महाभाष्यम्/तृतीयोऽध्यायः/चतुर्थः पादः

-3-4-1- धातुसंबन्धे प्रत्ययाः (1162)
तृतीयाध्यायस्य चतुर्थपादे प्रथममाह्निकम्।।
(590 कालान्तरे प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.1)
(आक्षेपभाष्यम्)
प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किमर्थम्।
(समाधानभाष्यम्)
अधातुप्रत्ययानामपि धातुसंबन्धे साधुत्वं यथा स्यात्। गोमानासीत्। गोमान्भवितेति।।
(प्रश्नभाष्यम्)
इह पश्यामः भूतकालो भविष्यत्कालेनाभिसंबध्यमानो भविष्यत्कालः संपद्यते। कस्मान्न भविष्यत्कालो भूतकालेनाभिसंबध्यमानो भूतकालः संपद्यते।
(5024 समाधानवार्तिकम्।। 1 ।।)
- धातुसंबन्धे प्रत्ययस्य यथाकालविधानात्सिद्धम्-
(भाष्यम्) धातुसंबन्धे यथाकालविहिता एवैते प्रत्ययाः। स्वेषु स्वेषु कालेषु प्रयुज्यन्ते।।
(आक्षेपभाष्यम्)
कथं तर्हि कालान्यत्वं गम्यते।।
(5025 समाधानवार्तिकम्।। 2 ।।)
- उपपदस्य तु कालान्यत्वम्-
(भाष्यम्) उपपदस्यैतत्कालान्यत्वम्।।
(आक्षेपभाष्यम्)
कुतो नु खल्वेतत्----अग्निष्टोमयाजीत्येतदुपपदं भवति, न पुनर्जनितेति?।
(समाधानभाष्यम्)
एवं तर्ह्यस्त्यादिभिर्योगे। अस्त्यादिविषयाः प्रत्ययाः साधव इति वक्ष्यामि।
(प्रश्नभाष्यम्)
के पुनरस्त्यादयः?।
(समाधानभाष्यम्)
अस्तिभूजनयः।।
(आक्षेपभाष्यम्)
एवमपि यदास्त्यादीनामेवास्त्यादिभिर्योगस्तदा न ज्ञायते कः कस्य कालमनुवर्तते इति।
भाविकृत्यमासीत्। पुत्रो जनिष्यमाण आसीत्।।
(समाधानभाष्यम्)
एवं तर्हि वाक्यमेवैतदेवं विषयं प्रयुज्यते। अग्निष्टोमयाजीत्येतत्तस्मिन्भविता। कस्मिन्योस्य पुत्रोजनिता। कदा। यदानेनाग्निष्टोमेनेष्टं भवति।। धातुसंबन्धे।। 1 ।।
-3-4-2- क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः (1163)
(591 कालान्तरे लोड्विधिसूत्रम्।। 3 । 4 । 1 आ.2)
(5026 वार्तिकम्।। 1 ।।)
- हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थम्-
(भाष्यम्) हिस्वयोः परस्मैपदात्मनेपदग्रहण कर्तव्यम्। हिः परस्मैपदानां यथा स्यात्स्व आत्मनेपदानामिति।। किं प्रयोजनम्?। लादेशप्रतिषेधार्थम्। लादेशौ हिस्वौ मा भूतामिति।।
(प्रश्नभाष्यम्)
किं च स्यात्----यदि लादेशौ हिस्वौ स्याताम्।
(समाधानभाष्यम्)
तिङन्तं पदमिति पदसंज्ञा न स्यात्।।
(समाधानबाधकभाष्यम्)
मा भूदेवम्। सुबन्तं पदमिति पदसंज्ञा भविष्यति।
(आक्षेपभाष्यम्)
कथं स्वाद्युत्पत्तिः।
(5027 समाधानवार्तिकम्।। 2 ।।)
- लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम्-
(भाष्यम्) लकारः कृत् तस्य कृत्त्वात् कृत्प्रादिपदिकमिति प्रातिपदिकसंज्ञा तदाश्रया प्रतिपदिकाश्रया स्वाद्युत्पत्तिरपि भविष्यति।।
(आक्षेपभाष्यम्)
यदि स्वाद्युत्पत्तिः, सुपां श्रवणं प्राप्नोति।
(आक्षेपबाधकभाष्यम्)
अव्ययादिति सुबूलुक् भविष्यति।।
कथमव्ययत्वम्?।
विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोऽव्ययमिति अव्ययसंज्ञा।।
(दूषणभाष्यम्)
इह तर्हि स भवान् लुनीहि लुनीहीत्येवायं लुनाति तिङतिङः इति निघातो न प्राप्नोति।
(5028 प्रयोजनवार्तिकम्।। 3 ।।)
- समसंख्यार्थे च-
(भाष्यम्) समसंख्यार्थे च हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम्। हिः परस्मैपदानां यथा स्यात्। स्व आत्मनेपदानाम्। व्यतिकरो माभूदिति।
(5029 प्रथमवार्तिकोक्तदूषणवारकवार्तिकम्।। 4 ।।)
- न वा तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य-
(भाष्यम्) न वा हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम्।। किं कारणम्?। तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य। यदयं वा च तध्वमोः इत्याह तज्ज्ञापयत्याचार्यः----पदादेशौ हिस्वौ इति।।
(5030 आक्षेपवार्तिकम्।। 5 ।।)
- तत्र पदादेशे पित्त्वाटोः प्रतिषेधः-
(भाष्यम्) तत्र पदादेशे पित्त्वस्याटश्च प्रतिषेधो वक्तव्यः। पित्त्वस्य तावत्----स भवान्लुनीहि लुनीहित्येवायं लुनाति। आटः खल्वपि---सोहं तुनीहि लुनीहीत्येवं लुनामि।
(पित्त्वप्रतिषेधानावश्यकत्वभाष्यम्)
पित्त्वस्य तावन्न वक्तव्यः। पित्त्वप्रतिषेधे योगविभागः करिष्यते। इह सोर्हि सेर्हिर्भवति। ततः अपिच्च अपिच्च
भवति यावान् हिर्नामेति।
(आट्प्रतिषेधानावश्यकत्वभाष्यम्)
आटश्चापि प्रतिषेधो न वक्तव्यः। आटि कृते साट्कस्यादेशो भविष्यति। इदमिह संप्रधार्यम्। आट् क्रियताम्, आदेश इति। किमत्र कर्तव्यम्?। परत्वादाडागमः।।
नित्य आदेशः। कृतेप्याटि प्राप्नोत्यकृतेपि प्राप्नोति।।
आडपि नित्यः। कृतेप्यादेशे प्राप्नोत्यकृतेपि।।
अनित्य आट्। अन्यस्य कृतेप्यादेशे प्राप्नोत्यन्यस्याकृतेपि प्राप्नोति शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति।।
आदेशोप्यनित्यः। अन्यस्य कृते आटि प्राप्नोति अन्यस्याकृते प्राप्नोति। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो
भवति। उभयोरनित्ययोः परत्वादाडागमः।। आटि कृते साट्कस्यादेशो भविष्यति।।
(आक्षेपभाष्यम्)
इदं तर्हि भुङ्क्ष्व भुङ्क्ष्व इत्येवं भुनजै इति श्नसोरल्लोपः इत्यकारलोपो न प्राप्नोति।
(आक्षेपपरिहारस्मारणभाष्यम्)
समसंख्यार्थत्वं चाप्यपरिहृतमेव।
(5061 समाधानवार्तिकम्।। 6 ।।)
- सिद्धं तु लोण्मध्यमपुरुषस्यैकवचनस्य क्रियासमभिहारे द्विर्वचनात्-
(भाष्यम्) सिद्धमेतत्।। कथम्?। लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः। इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
केन विहितस्य क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्विर्वचनमुच्यते?।
(समाधानभाष्यम्)
एतदेव ज्ञापयत्याचार्यो भवति क्रियासमभिहारे लोट् इति। यदयं क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्विर्वचनं शास्ति।।
(ज्ञापकत्वनिरासभाष्यम्)
कुतो न खल्वेतत्----ज्ञापकादत्र लोड् भविष्यति। न पुनर्य एवासावविशेषविहितः स यदा क्रियासमभिहारे भवति तदा तस्य द्विर्वचनं भवतीति।।
(दूषणान्तरभाष्यम्)
लोण्मध्यमपुरुषैकवचन एव खल्वपि सिद्धं स्यात्। इमौ चान्यौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषां वचनानामिष्येते।
(दूषणभाष्यम्)
सूत्रं च भिद्यते।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तं हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थे समसंख्यार्थे चेति।
(समाधानभाष्यम्)
नैष दोषः।
(5032 वार्तिकम्।। 6 ।।)
- योगविभागात्सिद्धम्-
(भाष्यम्) योगविभागः करिष्यते-----क्रियासमभिहारे लोट् क्रियासमभिहारे लोड् भवति। ततो लोटो हिस्वौ लोटो हिस्वौ भवतः। लोडित्येबानुवर्तते लोटौ यौ हिस्वाविति।। कथम् वा च तध्वमोः इति?। वा च तध्वंभाविनो लोट इत्येवमेतद् विज्ञायते।। क्रियासमभिहारे।। 2 ।।
-3-4-4- यथाविध्यनुप्रयोगः पूर्वस्मिन् (1165)
(592 अनुप्रयोगविधिसूत्रम्।। 3 । 4 । 1 आ.3)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते।
(प्रयोजनभाष्यम्)
अनुप्रयोगो यथा स्यात्।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। हिस्वान्तवमव्यक्तपदार्थकम् तेनापरिसमाप्तोर्थ इति कृत्वा अनुप्रयोगो भविष्यति।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम् यथाविधीति वक्ष्यामीति।।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। समुच्चये सामान्यवचनस्य इति वक्ष्यति। तत्रान्तरेण वचनं यथा विध्यनुप्रयोगो भविष्यति।। यथाविध्व।। 4 ।।
-3-4-5- समुच्चये सामान्यवचनस्य (1166)
(593 अनुप्रयोगविधिसूत्रम्।। 3 । 4 । 1 । आ.4)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते।
(प्रयोजनभाष्यम्)
अनुप्रयोगो यथा स्यात्।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। हिस्वान्तमनभिव्यक्तपदार्थकं तेनापरिसमाप्तोर्थ इति कृत्वानुप्रयोगो भविष्यति।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनं सामान्यवचनस्येति वक्ष्यामीति।।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। सामान्यवचनस्यानुप्रयोगोस्तु विशेषवचनस्येति। सामान्यवचनस्यैवानुप्रयोगो भविष्यति। लघुत्वात्।। समुच्चये सा।। 5 ।।
-3-4-8- उपसंवादाशङ्कयोश्च (1169)
(594 लेड्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.5)
(5033 आक्षेपवार्तिकम्।। 1 ।।)
- उपसंवादाशङ्कयोर्वचनानर्थक्यं लिङर्थत्वात्-
(भाष्यम्) उपसंवादाशङ्कयोर्वचनार्थकम्। किं कारणम्?। लिङर्थत्वात्। लिङर्थे लेट् इत्येव सिद्धम्।। कः पुनर्लिङर्थः?। केचित्तावदाहुः----हेतुहेतुमतोर्लिङ् इति। अपर आहुः----वक्तव्य एतैतस्मिन्विशेषे लिङ्। प्रयुज्यते हि लोके यदि मे भवानिदं कुर्याद्र, अहमपि त इदं दद्यामिति। उपसंवादा।। 8 ।।
-3-4-9- तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (1170)
(अथाव्ययसंज्ञककृत्प्रकरणम्)
(595 सेप्रभृतिप्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आदृ6)
(आक्षेपभाष्यम्)
तुमर्थे इत्युच्यते कस्तुमर्थो नाम।
(समाधानभाष्यम्)
कर्ता तुमर्थः।
(समाधाननिरासभाष्यम्)
यद्येवं नार्थस्तुमर्थग्रहणेन येनैव खल्वपि हेतुना कर्तरि तुमुन्भवति तेनैव हेतुना सयादयोपि भविष्यन्ति।।
(समाधानसाधकभाष्यम्)
एवं तर्हि सिद्धे सति यत्तुमर्थग्रहणं करोति तज्ज्ञापयत्याचार्यः अस्त्यन्यः कर्तुस्तुमुनोर्थः इति।। कः पुनरसौ?। भावः।।
(आक्षेपभाष्यम्)
कुतो नु खल्वेतद्। भावे तुमुन् भविष्यति, न पुनः कर्मादिषु कारकेषु स्यादिति।।
(समाधानभाष्यम्)
ज्ञापकात्तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे आदिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ती ति स्वार्थे
भविष्यति। तद्यथा। गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। सोऽसौ स्वार्थोभवन् भावे भविष्यति। किमेतस्य ज्ञापने प्रयोजनम्---अव्ययकृतो भावे भवन्ति इत्येतन्न वक्तव्यं भवति।। तुमर्थे से।। 9 ।।
-3-4-19- उदीचां माङो व्यतीहारे (1180)
(596 क्त्वाप्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.7)
(नानुबन्धकृतमनेजन्तत्वम् इति परिभाषाज्ञापनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं मेङः सानुवन्धकस्यात्वभूतस्य ग्रहणं क्रियते। न उदीचां मेङः इत्योवोच्येत्। तत्रायमप्यर्थः----उदीचां मेङः इति व्यतीहारग्रहणं न कर्तव्यं भवति। किं कारणम्। द्विषयो हि सः। व्यतीहारविषय एव मयतिः।।
(समाधानभाष्यम्)
एवं तर्हि सिद्धे सति यन्मेङः सानुबन्धकस्यात्वभूतस्य ग्रहणं करोति तज्ज्ञापयत्याचार्यः नानुबन्धकृतमनेजन्तत्वं भवति इति।।
(आक्षेपभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्?।
(समाधानभाष्यम्)
तत्रासरूपसर्वादेशदाप्प्रतिषेधेषु पृथक्त्वनिर्देशोऽनाकारान्तत्वात् इत्युक्तम्, तन्न वक्तव्यं भवति।।
(आक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते, न समानकर्तृकयोः पूर्वकाले इत्येव सिद्धम्।
(समाधानभाष्यम्)
अपूर्वकालार्थोयमारम्भः। पूर्वे ह्यसौ याचते पश्चादपमयते।। उदीचां माङो व्यतीहारे।। 19 ।।
-3-4-21- समानकर्तृकयोः पूर्वकाले (1182)
(597 क्त्वाप्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आदृ 8)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति पूर्वे भूङ्क्ते पश्चाद् व्रजतीति।।
(समाधानभाष्यम्)
स्वशब्देनोक्तत्वान्न भवति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति---पूर्वे भुक्त्वा ततो व्रजतीति।
(समाधानभाष्यम्)
नैतत् क्रियापौर्वकाल्यम्। किं तर्हि?। कर्तृपौर्वकाल्यमेतत्। पूर्वे ह्यसौ भुक्त्वान्येभ्यो भोक्तृभ्यः ततः पश्चाद् व्रजति अन्येभ्यो व्रजितृभ्यः।
(आक्षेपभाष्यम्)
इह कस्मान्न भवति। आस्यते भोक्तुमिति। कुतः कस्मान्न भवति?। किमासेः आहो स्विद् भुजेः।।
(आक्षेपभाष्यम्)
भुजेः कस्मान्न भवति,
(समाधानभाष्यम्)
अपूर्वकालत्वात्।
(आक्षेपभाष्यम्)
आसेस्तर्हि कस्मान्न भवति।
(समाधानभाष्यम्)
यस्मादत्र लड् भवति।
(आक्षेपभाष्यम्)
एतदत्र प्रष्टव्यं लडत्र कथं भवतीति।
(समाधानभाष्यम्)
लट् चात्र वासरूपेण भविष्यति।
(5034 आक्षेपवार्तिकम्।। 1 ।।)
- समानकर्तृकयोरिति बहुष्वप्राप्तिः (द्विवचननिर्देशात्)-
(भाष्यम्) समानकर्तृकयोरिति बहुषु क्त्वा न प्राप्नोति। स्नात्वा भुक्त्वा पीत्वा व्रजतीति।।
किं पुनः कारणं न सिध्यति?।
द्विवचननिर्देशात्।
द्विवचनेनायं निर्देशः क्रियते। तेन द्वयोरेव पौर्वकाल्ये स्याद् बहूनां न स्यात्।।
(5035 समाधानवार्तिकम्।। 2 ।।)
- सिद्धं तु क्रियाप्रधानत्वात्-
(भाष्यम्) सिद्धमेतत्। कथम्?। क्रियाप्रधानत्वात्। क्रियाप्रधानोयं निर्देशः। नात्र निर्देशस्तन्त्रम्।।
(प्रश्नभाष्यम्)
कथं पुनस्तेनैव निर्देशः क्रियते तच्चातन्त्रं स्यात्। तत्कारी च भवान् तद्द्वेषी च।।
(उत्तरभाष्यम्)
नान्तरीयकत्वादत्र द्विवचनेन निर्देशः क्रियते। अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्यः। तद्यथा---कश्चिदन्नार्थीशालिकलापं सतुषं सपलालमाहरति नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपालालान्युत्सृजति। तथा----कश्चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकानाहरति नान्तरीयकत्वात्स
यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति। एमिहापि नान्तरीयकत्वाद् द्विवचनेन निर्देशः क्रियते। न ह्यत्र निर्देशस्तन्त्रम्।।
(समाधानबाधकभाष्यम्)
एवमपि लोकविज्ञानान्न सिध्यति। तद्यथा----लोके ब्राह्मणानां पूर्व आनीयतामित्युक्ते सर्वपूर्व आनीयते एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति।।
(5063 समाधानवार्तिकम्।। 3 ।।)
- अनन्त्यवचनात्तु सिद्धम्-
(भाष्यम्) समानकर्तृकयोरनन्त्यस्येति वक्तव्यम्-
(आक्षेपभाष्यम्)
सिध्यति सूत्रं तर्हि भिद्यते।।
(समाधानभाष्यम्)
यथान्यासमेवास्तु। (दूषणस्मारणभाष्यम्)
ननु चोक्तं समानकर्तृकयोरिति बहुष्वप्राप्तिः इति।
(परिहारस्मारणभाष्यम्)
परिहृतमेतत्--- सिद्धं तु क्रियाप्रधानत्वाद् इति।।
(परिहारासंभावभाष्यम्)
नैष दोषः। सर्वेषामत्र व्रजिक्रियां प्रति पौर्वकाल्यम्। स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति। एवं च कृत्वा प्रयोगोऽप्यनियतो भवति। स्नात्वा भुक्त्वा पीत्वा व्रजति। पीत्वा भुक्त्वा स्नात्वा व्रजति।।
(5037 आक्षेपवार्तिकम्।।4 ।।)
- व्यादाय स्वपितीत्युपसंख्यानमपूर्वकालत्वात्-
(भाष्यम्) व्यादाय स्वपितीत्युपसंख्यानं कर्तव्यम्। किं पुनः कारणं न सिध्यति। अपूर्वकालत्वात्। पूर्वे ह्यसौ
स्वपिति पश्चाद्व्याददाति।
(5038 समाधानवार्तिकम्।।5 ।।)
- न वा स्वप्नस्यापरकलात्वात्-
(भाष्यम्) न वा वक्तव्यम्। किं कारणम्। स्वप्नस्यापरकालत्वात्। अपरकालः स्वप्नः अवश्यमसौ व्यादाय मुहूर्तमपि स्वपिति।। समानकर्तृक।। 21 ।।
-3-4-24- विभाषाग्रे प्रथमपूर्वेषु (1185)
(597 क्त्वाणमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.9)
(आक्षेपभाष्यम्)
किमयं प्राप्ते विभाषा आहोस्विदप्राप्ते।।
(प्रत्याक्षेपभाष्यम्)
कथं च प्राप्ते, कथं चाप्राप्ते।
(प्रत्याक्षेपसमाधानभाष्यम्)
आभीक्ष्ण्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते।। किं चातः?।
(प्राप्तविभाषायां दूषणम्)
यदि प्राप्ते।आधीक्ष्ण्येऽनिष्टा विभाषा प्राप्नोति। अन्यत्र चेष्टा न सिध्यति।
(अप्राप्तविभाषायां दूषणभाष्यम्)
अथाप्राप्ते-----
(5039 अप्राप्तविभाषायां दूषणवार्तिकम्।। 1 ।।)
- अग्रादिष्वप्राप्तविधेः समासप्रतिषेधः-
अग्रादिषु अप्राप्तविधेः समासस्य प्रतिषेधो वक्तव्यः।।
(प्रश्नभाष्यम्)
स तर्हि प्रतिषेधो वक्तव्यः।
(समाधानभाष्यम्)
न वक्तव्यः।
(5040 भाष्यवार्तिकम्।। 2 ।।)
- उक्तं च-
(भाष्यम्) उक्तमेतत्। अमैवाव्ययेनेत्यत्र एवकारकरणस्य प्रयोजनम्-----अमैवाव्ययेन यत्तुल्यविधानमुपपदं तत्र समासो यथा स्याद्, अमा चान्येन च यत्तुल्यविधानमुपपदं तत्र मा भूदिति।। विभाषाग्रे।। 24 ।।
-3-4-26- स्वादुमि णमुल् (1187)
(598 णमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 । आदृ 10)
(आक्षेपभाष्यम्)
किमर्थं स्वादुमि मकारान्तनिपातनं क्रियते । न, खमुञ्ञ्प्रकृतः सोऽनुवर्तिष्यते?।
(5041 प्रयोजनवार्तिकम्।। 1 ।।)
- स्वादुमि मान्तनिपातनमीकाराभावार्थम्-
(भाष्यम्) स्वादुमि मान्तनिपातनं क्रियते इर्काराभावार्थम्। इर्कारो मा भूदिति। स्वाद्वीं कृत्वा यवागूं भूङ्क्ते। स्वादुंकारं यवागूं भुङ्क्त इति।
(5042 प्रयोजनान्तरवार्तिकम्।। 2 ।।)
- च्व्यन्तस्य च मकारान्तर्थम्-
(भाष्यम्) च्व्यन्तस्य च मकारान्तत्वं यथा स्यात्। अस्वादु स्वादु कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते।।
(5043 आक्षेपवार्तिकम्।। 3 ।।)
।। आच तुमुनः प्रत्ययाः समानाधिकरणे।।
।। ।। आच तुमुनः प्रत्ययाः समानाधिकरणे मवन्तीति वक्तव्यम्।। केन?। अनुप्रयोगेण।। किं प्रयोजनम्?। स्वादुंकारं यवागूर्भुज्यते देवदत्तेनेति देवदत्ते तृतीया यथा स्यात्।।
(आक्षेपभाष्यम्)
किं च कारणं न स्यात्?।
(कारणप्रदर्शनभाष्यम्)
णमुलाभिहितः कर्तेति।।
(तृतीयासाधकभाष्यम्)
ननु च भुजिप्रत्ययेन अनभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विदिर्भविष्यति तृतीया।
(द्वितीयापत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदभिधानमिति कृत्वा अनभिहिताश्यो विधिर्भविष्यति तृतीया। यवाग्वां द्वितीया प्राप्नोति। किं कारणम्। णमुलानभिहितं कर्मेति।।
(द्वितीयाबाधकभाष्यम्)
यदि पुनरयं कर्मणि विज्ञायेत।
(द्वितीयानुपपत्तिभाष्यम्)
नैवं शक्यम्। इह हि स्वादुकारं यवागूं भुङ्क्ते देवदत्त इति यवाग्वं द्वितीया न स्यात्। किं कारणम्। णमुलाभिहितं कर्मेति।
(द्वितीयानुपपत्तिभाष्यम्)
ननु च भुजिप्रत्ययेनानभिहितं कर्मेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया।
(तृतीयोपपत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति। किं कारणम्?। णमुलानभिहितः कर्तेति।
(प्रश्नभाष्यम्)
अथानेन क्त्वायामर्थः। पक्त्वौदनो भुज्यते देवदत्तेनेति।।
(उत्तरभाष्यम्)
बाढमर्थः। देवदत्ते तृतीया यथा स्यात्। किं च कारणं च स्यात्?। क्त्वयाभिहितः कर्तेति।।
(तृतीयासाधकभाष्यम्)
ननु च भुजिप्रत्ययेनाऽनभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया।।
(द्वितीयापत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया। ओदने द्वितीया प्राप्नोति।। किं कारणम्?। क्त्वयानभिहितं कर्मेति।।
(द्वितीयापत्तिवारणभाष्यम्)
यदि पुनरयं कर्मणि विज्ञायेत।।
(द्वितीयानुपपत्तिभाष्यम्0
नैवं शक्यम्। इह हि पक्त्वा ओदनं भुङ्क्ते देवदत्त इति ओदने द्वितीया न स्यात्।।
किं च कारणं न स्यात्?।
क्त्वयाऽभिहितं कर्मेति।।
(द्वितीयोपपत्तिभाष्यम्)
ननु च भुजिप्रत्ययेन अनभिहितं कर्मेति कृत्वा अनभिहिताश्रया विभक्तिर्भविष्यति द्वितीया।।
(तृतीयापत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया। ओदने द्वितीया प्राप्नोति।। किं कारणम्?। क्त्वयानभिहितः कर्तेति।
(प्रश्नभाष्यम्)
अथानेन तुमुन्यर्थः। भोक्तुमोदनः पच्यते देवदत्तेनेति।।
(उत्तरभाष्यम्)
बाढमर्थः। देवदत्ते तृतीया यथा स्यात्।।
किं च कारणं न स्यात्?। तुमुनाभिहितः कर्तेति।।
(तृतीयोपपत्तिभाष्यम्)
ननु च पचिप्रत्ययेनानभिहितः कर्तेति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति तृतीया।।
(द्वितीयापत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भिविष्यति तृतीया। ओदने द्वितीया प्राप्नोति। किं कारणम्?। तुमुनानभिहितं कर्मेति कृत्वा।।
(द्वितीयावारणभाष्यम्0
यदि पुनरयं कर्मणि विज्ञायेत।।
(द्वितीयानुपपत्तिभाष्यम्)
नैवं शक्यम्। इह हि भोक्तुमोदनं पचति देवदत्त इति ओदने द्वितीया न स्यात्।
किं च कारणं न स्यात्?। तुमुनाभिहितं कर्मेति।।
(द्वितीयोपपत्तिभाष्यम्)
ननु च पचिप्रत्ययेनानभिहितं कर्मेति कृत्वा अनभिहिताश्रयो विधिर्भवति। द्वितीया।।
(तृतीयापत्तिभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कृतश्चिदनभिधानमिति कृत्वा अनभिहिताश्रयो विधिर्भविष्यति द्वितीया। देवदत्ते तृतीया प्राप्नोति। किं कारणम्?। तुमुनानभिहितः कर्तेति।।
(प्रश्नभाष्यम्)
अथ अनेनेहार्थः। पक्त्वौदनं ग्रामो गम्यते देवदत्तेनेति।
(अभ्युपगम भाष्यम्)
बाढमर्थः। देवदत्ते तृतीया यथा स्यात्।
किं च कारणं न स्यात्?।
क्त्वायाभिहितः कर्तेति।।
(तृतीयोपपत्तिभाष्यम्)
ननु च गमिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया।
(द्वितीयापत्तिवारणभाष्यम्)
यदि सत्यभिधाने चानभिधाने च कुतश्चिदनभिधानमिति कृत्वाऽनभिहिताश्रयो विधिर्भविष्यति तृतीया।। यदुक्तमोदने द्वितीया प्राप्नोतीति स इह दोषो न जायते।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम् आच तुमुनः समानाधिकरणे इति।।
(उत्तरभाष्यम्)
न वक्तव्यम्। अव्ययकृतो भावे भवन्तीति भावे भविष्यन्ति।।
(प्रश्नभाष्यम्)
किं वक्तव्यमेतत्।
(उत्तरभाष्यम्)
नहि। कथमनुच्यमानं गंस्यते। तुमर्थे इति वर्तते।।
तुमर्थश्च कः।
भावः।। स्वादुमि।। 26 ।।
-3-4-32- वर्षप्रमाण ःढ़द्य;लोपश्चास्यान्यतरस्याम् (1193)
(599 णमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आदृ 11)
(आक्षेपभाष्यम्)
ःढ़द्य;लोपश्चास्यान्यतरस्यां ग्रहणं शक्यमकर्तुम्।
(प्रत्याक्षेपभाष्यम्)
कथं गोष्पदप्रं वृष्टो देव इति।।
(प्रत्याक्षेपसमाधानभाष्यम्)
प्रातः पूरणकर्मा। तस्मादेष कः।।
(अनिष्टापत्तिभाष्यम्)
यदि कः, विभक्तीनां श्रवणं प्राप्नोति।।
(इष्टापत्तिभाष्यम्)
श्रूयन्त एवात्र विभक्तयः। तद्यथा---एकेन गोष्यदप्रेणेति।। वर्षप्रमा।। 32 ।।
-3-4-37- करणे हनः (1198)
(600 णमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.12)
- हनः करणेऽनर्थकं वचनं हिंसार्थेभ्यो णमुल्विधानात्-
(भाष्यम्) हनः करणे वचनमनर्थकम्। किं कारणम्?। हिंसार्थेभ्यो णमुल्विधानात्। हिंसार्थेभ्यो णमुल्विधीयते। तेनैव सिद्धम्।।
(5045 आक्षेपबाधकवार्तिकम्।। 2।।)
- अर्थवत्त्वाहिंसार्थस्य विधानात्-
(भाष्यम्) अर्थवत्तु हन्तेर्णमुल्वचनम्। कोर्थः?। अहिंसार्थस्य विधानात्। अहिंसार्थस्य हन्तेर्णमुल् यथा स्यात्।।
(आक्षेपभाष्यम्)
अस्ति पुनरयं क्वचिद्वन्तिरहिंसार्थः यदर्थोविधिः स्यात्।।
(समाधानभाष्यम्)
अस्तीत्याह। पाण्युपघातं वेदिं हन्ति।।
(5046 प्रत्योजनान्तरवार्तिकम्।। 3।।)
?B- नित्यसमासार्थं च-
(भाष्यम्) नित्यसमासार्थस्च हिंसार्थादपि हन्तेरनेन विधिरेषितव्यः।
(आक्षेपभाष्यम्)
कथं पुनरिच्छतापि हिंसार्थाद्धन्तेरनेन विधिर्लभ्यः। अनेनास्तु तेन वेति तेन स्याद्विप्रतिषेधेन।।
(समाधानभाष्यम्)
हन्तेः पूर्वविप्रतिषेधो वार्तिकेनैव ज्ञापितः। यदयं नित्यसमासार्थे चेत्याह। तज् ज्ञापयत्याचार्यः----हिंसार्थादपि हन्तेरनेन विधिर्भवतीति।। करणे इनः।। 37 ।।
-3-4-41- अधिकरणे बन्धः (1202)
(601 णमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.13)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति ग्रामे बन्ध इति।।
(समाधानभाष्यम्)
एवं वक्ष्वामि अधिकरणे बन्धः संज्ञायाम् ततः कत्रोर्जीवपुरषयोर्नशिबहोः इति।
(आक्षेपभाष्यम्)
कथमट्टालिकाबन्धं बद्धः। चण्डालिकाबन्धं बद्धः?
(समाधानभाष्यम्)
उपमाने कर्मणि च इत्येवं भविष्यति।। अधिकरणे।। 41 ।।
-3-4-60- तिर्यच्यपवर्गे (1221)
(602 क्त्वाणमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आदृ 14)
(आक्षेपभाष्यम्)
अयुक्तोयं निर्देशः। तिरश्चीति भवितव्यम्।।
(समाधानभाष्यम्)
सौत्रो निर्देशः।। तिर्यच्य।। 60 ।।
-3-4-62- नाधार्थप्रत्यये च्व्यर्थे (1223)
(603 क्त्वाणमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.15)
(आक्षेपभाष्यम्)
अर्थग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
नाघाप्रत्यय इतीयत्पुच्यमाने इहैव स्यात्----द्विघाकृत्य। इह च न स्यात्----द्वैधं कृत्य। अर्थग्रहणे पुनः क्रियमाणे न दोषो भवति। नाधाप्रत्यये च सिद्धं भवति। यश्चान्यस्तेन समानार्थः।
(आक्षेपभाष्यम्)
अथ प्रत्ययग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
इह हि मा भूत्---हिरुक् कृत्वा पृथक् कृत्वा।। नाधार्थ।। 62 ।।
-3-4-64- अन्वच्यानुलोम्ये (1225)
(604 क्त्वाणमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 . 16)
(आक्षेपभाष्यम्)
अयुक्तोयं निर्देशः। अनूचीति भवितव्यम्।
(समाधानभाष्यम्)
सौत्रोयं निर्देशः।। अन्वच्या।। 64 ।।
(अव्ययकृतः समाप्ताः)
-3-4-67- कर्तरि कृत् (1228)
 (अथ कृतादीनां शक्तिबोधकप्रकरणम्)
(605 कृत्प्रत्ययशक्तिबोधकसूत्रम्।। 3 । 4 । 1 आ.17)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते।
(5047 समाधानवार्तिकम्।। 1 ।।)
- कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानात्-
(भाष्यम्) कर्तरि कृतो भवन्तीत्युच्यते। (किं कारणम्?) अनादेशे स्वार्थविज्ञानात्। अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति। तद्यथा----गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन्निति। एवमिमे प्रत्ययाः कृतः स्वार्थे स्युः। स्वार्थे मा भूवन्। कर्तरि यथा स्युः।। एवमर्थमिदमुच्यते।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्।। यमिच्छति स्वार्थे, आह तं भावे घञ्ञ् भवतीति।।
(प्रयोजनभाष्यम्)
कर्मणि तर्हि मा भूवन्निति।
(प्रयोजननिरासभाष्यम्)
कर्मण्यपि यमिच्छत्याह तं धः कर्मणि ष्ट्रन् इति।
(प्रयोजनभाष्यम्)
करणाधिकरणयोस्तर्हि मा भूवन्निति।
(प्रयोजननिरासभाष्यम्)
करणाधिकरणयोरपि यमिच्छत्याह तं ल्युट् करणाधिकरणयोर्भवति इति।
(प्रयोजनभाष्यम्)
संप्रदानापादानयोस्तर्हि मा भूवन्निति।
(प्रयोजननिरासभाष्यम्)
संप्रदानापादानयोरपि यमिच्छत्याह तं दाशगोघ्नौ संप्रदाने भीमादयोपादाने इति। य इदानीमतोन्यः प्रत्ययः शेषः सोन्तरेण वचनं कर्तर्येव भविष्यति।।
(प्रयोजनभाष्यम्)
तदेव तर्हि प्रयोजनम्। स्वार्थे मा भूवन्निति।
(प्रयोजननिरासस्मारणभाष्यम्)
ननु चोक्तं स्वार्थे यमिच्छत्याह तं भावे घञ्ञ्भवतीति।
(प्रयोजननिरासासंभवभाष्यम्)
अन्यः स भावो बाह्यः प्रकृत्यर्थात्। अनेनेदानीमाभ्यन्तरे भावे स्युः। तत्र मा भूवन्निति कर्तृग्रहणम्।।
(आक्षेपभाष्यम्)
कः पुनरेतयोर्भावयोर्विशेषः।
(समाधानभाष्यम्)
उक्तो भावभेदो भाष्ये।
(काकुप्रश्नभाष्यम्)
अस्ति प्रयोजनमेतत्।
(समाधानभाष्यम्)
किं तर्हीति।
(5048 आक्षेपवार्तिकम्।। 2 ।।
- तत्र ख्युनादिप्रतिषेधो नानावाक्यत्वात्-
(भाष्यम्) तत्र ख्युनादीनां प्रतिषेधो वक्तव्यः। ख्युनादयः कर्तरि मा भूवन्निति।।
(आक्षेपबाधकभाष्यम्)
ननु च करणे ख्युनादयो विधीयन्ते तेन कर्तरि न भविष्यन्ति।।
(आक्षेपसाधकभाष्यम्)
तेन च करणे स्युरनेन च कर्तरि।
(आक्षेपबाधकभाष्यम्)
ननु चापवादत्वात् ख्युनादयो बाधकाः स्युः।।
(आक्षेपसाधकभाष्यम्)
न स्युः।। किं कारणम्?। नानावाक्यत्वाद्। नानावाक्यं तच्चेदं च। समाने वाक्ये चापवादैरुत्सर्गा बाध्यन्ते। नानावाक्यत्वाद्वाधनं न प्राप्नोति।
(5049 समावेशवार्तिकम्।। 3 ।।)
- तद्वच्च कृत्येष्वेवकारकरणम्(तच्च भव्याद्यर्थम्)-
(भाष्यम्) एवं च कृत्येष्वेवकारः क्रियते तयोरेव कृत्यक्तखलर्था इति भावे चाकर्मकेभ्य इति।
किं प्रयोजनम्?।
तच्च भव्याद्यर्थम्। भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नाम्।। गेयानि माण वकेन सामानीति।।
(5050 असमावेशवार्तिकम्।। 4 ।।)
- ऋषिदेवतयोस्तु कृदि्भः समावेशवचनं ज्ञापकमसमावेशस्य-
(भाष्यम्) यदयं कर्तरि चर्षिदेवतयोः इति सिद्धे सति समावेशार्थे चकारं शास्ति तज्ज्ञापयत्याचार्यः----न भवति समावेशः इति।।
(आक्षेपभाष्यम्)
किमर्थे तर्हि कृत्येष्वेवकारः क्रियते?
(5051 वार्तिकम्।। 5 ।।)
- एवकारकरणं च चार्थे तच्च भव्याद्यर्थम्-
(भाष्यम्) एवकारकरणं च चार्थे द्रष्टव्यम्। तयोर्भावकर्मणोः कृत्या भवन्ति भव्यादीनां कर्तरि च।।
किं प्रयोजनम्।
तच्च भव्याद्यर्थं, भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नां गेयानि माणवकेन सामानीति।
(असमावेशवार्तिकनिरासभाष्यम्)
यत्तावदुच्यते--- ऋषिदेवतयोः कृदि्भः समावेशवचनं ज्ञापकमसमावेशस्य इति।। नैतज्ज्ञापकसाध्यम्-----अपवादैरुत्सर्गा बाध्यन्ते इति।। एष एव न्यायः----यदुतापवादैरुत्सर्गा बाध्येरन्।।
(दूषणस्मारकभाष्यम्)
ननु चोक्तम्। नानावाक्यत्वाद् बाधनं न प्राप्नोति इति।। न विदेशस्थमिति कृत्वातो नानावाक्यं भवति।
(समाधानभाष्यम्)
विदेशस्थमपि सदेकं वाक्यं भवति। तद्यथा द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठ्योरलुगुच्यतेऽपवादः।।
(पूर्ववार्तिकदूषणभाष्यम्)
यदप्युच्यते एवकारकरणं च चार्थे इति।। कथं पुनरन्यो नामान्यस्यार्थे विद्यते। कथमेवकारश्चार्थे वर्तते। स एष एवकारः स्वार्थे वर्तते।
(आक्षेपभाष्यम्)
किं प्रयोजनम्।
(समाधानभाष्यम्)
ज्ञापकार्थम्।
(अनुयोगभाष्यम्)
किं ज्ञाप्यते?
(समाधानभाष्यम्)
एतज् ज्ञापयत्याचार्यः इत उत्तरं समावेशो भवति इति।।
(अनुयोगभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्।
(समाधानभाष्यम्)
तच्च भव्याद्यर्थम्।
भव्यादिषु समावेशः सिद्धो भवति। गेयो माणवकः साम्नां गेयानि माणवकेन सामानीति।।
(आक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते इहापि समावेशः प्राप्नोति---दाशगोघ्नौ संप्रदाने भीमादयोपादान इति।
(समाधानभाष्यम्)
अत्रापि सिद्धं भवति। यदयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे, समावेशार्थं चकारं शास्ति तज्ज्ञापयत्याचार्यः प्रागमुतः समावेशो भवति इति।।
(अनुयोगभाष्यम्)
किं पुनरयं प्रत्ययनियमः धातोः परः अकारः अकशब्दो वा नियोगतः कर्तारं ब्रुवन् कृत्संज्ञश्च प्रत्ययसंज्ञश्चेति।।
(भाष्यम्) आहोस्वित्संज्ञानियमो धातोः परः अकारः अकशब्दो वा स्वभावतः कर्तारं ब्रुवन् कृत्संज्ञश्च भवति प्रत्ययसंज्ञश्चेति।।
(तटस्थस्य विशेषजिज्ञासाभाष्यम्)
कश्चात्र विशेषः।
(5052 संज्ञानियमवादिनः प्रत्ययनियमे दूषणवार्तिकम्।। 6 ।।
- तत्र प्रत्ययनियमेऽनिष्टप्रसङ्गः-
(भाष्यम्) तत्र प्रत्ययनियमे सति अनिष्टं प्राप्नोति। काष्ठभिदब्राह्मणः। वलभिदब्राह्मणः एषोपि नियोगतः कर्तारं ब्रुवन् कृत्संज्ञश्च स्यात् प्रत्ययसंज्ञश्चेति।
(5053 वार्तिकम्।। 7 ।।)
- संज्ञानियमे सिद्धम्-
(भाष्यम्) संज्ञानियमे सति सिद्धं भवति।
(प्रत्ययनियमवादिभाष्यम्)
यदि संज्ञानियमः।
(5054 दूषणवार्तिकम्।। 8 ।।)
- विभक्तादिषु दोषः-
(भाष्यम्) विभक्ता भ्रातरः पीता गाव इति न सिध्यति।। प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तो नियोगतः कर्तारमाह। न चेमास्तत्र परिगण्यन्ते प्रकृतयः।।
(5055 संज्ञानियमवादिवार्तिकम्।। 9 ।।)
- विभक्तादिषु चाप्राप्तिः प्रकृतेः प्रत्ययपरवचनात्-
(भाष्यम्) विभक्तादिषु च प्रत्ययनियमस्याप्राप्तिः। किं कारणम्?। प्रकृतेः प्रत्ययपरवचनात्। परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारमाह। न चेमास्तत्र परिगण्यन्ते।।
(आक्षेपभाष्यम्)
न तर्हीदानीमयं साधुर्भवति?।
(समाधानभाष्यम्)
भवति साधुर्न तु कर्तरि।
(प्रश्नभाष्यम्)
कथं तर्हि कर्तृत्वं गम्यते।
(समाधानभाष्यम्)
अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः पीतमेषामस्तीति पीता इति।।
(समाधानान्तरभाष्यम्)
अथ वा उत्तरपदलोपोत्र द्रष्टव्यः----विभक्तधनाः विभक्ताः पीतोदकाः पीता इति।। कर्तरि कृत्।। 67 ।।
-3-4-69- लः कर्मणि च भावे चाकर्मकेभ्यः (1230)
(606 लकारशक्तिबोधकसूत्रम्।। 3 । 4 । 1 आ. 18)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते।
(समाधानभाष्यम्)
ल एतेषु साधनेषु यथा स्यात्। कर्तरि कर्मणि च भावे चाकर्मकेभ्य इति।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। भावकर्मणोः आत्मनेपदं विधीयते, शेषात्कर्तरिपरस्मैपदम्। एतावांश्च लकारःउयदुत परस्मैपदम्, आत्मनेपदं च। स चायमेवं विहितः।।
(समाधानवार्तिकावतरणभाष्यम्)
अत उत्तरं पठति----
(5056 समाधानवार्तिकम्।। 1 ।।)
- लग्रहणं सकर्मकनिवृत्त्यर्थम्-
(भाष्यम्) लग्रहणं क्रियते (किं प्रयोजनम्?) सकर्मकनिवृत्त्यर्थम्। सकर्मकाणां भावे लो मा भूदिति।।
(सूत्रप्रत्याख्यानभाष्यम्)
यदि पुनस्तत्रैवाकर्मकग्रहणं क्रियते।।
(सूत्रारम्भभाष्यम्)
तत्तत्राकर्मकग्रहणं कर्तव्यम्।।
(सूत्रप्रत्याख्यानभाष्यम्)
ननु चेहापि क्रियते भावे चाकर्मकेभ्य इति।।
(सूत्रारम्भभाष्यम्)
परार्थमेतद् भविष्यति तयोरेव कृत्यक्तखलर्थाः भावे चाकर्मकेभ्य इति।।
(सूत्रप्रत्याख्यानभाष्यम्)
एवमपि यावदिह लग्रहणं तावत् तत्राकर्मकग्रहणम्।। इह वा लग्रहणं क्रियते। तत्र वाऽकर्मकग्रहणम्। कोन्वत्र विशेषः?।
(सूत्रारम्भभाष्यम्)
अयमस्ति विशेषः-----इह लग्रहणे क्रियमाने आनः कर्तरि सिद्धो भवति। तत्र पुनरकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति।।
(सूत्रप्रत्याख्यानभाष्यम्)
तत्राप्यकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धो भवति। कथम्?। भावकर्मणोः इत्यतो यदन्यदात्मनेपदानुक्रमणम्, तत्सर्वं कर्त्रर्थम्।।
(5057 प्रत्याख्यानवादिवार्तिकम्।। 2 ।।)
- विप्रतिषेधाद्वानः कर्तरि-
(भाष्यम्) विप्रतिषेधाद्वा आनः कर्तरि भविष्यति।। तत्र भावकर्मणोः इत्येतदस्तु कर्तरि कृद् इति। कर्तरि कृद् इत्येतद्भविष्यति विप्रतिषेधेन।।
(5058 आरम्भवादिवार्तिकम्।। 3 ।।)
- सर्वप्रसङ्गस्तु-
(भाष्यम्) सर्वेभ्यस्तु धातुभ्य आनः कर्तरि प्राप्नोति। परस्मैपदिभ्योपि।।
(प्रत्याख्यानभाष्यम्)
नैष दोषः। अनुदात्तङित इत्येष योगो नियमार्थो भविष्यति।।
(आरम्भवादिभाष्यम्)
यद्येष योगो नियमार्थः, विधिर्न प्रकल्पते---आस्ते शेते इति। अथ विध्यर्थः, आनस्य नियमो न प्राप्नोति---आसीनः शयान इति। अथ विध्यर्थः, आनस्य नियमो न प्राप्नोति---आसीनः शयान इति। तथा नेर्विश इत्येवमाद्यनुक्रमणं
यदि नियमार्थम्, ---विधिर्न प्रकल्पते। अथ विध्यर्थम्,---आनस्य नियमो न प्राप्नोति।
(प्रत्याख्यानभाष्यम्)
अस्तु तर्हि नियमार्थम्।
(दूषणस्मारणभाष्यम)
ननु चोक्तं विधिर्न प्रकल्पते इति।
(दूषणस्मारणभाष्यम्)
विधिश्च प्रक्लृप्तः। कथम्?। भावकर्मणोः इत्यत्र अनुदात्तङितः इत्येतदनुवर्तिष्यते।।
(आक्षेपभाष्यम्)
यद्यनुवर्तते। एवमपि अनुदात्तङितः एव भावकर्मणोरात्मनेपदं प्राप्नोति।।
(आक्षेपपरिहारभाष्यम्)
एवं तर्हि योगविभागः करिष्यते----अनुदात्तङित आत्मनेपदम् भवति।। ततो भावकर्मणोः।। ततः कर्तरि कर्तरि चात्मनेपदं भवति। अनुदात्तङित इत्येव। आस्ते शेते। भावकर्मणोरिति निवृत्तम्। ततः कर्मव्यतिहारे कर्तरीत्येवानुवर्तते। अनुदात्तङितः इत्यपि निवृत्तम्।
(आक्षेपपरिहारभाष्यम्)
यदप्युच्यते---तथा नेर्विश इत्येवमाद्यनुक्रमणं यदि नियमार्थे, विधिर्न प्रकल्पने। अथ विध्यर्थमानस्य नियमो न प्राप्नोतीति।। अस्तु विध्यर्थम्।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तमानस्य नियमो न प्राप्नोतीति।
(दूषणवारणभाष्यम्)
नैष दोषः। यथैवात्राप्राप्तास्तङो भवन्त्येवमानोपि भविष्यति।
(5059 सूत्रारम्भवादिवार्तिकम्।। 4 ।।)
- सर्वत्राप्रसङ्गस्तु-
(भाष्यम्) सर्वेषु च साधनेष्वानो न प्राप्नोति। विप्रतिषेधाद्वानः कर्तरि इति भावकर्मणोर्न स्यात्। कर्तर्येव स्यात्।। इह पुनर्लग्रहणे क्रियमाणे कर्तरि कृद् इत्येतदस्तु, लः कर्मणि च भावे चाकर्मकेभ्य इति, लः कर्मणि च भावे चाकर्मकेभ्यः इत्येतद्भविष्यति विप्रतिषेधेन।।
(5060 दूषणवार्तिकम्।। 5 ।।)
- सर्वप्रसङ्गस्तु-
(भाष्यम्) लादेशः सर्वेषु साधनेषु प्राप्नोति। शतृक्वसू च भावकर्मणोरपि प्राप्नुतः।
(दूषणवारणभाष्यम्)
नैष दोषः। शेषात्परस्मैपदं कर्तरि इत्येवं तौ कर्तारं हियेते।। लः कर्मणि च।। 69 ।।
-3-4-77- लस्य (1238)
(607 अधिकारसूत्रम्।। 3 । 4 । 1 आ.19)
(5061 आक्षेपवार्तिकम्।। 1 ।।)
- लादेशे सर्वप्रसङ्गोऽविशेषात्-
(भाष्यम्) लादेशे सर्वस्य प्रसङ्गः। सर्वस्य लकारस्यादेशः प्राप्नोति। अस्यापि प्राप्नोति। लुनाति लभते। किं कारणम्?। अविशेषात्। न हि कश्चिद्विशेष उपादीयते---एवं जातीयस्य लकारस्यादेशो भवतीति। अनुपादीयमाने विशेषे सर्वप्रसङ्गः।।
(5062 अक्षेपपरिहारवार्तिकम्।। 2 ।।)
- अर्थवद्ग्रहणात्सिद्धम्-
(भाष्यम्) अर्थवतो लकारस्य ग्रहणम्। न चैषोर्थवान्।।
(5063 आक्षेपपरिहारानुपपत्तिवार्तिकम्।। 3 ।।)
- अर्थवद्ग्रहणात्सिद्धमिति चेन्न वर्णग्रहणेषु-
(भाष्यम्) अर्थवद्ग्रहणात्सिद्धमिति चेत्।। तन्न। किं कारणम्?। वर्णग्रहणमिदम्। न चैतद्वर्णग्रहणेषु भवति अर्थवद्ग्रहणे नानर्थकस्य इति।।
(5064 आक्षेपोपसंहारवार्तिकम्।। 4 ।।)
- तस्माद्विशिष्टग्रहणम्-
(भाष्यम्) तस्माद्विशिष्टस्य लकारस्य ग्रहणं कर्तव्यम्।।
(आक्षेपपरिहारभाष्यम्)
न कर्तव्यम्। धातोरिति वर्तते।
(आक्षेपभाष्यम्)
एवमपि शाला माला मल्ल इत्यत्रापि प्राप्नोति।
(आक्षेपपरिहारभाष्यम्)
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि।
(आक्षेपभाष्यम्)
एवमपि नन्दन इत्यत्रापि प्राप्नोति।
(परिहारभाष्यम्)
इत्संज्ञात्र बाधिका भविष्यति।
(आक्षेपभाष्यम्)
इहापि तर्हि बाधेत---पचति पठतीति।
(समाधानभाष्यम्)
इत्कार्याभावादत्रेत्संज्ञा न भविष्यति।
(समाधानबाधकभाष्यम्)
इदमस्तीत्कार्यम्। लिति प्रत्ययात्पूर्वमुदात्तं भवति इत्येष स्वरो यथा स्यात्।
(समाधानसाधकभाष्यम्)
लितीत्युच्यते। न चात्र लितं पश्यामः।।
अथापि कथंचिद्वचनादनुवर्तनाद्वा इत्संज्ञकानामादेशः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न लादेशेषु लित्कृतं भवतीति। यदयं णलं लितं करोति।।
(पूर्वोक्ताक्षेपपरिहारभाष्यम्)
अथाप्युणादयो व्युत्पाद्यन्ते। एवमपि न दोषः। क्रियते विशिष्टग्रहणं लस्येति।।
(5065 वार्तिकम्।। 5 ।।)
- लादेशो वर्णविधेः पूर्वविप्रतिषिद्धम्-
(भाष्यम्) लादेशो वर्णाविधेर्भवति पूर्वविप्रतिषेधेन। लादेशस्यावकाशः---पचतु पठतु। वर्णविधेरवकाशः-----दध्यत्र मध्वत्र। इहोभयं प्राप्नोति---पचत्वत्र पठत्वत्रेति। लादेशो भवति पूर्वविप्रतिषेधेन।।
(प्रश्नभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
(डत्तरभाष्यम्)
न वक्तव्यः। उक्तं वा । किमुक्तम्?। लादेशो वर्णविधेरन्तरङ्ग इति।। लस्य।। 77 ।।
-3-4-79- टित आत्मनेपदानां टेरे (1240)
(608 टेरेत्वादेशविधिसूत्रम्।। 3 । 4 । 1 आ.20 ।।)
(5067 आक्षेपवार्तिकम्।। 1 ।।)
- टित एत्वे आत्मनेपदेष्वान प्रतिषेधः-
(भाष्यम्) टित एत्वे आत्मनेपदेष्वानस्य प्रतिषेधो वक्तव्यः। पचमानः। यजमानः। टित इत्येत्वं प्राप्नोति।।
(4068 वार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?। ज्ञापकं वा सानुबन्धकस्यादेशवचनमित्कार्याभावस्य इति।।
(समाधानबाधकभाष्यम्)
नैतदस्त्युक्तम्। एवं किल तदुक्तं स्यात्।
(उक्तसमाधानसञ्ञ्जनार्थं सामानाधिकरण्यान्वयप्रदर्शकभाष्यम्)
यद्येवं विज्ञायते---टित् आत्मनेपदं टिदात्मनपदं टिदात्मनेपदानामिति। तच्च न।
(वैयधिकरण्यान्वयाङ्गीकारभाष्यम्)
टितो लकारस्य यान्यात्मनेपदानीत्येवमेतद्विज्ञायते।।
(सामानाधिकरण्यान्वये दूषणभाष्यम्)
अवश्यं चैतदेवं विज्ञेयम्। टित् आत्मनेपदं टिदात्मनेपदं टिदात्नेपादानामिति हि विज्ञायमाने अकुर्वि इत्यत्रापि प्रसज्येत।।
(प्रसक्त्यनुपपत्तिभाष्यम्)
नैष टित्। कस्तर्हि?। ठित्। स चावश्यं ठित् कर्तव्यः। आदिर्मा भूदिति।
(आक्षेपभाष्यम्)
कथम् इटोत्इति।।
(उत्तरभाष्यम्)
इठोत् इति वक्ष्यामीति।।
(ठित्करणावश्यकत्वभाष्यम्)
तच्चावश्यं वक्तव्यम्। पर्यवापाद्यस्य मा भूत्---लविषीष्ट।
(ठित्करणदूषणभाष्यम्)
इह तर्हि इषमूर्जमहमित आदीति आऽतो लोप इटि च इत्याकारलोपो न प्राप्नोति। तस्माटि्टदेषः।।
(आक्षेपभाष्यम्)
आदिस्तर्हि कस्मान्न भवति।
(समाधानभाष्यम्)
सप्तदशादेशाः स्थानेयोगत्वं प्रयोजयन्ति तानेको नोत्सहते विहन्तुमिति कृत्वा आदिर्न भविष्यति।।
(प्रश्नभाष्यम्)
पर्यवपाद्यस्य तर्हि कस्मान्न भवति--लविषीष्टेति?।
(समाधानभाष्यम्)
असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण इति।
(समाधानभाष्यम्)
इदं तर्ह्युक्तम्---प्रकृतानामात्मनेपदानामेत्वं भवतीति। के च प्रकृताः?। तादयः।।
(भाष्यम्) आने मुग्ज्ञापकं त्वेत्वे, टित्तङामिशिसीरिचः। डारौरः सु, टिदटितः, प्रकृते तद्, गुणे कथम्।। टित आत्मने।। 79 ।।
-3-4-82- परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (1243)
(609 लिटः परस्मैपदानामादेशविधिसूत्रम्।। 3 । 4 । 1 आ.21)
(5039 आक्षेपवार्तिकम्।। 1 ।।)
- णलः शित्करणं सर्वादेशार्थम्-
(भाष्यम्) णल् शित्कर्तव्यः। किं प्रयोजनम्। सर्वादेशार्थम्?। शित्सर्वस्य इति सर्वादेशो यथा स्यात्।। अक्रियमाणे हि शकारे अलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत।।
(5070 समाधानवार्तिकम्।। 2 ।।)
(भाष्यम्) किमुक्तम्?। अनित्त्वात् सिद्धम् इति। णकारः क्रियते। तस्य अनित्त्वात्सिद्धमिति।।
(आक्षेपभाष्यम्)
क एष परिहारोऽन्याय्यः?। शकारमसि चोदितः। णकारं करिष्यामि शकारं न करिष्यामीति। णकारो वात्र क्रियेत शकारो वा। कोन्वत्र विशेषः?।
(समाधानभाष्यम्)
(अयमस्ति विशेषः) अवश्यमत्र णकारो वृद्ध्यर्थः कर्तव्यः णितीति वृद्धिर्यथा स्यात्।
(णकारवैर्यथ्यभाष्यम्)
नार्थो वृद्ध्यर्थेन णाकरेण। णित्त्वे योगविभागः करिष्यते----इदमस्ति गोतो णित्। ततः अल् अल् च णिद्भवति। ततः उत्तमो वा इति।
(शित्करणप्रत्याख्यानभाष्यम्)
एवमपि क एष परिहारोऽन्याय्यः। शकारमसिचोदितः लकारं करिष्यामि शकारं न करिष्यामीति। लकारो वा क्रियेत शकारो वा कोन्वत्र विशेषः।
(लकारस्य न्याय्यताभाष्यम्)
अयमस्ति विशेषः। अवश्यमत्र स्वरार्थो लकार इत्कर्तव्यः। लिति प्रत्ययात् पूर्वमुदात्तं भवतीत्येष स्वरो यथा स्यात्।
(लकारवैर्यथ्यभाष्यम्)
नैतदस्ति प्रयोजनम्। धातुस्वरे कृते द्विर्वचनं तत्रान्तर्यतोन्तोदात्तस्यान्तोदात्त आदेशो भविष्यति।।
(आक्षेपभाष्यम्)
कथं पुनरयमन्तोदात्तः स्यात्। यदैकाच्।
(समाधानभाष्यम्)
व्यपदेशिवद्भावेन।
(आक्षेपभाष्यम्)
यथैव तर्हि व्यपदेशिवद्भावेनान्तोदात्तः। एवमाद्युदात्तोऽपि। तत्रान्तर्यत आद्युदात्तस्य आद्युदात्त आदेशः प्रसज्येत।
(समाधानभाष्यम्)
तस्यमेवमेतत्। न त्विदं लक्षणमस्ति----धातोरादिरुदात्तो भवतीति। इदं पुनरस्ति---धातोरन्त उदात्तो भवतीति। सोयं, लक्षणेनान्तोदात्तः, तत्रान्तर्यतोऽन्तोदात्तक्यान्तोदात्त आदेशो भविष्यति।
(समाधानबाधकभाष्यम्)
एतदप्यादेशे नास्ति---आदेशस्यान्त उदात्तो भवतीति। प्रकृतितोऽनेन स्वरो लभ्यः। प्रकृतिश्चास्य यथैवान्तोदात्ता, एवमाद्युदात्ताऽपि।।
(द्विः प्रयोगपक्षेऽपि शित्करणदूषणापादकभाष्यम्)
द्विः प्रयोगे खल्वपि द्विर्वचने उभयोरन्तोदात्तत्वं प्रसज्येत।
(शित्त्ववादिमतेन दूषणोद्धारभाष्यम्)
अनुदात्तं पदमेकवर्जमिति नास्ति यौगमपद्येन संभवः।
(शित्त्ववादिमते दूषणस्थापनपूर्वकं लकारसार्थक्योपसंहारभाष्यम्)
पर्यायः प्रसज्येत। तस्मात्स्वरार्थो लकारः कर्तव्यः।। लकारः क्रियते, तस्यानित्त्वात्सिद्धम्।।
(5072 आक्षेपवार्तिकम्।। 3 ।।)
- अकारस्य शित्करणं सर्वादेशार्थम्-
(भाष्यम्) अकारः शित्कर्तव्यः। किं प्रयोजनम्?। सर्वादेशार्थम्। शित्सर्वस्येति सर्वादेशो यथा स्यात्। अक्रियमाणे
हि शकारे अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत।।
(आक्षेपबाधकभाष्यम्)
ननु च अकारस्य अकारवचने प्रयोजनं नास्तीति कृत्वा अन्तरेण शकारं सर्वादेशो भविष्यति।।
(आक्षेपसाधकभाष्यम्)
अस्त्यन्यदकारस्य अकारवचने प्रयोजनम्। किम्?।
(5072 वार्तिकम्।। 4 ।।)
- अकारवचनं समसंख्यार्थम्-
(भाष्यम्) संख्यातानुदेशो यथा स्यत्।
(5073 वार्तिकम्।। 5 ।।)
- तस्माच्छित्करणम्-
(भाष्यम्) तस्माच्छकारः कर्तव्यः।।
(आक्षेपभाष्यम्)
स तर्हि शकारः कर्तव्यः।
(सिद्धान्तिभाष्यम्)
न कर्तव्यः। क्रियते न्यास एव। प्रश्लिष्टनिर्देशोऽयम्। अ अ इति। सोऽसौ अनेकाल्। अनेकाल् शित्सर्वस्येति सर्वादेशो भविष्यति।। परस्मैदृ।। 82 ।।
-3-4-85- लोटो लङ्वत् (1246)
(610 अतिदेशसूत्रम्।। 3 । 4 । 1 आ.22)
(5074 समाधानवार्तिकम्।। 1 ।।)
- लङ्वदतिदेशे जुस्भावप्रतिषेधः-
(भाष्यम्) लङ्वदतिदेशे जुस्भावस्य प्रतिषेधो वक्तव्यः। यान्तु वान्तु। लङः शाकटायनस्येति जुस्भावः प्राप्नोति।।
(5075 समाधानवार्तिकम्।। 1 ।।)
- उत्ववचनात्सिद्धम्-
(भाष्यम्) उत्वमत्र बाधकं भविष्यति।।
(समाधानबाधकभाष्यम्)
अनवकाशा हि विधयो बाधका भवन्ति। सावकाशं चोत्वम्। कोऽवकाशः पचतु---पठतु।।
(समाधानसाधकभाष्यम्)
अत्रापीकारलोपः प्राप्नोति। तद्यथैवोत्वमीकारलोपं बाधते। एवं जुस्भावमपि बाधेत।
(समाधानबाधकभाष्यम्)
न बाधते। किं कारणम्?। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते इकारलोपे उत्वमारभ्यते। जुस्भावे पुनः प्राप्ते चाप्राप्ते च ।। अथ वा पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते इत्येवमिदमुत्वमिकारलोपं बाधते जुस्भावं न बाधते।।
(समाधानान्तरभाष्यम्)
एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम्। लङेव यो लङ् तत्र यथा स्यात्। लङ्वद्भावेन यो लङ् तत्र मा भूदिति।। लोटो लङ्वत्।। 85 ।।
-3-4-87- सेर्ह्यपिच्च (1238)
(611 आदेशविधिसूत्रम्।। 3 । 4 । 1 आदृ 23)
-3-4-89- मेर्निः (1250)
(612 आदेशविधिसूत्रम्।। 3 । 4 । 1 आ.24)
(5076 आक्षेपवार्तिकम्।। 1 ।।)
- हिन्योरुत्वप्रतिषेधः-
(भाष्यम्) हिन्योरुत्वस्य प्रतिषेधो वक्तव्यः। लुनीहि। लुनानि। एरुः इत्युत्वं प्राप्नोति।।
(5077 आक्षेपपरिहारवार्तिकम्।।2 ।।)
- न वोच्चारणसार्मथ्यात्-
(भाष्यम्) न वा वक्तव्यः। किं कारणम्? उच्चारणसार्मथ्यात्। उच्चारणसार्मथ्यादत्रोत्वं न भविष्यति। अलघीयश्चैव हि इकारोच्चारणमुकारोच्चारणात्। इकारं चोच्चारयति। उकारं च नोच्चारयति। तस्यैतत्प्रयोजनम---उत्वं मा भूदिति।। सेर्ह्यपिच्च। मेर्निः।। 89 ।।
-3-4-93- एत ऐ (1254)
(693 आदेशविधिसूत्रम्।। 3 । 4 । 1 आ. 25)
(5078 आक्षेपवार्तिकम्।। 1।।)
- एत ऐत्वे आद्गुणप्रतिषेधः-
(भाष्यम्) एत ऐत्वे आद्गुणस्य प्रतिषेधो वक्तव्यः। पचावेदम्। पचामेदम्। आद्गुणे कृते एत ऐ इत्यैत्वं प्राप्नोति।।
(5079 आक्षेपबाधकवार्तिकम्।। 2 ।।)
- न वा बहिरङ्गलक्षणत्वात्-
(भाष्यम्) न वा वक्तव्यः। किं कारणम्?। बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षण आद्गुणः। अन्तरङ्गमैत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।। एत ऐ।। 93 ।।
-3-4-102- लिङः सीयुट् (1263)
(614 आगमविधिसूत्रम्।। 3 । 4 । 1 । आ.26)
(5080 आक्षेपवार्तिकम्।। 1 ।।)
- यासुडादेः सीयुट् प्रतिषेधः-
(भाष्यम्) यासुडादेः सीयुटः प्रतिषेधो वक्तव्यः। चिनुयुः। सुनुयुः। लिङः सीयुट् इति सीयुट् प्राप्नोति।।
(5081 आक्षेपपरिहारवार्तिकम्।। 2 ।।)
- न वा वाक्यापकर्षात्-
(भाष्यम्) न वा वाक्तव्यः। किं कारणम्?। वाक्यापकर्षात्। वाक्यापकर्षाद् यासुट् सीयुटं बाधिष्यते।
(5082 वार्तिकम्।। 3 ।।)
- सुट्तिथोस्त्वपकर्षविज्ञानम्-
(भाष्यम्) सुटोपीदानीं तिथोरपकर्षो विज्ञायेत। कृषीष्ट। कृषीष्टः। हृषीष्ट। हृषीष्ठाः।
(5083 आक्षेपवार्तिकम्।। 4 ।।)
- अनादेश्च सुड्वचनम्-
(भाष्यम्) अनादेश्च सुड्वक्तव्यः। कृषीयास्तां कृषीयास्थाम्। तकारथकारादेर्लिङ इति सुण् न प्राप्नोति।
(5084 आक्षेपपरिहारवार्तिकम्।। 5 ।।)
- न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्-
(भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। तिथोः प्रधानभावात्। तिथावत्र प्रधानं तयोर्विशेषणं लिङ्ग्रहणम्। नैवं विज्ञायते। तकारथकारादेर्लिङ इति। कथं तंर्हि? तकारथकारयोः सुड् भवति। तौ चेल्लिङ इति।। लिङः सीयुट्।। 102 ।।
-3-4-103- यासुट् परस्मैपदेषूदात्तो ङिच्च (1264)
(615 आगमविधिसूत्रम्।। 3 । 4 । 1 । आदृ 27)
(आक्षेपभाष्यम्)
किमर्थं यासुटो ङित्त्वमुच्यते।
(5085 आक्षेपपरिहारवार्तिकम्।। 1 ।।)
- यासुटो ङिद्वचनं पिदर्थम्-
(भाष्यम्) (यासुटो ङित्त्वं क्रियते। किं प्रयोजनम्?। पिदर्थम्) पिति वचनानि प्रयोजयन्ति।।
(आक्षेपभाष्यम्)
अथ किमर्थमुदात्तवचनं क्रियते।
(5086 परिहारवार्तिकम्।। 2 ।।)
- उदात्तवचनं च -
(भाष्यम्) (उदात्त इति उच्यते। किं प्रयोजनम्।) किम्। पिदर्थमेव।
(5087 परिहारान्तरवार्तिकम्।। 3 ।।)
- आगमानुदात्तार्थे वा-
(भाष्यम्) अथ वा एतज्ज्ञापयत्याचार्यः----आगमा अनुदात्ता भवन्तीति।।
(ज्ञापकत्वानुपपत्तिभाष्यम्)
असत्यन्यस्मिन्प्रयोजने ज्ञापकं भवति। उक्तं चैतद्---यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं चेति।।
(ज्ञापकत्वानुपपत्तिभाष्यम्)
शक्यमनेन वक्तुम्। यासुट् परस्मैपदेषु भवति, अपिच्च लिङ् भवतीति। सोयऽमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः आगमा अनुदात्ता भवन्ति इति।। यासुट् परस्मैपदेषूदात्तो ङिच्च।। 103 ।।
-3-4-110- आतः (1271)
(616 नियमसूत्रम्।। 3 । 4 । 1 आ.28)
(आक्षेपभाष्यम्)
किमिदं जुस्याकारग्रहणं नियमार्थम्। आहो स्वित्प्रापकम्।।
(प्रत्याक्षेपभाष्यम्)
कथं च नियमार्थं स्यात्। कथं वा प्रापकम्।
(प्रत्याक्षेपसमाधानभाष्यम्)
यदि सिज्ग्रहणमनुवर्तते। ततो नियमार्थम्।।
अथ निवृत्तम्। ततः प्रापकम्।।
(विशेषजिज्ञासाभाष्यम्)
कश्चात्र विशेषः।
(5088 नियमपक्षदूषणवार्तिकम्।। 1 ।।)
- जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम्-
(भाष्यम्) जुसि आकारग्रहणं नियमार्थमिति चेत् सिज्लुग्ग्रहणं कर्तव्यम्। आतः सिज्लुगन्तादिति वक्तव्यम्। इह मा भूत्----अकार्षुः। अहार्षुः।।
(5089 विध्यर्थत्वपक्षाङ्गीकारभाष्यम्)
प्रापकमिति चेत्प्रत्ययलक्षणस्य प्रतिषेधो वक्तव्यः। अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति।
(5090 दूषणान्तरवार्तिकम्)
एवकारकरणं च ।।
भाष्यम्-- एवकारकरणं च कर्तव्यम्। लङः शाकटायनस्यैवेति। नियमार्थे पुनः सति नार्थ एवकारकरणेन ।
(आक्षेपभाष्यम्)
ननु च प्रापकेऽपि सति सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति।
(समाधानभाष्यम्)
इष्टतोऽवधारणार्थस्तर्ह्रोवकारः कर्तव्यः--यथैवं विज्ञायते लङः शाकटायनस्यैव इति। मैवं विज्ञायि लङ एव
शाकटायनस्य इति।
(आक्षेपभाष्यम्)
किं च स्यात्।
(समाधानभाष्यम्)
लुङः शाकटायनस्य न स्यात् । अदुः। अयुः। अधुः। अस्थुः।।
(5091 गौरववार्तिकम्)
भाष्यम्--लङ्ग्रहणं च कर्तव्यम्-- लङः शाकटायनस्यैव इति। नियमार्थे पुनः सति नार्थो लङ्ग्रहणेन । आतो ङित इति वर्तते। न चान्य आकारादनन्तरो ङिदस्ति अन्यदतो लङः।
(निमार्थत्वपक्षाङ्गीकरभाष्यम्)
अस्तु तर्हि नियमार्थम्।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम् इति।
(दूषणस्मारणभाष्यम्)
नैष दोषः। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः। यो द्वाभ्यामनन्तरः, आतश्च सिचश्च ।
(आक्षेपभाष्यम्)
अथ तदेवकारकरणं नैव कर्तव्यम्।
(सिद्धान्तसमाधानभाष्यम्)
कर्तव्यं च । किं प्रयोजनम्। उत्तरार्थम्। लिट् च लिङाशिषि आर्धधातुकमेव यथा स्यात्। इतरथा हि वचनादार्धधातुकसंज्ञा स्यात्। तिङ्ग्रहणेन च ग्रहणात्सार्वधातुकसंज्ञा।
(आक्षेपभाष्यम्)
अथ तल्लङ्ग्रहणं नैव कर्तव्यम्।
(समाधानभाष्यम्)
कर्तव्यं च किं प्रयोजनम् लङेव यो लङ् तत्र यथा स्यात्। लङ्गवद्भावेन यो लङ् तत्र मा भूदिति।। आतः।।110।।
-3-4-114- आर्धधातुकं शेषः (1271)
(5092 आक्षेपवार्तिकम्)
।। आर्धधातुकसंज्ञायां धातुग्रहणम् ।।
(भाष्यम् ) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम् । धातोः परस्यार्धधातुकसंज्ञा यथा स्यात् इह मा भूत् ---- वृक्षत्वं वृक्षतेति ।
(5093 आक्षेपवार्तिकम् ।। 2 ।।)
।। क्रियमाणे चापि धातुग्रहणे, स्वादिप्रतिषेधः ।।
(भाष्यम्) स्वादीनां प्रतिषेधो वक्तव्यः । इह मा भूत् लूभ्यां लूभिः इति ।
(आक्षेपपरिहारभाष्यम्)
अनुक्रान्तापेक्षं शेषग्रहणम् ।
(परिहारानुपपत्तिभाष्यम् )
एवमपि अग्निकाम्यति वायुकाम्यतीति प्राप्नोति । तस्माद्धातुग्रहणं कर्तव्यम् ।
(आक्षेपभाष्यम् )
तत्तर्हि धातुग्रहणं कर्तव्यम् ?।
(समाधानभाष्यम् )
न कर्तव्यम् । आतृतीयपरिसमाप्तेर्धात्वधिकारः प्रकृतोऽनुवर्तते । क्व प्रकृतः ?।धातोरेकाचो हलादेः इति ।
(समाधानासंगतिभाष्यम्)
एवमपि श्रीकाम्यति भूकाम्यतीति प्राप्नोति ।
(समाधानसंगतिभाष्यम् )
तद्विधानात् सिद्धम् । विहितविशेषणं धातुग्रहणं ठधातोर्यो विहितः इति । ठधातोरेष विहितः संकीर्त्य धातोरित्येवं यो विहित इति । आर्धधातुकम् ।। 114 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायश्च चतुर्थे पादे प्रथममाह्निकम् ।। पादश्चाध्यायश्च समाप्तस्तृतीयः ।।