेवासिभ्यो भवतीति, ततः कलापिखाडायनग्रहणं करोति।।
(5504 सिद्धान्तवार्तिकम्।। 3 ।।)
- छन्दोग्रहणं चेतरथा ह्यतिप्रसङ्गः -
(भाष्यम्) छन्दोग्रहणं च कर्तव्यम्। ःथ्द्य;तरथा ह्यतिप्रसङ्गः। ःथ्द्य;तरथा ह्यतिप्रसङ्गः स्यात्।
ःथ्द्य;हापि प्रसज्येत--तित्तिरिणा प्रोक्ताः श्लोका ःथ्द्य;ति।।
-4-3-105- पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (1675)
(5505 प्रतिषेधवार्तिकम् ।। 1 ।।)
- पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् -
(भाष्यम्) पुराणप्रोक्तेष्वित्यत्र याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः। याज्ञवल्कानि ब्राह्मणानि, सौलभानि ःथ्द्य;ति।
किं कारणम्?
तुल्यकालत्वात्। एतान्यपि तुल्यकालानीति।।
-4-3-116- कृते ग्रन्थे (1686)
(अर्थाधिकरणम्)
(5506 ग्रन्थाभावेऽपि प्रत्ययविधिवार्तिकम्।। 1 ।।)
- कृते ग्रन्थे मक्षिकादिभ्योऽण् -
(भाष्यम्) कृते ग्रन्थ ःथ्द्य;त्यत्र मक्षिकादिभ्योऽण्वक्तव्यः। मक्षिकाभिः कृतं माक्षिकम्।।
(5507 प्रत्ययविधिवार्तिकम्।। 2 ।।)
- तद्विशेषेभ्यश्च -
(भाष्यम्) तद्विशेषेभ्यश्चाण्वक्तव्यः। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्।
स तर्हि वक्तव्यः।
न वक्तव्यः।।
(5508 वार्तिकद्वयान्यथासिद्धिवार्तिकम्।। 3 ।।)
- योगविभागात्सिद्धम् -
(भाष्यम्) योगविभागः करिष्यते। कृते ग्रन्थे। ततः--संज्ञायाम्, संज्ञायां च तेन कृत ःथ्द्य;त्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्।
ततः कुलालादिभ्यो वुञ्ञ्। संज्ञायामित्येव।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे
प्रथममाह्निकम्।।
-4-3-120- तस्येदम् (1690)
(ःथ्द्य;दमर्थाधिकरणम्)
(5509 पूर्वपक्षवार्तिकम्।। 1 ।।)
- तस्येदमित्यसंनिहितेऽप्राप्तिरिदमः प्रत्यक्षवाचित्वात् -
(भाष्यम्) तस्येदमित्यसंनिहितेऽप्राप्तिः।
किं कारणम्?
ःथ्द्य;दमः प्रत्यक्षवाचित्वात्। ःथ्द्य;दमित्येतत्प्रत्यक्षे वर्तते, तेनेहैव स्यात्--तस्येदमिति, तस्याद ःथ्द्य;ति। तस्य तदित्यत्र न स्यात्।।
(5510 न्यासान्तरेण समाधानवार्तिकम्।। 2 ।।)
- सिद्धं तु यद्योगा षष्ठी तत्र -
(भाष्यम्) सिद्धमेतत्।
कथम्?
यद्योगा षष्ठी प्रवर्तते तत्रेति वक्तव्यम्।।
(5511 पूर्वपक्षवार्तिकम्।। 3 ।।)
- अनन्तरादिषु च प्रतिषेधः -
(भाष्यम्) अनन्तरादिषु च प्रतिषेधो वक्तव्यः। तस्यानन्तरः, तस्य समीप ःथ्द्य;ति।
किं यद्योगा षष्ठी प्रवर्तत ःथ्द्य;त्यतोऽनन्तरादिषु प्रतिषेधो वक्तव्यः?
नेत्याह।
सर्वथाऽनन्तरादिषु प्रतिषेधो वक्तव्यः।।
(5512 एकदेशिसमाधानवार्तिकम्।। 4 ।।)
- सिद्धं तु परिगणनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
परिगणनं कर्तव्यम्।।
(5513 परिगणनवार्तिकम्।। 5 ।।)
- स्वे ग्रामजनपदमनुष्येभ्यः -
(भाष्यम्) स्वे ग्रामजनपदमनुष्येभ्य ःथ्द्य;ति वक्तव्यम्। स्रौघ्नः, माथुरः। ग्राम।।
जनपद। आङ्गकः, वाङ्गकः। जनपद।।
मनुष्य। दैवदत्तः, याज्ञदत्तः।।
(5514 परिगणनवार्तिकम्।। 6 ।।)
- पत्राद्वाह्ये -
(भाष्यम्) पत्राद्वाह्य ःथ्द्य;ति वक्तव्यम्। आश्वम्, औष्ट्रम्, गार्दभम्।।
(5515 परिगणनवार्तिकम्।। 7 ।।)
- रथाद्रथाङ्गे -
(भाष्यम्) रथाद्रथाङ्ग ःथ्द्य;ति वक्तव्यम्। आश्वरथम्, औष्ट्ररथम्, गार्दभरथम्।।
(5516 परिगणनवार्तिकम्।। 8 ।।)
- वहेस्तुरणिट् च -
(भाष्यम्) वहेस्त्रन्तादण्वक्तव्य ःथ्द्य;ट्च वक्तव्यः। संवोढुः स्वं सांवहित्रम्।।
(5517 परिगणनवार्तिकम्।। 9 ।।)
- अग्नीधः शरणे रञ्ञ्भं च -
(भाष्यम्) अग्नीधः शरणे रञ्ञ्वक्तव्यो भसंज्ञा च वक्तव्या। अग्नीधः शरणमाग्नीध्रम्।।
(5598 परिगणनवार्तिकम् ।। 10 ।।)
- समिधामाधाने षेण्यण् -
(भाष्यम्) समिधामाधाने षेण्यण् वक्तव्यः। समिधामाधानो मन्त्रः सामिधेन्यो मन्त्रः। सामि धेनी ऋक्।।
(5519 परिगणनवार्तिकम्।। 11 ।।)
- चरणाद्धर्माम्नाययोः -
(भाष्यम्) चरणाद्धर्माम्नाययोरिति वक्तव्यम्। कठानां धर्म आम्नायो वा--काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्--ःथ्द्य;ति।।
(सिद्धान्तभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम्, सूत्रं च भिद्यते।
यथान्यासमेवास्तु। ननु चोक्तं तस्येदमित्यसंनिहितेऽप्राप्तिरिति। किमिदं भवान् प्रत्ययार्थमेवोपालभते, न पुनः प्रकृत्यर्थमपि। यथैव हि--ःथ्द्य;दमित्येतत् प्रत्यक्षे वर्तते, एवं तदित्येतत्परोक्षे वर्तते। तेनेहैव स्यात्तस्येदमिति, अस्यामुष्य ःथ्द्य;त्यत्र न स्यात्।
अस्त्यत्र विशेषः, एकशेषनिर्देशोऽत्र भविष्यति--तस्य चास्य च अमुष्य च तस्येति भवति।
ःथ्द्य;हापि तर्ह्येकशेषनिर्देशो भविष्यति--तच्चादश्चेदं च--ःथ्द्य;दमित्येव।
यदप्युच्यते--अनन्तरादिषु च प्रतिषेधो वक्तव्य ःथ्द्य;ति।
न वक्तव्यः। अनभिधानादनन्तरादिषूत्पत्तिर्न भविष्यति।।
-4-3-125- द्वन्द्वाद्वुन् वैरमैथुनिकयोः (1695)
(वुनोऽधिकरणम्)
(5520 सूत्रार्थपर्युदासे वार्तिकम्।। 1 ।।)
- वैरे देवासुरादिभ्यः प्रतिषेधः -
(भाष्यम्) वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्, राक्षोऽसुरम्।।
-4-3-127- सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (1697)
(अण्प्रत्ययाधिकरणम्)
(5521 सिद्धान्तवार्तिकम्।। 1 ।।)
- सङ्घादिषु घोषग्रहणम् -
(भाष्यम्) सङ्घादिषु घोषग्रहणं कर्तव्यम्। गार्गो घोषः, वात्सो घोषः।
(एकदेशिनो णकारप्रयोजनभाष्यम्)
किमर्थो णकारः?
वृद्ध्यर्थः, ञ्ञ्णिति ःथ्द्य;ति वृद्धिर्यथा स्यात्।।
(5522 पूर्वपक्षवार्तिकम्।। 2 ।।)
- सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य -
(भाष्यम्) सङ्घादिषु प्रत्ययस्य णित्करणमनर्थकम्।
किं कारणम्?
वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत् प्रातिपदिकम्।।
(5526 समाधानवार्तिकम्।। 3 ।।)
- लिङ्गपुंवद्भावप्रतिषेधार्थं तु -
(भाष्यम्) लिङ्गपुंवद्भावप्रतिषेधार्थं तु णकारः कर्तव्यः।
लिङ्गार्थम्--वैदी। पुंवद्भावप्रतिषेधार्थम्--वैदी स्थूणाऽस्य वैदीस्थूणः। वृद्धिनिमित्तस्य ःथ्द्य;ति पुंवद्भावप्रतिषेधो यथा स्यात्।।
-4-3-131- रैवतिकादिभ्यश्छः (1701)
(छप्रत्ययाधिकरणम्)
(5524 अण्विधिवार्तिकम्।। 1 ।।)
- कौपिञ्ञ्जलहास्तिपदादण् -
(भाष्यम्) कौपिञ्ञ्जलहास्तिपदादण् वक्तव्यः। कौपिञ्ञ्जलाः, हास्तिपदाः।।
-4-3-133- आथर्वणिकस्येकलोपश्च (1702)
(अणोऽधिकरणम्)
(चकारार्थबोधकभाष्यम्)
आथर्वणिकस्येकलोपश्चाण्च वक्तव्यः। आथर्वणः--धर्मः, आथर्वणः--आम्नायः।
(अथर्वणशब्दव्यवस्थाभाष्यम्)
ःथ्द्य;दमाथर्वणार्थमाथर्वणिकार्थं च चतुर्ग्रहणं क्रियते। वसन्तादिषु--अर्थवन्शब्द आथर्वणशब्दश्च पठ्यते। षष्ठेऽध्याये प्रकृतिभावार्थं ग्रहणं क्रियते। ःथ्द्य;दं चतुर्थमिकलोपार्थम्।
द्विर्ग्रहणं शक्यमकर्तुम्।
कथम्?
तेन प्रोक्तम् (4।3।101) ःथ्द्य;ति प्रकृत्य ऋषिभ्यो लुग्वक्तव्यः--वसिष्ठोऽनुवाकः, विश्वामित्रोऽनुवाक ःथ्द्य;त्येवमर्थम्।
ततो वक्तव्यम्--अथर्वणो वेति। तेन सिद्धमथर्वा--ःथ्द्य;ति आथर्वण, ःथ्द्य;ति च।
अथ वसन्तादिष्वाथर्वणशब्दः पठितव्यः, तत्र नैवार्थः प्रकृतिभावार्थेन, नापि--ःथ्द्य;कलोपार्थेन।।
(अव्यविकन्यायेन प्रयोगव्यवस्थाभाष्यम्)
यदि वसन्तादिष्वाथर्वणशब्दः पठ्यते--अथर्वाणमधीते आथर्वणिक ःथ्द्य;ति न सिध्यति।
नैष दोषः। ःथ्द्य;हास्माभिस्त्रैशब्द्यं साध्यम्--अथर्वाणमधीते, आथर्वणमधीते, आथर्वणिक ःथ्द्य;ति।
तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहोऽपरस्मादुत्पत्तिर्भविष्यति--अविरविकन्यायेन।
तद्यथा--अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति--आविकमिति। एवमाथर्वणमधीत ःथ्द्य;ति
विगृह्य--आथर्वणिक ःथ्द्य;ति भविष्यति। अथर्वाणमधीत ःथ्द्य;ति विगृह्य--वाक्यमेव भविष्यति। तत्राभिसंबन्धमात्रं कर्तव्यम्--आथर्वणिकानामिदमिति।
न चेदानीमन्यदाथर्वणिकानां स्वं भवितुमर्हति, अन्यदतो धर्मादाम्नायाद्वा।।
-4-3-134- तस्य विकारः (1703)
(विकारार्थप्रत्ययाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
तस्येति वर्तमाने पुनस्तस्यग्रहणं किमर्थम्?
(5525 तस्यपदप्रयोजनवार्तिकम्।। 1 .।)
- तस्यप्रकरणे तस्यपुनर्वचनं शैषिकनिवृत्त्यर्थम् -
(भाष्यम्) तस्यप्रकरणे तस्यपुनर्वचनं क्रियते शैषिकनिवृत्त्यर्थम्। शैषिका निर्वन्त्यन्ते।।
(वार्तिकावतरणभाष्यम्)
कथं च प्राप्नुवन्ति?
(5526 प्रयोजनसाधकवार्तिकम्।। 2 ।।)
- तस्येदंवचनात् प्रसङ्गः -
(भाष्यम्) तस्येदंविशेषा ह्येते--अपत्यम्, समूहः, निवासः, विकार ःथ्द्य;ति।।
(सूत्राक्षेपसमाधानभाष्यवार्तिकम्)
किमर्थमिदमुच्यते?
बाधनार्थं कृतं भवेत्।
ये तस् बाधकास्तद्वाधनार्थम्।
कथं पुनरशैषिकः शैषिकं बाधते?
उत्सर्गः शेष एवासौ।।
योह्युत्सर्गः सोऽपि शेष एव।।
(आक्षेपभाष्यम्)
के पुनः शैषिकाणां विकारावयवयोः प्राप्नुवन्ति, यावता सर्वमद्यापवादैर्व्याप्तम्।।
(समाधानभाष्यम्)
ःथ्द्य;ह न किंचिदुच्यते--हलसीराट्ठक् (4।3।124) ःथ्द्य;ति।।
कथं पुनरिच्छताऽप्यपवादः प्राप्नुवन् शक्यो बाधितुम्।
तस्यग्रहणसार्मथ्यात्। किमिदं भवानध्यारुह्य तस्यग्रहणस्यैव प्रयोजनमाह, न पुनः सर्वस्यैव योगस्य।
अवश्यमुत्तरार्थोऽर्थनिर्देशः कर्तव्यः। समर्थविभक्तिरपि तर्ह्यवश्यमुत्तरार्था निर्देष्टव्या। प्रकृता समर्था विभक्तिरनुवर्तते--तस्येदम् ःथ्द्य;ति।।
(5527 सूत्रेणेष्टसाधनत्वाभावबोधकं वार्तिकम्।। 3 ।।)
- न वा संप्रत्ययः -
(भाष्यम्) न वा संप्रत्यय ःथ्द्य;यता सूत्रेण, शैषिकाणां निवृत्तेः।
न हि काको वाश्यत ःथ्द्य;त्येवाधिकारा निवर्तन्ते।
यदि खल्वपि विकारावयवयोः शैषिका नेष्यन्ते, महता सूत्रेण निवृत्तिर्वक्तव्या।।
(5528 सूत्राक्षेपे वार्तिकम्।। 4 ।।)
- अवयवे चाप्राण्योषधिवृक्षेभ्योऽनिवृत्तिः -
(भाष्यम्) अवयवे चाप्राण्योषधिवृक्षेभ्योऽनिवृत्तिरिष्टा, तत्र च निवृत्तिः प्राप्नोति। पाटलिपुत्रकाः प्राकाराः, पाटलिपुत्रकाः प्रासादा ःथ्द्य;ति।।
(5529 सूत्राक्षेपे वार्तिकम्।। 5 ।।)
- अण्मयटोश्च विप्रतिषेधानुपपत्तिर्मयडुत्सर्गात् -
(भाष्यम्) अण्मयटोश्च विप्रतिषेधो नोपपद्यते। पठिष्यति हि विप्रतिषेधम्--अणो वृद्धान्मयट् ःथ्द्य;ति स विप्रतिषेधो नोपपद्यते।
किं कारणम्?
मयडुत्सर्गात्। निवर्तमानेषु शैषिकेषु वृद्धान्मयडुत्सर्गस्तस्याणपवादः, उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधः।।
(5530 तस्यग्रहणाभावे ःथ्द्य;ष्टसिद्धिबोधकमेकदेशिवार्तिकम्।। 6 ।।)
- अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधान्मयट् -
(भाष्यम्) अनुवर्तमानेषु शैषिकेषु वृद्धाच्छ उत्सर्गः। तस्याण्मयटावपवादौ। अपवादविप्रतिषेधान्मयड् भविष्यति।।
(तृतीयवार्तिकोक्ताक्षेपपरिहारभाष्यम्)
यत्तावदुच्यते--न वा संप्रत्यय ःथ्द्य;यता सूत्रेण शैषिकाणां निवृत्तेः ःथ्द्य;ति,
संप्रत्यय एव। न ह्यत्राण् दुर्लभः। सिद्धोऽत्राण् तस्येदमित्येव। सोऽयं पुनस्तस्यग्रहणेन--तस्य सापवादस्याणः प्रसङ्गे ःथ्द्य;मं निरपवादकमणं प्रतिपादयति। तत्र ये तावत् द्वितीयास्तानयमपवादत्वाद्बाधिष्यते।
ये तृतीयास्तान् परत्वात्। ये चतुर्थास्तत्र केचित्पुरस्तादपवादा अनन्तरान्विधीन् बाधान्ते ःथ्द्य;त्येवमिमं न बाधिष्यन्ते। केचिन्मध्येऽपवादाः पूर्वान् विधीन् बाधन्त ःथ्द्य;ति। एतावन्तश्चैते स्युर्यदुत द्वितीयास्तृतीयाश्चतुर्था वा। न पञ्ञ्चमाः सन्ति न षष्ठाः।।
(चतुर्थवार्तिकोक्ताक्षेपपरिहारभाष्यम्)
यदप्युच्यते--अवयवे च प्राण्योषधिवृक्षेभ्यो निवृत्तिः ःथ्द्य;ति, प्राण्योषधिवृक्षेभ्यो निवृत्तिरुच्यते। तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्यो निवृत्तिः स्यात्।।
(पञ्ञ्चमवार्तिकोक्ताक्षेपपरिहारभाष्यम्)
यदप्युच्यते--अण्मयटोश्च विप्रतिषेधानुपपत्तिर्मयडुत्सर्गात् ःथ्द्य;ति, मा भूद्विप्रतिषेधः। पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते ःथ्द्य;त्येवमणञ्ञं बाधिष्यते, मयटं न बाधिष्यते।।
-4-3-135- अवयवे च प्राण्योषधिवृक्षेभ्यः (1704)
(अवयवार्थाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं विकारावयवयोर्युगपदधिकारः?
(5531 समाधानवार्तिकम्।। 1 ।।)
- विकारावयवयोरुक्तम् -
(भाष्यम्) किमुक्तम्?
तत्र तावदुक्तम्--भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति।
ःथ्द्य;हापि--विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ ह्येतावर्थौ--तस्येदम् (4।3।120) ःथ्द्य;ति।।
-4-3-136- बिल्वादिभ्योऽण् (1705)
(अण्प्रत्ययाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं बिल्वादिषु गवीधुकाशब्दः पठ्यते, न कोपधादणित्येव सिद्धम्?
(5532 समाधानवार्तिकम्।। 1 ।।)
- बिल्वादिषु गवीधुकाग्रहणं मयट्प्रतिषेधार्थम् -
(भाष्यम्) बिल्वादिषु गवीधुकाग्रहणं क्रियते मयट्प्रतिषेधार्थम्। मयडतो मा भूदिति।।
-4-3-140- अनुदात्तादेश्च (1709)
(अञ्ञोऽधिकरणम्)
(5533 पूर्वपक्षवार्तिकम्।। 1 ।।)
- अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानम् -
(भाष्यम्) अनुदात्तादेरञ्ञो विधाने आद्युदात्तान्ङीष उपसंख्यानं कर्तव्यम्। कुवली-कौवलम्,बदरी--बादरम्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। निघाते कृतेऽनुदात्तादेरित्येव सिद्धम्।
न सिध्यति।
किं कारणम्?
(5534 एकदेशिसमाधानवार्तिकम्।। 2 ।।)
- पदस्य ह्यनुदात्तादित्वम् -
(भाष्यम्) पदस्य हि निघातः, सुबन्तं च पदम्, ङ्याप्प्रातिपदिकाच्च प्रत्ययो विधीयते।।
(5535 समाधानवार्तिकम्।। 3 ।।)
- न वा समर्थस्यानुदात्तादित्वात् -
(भाष्यम्) न वा वक्तव्यम्।
किं कारणम्?
समर्थस्यानुदात्तादित्वात्। समर्थमनुदात्तादित्वेन विशेषयिष्यामः।।
नैवं शक्यम्। ःथ्द्य;ह च प्रसज्येत--वाचो विकारः, त्वचो विकार ःथ्द्य;ति। एतद्धि समर्थमनुदात्तादि।
ःथ्द्य;ह च न स्यात्--सर्वेषां विकारः सर्व ःथ्द्य;ति। तस्मान्नैवं शक्यम्।।
न चेदेवमुपसंख्यानं कर्तव्यम्।
न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति--यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात ःथ्द्य;ति, यदयं भिक्षादिषु गर्भिणीशब्दस्य पाठं करोति।
कथं कृत्वा ज्ञापकम्?
भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत्प्रयोजनम्अनुदात्तादिलक्षणोऽञ्ञ् मा भूदिति।
यदि च पदस्य निघातः, गर्भशब्दोऽयमाद्युदात्तस्तस्मादिनिः। ःथ्द्य;न्नन्ताद्यः प्रत्ययः प्राप्नोति स तावत्स्यात्। तस्मिन्नवस्थिते निघातः। तत्र कोऽनुदात्तादिलक्षणस्याञ्ञः प्रसङ्गः?
पश्यति त्वाचार्यः--यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावस्तावत्येव पूर्वस्य निघात ःथ्द्य;ति। अतो भिक्षादिषु गर्भिणीशब्दं पठति।।
(पदकृत्यभाष्यम्)
पदग्रहणं किमर्थम्?
(5536 समाधानवार्तिकम्।। 4 ।।)
- पदग्रहणं परिमाणार्थम् -
(भाष्यम्) पदग्रहणं क्रियते, परिमाणार्थम्। पदावधेर्यथा स्यात्, वाक्यस्य मा भूत्--अनुदात्तं पदमेकवर्जम् (6।1।154) ःथ्द्य;ति।।
-4-3-143- मयड्वैतयोर्भाषायामभक्षाच्छादनयोः (1712)
(मयटोऽधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं मयड्वैतयोरित्युच्यते?
(5537 समाधानवार्तिकम्।। 1 ।।)
- मयड्वैतयोर्वचनमपवादविषयेऽनिवृत्त्यर्थम् -
(भाष्यम्) मयड्वैतयोरित्युच्यते, अपवादविषयेऽनिवृत्तिर्यथा स्यादिति। बिल्वमयम्, बैल्वम्।।
(5538 सिद्धान्तवार्तिकम्।। 2 ।।)
- एतयोरित्यर्थनिर्देशः -
(भाष्यम्) एतयोरित्यर्थनिर्देशो द्रष्टव्यः। द्वेष्यं विजानीयात्--योगयोर्वा प्रत्यययोर्वेति।
तदाचार्यः सुहृद्भूत्वाऽन्वाचष्टे--एतयोरित्यर्थनिर्देश ःथ्द्य;ति।।
-4-3-155- ञ्ञितश्च तत्प्रत्ययात् (1724)
(अञ्ञोऽधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(5539 समाधानवार्तिकम्।। 1 ।।)
- विकारावयवयोर्विकारावयवयुक्तत्वान्मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम् -
(भाष्यम्) विकारो विकारेण युज्यते, अवयवेनावयवः। विकारावयवयोर्विकारावयवयुक्तत्वान्मयट् प्राप्नोति। ःथ्द्य;ष्यते चाञ्ञेव स्यादिति। तच्चान्तरेण यत्नं न सिद्ध्यतीति मयट्प्रतिषेधार्थं ञ्ञितश्च तत्प्रत्ययादञ्ञो विधानम्। एवमर्थमिदमुच्यते।।
(5540 समाधानाक्षेपवार्तिकम्।। 2 ।।)
- न वा दृष्टो ह्यवयवे समुदायशब्दो विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः -
(भाष्यम्) न वैतत्प्रयोजनमस्ति।
किं कारणम्?
दृष्टो ह्यवयवे समुदायशब्दः, तद्यथा--पूर्वे पञ्ञ्चालाः। उत्तरे पञ्ञ्चालाः। तैलं भुक्तम्। घृतं भुक्तम्। शुक्लः, नीलः, कृष्ण ःथ्द्य;ति।
विकारे च प्रकृतिशब्दः। विकारे च प्रकृतिशब्दो दृश्यते। तद्यथा--शालीन् भुङ्क्ते मुद्गैः, शालिविकारं मुद्गविकारेणेति।
(प्रत्याक्षेपभाष्यम्)
नैतद्विवदामहे--अवयवे समुदायशब्दोऽस्ति नास्तीति, विकारे वा प्रकृतिशब्द ःथ्द्य;ति।
किं तर्हि?
विकारावयवशब्दोऽपि त्वस्ति, तत उत्पत्तिः प्राप्नोति।।
(5541 प्रत्याक्षेपनिराकरणवार्तिकम्।। 3 ।।)
- विकारावयवशब्दात्प्रसङ्ग ःथ्द्य;ति चेन्न तेनानभिधानात् -
(भाष्यम्) विकारावयवशब्दात् प्रसङ्ग ःथ्द्य;ति चेत्तन्न।
किं कारणम्?
तेनानभिधानात्। न हि विकारावयवशब्दादुत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति।।
तच्चावश्यमनभिधानमाश्रयितव्यम्।।
(5542 आक्षेपवार्तिकम्।। 4 ।।)
- अभिधाने ह्यन्यतोऽपि मयट्प्रसङ्गः -
(भाष्यम्) अभिधाने सत्यन्यतोऽपि मयट् प्रसज्येत। बैल्वस्य विकार ःथ्द्य;ति।।
(5543 सिद्धान्त्येकदेशिवार्तिकम्।। 5 ।।)
- तस्मात्तत्प्रत्ययान्ताल्लुग्वचनम् -
(भाष्यम्) तस्मात्तत्प्रत्ययान्ताल्लुग्वक्तव्यः।।
(सिद्धान्तभाष्यम्)
यदि लुगुच्यते, कथं गौमयं भस्म, द्रौवयं मानम्, कापित्थो रसः? ःथ्द्य;ति।
अन्यत्र गोमयाद् द्रुवयात् फलाच्च लुग्वक्तव्यः।।
ःथ्द्य;ह तर्हि--औष्ट्रकी, अञ्ञन्तादितीकारो न प्राप्नोति।
ःथ्द्य;ष्टमेवैतत्संगृहीतम्, औष्ट्रिकेत्येव भवितव्यम्। ःथ्द्य;ह हि सौनागाः पठन्ति--वुञ्ञश्चाञ्ञ्कृतप्रसङ्ग ःथ्द्य;ति।।
ःथ्द्य;ह तर्हि--पालाशी समिदित्यनुपसर्जनलक्षण ःथ्द्य;र्कारो न प्राप्नोति।
मा भूदेवम्--अञ्ञ् योऽनुपसर्जनमिति, अञ्ञन्तादनुपसर्जनादित्येवं भविष्यति।
नैवं शक्यम्। ःथ्द्य;ह हि दोषः स्यात्--काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणीति, अणन्तादितीकारः प्रसज्येत।
तस्मादस्तु न तेनानभिधानादित्येव।।
ःथ्द्य;ह तर्हि कापोतो रस ःथ्द्य;ति--प्राणिशब्दो नोपपद्यते।
नैष दोषः। ःथ्द्य;दं तावदयं प्रष्टव्यः--योऽसावाद्यः कपोतः सलोमकः सपक्षः, न संप्रति प्राणिति, कथं
तत्र प्राणिशब्दो वर्तते? ःथ्द्य;ति।
अथ मतमेतत्--प्रकृत्यन्वया विकारा भवन्तीति।
ःथ्द्य;हापि न दोषो भवति।।
-4-3-156- क्रीतवत्परिमाणात् (1725)
(प्रत्ययातिदेशाधिकरणम्)
(जिज्ञासाभाष्यम्)
कथमिदं विज्ञायते--क्रीते ये प्रत्यया विहितास्ते भवन्ति परिमाणाद्विकारावयवयोरिति,
आहोस्वित्परिमाणात् क्रीते ये प्रत्यया विहितास्ते भवन्ति विकारावयवयोरिति?
किं चातः?
यदि विज्ञायते--क्रीते ये प्रत्यया विहितास्ते भवन्ति परिमाणाद्विकारावयवयोरिति,
प्रत्ययमात्रं प्राप्नोति।
अथ विज्ञायते--परिमाणात् क्रीते ये प्रत्यया विहितास्ते भवन्ति विकारावयवयोरिति, प्रकृतिमात्रात् प्राप्नुवन्ति।
तस्मात्--
(5544 सूत्रार्थसम्पादने एकदेशिवार्तिकम्।। 1 ।।)
- क्रीतवत्परिमाणादङ्गं च -
(भाष्यम्) अङ्गं च क्रीतवदिति वक्तव्यम्। तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।।
(वार्तिकोक्तार्थसाधने भाष्यम्)
क्रीतवदिति वतिनिर्देशोऽयम्। यदि च याभ्यः प्रकृतिभ्यो येन विशेषणेन क्रीते प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन परिमाणादि्द्वकारावयवयोर्भवन्ति, ततोऽमी क्रीतवत् कृताः स्युः।
अथ हि प्रकृतिमात्राद्वा स्युः प्रत्ययमात्रं वा स्यात्, नामी क्रीतवत् कृताः स्युः।।
(5545 विप्रतिषेधवार्तिकम्।। 2 ।।)
- अणो वृद्धान्मयट् -
(भाष्यम्) अणो वृद्धान्मयडित्येतद्भवति विप्रतिषेधेन।
अणोऽवकाशः--तित्तिडीक--तैत्तिडीकम्।
मयटोऽवकाशः--काष्ठमयम्।
ःथ्द्य;होभयं प्राप्नोति--शाकमयम्।।
(5546 विप्रतिषेधवार्तिकम्।। 3 ।।)
- ओरञ्ञोऽनुदात्तादेरञ्ञश्च -
(भाष्यम्) ओरञ्ञोऽनुदात्तादेरञ्ञश्च मयड् भवति विप्रतिषेधेन।
ओरञ्ञोऽवकाशः--अरडु--आरडवम्।
मयटः स एव।
ःथ्द्य;होभयं प्राप्नोति--दारु--दारुमयम्। अनुदात्तादेरञ्ञ्भवतीत्यस्यावकाशः--कौवलम्। जरद्वृक्ष--जारद्वृक्षम्।
मयटः स एव।
ःथ्द्य;होभयं प्राप्नोति--आम्रमयम्।।
(5547 विप्रतिषेधवार्तिकम्।। 4 ।।)
- मयटः प्राण्यञ्ञ्विप्रतिषेधेन -
(भाष्यम्) मयटः प्राण्यञ्ञ्भवति विप्रतिषेधेन। प्राण्यञ्ञोऽवकाशः--गार्ध्रम्।
मयटः स एव।
ःथ्द्य;होभयं प्राप्नोति--चाषम्। भासम्।
प्राण्यञ्ञ्भवति विप्रतिषेधेन।।
(5547 विप्रतिषेधखण्डनवार्तिकम् ।।5।।)
- न वाऽनवकाशत्वादपवादो मयट् -
(भाष्यम्) न वैष युक्तो विप्रतिषेधः, योऽयमञ्ञो मयटश्च।
किं कारणम्?
अनवकाशत्वादपवादो मयट्।
अनवकाशो मयट् सावकाशमञ्ञं बाधिष्यते।
स कथमनवकाशः?
यद्यनुवर्तन्ते शैषिकाः।
अथ निवृत्ताः शैषिकाः,
वृद्धमाद्युदात्तं मयटोऽवकाशः।।
(5549 विप्रतिषेधखण्डनवार्तिकम्।। 6 ।।)
- प्राण्यञ्ञश्च -
(भाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः--योऽयं मयटः प्राण्यञ्ञश्च।
किं कारणम्?
अनवकाशत्वादपवादो मयडित्येव।
अनवकाशो मयट्, स यथैव ओरञ्ञमनुदात्तादेरञ्ञं च बाधते, एवं प्राण्यञ्ञमपि बाधेत।।
(5550 एकदेशिवार्तिकम्।। 7 ।।)
- तस्मान्मयडि्वधाने प्राणिप्रतिषेधः -
(भाष्यम्) तस्मान्मयडि्वधाने प्राणिभ्यः प्रतिषेधो वक्तव्यः।
स तर्हि वक्तव्यः।
न वक्तव्यः।।
(सिद्धान्तभाष्यम्)
मध्येऽपवादाः पूर्वान् विधीन् बाधन्त ःथ्द्य;त्येवमयं मयट् ओरञ्ञमनुदात्तादेरञ्ञं च बाधिष्यते, प्राण्यञ्ञं न बाधिष्यते।।
यद्येतदस्ति--मध्येऽपवादाः पुरस्तादपवादाः ःथ्द्य;ति, माऽनुवृतञ्ञ्शैषिकाः।
पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त ःथ्द्य;त्येवमयमण् अञ्ञं बाधिष्यते, मयटं न बाधिष्यते।।
(5551 विप्रतिषेधवार्तिकम्।। 8 ।।)
- अनुदात्तादेरञ्ञः प्राण्यञ्ञ्विप्रतिषेधेन -
(भाष्यम्) अनुदात्तादेरञ्ञः प्राण्यञ्ञ्भवति विप्रतिषेधेन।
अनुदात्तादेरञ्ञ्भवतीत्यस्यावकाशः--जरद्वृक्षः--जारद्वृक्षम्।
प्राण्यञ्ञः स एव।
ःथ्द्य;होभयं प्राप्नोति--कपोत--कापोतम्।
प्राण्यञ्ञ्भवति विप्रतिषेधेन।।
(विप्रतिषेधोपपादकं भाष्यम्)
कः पुनरत्र विशेषः, तेन वा सति, अनेन वा?
सापवादः स विधिः, अयं पुनर्निरपवादः।
यदि तेन स्याद्, ःथ्द्य;ह न स्यात्--श्वाविधो विकारः शौवाविधम्।।
-4-3-163- फले लुक् (1733)
(लुगधिकरणम्)
(5552 सूत्राक्षेपे वार्तिकम्।। 1 ।।)
- फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात् -
(भाष्यम्) फले लुग्वचनमनर्थकम्।
किं कारणम्?
प्रकृत्यन्तरत्वात्, प्रकृत्यन्तरमामलकशब्दः फले वर्तते।
एकान्तदर्शनात् प्राप्नोति।।
(5553 सूत्राक्षेपे वार्तिकम्।। 2 ।।)
- एकान्तदर्शनात्प्रसङ्ग ःथ्द्य;ति चेद्वृक्षे लुग्वचनम् -
(भाष्यम्) एकान्तदर्शनात्प्रसङ्ग ःथ्द्य;ति चेत्, वृक्षे लुग्वक्तव्यः।
वृक्षोऽपि हि फलैकान्तः।।
4-3-2- आ. 14 (806 विधिसूत्रम्
-4-3-166- लुप् च (1736)
(लुपोऽधिकरणम्)
(5554 संग्रहवार्तिकम्।। 1 ।।)
- लुप्प्रकरणे फलपाकशुषामुपसंख्यानम् -
(भाष्यम्) लुप्प्रकरणे फलपाकशुषामुपसंख्यानं कर्तव्यम्। व्रीहयः, यवाः, माषाः, मुद्गाः, तिलाः।।
(5555 संग्रहवार्तिकम्।। 2 ।।)
- पुष्पमूलेषु च बहुलम् -
(भाष्यम्) पुष्पमूलेषु बहुलं लुब्वक्तव्यः। मल्लिका, करवीरम्, बिसम्, मृणालम्।
न च भवति--पाटलानि मूलानि।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्।।
पादश्च समाप्तः।।
-9-9-999-