महाभाष्यम्/तृतीयोऽध्यायः/प्रथमः पादः
-3-1-1- प्रत्ययः (617)
(380 अधिकारसूत्रम्।। 3 । 1। 1 आ. 1 सूत्रम्)
(अधिकारत्वस्थापनाधिकरणम्)
(आक्षेपभाष्यम्।)
अधिकारेणेयं प्रत्ययसंज्ञा क्रियते। सा प्रकृत्युपपदोपाधीनामपि प्राप्नोति। तस्याः प्रतिषेधो वक्तव्यः। प्रकृति गुप्तिज्कितः। उपपद स्तम्बकर्णयोः। उपाधि हरतेर्दृतिनाथयोः पशौ। एतेषां प्रतिषेधो वक्तव्यः।।
(तृतीयस्य प्रत्याक्षेपप्रश्रभाष्यम्)
किं च स्यात् यद्येतेषामपि प्रत्ययसंज्ञा स्यात्?।।
(प्रत्याक्षेपसमाभानभाष्यम्)
परत्वमाद्युदात्तत्वमङ्गसंज्ञेत्येते विधयः प्रसज्येरन्।।
(समाधानभाष्यम्)
अत उत्तरं पठति ---
(1।6।8।1 अधिकारत्वे दूषणनिराकरणवार्तिकप्रथमखण्डम्)
- प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनामप्रतिषेधः-
(भाष्यम्) अधिकारेणापि प्रत्ययसंज्ञायां सत्यां प्रकृत्युपपदोपाधीनामप्रतिषेधः। अनर्थकः प्रति षेधोऽप्रतिषेधः।।
प्रत्ययसंज्ञा कस्मान्न भवति?।
(वार्तिकद्वितीयखण्डम्।। 1 ।। )
- निमित्तस्य निमित्तिकार्यार्थत्वादन्यत्रापि-
(भाष्यम्) निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति।
किं पुनर्निमित्तम्। को वा निमित्ती?।।
प्रकृत्युपपदोपाधयो निमित्तम्, प्रत्ययो निमित्ती।। अन्यत्रापि चैष न्यायो दृष्टः नावश्यमिहैव।
क्वान्यत्र?।।
लोके। तद्यथा --- बहुष्वासीनेषु कश्चित्कंचित्पृच्छति --- कतरो देवदत्तः, (कतमो यज्ञदत्त) इति। स आह --- योश्वे, यः पौठे इति। योश्वे यः पीठ इत्युक्ते निमित्तस्य निमित्तिकार्यार्थत्वादध्यवस्यति अयं देवदत्तोऽयं यज्ञदत्त इति। नेदानीमश्वस्य पीठस्य धा देवदत्त इति संज्ञा भवति।।
किं पुनर्निमित्तम्, को वा निमित्ती?।।
निर्ज्ञातोऽर्थो निमित्तम्। अनिर्ज्ञातोऽर्थो निमित्ती। इह च प्रत्ययोऽनिर्ज्ञातः, प्रकृत्युपपदोपाधयो निर्ज्ञाताः।।
क्व।
धातूपदेशे प्रातीपदिकोपदेशे च।। ते निर्ज्ञाता निमित्त्वेनाश्रीयन्ते।। (10)
(1।6।82 समाधानान्तरवार्तिकम्।। 2 ।।)
- प्रधाने कार्यसंप्रत्ययाद्वा सिद्धम् -
(भाष्यम्) अथ वा प्रधाने कार्यसंप्रत्ययो भवति।।
किं च प्रधानम्?।
प्रत्ययः। तद्यथा --- बहुषु यात्सु कश्चित्कंचित् पृच्छति को यातीति। स आह --- राजेति। राजेत्युक्ते
प्रधाने कार्यसंप्रत्ययाद्यः पृच्छति, यश्च कथयति, उभयोः संप्रत्ययो भवति।।
किं कृतं पुनः प्राधान्यम्?।।
अर्थकृतम्। यथा पुनर्लोकेऽर्थकृतं प्राधान्यम्।।
शब्दस्येदानीं किं कृतं प्राधान्यम्?। शब्दस्या पूर्वोपदेशः प्राधान्यम्। यस्यापूर्वोपदेशः स प्रधानम्।। प्रकृत्युपपदोपाधयश्च निर्दिष्टाः। क्व ?। धातूपदेशे प्रातिपदिकोपदेशे च।।
(विकारागमानां प्रत्ययसंज्ञापादनभाष्यम्)
यद्येव निमित्तस्य निमित्तिकार्यार्थत्वात् यद्वा ति। विकारागमानां तु प्राप्नोति हनस्त च त्रपुजतुनोः षुकू एतेषां ह्यपूर्वोपदेशात्प्राधान्यम्, निमित्तिनशेचैवैते।।
(1683 विकारागमानां प्रत्ययत्वापत्तिनिराकरणवार्तिकम्।। 6 ।। )
- विकारागमेषु च परविज्ञानात् -
( भाष्यम्) विकारागमेषु च परविज्ञानात् प्रत्ययसंज्ञा न भविष्यति। प्रत्ययः परो भवतीत्युच्यते। न च विकारागमाः परे (संभवन्ति)।।
(आक्षेपभाष्यम्)
किं पुनः कारणं समाने अपूर्वोपदेशे प्रत्ययः परो, न विकारागमाः परे।।
- षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात्-
(भष्यम् षष्ठीनिर्दिष्ठं विकारागमयुक्तं भवति। पञ्चमीनिर्दिष्टाच्च प्रत्ययो विधीयते।।
(1685 बाधकवार्तिकम्।। 5 ।। )
- प्रत्ययविधानानुपपत्तिस्तु-
(भाष्यम्) प्रत्ययविधिस्तु नोपपद्यते।। क्व ?। यत्र विकारागमाः शिष्यन्ते हनस्त च त्रपुजतुनोः षुकू इति।।
(अनुपपत्तिकारणप्रश्रभाष्यम्)
किं पुनः कारणं न सिध्यति।
(अनुपपत्तिकारणकथनभाष्यम्)
विकारागमयुक्तत्वात्। अपञ्चमीनिर्दिष्टत्वाच्च।।
(1685 पञ्चमीकरणवार्तिकम्।। 6 ।।)
- तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम्-
(भाष्यम्) तस्मात्तत्र पञ्चमीनिर्देशः कर्तव्यः।।
(सूत्रव्यत्यासकरणप्रश्रभाष्यम्)
(स तर्हि पञ्चमीनिर्देशः कर्तव्यः।। )
(यथान्यासस्थापनभाष्यम्)
न कर्तव्यः। इह तावद् हनस्त च इति धातोरिति वर्तते। त्रपुजतुनोः षुकू इति प्रातिपदिकादिति वर्तते।।
(आपत्तिभाष्यम्)
यद्येवं हनस्त च धातोः क्यप् भवतीति धातुमात्रात् क्यप् प्राप्नोति।।
(आपत्तिवारकभाष्यम्)
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति --- न धातु मात्रात् क्यप् भवति इति, यदयम् एतिस्तुशास्वृदृजुषः क्यप् इति परिगणनं करोति।।
अथ वा हन्तिरेवात्र धातु ग्रहणेनाभिसंभन्त्स्यते हन्तेस्तो भवति धातोः क्यप् भवतीति, कस्माद्? हन्तेरिति।।
(1687 समाधानान्तरवार्तिकम्।। 7 ।।)
(भाष्यम्) अथ वा अर्थाश्रयः प्रत्ययविधिः, यः स्वमर्थे प्रत्याययति स प्रत्ययः।।
किं वक्तव्यमेतत्?।
न हि।।
कथमनुच्यमानं गंस्यते?।
प्रत्यय इति महती संज्ञा क्रियते। संज्ञा च नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थे चहि संज्ञाकरणम्। तत्र महत्याः संज्ञायाः करण एतत्प्रयोजनम् अन्वर्थसंज्ञा यथा विज्ञायेन प्रत्याययतीति प्रत्ययः।।
(अन्वर्थसंज्ञाङ्गीकारदूषणभाष्यम्)
यदि प्रत्याययतीति प्रत्ययः, अविकादीनां प्रत्ययसंज्ञा न प्राप्नोति। न हि ते किंचित्प्रत्याययन्ति।।
(कर्मसाधनताङ्गीकारभाष्यम्)
एवं तर्हि --- प्रत्याय्यत इति प्रत्ययः।।
(कर्मसाधनतायां दूषणभाष्यम्)
एवमपि सन्नादीनां न प्राप्नोति।।
(उभयसाधनाङ्गीकारभाष्यम्।)
एवं तर्ह्युभयसाधनोयम् कर्तृसाधनः कर्मसाधनश्च।।
(अर्थप्रत्यायनहेतुप्रश्रभाष्यम्)
एवमपि कुत एतत् समाने अपूर्वोपदेशे त्रापुषं जातुषमित्यत्राकारस्तमर्थे प्रत्याययति, न पुनः षकार इति।।
(अर्थप्रत्यायनहेतुप्रतिपादनभाष्यम्)
अन्यत्राप्यकारेण तस्यार्थस्य प्रत्यायनान्मन्यामहे --- अकारस्तमर्थे प्रत्याययति, न पुनः षकार इति।। क्वान्यत्र?। बिल्वादिभ्योऽण्। बैल्वः।। प्रत्ययः।। 1 ।।
-3-1-2- परश्च (319)
(681 अधिकारसूत्रम्।। 3.1.2 सूत्रम्)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।।
(समाधानभाष्यम्)
परो यथा स्यात्, पूर्वो मा भूदिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। यमिच्छति पूर्वम्, आह तं विभाषा सुपो बहुच् पुरस्तात् इति।।
(समाधानान्तरभाष्यम्)
मध्ये तर्हि मा भूदिति।
(समाधानान्तरबाधकभाष्यम्)
मध्येपि यमिच्छति, आह तम् --- अव्ययसर्वनाम्नामकच् प्राक् टे रिति।। य इदानीमतोन्यः प्रत्ययः शेषः सोन्तरेण वचनं पर एव भविष्यतीति नार्थः परवचनेन।
(समाधानभाष्यम्)
एवमपि येषामेव प्रत्ययानां देशो नियम्यते, त एव नियतदेशाः स्युः। य इदानीमनियतदेशः स कदाचित्परः कदाचित्पूर्वः कदाचिन्मध्ये स्यात्। तद्यथा --- मातुर्वत्सः कदाचिदग्रतः कदाचित्पृष्ठतः, कदाचित्पार्श्वतो भवति। पर एव यथा स्यादित्येवमर्थं परवचनम्।।
(1688 सूत्रप्रत्याख्यानवार्तिकम्।। 1 ।।)
- परवचनमनर्थकं पञ्चमीनिर्दिष्टाद्धि परस्य (कार्यम्)-
(भाष्यम्) परग्रहणमनर्थकम्। किं कारणम्?। पञ्चमीनिर्दिष्टाद्धि परस्य कार्यमुच्यते। तद्यथा --- -द्व्यन्तरुपसर्गेभ्योऽप इर्दिति।
(प्रत्याख्यानानुपपत्तिभाष्यम्)
विषम उपन्यासः। सतस्तत्र परस्य कार्यमुच्यते।
इहेदानीं कस्य सतः परस्य कार्यं भवितुमर्हति।।
(प्रत्याख्यानोपपादकभाष्यम्)
इहापि सत एव। कथम्?। स्वाभाविकं परत्वम्।
(अनुयोगभाष्यम्)
अथ वाचनिके परत्वे सति परग्रहणेनार्थः कार्यम् --- यदसौ परतः स्यात्।।
अथ वा --- यदस्य परस्य सतः संज्ञा स्यात्।।
(सूत्रावश्यकताभाष्यम्)
यत्र तर्हि पञ्चमी नास्ति तदर्थमयं योगो वक्तव्यः।।
क्व (च) पञ्चमी नास्ति?।
यत्र विकारागमाः शिष्यन्ते।।
क्व च विकारागमाः शिष्यन्ते?। हनस्त च त्रपुजतुनोः षुक् इति।।
(1689 सूत्रप्रत्याख्यानसाधकवार्तिकम्।। 2 ।।)
- विकारागमेषु चोक्तम्-
(भाष्यम्) विकारागमेषु चोक्तम्।।
किमुक्तम्?।
प्रत्ययविधानानुपपत्तिस्तु तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम्।। इति।।
- अत्यन्तापरदृष्टानां वा परभूतलोपार्थम्-
(भाष्यम्) अत्यन्तापरदृष्टानां तर्हि परभूतलोपार्थं परग्रहणं कर्तव्यम्। य एतेऽत्यन्तापरदृष्टाः क्विबादयो लुप्यन्ते तेषां परभूतानां लोपो यथा स्यात्। अपरभूतानां मा भूदिति।।
किं पुनरत्यन्तापरदृष्टानां परभूतलोपवचने प्रयोजनम्?।
कितिणितीति कार्याणि यथा स्युरिति।।
(सूत्रावश्यकतानिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति --- अत्यन्तापरदृष्टाः परभूता एव लुप्यन्ते इति, यदयं तेषु कादीननुबन्धानासजति।।
कथं कृत्वा ज्ञापकम्?।
अनुबन्धासञ्जन एतत्प्रयोजनम् --- कितिणितीति कार्याणि यथा स्युरिति। यदि चात्यन्तापरदृष्टाः परभूता लुप्यन्ते ततोनुबन्धासञ्जनमर्थवद् भवति।।
(1691 सूत्रावश्यकतावार्तिकम्।। 4 ।।)
- प्रयोगनियमार्थं वा -
(भाष्यम्) प्रयोगनियमार्थं तर्हि परग्रहणं कर्तव्यम्। परभूतानां प्रयोगो यथा स्यात्। अपरभूतानां मा भूदिति।।
(अनुयोगभाष्यम्)
अस्ति पुनः किंचिदनिष्टं दृश्यते यदर्थो नियमः स्यात्।।
(समाधानभाष्यम्)
अस्तीत्याह।।
(1692 अप्रत्ययप्रकृतिदर्शिवार्तिकम्।। 5 ।।)
- प्रकृतेरर्थाभिधानेऽप्रत्ययदर्शनात्-
(भाष्यम्) प्रकृतिरर्थाभिधाने अप्रत्ययिका दृश्यते --- -क्व स देवदत्तः क्व स यज्ञदत्तः बभ्रुः, मण्डुः, लमक इति। बाभ्रव्यो माण्डव्यो लामकायन इति प्रयोक्तव्ये बभ्रुर्मण्डुर्लमक इति प्रयुज्यते।।
(1693 अप्रकृतिकप्रत्ययदर्शिवार्तिकम्।। 6 ।।)
- द्वयसादीनां च केवलानां प्रयोगो दृश्यते --- किमस्य द्वयसम्, किमस्य मात्रम्, काद्यतिथीति।।
(द्वयसादीनां प्रातिपदिकत्वदर्शिभाष्यम्)
द्वयसादयो वृत्तिजसदृशाः अवृत्तिजाः यथा बहुस्तथा।
(1694 सूत्रावश्यकतादर्शिवार्तिकम्।। 7 ।।)
- वावचने चानुत्पत्त्यर्थम्-
(भाष्यम्) वावचने चानुत्पत्त्यर्थं परग्रहणं कर्तव्यम्। वावचने चानुत्पत्तिर्यथा स्यात्।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि वै तपरग्रहणे कथमिव वावचनेनानुत्पत्तिर्लभ्या?।।
(समाधानभाष्यम्)
क्रियमाणे परग्रहणे वावचने वा पर इत्येतदभिसंबध्यते। अक्रियमाणे परग्रहणे वाचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञायाः। न च संज्ञाया भावाभावाविष्येते।।
(1698 उभयनियमाङ्गीकारसिद्धान्तवार्तिकम्।। 11 ।।
- सिद्धं तूभयनियमात्-
(भाष्यम्) सिद्धमेतत्।। कथम्?। उभयनियमात्। उभयनियमोयम् --- प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव च प्रकृतिरिति।।
किं वक्तव्यमेतत्?।
परग्रहणसार्मथ्याद् अन्तरेणापि परग्रहणं स्यादेवायं परः। पर एव स्यादित्येवमर्थं परग्रहणम्।। परश्च।। 2 ।।
-3-1-3- आद्युदात्तश्च (619)
(382 अधिकारसूत्रम्।। 6।1।1 आ. 3 सूत्रम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।
(समाधानभाष्यम्) आद्युदात्तो यथा स्यात्। अन्तोदात्तो मा भूदिति।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। यमिच्छत्यन्तोदात्तम्, करोति तत्र चकारमनुबन्धम्। आह च --- चितोन्तउदात्तः इति।।
(प्रयोजनभाष्यम्)
मध्योदात्तस्तर्हि मा भूदिति।।
(प्रयोजननिराकरणभाष्यम्)
मध्योदात्तमपि यमिच्छति, तत्र रेफमनुबन्धं करोति। आह च --- उपोत्तमं रिति इति।।
(प्रयोजनभाष्यम्)
अनुदात्तस्तर्हि मा भूदिति।।
(प्रयोजननिराकरणभाष्यम्)
अनुदात्तमपि यमिच्छति, तत्र पकारमनुबन्धं करोति। आह च अनुदात्तौ सुप्पितौ इति।।
(प्रयोजनभाष्यम्)
स्वरितस्तर्हि मा भूदिति।।
(प्रयोजननिराकरणभाष्यम्)
स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धमनुबन्धम्। आह च तित्स्वरितम् इति।।
(प्रयोजननिराकणोपसंहारभाष्यम्)
एवमपि येषामेव प्रत्ययानां स्वरो नियम्यते त एव नियतस्वराः स्युः य इदानीमनियतस्वरः स कदाचिदाद्युदात्तः कदाचिदन्तोदात्तः कदाचिन्मध्योदात्तः कदाचिदनुदात्तः कदाचित्स्वरितः स्यात्। आद्युदात्त एव यथा स्यादित्येवमर्थमिदमुच्यते।।
(स्वरप्रकरणं विनाप्यत्र प्रत्ययसंज्ञासंनियोगेन स्वरविधिप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थं प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वमनुदात्तत्वं चोच्यते, न यत्रैवान्यः स्वरः, तत्रैवाय मप्युच्येत --- ञ्ञ्नित्यादिर्नित्यम् --- ठप्रत्ययस्य च--अदुपदेशाल्लसार्वधातुकमनुदात्तम् --- सुप्पितौ च इति। तत्रायमप्यर्थः --- द्विराद्युदात्तग्रहणं द्विश्चानुदात्तग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते।।
(समाधानभाष्यम्)
- आद्युदात्तस्य प्रत्ययसंज्ञासन्नियोगे प्रयोजनं यस्य संज्ञाकरणं तस्याद्युदात्तार्थम्-
(भाष्यम्) आद्युदात्तस्य प्रत्ययसंज्ञासंनियोगकरण एतत् प्रयोजनम् --- यस्य संज्ञा क्रियते तस्याद्युदात्तत्वं यथा स्यात्।।
(समाधानवार्तिकद्वितीयखण्डम्।। 1 ।।)
- असन्नियोगे हि यस्मात्स विहितस्तदादेराद्युदात्तत्वं तदन्तस्य चानुदात्तत्वम्-
(भाष्यम्) अक्रियमाणे हि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतिःथ्द्य;ति तदादेरेवाद्युदात्तत्वं प्रसज्येत, तदन्तस्य चानुदात्तत्वम्।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे अनुदात्तत्वे च कस्मादेव तदादेराद्युदात्तत्वं न भवति तदन्तस्य वानुदात्तत्वम्।।
(समाधानभाष्यम्)
उत्पन्न प्रत्ययः प्रत्ययाश्रयाणां कार्याणां निमित्तं भवति नोत्पद्यमानः। तद्यथा --- -कृतो घटो घटाश्रयाणां कार्याणां निमित्तं भवति, न क्रियमाणः।।
(1700 समाधानवार्तिकम्।। 2 ।। )
- न वा प्रकृतेराद्युदात्तवचनं ज्ञापकं तदादेरग्रहणस्य -
(भाष्यम्) न वैष दोषः। किं कारणम्?। यदयं ञ्ञ्नित्यादिर्नित्यम् इति प्रकृतेराद्युदात्तत्वं शास्ति। तज् ज्ञापयत्याचार्यः --- न तदादेराद्युदात्तत्वं भवतीति।।
(आपत्तिभाष्यम्)
तदन्तस्य तर्ह्यनुदात्तत्वं प्राप्नोति।।
(1701 आपत्तिवारणवार्तिकम्।। 3 ।।
- प्रकृतिस्वरविधानसार्मथ्यात् प्रत्ययस्वराभावः-
(भाष्यम्) यदयं धातोरन्तः प्रातिपदिकस्य चान्त इति प्रकृतेरन्तोदात्तत्वं शास्ति, तज्ज्ञापयत्याचार्यः --- -न तदन्तस्यानुदात्तत्वं भवती ति।।
कथं कृत्वा ज्ञापकम्?।
यत्र ह्यनुदात्तः प्रत्ययः प्रकृतिस्वरस्तत्र प्रयोजयति।
(1702 अत्रसूत्रप्रयोजनवार्तिकम्।। 4 ।।)
- आगमानुदात्तार्थं वा -
(भाष्यम्) आगमानुदात्तार्थे तर्हि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमुच्यते। प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे कृते आगमा अनुदात्ता यथा स्युरिति।।
(1703 आगमानुदात्तत्वप्रयोजननिराकरणवार्तिकम्।। 5 ।।
- न वागमानुदात्तवचनात्-
(भाष्यम्) न वा एतदपि प्रयोजनमस्ति।। किं कारणम्?। आगमानुदात्तवचनात्। आगमा अनुदात्ता भवन्तीति वक्ष्यामि।।
(अनुयोगभाष्यम्)
के पुनरागमा अनुदात्तत्वं प्रयोजयन्ति?।
(उत्तरभाष्यम्)
इट् --- लविता।
?B(इडागमानुदात्तत्वस्य प्रयोजनत्वनिराकरणभाष्यम्)
इट् तावन्न प्रयोजयति।।
(इडागमे प्रयोजनोपपादकभाष्यम्)
इदमिह संप्रधार्यम् --- इट् क्रियतामाद्युदात्तत्वमिति।। किमत्र कर्तव्यम्?। परत्वादिट्।।
नित्यमाद्युदात्तत्वम्। कृतेपीटि प्राप्नोति अकृतेपि प्राप्नोति।।
इडपि नित्यः। कृतेप्याद्युदात्तत्वे प्राप्नोति अकृतेपि।।
अनित्य इट्। अन्यथा स्वरस्य कृते आद्युदात्तत्वे प्राप्नोति। अन्यथा स्वरस्याकृते प्राप्नोति। स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति।।
आद्युदात्तत्वमपि अनित्यम्। अन्यस्य कृते इटि प्राप्नोति। अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति।। उभयोरनित्ययोः परत्वादिडागमः।।
(इडागमे प्रयोजननिराकरणोपपादनभाष्यम्)
अन्तरङ्गं तर्हि आद्युदात्तत्वम्। काऽन्तरङ्गता?। उत्पत्तिसन्नियोगेनाद्युदात्तत्वमुच्यते। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्येडागमः।।
आद्युदात्तत्वमपि नान्तरङ्गम्। यावता प्रत्यय आश्रिते प्रकृतिरप्याश्रिता भवति।।
अन्तरङ्गमेवाद्युदात्तत्वम्।। कथम्?। इदानीमेव ह्युक्तं --- न प्रत्ययस्वरवि धौ तदादिविधिर्भवतीति।।
(सीयुडागमे प्रयोजनभाष्यम्)
सीयुट् तर्हि प्रयोजयति।
(1704 सीयुडागमे प्रयोजनोपपादनवार्तिकम्।। 6 ।।)
- अवचने हि सीयुडादेराद्युदात्तत्वम्-
(भाष्यम्) अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणेपि प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे सीयुडादेर्लिङ आद्युदात्तत्वं प्रसज्येत। लविषीय पविषीय।।
(वार्तिककरणानुयोगभाष्यम्)
तत्तर्हि वक्तव्यम् --- आगमा अनुदात्ता भवन्तीति।।
(तद्वार्तिकस्य ज्ञापकसिद्धत्वकरणभाष्यम्)
न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति --- -आगमा अनुदात्ता भवन्ति इति, यदयं यासुट् परस्मैपदेषूदात्तो ङिच्चेत्याह।।
(ज्ञापकत्वानुपपत्तिभाष्यम्)
नैतदस्ति ज्ञापकम्। वक्ष्यत्येतत् यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं च इति।
(ज्ञापकत्वमण्डनभाष्यम्)
शक्यमनेन वक्तुम् --- -यासुट् परस्मैपदेषु भवति, अपिच्च लिङ् भवतीति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्ररीयांसं यत्नमारभते तज्ज्ञापयत्वाचार्यः --- आगमा अविद्यमानवद्भवन्ति इति।
(1705 प्रत्ययसंज्ञासंनियोगेनस्वरविधिप्रयोजन वार्तिकम्।। 7 ।।)
- आद्युदात्तस्य वा लोपार्थम्-
(भाष्यम्) आद्युदात्तस्य तर्हि लोपार्थे प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमुच्यते। प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरः सिद्धो भवति। स्रौग्घ्नी। माथुरी। अत्र हि परत्वाल्लोपाः स्वरं बाधेत।।
(1706 प्रयोजननिराकरणवार्तिकम्।। 8 ।।)
- न वा बहिरङ्गलक्षणत्वात्-
(भाष्यम्) न वैतदपि प्रयोजनमस्ति। किं कारणम्?। बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षणो लोपः। अन्तरङ्गः स्वरः। असिद्धं बहिरङ्गमन्तरङ्गे।। अवश्यं चैषा परिभाषा आश्रयितव्या।
(17007 परिभाषाभावे दूषणवार्तिकम्।। 9 ।।)
- अवचने हि ञ्ञ्नित्कित्स्वतिप्रसङ्गः-
(व्याख्यानभाष्यम्)
अक्रियमाणायां ह्यस्यां परिभाषायां क्रियमाणेपि प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वे ञ्ञ्नित्कित्सु अतिप्रसङ्गः स्यात्। औत्सी कंसिकी आत्रेयीति। अत्र हि परत्वाल्लोपो ञ्ञिन्नित्कित्स्वरान् बाधेत।।
(अन्तरङ्गपरिभाषानङ्गीकारेपि दूषणोद्धारभाष्यम्)
नैष दोषः। ञ्ञिन्नित्कित्स्वराः प्रत्ययस्वरस्यापवादाः। न चापवादविषये उत्सर्गोभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः। प्रकल्प्य चापवादविषयं तत उत्सर्गोभिनिविशते। न तावदत्र कदाचित्प्रत्ययस्वरो भवति, अपवादान् ञ्ञ्नित्कित्स्वरान् प्रतीक्षते।।
कंसिक्यां भूयान् परिहारः --- -अन्यस्यात्र उदात्तत्वम्, अन्यस्य लोपः। आदेरुदात्तत्वम् अन्त्यस्य लोपः।।
(परिभाषास्वीकारस्यावश्यकत्वेन प्रत्ययसंज्ञासंनियोगेनाद्युदात्तत्वस्वरविधेरनावश्यकत्वभाष्यम्)
इदं तर्हि आत्रेयी परत्वाल्लोपः कित्स्वरं बाधेत। तस्मादेषा परिभाषाश्रयितव्या। एतस्यां च सत्यां शक्यं प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वमवक्तुम्।
(1708 संनियोगस्वरविधौ प्रयोजनान्तरवार्तिकम्।। 10 ।।)
- प्रत्ययाद्युदात्तत्वाद् धातोरन्तः-
(भाष्यम्) प्रत्ययाद्युदात्तत्वाद् धातोरन्त इत्येतद्भवति विप्रतिषेधेन। प्रत्ययाद्युदात्तत्वस्यावकाशः --- यत्रानुदात्ता प्रकृतिः --- समत्वम् सिमत्वम्। धातोरन्त इत्येतस्यावकाशः --- यत्रानुदात्तः प्रत्ययः --- पचति पठतीति। इहोभयं प्राप्नोति --- गोपायति धूपायति। धातोरन्त इत्येतद्भवति विप्रतिषेधेन।।
(1709 प्रासङि्गकं प्रत्ययसंज्ञासंनियोगेनस्वरान्तरविधि प्रयोजनवार्तिकम्।। 11 ।।)
- पित्स्वरात्तित्स्वरष्टापि-
(भाष्यम्) पित्स्वरात्तित्स्वरष्टापि भवति विप्रतिषेधेन। पित्स्वरस्यावकाशः --- पचति पठति। तित्स्वरस्यावकाशः --- कार्यं हार्यम्। इहोभयं प्राप्नोति --- -कार्या हार्या। तित्स्वरो भवति विप्रतिषेधेन ।।
(1710 प्रत्ययसंज्ञासंनियोगशिष्टस्वरविधिप्रयोजन वार्तिकम्।। 12 ।।)
- चित्स्वरश्चापि पित्स्वरात्-
(भाष्यम्) पित्स्वराच्चित्स्वरश्चापि भवति विप्रतिषेधेन। चित्स्वरस्यावकाशः --- चलनः कम्पनः। पित्स्वरस्य --- स एव। इहोभयं प्राप्नोति आम्बष्ठ्या सौवीर्या। चित्स्वरो भवति विप्रतिषेधेन।।
(1711 विप्रतिषेधरूपप्रयोजननिराकरणवार्तिकम्।। 13 ।।)
- न वाद्युदात्तत्वस्य प्रत्ययसंज्ञासन्नियोगात्-
(भाष्यम्) न वार्थो विप्रतिषेधेन ।। किं कारणम्?। आद्युदात्तत्वस्य प्रत्ययसंज्ञासन्नियोगात्। प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे कृते सति शिष्टत्वाद्धातुस्वरो भविष्यति।।
(विप्रतिषेधस्यायुक्तत्ववर्णनभाष्यम्)
अयं चाप्ययुक्तो विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च। किं कारणम्?।
(1712 विप्रतिषेधायुक्तत्वहेतुवार्तिकम्।। 14 ।।)
- टापि स्वरितेनैकादेशः-
(भाष्यम्) टाप्यपि स्वरितेनैकादेशो भविष्यति।। इदमिह संप्रधार्यम् --- स्वरितत्वं क्रियताम्,एकादेश इति। किमत्र कर्तव्यम्?। परत्वात्स्वरितत्वम्।।
नित्य एकादेशः। कृते स्वरितत्वे प्राप्नोति अकृतेपि।।
स्वरितत्वमपि नित्यम्। कृतेप्येकादेशे प्राप्नोति अकृतेपि।।
अनित्यं स्वरितत्वम्। अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति।।
एकादेशोप्यनित्यः। अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्याकृते स्वरभिन्नस्य च प्राप्नोति अन्यथास्वरस्याकृते स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति।। (उभयोरनित्ययोः परत्वात् स्वरितत्वम्)।।
अन्तरङ्गस्तर्हि एकादेशः। कान्तरङ्गता?। वर्णावाश्रित्यैकादेशः, पदस्य स्वरितत्वम्।।
स्वरितत्वमप्यन्तरङ्गम्।। कथम्?। वक्ष्यत्येतत् --- पदग्रहणं परिमाणार्थम् इति। उभयोरन्तरङ्गयोः परत्वात् स्वरितत्वम्। स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो भविष्यति।।
(पित्स्वरचित्स्वरविप्रतिषेधायुक्तत्वभाष्यम्)
अयं चाप्ययुक्तो विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च।। किं कारणम्?।
(1713 हेतुवार्तिकम्।। 14 ।।)
- चापि चित्करणात्-
(भाष्यम्) चापि चित्करणसार्मथ्यादन्तोदात्तत्वं भविष्यति।। आद्युदात्तश्च।। 6 ।।
-3-1-5- गुप्तिज्किद्भ्यः सन् (622)
(686 सन्प्रत्ययविधिसूत्रम्।। 6.1.1 आ.4 )
(आक्षेपभाष्यम्)
गुप्तिज्कितमाना अनुदात्तेतः। गुपादिष्वनुबन्धकरणं किमर्थम्?।।
(1714 प्रयोजनवार्तिकम्।। 1 ।।)
।। ।। गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्-
(भाष्यम्) गुपादिष्वनुबन्धाः क्रियन्ते। आत्मनेपदं यथा स्यात्।।
(अनुबन्धवैर्यथ्यभाष्यम्)
अथ क्रियमाणेष्वप्यनुबन्धेषु आत्मनेपदं न प्राप्नोति। किं कारणम्?। सना व्यवहितत्वात्।।
(आत्मनेपदार्थमनुबन्धसार्थक्यभाष्यम्)
पूर्ववत्सनः इत्येवं भविष्यति।।
(आत्मनेपदानुपपत्तिभाष्यम्)
पूर्ववत्सनः इत्युच्यते। न चैतेभ्यः प्राक् सन आत्मनेपदम्, नापि परस्मैपदं पश्यामः।।
(आत्मनेपदोपपादनभाष्यम्)
एवं तर्ह्यनुबन्धकरणसार्मथ्याद्भविष्यति।।
अथ वा अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति। तद्यथा --- -गोः सक्थनि कर्णे वा कृतं लिङ्गं गोर्विशेषकं भवति।।
(अवयवलिङ्गस्य समुदायविशेषकत्वे दूषणभाष्यम्)
यदि अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति। तदा जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
अवयवे कृतं लिङ्गं तस्य समुदायस्य विशेषकं भवति यं समुदायं योऽवयवो न व्यभिचरति। सन्नन्तमेव च न व्यभिचरति। णिजन्तं पुर्नव्यभिचरति। तद्यथा। गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति,न गोमण्डलस्य।। गुप्तिज्किद्भ्यः सन्।। 5 ।।
-3-1-6- मान्बधदान् शान्भ्यो दीर्घश्चाभ्यासस्य (9623)
(684 सन्विधिसूत्रम्।। 6.1.1. आ. 5 सूत्रम्)
(अभ्यासरूपसाधनाधिकरणम्)
(1715 आक्षेपवार्तिकम्।। 1 ।।)
- अभ्यासदीर्घेऽवर्णस्य दीर्घप्रसङ्गः-
(भाष्यम्) अभ्यासदीर्घत्वेऽवर्णस्य दीर्घत्वं प्राप्नोति --- मीमांसते
(अभ्यासरूपसाधनभाष्यम्)
ननु च इत्वे कृते दीर्घत्वं भविष्यति।।
(अभ्यासरूपसाधनानुपपत्तिभाष्यम्)
कथं पुनरुत्पत्तिसन्नियोगेन दीर्घत्वमुच्यमानमित्वं प्रतीक्षते।।
(प्रतिबन्दीभाष्यम्)
अथ कथमभ्यासं प्रतीक्षते।।
अथ कथमिति। यथाभ्यासस्येति वचनाद्दीर्घत्वमभ्यासमपेक्षते तथा वचनान्तरविहितमित्वमपीति भावः।।
(प्रतिबन्द्युत्तरभाष्यम्)
वचनादभ्यासं प्रतीक्षते। अभ्यासस्य दीर्घत्वविधानात्। इत्वं पुनर्न प्रतीक्षते।।
(1716 समाधानवार्तिकम्।। 2 ।।)
- न वाभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वात्-
(भाष्यम्) न वैष दोषः। किं कारणम्?।
अभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वात्। अभ्यासविकारेषु अपवादा उत्सर्गान्नबाधन्तेःथ्द्य;त्येवं दीर्घत्वमुच्यमानमित्त्वं न बाधिष्यते।।
(न्यासान्तरभाष्यम्)
अथ वा मान्बधदान्शान्भ्य इर् चाभ्यासस्य इति वक्ष्यामि।।
(न्यासान्तरदूषकभाष्यम्)
एवमपि हलादिः शेषापवाद इर्कारः प्राप्नोति।।
(न्यासान्तरेण समाधानभाष्यम्)
इर् चाच इति वक्ष्यामि।।
(न्यासान्तरेण समाधानभाष्यम्)
अथ वा मान्बधदान्शान्भ्यो दीर्घश्चेतोभ्यासस्य इति वक्ष्यामि।।
(न्यासान्तरदूषकभाष्यम्)
सिद्ध्यति। सूत्रं तर्हि भिद्यते
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् --- अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वप्रसङ्गः इति।।
(परिहारस्मारणभाष्यम्)
परिहृतमेतत् --- न वाभ्यासविकारेषु अपवादस्योत्सर्गाबाधकत्वाद् इति।।
(परिहारान्तरभाष्यम्)
अथवा नैवं विज्ञायते --- दीर्घश्च अभ्यासस्येति।।
कथं तर्हि?।
दीर्घश्च आभ्यासस्येति।
किमदमाभ्यासस्येति?।
अभ्यासस्य विकार आभ्यासः तस्येति।। मानबधदान्।। 6 ।।
-3-1-7- धातोः कर्मणः समानकर्तृकादिच्छायां वा (623)
(685 सन्प्रत्ययविधिसूत्रम्।। 6.1.1 आ. 6 सूत्रम्)
(धातुग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
धातोरिति किमर्थम्?।।
(आक्षेपवारणभाष्यम्)
प्रकर्तुमैच्छत् प्राचिकीर्षत्। सोपसर्गादुत्पत्तिर्मा भूदिति।।
(1717 धातुग्रहणानर्थक्यवार्तिकम्।। 1 ।।)
- कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यम्-
(भाष्यम्) कर्मग्रहणात्सन्विधौ धातुग्रहणमनर्थकम्। कर्मणा समानकर्तृकादिच्छायां वा सन् भवतीत्येव धातोरुत्पत्तिर्भविष्यति।।
(1719 आनर्थक्यबाधकवार्तिकम्।। 2 ।।)
।। ।। सोपसर्गं वै कर्म ।।
(भाष्यम्) सोपसर्गकमिह वै कर्म। तत उत्पत्तिः प्राप्नोति।।
(1719 आनर्थक्यसाधकवार्तिकम्।। 3 ।।)
- सोपसर्गं कर्मेति चेत् कर्मविशेषकत्वात् उपसर्गस्यानुपसर्गं कर्म-
(भाष्यम्) सोपसर्गे कर्मेति चेत् कर्मविशेषक उपसर्गः अनुपसर्गमेव हि कर्म।।
अवश्यं चैतदेवं विज्ञेयम्।
(1720 अनुपसर्गस्य कर्मत्वसाधकवार्तिकम्।। 4 ।।)
- सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वात्-
(भाष्यम्) यो हि मन्यते सोपसर्गं कर्मेति क्रियमाणेऽपि तस्य धातुग्रहणे सनोऽविधिः स्यात्। किं कारणम्?। अकर्मत्वात्।।
(आनर्थक्यबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। सुबन्तादुत्पत्तिर्मा भूत्।।
(1721 आनर्थक्यसाधकवार्तिकम्।। 5 ।।)
- सुबन्ताच्चाप्रसङ्गः क्यजादीनामपवादत्वात्-
(भाष्यम्) सुबन्ताच्च सनोऽप्रसङ्गः। किं कारणम्? क्यजादीनामपवादत्वात्। सुबन्तात्क्यजादयो विधीयन्ते। ते अपवादत्वात् बाधका भविष्यन्ति।।
(1722 आनर्थक्यसाधकवार्तिकम्।। 6 ।।)
- अनभिधानाद्वा -
(भाष्यम्) अथवा अनभिधानात्सुबन्तादुत्परत्तिर्न भविष्यति। न हि सुबन्तादुत्पद्यमानेन सना इच्छाभिधानमस्ति।।
इयं तावदगतिका गतिः - यदुच्यते अनभिधानादिति। यदप्युच्यते सुबन्ताच्चाप्रसङ्गः क्यजदीनामपवादत्वाद् इति, भवेत्कस्माच्चिदप्रसङ्गः स्यादिति आत्मेच्छायाम्। परेच्छायां तु प्राप्नोति राज्ञः पुत्रमिच्छतीति।
एवं तर्हि इदमिह व्यपदेश्यम्। सदाचार्यो न व्यपदिशति। किं समावनकर्तृकादिच्छायां वा इत्युच्यते। न च सुबन्तस्य समानः कर्तास्ति।
एवमपि भवेत् कस्माच्चिदप्रसङ्गः स्यात्, यस्य कर्ता नास्ति। इह तु प्राप्नोति - आसितुमिच्छति शयितुमिच्छतीति।
(आनर्थक्यबाधकभाष्यम्)
इच्छायामर्थे सन् विधीयते इच्छार्थेषु च तुमुन्। तत्र तुमुनोक्तत्वात्तस्यार्थस्य सन् न भविष्यति।।
(आनर्थक्यबाधकभाष्यम्)
एवमपीह प्राप्नोति --- आसनमिच्छति शयनमिच्छतीति।।
(आनर्थक्यसाधकभाष्यम्)
इह यो विशेष उपादीयते उपाधिर्वा द्योत्ये तस्मिंस्तेन भवितव्यम्। यश्चेहार्थो गम्यते --- आसितुमिच्छति शयितुमिच्छतीति --- स्वयं तां क्रियां कर्तुमिच्छतीति। नासाविह गम्यते --- आसनमिच्छति शयनमिच्छति शयनमिच्छतीति - अन्यस्याप्यासनमिच्छतीत्येषोऽर्थो गम्यते।।
अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते --- अद्योत्ये तस्मिंस्तेन भवितव्यमिति। क्रियमाणेऽपि हि तस्य धातुग्रहण
इह प्रसज्येत --- संगतमिच्छति यज्ञदत्तो देवदत्तेनेति।।
(कर्म --- समानकर्तृकपदप्रयोजनाधिकरणम्।)
(1723 कर्म--समानकर्तृकग्रहणानर्थक्यवार्तिकम्।। 7 ।।)
- कर्मसमानकर्तृकग्रहणानर्थक्यमिच्छाभिधाने प्रत्ययविधानात्-
(भाष्यम्) कर्मसमानकर्तृकग्रहणमनर्थकम्। किं कारणम्? इच्छाभिधाने प्रत्ययविधानात्। इच्छायामभिधेयायां
सन्विधीयते।।
(1724 आनर्थक्यसाधकवार्तिकम्।। 8 ।।)
- अकर्मणो ह्यसमानकर्तृकाद्वानभिधानात्-
इच्छायामभिधेयायां सन्विधीयते। न चाकर्मणोऽसमानकर्तृकाद्वा उत्पद्यमानेन सना इच्छाया अभिधानं स्यात्। अनभिधानात् तत उत्पत्तिर्न भविष्यति।।
(1725 धातुग्रहणानर्थक्यबाधकवार्तिकम्।। 9 ।।)
- अङ्गपरिमाणार्थं तु -
(भाष्यम्) अङ्गपरिमाणार्थे तर्ह्यन्यतरत्कर्तव्यं धातुग्रहणं कर्मग्रहणं वा। अङ्गपरिमाणं ज्ञास्यामीति।।
किं पुनरत्र ज्यायः?।
धातुग्रहणमेव ज्यायः। अङ्गपरिमाणं चैव विज्ञातं भवति। अपि च धातोर्विहितः प्रत्ययः शेष आर्धधातुकसंज्ञो भवतीति सन आर्थधातुकसंज्ञापि सिद्धा भवति।।
(सिद्धान्तिकर्तृकमुपालम्भभाष्यम्)
यच्चाप्येतदुक्तम् --- कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यं सोपसर्गं कर्मेति चेत् कर्मविशेषकत्वादुपसर्गस्यानुपसर्गे कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वाद् --- -इति।। स्वपक्षोऽनेन वर्णितः. युक्तमिह द्रष्टव्यं - किं न्याय्यं कर्मेति।।
(सिद्धान्तिभाष्यम्)
एतच्चात्र युक्तम् --- यत्सोपसर्गकं कर्म स्यात्।।
(पूर्वदत्तदूषणोद्धारभाष्यमेकदेशिनः)
ननु चोक्तम् --- सोपसर्गस्य कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मत्वाद् --- इति।। नैष दोषः। कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी कर्मणो धातोरिति। किं तर्हि? अवयवयोगे एषा षष्ठी --- कर्मणो यो धातुरवयव इति।।
(अवयवयोगषष्ठीदूषणभाष्यम्)
यद्यवयवयोगा षष्ठी। केवलादुत्पत्तिर्न प्राप्नोति चिकीर्षति जिहीर्षतीति।।
(अवयवयोगषष्ठीसमर्थनभाष्यम्)
एषोऽपि व्यपदेशिवद्भावेन कर्मणो धातुरवयवो भवति।।
(व्यपदेशिवद्भावदूषणभाष्यम्)
कामं तर्ह्यनेनैव हेतुना क्यजपि कर्तव्यः --- महान्तं पुत्रमिच्छतीति कर्मणो यत्सुबन्तमवयवः इति।।
(व्यपदेशिवद्भावदूषणभाष्यम्)
न कर्तव्यः। असार्मथ्यान्न भविष्यति।।
कथमसार्मथ्यम्?।
सापेक्षमसमर्थं भवतीति।।
(1726 वावचनानर्थक्यवार्तिकम्।। 10 ।।)
- वा वचनाऽऽनर्थक्यं च तत्र नित्यत्वात्सनः-
(भाष्यम्) वा वचनं चाऽनर्थकम्। किं करणम्? तत्र नित्यत्वात्सनः। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। स्वभावतश्चैतद्भवति वाक्यं च प्रत्ययश्च। तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञाया भावाभावाविष्येते। तस्मान्नार्थो वावचनेन।।
(1727 लघुन्यासप्रदर्शकपूर्तिवार्तिकम्।। 11 ।।)
- तुमुन्नन्ताद्वा तस्य च लुग्वचनम्-
(भाष्यम्) तुमुन्नन्ताद्वा सन् वक्तव्यः तस्य च तुमुनो लुग्वक्तव्यः। कर्तुमिच्छति चिकीर्षतीति।।
(1728 लघुन्यासप्रदर्शकपूर्तिवार्तिकम्।। 12 ।।)
- लिङुत्तमाद्वा -
(भाष्यम्) लिङुत्तमाद्वा सन्वक्तव्यः। तस्य च लिङो लुक् वक्तव्यः। कुर्यामितीच्छति चिकीर्षति।।
(1729 न्यूनतापूर्तिवार्तिकम्।। 13 ।।)
- आशङ्कायामचेतनेषूपसंख्यानम्-
(भाष्यम्) आशङ्कायामचेतनेषूपसंख्यानं कर्तव्यम्। अश्मा लुलुठिषते। कूलं पिपतिषति।।
किं पुनः कारणं न सिध्यति।।
एवं मन्यते चेतनावत एतद्भवतीच्छेति। कूलं चाचेतनम्।।
(अचेतनग्रहणखण्डनभाष्यम्)
अचेतनग्रहणेन नार्थः, आशङ्कायाम् इत्येव। इदमपि सिद्धं भवति --- श्वा मुमूर्षतीति।।
(1730 आशङ्कायामितिवार्तिकप्रत्याख्यानवार्तिकम्।। 14 ।। )
- न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिः-
(भाष्यम्) न वा वक्तव्यम्। किं कारणम्? तुल्यकारणत्वात्। तुल्यं हि कारणं चेतनावति देवदत्ते कूले चाचेतने ।। किं कारणम्?।
इच्छाया हि प्रवृत्तित उपलब्धिर्भवति। योऽप्यसौ कटं चिकीर्षुर्भवति नासावाघोषयति कटं करिष्यामीति। किं तर्हि? सन्नद्वं रज्जुकीलपूलपाणिं दृष्ट्वा तत इच्छा गम्यते।। कूलस्यापि पिपतिषतो लोष्टाः शीर्यन्ते, भिदा उपजायते देशान्तरमुपसंक्रामति।। श्वानः खल्वपि मुमूर्षवः एकान्तशीलाः शूनाक्षाश्च भवन्ति।।
(1731 आशङ्कावार्तिकवैर्यथ्यवार्तिकम्।। 15 ।।)
- उपमानाद्वा सिद्धम्-
(भाष्यम्) उपमानाद्वासिद्धमेतत्। लुलुठिषत इव लुलुठिषते। पिपतिषति इव पिपतिषति।।
(आशङ्कावार्तिकसार्थक्यभाष्यम्)
न वै तिङन्तेनोपमानमस्ति।।
(आशङ्कावार्तिकवैर्यथ्यभाष्यम्)
एवं तर्हि इच्छेवेच्छा।।
(1732 आशङ्कावार्तिकवैर्यथ्यवार्तिकम्।। 16 ।।)
- सर्वस्य वा चेतनावत्त्वात्-
(भाष्यम्) अथ वा सर्वे चेतनावत्।। एवं ह्याह --- कंसकाः सर्पन्ति, शिरीषोयं स्वपिति, सुवर्चला आदित्यमनुपर्येति। आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति। अयस्कान्तमयः संक्रामति।। ऋषिः पठति --- -शृणोत ग्रावाणः।।
(इष्धतुनिर्णयाधिकरणम्।)
(आक्षेपभाष्यम्)
इमे इषयो बहवः पठ्यन्ते। तत्र न ज्ञायते --- कस्यायमर्थे सन् विधीयते इति?।।
(समाधानभाष्यम्)
इषेश्छत्वभाविनः।।
(आक्षेपभाष्यम्)
यद्येवं कर्तुमन्विच्छिति कर्तुमन्वेषणा अत्रापि प्राप्नोति।।
(सिद्धान्तिसमाधानभाष्यम्)
एवं तर्हि यस्य स्त्रियामिच्छेत्येतद्रूपं निपात्यते।।
कस्य चैतन्निपात्यते?।
कान्तिकर्मणः।।
(क्रियाप्राधान्याधिकरणम्)
(आक्षेपभाष्यम्)
अथेह ग्रामं गन्तुमिच्छतीति कस्य किं कर्म?
(समाधानभाष्यम्)
इषेरुभे कर्मणी।
(उभयोरिषिकर्मत्वबाधकभाष्यम्)
यद्येवं ग्रामं गन्तुमिच्छति ग्रामाय गन्तुमिच्छतीति। गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः।।
(ग्रामस्य गमिकर्मत्वाङ्गीकारभाष्यम्)
एवं तर्हि गमेर्ग्रामः कर्म। इषेर्गमिः कर्म।
(ग्रामस्य गमिकर्मत्वे दूषणभाष्यम्)
एवमपीष्यते ग्रामो गन्तुमिति। परसाधन उत्पद्यमानेन लेन ग्रामस्याभिधानं न प्राप्नोति।।
एवं तर्हि गमेर्ग्रामः कर्म, इषेरुभे कर्मणी।
(सन्नन्तात्सन्वारणाधिकरणम्)
(आक्षेपभाष्यम्)
अथ सन्नन्तात्सना भवितव्यम् --- चिकीर्षितुमिच्छति जिहीर्षितुमिच्छतीति।।
(आक्षेपबाधकभाष्यम्)
न भवितव्यम्। किं कारणम्?। अर्थगत्यर्थः शब्दप्रयोगः अर्थे प्रत्यायिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्याऽपरस्य प्रयोगेण न भवितव्यम्। उक्तार्थानामप्रयोगः इति।।
(आक्षेपसाधकभाष्यम्)
न तर्हीदानीमिदं भवति --- -एषितुमिच्छति एषिषिषतीति।।
(आक्षेपबाधकभाष्यम्)
अस्त्यत्र विशेषः --- एकस्यात्र इषेरिषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य --- बाह्यं साधनं सर्वकालश्च प्रत्ययः।।
(आक्षेपसाधकभाष्यम्)
इहापि तर्ह्येकस्येषेः करोतिविशिष्ट इषिः साधनं वर्तमानकालश्च प्रत्ययः। अपरस्य बाह्यं साधनं सर्वकालश्च प्रत्ययः। येनैव खल्वपि हेतुना एतद्वाक्यं भवति --- चिकीर्षितुमिच्छतीति, तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सन्नन्तात्सनः प्रतिषेधो वक्तव्यः। तं चापि ब्रुवता इषि सन इति वक्तव्यम्। भवति हि जुगुप्सिषते मीमांसिषते इति।।
(समाधानभूतेष्टिभाष्यम्)
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते इति।।
धातोः कर्मणः।। 7 ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते महाभाष्ये
तृतीयाध्यायस्य प्रथमे पादे प्रथमाह्निकम्।।
-3-1-8- सुप आत्मनः क्यच् (625)
(386 क्यज्विधिसूत्रम्।। 3.1.2 आ. 1 सूत्रम्)
(चकारानुबन्धप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः।।
(समाधानभाष्यम्)
स्वरार्थः। चितोऽन्तउदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। एकाजयं तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्।।
(समाधानान्तरभाष्यम्)
विशेषणार्थस्तर्हि।
क्व विशेषणार्थेनार्थः?।
अस्य च्वौ क्यचि च इति। क्य इति ह्युच्यमाने अपि काकः श्येनायते अत्रापि प्रसज्येत।।
(समाधानान्तरबाधकभाष्यम्)
नैतदस्ति। तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणं न इत्येवमेतस्य न भविष्यति।
(समाधानान्तरभाष्यम्)
सामान्यग्रहणाविघातार्थस्तर्हि।
क्व च सामान्यग्रहणाविघातार्थेनार्थः?।
नः क्य इति।।
(आत्मग्रहणप्रयोजनकथनाधिकरणम्)
(आक्षेपभाष्यम्)
अथात्मग्रहणं किमर्थम्।
(समाधानभाष्यम्)
आत्मेच्छायां यथा स्यात् परेच्छायां मा भूत् राज्ञः पुत्रमिच्छतीति।।
(समाधानबाधकभाष्यम्)
क्रियमाणेऽपि वै आत्मग्रहणे परेच्छायां प्राप्नोति। किं कारणम्। आत्मन इतीयं कर्तरि षष्ठी। इच्छेत्यकारो भावे। स यद्येवात्मन इच्छति। अथापि परस्य। आत्मन एवेच्छासौ भवति।
(समाधानसाधकभाष्यम्)
नैष दोषः। नात्मग्रहणेनेच्छाभिसंबध्यते।। किं तर्हि?। सुबन्तमभिसंबध्यते --- आत्मनो यत्सुबन्तम् इति।।
(अल्पग्रहणप्रयोजननिराकरणभाष्यम्)
यद्यात्मग्रहणं क्रियते, छन्दसि परेच्छायां न प्राप्नोति --- मा त्वा वृका अघायवो विदन्। तस्मान्नार्थ आत्मग्रहणेन।।
(आक्षेपभाष्यम्)
कस्मान्न भवति राज्ञः पुत्रमिच्छतीति।
(समाधानभाष्यम्)
असार्मथ्यात्।
कथमसार्मथ्यम्। सापेक्षमसमर्थं भवतीति।।
(आक्षेपभाष्यम्)
छन्दस्यपि तर्हि न प्राप्नोति --- मात्वा वृका अघायवो विदन्।।
(समाधानभाष्यम्)
अस्त्यत्र विशेषः। अन्तरेणाप्यत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते।।
कथं पुनरन्तरेणाप्यत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते?।
(आत्मग्रहणाप्रयोजनसाधकभाष्यम्)
ते चैव हि वृका एवमात्मका हिंस्राः। कश्चात्मनोऽघमेषितुमर्हति। अतोन्तरेणापि तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते।।
यथैव तर्हि च्छन्दस्यघशब्दात् परेच्छायां क्यज् भवति। एवं भाषायामपि प्राप्नोति अघमिच्छतीति। तस्मादात्मग्रहणं कर्तव्यम्।।
छन्दसि कथम्?
आचार्यप्रवृत्तिर्ज्ञापयति --- भवत्यघशब्दात् छन्दसि परेच्छायां क्यजिति। यदयमाह अश्वाघस्यात् इति, क्यचि प्रकृते ईत्वबाधनार्थमाकारं शास्ति।।
(सुब्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ सुब्ग्रहणं किमर्थम्?।
(प्रयोजनभाष्यम्)
सुबन्तादुत्पत्तिर्यथा स्यात् प्रातिपदिकान्मा भूदिति।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदीकाद्वा।।
(प्रयोजनसाधकभाष्यम्)
अयमस्ति विशेषः। सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति।। प्रातिपदिकात्पुनरुत्पत्तौ सत्यां पदसंज्ञा न प्राप्नोति।।
(प्रयोजनबाधकभाष्यम्)
ननु च प्रातिपदिकादप्युत्पत्तौ सत्यां पदसंज्ञा सिद्धा। कथम्। आरभ्यते नः क्ये इति। तच्चावश्यं वक्तव्यं सुबन्तादुत्पत्तौ सत्यां नियमार्थम्। तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थे भविष्यति।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम् --- सुबन्तादुत्पत्तिर्यथा स्याद्, धातोर्मा भूदिति।।
(प्रयोजनबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। धातोः सन्विधीयते, स बाधको भविष्यति।।
(प्रयोजनसाधकभाष्यम्)
अनवकाशा हि विधयो बाधका भवन्ति न सावकाशाः। सावकाशश्च सन्।। कोऽवकाशः?। परेच्छा।।
(प्रयोजनबाधकभाष्यम्)
न परेच्छायां सना भवितव्यम्।।
किं कारणम्?।
समानकर्तृकादित्युच्यते। यावच्चेहात्मग्रहणम्, तावच्च तत्र समानकर्तृकग्रहणम्।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। सुबन्तादुत्पत्तिर्यथा स्याद्। वाक्यान्मा भूदिति --- महान्तं पुत्रमिच्छति।।
(इष्टापत्यभिप्रायेण प्रश्नभाष्यम्)
न वा भवति --- महापुत्रीयतीति।।
(इष्टापत्तिनिरासाभिप्रायेण समाधानभाष्यम्)
भवति, यदैतद्वाक्यं भवति --- -महान्, पुत्रो महापुत्रः, महापुत्रमिच्छति महापुत्रीयतीति।। यदा त्वेतद्वाक्यं
भवति --- महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्।। तदा च प्राप्नोति। तदा मा भूदिति।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेऽपि सुब्ग्रहणे कस्यादेवात्र न भवति। सुबन्तं ह्येतद् भवति वाक्यम्।।
(समाधानभाष्यम्)
नैतत् सुबन्तम्। कथम्?। प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतिःथ्द्य;ति।।
(आक्षेपभाष्यम्)
अथ यदत्र सुबन्तं तस्मादुत्पत्तिः कस्मान्न भवति?।
(1766 समाधानवार्तिकम्।। 1 ।।)
- समानाधिकरणानां सर्वत्रावृत्तिरयोगादेकेन-
(भाष्यम्) समानाधिकरणानां सर्वत्र वृत्तिर्न भवति।। क्व सर्वत्र?। समासविधौ प्रत्ययविधौ च। समासविधौ तावत् --- ऋद्धस्य राज्ञः पुरुषः, महत् कष्टं श्रित इति। प्रत्ययविधौ --- ऋद्धस्योपगोरपत्यम्, महान्तं पुत्रमिच्छतीति।। किं पुनः कारणं समानाधिकरणानां सर्वत्र वृत्तिर्न भवतीति?। अयोगादेकेन। न ह्यत्र एकेन पदेन योगो भवति। इह तावत् ऋद्धस्य राज्ञः पुरुष इति, षष्ठ्यन्तस्य सुबन्तेन सार्मथ्ये सति समासो विधीयते। यच्चात्र षष्ठ्यन्तं न तस्य सुबन्तेन सार्मथ्यम्। यस्य च सार्मथ्यं न तत् षष्ठ्यन्तं वाक्यं तत्। ऋद्धस्योपगोरपत्यमिति षष्ठीसमर्थादपत्येन योगे प्रत्ययो विधीयते यच्चात्र षष्ठ्यन्तं, न तस्यापत्येन योगः, यस्य चापत्येन योगो, न तत् षष्ठीसमर्थं वाक्यं तत्।।
(आक्षेपभाष्यम्)
समानाधिकरणानामिच्युच्यते। अथ कथं व्यधिकरणानाम् --- राज्ञः पुत्रमिच्छतीति।।
(समाधानभाष्यम्)
एवं तर्हि इदं पठितव्यम् सविशेषणानां सर्वत्रावृत्तिरयोगादेकेन --- -इति।।
(1734 वाक्यकर्मत्वे दूषणवार्तिकम्।। 2 ।।)
- द्वितीयानुपपत्तिस्तु-
(भाष्यम्) द्वितीया तु नोपपद्यते महान्तं पुत्रमिच्छतीति। किं कारणम्?। न पुत्र इषिकर्म। यदि पुत्रो नेषिकर्म, न चावश्यं द्वितीयैव, किं तर्हि सर्वा अत्र द्वितीयादयो विभक्तयो न स्युः। महता पुत्रेण कृतं, महते पुत्राय देहि, महतः पुत्रात् आनय, महतः पुत्रस्य स्वं, महति पुत्रे निधेहीति। तस्मान्नैतच्छक्यं वक्तुं न पुत्र इषिकर्मेति। पुत्र एवेषिकर्म। तत्सामानाधिकरण्यान्महतोऽपि द्वितीयादयो भविष्यन्ति।।
(आक्षेपभाष्यम्)
वृत्तिस्तर्हि कस्मान्न भवति?।
(समाधानभाष्यम्)
सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
यदि तर्हि सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते इति उच्यते, मुण्डयति माणवकम् अत्र वृत्तिर्न प्राप्नोति।।
(प्रतिप्रसवेन समाधानभाष्यम्)
एवं तर्हि अमुण्डादीनामिति वक्तव्यम्।।
(तृतियस्याक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् --- सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते, अमुण्डादीनामिति।।
(सिद्धान्तिभाष्यम्)
न वक्तव्यम्।
(पूर्वपक्षिभाष्यम्)
वृत्तिस्तर्हि कस्मान्न भवति --- महान्तं पुत्रमिच्छतीति।।
(सिद्धान्तिभाष्यम्)
अगमकत्वात्। इह समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च। यश्चेहार्थो वाक्येन गम्यते महान्तं पुत्रमिच्छतीति। नासौ जातुचित्प्रत्ययान्तेन गम्यते --- महान्तं पुत्रीयतीति। एतस्माद्वेतोर्ब्रूमः अगमकत्वादिति। न ब्रूमः --- अपशब्दः स्यादिति। यत्र च गमकं भवति, तत्र वृत्तिः, तद्यथा --- मुण्डयति माणवकमिति।।
(क्यजन्तकारकनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
अथास्य क्यजन्तस्य कानि साधनानि भवन्ति।।
(समाधानभाष्यम्)
भावः कर्ता च।।
(प्रत्याक्षेपभाष्यम्)
अथ कर्म।
(प्रत्याक्षेपसमाधानभाष्यम्)
नास्ति कर्म।।
(आक्षेपभाष्यम्)
ननु चायमिषिः सकर्मकः, यस्यायमर्थे क्यज्विधीयते।।
(आक्षेपपरिहारभाष्यम्)
अभिहितं तत्कर्मान्तर्भूतं धात्वर्थः संपन्नः, न चेदानीमन्यत्कर्मास्ति येन सकर्मकः स्यात्।।
(आक्षेपभाष्यम्।)
कथं तर्ह्ययं, सकर्मको भवति --- -अपुत्रं पुत्रमिवाचरति पुत्रीयति माणवकमिति।।
(आक्षेपपरिहारभाष्यम्)
अस्त्यत्र विशेषः --- द्वे ह्यत्र कर्मणी --- उपमानकर्मोपमेयकर्म च, उपमानकर्मान्तर्भूतम्, उपमेयेन कर्मणा सकर्मको भवति। तद्यथा --- अपि काकः श्येनायते इति। अत्र द्वौ कर्तारौ। उपमानकर्ता उपमेयकर्ता च। उपमानकर्तान्तर्भूतः, उपमेयकर्त्रा सकर्तृको भवति।।
(आक्षेपभाष्यम्)
अयं तर्हि कथं सकर्मको भवति --- -मुण्डयति माणवकमिति?।।
(आक्षेपपरिहारभाष्यम्)
अत्रापि द्वे कर्मणी सामान्यं, कर्म, विशेषकर्म च। सामान्यं कर्मान्तर्भूतम्, विशेषकर्मणा सकर्मको भवति।।
(आक्षेपभाष्यम्)
ननु च वृत्त्यैवात्र न भवितव्यम्। किं कारणम्?। असार्मथ्यात्। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।।
(समाधानभाष्यम्)
नैष दोषः। नात्रोभौ करोतियुक्तौ मुण्डो माणवकश्च। नहि माणवकत्वं क्रियते।। यदा चोभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः। तद्यथा। बलीवर्दे करोति मुण्डं चैनं करोतीति।।
(आक्षेपभाष्यम्)
कामं तर्ह्यनेनैव हेतुना क्यजपि कर्तव्यः --- माणवकं मुण्डमिच्छतीति। नोभविषियुक्ताविति।।
(आक्षेपपरिहारभाष्यम्)
न कर्तव्यः। उभावत्रेषियुक्तौ मुण्डो माणवकश्च। कथम्?। न ह्यसौ मौण्ड्यमात्रेण संतोषं करोति माणवकस्थमसौ मौण्ड्यमिच्छति।
(आक्षेपभाष्यम्)
इहापि तर्हि न प्राप्नोति मुण्डयति माणवकमिति। अत्रापि ह्युभौ करोतियुक्तौ मुण्डो माणवकश्च। न ह्यसौ
मौण्ड्यमात्रेण संतोषं करोति। किं तर्हि?। माणवकस्थमसौ मौण्ड्यं निर्वर्तयति।।
(समाधानभाष्यम्)
एवं तर्हि मुण्डादयो गुणवचनाः। गुणवचनाश्च सापेक्षाः। तत्र वचनात्सापेक्षाणां वृत्तिर्भविष्यति।।
(समाधानभाष्यम्)
अथ वा धातव एव मुण्डादयः।
न चैव ह्यर्था आदिभ्यन्ते क्रियावचनता च गम्यते।।
(समाधानभाष्यम्)
अथ वा नेदमुभयं युगपद्भवति वाक्यं च प्रत्ययश्च। यदा वाक्यम्, न तदा प्रत्ययः। तदा प्रत्ययः, सामान्येन तदा वृत्तिर्भवति। तत्रावश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। मुण्डयति कम्, माणवकमिति।।
मुण्डविशिष्टेन वा करोतिना तमाप्तुमिच्छति।।
(समाधानभाष्यम्)
अथ वोक्तमेतत् --- -नात्र व्यापारोऽनुगन्तव्यः गमकत्वादिह वृत्तिर्भविष्यति मुण्डयति माणवकमिति।।
सदपीच्छाक्यचः कर्म तदाचारक्यचा हृतम्।
वाक्यवाच्यमतोऽव्यक्तेर्यथाभ्यासः क्रमादिष्विति।।
(आक्षेपभाष्यम्)
अथेह क्यचा भवितव्यम् --- इष्टः पुत्रः इष्यते पुत्रः?।।
(समाधाने मतान्तरभाष्यम्)
केचित्तावदाहुः --- न भवितव्यमिति। किं कारणम्?। स्वशब्देनोक्तत्वात्।।
(मतान्तरेण समाधानभाष्यम्)
अपर आहुः --- -भवितव्यमिति।। किं कारणम्?। धात्वर्थेयं क्यज्विधीयते। स च धात्वर्थः केनचिदेव शब्देन निर्देष्टव्य इति।
(सिद्धान्तिसमाधानभाष्यम्)
इहभवन्तस्तावदाहुः --- न भवितव्यमिति। किं कारणम्?। समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च। यश्चेहार्थो वाक्येन गम्यते --- --इष्टः पुत्रः इष्यते पुत्र इति। नासौ जातुचित्प्रत्ययान्तेन गम्यते।।
(1735 आपत्तिनिवारणवार्तिकम्।। 3 ।।)
- क्यचिमान्ताव्ययप्रतिषेधः-
(भाष्यम्) क्यचि मान्ताव्ययानां प्रतिषेधो वक्तव्यः इह मा भूत् --- इदमिच्छति। किमिच्छति। उच्चैरिच्छति। नीचैरिच्छतीति।।
(परिगणनेनापत्तिवारणवार्तिकम्)
- गोसमानाक्षरनान्तात्-
इत्येके वक्तव्यमित्याहुः। (गो) गामिच्छति गव्यति। समानाक्षर --- घटीयति दधीयति मधूयति कर्त्रीयति। नान्तात् --- --राजीयति तक्षीयति।। सुप आत्मनः।। 8 ।।
-3-1-9- काम्यच्च (626)
(687 काम्यच् प्रत्ययविधिसूत्रम्।। 3.1.2 आ. 2 सूत्रम्)
(काम्यचश्चित्करणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः?।
(परिहारभाष्यम्)
स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।।
(आक्षेपसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। धातुस्वरेणाप्येतत्सिद्धम्।।
(परिहारान्तरशङ्काभाष्यम्)
ककारस्य तर्हीत्संज्ञापरित्राणार्थ आदितश्चकारः कर्तव्यः।
अत उत्तरं पठति।
(1736 चकारप्रत्याख्यानवार्तिकम्।। 1 ।।)
- काम्यचश्चित्करणानर्थक्यं कस्येदर्थाभावात्-
(भाष्यम्) काम्यचश्चित्करणमनर्थकं ककारस्येत्संज्ञा कस्मान्न भवति?। इदर्थाभावात्। इत्कार्याभावादत्रेत्संज्ञा न भविष्यति।।
(हेत्वसिद्धिप्रदर्शकभाष्यम्)
ननु च लोप एवेत्कार्यम्।।
(हेतूपपत्तिभाष्यम्)
अकार्ये लोपः। इह हि शब्दस्य कार्यार्थो वा स्यादुपदेशः श्रवणार्थो वा। कार्ये चेह नास्ति। असति कार्ये यदि श्रवणमपि न स्यात्। उपदेशोऽनर्थकः स्यात्।
(कित्करणप्रयोजनभाष्यम्)
इदमस्ति कार्यम् --- -अग्निचित्काम्यति। कितीति गुणप्रतिषेधो यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। उपयट्काम्यति। कितीति संप्रसारणं यथा स्यात्।
(प्रयोजननिराकरणभाष्यम्।)
एतदपि नास्ति प्रयोजनम्। यजादिभिरत्र कितं विशेषयिष्यामः। यजादीनां यः किदिति।। कश्च यजादीनां कित्?। यजादिभ्यो यो विहितः।।
(सिद्धान्तिसमाधानभाष्यम्)
अथापि कथं चिदित्कार्यं स्यात्। एवमपि न दोषः। क्रियते न्यास एव द्विचकारो निर्द्देशः सुप आत्मनः क्यच् काम्यच्चेति।। अथ वा छान्दसमेतत्। दृष्टानुविधिः छन्दसि भवति। न चात्र संप्रसारणं दृश्यते।। काम्यच्च।। 9 ।।
-3-1-10- उपमानादाचारे (627)
(688 क्यच्प्रत्ययविधिसूत्रम् ।। 6।1।2 आ. 6 सूत्रम्)
(1737 न्यूनतापूरकवार्तिकम्।। 1 ।। )
- अधिकरणाच्च-
(भाष्यम्) अधिकरणाच्चेति वक्तव्यम्। इहापि यथा स्यात् --- -कुटीयति प्रासादे। प्रासादीयति कुट्याम्।। उपमानादाचारे।। 10 ।।
-3-1-11- कर्तुः क्यङ् सलोपश्च (628)
(689 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 11 सूत्रम्)
(सलोपस्यान्वाचयशिष्टत्वाधिकरणम्।)
(आक्षेपभाष्यम्)
सलोपसन्नियोगेनायं क्यङ् विधीयते तेन यत्रैव सलोपस्तत्रैव क्यङ् स्यात् --- पयायते। इह न स्यात् --- -अपि काकः श्येनायते।।
(आक्षेपपरिहारभाष्यम्)
नैतदस्ति। प्रधानशिष्टः क्यङ्, अन्वाचयशिष्टः सलोपः --- यत्र च सकारं पश्यसीति। तद्यथा --- कश्चिदुक्तो ग्रामे भैक्षं चर देवदत्तं चानय इति। स ग्रामे भैक्षं चरति, यदि च देवदत्तं पश्यति तमप्यानयति।।
(1738 न्यूनतावार्तिकम्।। 1 ।।)
- स लोपो वा -
(भाष्यम्) सलोपो वेति वक्तव्यम्। पयायते पयस्यते।।
(1739 न्यूनतावार्तिकम्।। 2 ।।)
- ओजसोप्सरसोर्नित्यम्-
(भाष्यम्) ओजसोप्सरसो नित्यं सलोपो वक्तव्यः। ओजायमानं योऽर्हि जघान। अप्सरायते।।
(मतान्तरभाष्यम्)
अपर आह --- --सलोपोऽप्सरस एव। ओजस्यते इत्येव भवितव्यम्।।
(आक्षेपभाष्यम्)
कथम् --- -ओजायमानं योऽहि जघान इति?।
(समाधानभाष्यम्)
छान्दसत्वात्सिद्धम्।।
(1740 न्यूनतावार्तिकम् ।। 3 ।।)
- आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा-
(भाष्यम्) आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः। अवगल्भते। अवगल्भायते। विक्लीबते। विक्लीबायते। विहोडते। विहोडायते। किं प्रयोजनम्?। क्रियावचनता यथा गम्येत।।
(क्विब्विधिवैर्यथ्यभाष्यम्)
नैतदस्ति प्रयोजनम्। धातव एवावगल्भादयः।।
(शङ्काभाष्यम्)
न चैव ह्यर्था आदिश्यन्ते।।
(समाधानभाष्यम्)
क्रियावचनता च गम्यते।
(क्विब्विधिप्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। अवगल्भा विक्लीबा विहोडा। अप्रत्ययात् इत्यकारप्रत्ययो यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
मा भूदेवम्। गुरोश्च हलः इत्येवं भविष्यति।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्। अवगल्भांचक्रे विक्लीबांचक्रे। विहोडांचक्रे। कास्प्रत्ययादाममन्त्रे लिटि इत्याम् प्रत्ययो यथा स्यात्।।
अपर आह --- -
(1741 क्विब्विधिमतान्तरवार्तिकम्।। 4 ।।)
- सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः। अश्वति गर्दभतीत्येवमर्थम्-
(अनुयोगभाष्यम्)
न तर्हि इदानीं गल्भाद्यनुक्रमणं कर्तव्यम्।
(समाधानभाष्यम्)
कर्तव्यं च। किं प्रयोजनम्?। आत्मनेपदार्थाननुबन्धानासङ्क्ष्यामीति। गल्भ क्लीब होड।। कर्तुः क्यङ्।। 11 ।।
-3-1-12- भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः (629)
(690 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ 5 सूत्रम्।)
(हल्लोपस्यान्वाचयशिष्टत्वाधिकरणम्)
(आक्षेपभाष्यम्)
हलो लोपसन्नियोगेनायं क्यङ् विधीयते। तेन यत्रैव हलो लोपः, तत्रैव प्राप्नोति।।
(आक्षेपपरिहारभाष्यम्)
नैष दोषः। प्रधानशिष्टः क्यङ्, अन्वाचयशिष्टो हलो लोपः यत्र च हलं पश्यसीति।।
(1742 न्यूनतावार्तिकम्।। 1 ।।)
- भृशादिष्वभूततद्भावग्रहणम्-
(भाष्यम्) भृशादिष्वभूततद्भावग्रहणं कर्त्तव्यम्। इह मा भूत् --- क्व दिवा भृशा भवन्तीति।।
(1743 अच्विग्रहणवैर्यथ्यवार्तिकम्।। 2 ।।)
- च्विप्रतिषेधानर्थक्यं च भवत्यर्थे क्यङ्वचनात्-
(भाष्यम्) च्विप्रतिषेधश्चानर्थकः। किं कारणम्। भवत्यर्थे क्यङ्वचनात्। भवत्यर्थे क्यङ्विधीयते।।
(1744 वैर्यथ्यसाधकवार्तिकम्।। 3 ।।)
- भवति योगे च्विविधानम्-
(भाष्यम्) भवतिना योगे च्विर्विधीयते। तत्र च्विनोक्तत्वात्तस्यार्थस्य क्यङ् न भविष्यति।।
(डाजन्तात्क्यषोऽनुपपत्तिभाष्यम्)
डाजन्तादपि तर्हि न प्राप्नोति --- पटपटायते। डाजपि हि भवतिना योगे विधीयते। भविष्यत्यर्थे क्यष् विधीयते।।
(1745 डाजन्तात्क्यषुपपत्तिवार्तिकम्।। 4 ।।)
- डाचि वचनप्रामाण्यात्-
(भाष्यम्) डाचि वचनप्रामाण्याद्भविष्यति।। किं वचनप्रामाण्यम्?। लोहितादिडाज्भ्यः क्यष् इति।
(आक्षेपभाष्यम्)
इह किंचिदक्रियमाणां चोद्यते। किंचिच्च क्रियमाणं प्रत्याख्यायते। सूत्रभेदः कृतो भवति।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् --- इह कस्मान्न भवति क्व दिवा भृशा भवन्तीति।
(परिहारभाष्यम्)
नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः। नञ्ञ्युक्तमिवयुक्तं वा यत् किंचिदिह दृश्यते ततः अन्यस्मिंस्तत्सदृशे कार्यं विज्ञायते। तथा ह्यर्थो गम्यते। अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते नासौ लोष्टमानीय कृती भवति। एवमिहाप्यच्वेरिति प्रतिषेधादन्यस्मिन्नच्व्यन्ते च्विसदृशे कार्यं विज्ञायते। किं चान्यदतोऽच्व्यन्तं च्विसदृशम्। अभूततद्भावः।।
(विप्रतिपत्तिभाष्यम्)
इह काश्चित्प्रकृतयः सोपसर्गाः पठ्यन्ते --- अभिमनस् सुमनस् उन्मनस् दुर्मनस्। तत्र विचार्यते --- भृशादिषूपसर्गः प्रत्ययार्थविशेषणं वा स्यात् अभिभवतौ सुभवतौ उद्भवतौ दुर्भवताविति। प्रकृत्यर्थविशेषणं वा अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दाद्वेति।
(आक्षेपभाष्यम्)
युक्तं पुनरिदं विचारयितुम्।।
(आक्षेपोपपादकभाष्यम्)
नन्वनेनासंदिग्धेन प्रकृत्यर्थविशेषणेन भवितव्यम्। यावता प्राक् प्रकृतेः पठ्यन्ते, यदि प्रत्ययार्थविशेषणं स्युः
प्राग्भवतेः पठ्येरन्।।
(विचारौचित्यसाधकभाष्यम्)
नेमे शक्याः प्राग्भवतेः पठितुम्। एवं हि विशिष्टे प्रत्ययार्थे भृशादिमात्रादुत्पत्तिः प्रसज्येत। तस्मान्नैवं शक्यं वक्तुम्। न चेदेवम् जायते विचारणा।।
(विशेषानुयोगभाष्यम्)
कश्चात्र विशेषः?।
(1746 प्रत्ययार्थविशेषणपक्षदूषणवार्तिकम्।। 5 ।।)
- भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषः-
(भाष्यम्) भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषो भवति। अभिमनायते --- तिङ्ङतिङ इति निघातः प्रसज्येत।।
(प्रकृत्यर्थविशेषणपक्षाश्रयणभाष्यम्)
अस्तु तर्हि प्रकृत्यर्थविशेषणम्।
(1747 दूषणवार्तिकम्।। 6 ।।)
- सोपसर्गादिति चेदटि दोषः-
(भाष्यम्) सोपसर्गादिति चेदटि दोषो भवति। स्वमनायतेति।।
(वार्तिकान्तरावतरणभाष्यम्)
अत्यल्पमिदमुच्यते(अटि इति)।
(वार्तिकम्)
- अट्ल्यप्द्विर्वचनेषु-
(भाष्यम्) अट्ल्यप्द्विर्वचनेष्विति वक्तव्यम्। अटि उदाहृतम्। ल्यपि --- सुमनाय्य। द्विर्वचने --- अभिमिमनायिषते।
(दूषणपरिहारभाष्यम्)
नैष दोषः। अवश्यं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या -असंग्रामयत शूर इत्येवमर्थम्। तन्नियमार्थं भविष्यति संग्रामयतेरेव सोपसर्गान्नान्यस्मात्सोपसर्गादिति।
(आक्षेपभाष्यम्)
यदि नियमः क्रियेत। स्वरो न सिध्यति।।
(समाधानभाष्यम्)
एवं तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावं वक्ष्यामि।
(आक्षेपभाष्यम्)
यदि पराङ्गवद्भाव उच्यते। अट्ल्यब्द्विर्वचनानि न सिध्यन्ति।।
(समाधानभाष्यम्)
स्वरविधाविति वक्ष्यामि।।
(प्रत्ययार्थविशेषणपक्षाङ्गीकारभाष्यम्)
एवं च कृत्वास्तु प्रत्ययार्थविशेषणमिति।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोष इति।।
(परिहारस्मारणभाष्यम्)
स्वरे पराङ्गवद्भावेन परिहृतम्।।
(प्रत्ययार्थविशेषणपक्षदूषणभाष्यम्)
अयं तर्हि प्रत्ययार्थविशेषणे सति दोषः। क्यङो क्तत्वात्तस्यार्थस्य उपसर्गस्य प्रयोगो न प्राप्नोति। किं कारणम्?। उक्तार्थानामप्रयोग इति। तद्यथा --- अपि काकः श्येनायते इत्यत्र क्यङोक्तत्वादाचारार्थस्य आङ्प्रयोगो न
भवति।।
(प्रत्ययार्थविशेषणपक्षे दत्तदूषणपरिहारभाष्यम्)
अस्त्यत्र विशेषः। एकेनात्र विशिष्टे प्रत्ययार्थे प्रत्यय उत्पद्यते। इह पुनरनेकेन। तत्र मनायत इत्युक्ते संदेहः स्यात् --- अभिभवतौ सुभवतौ दुर्भवतौ उद्भवताविति। तत्रासंदेहार्थमुपसर्गः प्रयुज्यते।।
(प्रश्नभाष्यम्)
यत्र तर्ह्येकेन उत्पुच्छयते।।
(समाधानभाष्यम्)
अत्राप्यनेकेन --- पुच्छादुदसने पुच्छाद्व्यसने पुच्छात्पर्यसने चेति।। भृशादिभ्यो भुव्यच्वेः।। 12 ।।
-3-1-13- लोहितादिडाज्भ्यः क्यष् (630)
(691 क्यष्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 5. सूत्रम्)
(ककारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थः ककारः?।
(प्रयोजनभाष्यम्)
गुणवृद्धिप्रतिषेधार्थः। क्ङिति च इति गुणवृद्धिप्रतिषेधो यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। सार्वधातुकार्द्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्द्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते। लोहितादीनि प्रातिपदिकानि।।
(प्रयोजनभाष्यम्)
सामान्यग्रहणार्थस्तर्हि। क्व सामान्यग्रहणार्थेनार्थः?। नः क्ये इति।।
(प्रयोजननिरासभाष्यम्)
नायं नान्ताद्विधीयते।।
(प्रयोजनभाष्यम्)
इह तर्हि यस्य हलः क्यस्य विभाषा इति।।
(प्रयोजननिरासभाष्यम्)
नायं हलन्ताद्विधीयते ।।
(प्रयोजनभाष्यम्)
इह तर्हि आपत्यस्य च तद्धितेऽनाति, क्यच्व्योश्च इति ।।
(प्रयोजननिरासभाष्यम्)
नायमापत्याद्विधीयते।।
(प्रयोजनभाष्यम्)
इह तर्हि क्याच्छन्दसि इति।।
(प्रयोजननिरासभाष्यम्)
याच्छन्दसीत्येव तद्वक्तव्यम्। चुरण्युस्तुरण्युर्भुरण्युरित्येवमर्थम्।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। यत्तद् -अकृद्यकार इति दीर्घत्वम्, तत्र क्ङिद्ग्रहणमनुवर्तते। तदिहापि यथा स्यात् --- लोहितायतीति।
किं पुनः कारणं तत्र क्ङिद्ग्रहणमनुवर्तते?।
इह मा भूत् --- उरुया धृष्णुयेति।
(आक्षेपभाष्यम्)
यदि तत्र क्ङिद्ग्रहणमनुवर्तते। पित्र्यमिति रीङभावो न प्राप्नोति।।
(समाधानभाष्यम्)
रीङ्भावं क्ङिद्ग्रहणं निवर्तिष्यते।।
(आक्षेपभाष्यम्)
यदि निवर्तते। कथमसूया वसूया च यजामह इति?।।
(समाधानभाष्यम्)
असूयतेरसूया वसूयतेर्वसूया।
(समाधानान्तरभाष्यम्)
अथ वा छान्दसमेतत्। दृष्टानुविधिश्छन्दसि भवति।।
(सिद्धग्रहणानुवृत्तिवैर्यथ्यम्)
यदि च्छान्दसत्वं हेतुः। नार्थः क्ङिद्ग्रहणेनानुवर्तमानेन।।
कस्मान्न भवति उरुया धृष्णुयेति?।
छान्दसत्वात्।।
अथ वास्त्वत्र दीर्घत्वं, छान्दसं ह्रस्वत्वं भविष्यति। तद्यथा उपगायन्तु मां पत्नयो गर्भिण्यो युवतय इति।।
(षकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थः षकारः।।
(समाधानभाष्यम्)
विशेषणार्थः। क्व विशेषणार्थेनार्थः?। वा क्यषः इति वा याद् इति ह्युच्यमाने पाश्या अत्रापि प्रसज्येत।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। परस्मैपदमित्युच्यते। न चात्र परस्मैपदं नाप्यात्मनेपदं पश्यमः।।
(समाधानान्तरभाष्यम्)
सामान्यग्रहणाविघातार्थस्तर्हि।।
क्व सामान्यग्रहणाविघातार्थेनार्थः।?।
क्यच् छन्दसि इति।।
(ककारप्रत्याख्यानभाष्यम्)
याच् छन्दसि इत्येवं च तद्वक्तव्यम्। चुरण्युः तुरण्युर्भुरण्युरित्येवमर्थम्।
(आदिशब्दप्रत्याख्यानाधिकरणम्)
(1748 आदिशब्दप्रत्याख्यानवार्तिकम्।। 1 ।।)
- लोहितडाज्भ्यः क्यष्वचनम्-
(भाष्यम्) लोहितडाज्भ्यः क्यष् वक्तव्यः। लोहितायति लोहितायते। (डाच्) पटपटायति पटपटायते। (दमदमायति। दमदमायते मटमटायति मटमटायते)।
(आक्षेपभाष्यम्)
अथान्यानि लोहितादीनि।।
(1749 समाधानवार्तिकम्।। 2 ।।)
- भृशादिष्वितराणि-
(भाष्यम्) भृशादिष्वितराणि पठितव्यानि। किं प्रयोजनम्?। ङित इति नित्यमात्मनेपदं यथा स्यात्।। लोहितादि।। 13 ।।
-3-1-14- कष्टाय क्रमणे (639)
(692 क्यङ्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 6 सूत्रम्)
(निपात्यनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
कष्टायेति किं निपात्यते।।
(समाधानभाष्यम्)
कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽनार्जवे क्यङ् निपात्यते। कष्टाय कर्मणे क्रामति कष्टायते।।
(न्यूनताप्रदर्शकभाष्यम्)
अत्यल्पमिदमुच्यते --- कष्टाय क्रमणे इति।।
(1750 विवक्षितवार्तिकम्।। 1 ।।)
सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्।
(भाष्यम्) सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्। सत्र --- सत्रायते --- सत्र। कक्ष --- कक्षायते कक्ष। कष्ट --- कष्टायते कष्ट। कृच्छ्र --- कृच्छ्रायते --- कृच्छ्र। गहन --- गहनायते --- गहन।।
(मतान्तरभाष्यम्)
अपर आह --- -
(वार्तिकरूपान्तरम्)
सत्रादिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणेऽनार्जवे क्यङ् वक्तव्यः ।
तान्येवोदाहरणानि।
(आक्षेपभाष्यम्)
सत्रादिभ्य इति किमर्थम्?।
(समाधानभाष्यम्)
कुटिलाय अनुवाकाय क्रामति।।
(आक्षेपभाष्यम्म्)
चतुर्थ्यन्तेभ्य इति किमर्थम्?।
अजः कष्टं क्रमाति।
(अनुयोगभाष्यम्)
तत्तर्हि वक्तव्यम्।
(सिद्धान्तिभाष्यम्)
न वक्तव्यम्। नेदं प्रत्ययान्तनिपातनम्। किं तर्हि?। तार्दथ्ये एषा चतुर्थी--कष्टाय यत् प्रातिपदिकम् - कष्टार्थे यत्प्रातिपदिकमिति।। कष्टाय।। 14 ।।
-3-1-15- कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (632)
(393 क्यङ्प्रत्ययविधिसूत्रम्।। 3।1।3 आ. 7. सूत्रम्)
(रोमन्थपदार्थनिर्णयाधिकरणम्।)
(आक्षेपभाष्यम्)
रोमन्थ इत्युच्यते। कोऽयं रोमन्थो नाम?।
(समाधानभाष्यम्)
उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः। यद्येवं।
(1751 वार्तिकम्।। 1 ।।)
- हनुचलने-
(भाष्यम्) हनुचलन इति वक्तव्यम्। इह मा भूत् --- कीटो रोमन्थं वर्तयतीति।।
(अनुयोगभाष्यम्)
तत्तर्हि वक्तव्यम्।
(1752 समाधानवार्तिकम्।। 2 ।।)
- न वानभिधानात्-
(भाष्यम्) न वा वक्तव्यम्।। कस्मान्न भवति कीटो रोमन्थं वर्तयतीति?। अनभिधानात्।।
(1753 न्यूनतावार्तिकम्।। 3 ।।)
- तपसः परस्मैपदं च-
(भाष्यम्) तपसः परस्मैपदं चेति वक्तव्यम्। तपश्चरति तपस्यति।।
(आक्षेपभाष्यम्)
कथं तपस्यते लोकजिगीषुरग्नेः।।
(समाधानभाष्यम्)
छान्दसत्वाद् भविष्यति।। कर्मणो।। 15 ।।
-3-1-16- बाष्पोष्मभ्यामुद्वमने (633)
(314 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 8 सूत्रम्)
(1754 न्यूनतापूरकवार्तिकम्।। 1 ।।)
- फेनाच्च-
(भाष्यम्) फेनाच्चेति वक्तव्यम्। फेनायते। बाष्पो।। 16 ।।
-3-1-17- शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे (634)
(695 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 9 सूत्रम्)
(1755 न्यूनतापूरकवार्तिकम्।। 2 ।।)
- अटाट्टाशीकाकोटापोटासोटाप्रुष्टप्लुष्टाग्रहणम्-
(भाष्यम्) अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्। अटा --- अटायते। अट्टा --- अट्टायते। शीका --- -शीकायते। कोटा --- कोटायते। पोटा --- -पोटायते। सोटा --- सोटायते। प्रुष्टा--प्रुष्टायते। प्लुष्टा --- प्लुष्टायते।।
(1756 न्यूनतापूरकवार्तिकम्।। 2 ।।)
- सुदिनदुर्दिनाभ्यां च-
(भाष्यम्) सुदिनदुर्दिनाभ्यां चेति वक्तव्यम्। सुदिनायते। दुर्दिनायते।।
(1757 वार्तिकम्।। 3 ।।)
- नीहाराच्च-
(भाष्यम्) नीहाराच्चेति वक्तव्यम्। नीहारायते।। शब्दवैर।। 17 ।।
-3-1-18- सुखादिभ्यः कर्तृवेदनायाम् (635)
(393 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 9 सूत्रम्।)
(कर्तृवेदनापदार्थनिर्णयाधिकरणम्।)
(आक्षेपभाष्यम्)
कर्तृवेदनायामिति किमर्थम्?।
(समाधानभाष्यम्)
इह मा भूत्। सुखं वेदयते प्रसाधको देवदत्तस्य।।
(समाधानबाधकभाष्यम्)
कर्तृवेदनायामित्युच्यमानेऽपि अत्र प्राप्नोति। किं कारणम्?। कर्तुरितीयं कर्तरि षष्ठी। वेदनायामिति चानो भावे। स यद्येवात्मनो वेदयते। अथापि परस्य। कर्तृवेदनैवासौ भवति।।
(समाधानसाधकभाष्यम्)
न कर्तृग्रहणेन वेदनाभिसंबध्यते। किं तर्हि?। सुखादीन्यभिसंबध्यन्ते कर्तुर्यानि सुखादीनीति।। सुखादिभ्यः।। 18 ।।
-3-1-19- नमोवरिवश्चित्रङः क्यच् (636)
(397 क्चच्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 10 सूत्रम्)
(वृत्तिघटकनमः शब्दयोगे द्वितीयोपपत्त्यधिकरणम्।)
(1758 द्वितीयानुपपत्तिवार्तिकम्।। 1 ।।)
- नमसः क्यचि द्वितीयानुपपत्तिः-
(भाष्यम्) नमसः क्यचि द्वितीया नोपपद्यते।
नमस्यति देवानिति।। किं कारणम्?। नमः शब्देन योगे चतुर्थी विधीयते सा प्राप्नोति।।
(1759 चतुर्थीप्राप्त्यभाववार्तिकम्।। 2 ।।)
- प्रकृत्यन्तरत्वात् सिद्धम्-
(भाष्यम्) नमः शब्देन योगे चतुर्थी विधीयते। नमस्यतिशब्दश्चायम्।।
(चतुर्थीप्राप्तिसाधकभाष्यम्)
ननु च नमस्यतिशब्दे नमः शब्दोऽस्ति। तेन योगे प्राप्नोति।।
(चतुर्थीप्राप्तिबाधकभाष्यम्)
नैष दोषः। अर्थवतो नमः शब्दस्य ग्रहणम्। न च नमस्यतिशब्दे नमः शब्दोर्थवान्।।
(एकदेशिसमाधानभाष्यम्)
अथ वा --- उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति द्वितीया विभक्तिर्भविष्यति।। अथ वेति।।
(प्रत्ययार्थनिर्देशाधिकरणम्)
(1760 न्यूनतापूरकवार्तिकम्।। 3 ।।)
- क्यजादिषु प्रत्ययार्थनिर्देशः-
(भाष्यम्) क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः। नमसः पूजायाम्। वरिवसः सपर्यायाम्। चित्रङ आश्चर्ये। भाण्डात्समाचयने। चीवरादर्जने परिधाने च। पुच्छादुदसने व्यसने पर्यसने चेति। किं प्रयोजनम्? । क्रियावचनता यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति --- -क्रियावचनाः क्यजादयः इति। यदयं सनाद्यन्ता धातवः इति धातुसंज्ञां शास्ति।। कथं कृत्वा ज्ञापकम्?। धातुसंज्ञावचन एतत्प्रयोजनं धातोः इति तव्यदादीनामुत्पत्तिर्यथा स्यात्। यदि चात्र क्रियावचनता न स्याद् धातुसंज्ञावचनमनर्थकं स्यात्। सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः। किं कारणम्?। साधने तव्यदादयो विधीयन्ते। साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः। साधनाभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न स्युः। पश्यति त्वाचार्यः क्रियावचनाः क्यजादयः इति, ततः सनाद्यन्ता धातवः इति धातुसंज्ञां शास्ति।।
(प्रयोजनान्तरभाष्यम्)
ननु चेदं प्रयोजनं स्यात् परसाधने तव्यदादीनामुत्पत्तिं वक्ष्यामीति।।
(प्रयोजनान्तरनिराकरणभाष्यम्)
न परसाधने उत्पत्त्या भवितव्यम्। किं कारणम्?। साधन इति संबन्धिशब्दोऽयम्। संबन्धिशब्दाश्च पुनरेवमात्मका यदुत संबन्धिनमाक्षिपन्ति। तद्यथा --- मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति। न चोच्यते --- स्वस्यां मातरि स्वस्मिन् पितरीति। संबन्धाच्चैतद् गम्यते --- -या यस्य माता, यश्च यस्य पितेति। एवमिहापि संबन्धादेतद् गन्तव्यम् --- यस्य धातोर्यत् साधनमिति।।
(प्रत्ययार्थनिर्देशवैर्यथ्यभाष्यम्)
अथ वा धातव एव क्यजादयः।।
(आक्षेपभाष्यम्)
न चैव ह्यर्था आदिश्यन्ते।।
(उत्तरभाष्यम्)
क्रियावचनता च गम्यते। कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति येनैव खल्वपि हेतुना पचादयः
क्रियावचनाः, तेनैव क्यजादयोऽपि। एवमर्थे खल्वप्याचार्यश्चित्रयति क्वचिदर्थानादिशति, क्वचिन्नेति।।
(अर्थादेशावश्यकताभाष्यम्)
एवमप्यर्थादेशनं कर्तव्यम्। कथमिमे अबुधा बोध्येरन्निति।।
(अर्थादेशवैर्यथ्यभाष्यम्)
अथ वा शक्यमेवार्थादेशनमकर्तुम्। कथम्?। करणे इति वर्तते। करणं च करोतेरर्थः। करोतिश्च क्रियासामान्ये वर्तते।। नमो वरि।। 19 ।।
-3-1-21- मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (638)
(398 णिच्प्रत्ययविधिसूत्रम्।। 3।1।2 आ. 11 सूत्रम्)
(अनुयोगभाष्यम्)
इमौ हलिकली स्तः इकारान्तौ --- (हलिः कलिः)। अस्ति हलशब्दः कलशब्दश्चाकारान्तः। कयोरिदं ग्रहणम्?।
(समाधानभाष्यम्)
याविकारान्तौ तयोरत्वं निपात्यते।।
(प्रश्नभाष्यम्)
किं प्रयोजनम्?।
1761 अत्वनिपातनप्रयोजनवार्तिकम्।। 1 ।।)
- हलिकल्योरत्त्वनिपातनं सन्वद्भावप्रतिषेधार्थम्-
(भाष्यम्) हलिकल्योरत्त्वनिपातनं क्रियते सन्वद्भावो मा भूदिति। अजहलद् अचकलत्।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। इकारलोपे कृते अग्लोपिनां नेति प्रतिषेधो भविष्यति।
(प्रयोजनसाधकभाष्यम्)
वृद्धौ कृतायां लोपः तन्नाग्लोप्यङ्गं भवति। इदमिह संप्रधार्यम् --- वृद्धिः क्रियताम्, लोप इति। किमत्र कर्तव्यम्?। परत्वाद् वृद्धिः।।
नित्यो लोपः। कृतायामपि वृद्धौ प्राप्नोति, अकृतायामपि (प्राप्नोति)।।
वृद्धिरपि नित्या। कृतेऽपि लोपे प्राप्नोति, अकृतेऽपि।।
अनित्यो लोपः। अन्यस्य कृतायां वृद्धौ प्राप्नोति, अन्यस्याकृतायाम्। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति।।
वृद्धिरप्यनित्या। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति। उभयोरनित्ययोः परत्वाद् वृद्धिः। वृद्धौ कृतायां लोपः, तन्नाग्लोप्यङ्गं भवति।।
अत्त्वे पुनः सति वृद्धिः क्रियतां लोप इति। यद्यपि परत्वाद् वृद्धिः, वृद्धावपि कृतायामगेव लुप्यते। तस्मात्सुष्ठूच्यते --- -हलिकल्योरत्त्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति।। मुण्डमिश्र।। 21 ।।
-3-1-22- धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (639)
(699 यङ्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 12 सूत्रम्)
(समभिहारशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
समभिहार इति कोऽयं शब्दः?।।
(उत्तरभाष्यम्)
समभिपूर्वाद्धरतेर्भावसाधनो घञ् --- समभिहरणं समभिहार इति। तद्यथा --- -(पुष्पाभिहारः) उत्पलाभिहारः मालाभिहारः (फलाभिहारः) इति।।
(उत्तरबाधकभाष्यम्)
विषम उपन्यासः। बह्व्यो हीमाः सुमनसः तत्र युक्तः समभिहार इति। इह पुनरेका क्रिया।।
(उत्तरसाधकभाष्यम्)
यद्यप्येका सामान्यक्रिया। अवयवक्रियास्तु बह्व्यः। अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः। ताः कश्चित् कार्त्स्येन करोति। कश्चिदकार्त्स्येन। तत्र यः कार्त्स्येन करोति स उच्यते पापच्यत इति। पुनः पुनर्वा पचति पापच्यते इति।।
(धातुग्रहणप्रत्याख्यानाधिकरणम्)
(पूर्वपक्षभाष्यम्)
अथ धातुग्रहणं किमर्थम्?।
(प्रयोजनभाष्यम्)
इह मा भूत् --- प्राटति भृशमिति।
(प्रत्याख्यानभाष्यम्)
अत उत्तरं पठति ---
(1762 प्रत्याख्यानवार्तिकम्।। 1 ।।)
- यङ्विधौ धातुग्रहण उक्तम्-
(भाष्यम्) यङ्विधौ धातुग्रहणे उक्तम्। किमुक्तम्?। तत्र तावदुक्तम् --- - कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यं सोपसर्गे कर्मेति चेत्कर्मविशेषकत्वादुपसर्गस्यानुपसर्गे कर्म। सोपसर्गस्य हि कर्मत्वे धात्वधिकारेपि सनोऽविधानमकर्मत्वात् इति एवमिहापि क्रियासमभिहारग्रहणाद्यङ्विधौ धातुग्रहणानर्थक्यम्। सोपसर्गः क्रियासमभिहार इति चेत् क्रियासमभिहारविशेषकत्वादुपसर्गस्यानुपसर्गः क्रियासमभिहारः। सोपसर्गस्य हि क्रिया समभिहारत्वे धात्वधिकारेऽपि यङोऽविधानमक्रियासमभिहारत्वाद् इति।।
(एकाज्झलादिग्रहणप्रत्याख्यानाधिकरणम्)
(पूर्वपक्षभाष्यम्)
अथैकाज्झलादिग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
इह मा भूत् --- जागर्त्ति भृशम्। इर्क्षते भृशमिति।।
(1763 प्रत्याख्यानवार्तिकम्।। 2 ।।)
- एकाज्झलादिग्रहणे चोक्तम्-
(भाष्यम्) एकाज्झलादिग्रहणे चोक्तम्। किमुक्तम्। तत्र तावदुक्तम् --- कर्मसमानकर्तृग्रहणानर्थक्यं चेच्छाभिधाने प्रत्ययविधानात्। अकर्मणो ह्यसमानकर्तृकाद्वा अनभिधानाद् इति। इहापि एकाज्झलादिग्रहणानर्थक्यं च क्रियासमभिहारे यङ्वचनाद् अनेकाचो हलादेर्ह्यनभिधानम् इति।। तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेपि ह्येकाज्झलादिग्रहणे यत्रैकाचो हलादेश्चोत्पद्यमानेन यङाऽर्थस्याभिधानं न भवति, न भवति तत्रोत्पत्तिः तद्यथा --- - भृशं शोभते भृशं रोचते।। यत्र चानेकाचोऽहलादेर्वोत्पद्यमानेन यङाऽर्थस्याभिधानं भवति, भवति
तत्रोत्पत्तिः। तद्यथा --- अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते।।
(1764 न्यूनतापूरकवार्तिकम्।। 3 ।।)
- ऊर्णोतेश्चोपसंख्यानम्।
ऊर्णोतेश्चोपसंख्यानं कर्तव्यम्। प्रोर्णोनूयते। अत्यल्पमिदमुच्यते - ऊर्णोतेरिति।
सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिग्रहणं यङ्विधावनेकाजहलाद्यर्थम्।
(भाष्यम्) सूचिसूत्रिमूत्र्यटर्यत्यशूर्णोतीनां ग्रहणं कर्तव्यम्। किं प्रयोजनम्?। यङ्विधावनेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते।।
(ःढ़द्य;र्णुग्रहणानावश्यकताभाष्यम्)
ऊर्णोतेर्न वक्तव्यः।
वाच्य ऊर्णोर्णुवद्भावो यङ् प्रसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात्।।
(1766 लोटो यङ्बाधकत्ववार्तिकम्।। 5 ।।)
- क्रियासमभिहारे यङो विप्रतिषेधेन लोड्विधानम्-
(भाष्यम्) क्रियासमभिहारे यङो लोड्भवति विप्रतिषेधेन। क्रियासमभिहारे यङ् भवतीत्यस्यावकाशाः --- धातुर्य एकाज्झलादिः क्रियासमभिहारे वर्तते, अधातुसंबन्धश्च लोलूयते। पोपूयते।। लोटोऽवकाशः --- - धातुर्योनेकाजहलादिः क्रियासमभिहारे वर्तते, धातुसंबन्धश्च स भवान् जागृहि जागृहीत्येवायं जागर्ति, स भवान् ईहस्व ईहस्व इत्येव अयम् इर्हते ।। धातुर्य एकाज्झलादिः क्रियासमभिहारे वर्तते धातुसंबन्धश्च, तस्माद् उभयं प्राप्नोति --- स भवान् लुनीहि लुनीहि इत्येवायं लुनाति। लोड्भवति विप्रतिषेधेन ।।
(अनुयोगभाष्यम्)
न तर्हीदानीमिदं भवति --- स भवान् लोलूयस्व लोलूयस्वेत्येवायं लोलूयत इति।।
(समाधानभाष्यम्)
भवति च।।
(1767 विप्रतिषैधवैर्यथ्यवार्तिकम्।। 6 ।।)
- न वा नानार्थत्वात्कर्तृकर्मणो हि लविधानं क्रियाविशेषे स्वार्थे यङ्-
(भाष्यम्) न वार्थो विप्रतिषेधेन। किं कारणम्? नानार्थत्वात्। का नानार्थता?। कर्तृकर्मणोर्हि लोड्विधीयते। क्रियाविशेषे स्वार्थे यङ्। तत्रान्तरङ्गत्वाद्यङा भवितव्यम्।।
(अनुयोगभाष्यम्)
न तर्हीदानीमिदं भवति --- स भवान् लुनीहि लुनीहीत्येवायं लुनातीति।।
(समाधानभाष्यम्)
भवति च। विभाषा यङ्। यदा न यङ् तदा लोट्।।
(वार्तिकशेषभाष्यम्)
-3-1-23- नित्यं कौटिल्ये गतौ (2634)
लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् 6.1.14 ।।
(1768 नित्यग्रहणानर्थक्यवार्तिकम्।। 7 ।।)
- उत्तरयोर्विग्रहेण विशेषासंप्रत्ययान्नित्यग्रहणानर्थक्यम्-
(भाष्यम्) उत्तरयोर्योगयोर्विग्रहेण विशेषस्यासंप्रत्ययान्नित्यग्रहणमनर्थकम्। नहि कुटिलं क्रामति इति चङ्क्रम्यत इति गम्यते।।
(अनुयोगभाष्यम्)
अथैतेभ्यः क्रियासमभिहारे यङा भवितव्यम्।।
(1769 समाधानवार्तिकम्।। 8 ।।)
- क्रियासमभिहारे च नैतेभ्यः-
(भाष्यम्) क्रियासमभिहारे च नैतेभ्यो यङा भवितव्यम् भृशं जपति ब्राह्मणः, भृशं समिधो दहतीत्येव।।
धातोरेकाचो।। 22 ।।
-3-1-25- सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (642)
(400 णिच्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 15 सूत्रम्)
(निपातनीयनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
सत्यापेति किं निपात्यते।।
(1770 समाधानवार्तिकम्।। 1 ।।)
- सत्यस्य कृञ्ञ्यापुक् च-
(भाष्यम्) सत्यस्य कृञ्ञि आपुक् च निपात्यते णिच्च। सत्सं करोति सत्यापयति।।
(न्यूनताभाष्यम्)
अत्यल्पमिदमुच्यते सत्यस्य इति।।
(1771 न्यूनतापूरकवार्तिकम्।। 1 ।।)
- णिविधावर्थवेदसत्यानामापुक्च-
(भाष्यम्) णिविधावर्थवेदसत्यानामापुक् चेति वक्तव्यम्। अर्थापयति वेदापयति सत्यापयति।।
(आपुकि दूषणभाष्यम्)
यद्यापुक् क्रियते टिलोपः प्राप्नोति।।
(पुगङ्गीकारमतभाष्यम्)
एवं तर्हि पुक्करिष्यते।।
(पुकि दूषणभाष्यम्)
एवमपि टिलोपः प्राप्नोति।।
(आगङ्गीकारभाष्यम्)
एवं तर्ह्याट्करिष्यते।।
(आकि दूषणभाष्यम्)
एवमपि टिलोपः प्राप्नोति।।
(आगङ्गीकारभाष्यम्)
एवं तर्ह्यक् करिष्यते।।
(आटि दूषणभाष्यम्)
एवमप्यनाकारान्तत्वात् पुङ्गप्राप्नोति।।
(आडङ्गीकारभाष्यम्)
एवं तर्ह्याट् करिष्यते।।
(आटि दूषणभाष्यम्)
एवमप्यनाङ्गत्वात्पुङ्न प्राप्नोति।।
(आपुडङ्गीकारभाष्यम्)
एवं तर्ह्यापुट् करिष्यते।।
(सर्वमतानां निर्दोषताभाष्यम्)
अथ वा पुनरस्त्वापुगेव।।
ननुचोक्तं टिलोपः प्राप्नोतीति।
आपुक्वचनसार्मथ्यान्न भविष्यति।।
अथ वा पुनरस्तु पुगेव।
ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति।
पुग्वचनसार्मथ्यान्न भविष्यति।।
अथ वा पुनरस्त्वागेव।
ननु चोक्तमेवमपि टिलोपः प्राप्नोतीति।।
आग्वचनसार्मथ्यान्न भविष्यति।। सत्यापपाश।। 25 ।।
-3-1-26- हेतुमति च (643)
(401 णिच्प्रत्ययविधिसूत्रम्।। 6.1.2 आ. 16 सूत्रम्)
(हेतुमच्छब्दार्थविशेष्यनिर्णयाधिकरणम्)
(विप्रतिपत्तिभाष्यम्)
कथमिदं विज्ञायते --- हेतुमत्यभिधेये णिज्भवतीति, आहोस्वित् --- -हेतुमति यो धातुर्वर्तते इति।।
(आक्षेपभाष्यम्)
युक्तं पुनरिदं विचारयितुम्। नन्वनेनासंदिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम्, यावता हेतुमति च इत्युच्यते। यदि हि प्रकृत्यर्थविशेषणं स्याद्; हेतुमतः इत्येव ब्रूयात्।।
(आक्षेपबाधकभाष्यम्)
नैतदस्ति। भवन्ति हि विषयसप्तम्योऽपि। तद्यथा --- प्रमाणे यत्प्रातिपदिकं वर्तते स्त्रियां यत् प्रातिपदिकं वर्तत इति।। एवमिहापि हेतुमत्यभिधेये णिज्भवति इति, हेतुमति वा यो धातुर्वर्तते इति जायते विचारणा।।
(समाधानभाष्यम्)
अत उत्तरं पठति --- -
(1770 प्रत्ययार्थविशेषणतावार्तिकम्।। 1 ।।)
- हेतुमतीति कारकोपादानं प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः-
(भाष्यम्) हेतुमतीति कारकमुपादीयते। किं प्रयोजनम्?। प्रत्ययार्थपरिग्रहार्थम्। एवं सति प्रत्ययार्थः सुपरिगृहीतो भवति। यथा तनूकरणे तक्षः इति तनूकरणमुपादीयते।।
(प्रकृत्यर्थविशेषणतासाधकभाष्यम्)
यदि तर्हि तद्वत्प्रकृत्यर्थविशेषणमिदं भवति। प्रकृत्यर्थविशेषणं हि तत्तत्र विज्ञायते --- तनूकरणक्रियायां तक्षः इति।
(प्रकृत्यर्थविशेषणत्वाभ्युपगमभाष्यम्)
अस्तु प्रकृत्यर्थविशेषणम्। को दोषः?।
(प्रकृत्यर्थविशेषणपक्षदूषणप्रदर्शनभाष्यम्)
इह हि --- उक्तः करोति, प्रेषितः करोतीति णिच् प्राप्नोति।। प्रत्ययार्थविशेषणे सति पुनर्न दोषो भवति। स्वशब्देनोक्तत्वान्न भविष्यति।।
(प्रकृत्यर्थविशेषणपक्षेऽपि दोषाभावप्रतिपादकभाष्यम्)
प्रकृत्यर्थविशेणेऽपि सति न दोषः। यत्र नान्तरेण शब्दमर्थस्य गतिर्भवति,तत्र शब्दः प्रयुज्यते। यत्र ह्यन्तरेणापि शब्दमर्थस्य गतिर्भवति न तत्र शब्दः प्रयुज्यते।।
(प्रकृत्यर्थविशेषणपक्षे दूषणभाष्यम्)
इह तर्हि पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति उभयोः कर्त्रोलेनाभिधानं प्राप्नोति।। प्रत्ययार्थविशेषणे सति पुनर्न दोषः। प्रधानकर्तरि लादयो भवन्तीति प्रधानकर्ता लेनाभिधीयते। यश्चात्राप्रधानं कर्ता, सिद्धा तत्र कर्तरीत्येव तृतीया।।
(प्रकृत्यर्थविशेषणपक्षदूषणभाष्यम्)
इह च गमितो ग्रामं देवदत्तो यज्ञदत्तेनेति अव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां क्तः कर्तरीति कर्तरि क्तः प्राप्नोति।।
इह च व्यतिभेदयन्ते व्यतिच्छेदयन्त इति अव्यतिरिक्तो हिंसार्थ इति कृत्वा न गतिहिंसार्थेभ्य इति प्रतिषेधः प्राप्नोति।।
(प्रत्ययार्थविशेषणपक्षाभ्युपगमभाष्यम्)
अस्तु तर्हि प्रत्ययार्थविशेषणम्।
(प्रत्ययार्थविशेषणपक्षदूषणभाष्यम्)
यदि प्रत्ययार्थविशेषणं, पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्तरि कर्मसंज्ञा प्राप्नोति। भवति हि तस्य
तस्मिन्नीप्सा।
इह च ग्रामं गमयति ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थकर्मणीति द्वितीयाचतुर्थ्यौ न प्राप्नुतः।।
इह चैधोदकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति कृत्वा कृञ्ञः प्रतियत्ने इति षष्ठी न प्राप्नोति।।
इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति।।
इह चाभिषावयति परिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति कृत्वा उपसर्गात्सुनोतिसुवतीत्यादिना षत्वं न
प्राप्नोति।।
(प्रत्ययार्थविशेषणपक्षे प्रथमदूषणपरिहारभाष्यम्)
नैष दोषः। यत्तावदुच्यते --- पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्तरि कर्मसंज्ञा प्राप्नोतीति।। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणीत्येतन्नियमार्थं भविष्यति --- एतेषामेव ण्यन्तानां यः कर्ता स णौ कर्मसंज्ञो भवति, नान्येषाम् इति।।
(प्रत्ययार्थविशेषणपक्षे द्वितीयदूषणपरिहारभाष्यम्)
यदप्युच्यते --- इह च ग्रामं गमयति ग्रामाय गमयति इति व्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थकर्मणी
द्वितीयाचतुर्थ्यौ न प्राप्नुत इति।। नासावेवं प्रेष्यते --- -गच्छ ग्राममिति। कथं तर्हि? साधनविशिष्टां क्रियामसौ प्रेष्यते ग्रामं गच्छ ग्रामाय गच्छेति।।
(तृतीयदूषणपरिहारभाष्यम्)
यदप्युच्यते--इह च एधोदकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति कृत्वा कृञ्ञः प्रतियत्न इति षष्ठी न प्राप्नोतीति।। नासावेवं प्रेष्यते --- -उपस्कुरुष्वैधो दकस्येति। कथं तर्हि साधनविशिष्टां क्रियामसौ प्रेष्यते एधो दकस्योपस्कुरुष्वेति।।
(चतुर्थदुषणपरिहारभाष्यम्)
यदप्युच्यते --- इह भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोतीति।। उक्तं तत्र कृद्ग्रहणस्य प्रयोजनं कर्तृभूतपूर्वमात्रेऽपि षष्ठी यथा स्यादिति।
(पञ्चमदूषणपरिहारभाष्यम्)
यदप्युच्यते --- इह चाभिषावयति परिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति कृत्वा उपसर्गात्सुनोतीत्यादिना षत्वं न प्राप्नोतीति। नासावेवं प्रेष्यते सुनु अभीति। कथं तर्हि? उपसर्गविशिष्टां क्रियामसौ प्रेष्यते अभिषुण्विति।।
(अनुयोगभाष्यम्)
युक्तं पुनरिदं विचारयितुम्। नन्वनेनासंदिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम्। यावता व्यक्तमर्थान्तरं गम्यते पचति पाचयतीति च।।
(समाधानभाष्यम्)
बाढं युक्तम्।। इह पचेः कः प्रधानार्थः?। याऽसौ तण्डुलानां विक्लित्तिः।
अथेदानीं तदभिसंधिपूर्वकं प्रेषणमध्येषणं वा। युक्तं यत्सर्वं पच्यर्थः स्यात्।।
(आक्षेपभाष्यम्)
अथ हेतुमतीति को मत्वर्थः।।
(समाधानभाष्यम्)
हेतुः कर्तास्य स हेतुमतीति।
(1771 निमित्तमात्रस्य हेतुशब्दार्थत्वसमर्थकवार्तिकम्।। 2 ।।)
- हेतुनिर्देशश्च निमित्तमात्रे, भिक्षादिषु दर्शनात्-
(भाष्यम्) हेतुनिर्देशश्च निमित्तमात्रे द्रष्टव्यः। यावद् ब्रूयाद् --- निमित्तं कारणम्, तावद् --- हेतुरिति। किं प्रयोजनम्?। भिक्षादिषु दर्शनात्। भिक्षादिषु हि णिज् दृश्यते --- -भिक्षा वासयति कारीषोग्निरध्यापयतीति।।
(अनुयोगभाष्यम्)
किं पुनः कारणं परिभाषिके हेतौ न सिध्यति?।।
(समाधानभाष्यम्)
एवं मन्यते चेतनावत एतद्भवति --- प्रेषणमध्येषणं चेति। भिक्षाश्चाचेतनाः।।
(समाधानबाधकभाष्यम्)
नैष दोषः। नावश्यं स एव वासं प्रयोजयति य इहोष्यताम् इति ब्रवीति किं तर्हि? तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽपि वासं प्रयोजयति। भिक्षाश्चापि प्रचुरा व्यञ्जनवत्यो लभ्यमाना वासं प्रयोजयन्ति।।
तथा कारीषोऽग्निर्निर्वाते एकान्ते सुप्रज्वलितोध्ययनं प्रयोजयति।।
(आक्षेपभाष्यम्)
इह कश्चित्कंचिदाह पृच्छतु मा भवान् अनुयुङूक्तां मा भवान् इति अत्र णिच् कस्मान्न भवति?
(समाधानभाष्यम्)
अकर्तृत्वात्। न ह्यसौ संप्रति पृच्छति। तूष्णीमास्ते।।
(आक्षेपभाष्यम्)
किं च भो वर्तमानकालाया एव क्रियायाः कर्त्रा भवितव्यम्, न भूतभविष्यत्कालायाः।।
(समाधानभाष्यम्)
भूतभविष्यत्कालाया अपि भवितव्यम्। (अभिसंबन्धस्तत्र क्रियते --- इमां क्रियामकार्षीद्, (इमां क्रियां) करिष्यतीति।।
(प्रागुक्ताकर्तृत्वोपपादनभाष्यम्)
इह पुनर्न कश्चिदभिसंबन्धः क्रियते। न चासौ संप्रति पृच्छति, न चासौ प्रक्ष्यति तूष्णीमास्ते?।
(अकर्तृत्वबाधकभाष्यम्)
यदि तर्हि कर्ता नास्ति। कथं तर्हि कर्तृप्रत्ययेन लोटाभिधीयते?।।
(आक्षेपभाष्यम्)
अथ कथमस्मिन्नपृच्छत्ययं पृच्छतिर्वर्तते?।।
(समाधानभाष्यम्)
अभिसंबन्धस्तत्र क्रियते --- इमां क्रियां कुर्विति।।
(अकर्तृत्वबाधकभाष्यम्)
कर्त्रापि तर्ह्यभिसंबन्धः क्रियते। कथम्?। कर्ता अस्या क्रियाया भवेति।।
(अकर्तृत्वसाधकभाष्यम्)
एवं न च कर्ता कर्तृप्रत्ययेन लोटाभिधीयते।।
(कर्तृत्वसद्भावेऽपि समाधानभाष्यम्)
अथापि कथंचित्कर्ता स्यात्, एवमपि न दोषः। लोटोक्तत्वात् प्रैषस्य णिज्न भविष्यति। विधीयन्ते ह्येतेष्वर्थेषु प्रैषादिषु लोडादयः।। यत्र च द्वितीयः प्रयोज्योऽर्थो भवति भवति तत्र णिच्। तद्यथा --- आसय शाययेति।
(1772 आक्षेपवार्तिकम्।। 3 ।। )
- कृष्यादिषु चानुत्पत्तिः-
(भाष्यम्) कृष्यादिषु चानुत्पत्तिर्वक्तव्या। एकान्ते तूष्णीमासीन उच्यते पञ्चभिर्हलैः कृषतीति। तत्र भवितव्यं पञ्चभिर्हलैः कर्षयतीति।
(1773 समाधानवार्तिकम्।। 4 ।।)
- कृष्यादिषु चानुत्पत्तिर्नाना क्रियाणां कृष्यर्थत्वात्-
(भाष्यम्) कृष्यादिषु चानुत्पत्तिः सिद्धा। कुतः?। नानाक्रियाणां कृष्यर्थत्वात्। नाना क्रियाः कृषेरर्थाः। नावश्यं कृषतिर्विलेखन एव वर्तते। किं तर्हि?। प्रतिविधानं करोति, स कृष्यर्थः।। आतश्च प्रतिविधानेऽपि वर्तते यदहरेवासौ न प्रतिविधत्ते, तदहरेव तत्कर्म न प्रवर्तते।।
(1774 आक्षेपवार्तिकम्।। 5 ।।)
- यज्यादिषु चाविपर्यासः-
(भाष्यम्) यज्यादिषु चाविपर्यासो वक्तव्यः। पुष्यमित्रो यजते याजका याजयन्तीति। तत्र भवितव्यं पुष्यमित्रो याजयते याजका याजयन्तीति।।
(1775 समाधानवार्तिकम्।। 6 ।।)
- यज्यादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वात्-
(भाष्यम्) यज्यादिषु चाविपर्यासः सिद्धः। कुतः। नानाक्रियाणां यज्यर्थत्वात्। नाना क्रिया यजेरर्थाः। नावश्यं
यजिर्हविः प्रक्षेपण एव वर्तते। किं तर्हि। त्यागेऽपि वर्तते। तद्यथा। अहो यजत इत्युच्यते यः सुष्ठु त्यागं करोति। तं च पुष्यमित्रः करोति याजकाः प्रयोजयन्तीति।।
(1776 णिच्प्रत्ययविधिवार्तिकम्।। 7 ।।)
- तत् करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम्-
(भाष्यम्) तत् करोतीत्युपसंख्यानं कर्तव्यम्। किं प्रयोजनम्। सूत्रयत्याद्यर्थम्। सूत्रं करोति सूत्रयति (मूत्रयतीति)
(आक्षेपभाष्यम्)
इह व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयतीति वाक्ये षष्ठी, उत्पन्ने च प्रत्यये द्वितीया। केनैतदेवं भवति?।।
(समाधानभाष्यम्)
योसौ सूत्रव्याकरणयोरभिसंबन्धः स उत्पन्ने प्रत्यये निवर्तते अस्ति च करोतेर्व्याकरणेन सामर्थ्यमिति कृत्वा द्वितीया भविष्यति।।
(1777 णिच्प्रत्ययविधिवार्तिकम्।। 8 ।।)
- आख्यानात्कृतस्तदाचष्टे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकम्-
(भाष्यम्) आख्यानात्कृदन्ताणिज्वक्तव्यः तदाचष्ट इत्येतस्मिन्नर्थे। कृल्लुक्, प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। कंसवधमाचष्टे कंसं घातयति। बलिबन्धमाचष्टे बलिं बन्धयतीति।।
(1778 णिच्प्रतिषेधवार्तिकम्।। 9 ।।)
- आख्यानाच्च प्रतिषेधः-
(भाष्यम्) आख्यानशब्दाच्च प्रतिषेधो वक्तव्यः --- आख्यानमाचष्ट इति।।
(पूर्ववार्तिकस्थाख्यानशब्दग्राह्यनिर्णयाधिकरणम्)
(विप्रतिपत्तिभाष्यम्)
किं पुनर्यान्येतानि संज्ञाभूतानि आख्यानानि तेभ्य उत्पत्त्या भवितव्यम्। आहोस्विन् क्रियाख्यानमात्रात्।।
(विशेषजिज्ञासाभाष्यम्)
किं चातः?।
(संज्ञाभूताख्यानग्रहणपक्षदूषणभाष्यम्)
यदि संज्ञाभूतेभ्यः। इह न प्राप्नोति --- राजागमनमाचष्टे राजानमागमयतीति।।
(क्रियाख्यानमात्रग्रहणपक्षभाष्यम्)
अथ क्रियाख्यानमात्रम्। न दोषो भवति।। यथा न दोषस्तथास्तु।।
(1779 णिच्प्रत्ययवार्तिकम्।। 10 ।।)
- दृश्यर्थायां च प्रवृत्तौ-
(भाष्यम्) दृश्यर्थायां च प्रवृत्तौ कृदन्ताण्णिज् वक्तव्यः, तदाचष्टे इत्येतस्मिन्नर्थे। कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। मृगरमणमाचष्टे मृगान् रमयति।। दृश्यर्थायामिति किमर्थम्?। यदा हि ग्रामे मृगरमणमाचष्टे मृगरमणमाचष्ट इत्येव तदा भवति।।
(1780 णिच्प्रत्ययविधिवार्तिकम्।। 11 ।।)
- आङ् लोपश्च कालात्यन्तसंयोगे मर्यादायाम्-
(भाष्यम्) कालात्यन्तसंयोगे मर्यादायां कृदन्ताण्णिज् वक्तव्यः तदाचष्ट इत्येतस्मिन्नर्थे। आङ्लोपश्च कृल्लुक्
प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। आरात्रिविवासमाचष्टे रात्रिं विवासयतीति।।
(1781 णिच्प्रत्ययविधिवार्तिकम्।। 12 ।।)
- चित्रीकरणे प्रापि -
(भाष्यम्) चित्रीकरणे प्राप्तावर्थे कृदन्ताण्णिज् वक्तव्यः। कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते। सूर्यमुद्गमयतीति।।
(1782 णिच्प्रत्ययविधिवार्तिकम्।। 13 ।।)
- नक्षत्रयोगे ज्ञि-
(भाष्यम्) नक्षत्रयोगे जानात्यर्थे कृदन्ताण्णिज् वक्तव्यः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। पुष्ययोगं जानाति पुष्येण योजयति मघाभिर्योजयति इति।
(अनुयोगभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम्?।
(1783 प्रत्याख्यानवार्तिकम्।। 14 ।।)
न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्।
(भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। सामान्यकृतत्वात् सामान्येनैवात्र णिज् भविष्यति हेतुमतीति।। किं कारणम्?। हेतुतो ह्यविशिष्टम्। हेतुतो ह्यविशिष्टमेतद् भवति। तुल्या हि हेतुता देवदत्ते चादित्ये च।
(आक्षेपभाष्यम्)
न सिध्यति। स्वतन्त्रस्य प्रयोजको हेतुसंज्ञो भवतीत्युच्यते। न चासावादित्यं प्रयोजयति।
(1783 समाधानवार्तिकप्रथमखण्डम्।।)
- स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम्-
(भाष्यम्) यं भवान् स्वतन्त्रप्रयोजकं मुक्तसंशयं न्याय्यं मन्यते पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति, तेनैतत्तुल्यम्।। कथम्?।
(1784 समाधानवार्तिकद्वितीयखण्डम्।। 15)
- प्रवृत्तिर्ह्युभयत्रानपेक्ष्य -
(भाष्यम्) प्रवृत्तिर्ह्युभयत्रानपेक्ष्यैव किंचिद्भवति देवदत्ते चादित्ये च।। नेह कश्चित्परोनुग्रहीतव्य इति प्रवर्तते। सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते।। ये तावदेते गुरुशुश्रूषवो नाम तेऽपि स्वभूत्यर्थं प्रवर्तन्ते - पारलौकिकं च नो भविष्यति, इह च नः प्रीतो गुरुरध्यापयिष्यतीति।।
तथा --- य एते दासाः कर्मकरा नाम तेऽपि स्वभूत्यर्थं प्रवर्तन्ते - भक्तं चैलं च लप्स्यामहे। परिभाषाश्च न नो भविष्यन्तीति।।
तथा --- य एते शिल्पिनो नाम एतेऽपि स्वभूत्यर्थे प्रवर्तन्ते - वेतनं च लप्स्यामहे। मित्राणि च नो भविष्यन्तीति।
(वार्तिकादिशेषभाष्यम्)
एवमेतेषु सर्वेषु स्वभूत्यर्थे प्रवर्तमानेषु ---
(1885 देवदत्तादित्ययोः प्रयोज्यत्वसाधकवार्तिकम्।। 16 ।।)
- कुर्वतः प्रयोजकः इति चेत्तुल्यम्-
(भाष्यम्) यदि कश्चित्प्रयोजको नाम कुर्वतो भवति तेनैतत्तुल्यम्।।
(आक्षेपभाष्यम्)
यदि तर्हि सर्व इमे स्वभूत्यर्थे प्रवर्तन्ते, कः प्रयोज्यार्थः?।।
(समाधानभाष्यम्)
यदभिप्रायेषु सज्जन्ते इर्दृशौ वर्ध्यौ कुरु, इर्दृशौ पुटकौ कुरु इति। आदित्यश्चास्याभिप्राये सज्जते। एष तस्याभिप्रायः उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयेय इति।। तं चास्यादित्योभिप्रायं निर्वर्तयति।।
(आक्षेपभाष्यम्)
भवेदिह वर्तमानकालता युक्ता स्याद् उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते सूर्यमुद्गयतीति,
तत्रस्थस्य हि तस्यादित्य उदेति। इह तु कथं वर्तमानकालता कंसे घातयति बलिं बन्धयतीति। चिरहते च कंसे, चिरबद्धे च बलौ।।
(समाधानभाष्यम्)
अत्रापि युक्ता।। कथम्?। ये तावदेते शौभिका नाम एते प्रत्यक्षं कंसं घातयन्ति प्रत्यक्षं च बलिं बन्धयन्तीति।।
(आक्षेपभाष्यम्)
चित्रेषु कथम्?।
(समाधानभाष्यम्)
चित्रेष्वपि उद्गूर्णा निपतिताश्च प्राहारा दृश्यन्ते कंसस्य कृष्णस्य च।।
(आक्षेपभाष्यम्)
ग्रन्थिकेषु कथम्। यत्र शब्दग्रन्थगड्डमात्रं लक्ष्यते।
(समाधानभाष्यम्)
तेऽपि हि तेषामुत्पत्तिप्रभृत्याविनाशात् तदृद्धीर्व्याचक्षाणाः सतो बुद्धिविषयान् प्रकाशयन्ति।। आतश्च सतः। व्यामिश्राश्च दृश्यन्ते --- केचित् कंसभक्ता भवन्ति, केचिद्वासुदेवभक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति --- केचित्कालमुखा भवन्ति केचिद् रक्तमुखाः। त्रैकाल्यं खल्वपि लोके लक्ष्यते --- गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन हतः कंस इति। हेतुमति च ।। 26 ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमपादे द्वितीयमाह्निकम्।।
-3-1-27- कण्ड्वादिभ्यो यक् (644)
(402 यक्प्रत्ययविधिसूत्रम्।। 6.1.6 आ. 1 )
(आक्षेपभाष्यम्)
किमर्थः ककारः?।
(समाधानभाष्यम्)
गुणवृद्धिप्रतिषेधार्थः। क्ङितीति गुणवृद्धिप्रतिषेधो यथा स्यात्।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते। कण्ड्वादीनि हि प्रातिपदिकानि।।
(1786 यकोवैकल्पिकत्वसाधकवार्तिकप्रथमखण्डम्।।)
- कण्ड्वादिभ्यो वावचनम्-
(भाष्यम्) काण्ड्वादिभ्यो वेति वक्तव्यम्।।
(1786 वार्तिकद्वितीयखण्डम्।। 1 ।।)
- अवचने हि नित्यप्रत्ययत्वम्-
(भाष्यम्) अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत।।
(दोषप्रश्नभाष्यम्)
तत्र को दोषः?।।
(1787 दोषकथनवार्तिकम्।। 2 ।।)
- तत्र धातुविधितुक् प्रतिषेधः-
(भाष्यम्) तत्र धातुविधेस्तुकश्च प्रतिषेधो वक्तव्यः स्यात्। कण्ड्वौ कण्ड्वः अचिश्नुधातुभ्रुवां य्वोरियङुवङौ इत्युवङादेशः प्रसज्येत।
इह कण्ड्वा कण्ड्वे इति नोङ्धात्वोः इति विभक्तेरुदात्तत्वप्रतिषेधः प्रसज्येत।।
तुक् च प्रतिषेध्यः, वल्गुर्मन्तुरिति हूस्वस्य पिति कृति तुक् इति तुक् प्राप्नोति।।
(1788 दोषकथनवार्तिकम्।। 3 ।।)
- ह्रस्वयलोपौ च-
(भाष्यम्) हस्वयलोपौ च वक्तव्यौ स्याताम्।। ह्रस्व --- वल्गुर्मन्तुरिति।।
किमर्थमिदं न ह्रस्व एवायम्?।
अन्तरङ्गत्वाद् अकृद्यकार इति दीर्घत्वं प्राप्नोति। हस्वः।।
यलोप --- यलोपश्च वक्तव्यः। कण्डूर्मन्तुर्वल्गुरिति।
किमर्थमिदम्, न वलीत्येव सिद्धम्।
वलीत्युच्यते, न चात्र वलं पश्यामः।।
ननु च क्विब्वलादिः।।
क्विपो लोपे कृते वलाद्यभावान्न प्राप्नोति। इदमिह संप्रधार्यम्। क्विब्लोपः क्रियतां वलि लोप इति। किमत्र कर्तव्यम्?। परत्वात् क्विब्लोपः।। नित्यः खल्वपि क्विब्लोपः कृते यलोपे प्राप्नोति, अकृतेऽपि।। नित्यत्वात् परत्वाच्च क्विब्लोपे कृते वलाद्यभावाद् न प्राप्नोति।
एवं तर्हि प्रत्ययलक्षणेन भविष्यति।।
वर्णाश्रये नास्ति प्रत्ययलक्षणम्।।
(अनुयोगभाष्यम्)
अथ क्रियमाणेऽपि वावचने यदा यगन्तात् क्विप् तदैते दोषाः कस्मान्न भवन्ति।।
(समाधानभाष्यम्)
नैतेभ्यस्तदा क्विबुत्पद्यते। किं कारणम्?। अन्येभ्योपि दृश्यते इत्युच्यते। नैतेभ्यः तदा क्विब्दृश्यते।।
(अनुयोगभाष्यम्)
यथैव तर्हि क्रियमाणेऽपि वावचने अन्येभ्योऽपि दृश्यते इत्यत्र क्विब् न भवति। एवमक्रियमाणेऽपि वावचने न भविष्यति।।
(क्विपीष्टापत्तिभाष्यम्)
अवश्यमेतेभ्यः क्विबेषितव्यः। किं प्रयोजनम्। एतानि रूपाणि यथा स्युरिति।।
(अनुयोगभाष्यम्)
तत्तर्हि वावचनं कर्तव्यम्।
(समाधानभाष्यम्)
न कर्तव्यम्। उभयं कण्ड्वादीनि धातवश्च प्रातिपदिकानि च।। आतश्चोभयम्। कण्डूयतीति हि क्रियां कुर्वाणे प्रयुज्यते। अस्ति मे कण्डूरिति वेदनामात्रस्य सांनिध्ये।।
अपर आह --- -
धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि।
आह चायमिमं दीर्घे मन्ये धातुर्विभाषितः।।
इति।। कण्ड्वादिभ्यो यक्।। 27 ।।
-3-1-30- कमेर्णिङ् (647)
(403 णिङ्प्रत्ययविधिसूत्रम्।। 3।1।3 आ. 2)
(आक्षेपभाष्यम्)
किमर्थो णकारः।
(समाधानभाष्यम्।)
वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यादिति।
(समाधानबाधकभाष्यम्)
क्रियमाणेपि वैणकारे वृद्धिर्न प्राप्नोति। किं कारणम्। क्ङिति चेति प्रतिषेधात्।
(समाधानसाधकभाष्यम्)
णित्करणसार्मथ्याद्भविष्यति।
(समाधानबाधकभाष्यम्)
अत उत्तरं पठति --- --
(1789 समाधानबाधकवार्तिकम्।। 1 ।।)
- णिङि णित्करणस्य सावकाशत्वाद् वृद्धिप्रतिषेधप्रसङ्गः-
(भाष्यम्) णिङि णित्करणं सावकाशम्। कोवकाशः?। सामान्यग्रहणार्थो णकारः। क्व सामान्यग्रहणार्थेन
णकारेणार्थः?। णेरनिटि इति। णिङिणित्करणस्य सावकाशत्वाद् वृद्धेः प्रतिषेधः प्राप्नोति।।
(प्रतिबन्दीभाष्यम्)
ङित्करणमपि सावकाशम्। कोऽवकाशः?। सामान्यग्रहणाविघातार्थो ङकारः। क्व सामान्यग्रहणाविघातार्थेनार्थः?। अत्रैव।।
(ङित्करणवैर्यथ्यभाष्यम्)
शक्योत्रसामान्यग्रहणाविघातार्थोऽन्योऽनुबन्ध आसङ्क्तुम्। तत्र ङकारानुबन्धाद् वृद्धिप्रतिषेधः प्राप्नोति।
(ङित्करणसार्थक्यभाष्यम्)
अवश्यमत्रात्मनेपदार्थो ङकारोनुबन्ध आसङ्क्तव्यः। ङित इत्यात्मनेपदं यथा स्यात्।।
(प्रतिबन्दीबाधकभाष्यम्)
एवमप्युभयोः सावकाशयोः प्रतिषेधबलीयस्त्वात्प्रतिषेधः प्राप्नोति।।
(प्रतिषेधाप्राप्तिभाष्यम्)
एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति --- न कमेर्वृद्धि प्रतिषेधो भवतीति। यदयं न कम्यमिचमामिति मित्संज्ञायाः प्रतिषेधं शास्ति।।
(1790 ज्ञापकत्वबाधकं मित्प्रतिषेधसार्थक्यवार्तिकम्।। 2 ।।)
- मित्प्रतिषेधस्य चार्थवत्त्वात्-
(भाष्यम्) मित्प्रतिषेधस्य चार्थवत्त्वाद्वृद्धिप्रतिषेधः प्राप्नोति। अर्थवान् मित्प्रतिषेधः। कोर्थः?। णिङन्तस्य णिचि या वृद्धिस्तस्या ह्रस्वत्वं मा भूदिति।
(ज्ञापकत्वसाधकभाष्यम्)
ननु तस्या अपि क्ङितिचेति प्रतिषेधेन भवितव्यम्।
(ज्ञापकत्वबाधकभाष्यम्)
न भवितव्यम्। उक्तमेतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणमुपधारोरवीत्यर्थमिति।
(ज्ञापकत्वसाधकभाष्यम्)
एवं तर्हि णिङन्तस्य णिचि या वृद्धिस्तस्या ह्रस्वत्वं न प्राप्नोति। किं कारणम्। णिङा व्यवहितत्वात्।
(ज्ञापकत्वबाधकभाष्यम्)
लोपे कृते नास्ति व्यवधानम्।
(ज्ञापकत्वबाधकभाष्यम्)
स्थानिवद्भावाद्व्यवधानमेव।
(ज्ञापकत्वबाधकभाष्यम्)
णिङ्येव तर्हि मा भूदिति।
(ज्ञापकत्वसाधकभाष्यम्)
णिङि च न प्राप्नोति। किं कारणम्?। असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति।
(ज्ञापकत्वसाधकयुक्त्यन्तरभाष्यम्)
नैव वा पुनर्णिङन्तस्य णिचि वृद्धिः प्राप्नोति। किं कारणम्। णिङा व्यवहितत्वात्।।
लोपो कृते नास्ति व्यवधानम्।।
स्थानिवद्भावाद् व्यवधानमेव।।
(ज्ञापकत्वबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। यत्तत् चिण्णमुलोर्दीर्घोन्यतरस्याम् इति दीर्घत्वं शास्ति, तत्कमेर्णिङि मा भूदिति।।
(ह्स्वघटितन्यासकरणे लाघवभाष्यम्)
किं पुनः कारणं तत्र दीर्घोन्यतरस्यामित्युच्यते, न ह्रस्वोन्यतरस्यामित्येवोच्येत। यथाप्राप्तं कमेर्ह्रस्वत्वमेव।। तत्रायमप्यर्थः --- ह्रस्वग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते। क्व प्रकृतम्?। मितां ह्रस्वः इति।
(आक्षेपभाष्यम्)
का रूपसिद्धिः। अशमि अशामि। शमंशमम्। शामंशामम्।।
(समाधानभाष्यम्)
वृद्ध्या सिद्धम्।।
(आक्षेपसाधकभाष्यम्)
न सिध्यति। नोदात्तोपदेशस्य मान्तस्यानाचमेरिति वृद्धिप्रतिषेधः प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। चिण्कृतोः स वृद्धिप्रतिषेधो, न णिचि।।
(आक्षेपसाधकभाष्यम्)
इह तर्हि। अजनि अजानि जनंजनम्। जानंजानम्। जनिवध्योश्चेति वृद्धिप्रतिषेधः प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
सोपि चिण्कृतोरेव, न णिचि।।
(ह्रस्वघटितन्यासे गौरवभाष्यम्)
णिज्व्यवहितेषु तर्हि यङ्लोपे चोपसंख्यानं कर्तव्यं स्यात्। शमयन्तं प्रयोजितवान् अशमि अशामि। शमंशामि। शंशमंशंशमम्। शंशामंशंशामम्।।
किं पुनः कारणं न सिध्यति?।
चिण्णमुल्परे णौ मितामङ्गानां ह्रस्वो भवतीत्युच्यते। यश्चात्र णिः चिण्णमुल्परः, तस्मिन्मिदङ्गम्। यस्मिंश्चमिदङ्गम्, नासौ णिश्चिण्णमुल्परः।।
णिलोपे तर्हि कृते चिण्णमुल्परः।।
स्थानिवद्भावान्न चिण्णमुल्परः।।
(दीर्घघटितन्यासेऽनुयोगभाष्यम्)
अथ दीर्घोऽन्यतरस्यामित्युच्यमाने यावता स्थानिवद्भावः कथमेवैतावता सिध्यति।।
(समाधानभाष्यम्)
एतदिदानीं दीर्घग्रहणस्य प्रयोजनम् --- दीर्घविधिं प्रत्यजादेशो न स्थानिवद्भवतीति स्थानिवत्त्वप्रतिषेधः सिद्धो भवति।।
(आक्षेपभाष्यम्)
यदा खल्वप्यायादय आर्धधातुके वा भवन्ति तदा णिचि णिङ् नास्ति तदर्थे च मित्प्रतिषेधः स्यात्। तस्मात्प्रतिषेधः प्राप्नोति।।
(समाधानभाष्यम्)
उक्तं वा। किमुक्तम्। तद्धितकाम्योरिक्प्रकरणादिग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः नचैषां इग्लक्षणा वृद्धिरिति।। कमेर्णिङ्।। 30 ।।
-3-1-31- आयादय आर्धधातुके वा (648)
(404 विकल्पसूत्रम्।। 3।1।3 आ. 3)
(आर्धधातुक इति सप्तम्यर्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते --- आयादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनां निवृत्तिर्भवतीति। आहो स्विद् --- आयादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते आयादीनामुत्पत्तिर्भवतीति।।
(प्रत्याक्षेपभाष्यम्)
किंगतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम्?।।
(प्रत्याक्षेपसमाधानभाष्यम्)
गतमित्याह। कथम्?। यदा तावदायादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वायादीनां निवृत्तिर्भवतीति तदाऽविशेषेण सर्वमायादिप्रकरणमनुक्रम्य आयादय आर्धधातुके वा इत्युच्यते।।
यदाप्यायादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनामुत्पत्तिर्भवतीति तदैकं वाक्यं तच्चेदं च। गुपूधूपविच्छिपणिपनिभ्य आयः। आर्धधातुके वा। ऋतेरीयङ्। आर्धधातुके वा। कमेर्णिङ्। आर्धधातुके वा इति।।
(अनुयोगभाष्यम्)
कश्चात्र विशेषः?।
(1791 विशेषदर्शकवार्तिम्।। 1 ।।)
- आयादिभ्यो यदार्धधातुकम् आयादिप्रकृतेर्यदार्धधातुकमिति चोभयथाऽनिष्टप्रसङ्गः-
(भाष्यम्) आयादिभ्यो यदार्धधातुकम् आयादिप्रकृतेर्यदार्धधातुकम् इति चोभयथाऽनिष्टं प्राप्नोति।।
यदि विज्ञायते आयादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनां निवृत्तिर्भवतीति। गुप्तिः --- --जुगोपेति चेष्टं न सिध्यति। इदं चानिष्टं प्राप्नोति --- -गोपांचकार गोपेति। इदं त्विष्टं सिद्धं भवति --- -गोपायांचकार गोपायेति।।
(द्वितीयपक्षदूषणभाष्यम्)
अथ विज्ञायते --- आयादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनामुत्पत्तिर्भवतीति। गुप्तिर्जुगोपेति चेष्टं सिद्धं भवति। इदं चानिष्टं न प्राप्नोति --- गोपांचकार गोपेति। इदं त्विष्टं न सिध्यति --- -गोपायांचकार गोपायेति।।
(सिद्ध्युपपत्तिभाष्यम्)
इदं तावदिष्टं सिद्धं भवति गोपायांचकारेति।। कथम्?। अस्त्वत्रायादिप्रकृतेर्यदार्धधातुकं लिद्तस्मिन्नवस्थिते वा आयादयः आम्मध्ये पतिष्यति यथा विकरणस्तद्वत्।।
(अनुपपत्तिभाष्यम्)
इदं तर्हीष्टं न सिध्यति --- -गोपायेति।।
(1792 इष्टसाधकन्यासान्तरवार्तिकम्।। 2 ।।)
- सिद्धं तु सार्वधातुके नित्यवचनादनाश्रित्य वा विधानम्-
(भाष्यम्) सिद्धमेतत्। कथम्?। अविशेषेणायादीनां वा विधिमुक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि।।
(1793 स्यादिबलीयस्त्वापत्तिवार्तिकम्।। 3 ।।)
- स्यादिबलीयस्त्वं तु विप्रतिषेधेन तुल्यनिमित्तत्वात्-
(भाष्यम्) स्यादिभिस्त्वायादीनां बाधनं प्राप्नोति।। किं कारणम्?। विप्रतिषेधेन तुल्यनिमित्तत्वात्। तुल्यं हि निमित्तमायादीनां स्यादीनां च। स्यादीनामवकाशः --- करिष्यति हरिष्यति। आयादीनामवकाशः --- -गोपायति धूपायतीति। इहोभयं प्राप्नोति --- गोपायिष्यति धूपायिष्यतीति। परत्वात् स्यादयः प्राप्नुवन्ति।।
(1794 स्यादीनामायादिबाधानापत्तिवार्तिकम्।। 4 ।।)
- न वाऽऽयादिविधानस्यानवकाशत्वात्-
(भाष्यम्) न वैष दोषः। किं कारणम्?। आयादिविधानस्यानवकाशत्वात्। अनवकाशा आयादयः उच्यन्ते च ते
वचनाद्भविष्यन्ति।।
(अवकाशभाष्यम्)
ननु चेदानीमेवावकाशः प्रक्लृप्तः --- गोपायति धूपायतीति।।
(अवकाशाभावभाष्यम्)
अत्रापि शप् स्यादिर्भवति।।
(अवकाशभाष्यम्)
यद्यत्रापि शप् स्यादिर्भवति। न त्वत्रास्तिविशेषः सति वा शप्यसति वा।।
अन्यदिदानीमेतद् --- -यदुच्यते नास्ति विशेषः इति। यत्तु तदुक्तम् --- --आयादीनां स्यादिभिरव्याप्तोऽवकाशः इति, स नास्त्यवकाशः। अवश्यं खल्वप्यत्र शप्स्यादिरेषितव्यः। किं प्रयोजनम्?। गोपायन्ती धूपायन्तीति
शप्श्यनोर्नित्यम् इति नित्यो नुम् यथा स्यात्।।
(आक्षेपभाष्यम्)
यदि तर्हि अनवकाशा आयादयः आयादिभिः स्यादीनां बाधनं प्राप्नोति।।
(समाधानभाष्यम्)
यथा पुनरयं सूत्रभेदेन परिहारः यदि पुनः शपि नित्यम् इत्युच्यते।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।।
(दोषस्मारणभाष्यम्)
ननु चोक्तम् --- - आयादिभ्यो यदार्धधातुकमायादिप्रकृतेर्यदार्धधातुकमिति चोभयथानिष्टप्रसङ्ग इति।
(दूषणोद्धारभाष्यम्)
नैष दोषः। आर्धधातुक इति नैषा परसप्तमी। का तर्हि?। विषयसप्तमी। आर्धधातुके विषय इति तत्रार्धधातुकविषये आयादिप्रकृतेरायादिषु (वा) कृतेषु यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति।। आयादयः।। 31 ।।
-3-1-32- सनाद्यन्ता धातवः (649)
(405 धातुसंज्ञासूत्रम्।। 3।1।3 आ.4)
(अतग्रहणप्रयोजनाधिकरणम्।)
(आक्षेपभाष्यम्)
अन्तग्रहणं किमर्थम्, न सनादयो धातवः इत्येवोच्येत?।
(प्रत्याक्षेपभाष्यम्)
केनेदानीं तदन्तानां भविष्यति।।
(प्रत्याक्षेपसमाधानभाष्यम्)
तदन्तविधिना।।
(समाधानभाष्यम्)
अत उत्तरं पठति --- -
(1795 समाधानवार्तिकम्।। 1 ।।)
- सनादिष्वन्तग्रहण उक्तम्-
किमुक्तम्। पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति। इदं चापि प्रत्ययग्रहणम्। अयं चापि संज्ञाविधिः।।
(सूत्रारभ्यप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते। न भूवादयो धातव इत्येव सिद्धम्।।
(सूत्रारभ्यसाधकभाष्यम्)
न सिध्यति। पाठेन धातुसंज्ञा क्रियते। न चैते तत्र पठ्यन्ते।।
(सूत्रप्रत्याख्यानसाधकप्रत्याक्षेपभाष्यम्)
कथं तर्ह्यन्येषामपठ्यमानानां धातुसंज्ञा भवति --- अस्तेर्भूः ब्रुवो वचिः चक्षिङ ख्याञ्ञिति।।
(सूत्रारम्भसाधकप्रत्याक्षेपसमाधानभाष्यम्)
यद्यप्येते तत्र न पठ्यन्ते। प्रकृतयस्त्वेषां पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम्।।
(सूत्रप्रत्याख्यानभाष्यम्)
इमेऽपि तर्हि यद्यपि तत्र न पठ्यन्ते। येषां त्वर्थे आदिश्यन्तेउते तत्र पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम्।।
(सूत्रारम्भसाधकभाष्यम्)
न सिध्यति। आदेशाः स्थानिवदित्युच्यते। न चेमे आदेशाः।।
(सूत्रप्रत्याख्यानसाधकभाष्यम्)
इमे अप्यादेशाः।। कथम्?। आदिश्यते यः स आदेशः। इमे चाप्यादिश्यन्ते।।
(स्थानिवत्त्वानुपपत्तिभाष्यम्)
एवमपि षष्ठीनिर्दिष्टस्यादेशाः स्थानिवद्भवन्तीत्युच्यते। न चेमे षष्ठीनिर्दिष्टस्यादिश्यन्ते।।
(स्थानिवत्त्वोपपादनभाष्यम्)
षष्ठीप्रहणं निवर्तिष्यते।।
(निवृत्तिदूषणभाष्यम्)
यदि निवर्तते। अपवादे उत्सर्गकृतं प्राप्नोति। कर्मण्यण् आतोऽनुपसर्गे कः इति केऽप्यण्कृतं प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति। यदयं श्यन्नादीन् कांश्चिच्छ्रितः करोति श्यन्श्नम्श्नाश्नुरिति।। सनाद्यन्ता धातवः।। 32 ।।
(विधिप्रकरणे प्रत्ययप्रकरणे विकरणप्रकरणम्)
-3-1-33- स्यतासी लृलुटोः (650)
(406 स्यतास्प्रत्ययविधिसूत्रम्।। 3।1।3 आ. 5 )
(विकरणानामुत्सर्गापवादत्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
इमे विकरणाः पठ्यन्ते। तत्र न ज्ञायते --- क उत्सर्गः, कोऽपवाद इति।। तत्र वक्तव्यम् --- अयमुत्सर्गः, अयमपवाद इति।।
(समाधानभाष्यम्)
इमे ब्रूमः --- यगुत्सर्गः, अपवादाः शबादयः स्यादयश्च।।
(वार्तिकशेषभाष्यम्)
यदि यगुत्सर्गः, अपवादः शबादिः स्यादयश्च--
(1796 आक्षेपवार्तिकम्।। 1 ।।)
- अपवादविप्रतिषेधाच्छबादिबाधनम्-
(भाष्यम्) अपवादविप्रतिषेधाच्छबादिभिः स्यादीनां बाधनं प्राप्नोति। शबादीनामवकाशः --- पचति पठति। स्यादीनामवकाशः पक्ष्यते यक्ष्यते। इहोभयं प्राप्नोति--पक्ष्यति यक्ष्यति। परत्वाच्छबादयः प्राप्नुवन्ति।।
(1797 आक्षेपबाधकवार्तिकम्।। 2 ।।)
- आक्षेपबाधकवार्तिकम्।। 2 ।।)
(भाष्यम्) अपवादो नाम स भवति यत्रानेकलक्षणप्रसङ्गः।। अत्र च भावकर्मणोर्यग्विधीयते, कर्तरि शप्। कः प्रसङ्गो यद्भावकर्मणोर्यकं कर्तरि शबादयो बाधेरन्।।
(1798 अन्यविधोत्सर्गापवादत्वविदूषणवार्तिकम्।। 3 ।।)
- अपवादविप्रतिषेधाच्छ्यन्नादिबाधनम्-
(भाष्यम्) अपवादविप्रतिषेधात् श्यन्नादिभिः स्यादीनां बाधनं प्राप्नोति। श्यन्नादीनामवकाशः --- -दीव्यति सीव्यति। स्यादीनामवकाशः --- पक्ष्यति यक्ष्यति। इहोभयं प्राप्नोति --- देविष्यति सेविष्यतीति। परत्वाच्छ्यन्नादयः प्राप्नुवन्ति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। शबादेशाः श्यनादयः करिष्यन्ते।। शप् च स्यादिभिर्बाध्यते। तत्र दिवादिभ्यः स्यादिविषये शबेव नास्ति कुतः श्यन्नादयः।।
(आक्षेपभाष्यम्)
तत्तर्हि शपो ग्रहणं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। कर्तरि शब् इति।।
(समाधानबाधकभाष्यम्)
तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः।।
(समाधानबाधकभाष्यम्)
नैष दोषः। दिवादिभ्य इत्येषा पञ्चमीशबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति।।
(समाधानबाधकभाष्यम्)
प्रत्ययविधिरयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति।।
(समाधानसाधकभाष्यम्)
नायं प्रत्ययविधिः। विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।
(समाधानान्तरभाष्यम्)
अथ वा अनुवृत्तिः करिष्यते --- सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज्भवतीति। कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज्भवति। दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्ले)
सिज्भवति।।
(समाधानान्तरभाष्यम्)
अथ वान्तरङ्गः स्यादयः। काऽन्तरङ्गता?। लावस्थायामेव स्यादयः। सार्वधातुके श्यन्नादयः।। स्यतासी।। 33 ।।
-3-1-34- सिब्बहुलं लेटि (659)
(407 सिब्विकरणविधिसूत्रम्।। 3।1।3 आ. 6)
(1799 छान्दसत्वनियमवार्तिकम्।। 1 ।।)
- सिबुत्सर्गः छन्दसि-
(भाष्यम्) सिबुत्सर्गश्छन्दसि कर्तव्यः।।
(1800 सनादिषु विधानवार्तिकम्।। 2 ।।)
- सनाद्यन्तेनेषत्वाद्यर्थः-
(भाष्यम्) सनाद्यन्ताधिकारे च कर्तव्यः। किं प्रयोजनम्?। नेषत्वाद्यर्थः। इन्द्रो नस्तेन नेषतु। गावो नेष्टादिति।।
(1801 सनादिवर्गीयत्ववैर्यथ्यवार्तिकम्।। 3 ।।)
- प्रकृत्यन्तरत्वात्सिद्धम्-
(भाष्यम्) प्रकृत्यन्तरत्वात्सिद्धमेतत्।।
कथं प्रकृत्यन्तरं नेषः?।।
(पित्करणप्रत्याख्यानाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थः पकारः?।।
(आक्षेपबाधकभाष्यम्)
स्वरार्थः अनुदात्तौ सुप्पितौ इत्येष स्वरो यथा स्यादिति।।
(1803 प्रत्याख्यानवार्तिकम्।। 5 ।।)
- पित्करणानर्थक्यं चानच्कत्वात्-
(भाष्यम्) पित्करणं चानर्थकम्। कुतः?। अनच्कत्वात्। अनच्कोऽयम्। तत्र नार्थः स्वरार्थेनानुबन्धेन पकारेण।।
(प्रत्याख्यानबधकभाष्यम्)
इटि कृते साच्को भविष्यति।।
(1804 प्रत्याख्यानसाधकवार्तिकम्।। 6 ।।)
- इटोऽनुदात्तार्थमिति चेदागमानुदात्तत्वात्सिद्धम्-
(भाष्यम्) आगमानुदात्तत्वेनेटोऽनुदात्तत्वं भविष्यति।।
(प्रत्याख्यानबाधकभाष्यम्)
एवं तर्हि सबयं कर्तव्यः। किं प्रयोजनम्?। यदवयासिसीष्ठाः एकाज्लक्षण इट्प्रतिषेधो मा भूदिति।।
(आक्षेपभाष्यम्)
क्वायमकारः श्रूयते?।
(समाधानभाष्यम्)
न क्वचिच्छ्रूयते। लोपोऽस्य भविष्यति। अतो लोपः आर्धधातुक इति।।
(प्रत्याख्यानसाधकभाष्यम्)
यदि न क्वचिच्छ्रूयते। नार्थः स्वरार्थेन पकारेणानुबन्धेन।।
(पकारप्रयोजनभाष्यम्)
एवमपि कर्तव्यः?। किं प्रयोजनम्। अनुदात्तस्य लोपो यथा स्यादुदात्तस्य लोपो मा भूदिति। किं च स्यात्?। उदात्तनिवृत्तिस्वरः प्रसज्येत।।
(1805 सिपो णित्त्वविधिवार्तिकम्।। 7 ।।)
- सिब् बहुलं छन्दसि णित्-
(भाष्यम्) सिब् बहुलं छन्दसि णिद् वक्तव्यः सविता धर्मे साविषत्। प्र ण आयूंषि तारिषत्।। सिब्बहुलम्।। 34 ।।
(आम्विकरणप्रकरणम्)
-3-1-35- कास्प्रत्ययादाममन्त्रे लिटि (652)
(408 आम्विकरणविधिसूत्रम्।। 3।1।3 आ. 7)
(1806 आम्विधिवार्तिकम्।। 1 ।।)
- कास्ग्रहणे चकास उपसंख्यानम्-
(भाष्यम्) कास्ग्रहणे चकास उपसंख्यानं कर्तव्यम्। चकासांचकार।।
(न्यासान्तरेण वैर्यथ्यभाष्यम्)
न कर्तव्यम्। चकास्प्रत्ययादिति वक्ष्यामि।।
(1807 न्यासान्तरेपि वार्तिककरणम्।। 2 ।।)
- चकास्ग्रहणे कास उपसंख्यानम्-
(भाष्यम्) चकास्ग्रहणे कास उपसंख्यानं कर्तव्यम्। कासांचक्रे।।
(दूषणभाष्यम्)
यथान्यासमेवास्तु।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् कास्ग्रहणे चकास उपसंख्यानम् इति।।
(दूषणोद्धारभाष्यम्)
नैष दोषः। चकास्शब्दे काश्शब्दोऽस्ति तत्र कास्प्रत्ययादित्येव सिद्धम्।।
(दूषणस्थैर्यभाष्यम्)
न सिध्यति। किं कारणम्। अर्थवतः कास्शब्दस्य ग्रहणम्। न च चकास्शब्दे काश्शब्दोऽर्थवान्।।
(समाधानसिद्धान्तिवार्तिकशेषभाष्यम्)
एवं तर्हि।
(1808 समाधानवार्तिकम्।। 3 ।।)
- कास्यनेकाचश्चुलुम्पाद्यर्थम्-
(भाष्यम्) कास्यनेकाचः इति वक्तव्यम्। किं प्रयोजनम्?। चुलुम्पाद्यर्थम्। चुलुम्पांचकार दरिद्रांचकार।। कास्प्रत्यया।। 35 ।।
-3-1-36- इजादेश्च गुरुमतोऽनृच्छः (653)
(409 आम्प्रत्ययविधिसूत्रम्।। 3.1.3 आ. 8)
(1809 आक्षेपवार्तिकम्।। 1 ।।)
- गुरुमत आम्विधाने लिण्निमित्तात् प्रतिषेधः-
(भाष्यम्) गुरुमत आम्विधाने लिण्निमित्ताद् गुरुमतः प्रतिषेधो वक्तव्यः। इयेष उवोष। गुणे कृते इजादेश्च गुरुमतोनृच्छ इत्याम् चप्रसज्जेत।।
(प्रत्याक्षेपभाष्यम्)
गुरुमद्वचनमिदानीं किमर्थं स्यात्?।
(1810 प्रत्याक्षेपबाधकवार्तिकम्।। 1 ।।)
- गुरुमद्वचनं किमर्थमिति चेद् णल्युत्तमे यजादिप्रतिषेधार्थम्-
(भाष्यम्) गुरुमद्वचनं किमर्थमिति चेण्णलि उत्तमे यजादीनां मा भूदीति। इयज अहम्।। उवप अहम्।।
(1811 आक्षेपबाधकवार्तिकम्।। 2 ।।)
- उपदेशवचनात्सिद्धम्-
(भाष्यम्) उपदेशे गुरुमत इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
यद्युपदेशग्रहणं क्रियते उच्छेराम् वक्तव्यः। व्युच्छांचकारेति।
(1812 आक्षेपबाधकवार्तिकम्।। 3 ।।)
- ऋच्छिप्रतिषेधो ज्ञापक उच्छेराम्भावस्य -
(भाष्यम्) यदयम् अनृच्छः इति प्रतिषेधं शास्ति तद् ज्ञापयत्याचार्यः --- तुङि्नमित्ता यस्य गुरुमत्ता भवति तस्मादाम् इति।।
(गौरवापत्तिभाष्यम्)
स तर्हि ज्ञापकार्थ ऋच्छिप्रतिषेधो वक्तव्यः?।।
(अनन्यासिद्धफलसाधकत्वेन गौरवाङ्गीकारभाष्यम्)
ननु चावश्यं प्राप्त्यर्थोऽपि वक्तव्यः?।।
(फलस्यान्यथासिध्या गौरवसाधकभाष्यम्)
नार्थः प्राप्त्यर्थेन। ऋच्छत्यॄताम् इति ऋच्छेर्लिटि गुणवचनं ज्ञापकम् --- र्नच्छेर्लिट्याम् भवतिःथ्द्य;ति।।
(अन्यथासिध्यनुपपत्तिभाष्यम्)
नैतदस्ति ज्ञापकम्। अर्त्यर्थमेतस्यात्।।
(प्रश्नभाष्यम्)
कथं पुनर्ऋच्छेर्लिटि। गुण उच्यमानोऽर्त्यर्थः शक्यो विज्ञातुम्?।
(समाधानभाष्यम्)
सार्मथ्यात्। ऋच्छिर्लिटि नास्तीति कृत्वा प्रकृत्यर्थो विज्ञास्यते। तद्यथा --- तिष्ठतेरित् जिघ्रतेर्वे ति। चङि तिष्ठतिजिघ्रती न स्त इति कृत्वा प्रकृत्यर्थो विज्ञायते।।
(अनुयोगभाष्यम्)
किं पुनरर्तेर्लिटि गुणवचने प्रयोजनम्?।
(उत्तरभाष्यम्)
आरतुः। आरुः । एतद्रूपं यथा स्यात्।।
(अनुयोगभाष्यम्)
किं पुनः कारणं न सिध्यति?।
(गुणवचनावश्यकताभाष्यम्)
द्विर्वचने कृते (सवर्णदीर्घत्वम्) सवर्णदीर्घत्वे च (कृते) यदि तावद्धातुग्रहणेन ग्रहणम्, ऋकारान्तानां लिटि गुणो
भवतीति गुणे कृते रपरत्वे च अरतुः अरुरित्येतद्रूपं प्रसज्येत।। अथाभ्यासग्रहणेन ग्रहणम्। उरदत्वे रपरत्वम् हलादिशेषः। अत आदेरिति दीर्घत्वम् तत आतो लोप इटिच इत्याकारलोपे अतुः उरिति वचनमेव श्रूयेत।।
गुणे पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् हलादिः शेषः अत आदेरिति दीर्घत्वम् ततः सिद्धं भवति --- -आरतुरारुरिति। यथा आटतुः आटुरिति।।
(अनुयोगपूर्वकमारतुरित्यादिसिद्धिभाष्यम्)
किं पुनः कारणं सवर्णदीर्घत्वं तावद्भवति न पुनरुस्त्वम्।। परत्वादुस्त्वेन भवितव्यम्।।
(गुणविधानावश्यकाभाष्यम्)
अन्तरङ्गत्वात्सवर्णदीर्घत्वं प्राप्नोति। अन्तरङ्गं सवर्णदीर्घत्वं बहिरङ्गमुरत्वम्। कान्तरङ्गता। वर्णावाश्रित्य सवर्णदीर्घत्वमङ्गस्योरत्त्वम्।।
(गुणानावश्यकताभाष्यम्)
उस्त्वमप्यन्तरङ्गम्। कथम्?। वक्ष्येत्येतत्प्रागभ्यासविकारेभ्योऽङ्गाधिकारःइति। उभयोरन्तरङ्गयोः परत्वादुस्त्वम्। उस्त्वे च कृते रपरत्वम् हलादिः शेषः अत आदे रिति दीर्घत्वं परस्य रूपस्य यणादेशः सिद्धं भवति --- आरतुः आरुरिति।
(गुणस्यान्यथासिद्धिप्रतिपादनभाष्यम्)
अथापि कथं चिदर्तेर्लिटि गुणेनार्थः स्यात्। एवमपि न दोषः ऋच्छत्यॄताम् इति ऋकारोऽप्यत्र निर्दिश्यते। कथम्। प्रश्लिष्टनिर्देशोऽयम् --- -ऋच्छति ऋऋताम् --- ऋच्छत्यॄतामिति।।
(आक्षेपभाष्यम्)
इहापि तर्हि प्राप्नोति --- -चक्रतुश्चकुरिति।
(समाधानभाष्यम्)
संयोगादिग्रहणं नियमार्थं भविष्यति --- संयोगादेरेवाकेवलस्य नान्यस्याकेवलस्येति।।
(आक्षेपभाष्यम्)
तदेतदन्तरेणार्तेर्लिटि गुणवचनं, रूपं सिद्धं भवति। अन्तरेण च ऋच्छिग्रहणम् अर्तेर्लिटि गुणः सिद्धः स एषोऽनन्यार्थ ऋच्छिप्रतिषेधो वक्तव्यः। उच्छेर्वा आम् वक्तव्यः।
(सिद्धान्तभाष्यम्)
उभयं न वक्तव्यम्। उपदेशग्रहणं न करिष्यते।।
कस्मान्न भवति --- इयेष उवोषेति।।
(1893 वार्तिकम्।। 4 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति।
(1894 प्रतिषेधवार्तिकम्।। 5 ।।)
- ःढ़द्य;र्णोतेश्चोपसंख्यानम्-
(भाष्यम्) ःढ़द्य;र्णोतेश्चोपसंख्यानं कर्तव्यम् प्रोर्णुनाव।।
(प्रत्याख्यानभाष्यम्)
न कर्तव्यम्,
वाच्य ःढ़द्य;र्णोर्णुवद्भावे यङ्प्रसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेड्डपग्रहात्।।
अथ वा उकारोऽप्यत्र निर्दिश्यते। कथम्?।
अविभक्तिको निर्देशः --- अनृच्छ उ अनृच्छो दया यासश्चेति।। इजादेश्च।। 36 ।।
-3-1-38- उषविदजागृभ्योन्यतरस्याम् (655)
(410 आम्विकरणविधिसूत्रम्।। 3.1.3 आ. 9)
(1895 वार्तिकम्।। 1 ।।)
- विदेराम् कित् -
(भाष्यम्) विदेराम किद्वक्तव्यः। विदांचकार।।
(वार्तिकवैर्यथ्यभाष्यम्)
न वक्तव्यः। विदिरकारान्तः।।
(दूषणभाष्यम्)
यद्यकारान्तः, वेत्तीति गुणो न सिध्यति।।
(दूषणपरिहारभाष्यम्)
लिट्सन्नियोगेन।।
(दूषणभाष्यम्)
एवमपि विवेदेति न सिध्यति।।
(दूषणपरिहारभाष्यम्)
एवं तर्हि आम् सन्नियोगेन।।
भारद्वाजीयाः पठन्ति विदेराम् कित ।।
निपातनाद्वा अगुणत्वम्- इति ।। उषविद ।। 38 ।।
-3-1-39- भीह्रीभृहुवां श्लुवच्च (656)
(411 आम्विकरणविधिसूत्रम्।। 3.1.3 आ. 10)
(आक्षेपभाष्यम्)
श्लुवदतिदेशे किं प्रयोजनम्?।
(समाधानभाष्यम्)
श्लुवदतिदेशे प्रयोजनं द्वित्वेत्वे बिभरांचकार।। भीह्रीभृ।। 39 ।।
-3-1-40- कृञ्ञ्चानुप्रयुज्यते लिटि (657)
(412 आम्संनियोगेनानुप्रयोगविधिसूत्रम्। 3.1.3 आ.11 )
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते।
(आक्षेपबाधकभाष्यम्)
अनुप्रयोगो यथा स्यात्।
(आक्षेपसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। आमन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोर्थ इति कृत्वानुप्रयोगो भविष्यति।।
(समाधानवार्तिकशेषभाष्यम्)
अत उत्तरं पठति --- -
(1816 प्रयोजनवार्तिकम्।। 1 ।।)
- कृञ्ञोऽनुप्रयोगवचनमस्तिभुवोः प्रतिषेधार्थम्-
(भाष्यम्) कृञ्ञोऽनुप्रयोगवचनं क्रियते (किं प्रयोजनम्?। अस्तिभुवोः प्रतिषेधार्थम्) अस्तिभुवोरनुप्रयोगो मा भूदिति।।
(1817 प्रयोजनान्तरवार्तिकम्।। 2 ।।)
- आत्मनेपदविध्यर्थं च-
(भाष्यम्) आत्मनेपदविध्यर्थं च कृञ्ञोनुप्रयोगवचनं क्रियते। आत्मनेपदं यथा स्यात्।
(2 यप्रयोजनस्य यत्नान्तरसाध्यताभाष्यम्)
उच्यमानेऽप्येतस्मिन्नवश्यमात्मनेपदार्थो यत्नः कर्तव्यः।
(प्रथमप्रयोजननिराकरणभाष्यम्)
अस्तिभूप्रतिषेधार्थेन चापि नार्थः।।
(1818 भ्वस्त्यनुप्रयोगे इष्टापत्तिवार्तिकम्।। 3 ।।)
- इष्टः सर्वानुप्रयोगः-
(भाष्यम्) सर्वेषामेव कृभ्वस्तीनामनुप्रयोग इष्यते।।
(आक्षेपभाष्यम्)
किमिष्यत एव आहोस्वित्प्राप्नोति?।।
(इष्टापत्तिभाष्यम्)
इष्यते च, प्राप्नोति च। कथम्?। कृञ्ञिति नेदं धातुप्रग्रहणम् किं तर्हि?। प्रत्याहारग्रहणम्।। क्व सन्निविष्टानां प्रत्याहारः।।
कृभ्वस्तियोगे इत्यतः प्रभृत्याकृञ्ञो ञ्ञकारात्।।
(1819 प्रत्याख्यानवार्तिकम्।। 4 ।।)
- सर्वानुप्रयोग इति चेदशिष्यमर्थाभावात्-
(भाष्यम्) सर्वानुप्रयोग इति चेदशिष्यं कृञ्ञोऽनुप्रयोगवचनम्। किं कारणम्?। अर्थाभावात्। आमन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थ इति कृत्वा अनुप्रयोगो भविष्यति।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम् --- -कृभ्वस्तीनामेवानुप्रयोगो यथा स्यात् पचादीनां मा भूदिति।।
(प्रत्याख्यानभाष्यम्)
एतदपि नास्ति प्रयोजनम्।
(1820 प्रत्याख्यानवार्तिकम्।। 5 ।।)
- अर्थाभावाच्चान्यस्य सिद्धम् -
(भाष्यम्) (अर्थाभावाच्चान्यस्य सिद्धमेतत् कुतः) कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः। न
च सामान्यवाचिनोरेव विशेषवाचिनोरेव वा प्रयोगो भवति। तत्र विशेषवाचिन उत्पत्तिः। सामान्यवाचिनोऽनुप्रयोक्ष्यन्ते।।
(1821 प्रयोजनवार्तिकम्।। 6 ।।)
- लिट् परार्थं वा -
(भाष्यम्) लिट्परार्थं तर्हि कृञ्ञोऽनुप्रयोगवचनं क्रियते। लिट्परस्यैवानुप्रयोगो यथा स्यात्। अन्यपरस्य मा भूदिति।।
किं परस्य पुनः प्राप्नोति?। लट्परस्य।।
(प्रत्याख्यानसाधकभाष्यम्)
न लट्परस्यानुप्रयोगेण भूतकालो विशेषितः स्यात्।।
(प्रयोजनभाष्यम्)
निष्ठापरस्य तर्हि मा भूत्।।
(प्रत्याख्यानभाष्यम्)
न निष्ठापरस्यानुप्रयोगेण पुरुषोपग्रहौ विशेषितौ स्याताम्।।
(प्रयोजनभाष्यम्)
लुङ्परस्य तर्हि मा भूत्।।
(प्रत्याख्यानभाष्यम्)
न लुङ्परस्यानुप्रयोगेणानद्यतनभूतकालो विशेषितः स्यात्।।
(प्रयोजनभाष्यम्)
अयं तर्हि भूते परोक्षानद्यतने लङ् विधीयते
हशश्वतोर्लङ्च इति, तत्--परस्य मा भूदिति।।
(प्रत्याख्यानभाष्यम्)
एतदपि नास्ति प्रयोजनम्।। एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भविष्यति। तद्यथा --- गोषु स्वामी अश्वेषु चेति। न हि भवति गोषु वाश्वानां च स्वामीति।।
(1822 प्रयोजनवार्तिकम्।। 7 ।। )
- अर्थसमाप्तेर्वानुप्रयोगो न स्यात्-
(भाष्यम्) अर्थसमाप्तेस्तर्ह्यनुप्रयोगो न स्यात्।
आमन्तेन च परिसमाप्तोऽर्थ इति कृत्वा अनुप्रयोगो न स्यात्।।
(प्रत्याख्यानभाष्यम्)
एतदपि नास्ति प्रयोजनम्। इदानीमेव ह्युक्तमामन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थ इति कृत्वानुप्रयोगो भविष्यतीति।।
(1823 प्रयोजनवार्तिकम्।। 8 ।।)
- विपर्यासनिवृत्त्यर्थं वा -
(भाष्यम्) विपर्यासनिवृत्तर्थं तर्हि कृञ्ञोऽनुप्रयोगवचनं क्रियते। इर्हांचक्रे। चक्रे इर्हामिति मा भूत्।
(1842 प्रयोजनवार्तिकम्।। 9 ।।)
- व्यवहितनिवृत्त्यर्थं च-
(भाष्यम्) व्यवहितनिवृत्त्यर्थं च कृञ्ञोऽनुप्रयोगवचनं क्रियते। अन्वेव च कृञ्ञोऽनुप्रयोगो यथा स्यात् --- इर्हांचक्रे।। (व्यवहितस्य मा भूदिति) इर्हां देवदत्तश्चक्रे इति।। कृञ्ञ्चानु ।। 40 ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे तृतीयमाह्निकम्।।
-3-1-43- च्लि लुङि (660)
(413 च्लिविकरणविधिसूत्रम्।। 3.1.4 आ .1)
(च्लिग्रहणप्रयोजनाधिकरणम्।)
(आक्षेपभाष्यम्)
क्वाऽयं च्लिः श्रूयते।।
(आक्षेपबाधकभाष्यम्)
न श्रूयते। एतस्य सिजादय आदेशा उच्यन्ते।।
(आक्षेपसाधकभाष्यम्)
यदि न क्वचिच्छ्रुयते,किमर्थं च्लिरूत्सर्गः क्रियते। न सिजुत्सर्ग एव कर्तव्यः तस्य क्सादयोऽपवादा भविष्यन्ति।।
(समाधानभाष्यम्)
अत उत्तरं पठति ---
(1825 प्रथमप्रयोजनवार्तिकम्।। 1 ।।)
-च्ल्युत्सर्गः सामान्यग्रहणार्थः-
(भाष्यम्) च्लिरुत्सर्गः क्रियते। (किं प्रयोजनम्?) सामान्यग्रहणार्थः।। क्वं सामान्यग्रहणार्थेनार्थः? मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्योलेः इति। तत्रावरतस्त्रयाणां ग्रहणं कर्तव्यं स्यात् --- चङङोः, सिचश्चेति।।
(1826 द्वितीयप्रयोजनवार्तिकम्।। 2 ।।)
- क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थः-
(भाष्यम्) क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थः चिरुत्सर्गः क्रियते च्लेरनिटः इति क्सः सिद्धो भवति।।
(1827 प्रयोजनान्तरवार्तिकम्।। 3 ।।)
- घस्लृभावे च -
(भाष्यम्) घस्लृभावे च च्लावेव कृते लृदितः इत्यङ् सिद्धो भवति।।
(चकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ चित्करणं किमर्थम्?
(1828 प्रयोजनवार्तिकम्।। 4 ।।)
- च्लेः चित्करणं विशेषणार्थम् -
(भाष्यम्) च्लेश्चित्करणं क्रियते। किमर्थम्? विशेषणार्थम्। क्व विशेषणार्थेनार्थः? च्लेः सिच् इति। लेः सिच् इत्युच्यमाने लिङि्सटोरपि प्रसज्येत।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। लुङीत्युच्यते। न च लुङि लिङि्लटौ स्तः।।
(इकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथेदित्करणं किमर्थम्।।
(1829) प्रयोजनवार्तिकम्।। 5 ।।)
- इदित्करणं सामान्यग्रहणार्थम् -
(भाष्यम्) इदित्करणं क्रियते। (किमर्थम्?) सामान्यग्रहणार्थम्। क्व सामान्यग्रहणार्थेनार्थः? मन्त्रे घसह्वरणशवृदहाद्वृचूकृगमिजनिभ्यो लेः इति, आमः इति च।
(चकारप्रयोजनसाधकभाष्यम्)
इकारे चेदानीं सामान्यग्रहणार्थे क्रियमाणे अवश्यं सामान्यग्रहणाविघातार्थश्चकारः कर्तव्यः।। क्व सामान्यग्रहणाविघातार्थेनार्थश्चकारेण? अत्रैव
(च्ल्युत्सर्गेपि प्रथमप्रयोजननिराकरणभाष्यम्)
यत्तावदुच्यते --- - च्लिरुत्सर्गः सामान्यग्रहणार्थ इति।।
क्रियमाणेऽपि वै च्ल्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति --- च्लि लुङि लेरिति।।
(च्ल्युत्सर्गे लाघवभाष्यम्)
यदेतत् लेः इति, तत्परार्थे भविष्यति। कथम्? यदेतद् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचो ग्रहणम्। एतद् लेः इति वक्ष्यामि।।
(दूषणभाष्यम्)
यदि लेरित्युच्यते धेटश्चातुः शब्द्यं प्राप्नोति --- --अदधद् अधाद् अधासीद्। अदधादित्येतदपि प्राप्नोति।।
(दूषणपरिहारभाष्यवार्तिकम्।।)
- न चङो लुकि द्विर्वचनम् -
(व्याख्याभाष्यम्)
न चङो लुकि द्विर्वचनेन भाव्यम्। किं कारणम्? चङि इत्युच्यते न चात्र चङं पश्यामः।।
(दूषणसाधकभाष्यम्)
प्रत्ययलक्षणेन।
(दूणषबाधकभाष्यम्)
न लुमतातस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।।
(दूषणभाष्यम्)
बहुवचने तर्हि चातुः शब्द्यं प्राप्नोति --- अदधत् अधुः अधासिषुः अधानित्यपि प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः। आत इति जुस्भावो भविष्यति।।
(दूषणसाधकभाष्यम्)
न सिध्यति। सिज्ग्रहणं तत्रानुवर्तते।।
(दूषणपरिहारभाष्यम्)
सिज्ग्रहणं तत्र निवर्तिष्यते।।
(दूषणभाष्यम्)
यदि निवर्तिते अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
एवं तर्हि लुक् सिजपवादो विज्ञास्यते।।
(दूषणभाष्यम्)
यदि लुक् सिजपवादो विज्ञायते। मा हि दातामित्यत्र आदिस्सिचो।?न्यतरस्याम् इत्येष स्वरो न प्राप्नोति। तस्मान्नैतच्छक्यं (वक्तृम्) --- -लुक्सिजपवाद इति।
(सिद्धान्तिभाष्यम्)
न चेदेवमुच्यते अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति। तस्माद् आतः इत्यत्र सिज्ग्रहणमनुवर्तते। तस्मिंश्चानुवर्तामाने धेटश्चातुःशब्द्यं प्राप्नोति। तस्माह गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इत्यत्र सिज्ग्रहणं कर्तव्यम्। तस्मिंश्च क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति --- च्लि लुङि च्लेः सिच् लेरिति।।
(द्वितीयप्रयोजननिराकरणभाष्यम्)
यदप्युच्यते --- क्सविधाने चानिड्वचने च्लिसंप्रत्ययार्थ इति।। धातुमेवात्रानिट्त्वेन विशेषयिष्यामः --- धातोरनिट इति।।
कथं पुनर्धातुर्नामानिट् स्यात्?
धातुरेवानिट्।। कथम्? अनिमित्तं वा इटः अनिट्।। न वा तस्मादिडस्ति सोऽयमनिट् अनिडिति।।
(आक्षेपभाष्यम्)
अथ धातो विशेष्यमाणे क्व योऽनिट् इति विशेषयिष्यते? यदि विज्ञायते --- -निष्ठायामनिटः इति। भूयिष्ठेभ्यः प्राप्नोति। भूयिष्ठा हि शलन्ता इगुपधानिष्ठायामनिटः।।
अथ विज्ञायते लिटि योऽनिडिति। न कुतश्चित्प्राप्नोति। सर्वे हि शलन्ता इगुपधा लिटि सेटः।।
(समाधानभाष्यम्)
किं पुनः कारणं धातौ विशेष्यमाण एतयोर्विशेषयोर्विशेषयिष्यते। न पुनर्यत्र सामान्येनेटो विधिप्रतिषेधौ? क्व सामान्येन? वलाद्यार्धधातुके।।
(तृतीयप्रयोजनप्रत्याख्यानभाष्यम्)
यदप्युच्यते - घस्लृभावे चेति। आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु। तत्रार्धधातुकसामान्ये घस्लृभावे कृते लृदित इति अङ् भविष्यति।। च्लिलुङि।। 43 ।।
-3-1-44- च्लेः सिच् (661)
(414 च्लेः सिजादेशविधिसूत्रम्।। 3.1.4 आ. 2)
(चकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः?।
विशेषणार्थः। क्व विशेषणार्थेनार्थः?। सिचिवृद्धिः परस्मैपदेषु इति। सौ वृद्धिः इतीयत्युच्यमाने अग्निर्वायुरित्यत्रापि प्रसज्येत।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। परस्मैपदेष्वित्युच्यते। न चात्र परस्मैपदं पश्यामः।।
(प्रयोजनभाष्यम्)
स्वरार्थस्तर्हि। चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात्।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अनच्कोयम् तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन।
(प्रयोजनसाधकभाष्यम्)
इति कृते साच्को भविष्यति।।
(प्रयोजनबाधकभाष्यम्)
तत्र प्रत्ययाद्युदात्तत्वेनेट उदात्तत्वं भिविष्यति।।
(प्रयोजनसाधकभाष्यम्)
न सिध्यति। आगमा अनुदात्ता भवन्तीति अनुदात्तत्वं प्राप्नोति।
(समाधानभाष्यम्)
अत उत्तरं पठति --- -
(1830 प्रयोजनबाधकवार्तिकम्।। 1 ।।)
- अर्थवत्तु चित्करणसार्मथ्याद्धीट उदात्तत्वम्-
(भाष्यम्) नैष देषः। अर्थवत्तु सिचश्चित्करणम्। कोऽर्थः?। सिचः चित्करणसार्मथ्याद्धि इट उदात्तत्वं भविष्यति।। (नाप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वमारभ्यते तद्यथैव प्रत्ययस्वरं बाधते एवं स्थानिवद्भावादपि या प्राप्तिस्तामपि बाधेत।।)
(1831 वार्तिकद्वितीयखण्डम्।।)
- तस्माच्चित्करणम्-
(भाष्यम्) तस्माच्चकारः कर्तव्यः।।
(सिच इकारोच्चारणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथेदित्करणं किमर्थम्?।
(1832 प्रयोजनवार्तिकम्।। 3 ।।)
- इदित्करणं नकारलोपाभावार्थम्-
(भाष्यम्) इदित्करणं क्रियते। नकारलोपो मा भूदिति। अमंस्त अमंस्थाः अनिदितां हल उपधायाः क्ङिति इति।
(1833 प्रयोजननिराकरणवार्तिकम्।। 4 ।।)
-न वा हन्तेः सिचः कित्करणं ज्ञापकं नकारलोपाभावस्य-
(भाष्यम्) न चैतत्प्रयोजनमस्ति। किं कारणम्?। यदयं हनः सिच् इति हन्तेः सिचः कित्त्वं शास्ति तज् ज्ञापयत्याचार्यः न सिजन्तस्य नकारलोपो भवति इति।।
(प्रयोजनसाधकभाष्यम्)
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्।। किम्?। सिच्येव नकारलोपो यथा स्यात्, परस्मिन्निमित्ते माभूदिति।
(विशेषप्रश्नभाष्यम्)
कः पुनरत्र विशेषः। सिचि वा नलोपे सति परस्मिन्निमित्ते वा।
(विशेषप्रदर्शकोत्तरभाष्यम्)
अयमस्ति विशेषः --- -सिचि नलोपे सति नलोपस्यासिद्धत्वादकारलोपो न भवति। परस्मिन्पुनर्निमित्ते सति नकारलोपे कृते अकारलोपः प्रसज्येत।। समानाश्रयमसिद्धम्। व्याश्रयं तु सिद्धमेव। व्याश्रयं चेदम्।।
(विशेषाभावसाधकभाष्यम्)
ननु च परस्मिन्नपि निमित्ते नकारलोपे सति अकारलोपो न भवति। कथम्?। असिद्धं बहिरङ्गमन्तरङ्ग इति।।
(प्रागुक्तप्रयोजननिराकरणदाढर्य भाष्यम्)
तदेतद्धन्तेः सिचः कित्करणं ज्ञापकमेव न सिजन्तस्य नकारलोपो भवति इति।।
(1834 उपायान्तरवार्तिकम्।। 5 ।।)
-इदिद्वा स्थानिवत्त्वात्-
(भाष्यम्) अथाऽप्यनेनेदिताऽर्थः स्यात्। इदितोऽयमादेशः स्थानिवद्भावादिदिद्भविष्यति।।
(1836 सिज्विधिवार्तिकम्।। 6 ।।)
-स्पृशमृशकृषतृपदृपां सिज्वा -
(भाष्यम्) स्पृशमृशकृषतृपदृपां सिज् वेति वक्तव्यम्। स्पृश --- -अस्पृक्षद् अस्प्राक्षीत्। मृश --- -तृप --- -अतृपद् अत्राप्सीत् दृप --- अदृपद् अद्राप्सीत्।। किं प्रयोजनम्। सिच् यथा स्यात्।।
(अनुयोगभाष्यम्)
अथ क्सः सिद्धः।।
(उत्तरभाष्यम्)
कथम्?। शल इगुपधादनिटः क्सः इत्येव।।
(वार्तिकवैर्यथ्यभाष्यम्)
सिजपि सिद्धः।। कथम्?। च्लेः चित्करणं प्रत्याख्यायते। तत्र च्लावेव झल्लक्षणेऽमागमे कृते विहतनिमित्तत्वात् क्सो न भविष्यति।।
(दूषणभाष्यम्)
यद्येवम् अन्त्यस्य सिजादयः प्राप्नुवन्ति।।
(1836 दूषणपरिहारवार्तिकम्।। 7 ।।)
- सिद्धं तु सिचो यादित्वात्-
(भाष्यम्) सिद्धमेतत्। कथम्? यादित्वात्।। यादिः सिच् करिष्यते। सः अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति।। किं पुनर्न श्रूयते यकारः?। लुप्तनिर्दिष्टो यकारः।।
(आक्षेपभाष्यम्)
चङङोः कथम्।
(1837 समाधानभाष्यम्।। 8 ।।)
- चङङोः प्रश्लिष्टनिर्देशात्सिद्धम्-
(भाष्यम्) चङङोरपिप् सिद्धम्। कथम्?। प्रश्लिष्टनिर्देशात्।) प्रश्लिष्टनिर्देशोऽयम् --- --च अङ्चंङ्। अ अङ् अङ्। सः अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति।।
(अनुयोगभाष्यम्)
चिणः कथम्।
(1838 समाधानवार्तिकम्।। 9 ।।)
।। चिणोऽनित्त्वत्-
(भाष्यम्) चिणः चकारस्य अनित्त्वात्सिद्धम्।। किमिदमनित्त्वादिति?। अन्त्यस्यायं स्थाने भवन्नप्रत्ययः स्यात्। असत्यां प्रत्ययसंज्ञायामित्संज्ञा न। असत्यामित्संज्ञायां लोपो न। असति लोपे अनेकाल्। यदाऽनेकाल् तदा सर्वादेशः। यदा सर्वादेशस्तदा प्रत्ययः। यदा प्रत्ययः तदेत्संज्ञा। यदेत्संज्ञा तदा लोपः।।
(वार्तिकसिद्धान्तभाष्यम्)
एष च तत्र वार्तिककारस्य निर्णयः सप्रयोजनं चित्करणमिति।।
(चकारस्यानित्त्वे दूषणान्तरभाष्यम्)
अपि च त्रैशब्द्यं न प्रकल्प्यते। अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षादिति। सिचि पुनः सति विभाषा सिच् सिध्यति झल्लक्षणोऽमागमो विभाषा।।
(सिज्विधेरावश्यकताभाष्यम्)
यस्य खल्वपि अमा अङो निमित्तं न विहन्यते स स्यादेव।। तस्मात् सुष्ठूच्यते स्पृशमृशकृषतृपदृपां सिज्वेति।। च्लेः सिच्।। 44 ।।
-3-1-45- शल इगुपधादनिटः क्सः (662)
(415 च्लेः क्सादेशविधिसूत्रम्।। 3.1.4 आ. 3)
(1839 आक्षेपवार्तिकम्।। 1 ।।)
- क्सविधान इगुपधाभावः च्लेर्गुणनिमित्तत्वात्-
(भाष्यम्) क्सविधाने इगुपधत्वस्याभावः। किं कारणम्?। च्लेर्गुणनिमित्तत्वात्। च्लिर्गुणस्य निमित्तम्। तत्र च्लावेव गुणे कृते इगुपधात् --- इति क्सो न प्राप्नोति।।
(1840) समाधानवार्तिम्।। 2 ।।)
- न वा क्सस्याऽनवकाशत्वादपवादो गुणस्य-
(भाष्यम्) न वा एष दोषः। किं कारणम्?। क्सस्यानवकाशत्वात्। अनवकासः क्सो गुणं बाधिष्यते।।
(1841 आक्षेपवार्तिकम्।। 3 ।।)
- अनिड्वचनमविशेषणं च्लेर्नित्यादिष्टत्वात्-
(भाष्यम्) अनिड्वचनमविशेषणम्। किं कारणम्। च्लेर्नित्यादिष्टत्वात्। नित्यादिष्टः च्लिः न क्वचित् श्रूयते। तत्र च्लेरनिट इति क्सो न प्राप्नोति।
(1842 दूषणपरिहारवार्तिकप्रथमखण्डम्।। 4 ।।)
- न वा क्सस्य सिजपवादत्वात् तस्य चानिडाश्रयत्वादनिटि प्रसिद्धे क्सविधिः-
(भाष्यम्) न वैष दोषः। किं कारणम्?। क्सस्य सिजपवादत्वात्। सिजपवादः क्सः। स चानिडाश्रयः। नचापवादविषयमुत्सर्गोऽभिनिविशते। पूर्वं ह्यपवादाः प्रवर्तन्ते पश्चादुत्सर्गाः प्रकल्प्य चापवादविषयमुत्सर्गो भिनिविशते। तन्न तावदत्र कदाचित् सिज् भवति क्समपवादं प्रतीक्षते। क्सस्य सिजपवादत्वात्।। तस्य चानिडाश्रयत्वाद् अनिट् प्रसिद्धः। अनिटि प्रसिद्धे क्सविधिः । अनिटि प्रसिद्धे क्सो भविष्यति।।
सिजिदानीं क्व भविष्यति?।
(1842 वार्तिकद्वितीयखण्डम्।। 5 ।।)
- शेषे सिज्विधानम्-
(भाष्यम्) शेषे सिज्विधानं भविष्यति अकोषीद् अमोषीद् इति।। शल इगुपधा।। 45 ।।
-3-1-46- श्लिष आलिङ्गने (663)
(416 च्लेः क्सादेशनियमसूत्रम्।। 3.1.4 आ.4)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।
(आक्षेपपरिहारभाष्यम्)
नियमार्थम्। नियमार्थोऽयमारम्भः --- श्लिष आलिङ्गन एव क्सो यथा स्यात्। इह मा भूत् --- उपाश्लिषद् जतु च काष्ठं च, समाश्लिषद् ब्राह्मणकुलमिति।।
अत उत्तरं पठति --- -
(1846 नियमानुपपत्तिवार्तिकम् ।। 1 ।।)
- श्लिष आलिङ्गने नियमानुपपत्तिर्विधेयभावात्-
(भाष्यम्) श्लिष आलिङ्गन इति नियमस्यानुपपत्तिः।। किं कारणम्?। विधेयभावात्।।
कैमर्थक्यान्नियमो भवति। विधेयं नास्तीति कृत्वा।।
इह चास्ति विधेयम्। किम्?। पुषादिपाठादङ्प्राप्तः तद्बाधनार्थः क्सो विधेयः।।
तत्रापूर्वो विधिरस्तु नियमो वेति।।
अपूर्व एव विधिः स्यान्न नियमः।।
(दूषणप्रश्नभाष्यम्)
किं च स्याद्, यदायं नियमो न स्यात्?।
(दूषणभाष्यम्)
आत्मनेपदेष्वालिङ्गनेऽनालिङ्गने च क्सः प्रसज्जयेत।।
(दूषणान्तरभाष्यम्)
यथैव क्सोऽङं बाधते, एवं चिणमपि बाधेत --- उपाश्लेषि कन्या देवदत्तेनेति।।
(1844 दूषणपरिहारिन्यासान्तरवार्तिकप्रथमखण्डम्।। 2 ।।)
- सिद्धं तु श्लिष आलिङ्गनेऽचिण्विषये-
(भाष्यम्) सिद्धमेतत्।। कथम्?। श्लिष आलिङ्गने अचिण्विषये क्सो भवतीति वक्तव्यम्।।(1845
न्यासान्तरवार्तिकद्वितीयखण्डम्।। 3 ।।)
- अङि्वधाने च श्लिषोऽनालिङ्गने-
(भाष्यम्) अङि्वधाने च श्लिषोऽनालिङ्गने इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् श्लिष आलिङ्गने नियमानुपपत्तिर्विधेयभावात् इति।
(सिद्धान्तिभाष्यम्)
नैष दोषः।
(1846 सिद्धान्तिवार्तिकम्।। 4 ।।)
- योगविभागात्सिद्धम्-
(भाष्यम्) योगविभागः करिष्यते। श्लिषः श्लिषः क्सो भवति। किमर्थमिदम्?। पुषादिपाठादङ् प्राप्नोति तद्बाधनार्थम्।।
ततः आलिङ्गने। आलिङ्गने च श्लिषः क्सो भवति।। इदमिदानीं किमर्थं स्यात्? नियमार्थम्। श्लिष
आलिङ्गने एव।। क्व मा भूत्?। उपाश्लिषज्जतु च काष्ठं च, समाश्लिषद् ब्राह्मणकुलमिति।
(दूषणान्तरपरिहारभाष्यम्)
यदप्युच्यते --- -यथैव च क्सोऽङं बाधते, एवं चिणमपि बाधेतेति। पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इत्येवं क्सोऽङं बाधिष्यते न चिणम्।। अथवा तत्र वक्ष्यति --- चिणित्यनुवर्तमाने पुनश्चिण्ग्रहणस्य प्रयोजनम्। चिणेव यथा स्याद् यदन्यत्प्राप्नोति तन्मा भूदिति।। श्लिष आलिङ्गने।। 46 ।।
-3-1-48- णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (665)
(417 च्लेश्चङादेशविधिसूत्रम्।। 3.1.4 आ. 5)
(1846 शेषपूर्तिवार्तिकम्।। 1 ।।)
- णिश्रिद्रस्रुषु कमेरुपसंख्यानम्-
(भाष्यम्) णिश्रिद्रुस्रुषु कमेरुपसंख्यानं कर्तव्यम्।।
नाकमिष्टसुखं यान्ति सुयुक्तैर्वडवारथैः।
अथ पत्काषिणो यान्ति येऽचीकमतभाषिणः।।
(1847 न्यूनतापूर्तिवार्तिकम्।। 2 ।।)
- कर्मकर्तरि च-
(भाष्यम्) कर्मकर्तरि चोपसंख्यानं कर्तव्यम्। कारयति कटं देवदत्तः अचीकरत कटः स्वयमेव। उच्छ्रयति कटं
देवदत्तः उदशिश्रियत कटः स्वयमेवेति।।
(1848 न्यूनताखण्डनवार्तिकम्।। 3 ।।)
- न वा कर्मण्यविधानात्कर्तृत्वाच्च कर्मकर्तुः सिद्धम्-
(भाष्यम्) न वा कर्तव्यम्। किं कारणम्?। कर्मण्यविधानात्। नहि कश्चित्कर्मणि विधीयते यश्चङं बाधेत।। कर्तृत्वाच्च कर्मकर्तुः सिद्धम्।। अस्ति च कर्मकर्तरि कर्तृत्वमिति कृत्वा चङ् भविष्यति।।
(खण्डनयुक्तिबाधकभाष्यम्)
ननु चायं कर्मणि विधीयते चिण् भावकर्मणोः इति।।
(खण्डनयुक्तिसाधकभाष्यम्)
प्रतिषिध्येते तत्र यक्चिणौ --- यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसंख्यानम् इति।।
(प्रतिषेधायोग्यस्थलदर्शकभाष्यम्)
यस्तर्हि न हेतुमण्णिच् उदपुपुच्छत गौः स्वयमेवेति।।
(समाधानभाष्यम्)
अत्रापि यथा भारद्वाजीयाः पठन्ति, तथा भवितव्यं प्रतिषेधेन --- - यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्ञात्मनेपदाकर्मकाणामुपसंख्यानं कर्तव्यम् इति।। णिश्रिद्रुस्रुभ्यः।। 48 ।।
-3-1-52- अस्यतिवक्तिख्यातिभ्योङ् (669)
(418 च्लेरङादेशविधिसूत्रम्।। 6.1.4 आ. 6)
(आक्षेपभाष्यम्)
अस्यतिग्रहणं किमर्थम्?।
(1849 सिद्धान्तिसमाधानवार्तिकम्।। 1 ।।)
- अस्यतिग्रहणमात्मनेपदार्थं पुषादित्वात्-
(भाष्यम्) अस्यतिग्रहणमात्मनेपदार्थं द्रष्टव्यम्।। किमुच्यते आत्मनेपदार्थमिति, न पुनः परस्मैपदार्थमपि स्यात्?।
पुषादित्वात् । पुषादिपाठात् परस्मैपदेष्वङ्भविष्यति।।
(1850 न्यूनतापूर्तिवार्तिकम्।। 2 ।।)
- कर्मकर्तरि च-
(भाष्यम्) कर्मकर्तरि चोपसंख्यानं कर्तव्यम्। पर्यास्थेतां कुण्डले स्वयमेव।।
(न्यूनतापरिहारभाष्यम्)
अत्रापि।
(1841 न्यूनतापरिहारवार्तिकम्।। 3 ।।
- न वा कर्मण्यविधानात् कर्तृत्वाच्च कर्मकर्तुः सिद्धम्-
(भाष्यम्) इत्येव।। अस्यतिवक्ति।। 52 ।।
-3-1-58- जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्ञ्चुश्विभ्यश्च (675)
(419 च्लेरङादेशविधिसूत्रम्।। 3.1.4 आ. 7)
(सूत्रपाठविचारभाष्यम्)
इदं ग्लुचिग्रहणं ग्लुञ्ञ्चिग्रहणं च क्रियते। अन्यतरच्छक्यमकर्तुम्। यदि तावद्ग्लुचिग्रहणं क्रियते। ग्लुञ्ञ्चिग्रहणं न करिष्यते। तेनैव सिद्धं न्यग्लुचद् न्यग्लोचीत्। इदमिदानीं ग्लुञ्ञ्चेरूपं न्यग्लुञ्ञ्चीत्।।
अथ ग्लुञ्ञ्चिग्रहणं क्रियते ग्लुचिग्रहणं न करिष्यते तेनैव सिद्धं न्यग्लुचद् न्यग्लुञ्ञ्चीत्। इदमिदानीं ग्लुचेरूपं न्यग्लोचीदिति।। जॄस्तम्भुदृ।। 58।।
-3-1-60- चिण्ते पदः (677)
(420 च्लेश्चिणादेशविधिसूत्रम्।। 3.1.4 आ. 8)
(तप्रत्ययनिर्णयाधिकरणम्)
(अनुयोगभाष्यम्)
अयं तशब्दोस्त्येवात्मनेपदम्, अस्ति परस्मैपदम्, अस्त्येवैकवचनम्, अस्ति बहुवचनम्। कस्येदं ग्रहणम्?।
(उत्तरभाष्यम्)
यः पदेरस्ति। कश्च पदेरस्ति?। पदिरयमात्मनेपदी।। चिण् ते।। 60 ।।
-3-1-66- चिण् भावकर्मणोः (683)
(421 च्लेश्चिणादेशविधिसूत्रम्। 3.1.4 आ .9)
(चिण्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
चिणिति वर्तमाने पुनश्चिण्ग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
नेत्येवं तदभूद् विध्यर्थमिदम्।।
(भाष्यम्) अथ वा चिणिति वर्तमाने पुनश्चिण्ग्रहणस्यैतत्प्रयोजनं चिणेव यथा स्याद् यदन्यत्प्राप्नोति तन्माभूत्। चिण् भाव।। 66 ।।
-3-1-67- सार्वधातुके यक् (684)
(422 यग्विकरणविधिसूत्रम्।। 3.1.4 आ.10)
(भावकर्मणोर्वचनव्यवस्थाधिकरणम्)
(आक्षेपभाष्यम्)
इह पश्यामः कर्मणि द्विवचनबहुवचनान्युदाह्रियन्ते पच्येते ओदनौ पच्यन्ते ओदना इति। भावे पुनः एकवचनमेव --- आस्यते भवता, आस्यते भवद्भ्याम्, आस्यते भवद्भिरिति। केनैतदेवं भवति?।
(समाधानभाष्यम्)
कर्माऽनेकम्, तस्याऽनेकत्वाद् द्विवचनबहुवचनानि भवन्ति। भावः पुनरेक एव।।
(आक्षेपभाष्यम्)
कथं तर्हि इह द्विवचनबहुवचनानि भवन्ति पाकौ पाका इति?।
(सामाधानभाष्यम)
आश्रयभेदात्। यदसौ द्रव्यं श्रितो भवति भावस्तस्य भेदाद् द्विवचनबहुवचनानि भवन्ति।।
(दूषणभाष्यम्)
इहापि तर्हि यावन्तस्ते तां क्रियां कुर्वन्ति, सर्वे ते तस्या आश्रयभूता भवन्ति, तद्भेदाद् द्विवचनबहुवचनानि प्राप्नुवन्ति।।
(दूषणोद्धारभाष्यम्)
एवं तर्हि इदं तावदयं प्रष्टव्यः --- किमभिसमीक्ष्यैतत् प्रयुज्यते - पाकौ पाका इति।
यदि तावत्पाकविशेषानभिसमीक्ष्य यश्चौदनस्य पाकः, यश्च गुडस्य, यश्च तिलानां बहवस्ते शब्दाः सरूपाश्च। तत्र युक्तं बहुवचनमेकशेषश्च। तिङभिहिते चापि तथा भावे बहुवचनं श्रूयते। तद्यथा - उष्ट्रासिका आस्यन्ते, हतशायिकाः शयन्त इति।
अथ कालविशेषानभिसमीक्ष्य यश्चाद्यतनः पाकः, यश्च ह्यस्तनः, यश्च श्वस्तनस्तेऽपि बहवः शब्दाः सरूपाश्च। तत्र युक्तं बहुवचनमेकशेषश्च। तिङभिहिते चापि तथा भावेऽसारूप्यादेकशेषो न भवति --- आसि आस्यते आसिष्यते इति।।
अस्ति खल्वपि विशेषः तिङभिहितस्य भावस्य कृदभिहितस्य च। कृदभिहितो भावो द्रव्यवद्भवति।। किमिदं द्रव्यवदिति?। द्रव्यं क्रियया समवायं गच्छति।। कं समवायं गच्छति? द्रव्यं क्रियाभिनिर्वृत्तौ साधनत्वमुपैति।। तद्वच्चास्य भावस्य कृदभिहितस्य भवति पाको वर्तते इति।। क्रियावन्न भवति।। किमिदं क्रियावदिति?। क्रिया क्रियया समवायं न गच्छति --- पचति पठतीति।। तद्वच्चास्य कृदभिहितस्य न भवति --- पाको वर्तत इति।।
(विशेषान्तरभाष्यम्)
अस्ति खल्वपि विशेषः कृदभिहितस्य भावस्य, तिङभिहितस्य च --- तिङभिहितेन भावेन कालपुरुषोपग्रहा व्यज्यन्ते, कृदभिहितेन पुनर्न व्यज्यन्ते।।
(विशेषान्तरभाष्यम्)
अस्ति खल्वपि विशेषः --- तिङभिहितस्य भावस्य, कृदभिहितस्य च --- तिङभिहितो भावः कर्त्रा संप्रयुज्यते, कृदभिहितः पुनर्न संप्रयुज्यते।।
यावता किंचिच्च सामान्यं कश्चिच्च विशेषः।।
युक्तं यदयमपि विशेषः स्याद् --- लिङ्गकृतः संख्याकृतश्च।।
(आक्षेपभाष्यम्)
इदं विचार्यते --- भावकर्मकर्तारः सार्वधातुकार्था वा स्युः, विकरणार्था वेति।। कथं च सार्वधातुकार्था स्युः कथं वा विकरणार्थाः? भावकर्मवाचिनि सार्वधातुके यक् भवति, कर्तृवाचिनि सार्वधातुके शब् भवतीति सार्वधातुकार्थाः। भावकर्मणोर्यक् भवति सार्वधातुके कर्तरि शब् भवति सार्वधातुक इति विकरणार्थाः।।
(अनुयोगभाष्यम्)
कश्चात्र विशेषः?।
(1852 सार्वधातुकार्थपक्षे दूषणवार्तिकम्।। 1 ।।)
- भावकर्मकर्तारः सार्वधातुकार्था श्चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वात्-
(भाष्यम्) भावकर्मकर्तारः सार्वधातुकार्थाश्चेद् एकद्विबहुषु नियमस्यानुपपत्तिः।। किं कारणम्?। अतदर्थत्वात्। न हीदानीमेकत्वादय एव विभक्त्यर्थाः।। किं तर्हि?। भावकर्मकर्तारोऽपि।।
(विकरणार्थपक्षाङ्गीकारभाष्यम्)
सन्तु तर्हि विकरणार्थाः।
(1853 विकरणार्थत्वपक्षदूषणवार्तिकम्।। 2 ।।)
- विकरणार्था इति चेत् कृताभिहिते विकरणाभावः-
(भाष्यम्) विकरणार्था इति चेत् कृताभिहिते विकरणो न प्राप्नोति --- धारयः पारयः इति।
(सार्वधातुकार्थवादिभाष्यम्)
किमुच्यते --- कृताभिहिते इति, --- न लेनाप्यभिधानं भवति?।
(विकरणार्थवादिभाष्यम्)
न शक्यं लेनाभिधानमाश्रयितुम्। पक्षान्तरमिदमास्थितम् --- भावकर्मकर्तारः सार्वधातुकार्था वा स्युर्विकरणार्था वेति। यदि च लेनाप्यभिधानं स्याद् नेदं पक्षान्तरं स्यात्।।
(सार्वधातुकार्थवादिभाष्यम्)
कथमशक्यम्। यदा भवानेवाह लः कर्मणि च भावे चाकर्मकेभ्य इति?।
(विकरणार्थवादिभाष्यम्)
एवं वक्ष्यामि लः कर्मणो भावाच्चाकर्मकेभ्य इति।
(सार्वधातुकार्थवादिभाष्यम्)
यस्मिंस्तर्हि ले विकरणा न श्रूयन्ते, कस्तत्र भावकर्मकर्तॄनभिधास्यति? क्व च न श्रूयन्ते। य एते लुग्विकरणाः श्लुविकरणाश्च।।
(विकरणार्थवादिभाष्यम्)
अत्राप्युक्ते कर्तृत्वे लुग्भविष्यति।।
(सार्वधातुकार्थसाधकभाष्यम्)
यस्मिंस्तर्हि ले विकरणा नैवोत्पद्यन्ते कस्तत्र भावकर्मकर्तॄनभिधास्यति। क्व च नैवोत्पद्यन्ते?। लिङ्लिटोः।। तस्मान्नैवं शक्यं वक्तुं न लेनाप्यभिधानं भवतीति। भवति चेदभिहिते विकरणाभाव इत्येव।।
(विकरणार्थसाधकभाष्यम्)
एवं तर्हीदं स्यात् --- यदा भावकर्मणोर्लः, तदा कर्तरि विकरणाः। यदा कर्तरि लः, तदा भावकर्मणोर्विकरणाः।।
(सार्वधातुकार्थवादिभाष्यम्)
इदमस्य यद्येव स्वाभाविकम्, अथापि वाचनिकम् प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः इति। न चास्ति संभवो यदेकस्याः प्रकृतेर्द्वयोर्नानार्थयोर्युगपत्सहायीभावः स्यात्। एवं च कृत्वा एकपक्षी भूतमेवेदं भवति सार्वधातुकार्था एवेति।।
(सार्वधातुकार्थपक्षदूषणस्मारणभाष्यम्)
ननु चोक्तम् भावकर्मकर्तारः सार्वधातुकार्था इति चेदेकद्विबहुषु नियमानुपपत्तिरतदर्थत्वाद् इति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः।
(1854 सिद्धान्तवार्तिकम्।। 3 ।।)
- सुपां कर्मादयोप्यर्थाः संख्या चैव तथा तिङाम्-
(भाष्यम्) सुपां तिङां च संख्या चैवार्थः कर्मादयश्च।।
(1855 वार्तिकम्।। 4 ।।)
- प्रसिद्धो नियमस्तत्र -
(भाष्यम्) प्रसिद्धस्तत्र नियमः।।
(1856 वार्तिकम्।। 5 ।।)
- नियमः प्रकृतेषु वा-
(भाष्यम्) अथ वा प्रकृतानर्थानपेक्ष्य नियमः।। के च प्रकृताः?। एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति।।
(1857 यग्विधिवार्तिकम्।। 6 ।।)
- भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसंख्यानम्-
(भाष्यम्) भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसंख्यानं कर्तव्यम्। पच्यते ओदनः स्वयमेव। पठ्यते विद्या स्वयमेव।।
किं पुनः कारणं न सिध्यति?।
(1858 शपोबलीयस्त्वप्रतिपादकं वार्तिकम्।। 7 ।।)
- विप्रतिषेधाद्धि शपो बलीयस्त्वम्-
(भाष्यम्) विप्रतिषेधाद्धि शपो बलीयस्त्वं प्राप्नोति। शपोऽवकाशः --- पचति पठति। यकोऽवकाशः --- -पच्यते ओदनो देवदत्तेन, पठ्यते विद्या देवदत्तेनेति। इहोभयं प्राप्नोति --- पच्यते ओदनः स्वयमेव, पठ्यते विद्या स्वयमेवेति। परत्वात् शप् प्राप्नोति।।
(1859 कर्मकर्तरियग्विधिवार्तिकवैर्यथ्यवार्तिकम्।। 8 ।।)
- योगविभागात् सिद्धम् -
(भाष्यम्) योगविभागः करिष्यते --- चिण्भावकर्मणोः। ततः सार्वधातुके यक् भावकर्मणोः। ततः कर्तरि। कर्तरि च यक् भवति, भावकर्मणोः।
(योगविभागदूषणभाष्यम्)
यथैव तर्हि कर्मणि कर्तरि यक् भवति। एवं भावेऽपि कर्तरि यग् प्राप्नोति ---
एति जीवन्तमानन्दो नरं वर्षशतादपि।
नास्य किं चिद्रुजति रोग इति।।
(दूषणोद्धारभाष्यम्)
द्वितीयो योगविभागः करिष्यते --- चिण् भावे। ततः कर्मणि कर्मणि च चिण् भवतीति। ततः सार्वधातुके यक्। सार्वधातुके यक् भवति भावे कर्मणि च। ततः कर्तरि कर्तरि च यग्भवति। कर्मणीत्यनुवर्तते। भाव इति निवृत्तम्।।
ततः शप्। शप् च भवति कर्तरीत्येव। कर्मणीति निवृत्तम्।।
(यगुपसंख्यानवादिभाष्यम्)
एवमप्युपसंख्यानं कर्तव्यम्।
(1860 उपसंख्यानहेतुवार्तिकम्।।9 ।।)
- विप्रतिषेधाद्धि श्यनो बलीयस्त्वम्-
(भाष्यम्) विप्रतिषेधाद्धि श्यनो बलीयस्त्वं प्राप्नोति। श्यनोऽवकाशः --- दीव्यति सीव्यतीति। यकोऽवकाशः --- - पच्यते ओदनो देवदत्तेन, पठ्यते विद्या देवदत्तेनेति। इहोभयं प्राप्नोति --- दीव्यते स्वयमेव सीव्यते स्वयमेवेति। परत्वात् श्यन् प्राप्नोति।।
(उपसंख्यानवैर्यथ्यभाष्यम्)
ननु चैतदपि योगविभागेनैव सिद्धम्।
(उपसंख्यानसार्थक्यभाष्यम्)
न सिध्यति। अनन्तरा या प्राप्तिः सा योगविभागेन शक्या निवारयितुम्। कुत एतत्?। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। परा प्राप्तिरप्रतिषिद्धा तया श्यन् प्राप्नोति।
(उपसंख्यानवैर्यथ्यभाष्यम्)
ननु चेयं प्राप्तिः परां प्राप्तिं बाधेत।।
(उपसंख्यानसार्थक्यभाष्यम्)
नोत्सहते प्रतिषिद्धा सती बाधितुम्।।
(उपसंख्यानवैर्यथ्यभाष्यम्)
एवं तर्हि शबादेशाः श्यन्नादयः करिष्यन्ते। शप् च यका बाध्यते। तत्र दिवादिभ्यो यग्विषये शबेव नास्ति कुतः श्यन्नादयः।।
(प्रत्याक्षेपभाष्यम्)
तत्तर्हि शपो ग्रहणं कर्तव्यम्।।
(प्रत्याक्षेपसमाधानभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते।। क्व प्रकृतम्। कर्तरि शबिति।।
(आदेशत्वानुपपत्तिभाष्यम्)
तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः।।
(आदेशत्वोपपादकभाष्यम्)
दिवादिभ्यः इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति।।
(आदेशत्वानुपपत्तिभाष्यम्)
प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति।।
(आदेशत्वोपपादकभाष्यम्)
नायं प्रत्ययविधिः विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।
(उपसंख्यानवैयर्यभाष्यम्)
अथ वा भावकर्मणोरित्यननुवृत्त्यैव सिद्धे सत्यनुवृत्तिर्यको भावाय। इह सार्वधातुके यगिति अन्तरेण भावकर्मणोरित्यनुवृत्तिं सिद्धम्। सोऽयमेवं सिद्धे सति यद्भावकर्मग्रहणमनुवर्तयति तस्येतत्प्रयोजनं कर्मकर्तर्यपि यग् यथा स्यादिति।।
(1861 योगविभागान्तरवार्तिकम् ।। 10 ।।)
- कर्तरीति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय-
(भाष्यम्) कर्तरीति च योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधं मा वोचमिति।
(उपसंख्यानवैर्यथ्ययुक्त्यन्तरभाष्यम्।)
अथ वा कर्मवद्भाववचनसार्मथ्याद्यक् भविष्यति।।
अस्त्यन्यत् कर्मवद्भाववचने प्रयोजनं किम्। आत्मनेपदं यथा स्यात्।
(युक्त्यनुपपत्तिभाष्यम्)
वचनादात्मनेपदं भविष्यति।।
(युक्त्यनुपपत्तिभाष्यम्)
चिण् तर्हि यथा स्यात्।।
(सार्मथ्योपपत्तिभाष्यम्)
चिणपि वचनाद्भविष्यति।।
(सार्मथ्यानुपपत्तिभाष्यम्)
चिण्वद्भावस्तर्हि यथा स्यात्।।
(सार्मथ्योपपत्तिभाष्यम्)
नैकं प्रयोजनं योगारम्भं प्रयोजयति।। तत्र कर्मवद्भाववचनसामर्थ्याद् यक् भविष्यति।।
(उपसंख्यानवैर्यथ्ययुक्त्यन्तरभाष्यम्)
अथ वा आचार्यप्रवृतिर्ज्ञापयति कर्मकर्तरि यग् भवति इति यदयं न दुहस्नुनमां यक्चिणौ इति यक्चिणोः प्रतिषेधं शास्ति।। सार्वधातुके।। 67 ।।
-3-1-71- यसोऽनुपसर्गात् (688)
(423 श्यन्विकल्पविधिसूत्रम्।। 3.1.4 आ. 11)
(आक्षेपभाष्यम्)
अनुपसर्गादिति किमर्थम्?।
(समाधानभाष्यम्)
आयस्यति प्रयस्यति।।
(प्रत्याख्यानभाष्यम्)
अनुपसर्गादिति शक्यमकर्तुम्।।
कथमायस्यति प्रयस्यतीति?।।
संयसश्च इत्येतन्नियमार्थं भविष्यति --- संपूर्वादेव यसः, नान्यपूर्वात् इति।। यसोऽनुपसर्गात्।। 71 ।।
-3-1-78- रुधादिभ्यः श्नम् (695)
(424 श्नम्विधिसूत्रम्।। 3.1.4 आ. 12)
(शित्वप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थः शकारः?
(प्रयोजनभाष्यम्)
सार्वधातुकार्थः। शित्सार्वधातुकम् इति सार्वधातुकसंज्ञा। सार्वधातुकमपिद् इति ङित्त्वम्। ङितीति गुणप्रतिषेधो यथा स्याद् --- भिनत्ति छिनत्तीति।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। यस्माच्च प्रत्ययविधिस्तदादि प्रत्यये परतोऽङ्गसंज्ञं भवति। यस्माच्च प्रत्ययविधिः न तत् प्रत्यये परतः। यच्च प्रत्यये परतो न तस्मात्प्रत्ययविधिः।।
(प्रयोजनानन्तरभाष्यम्)
इदं तर्हि प्रयोजनम् - आर्धधातुकसंज्ञा मा भूदिति । किञ्च स्यात् ? वलादिलक्षण इट् प्रसज्येत ।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। वलादेरार्धधातुकस्याङ्गस्येडुच्यते। यस्माच्च प्रत्ययविधिः तदादिप्रत्यये परतोङ्गसंज्ञं
भवति। यस्माच्चात्र प्रत्ययविधिः न तत् प्रत्यये परतः। यच्च प्रत्यये परतो न तस्मात् प्रत्ययविधिः।
(उत्तरभाष्यम्)
अत उत्तरं पठति ---
(1862 समाधानवार्तिकम्।। 1 ।।)
- श्रमि शित्करणं प्वादिह्रस्वार्थम् -
(भाष्यम्) श्रमि शित्करणं क्रियते। प्वादिह्रस्वार्थम्। प्वादीनां शिति ह्रस्वत्वं यथा स्यात् --- -पृणति मृणतीति।।
(1863 समाधाननिरासवार्तिकम्।। 2 ।।)
- न वा धात्वन्यत्वात् -
(भाष्यम्) न वा कर्तव्यम्। किं कारणम्। धात्वन्यत्वात्। धात्वन्तरे पृणिमृणी।।
(आक्षेपभाष्यम्)
यत्तर्हि न धात्वन्तरं, यत्र भूम्यां वृणसे।।
(आक्षेपबाधकभाष्यम्)
नैष श्नम्। श्न एवैतद्ध्रस्वत्वम्।।
(आक्षेपसाधकभाष्यम्)
यदि श्नो ह्रस्वत्वम्, स्वरो न सिध्यति --- वृणसे - अदुपदेशाल्लसार्वधातुकमनुदात्तं भवतीति एष स्वरो न प्राप्नोति। तस्माच्छ्वमेषः।।
(आक्षेपबाधकभाष्यम्)
यदि श्नम् श्नसोरल्लोपः प्रसज्येत।।
(आक्षेपसाधकभाष्यम्)
उपधाया इति वर्तते। अनुपधात्वान्न भविष्यति।।
(आक्षेंपबाधकभाष्यम्)
न शक्यमुपधाया इति विज्ञातुम्। इह हि दोषः स्यात्। अङ्क्त अञ्जन्तीति। तस्माच्छ्व एवैतद् ह्रस्वत्वम्।।
(स्वरानुपपत्तिभाष्यम्)
यद्येवम्। स्वरः कथम्?
(1864 स्वरोपपादकवार्तिकम्।। 3 ।।)
- बहुलं पित्सार्वधातुकं छन्दसि -
(भाष्यम्) सार्वधातुकस्य छन्दसि बहुलं पित्त्वं वक्तव्यम्। पितश्चैवापित्त्वं दृश्यते। अपितश्च पित्त्वम्। पितस्तावदपित्त्वम् --- मातरं प्रमिणीमि जनित्रीम्। अपितश्च पित्त्वम्--श्रृणोत ग्रावाणः।
(गौरवभाष्यम्)
तत्तर्हि श्नो ह्रस्वत्वं वक्तव्यम्।
(इष्टापत्तिभाष्यम्)
अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यम्। उपगायन्तु मां पत्नयो गर्भिणयो युवतय इत्येवमर्थम्।
(प्रयोजनान्तरभाष्यम्)
विशेषणार्थं तर्हि।। क्व विशेषणार्थेनार्थः।। श्नान्नल्लोप इति। नान्नल्लोप इतीयत्युच्यमाने यज्ञानां यत्नानामित्यत्रापि प्रसज्येत।।
(प्रयोजनान्तरबाधकभाष्यम्)
दीर्घत्वे कृते न भविष्यति।।
(प्रयोजनान्तरसाधकभाष्यम्)
इदमिह संप्रधार्यं दीर्घत्वं क्रियतां नान्नल्लोप इति किमत्र कर्तव्यम्? परत्वान्नलोपः स्यात्। तस्माच् शकारः कर्तव्यः।।
(आक्षेपभाष्यम्)
अत क्रियमाणेऽपि शकारे इह कस्मान्न भवति? विश्नानां प्रश्नानामिति।
(समाधानभाष्यम्)
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति।। रुधादिभ्यः।। 78 ।।
-3-1-79- तनादिकृञ्ञ्भ्य उः (696)
(425 तनादिगणे उविकरणविधिसूत्रम्।। 3.1.4 आ. 13)
(कृञ्ञ्ग्रहणप्रत्याख्यानाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं करोतेः पृथग्ग्रहणं क्रियते, न तनादिभ्य इत्येवोच्येत?।
(समाधानभाष्यम्)
अन्यानि तनोत्यादिकार्याणि मा भूवन्निति। कानि?। अनुनासिकलोपादीनि।
(समाधानबाधकभाष्यम्)
दैवरक्ताः किंशुकाः। अनुनासिकाभावादेवानुनासिकलोपो न भविष्यति।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि तनादिकार्यं मा भूत् तनादिभ्यस्तथासोः इति।।
(प्रयोजनान्तरनिरासभाष्यम्)
ननु च भवत्येवात्र हस्वादङ्गादि ति।।
(प्रयोजनान्तरसाधकभाष्यम्)
तेनैव यथा स्याद्, अनेन मा भूदिति।।
(प्रयोजनान्तरबाधकभाष्यम्)
कः पुनरत्र विशेषः --- -तेन वा सति, अनेन वा?।
(प्रयोजनान्तरसाधकभाष्यम्)
तेन सति सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावः सिद्धो भवति। अनेन पुनः सति चिण्वद्भवावो न स्यात्।।
(प्रयोजनान्तरबाधकभाष्यम्)
अनेनापि सति सिद्धश्चिण्वद्भावः। कथम्?। विभाषा लुक्। यदा न लुक्, सिज्लोपः। तत्र सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावो वा भविष्यति।।
तनादित्वात्कृञ्ञः सिद्धं, सिज्लोपे च न दुष्यति। चिण्वद्भावे न दोषः स्यात्, सोपि प्रोक्तो विभाषया।। तनादिकृञ्ञ्भ्यः।। 79 ।।
-3-1-80- धिन्विकृण्व्योरच (697)
(426 उविकरणविधिसूत्रम्।। 3.1.4 आ. 14)
(अत्वविधिप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
क्वायमकारः श्रूयते?।
(उत्तरभाष्यम्)
न क्वचिच्छ्रूयते। लोपोस्य भविष्यतिउअतो लोप आर्धधातुके इति।।
(आक्षेपभाष्यम्)
यदि न क्वचिछ्रूयते किमर्थमयमुच्यते। न लोपः इत्येवोच्येत।।
(आक्षेपबाधकभाष्यम्)
नैवं शक्यम्। लोपे सति गुणः प्रसज्येत। अत्वे पुनः सति अकारलोपस्य स्थानिवद्भावाद् गुणो न भविष्यति।।
(आक्षेपसाधकभाष्यम्)
ननु च लोपेऽपि सति न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति।।
(आक्षेपबाधकभाष्यम्)
आर्धधातुकनिमित्ते लोपे स प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः।। अपि च प्रत्याख्यायते खल्वपि स योगः। तस्मिन्प्रत्याख्याते गुणः स्यादेव। तस्मादत्वं वक्तव्यम्।
(नकारोच्चारणप्रत्याख्यानाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थं नुमनुषक्तयोर्धिन्विकृण्व्योर्ग्रहणं क्रियते, न धिविकृव्योः इत्येवोच्येत।।
(आक्षेपबाधकभाष्यम्)
धिविकृव्योः इतीयत्युच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत।।
(आक्षेपसाधकभाष्यम्)
इदमिह संप्रधार्यम् --- नुम् क्रियताम्, अत्वमिति। किमत्र कर्तव्यम्?। परत्वान्नुमागमः।।
(आक्षेपबाधकभाष्यम्)
अन्तरङ्गमत्वम्। कान्तरङ्गता?। प्रत्ययोत्पत्तिसंनियोगेनात्वमुच्यते। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्य नुमागमः।।
(आक्षेपसाधकभाष्यम्)
नुमप्यन्तरङ्गः। कथम्?। वक्ष्यत्येतत् नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् इति। उभयोरन्तरङ्गयोः परत्वान्नुमागमः। तस्माद् धिविकृव्योरिति वक्तव्यम्।। धिन्विकृण्व्योः।। 80 ।।
-3-1-83- हलः श्नः शानज्झौ (700)
(427श्नाविकरणस्य शानजादेशविधिशूत्रम्। 3.1.4 आ.15)
(शानचि शकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थः शकारः?।
(आक्षेपबाधकभाष्यम्)
शित्सार्वधातुकम् इति सार्वधातुकसंज्ञा, सार्वधातुकमपिद् इति ङित्त्वम् क्ङिति इति गुणप्रतिषेधो यथास्याद् --- कुषाण पुषाणेति।।
(सिद्धान्तिसमाधानभाष्यम्)
अत उत्तरं पठति --- --
(1865 शानचि शकारवैर्यथ्यवार्तिकम्।। 1 ।।)
- श्नाविकारस्य शित्करणानर्थक्यं स्थानिवत्त्वात्-
(भाष्यम्) श्नाविकारस्य शित्करणमनर्थकम्। किं कारणम्। स्थानिवत्त्वात्। शितोयमादेशः स्थानिवद्भावात् शिद्भविष्यति।।
(1866 शानचि शकारस्य प्रयोजनवार्तिकम्।। 2 ।। )
- अर्थवत्तु ज्ञापकं सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य-
(भाष्यम्) अर्थवत्तु श्नाविकारस्य शित्करणम्। कोर्थः?। ज्ञापनार्थः। किं ज्ञाप्यते?एतज् ज्ञापयत्याचार्यः --- सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्ति इति।।
(प्रयोजनप्रश्नभाष्यम्।।)
किमेतस्य ज्ञापने प्रयोजनम्?।
(1867 प्रयोजनवार्तिकम्।। 3 ।।)
- प्रयोजनं हि तातङोरपित्त्वम्-
(भाष्यम्) हेः पित्त्वं न प्रतिषेध्यम्। पितोयमादेशः स्थानिवद्भावात्पित्स्यात्। सार्वधातुकादेशे अनुबन्धा न
स्थानिवद्भवन्तीति नायं पिद्भविष्यति।।
तातङि च ङकारो नोच्चार्यो भवति। पितोयमादेशः स्थानिवद्भावात्पित् स्यात्। सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति नायं पिद्भविष्यति।।
(1868 प्रयोजनवार्तिकम्।। 4 ।।)
- तबादिषुचाङित्त्वम्-
(भाष्यम्) तबादिषु च ङित्त्वं न प्रतिषेध्यम्। श्रृणोत ग्रावाणः। ङित इमे आदेशा स्थानिवद्भावद्भवन्तीति नेमे ङितो भविष्यन्ति।।
(1869 ज्ञापनदूषणवार्तिकम्।। 5 ।।)
- तस्य दोषो मिप आदेशे पिदभावः-
(भाष्यम्) तस्यैतस्य लक्षणस्य दोषो मिप आदेशे पितोऽभावः। आचिनवमकरवम्। पितोयमादेशः स्थानिवद्भावात् पिद्भवति। सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति। नायं पित्स्यात्।। अत्यल्पमिदमुच्यते --- मिप आदेशः इति। तिप्सिम्मिपामादेशा इति वक्तव्यम्। वेद वेत्थ।।
(1870 दूषणवार्तिकम्।। 6 ।।)
- कित्करणाद्वा सिद्धम्-
(भाष्यम्) अथ वा अवश्यमत्र सामान्यग्रहणाविघातार्थः ककारोनुबन्धः क्व सामान्यग्रहणाविघातार्थेनार्थः?। वसोः संप्रसारणम् इति। तेनैव यत्नेन गुणो न भविष्यति।। अस्य ज्ञापकस्य सन्ति दोषाः, सन्ति च प्रयोजनानि।। समादोषा भूयांसो वा। तस्मान्नार्थोनेन ज्ञापकेन।
(आक्षेपभाष्यम्)
कथं यानि प्रयोजनानि।
(समाधानभाष्यम्)
तानि क्रियन्ते न्यास एव।।
(आक्षेपभाष्यम्)
एवमपि भवेत् पित्करणसार्मथ्यात् पित्कृतं स्यात् ङित्करणसार्मथ्याद् ङित्कृतम्। यत्तु खलु पिति ङित्कृतं प्राप्नोति ङिति च पित्कृतम्। केन तन्न स्यात्। तस्माद्वक्तव्यं पिन्न ङिद्भवति ङिच्च पिन्न भवतीति।
(समाधानभाष्यम्)
न वक्तव्यम्। एवं वक्ष्यामि --- सार्वधातुकं ङिद्भवति, पिन्न एवं तावत्पितो ङित्त्वं प्रतिषिद्धम्। ततः --- -असंयोगाल्लिट् किद्भवति ङिच्च पिन्न भवतीति। एवं ङितः पित्त्वं प्रतिषिद्धम्।। हलः श्रः।। 83 ।।
-3-1-84- छन्दसि शायजपि (701)
(428 श्नाविकरणस्य शायजादेशविधिसूत्रम्।। 3.1.4 आ. 16 )
(1872 अहौशायज्विधिवार्तिकम्।। 1 ।।)
- शायच् छन्दसि सर्वत्र-
(भाष्यम्) शायच् छन्दसि सर्वत्रेति वक्तव्यम्।। क्व सर्वत्र?। हौ चाहौ च किं प्रयोजनम्?। महीरस्कभायद्, यो अस्कभायद् उद्गृभायत उन्मथायतेत्येवमर्थम्।। छन्दसि शायजपि।। 84 ।।
-3-1-85- व्यत्ययो बहुलम् (702)
(429 छन्दसि व्यत्ययविधिसूत्रम्।। 3.1.4 आ.17)
(1873 वार्तिकम्।। 1 ।।)
- योगविभागः-
(भाष्यम्) योगविभागः कर्तव्यः --- व्यत्ययः। व्यत्ययो भवति स्यादीनामिति। आण्डा शुष्णस्य भेदति। भिनत्तीत्येवं प्राप्ते। स च न मरति। न म्रियत इति प्राप्ते।। ततो बहुलम्। बहुलं छन्दसि विषये सर्वे विधयो भवन्तीति। सुपां व्यत्ययः, तिङां व्यत्ययः, वर्णव्यत्ययः, लिङ्गव्यत्ययः, पुरुषव्यत्ययः, कालव्यत्ययः, आत्मनेपदव्यत्ययः, परस्मै
पदव्यत्यय इति।। सुपां व्यत्ययः --- युक्ता मातासीद्धुरि दक्षिणायाः। दक्षिणायामिति प्राप्ते।। तिङां व्यत्ययः --- चाषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते।। वर्णव्यत्ययः --- त्रिष्टुभौजः शुभितमुग्रवीरम्। शुधितमिति प्राप्ते।। लिङ्गव्यत्ययः --- मधोस्तृप्ता इवासते। मधुन इति प्राप्ते।।पुरुषव्यत्ययः --- अधा स वीरैर्दशभिर्वियूयाः। वियूयादिति प्राप्ते।। कालव्यत्ययः--श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। आधातायष्टेति प्राप्ते।। आत्मनेपदव्यत्ययः --- ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते।। परस्मैपदव्यत्ययः --- प्रतीपमन्य ःढ़द्य;र्मिर्युध्यति। युध्यत इति प्राप्ते।।
सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च।
व्यत्ययमिच्छति शास्त्रकृदेषां सोपि च सिध्यति बाहुलकेन।। व्यत्ययो।। 85 ।।
-3-1-86- लिङ्याशिष्यङ् (703)
(439 अङ्विधिसूत्रम्।। 3.1.4 आ. 18)
(आक्षेपभाष्यम्)
अयमाशिषि अङ्विधीयते। तस्य किं प्रयोजनम्?।
(1874 प्रयोजनवार्तिकम्।। 1 ।।)
- आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः-
(भाष्यम्) स्था --- उपस्थेयं वृषभं तुग्रियाणाम् स्था।। गा --- -अञ्जसा सत्यमुपगेयम्। गा।। गमि --- -यज्ञेन प्रतिष्ठां गमेयम्। गमि।। वचि --- मन्त्रं वोचे माग्नये। वचि।। विदि --- विदेयमेनां मनसि प्रविष्टाम्। विदि।।
(1875 अङि्वधानवार्तिकम्।। 2 ।।)
- शकिरुह्योश्च-
(भाष्यम्) शकिरुह्योश्चेति वक्तव्यम्। शकेम त्वा समिधं (साधया धियः)। अस्रवन्ती मारुहेमास्वस्तये।
(1876 अग्विधिवार्तिकम्।। 3 ।।)
- दृशेरक् पितरं च दृशेयं मातरं च दृशेयम्-
(भाष्यम्) दृशेरग्वक्तव्यः। पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम्।।
(आडागमविध्याक्षेपभाष्यम्)
इह उपश्थेयामेत्यत्र आडपि वक्तव्यः। न ह्यङैव सिध्यति।।
(समाधानभाष्यम्)
न वक्तव्यः। सार्वधातुकत्वात् सलोपः, आर्धधाकत्वादेत्वम्। तत्रोभयलिङ्गत्वात् सिद्धम्।। लिङ्याशिष्यङ्।। 86 ।।
इति श्रीमद्भगवत्पतञ्जलीविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्।।
-3-1-87- कर्मवत्कर्मणा तुल्यक्रियः (704)
(431 कर्मवद्भावसूत्रम्।। 3.1.5 आ.1 सू.)
(आक्षेपभाष्यम्)
वत्करणं किमर्थम्?। (समाधानभाष्यम्)
स्वाश्रयमपि यथा स्याद् भिद्यते कुसूलेनेति। अकर्मकाणां भावे लो यथा स्यात्।।
(आक्षेपभाष्यम्)
कर्मणेतिकिमर्थम्?।
(भाष्यम्) करणाधिकरणाभ्यां तुल्यक्रियः कर्ता यः स कर्मवन्मा भूत्। साध्वसिश्छिनत्ति, साधु स्थाली पचतीति।।
(आक्षेपभाष्यम्)
तुल्यक्रिय इति किमर्थम्?।
(समाधानभाष्यम्)
पचत्योदनं देवदत्तः।।
(आक्षेपभाष्यम्)
तुल्यक्रिय इत्यप्युच्यमानेऽत्र पाप्नोति। अत्रापि हि कर्मणा तुल्यक्रियः कर्ता।
(समाधानभाष्यम्)
न तुल्यक्रियग्रहणेन समानक्रियत्वमभिधीयते। किं तर्हि। यस्मिन्कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते यथा कर्मणि। स कर्मणा तुल्यक्रियः कर्ता कर्मवद्भवतीति।
(1877 परिसंख्यावार्तिकम्।। 1 ।।)
- कर्मवदकर्मकस्य कर्ता-
(भाष्यम्) अकर्मकस्य कर्ता कर्मवद्भवतीति वक्तव्यम्। किं प्रयोजनम्?। सकर्मकस्य कर्ता कर्मवन्माभूत्। भिद्यमानः कुसूलः पात्राणि भिनत्तीति।
(1878 परिसंख्यावार्तिकम्।। 2 ।।)
- तथा कर्मदृष्टश्चेत्समानधातौ-
(भाष्यम्) तथा कर्मदृष्टश्चेत्समानधाताविति वक्तव्यम्। इह मा भूत् --- पचत्योदनं देवदत्तः। राध्यत्योदनः स्वयमेवेति।।
(1879 परिसंख्यावार्तिकम्।। 3 ।।)
- तथा कर्मस्थभावकानां कर्मस्थक्रियाणां च-
(भाष्यम्) तथा कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवतीति वक्तव्यम्। कर्तृस्थभावकानां कर्तृस्थक्रियाणां च कर्ता कर्मवन्मा भूदिति। कर्मस्थभावकानाम् --- आसयति देवदत्तम्, शाययति देवदत्तम्, स्थापयति देवदत्तम्।। कर्मस्थक्रियाणाम् --- गामवरुणद्धि, करोति कटम्। कर्तृस्थभावकानाम् - चिन्तयति, मन्त्रयते।। कर्तृस्थक्रियाणाम् --- गच्छति, धावति, हसति।।
(प्रथमपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्)
यत्तावदुच्यते --- अकर्मकस्य कर्ता कर्मवद्भवतीति वक्तव्यम् इति।। न वक्तव्यम्। वक्ष्यत्येतत् --- सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत इति।।
(द्वितीयपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्)
यदप्युच्यते --- कर्मदृष्टश्चेत् समानधाताविति वक्तव्यमिति ।। न वक्तव्यम्। धातोरिति वर्तते। धातोः कर्मणः कर्तुरयं कर्मवद्भाव उच्यते। तत्र संबन्धादेतद् अगंतव्यम् --- यस्य धातोर्यत् कर्म तस्य चेत् कर्ता स्यादिति। तद्यथा --- धातोः कर्मण्यण् भवतीति, तत्र सम्बन्धादेतद् गम्यते यस्य धातोर्यत्कर्मेति। इह मा भूत् --- आहर कुम्भं करोति कटमिति।
(तृतीयपरिसंख्यावार्तिकवैर्यथ्यभाष्यम्)
यदप्युच्यते --- कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवतीति वक्तव्यम्। कर्तृस्थभावकानां
कर्तृस्थक्रियाणां वा कर्ता कर्मवन्मा भूदिति।। न वक्तव्यम्। कर्मस्थया क्रियया यं कर्तारमुपमिमीते। न च कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्मणि क्रियायाः प्रवृत्तिरस्ति।।
(कर्मवद्भावफलविचाराधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनः कर्मकर्तरि कर्माश्रयमेव भवति, आहोस्वित् कर्त्राश्रयमपि?।। किं चातः?।
यदि कर्माश्रयमेव, चङ्शप्कृद्विधयो न सिध्यन्ति। चङः --- अचीकरत कटः स्वयमेव। चङ्।। शप् --- नमते दण्डः स्वयमेव। शप्।। कृद्धिधिः --- भिदुरं काष्ठं स्वयमेव।।
अथ कर्त्राश्रयमपि, सिद्धमेतद् भवति।। (किं तर्हीति)।
(1880 कर्त्राश्रयत्वे दूषणवार्तिकम्।। 4 ।।)
- आत्मनेपदशबादिविधिप्रतिषेधः-
(भाष्यम्) आत्मनेपदं विधेयं शबादीनां च प्रतिषेधो वक्तव्यः।।
(दूषणपरिहारभाष्यम्)
उभयं क्रियते न्यास एव।
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते?।
(1881 समाधानवार्तिकम्। 5 ।।)
- कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वात्-
(भाष्यम्) कर्मकर्तरि कर्तृत्वमस्ति। कुतः?। स्वातन्त्र्येणैवात्र कर्ता विवक्षितः।।
(आक्षेपभाष्यम्)
किं पुनः सतः स्वातन्त्र्यस्य विवक्षा, आहोस्विद्विवक्षामात्रम्?।
(समाधानभाष्यम्)
सत इत्याह। कथं ज्ञायते।। इह भिद्यते कुसूलेनेति। न चान्यः कर्ता दृश्यते, क्रिया चोपलभ्यते।।
(आक्षेपभाष्यम्)
किं च भो विग्रहवतैव क्रियायाः कर्त्रा भवितव्यम्, न पुनर्वातातपकाला अपि कर्तारः स्युः।।
(समाधानभाष्यम्)
भवेत्सिद्धं यदि वातातपकालानामन्यतमः कर्ता स्यात्। यस्तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ता भवति अन्यदतः कुसूलात्।।
(आक्षेपभाष्यम्)
यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्यः कर्ता नास्ति। इह तु कथं स्याल्लूयते केदारः स्वयमेवेति। यत्रासौ देवदत्तो दात्रहस्तः समन्ततो विपरिपतन्दृश्यते।
(समाधानभाष्यम्)
अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ता भवति अन्यदतः केदारात्।।
(भाष्यम्) अस्ति प्रयोजनमेतत्?। किं तर्हीति।
(1882 कर्मवद्भावविषयपरिसंख्यावार्तिकम्।। 6 ।।)
- तत्र लान्तस्य कर्मवदनुदेशः-
(भाष्यम्) लान्तस्य कर्मवदनुदेशः कर्तव्यः। लान्तस्य कर्ता कर्मवद्भवतीति वक्तव्यम्। (1883 परिसंख्यापरिहेयदर्शकवार्तिकम्।। 7 ।।)
- अन्यथा हि कृत्यक्तखलर्थेषु प्रतिषेधः-
(भाष्यम्) अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधो वक्तव्यः स्यात्। कृत्य --- भेत्तव्यः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितस्तदास्य कर्मवद्भावः स्यात्, तस्य प्रतिषेधो वक्तव्यः तस्मिन् प्रतिषिद्धे अकर्मकाणां भावे कृत्यो भवतीति भावे कृत्यो यथा स्याद् भेत्तव्यं कुसूलस्य, भेत्तव्यं कुसूलेनेति। कृत्य।। क्त --- भिन्नः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितो भवति, तदास्य कर्मवद्भावः स्यात्, तस्य प्रतिषेधो वक्तव्यः। तस्मिन्
प्रतिषिद्धे अकर्मकाणां भावे क्तो भवतीति भावे क्तो यथा स्याद् भिन्नं कुसूलेनेति। क्त।। खलर्थ --- इर्षद्भेदः कुसूल इति कर्म। स यदा स्वातन्त्र्येण विवक्षितो भवति तदाऽस्य कर्मवद्भावः स्यात्। तस्य प्रतिषेधो वक्तव्यः। तस्मिन्प्रतिषिद्धे अकर्मकाणां भावे खल्भवतीति भावे खल् यथा स्यात्। इर्षद्भेदं कुसूलेनेति। खलर्थ।।
(आक्षेपभाष्यम्)
तत्तर्हि लग्रहणं कर्तव्यम्।।
(सिद्धान्तिसमाधानभाष्यम्)
न कर्तव्यम्। क्रियते न्यास एव --- व्यत्ययो बहुलल्ल्लिङ्याशिष्यङ् इति द्विलकारको निर्देशः।।
(1884 सूत्रवैर्यथ्यवार्तिकम्।। 8 ।।)
- सिद्धं तु प्राकृतकर्मत्वात्-
(भाष्यम्) सिद्धमेतत्। कथम्?। प्राकृतकर्मत्वात्। प्राकृतमेवैतत् कर्म। तया कटं करोति, शकटं करोतीति।।
(आक्षेपभाष्यम्)
कथं प्रनर्ज्ञायते प्राकृतमेवैतत्कर्मेति।।
(1885 वैर्यथ्यहेतुवार्तिकम्।। 9 ।।)
- आत्मसंयोगेऽकर्मकर्तुः कर्मदर्शनात्-
(भाष्यम्) आत्मसंयोगेऽकर्मकर्तुः कर्म दृश्यते। क्व?। हन्त्यात्मानम्। आत्मना हन्यत इति।
(वैषम्यविघटकसूत्रसार्थक्यभाष्यम्)
विषम उपन्यासः। हन्त्यात्मानमिति कर्म दृश्यते, कर्ता न दृश्यते। आत्मना हन्यत इति च कर्ता दृश्यते, न कर्म दृश्यते।।
(1886 वैषम्योपपादकवार्तिकम्।। 10 ।।)
- पदलोपश्च-
(भाष्यम्) पदलोपश्चात्र द्रष्टव्यः। हन्त्यात्मानमात्मा। आत्मना हन्यत आत्मेति।।
(शङ्काभाष्यम्)
कः पुनरात्मानं हन्ति, को वात्मना हन्यते?।
(उत्तरभाष्यम्)
द्वावात्मानौ --- शरीरात्मा, अन्तरात्मा च। अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुः खे अनुभवति। शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुः खे अनुभवति।।
(1887 आक्षेपवार्तिकम्।। 11 ।।)
- सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत इति-
(भाष्यम्) सकर्मकाणां प्रतिषेधो वक्तव्यः। किं प्रयोजनम्?। अन्योन्यमाश्लिष्यतः अन्योन्यं संस्पृशतः अन्योन्यं संगृह्णीत इति।।
(1888 सकर्मकप्रतिषेधाय नियमवार्तिकम्।। 12 ।।)
- तपेर्वा सकर्मकस्य वचनं नियमार्थम्-
(भाष्यम्) तपेर्वा पुनः सकर्मकस्य वचनं नियमार्थं भविष्यति --- तपेरेव सकर्मकस्य नान्यस्य सकर्मकस्येति।
(आक्षेपभाष्यम्)
तस्य तर्ह्यन्यकर्मकस्यापि प्राप्नोति। उत्तपति सुवर्णं सुवर्णकारः। उत्तप्यमानं सुवर्णं सुवर्णकारमुत्तपति।।
(1889 समाधानवार्तिकम्।। 13 ।।)
- तस्य च तपः कर्मकस्यैव-
(भाष्यम्) तस्य च तपः कर्मकस्यैव कर्ता कर्मवद्भवति नान्यकर्मकस्य।।
(आक्षेपभाष्यम्)
किमिदं तप इति?।
(उत्तरभाष्यम्)
तपेरयमौणादिकोऽस्कारो भावसाधनः।
(आक्षेपभाष्यम्)
कः प्रकृत्यर्थः, कः प्रत्ययार्थः?।
(समाधानभाष्यम्)
स एव संतापः।।
कथं पुनः स एव नाम प्रकृत्यर्थः स्यात् स एव च प्रत्ययार्थः?।
(भाष्यम्) सामान्यतपेरवयवतपिः कर्म भवति। तद्यथा --- स एतान् पोषानपुषत् गोपोषमश्वपोषं रैपोषमिति
सामान्यपुषेरवयवपुषिः कर्म भवति। एवमिहापि सामान्यतपेरवयवतपिः कर्म भवति।।
(1890 कर्मवद्भावविकल्पवार्तिकम्।। 14 ।।)
- दुहिपच्योर्बहुलं सकर्मकयोः-
(भाष्यम्) दुहिपच्योः सकर्मकयोः कर्ता कर्मवद्बहुलं भवतीति वक्तव्यम्। दुग्धे गौः पयः स्वयमेव। तस्मादुदुम्बरः सलोहितं फलं पच्यते।।
बहुलवचनं किमर्थम्?।
परस्मैपदार्थम्।
यद्येवं नार्थो बहुलवचनेन। न हि परस्मैपदमिष्यते।।
(1891 श्यन्विधिवार्तिकम्।। 15 ।।)
- सृजियुज्योः श्यंस्तु-
(भाष्यम्) सृजियुज्योः सकर्मकयोः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम्। श्यंस्तु भवति।
सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावो वाच्यः चिणात्मनेपदार्थः। सृज्यते मालाम्, असर्जि मालामिति।।
युजेस्तु न्याय्ये कर्मकर्तरि यकोऽभावाय। युज्यते ब्रह्मचारी योगम्।।
(1892 कर्मवद्भावविधिवार्तिकम्।। 16 ।।)
- करणेन तुल्यक्रियः कर्ता बहुलम्-
(भाष्यम्) करणेन तुल्यक्रियः कर्ता बहुलं कर्मवद्भवतीति वक्तव्यम्। परिवारयति कण्डकैर्वृक्षः, परिवारयन्ते कण्टका वृक्षम्।।
(1893 प्रतिषेधवार्तिकम्।। 17 ।।)
- स्रवत्यादीनां प्रतिषेधः-
(भाष्यम्) स्रवत्यादीनां प्रतिषेधो वक्तव्यः। स्रवति कुण्डिका उदकम् स्रवति कुण्डिकाया उदकम्। स्रवन्ति वलीकान्युदकम् स्रवति वलीकेभ्य उदकम्।।
(आक्षेपभाष्यम्)
स तर्हि प्रतिषेधो वक्तव्यः?।
(समाधानभाष्यम्)
न वक्तव्यः। तुल्यक्रिय इत्युच्यते। क्रियान्तरं चात्र गम्यते। इह तावत्स्रवति कुण्डिका उदकमिति विसृजतीति गम्यते। स्रवति कुण्डिकाया उदकमिति निष्क्रामतीति गम्यते।। स्रवन्ति वलीकान्युदकमिति विसृजन्तीति गम्यते। स्रवति वलीकेभ्य उदकमिति पततीति गम्यते।।
(1894 यक्चिण्प्रतिषेधवार्तिकम्।। 18 ।।)
- भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्-
(भाष्यम्) भूषाकर्मकिरादिसनन्ताच्च अन्यत्रात्मनेपदात् प्रतिषेधो वक्तव्यः। भूषयते कन्या स्वयमेव। अबुभूषत अन्या स्वयमेव। मण्डयते कन्या स्वयमेव। अममण्डत कन्या स्वयमेव।। किरादि --- अवकिरते हस्ती स्वयमेव। अवाकीर्ष्ट हस्ती स्वयमेव। (गिरते ग्रासः स्वयमेव। अगीर्ष्ट ग्रासः स्वयमेव)। सन् --- चिकीर्षते कटः स्वयमेव।
अचिकीर्षिष्ट कटः स्वयमेव।। कर्मवद्।। 87 ।।
-3-1-89- न दुहस्नुनमां यक्चिणौ (706)
(432 यक्चिण्प्रतिषेधसूत्रम्।। 3।1।5 आ.2)
(1895 यक्चिण्प्रतिषेधवार्तिकम्।। 1 ।।)
- यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसंख्यानम्-
(भाष्यम्) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसंख्यानं कर्तव्यम्।। णि --- कारयते कटः स्वयमेव। अचीकरत कटः स्वयमेव। णि।। श्रि --- उच्छ्रयते दण्डः स्वयमेव। उदशिश्रियत दण्डः स्वयमेव। श्रि।। ब्रूञ्ञ् --- -ब्रूते कथा स्वयमेव। अवोचत कथा स्वयमेव।।
भारद्वाजीयाः पठन्ति --- -
(1896 भारद्वाजीयवार्तिकम्।। 2 ।।)
- यक्चिणोः प्रतिषेधे-
(भाष्यम्) णिश्रन्थिग्रन्थिब्रूञ्ञात्नेपदाकर्मकाणामुपसंख्यानम् इति।। न दुहस्नु।। 89 ।।
-3-1-90- कुषिरजोः प्राचां श्यन् परस्मैपदं च (707)
(433 कर्मवद्भावे श्यन्परस्मैपदविधिसूत्रम्।। 3 । 1 । 5 आ 3 )
(1897 श्यन्विषयपरिसंख्यावार्तिकम्।।1 ।।)
- कुषिरजोः श्यन्विधाने सार्वधातुकवचनम्-
(भाष्यम्)कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणं कर्तव्यम्।।
(1898 अन्यथानुपपत्तिवार्तिकम्।।2 ।।)
- अवचने हि लिङ्लिटोः प्रतिषेधः-
(भाष्यम्) अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधो वक्तव्यः स्यात्। चुकुषे पादः स्वयमेव। ररञ्ञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव रङ्क्षीष्ट वस्त्रं स्वयमेव।।
(आक्षेपभाष्यम्)
क्रियमाणे चापि सार्वधातुकग्रहणे कतीह कुष्णानाः पादा इति अत्रापि प्राप्नोति।। श्यना च स्यादीनां बाधनं प्राप्नोति। कोषिष्यते पादः स्वयमेव। अकोषि पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अरञ्ञ्चि वस्त्रं स्वयमेव।।।
(परिसंख्यावार्तिकवैर्यथ्यभाष्यम्)
यत्तावदुच्यते --- सार्वधातुकग्रहणं कर्तव्यमिति। न कर्तव्यम्। प्रकृतमनुवर्तते।। क्व प्रकृतम्?। सार्वधातुके यगिति।
(अनुवर्तनेऽन्वयविचारभाष्यम्)
यदि तदनुवर्तते पूर्वस्मिन्योगे किं समुच्चयः --- ले च, सार्वधातुके चेति। आहोस्वित् --- लग्रहणं सार्वधातुकविशेषणम्।। किं चातः?।
यदि समुच्चयः, कतीह भिन्दानाः कुसूला इत्यत्रापि प्राप्नोति।।
अथ लग्रहणं सार्वधातुकविशेषणम्। लिङ्लिटोर्न सिध्यति --- बिभिदे कुसूलः स्वयमेव, भित्सीष्ट कुसूलः स्वयमेवेति।।
(सार्वधातुकविशेषणत्वस्वीकारभाष्यम्)
अस्तु लग्रहणं सार्वधातुकविशेषणम्।।
(दूषणस्मारकभाष्यम्)
ननु चोक्तं लिङ्लिटोर्न सिध्यतीति।।
(दूषणपरिहारभाष्यम्)
लिङ्लिङ्ग्रहणमपि प्रकृतमनुवर्तते। क्व प्रकृतम्। कास्प्रत्ययादाममन्त्रे लिटि लिङ्याशिष्यङिति च।।
एवं च कृत्वा सोऽप्यदोषो भवति --- यदुक्तं कतीह कुष्णानाः पादा इत्यत्रापि प्राप्नोतीति। इहापि लविशिष्टं सार्वधातुकग्रहणमनुवर्तते।।
(दूषणान्तरनिराकरणभाष्यम्)
यदप्युच्यते --- श्यना च स्यादीनां बाधनं प्राप्नोतीति।। यक्प्रतिषेधसंबन्धेन श्यनं वक्ष्यामि --- -न दुहस्नुनमां यक्चिणौ। ततः --- कुषिरजोः प्राचाम्। कुषिरजोः प्राचां यक्चिणौ न भवतः। ततः --- श्यन् परस्मैपदं चेति।।
(आक्षेपभाष्यम्)
यथैव तर्हि यको विषये श्यन् भवति, एवं चिणोपि विषये प्राप्नोति --- -अकोषि पादः स्वयमेव। अरञ्ञ्जि वस्त्रं स्वयमेव।।
(समाधानभाष्यम्)
एवं तर्हि द्वितीयो योगविभागः --- करिष्यते --- न दुहस्नुनमां चिण् भवति। ततो यक् यक् च न भवति दुहस्नुनमाम्। ततः कुषिरजोः प्राचां यक् न भवति। ततः श्यन् परस्मैपदं चेति।।
अथ वा --- अनुवृत्तिः करिष्यते --- स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। कुषिरजोः प्राचां श्यन्परस्मैपदं च स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति।।
अथ वान्तरङ्गः स्यादयः।। कान्तरङ्गता?। लावस्थायामेव स्यादयः। सार्वधातुके श्यन्।। कुषिरजोः प्राचाम्।। 90 ।।
-3-1-91- धातोः (708)
(434 अधिकारसूत्रम्।। 3.1.5 आ.4)
(आधिकारावधिनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
आकुतोयं धात्वधिकारः। किं प्राग्लादेशात्। आहोस्विद् आ तृतीयाध्यायपरिसमाप्तेः?।
(1899 वार्तिकम्।। 1 ।।)
- धात्वधिकारः प्राग्लादेशात्-
(भाष्यम्) प्राग्लादेशाद्धात्वधिकारः।।
(1891 हेतुवार्तिकम्।।2 ।।)
- लादेशे हिव्यवहितत्वाद्प्रसिद्धिः-
(भाष्यम्) अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितत्वादप्रसिद्धिः स्यात्।। किं च स्यात्?।
(1901 दोषदर्शकवार्तिकम्।। 3 ।।)
- आद्ये योगे न व्यवाये तिङः स्युः-
(भाष्यम्) आद्ये योगे विकरणैर्व्यवहितत्वात्तिङो न स्युः। पचति पठति।।
इदमिह संप्रधार्यम्। विकरणाः क्रियन्ताम्, आदेशा इति। किमत्र कर्तव्यम्?।
परत्वादादेशाः।।
नित्या विकरणाः। कृतेष्वप्यादेशेषु प्राप्नुवन्ति अकृतेष्वपि प्राप्नुवन्ति। नित्यत्वाद्विकरणेषु कृतेषु विकरणैर्व्यवहितत्वादादेशा न प्राप्नुवन्ति।।
अनवकाशास्तर्ह्यादेशाः।।
सावकाशा आदेशाः। कोऽवकाशः। य एते लुग्विकरणाः श्लुविकरणा- लिङ्लिटौ च।।
(1902 दूषणान्तरवार्तिकम्।।4 ।।)
- न स्यादेत्वं टेष्टितां यद्विधत्ते-
(भाष्यम्) यच्च टित्संज्ञकानां टेरेत्वं विधत्ते, तच्च विकरणैर्व्यवहितत्वादादेशानां न स्यात्।।
(1903 दूषणान्तरवार्तिकम्।।5 ।।)
- एशः शित्वम्-
(भाष्यम्) एकारश्च शित्कर्तव्यः। किं प्रयोजनम्?। सित्सर्वस्ये ति सर्वस्यादेशो यथा स्यात्। अक्रियमाणे हि
शकारे तस्मादित्युत्तरस्यादेः परस्य इति तकारस्यैत्वे कृते द्वयोरेकारयोः श्रवणं प्रसज्येत। निवृत्ते पुनर्लादेशे धात्वधिकारे अलोन्त्यस्य विधयो भवन्तीत्येकारस्य एकारवचने प्रयोजनं नास्तीति कृत्वा अन्तरेणापि शकारं सर्वादेशो भविष्यति।।
(1904 दूषणान्तरवार्तिकम्।। 6 ।।)
- यच्च लोटो विधत्ते-
(भाष्यम्) यच्च लोटो विधीयते। तच्च विकरणैर्व्यवहितत्वान्न स्यात्। किं पुनस्तत्?। लोटो लङ्वत्। एरुः। सेर्ह्यपिच्च। वा छन्दसी ति।
(1905 दूषणान्तरवार्तिकम्।। 7 ।।)
- यच्चाप्युक्तं लङि्लङोस्तच्च न स्यात्-
(भाष्यम्) (यच्चाप्युक्तं लङ्लिङोः, तच्च न स्यात्।) किं पुनस्तत्?। नित्यं ङितः। इतश्च। तस्थस्थमिपां तांतंतामः। लिङः सीयुट्। यासुट् परस्मैपदेषूदात्तो ङिच्चेति।। तस्मात्प्राग्लादेशाद्धात्वधिकारः।।
(प्राग्लादेशाद्धात्वधिकारपक्षे दूषणोपक्रमभाष्यम्)
यदि प्राग्लादेशाद्धात्वधिकारः।।
(1906 प्राग्लादेशाद्धात्वधिकारे दूषणवार्तिकम्।। 8 ।।)
- अकारः -
(भाष्यम्) अकारः शित्कर्तव्यः। किं प्रयोजनम्?। शित्सर्वस्येति सर्वादेशो यथा स्यात्। अनुवर्तमाने पुनर्लादेशे धात्वधिकारे तस्सादित्युत्तरस्य आदेः परस्ये ति थकारस्यात्वे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् --- पेच यूयं चक्र यूयमिति।।
(दूषणोद्धारभाष्यम्)
ननु च निवृत्तेपि लादेशे धात्वधिकारे अलोन्त्यस्य विधयो भवन्तीत्यकारस्याकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति।।
(दूषणस्थापकाभाष्यम्)
अस्त्यन्यदकारस्याकारवचने प्रयोजनम्। किम्?। वक्ष्यत्येतत् --- -- अकारस्याकारवचनं समसंख्यार्थमिति।।
(1907 प्राग्लादेशाद् धात्वधिकारे दूषणान्तरवार्तिकम्।। 9 ।।)
(- आर्धधातुकसंज्ञायां धातुग्रहणम्-)
(भाष्यम्) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम्। धातोः परस्यार्धधातुकसंज्ञा यथा स्यात्। इह मा भूद् वृक्षत्वं वृक्षतेति।। तस्माल्लादेशे धात्वधिकारोनुर्वत्त्यः।।
(प्रथमदूषणस्मारणभाष्यम्)
ननु चोक्तम् --- आद्ये योगे न व्यवाये तिङः स्युरिति।।
(दूषणोद्धारवार्तिकम्)
नैष दोषः।
(1908 दूषणोद्धारवार्तिकम्।। 10 ।।)
(- आनुपूर्व्यात्सिद्धमेतत्। नात्राकृतेष्वादेशेषु विकरणाः प्राप्नुवन्ति। किं कारणम्?। सार्वधातुके विकरणा उच्यन्ते। न चाकृतेष्वादेशेषु सार्वधातुकत्वं भवति।।
(दूषणसाधकभाष्यम्)
ये तर्हि नैतस्मिन्विशेषे विधीयन्ते। के पुनस्ते?।
(दूषणपरिहारभाष्यम्)
अत्रापि धातुग्रहणं विहितविशेषणम् --- धातोर्विहितस्य लस्येति।।
(दूषणभाष्यम्)
यद्येवं विन्दतीति णलादयः प्राप्नुवन्ति।।
(दूषणपरिहारभाष्यम्)
धातुनात्र विहितं विशेषयिष्यामः। विदिना आनन्तर्ये, धातोर्विहितस्य लस्य विदेरनन्तरस्येति।।
(दूषणभाष्यम्)
इह तर्हि अजक्षिष्यन् अजागरिष्यन् इति अभ्यस्ताद् झेर्जुस् भवतीति जुस्भावः प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
अत्रापि धातुना विहितं विशेषयिष्यामः। अभ्यस्तेनानन्तर्यम्। धातोर्विहितस्याभ्यस्तादनन्तरस्येति।।
(आक्षेपभाष्यम्)
आत इत्यत्र कथं विशेषयिष्यसि?।।
यदि तावद्धातुग्रहणं विहितविशेषणम्। आकारग्रहणमानन्तर्यविशेषणम्। अलुनन् अपुनन् इत्यत्रापि प्राप्नोति।।
(भाष्यम्) अथाकारग्रहणं विहितविशेषणं धातुग्रहणमानन्तर्यविशेषणम्। अपिबन् अजिघ्रन् इत्यत्रापि प्राप्नोति।।
(भाष्यम्) अस्तु तर्हि धातुग्रहणं विहितविशेषणमाकारग्रहणमानन्तर्यविशेषणम्।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तमलुनन्नपुनन्नित्यत्रापि प्राप्नोतीति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः। लोपे कृते न भविष्यति।।
(दूषणसाधकभाष्यम्)
नात्र लोपः प्राप्नोति। किं कारणम्। इर्त्वेन बाध्यते।।
(दूषणबाधकभाष्यम्)
नात्रेत्वं प्राप्नोति। किं कारणम्। अन्तिभावेन बाध्यते।।
(दूषणबाधकभाष्यम्)
लोप इर्त्वेन। इर्त्वमन्तिभावेन। अन्तिभावो जुस्भावेन। जुस्भावो लोपेनेति चक्रकमव्यवस्था प्रसज्येत।।
(दूषणबाधकभाष्यम्)
नास्ति चक्रकप्रसङ्गः। न चाव्यवस्थाकारिणाशास्त्रेण भाव्यम्। शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम्। न चात्र हलादिना मुहूर्तमपि शक्यमवस्थातुम्। तावत्येवात्रान्तिभावेन भवितव्यम्। अन्तिभावे कृते लोपः। लोपेन व्यवस्था भविष्यति।
(तृतीयदूषणोद्धारभाष्यम्)
यदप्युच्यते --- एशः शित्त्वमिति। क्रियते न्यस एव।।
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
कानि पुनरस्य योगस्य प्रयोजनानि।
(1909 प्रयोजनवार्तिकम्।। 11 ।।)
- प्रयोजनं प्रातिपदिकप्रतिषेधः-
(भाष्यम्) प्रातिपदिकप्रतिषेधः प्रयोजनम्। धातोस्तव्यदादयो यथा स्युः प्रातिपदिकान्माभूवन्निति।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। साधने तव्यदादयो विधीयन्ते। साधनं च क्रियायाः। क्रियाऽभावात् साधनाऽभावादसत्यपि धात्वधिकारे प्रातिपदिकात्तव्यदादयो न भविष्यन्ति।।
(1910 प्रयोजनवार्तिकम्।। 12 ।।)
(भाष्यम्) स्वपादिषु तर्हि प्रयोजनम्। स्वपिति। सुपितीति मा भूत्।।
(1911 प्रयोजनवार्तिकम्।। 13 ।।)
- अङ्गसंज्ञा च-
(भाष्यम्) अङ्गसंज्ञा च प्रयोजनम्। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेङ्गम् इति धातोरङ्गसंज्ञा सिद्धा भावति।।
(1912 प्रयोजनवार्तिकम्।। 14 ।।)
- कृत्संज्ञा च-
(भाष्यम्) कृत्संज्ञा च प्रयोजनम्। धातोर्विहितः प्रत्ययः कृत्संज्ञो भवतीति कृत्संज्ञा सिद्धा भवति।।
(1913 प्रयोजनवार्तिकम्।। 15 ।।)
- उपपदसंज्ञा च-
(भाष्यम्) उपपदसंज्ञा च प्रयोजनम्। तत्रैतस्मिन् धात्वधिकारे यत्सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवतीति
उपपदसंज्ञा सिद्धा भवति।।
(प्रयोजननिराकरणभाष्यम्)
कृदुपपदसंज्ञे तावन्न प्रयोजयतः। अधिकारादप्येते सिद्धे।।
(अनिराकृतप्रयोजनभाष्यम्)
स्वपादिषु तर्हि अङ्गसंज्ञा च प्रयोजनम्।
(1994 सूत्रवैर्यथ्यवार्तिकम्।। 16 ।।)
- धातुग्रहणमनर्थकं यङि्वधौ धात्वधिकारात्-
(भाष्यम्) धातुग्रहणमनर्थकम्।। किं कारणम्? यङि्वधौ धात्वधिकारात्। यङि्वधौ धातुग्रहणं प्रकृतमनुवर्तते। तच्चावश्यमनुर्वत्यम्।।
(1995 अधिकारत्वहेतुवार्तिकम्।। 17 ।।)
- अनधिकारे ह्यङ्गसंज्ञाभावः-
(भाष्यम्) अनिधाकरे हि सति अङ्गसंज्ञाया अभावः स्यात् --- करिष्यति हरिष्यति।।
(दूषणभाष्यम्)
यदि तदनुवर्तते। चूर्णचुरादिभ्यो णिज् भवति धातोश्चेति धातुमात्राण्णिच् प्राप्नोति।।
(1996 दूषणपरिहारवार्तिकम्।। 18 ।।)
- हेतुमद्वचनं तु ज्ञापकमन्यत्राभावस्य-
(भाष्यम्) यदयं हेतुमति चेत्याह, तज्ज्ञापयत्याचार्यो न धातुमात्राण्णिज्भवती ति।।
(आक्षेपभाष्यम्)
इह तर्हि कण्ड्वादिभ्यो यग् भवतीति धातोश्चेति धातुमात्राद्यक् प्राप्नोति।
(1997 समाधानवार्तिकम्।। 19 ।।)
- कण्ड्वादिषु च व्यपदेशिवद्वचनात्सिद्धम्-
(भाष्यम्) यदयं कण्ड्वादिभ्यो यग्भवतीत्याह, तज्ज्ञापयत्याचार्यो न धातुमात्राद्यग्भवती ति।।
अथ वा कण्ड्वादीनेव धातुग्रहणेन संभन्त्स्यामः --- कण्ड्वादिभ्यो धातुभ्यो यगिति।। धातोः।। 91 ।।
<M.3.131>
-3-1-92- तत्रोपपदं सप्तमीस्थम् (709)
(435 उपपदसंज्ञाधिकरसूत्रम् ।। 3 । 1 । 5 आ. 5 )
(स्थग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
स्थग्रहणं किमर्थम्।
(समाधानभाष्यम्)
तत्रोपपदं सप्तमी इतीयत्युच्यमाने यत्रैव सप्तमी श्रूयते तत्रैव स्यात्--स्तम्बेरमः। कर्णेजपः। यत्र वैतेन शब्देन निर्देशः क्रियते सप्तम्यां जनेर्ड इति। इह न स्यात् --- कुम्भकारो नगरकारः।। स्थग्रहणे पुनः क्रियमाणे यत्र सप्तमी श्रूयते, यत्र (चसप्तमी) न श्रूयते यत्र वैतेन शब्देन निर्देशः क्रियते, यत्र वान्येन शब्देन, सप्तमीस्थमात्रे सिद्धं भवति।।
(तत्र ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ तत्रग्रहणं किमर्थम्।
(1918 समाधानवार्तिकम्।। 1 ।।)
- तत्रग्रहणं विषयार्थम्-
(भाष्यम्) (तत्रग्रहणं क्रियते। किमर्थम्?। विषयार्थम्) विषयः प्रतिनिर्दिश्यते। तत्रैतस्मिन्धात्वधिकारे
सप्तमीनिर्दिष्टमुपपदसंज्ञं भवतीत्युपपदसंज्ञा सिद्धा भवति।।
(सार्मथ्यविचाराधिकरणम्)
(1919 समर्थग्रहणवार्तिकम्।। 2 ।।)
- उपपदसंज्ञायां समर्थवचनम्-
(भाष्यम्) उपपदसंज्ञायां समर्थग्रहणं कर्तव्यम्। समर्थमुपपदं प्रत्ययस्येति वक्तव्यम्। इह मा भूत् आहर कुम्भम्, करोति कटम् इति।।
<M.3.132>
(आक्षेपभाष्यम्)
अथ क्रियमाणे चापि समर्थग्रहणे महान्तं कुम्भं करोतीत्यत्रापि प्राप्नोति।।
(काक्वा प्रत्याक्षेपभाष्यम्)
न वा भवितव्यं महाकुम्भकार इति।।
(प्रत्याक्षेपसमाधानभाष्यम्)
भवितव्यं यदैतद्वाक्यं भवति --- महान्कुम्भो महाकुम्भः महाकुम्भं करोतीति महाकुम्भकारः। यदा त्वेतद्वाक्यं भवति --- महान्तं कुम्भं करोतीति तदा न भवितव्यम्। यदा च प्राप्नोति तदा मा भूदिति।।
(समर्थग्रहणवैर्यथ्यभाष्यम्)
यत्तावदुच्यते --- समर्थग्रहणं कर्तव्यमिति।। न कर्तव्यम्। धातोरिति वर्तते। धातोः कर्मण्यण् भवति। तत्र संबन्धादेतद्गन्तव्यं यस्य धातोर्यत्कर्मेति।।
(आक्षेपवारणभाष्यम्)
यदप्युच्यते --- क्रियमाणे चापि समर्थग्रहणे महान्तं कुम्भं क्रियते। संज्ञा च नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थं हि संज्ञाकरणम्। तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम् --- अन्वर्थसंज्ञा यथा विज्ञायेत उपोच्चारितं पदमुपपदमिति। यच्चात्रोपोच्चारितं न तत्पदम्, यच्च पदं न तदुपोच्चारितम्।।
(भाष्यम्) यावता चेदानीं पदगन्धोस्ति पदविधिरयं भवति। पदविधिश्च समर्थानां भवति। तत्रासार्मथ्यान्न भविष्यति।।
<M.3.133>
(च्व्यन्तोपपदे प्रत्ययोत्पत्तिविचाराधिकरणम्)
(आक्षेपभाष्यम्)
अथ च्व्यन्त उपपदे किमणा भवितव्यम् अकुम्भं कुम्भं करोति कुम्भीकरोति मृदमिति।।
(समाधानभाष्यम्)
न भवितव्यम्। किं कारणम्?। प्रकृतिविवक्षितत्वात्। प्रकृतिविवक्षायां च्विर्विधीयते। तत्सापेक्षम्। सापेक्षं चासमर्थं भवति।।
(प्रश्नभाष्यम्)
न तर्हि इदानीमिदं भवति --- इच्छाम्यहं काशकटीकारमिति।।
(समाधानभाष्यम्)
इष्टमेवैतद्गोनर्दीयस्य।।
(1921 वार्तिकम्।। 3 ।।)
- निमित्तोपादानं च -
(भाष्यम्) निमित्तोपादानं च कर्तव्यम्। निमित्तमुपपदं प्रत्ययस्येति वक्तव्यम्।।
(1922 हेतुवार्तिकम्।। 4 ।।)
- अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः-
(भाष्यम्) अक्रियमाणे हि निमित्तोपादाने अनुपपदेऽपि प्रत्ययः प्रसज्यते।।
(आक्षेपभाष्यम्)
निर्देश इदानीं किमर्थः स्यात्?।
(1923 वार्तिकम्।। 5 ।।)
- निर्देशः संज्ञाकरणार्थः-
(भाष्यम्) (ठकर्मणि इत्यादीनां निर्देशः क्रियते। किमर्थः? संज्ञाकरणार्थः। प्रत्ययसंनियोगेन संज्ञा यथा क्रियेत--) यदा उपपदे प्रत्ययस्तदोपपदसंज्ञां वक्ष्यामीति।।
(आक्षेपभाष्यम्)
तत्तर्हि निमित्तोपादानं कर्तव्यम्?।
(सिद्धान्तिभाष्यम्)
न कर्तव्यम्।।
(1924 निमित्तोपादानवैर्यथ्यवार्तिकम्।। 6 ।।)
- तत्र वचनमुपपदसंनियोगार्थम्-
(भाष्यम्) तत्र वचनं क्रियते तदुपपदसंज्ञासंनियोगार्थं भविष्यति। कर्मण्यण्विधीयते तत्र च प्रत्ययो भवतीति।।
<M.3.134>
(आक्षेपभाष्यम्)
ननु चान्यत्तत्रग्रहणस्य प्रयोजनमुक्तम्। किम्। तत्रग्रहणं विषयार्थमिति।।
(समाधानभाष्यम्)
अधिकारादप्येतत्सिद्धम्।। तत्रोपपदम्।। 92 ।।)
(कृत्प्रकरणम्)
-3-1-93- कृदतिङ् (710)
(436 कृत्संज्ञाधिकरसूत्रम्।। 3 । 1 । 5 आ 6)
(आतिङ्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अतिङिति किमर्थम्?।
(समाधानभाष्यम)
पचति पठति।।
(अतिङ्ग्रहणवैर्यथ्यभाष्यम्)
अतिङिति शक्यमकर्तुम्।।
(आक्षेपभाष्यम्)
कस्मान्न भवति --- -पचति पठतीति।।
(समाधानभाष्यम्)
धातोः परस्य कृत्संज्ञा। प्राक् च लादेशाद्धात्वधिकारः।।
(आक्षेपभाष्यम्)
एवमपि स्थानिवद्भावात्प्राप्नोति।।
(प्रतिबन्दीभाष्यम्)
अथातिङित्युच्यमाने यावता स्थानिवद्भावः। कथमिवैतत्सिध्यति।।
(समाधानभाष्यम्)
प्रतिषेधवचनसार्मथ्यात्।।
(समाधानान्तरभाष्यम्)
अथ वा तिङ्भाविनो लकारस्य कृत्संज्ञाप्रतिषेधः।।
(आक्षेपभाष्यम्)
किं च स्यात्। यद्यत्र कृत्संज्ञा स्यात्?।।
(समाधानभाष्यम्)
कृत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा स्यात्। प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत।।
(दूषणोद्धारभाष्यम्)
नैष दोषः। एकत्वादिषु अर्थेषु स्वादयो विधीयन्ते। ते चात्र तिङोक्ता एकत्वादय इति कृत्वा उक्तार्थत्वान्न भविष्यन्ति।।
(प्रयोजनभाष्यम्)
टाबादयस्तर्हि तिङन्ताद् मा भूवन्निति।।
(प्रयोजननिराकरणभाष्यम्)
स्त्रियां टाबादयो विधीयन्ते। न च तिङन्तस्य स्त्रीत्वेन योगोस्ति।।
(प्रयोजनभाष्यम्)
अणादयस्तर्हि तिङन्तान्मा भूवन्निति।।
(प्रयोजननिराकरणभाष्यम्)
अपत्यादिष्वणादयो विधीयन्ते। न च तिङन्तस्यापत्यादिभिर्योगोस्ति।। अथापि कथंचिद्योगः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न तिङन्तादणादयो भवन्तीति। यदयं क्वचित्तद्धितविधौ तिङ्ग्रहणं करोति --- -अतिशायने तमबिष्ठनौ। तिङश्च ।।
(प्रयोजनभाष्यम्)
इह तर्हि पचति पठतीति ह्रस्वस्य पिति कृति तुग्भवती ति तुक् प्राप्नोति।।
(प्रयोजननिराकणभाष्यम्)
धातोरि ति वर्तते।।
(प्रयोजनभाष्यम्)
एवमपि चिकीर्षतीत्यत्रापि प्राप्नोति।।
(प्रयोजननिराकरणभाष्यम्)
अत्रापि शपा व्यवधानात्।
(प्रयोजनसाधकभाष्यम्)
एकादेशे कृते नास्ति व्यवधानम्।
(प्रयोजननिराकरणभाष्यम्)
एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेवेति।। कृदतिङ्।। 93 ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य प्रथमे पादेपञ्चममाह्निकम्।।
-3-1-94- वाऽसरूपोऽस्त्रियाम् (711)
(437 सूत्रम्।। 3 । 1 । 6 आ. 1 )
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते --- स्त्रियामभिधेयायां वाऽसरूपो न भवतीति। आहोस्वित् स्त्रीप्रत्ययेष्वि ति?।। किं चातः?।
(अभिधेयपरत्वदूषणभाष्यम्)
यदि विज्ञायते --- -स्त्रियामभिधेयायाम् इति --- लव्या लवितव्या अत्र वाऽसरूपो न प्राप्नोति।।
(स्त्रीप्रत्ययपरत्वदूषणभाष्यम्)
अथ विज्ञायते --- स्त्रीप्रत्ययेषु इति, व्यावक्रोशी व्यावक्रुष्टिरिति न सिध्यति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि नैवं विज्ञायते --- स्त्रियामभिधेयायाम्, नापि स्त्रीप्रत्ययेष्विति। कथं तर्हि? स्त्रीग्रहणं स्वरयिष्यते।। तत्र
स्वरितेनाधिकारगतिर्भवतीति स्त्रियाम् इत्यधिकृत्य ये प्रत्यया विहितास्तेषां प्रतिषेधो विज्ञास्यते।।
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते?।।
(1925 समाधानवार्तिकम्।। 1 ।।)
- असरूपस्य वावचनमुत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम्-
(भाष्यम्) असरूपस्य वावचनं क्रियते। उत्सर्गस्य बाधकविषयेऽनिवृत्तिर्यथा स्यात्। तव्यत्तव्यानीयर उत्सर्गाः तेषामजन्ताद्यदपवादः --- -चेयम् चेतव्यमित्यपि यथा स्यात्।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। अजन्ताद्यद्विधीयते। हलन्तात् ण्यद्विधीयते। एतावन्तश्च धातवो यदुताजन्ता हलन्ताश्च। उच्यन्ते च तव्यदादयस्ते वचनाद्भविष्यन्ति।।
(प्रयोजनभाष्यम्)
एवं तर्हि ण्वुल्तृचावुत्सर्गौ, पचादिभ्योऽजपवादः --- पचतीति पचः। पक्ता पाचक इत्यपि यथा स्यात्।।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् --- -अजपि सर्वधातुभ्यो वक्तव्य इति।।
(प्रयोजनभाष्यम्)
एवं तर्हि ण्वुल्तृजच उत्सर्गाः। तेषामिगुपधात्कोपवादः --- विक्षिपः विलिखः । विक्षेप्ता विक्षेपक इत्यपि यथा स्यात्।।
अस्ति प्रयोजनमेतत्। किं तर्हीति।
(1926 आक्षेपवार्तिकम्।। 2 ।।)
- तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते-
(भाष्यम्) तत्रोत्पत्तिर्विभाषा प्राप्नोति यथा तद्धिते।।
(आक्षेपबाधकभाष्यम्)
अस्तु, यदा विक्षिपो विलिख इत्येतन्न, तदा विक्षेप्ता विक्षेपक इत्येतद्भविष्यति।।
(आक्षेपसाधकभाष्यम्)
यद्येतल्लभ्येत कृतं स्यात्। तत्तु न लभ्यम्। किं कारणम्?। यथा तद्धित इत्युच्यते।।
तद्धितेषु च सर्वमेवोत्सर्गापवादं विभाषा, उत्पद्यते वा न वा।।
(1927 समाधानवार्तिकम्।। 3 ।।)
- सिद्धं त्वसरूपस्य बाधकस्य वावचनात्-
(भाष्यम्) सिद्धमेतत्। कथम्?। असरूपस्य बाधकस्य वावचनात् असरूपो वा बाधको भवतीति इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् --- - तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते इति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः। अस्ति कारणं येन तद्धितेषु विभाषोत्पत्तिर्भवति। किं कारणम्?। प्रकृतिस्तत्र प्रकृत्यर्थे वर्तते, अन्येन च शब्देन प्रत्ययार्थोभिधीयते। इह पुनर्न केवला प्रकृतिः प्रकृत्यर्थे वर्तते। नचान्यः शब्दोस्ति यस्तमर्थमभिदधीतेति कृत्वा तेनानुत्पत्तिर्न भविष्यति।।
अथ वा समयः --- कृतः --- न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति। एतस्मात्समयादनुत्पत्तिर्न भविष्यति।।
(आक्षेपभाष्यम्)
ननु च य एव तस्य समयस्य कर्ता स एवेदमप्याह। यद्यसौ तत्र प्रमाणम्, इहापि प्रमाणं भवितुमर्हति।।
(समाधानभाष्यम्)
प्रमाणमसौ तत्र चेह च। सार्मथ्यं त्विह द्रष्टव्यं शब्दानां प्रयोगे। न चानुत्पत्तौ सार्मथ्यमस्ति। ततोनुत्पत्तिर्न भविष्यति।।
(आक्षेपभाष्यम्)
कथं तर्हि तद्धितेष्वनुत्पत्तौ सार्मथ्यं भवति?।।
(समाधानभाष्यम्)
अन्येन प्रत्ययेन सार्मथ्यम्। केन?। षष्ठ्या।। अथ वा रूपवत्तामाश्रित्य वाविधिरुच्यते। न चानुत्पत्ती रूपवती। तेनानुत्पत्तिर्न भविष्यति।।
(आक्षेपभाष्यम्)
एवमपि कुत एतत् --- अपवादो विभाषा भविष्यति, न पुनरुत्सर्ग इति।।
(समाधानभाष्यम्)
न चैवास्ति विशेषो यदपवादो विभाषा स्याद्, उत्सर्गो वा।। अपि च सापेक्षोयं निर्देशः क्रियते वाऽसरूप इति। न चोत्सर्गवेलायां किंचिदपेक्ष्यमस्ति। अपवादवेलायां पुनरुत्सर्गोपेक्ष्यते। तेन यो रूपवानन्यपूर्वो बाधकः प्राप्नोति, स वा बाधको भविष्यति।। कः पुनरसौ?। अपवादः।।
(आक्षेपभाष्यम्)
यदि यो रूपवानन्यपूर्वो बाधकः प्रप्नोति स वा बाधको भवतीत्युच्यते। क्विबादिषु समावेशो न प्राप्नोति --- ग्रामणीः ग्रामनाय इति। न ह्येते रूपवन्तः।।
(समाधानभाष्यम्)
एतेपि रूपवन्तः। कस्यामवस्थायाम्?। उपदेशावस्थायाम्।।
(वार्तिकशेषभाष्यम्)
यद्येवम्।
(1928 आक्षेपवार्तिकम्।। 4 ।।)
- अनुबन्धविभिन्नेषु विभाषाप्रसङ्गः-
(भाष्यम्) अनुबन्धविभिन्नेषु विभाषा प्राप्नोति --- -कर्मण्यण् आतोनुपसर्गे क इति कविषयेऽणपि प्राप्नोति।
(1929 समाधानवार्तिकम्।। 5 ।।)
- सिद्धमनुबन्धस्यानेकान्तत्वात्-
(भाष्यम्) सिद्धमेतत्। कथम्?। अनुबन्धस्यानेकान्तत्वात्। अनेकान्ता अनुबन्धाः।।
(समाधानान्तरभाष्यम्)
अथ वा प्रयोगेऽसरूपाणां वाविधिर्न्याय्यः।।
(1930 दूषणवार्तिकम्।। 4 ।।)
- प्रयोगे लादेशेषु प्रतिषेधः-
(भाष्यम्) प्रयोगे चेल्लादेशेषु प्रतिषेधो वक्तव्यः। ह्योऽपचत् इत्यत्र लुङपि प्राप्नोति। श्वः पक्तेत्यत्र लृडपि प्राप्नोति।।
(दूषणपरिहारभाष्यम्)
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति --- न लादेशेषु वासरूपो भवति इति। यदयं हशश्वतोर्लङ् च इत्याह।।
(समाधानान्तरभाष्यम्)
अथ वा प्रयोगेऽसरूपाणां वाविधौ न सर्वमिष्टं संगृहीतमिति कृत्वा द्वितीयः प्रयोग उपास्यते।। कोसौ?। उपदेशो नाम।। उपदेशे चैतेऽसरूपाः।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् --- - अनुबन्धविभिन्नेषु विभाषाप्रसङ्ग इति।।
(दूषणपरिहारस्मारणभाष्यम्)
परिहृतमेतत् --- - सिद्धमनुबन्धस्यानेकान्तत्वाद् इति।।
(दूषणभाष्यम्)
अथैकान्तेषु दोष एव।।
(दूषणपरिहारभाष्यम्)
एकान्तेषु च न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति --- नानुबन्धकृतमसारूप्यं भवति इति। यदयं ददातिदधात्योर्विभाषां शास्ति।।
(परिहारान्तरभाष्यम्)
अथवाऽसरूपो वा बाधको भवतीत्युच्यते। अपवादश्च नाम अनुबन्धभिन्नो वा भवति रूपान्यत्वेन वा। तेनानेनावश्यं किंचित्त्याज्यं किंचिच्च संगृहीतव्यम्। तद्यदनुबन्धकृतमसारूप्यम्, तन्नाश्रयिष्यामः, यत्तु रूपान्यत्वेनासारूप्यम्, तदाश्रयिष्यामः।।
(परिहारान्तरभाष्यम्)
अथवा --- असरूपो वा बाधको भवती त्युच्यते। सर्वश्चासरूपः तत्र प्रकर्षगतिर्विज्ञास्यते --- साधीयो योसरूपः इति।। कश्च साधीयान्?। यः प्रयोगे, प्राक् च प्रयोगात्।।
(परिहारान्तरभाष्यम्)
अथवा --- असरूपो वा बाधको भवतीत्युच्यते। न चैवं सति कश्चिदपि सरूपः। त एवं विज्ञास्यामः --- क्वचिद्येऽसरूपाः इति। अनुबन्धभिन्नाश्च प्रयोगे सरूपाः।।
(आक्षेपभाष्यम्)
अथ कथमिदं विज्ञायते अस्त्रियामिति --- किं स्त्रियां न भवति इति, आहोस्वित् प्राक् स्त्रिया भवति इति। कश्चात्र विशेषः?।
(1939 दूषणवार्तिकम्।। 5 ।।)
- स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः-
(भाष्यम्) स्त्रियां प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति।। क्त --- -हसितं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति।। ल्युट् --- -हसनं छात्रस्य शोभनम्। घञ्ञपि प्राप्नोति।। तुमुन् --- इच्छति भोक्तुम्। लिङ्लोटावपि प्राप्नुतः।। खलर्थः --- -इर्षत्पानः सोमो भवता। खलपि प्राप्नोति।।
(स्त्रियाः प्राग् इति पक्षाङ्गीकारभाष्यम्)
एवं तर्हि स्त्रियाः प्रागिति वक्ष्यामि।
(1932 दूषणवार्तिकम्।।6 ।।)
- स्त्रियाः प्रागिति चेत् क्त्वायां वावचनम्-
(भाष्यम्) स्त्रियाः प्रागिति चेत्क्त्वायां वावचनं कर्तव्यम्। आसित्वा भुङ्क्ते। आस्यते भोक्तुमित्यपि यथा स्यात्।
(1933 दूषणवार्तिकम्।। 7 ।।)
- कालादिषु तुमुन्विधाने वावचनम्-
(भाष्यम्) कालादिषु तुमुन्विधाने वावचनं कर्तव्यम्। कालो भोजनस्येत्यपि यथा स्यात्।।
(1934 वार्तिकम्।. 8 ।।)
- अर्हे तृज्विधानम्-
(भाष्यम्) अर्हे तृज् विधेयः। इमे अर्हे कृत्या विधीयन्ते ते विशेषविहिताः सामान्यविहितं तृचं बाधेरन्।।
(दूषणोद्धारभाष्यम्)
नैष दोषः । भावकर्मणोः कृत्या विधीयन्ते कर्तरितृच्। कः प्रसङ्गो यद्भावकर्मणोः कृत्याः कर्तरि तृचं बाधेरन्। (1935 वार्तिकन्यासान्तरम्।। 9 ।।)
- अर्हे कृत्यतृज्विधानम्-
(भाष्यम्) अर्हे कृत्यतृचो विधेयाः।। अयमर्हे लिङ् विधीयते। स विशेषविहितः सामान्यविहितान् कृत्यतृचो वा बाधेत।। वासरूपोस्त्रियाम्।। 94 ।।
(अथ कृत्प्रकरणे कृत्यप्रकरणम्)
-3-1-96- तव्यत्तव्यानीयरः (713)
(439 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.3)
(1939 प्रत्ययविधिवार्तिकम्।। 1 ।।)
- केलिमर उपसंख्यानम्-
(भाष्यम्) केलिमर उपसंख्यानं कर्तव्यम्। पचेलिमा माषाः पक्तव्याः। भिदेलिमाः सरलाः भेत्तव्याः।
(1939 प्रत्ययविधिवार्तिकम्।। 2 ।।)
- वसेस्तव्यत् कर्तरि णिच्च-
(भाष्यम्) तद्धितो वा पुनरेष भविष्यति। वास्तुनि भवो वास्तव्यः।। तव्यत्तव्या।। 96 ।।
(अथ यत्प्रत्ययप्रकरणम्)
-3-1-97- अचो यत् (714)
(440 यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.4)
(अज्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अज्ग्रहणं किमर्थम्?।
(प्रयोजनभाष्यम्)
अजन्ताद्यथा स्याद्, हलन्तान्मा भूदिति।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। हलन्ताण्ण्यद्विधीयते, स बाधको भविष्यति।।
(प्रयोजनसाधकभाष्यम्)
यथैव तर्हि ण्यद्यतं बाधते। एवं तव्यदादीनपि बाधेत। अज्ग्रहणे पुनः क्रियमाणे अजन्ताद्यद्धिधीयते, हलन्ताण्ण्यद्विधीयते। एतावन्तश्च धातवो यदुताजन्ता हलन्ताश्च। उच्यन्ते च तव्यदादयः। ते वचनाद्भविष्यन्ति।।
(प्रयोजनबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। वासरूपेण तव्यदादयो भविष्यन्ति।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। अजन्तभूतपूर्वमात्रादपि यथा स्यात् --- लव्यम्, पव्यम्। आर्द्धधातुकसामान्ये गुणे कृतेपि प्रत्ययसामान्येपि च वान्तादेशे कृते हलन्तादितिण्यत् प्राप्नोति।। तथा दित्स्यं धित्स्यम्। आर्द्धधातुकसामान्ये अकारलोपे कृते हलन्तादिति ण्यत् प्राप्नोति। अज्ग्रहणसार्मथ्याद्यदेव भवति।
(1941 यत्प्रत्ययवार्तिकम्।। 1 ।।)
- यति जनेरुपसंख्यानम्-
(भाष्यम्) यति जनेरुपसंख्यानं कर्तव्यम्। जन्य वत्सेन।।
अत्यल्पमिदमुच्यते(--जनेः इति।)
(1942 वार्तिकन्यासान्तरम्।। 2 ।।)
- तकिशसिचतियतिजनीनामुपसंख्यानमिति वक्तव्यम्-
(भाष्यम्) तकि--तक्यम्। शसि --- शस्यम्। चतिचत्यम्। यति --- -यत्यम्। जनि--जन्यम्।।
(1942 कृत्ययत्प्रत्ययवार्तिकम्।। 2 ।।)
- हनो वा वध च-
(भाष्यम्) हन्तेर्वा यद्वक्तव्यः। वध इत्ययं चादेशः। वध्यः। घात्यः।।
(1943 तद्धितानुपपत्तिभाष्यम्)
यदि तद्धितः, समासो न प्राप्नोति --- -असिवध्यो मुसलध्य इति। यति पुनः सति साधनं कृतेति वा पादहारकाद्यर्थम् इति समासः सिद्धो भवति।।
(तद्धितोपपत्तिभाष्यम्)
यति पुनरसिवधशब्दादेवोत्पत्तिः स्याद्। असिवधमर्हतीति।।
(तद्धितानुपपत्तिभाष्यम्)
नैवं शक्यं वक्तुम्। स्वरे हि दोषः स्यात् --- असिवध्यः एवं स्वरः प्रसज्येत। असिवध्य इति चेष्यते।। अचो।। 97 ।।
-3-1-100- गदमदचरयमश्चानुपसर्गे (717)
(441 यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 5)
(1944 यत्प्रत्ययविधिवार्तिकम्।। 1 ।।)
- अनुपसर्गाच्चरेराङि चागुरौ -
(भाष्यम्) अनुपसर्गाच्चरेरित्यत्राङि चागुराविति वक्तव्यम्। आचर्यो देशः।।
अगुराविति किमर्थम्?।
आचार्य उपनयमानः।। गदमद।। 100 ।।
-3-1-103- अर्यः स्वामिवैश्ययोः (720)
(442 यत्प्रत्ययविधिसूत्रम्।। 3 । 1। 6 । आ. 6)
(1945 अन्तोदात्तत्वविधिवार्तिकम्।। 1 ।।)
- स्वामिन्यन्तोदात्तत्वं च-
(भाष्यम्) स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। अर्यः स्वामीति।। अर्यः स्वामि ।। 103 ।।
-3-1-105- अजर्यं सङ्गतम् (722)
(443 यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.7)
(आक्षेपभाष्यम्)
सङ्गतमिति। किं प्रत्युदाह्रियते?।
(समाधानभाष्यम्)
अजरः कम्बलः, अजरिता कम्बल इति।
(आक्षेपभाष्यम्)
किं पुनः कारणं कर्तृसाधन एव प्रत्युदाह्रियते, न भावसाधनः प्रत्युदाहार्यः।
(समाधानभाष्यम्)
एवं तर्हि,
(1946 वार्तिकम्।। 1 ।।)
- अजर्यं कर्तरि-
(भाष्यम्) अजर्यं कर्तरीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्।
(समाधानभाष्यम्)
न वक्तव्यम्। गत्यर्थानां क्तः कर्तरि विधीयते तेन योगाद् अजर्यं कर्तरि भविष्यति।।
(आक्षेपभाष्यम्)
गत्यर्थानां वै क्तः कर्मण्यपि विधीयते। तेन योगादजर्यं कर्मण्यपि प्राप्नोति।।
(समाधानभाष्यम्)
जीर्यतिरकर्मकः।
(आक्षेपभाष्यम्)
भावे तर्हि प्राप्नोति।
(प्रत्याक्षेपभाष्यम्)
संगतग्रहणमिदानीं किमर्थं स्यात्?।
(समाधानभाष्यम्)
कर्तृविशेषणं संगतग्रहणम्। संगतं कर्तृचेद्भवतीति। तद्यथा --- हृषेर्लोमसु इति लोमानि चेत्कर्तॄणि भवन्तीति।। अजर्यम्।। 105 ।।
(अथ क्यप्प्रत्ययप्रकरणम्)
-3-1-106- वदः सुपि क्यप् च (726)
(444 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.8)
(1947 परिसंख्यावार्तिकम्।। 1 ।।)
(भाष्यम्) वदः सुप्यनुपसर्गग्रहणं कर्तव्यम्। इह मा भूत् --- प्रवाद्यं संवाद्यम्।
(आक्षेपभाष्यम्)
तत्तर्हि कर्तव्यम्।
(समाधानभाष्यम्)
न कर्तव्यम्। अनुपसर्ग इति वर्तते।।
(वार्तिकसार्थक्यभाष्यम्)
एवं तर्ह्यन्वाचष्टे --- --अनुपसर्ग इत्येवं वर्तते इति।।
(वार्तिकवैर्यथ्यभाष्यम्)
नैतदन्वाख्येयम् --- अधिकारा अनुवर्तन्तेःथ्द्य;ति। एष एव च न्यायो यदुत अधिकारा अनुवर्तेरन् इति।। वदः सुपि।। 106 ।।
-3-1-107- भुवो भावे (724)
(445 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.8)
(आक्षेपभाष्यम्)
भावग्रहणं किमर्थम्?।
(प्रयोजनभाष्यम्)
कर्मणि मा भूदिति।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। भवतिरकर्मकः।
(प्रयोजनसाधकभाष्यम्)
अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति। तेनानुभाव्यमामन्त्रणमित्यत्रापि प्राप्नोति।।
(प्रयोजनबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अनुपसर्गे इति वर्तते।
(प्रयोजनभाष्यम्)
उत्तरार्थं तर्हि भावग्रहणं कर्तव्यम्। हनस्त च भावे यथा स्यात् --- -श्वहत्या वर्तते। इह मा भूत् श्वघात्यो वृषलः इति।। भुवो भावे।। 107 ।।
-3-1-108- हनस्त च (725)
(446 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 3 आ .9 )
(1948 वार्तिकम्।। 1 ।।)
- हनस्तश्चित्स्त्रियां छन्दसि-
(भाष्यम्) हनस्त चेत्यत्र चित्स्त्रियां छन्दसि इति वक्तव्यम्। तां भ्रूणहत्यां निगृह्यानुचरणम्। अस्यै त्वा भ्रूणहत्यायै चतुर्थं प्रतिगृह्यते।
(आक्षेपभाष्यम्)
स्त्रियामिति किमर्थम्?।
(समाधानभाष्यम्)
आघ्नते दस्युहत्याय।
(आक्षेपभाष्यम्)
छन्दसीति किमर्थम्?।
(समाधानभाष्यम्)
श्वहत्या दस्युहत्या वर्तते।। हनस्त च।। 108 ।।
-3-1-109- एतिस्तुशास्वृदृजुषः क्यप् (726)
(447 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 10)
(आक्षेपभाष्यम्)
क्यबिति वर्तमाने पुनः क्यब्ग्रहणं किमर्थम्?।
(समाधानभाष्यम्)
क्यबेव यथा स्यात्। यदन्यत्प्राप्नोति तन्मा भूदिति।
(प्रत्याक्षेपभाष्यम्)
किं चान्यत् प्राप्नोति?।
(प्रत्याक्षेपसमाधानभाष्यम्)
ण्यत्।
(समाधानभाष्यम्)
ओरावश्यके ण्यतः स्तौतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति, स पूर्वविप्रतिषेधो न पठितव्यो भवति।। अथवा हनस्तश्चित्स्त्रियां छन्दसि चोदितः, स न वक्तव्यो भवति।।
(1949 परिसंख्यावार्तिकम्।। 1 ।।)
(भाष्यम्) क्यब्विधौ वृञ्ञ्ग्रहणं कर्तव्यम्। इह मा भूत् --- वार्या ऋत्विजः इति।।
(1950 क्यप्प्रत्ययवार्तिकम्।। 2 ।।)
- अञ्ञ्जेश्चोपसंख्यानं संज्ञायाम्-
(भाष्यम्) अञ्ञ्जेश्चोपसंख्यानं संज्ञायां कर्तव्यम्। आज्यम्।।
(आक्षेपभाष्यम्)
यदि क्यप्। वृद्धिर्न प्राप्नोति। तस्माण्ण्यदेषः।।
(ण्यदनुपपत्तिभाष्यम्)
यदिण्यत्। उपधालोपो न प्राप्नोति। तस्मात् क्यबेवैषः।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् --- -वृद्धिर्न प्राप्नोतीति।
(दूषणोद्धारभाष्यम्)
आङ्पूर्वस्य प्रयोगो भविष्यति।
(दूषणभाष्यम्)
यद्येवमवग्रहः प्राप्नोति।।
(दूषणोद्धारभाष्यम्)
न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्यम्। यथालक्षणं पदं कर्तव्यम्।। एतिस्तुशास्।। 109 ।।
-3-1-111- इर् च खनः (728)
(448 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 11)
(आक्षेपभाष्यम्)
दीर्घोच्चारणं किमर्थम्। न इ च खनः इत्येवोच्येत।।
(प्रत्याक्षेपभाष्यम्)
का रूपसिद्धिः --- खेयम्?।
(प्रत्याक्षेपसमाधानभाष्यम्)
आद्गुणेन सिद्धम्।।
(आक्षेपबाधकभाष्यम्)
न सिध्यति। षत्वतुकोरसिद्धः इति एकादेशस्यासिद्धत्वात्तुक् प्रसज्येत।।
(आक्षेपसाधकभाष्यम्)
नैतदस्ति। पदान्तपदाद्योरेकादेशोऽसिद्धः। नैष पदान्तपदाद्योरेकादेशः तस्माद् इ च खनः इत्येव वक्तव्यम्।। इर्च खनः।। 111 ।।
-3-1-112- भृञ्ञोऽसंज्ञायाम् (729)
(449 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 6 आ.12)
(आक्षेपभाष्यम्)
असंज्ञायामिति किमर्थम्।
(समाधानभाष्यम्)
भार्या।
(1951 आक्षेपवार्तिकम्।। 1 ।।)
- भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वात्-
(भाष्यम्) भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। किं कारणम्?। अन्येन विहितत्वात्। अन्येन लक्षणेन स्त्रियां क्यब्विधीयते संज्ञायां समजनिषदनिपदमनविदषुञ्ञ्शीङ्भृञ्ञिणः इति।।
(प्रत्याक्षेपभाष्यम्)
प्रतिषेध इदानीं किमर्थः स्यात्?।
(1952 प्रत्याक्षेपसमाधानवार्तिकम्।। 2 ।।)
- प्रतिषेधः किमर्थ इति चेदस्त्रीसंज्ञाप्रतिषेधार्थः-
(भाष्यम्) प्रतिषेधः किमर्थ इति चेद्, अस्त्रीसंज्ञाऽस्ति। तदर्थः प्रतिषेधः स्यात् --- भार्या नामक्षत्रियाः।
(1953 समाधानवार्तिकम्।। 3 ।।)
- सिद्धं तु स्त्रियां संज्ञाप्रतिषेधात्-
(भाष्यम्) सिद्धमेतत्। कथम्?। स्त्रियां संज्ञाप्रतिषेधो वक्तव्यः। संज्ञायां
समजनिषदनिपतमनविदषुञ्ञ्शीङ्भृञ्ञिणः। ततो न स्त्रियां भृञ्ञः इति।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् --- - भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वाद् इति।।
(दूषणोद्धारभाष्यम्)
नैष दोषः। भावे इति तत्रानुवर्तते। कर्मसाधनश्चायम्।।
(भाष्यम्) अथ वा य एते संज्ञायां विधीयन्ते, तेषु नैवं विज्ञायते --- संज्ञायामभिधेयायामिति। किं तर्हि?। प्रत्ययान्तेन चेत्संज्ञा गम्यत इति।।
(पक्षान्तरभाष्यम्)
अपर आह --- -
(1954 आक्षेपश्लोकवार्तिकम्।। 4 ।।)
- संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति-
(1955 समाधानश्लोकवार्तिकम्।। 5 ।।)
- स्त्रियां भावाधिकारोस्ति तेन भार्या प्रसिध्यति -
(व्याख्याभाष्यम्)
भाव इति तत्र वर्तते। कर्मसाधनश्चायम्।
(1956 समाधानान्तरश्लोकवार्तिकम्।। 6 ।।)
- अथ वा बहुलं कृत्याः संज्ञायामिति तत्स्मृतम्-
(व्याख्याभाष्यम्)
अथ वा कृत्यल्युटो बहुलमिति एवमत्रापि ण्यद्भविष्यति।
(1957 दृष्टान्तश्लोकवार्तिकम्।। 7 ।।)
- यथा यत्यं यथा जन्यं यथा भित्तिस्तथैव सा -
(1958 वार्तिकम्।। 8 ।।)
- समश्च बहुलम्-
(भाष्यम्) समश्च बहुलमुपसंख्यानं कर्तव्यम्। संभृत्या एव संभाराः। संभार्या एव संभाराः।। भृञ्ञोसंज्ञायाम्।। 112 ।।
-3-1-114- राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः (731)
(450 क्यप्निपातनविधिसूत्रम्।। 3 । 1 । 6 आ . 13)
(1959 अर्थनिर्देशवार्तिकम्।। 1।।)
- सूर्यरुच्याव्यथ्याः कर्तरि-
(भाष्यम्) सूर्यरुच्य आव्यथ्य इत्येते कर्तरि निपात्यन्ते। किं निपात्यते?। सूर्यः सूसर्तिभ्याम्, सरतेरुत्त्वम्, सुवतेर्वा रुडागमः।। सरणाद्वा सुवति कर्मणीति वा सूर्यः।। रुच्यः। रोचतेसौ रुच्यः। न व्यथत इत्यव्यथ्यः।।
(1960 वार्तिकम्।। 2 ।।)
(भाष्यम्) कुप्यं संज्ञायामिति वक्तव्यम्। गोप्यमन्यत्।
(1961 वार्तिकम्।। 3 ।।)
- कृष्टपच्यस्यान्तोदात्तत्वं च कर्मकर्तरि च-
(भाष्यम्) कृष्टपच्यस्यान्तोदात्तत्वं च वक्तव्यं संज्ञायां कर्मकर्तरि चेति वक्तव्यम्। कृष्टे पच्यन्ते स्वयमेव।
कृष्टपच्याश्च मे। यो हि कृष्टे पक्तव्यः स कृष्टपाक्यो भवति।। राजसूय।। 114 ।।
-3-1-118- प्रत्यपिभ्यां ग्रहेः (765)
(451 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.14)
(1962 परिसंख्यावार्तिकम्।। 1 ।।)
- प्रत्यपिभ्यां ग्रहेश्छन्दसि-
(भाष्यम्) प्रत्यपिभ्यां ग्रहेः छन्दसीति वक्तव्यम्। मत्तस्य न प्रतिगृह्यम्। अनृतं हि मत्तो वदति तस्मान्नापि गृह्यम्।। प्रतिग्राह्यमपि ग्राह्यमित्येवान्यत्र।। प्रत्यपिभ्याम्।। 118 ।।
-3-1-122- अमावस्यदन्यतरस्याम् (739)
(452 ण्यत्प्रत्ययवृद्धिविकल्पविधिसूत्रम्।। 3 । 1 । 6 आ. 15)
(आक्षेपभाष्यम्)
कस्यायमनुबन्धः?।
(समाधानभाष्यम्)
प्रधानस्य।
(समाधानबाधकभाष्यम्)
यदि प्रधानस्य। अमावस्या इत्येवं स्वरः प्रसज्येत। अमावस्या इति चेष्यते। तथा अमावास्याग्रहणेनामावस्याग्रहणं न प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हि निपातनस्य।।
(समाधानबाधकभाष्यम्)
यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति श्रोत्रियंश्छन्दोधीते इति व्यपवर्गाभावात् ञ्ञ्नित्याद्युदात्तत्वं न प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हि --- --
(1936 श्लोकवार्तिकम्।। 1 ।।)
- अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्-
तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।।
(भाष्यम्) अमा।। 122 ।।
-3-1-123- छन्दसि निर्ष्टक्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (740)
(453 छान्दसनिपातनसूत्रम्।। 3 । 1 । 6 आ. 16)
(आक्षेपभाष्यम्)
निर्ष्टक्य इति किं निपात्यते।
(1934 निपातनप्रदर्शकवार्तिकम्।। 1 ।।)
- निर्ष्टक्ये कृतेराद्यन्तविपर्ययश्छन्दसि कृताद्यर्थः-
(भाष्यम्) यथा कृतेस्तर्कः, कसेः सिकताः, हिंसेः सिंहः।।
(मतान्तरभाष्यम्)
अपर आह --- -
(1965 मतान्तरवार्तिकम्।। 2 ।।)
- निर्ष्टक्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्। ण्यदायादेश इत्येतावुपचाय्ये निपातितौ-
(भाष्यम्) निर्ष्टक्ये चिन्वीत पशुकामः।
(1966 निपातनीयवार्तिकम्।)
- ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः। ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः-
(भाष्यम्) ण्यदेकस्मात् --- निर्ष्टक्यः। चतुर्भ्यः क्यप् --- -देवहूयः, प्रणीयः, उन्नीयः, उच्छिष्यः। चतुर्भ्यश्च यतो विधिः --- मर्यः, स्तर्या, ध्वर्यः, खन्यः। ण्यदेकस्मात् --- -खान्यः। यशब्दश्च --- देवयज्या। द्वौ क्यपौ --- आपृच्छ्यः, प्रतिषीव्यः। ण्यद्विधिश्चतुः --- ब्रह्मवाद्यः, भाव्यः, स्ताव्यः उपचाय्यपृडम्। उपपूर्वाच्चिनोतेरायादेशोपि निपात्यते। नहि ण्यतैव सिध्यति।
(1967 वार्तिकम्।। 4 ।।)
- हिरण्य इति च-
(भाष्यम्) हिरण्य इति च वक्तव्यम्। उपचेयपृडमित्येवान्यत्र।। छन्दसि निर्ष्टक्य।। 123 ।।
(इति क्यप् प्रकरणम्)
-3-1-124- ऋहलोर्ण्यत् (741)
(454 ण्यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 17)
(1968 वार्तिकम्।। 1 ।।)
- पाणौ सृजेर्ण्यद्विधिः-
(भाष्यम्) पाणौ सृजेर्ण्यद्विधेयः। पाणिर्सग्यारज्जुः।।
(1969 वार्तिकम्।। 2 ।।)
- समवपूर्वाच्च-
(भाष्यम्) समवपूर्वाच्चेति वक्तव्यम्। समवर्सग्या रज्जुः।।
(1970 वार्तिकम्।। 3 ।।)
- लपिदभिभ्यां च-
(भाष्यम्) लपिदभिभ्यां चेति वक्तव्यम्। अपलाप्यम्। अपदाभ्यम्।। ऋहलो ।। 124 ।।
-3-1-125- ओरावश्यके (742)
(455 ण्यत्प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 18)
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते --- आवश्यके उपपदे, आहोस्विद् --- द्योत्य इति।
(1971 उपपदपक्षदूषणवार्तिकम्।। 1 ।।)
- आवश्यक उपपद इति चेद् द्योत्य उपसंख्यानम्-
(भाष्यम्) आवश्यके उपपदे इति चेद् द्योत्ये उपसंख्यानं कर्तव्यम्। पाव्यं लाव्यम्।।
(द्योत्यपक्षाभ्युपगमभाष्यम्)
अस्तु तर्हि द्योत्ये।
(1972 द्योत्यपक्षदूषणवार्तिकम्।। 2 ।।)
- द्योत्य इति चेत्स्वरसमासानुपपत्तिः-
(भाष्यम्) द्योत्य इति चेत् स्वरसमासानुपपत्तिः प्राप्नोति। अवश्यलाव्यम्। अवश्यपाव्यम्।।
(दूषणोद्धारभाष्यम्)
नैष दोषः। मयूरव्यंसकादित्वात् समासः। विस्पष्टादिवत् स्वरश्च।।
(1973 पूर्वविप्रतिषेधवार्तिकम्।। 3 ।।)
- ओरावश्यके ण्यतः स्तौतेः क्यप् पूर्वविप्रतिषिद्धम्-
(भाष्यम्) ओरावश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिषेधेन। ओरावश्यके ण्यद्भवतीत्यस्यावकाशः --- अवश्यलाव्यम्। अवश्यपाव्यम्। क्यपोवकाशः --- स्तुत्यः। इहोभयं
प्राप्नोति --- अवश्यस्तुत्यः। क्यप् भवति पूर्वविप्रतिषेधेन।।
(आक्षेपभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
(समाधानभाष्यम्)
न वक्तव्यः। उक्तं तत्र क्यबिति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् --- क्यबेब यथा स्याद्, यदन्यत् प्राप्नोति तन्मा भूदिति।। ओरावश्यके 125 ।।
-3-1-127- आनाय्योऽनित्ये (744)
(456 ण्यत्प्रत्ययायादेशनिपातनसूत्रम्।। 3 । 1 । 6 आ. 1)
(1974 परिसंख्यावार्तिकम्।। 1 ।।)
- दक्षिणाग्नौ-
(भाष्यम्) दक्षिणाग्नाविति वक्तव्यम्। आनेयोऽन्यः।।
(1975 पूर्वपक्षवार्तिकम्।। 2 ।।)
- आनाय्योऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्-
(1976 समाधानवार्तिकम्।। 3 ।।
- एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत्-
(भाष्यम्) आनाय्यो ।। 127 ।।
-3-1-129- पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु (743)
(457 ण्यत्प्रत्ययादिनिपातनविधिसूत्रम्।। 3 । 1 । 6 आ.20)
(आक्षेपभाष्यम्)
पाय्यनिकाय्ययोः किं निपात्यते?।
(1977 समाधानवार्तिकम्।। 1 ।।)
- पाय्यनिकाय्ययोरादिपत्वकत्वनिपातनम्-
(भाष्यम्) पाय्यनिकाय्ययोरादिपत्वमादिकत्वं च निपात्यते।। मेयं निचेयमित्येवान्यत्र।। पाय्यसा ।। 129 ।।
-3-1-130- क्रतौ कुण्डपाय्यसंचाय्यौ (747)
(458 ण्यत्प्रत्ययादिनिपातनसूत्रम्।। 3 । 1 । 6 आ.21)
(1978 वार्तिकम्।। 1 ।।)
- कुण्डपाय्ये यद्विधिः-
(भाष्यम्) कुण्डपाय्ये यद्विधेयः।। कुण्डपाय्यः क्रतुः।। क्रतौ कुदृ।। 130 ।।
-3-1-131- अग्नौपरिचाय्योपचाय्यसमूह्याः (748)
(459 ण्यत्प्रत्ययायादेशादिनिपातनसूत्रम्।। 3 । 1 । 6 आ.22)
(1979 आक्षेपवार्तिकम्।। 1 ।।)
- समूह्य इत्यनर्थकं वचनं सामान्यकृतत्वात्-
(भाष्यम्) समूह्य इत्यनर्थकं वचनम्।। किं कारणम्।। सामान्यकृतत्वात्। सामान्येनैवात्रण्यद्भविष्यति ऋहलोर्ण्यद् इति।
(आनर्थक्यबाधकभाष्यम्)
वह्यर्थे तर्हि निपातनं कर्तव्यम्। वहेर्ण्यद्यथा स्यात्।।
(1980 आक्षेपसाधकवार्तिकम्।। 2 ।।)
- वह्यर्थमिति चेद् ःढ़द्य;हेस्तदर्थत्वात्सिद्धम्-
(भाष्यम्) उहिरति वह्यर्थे वर्तते।
(आक्षेपभाष्यम्)
कथं पुनरन्यो नामान्यस्यार्थे वर्तते। कथमूहिर्वह्यर्थे वर्तते?।
(समाधानभाष्यम्)
बह्वर्था अपि धातवो भवन्ति।
(आक्षेपभाष्यम्)
अस्ति पुनः क्वचिदन्यत्रापि ःढ़द्य;हिर्वह्यर्थे वर्तते।
(समाधानभाष्यम्)
अस्तीत्याह।
(1981 आनर्थक्यसाधकान्तरवार्तिकम्।। 3 ।।)
- ःढ़द्य;हिविग्रहच्च ब्राह्मणे सिद्धम्-
(भाष्यम्) ःढ़द्य;हिविग्रहाच्च ब्रह्मणे सिद्धमेतत्। समूह्यं चिन्वीत पशुकामः। पशवो वै पुरुषः पशूनेवास्मै तत्समूहतीति।। अग्नौ षहि।। 131 ।।
-3-1-132- चित्याग्निचित्ये च (749)
(460 निपातनसूत्रम्।। 3 । 1 । 6 आ. 23 )
(1982 वार्तिकम्।। 1 ।।)
- अग्निचित्येत्यन्तोदात्तो भावे -
(भाष्यम्) अग्निचित्येतिभावेन्तोदात्तो भवति। अग्निचयनमेवाग्निचित्या।। चित्याग्नि।। 132 ।।
(इति कृत्यप्रकरणम्)
-3-1-133- ण्वुल्तृचौ (750)
(461 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 24)
(आक्षेपभाष्यम्)
किमर्थश्चकारः।
(समाधानभाष्यम्)
स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। एकाजयम्। तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन प्रत्ययस्वरेणैव सिद्धम्।.
(समाधानान्तरभाष्यम्)
विशेषणार्थस्तर्हि। क्व विशेषणार्थेनार्थः?। अप्तृन्तृच् --- इति। तृ इत्युच्यमाने मातरौ मातरः पितरौ पितर इत्यत्रापि प्राप्नोति।।
(समाधानबाधकभाष्यम्)
स्वसृनप्तृग्रहणं नियमार्थं भविष्यति। एतयोरेव योनिसंबन्धयोः, नान्येषां योनिसंबन्धानामिति।।
(समाधानान्तरभाष्यम्)
सामान्यग्रहणाविघातार्थस्तर्हि। क्व सामान्यग्रहणाविघातार्थेनार्थः?।। अत्रैव।। यदेतत्तत्तृन्तृचोर्ग्रहणम्, एतत् तृ इति वक्ष्यामि।।
(समाधानसाधकभाष्यम्)
स्वसृनप्तृग्रहणं नियमार्थं भविष्यति --- -एतयोरेव योनिसंबन्धयोः, नान्येषां योनिसंबन्धानामिति।।
(सामान्यग्रहणाविधातभाष्यम्)
तुश्छन्दसि तुरिष्ठेमेयः स्विति चोभयोर्ग्रहणं यथा स्यात्।।
(1983 धातुपरिसंख्यावार्तिकम्।। 1 ।।)
- ण्वुलि सकर्मकग्रहणम्-
(भाष्यम्)ण्वुलि सकर्मकग्रहणं कर्तव्यम्। इह मा भूद् --- आसिता शयिता इति।।
(1984 परिसंख्यानिराकरणवार्तिकम्।। 2 ।।)
- न वा धातुमात्राद्दर्शनाद्ण्वुलः-
(भाष्यम्) न वा वक्तव्यः। किं कारणम्?। धातुमात्राद्दर्शनाद् ण्वुलः। धातुमात्राण्ण्वुल् दृश्यते। इमे अस्य आसकाः। इमे अस्य शायकाः। उत्थिता आसका वैश्रवणस्येति।।
(1985 कालपरिसंख्यावार्तिकम्।। 3 ।।)
- तृजादिषु वर्तमानकालोपादानमध्यापकवेदाध्यायाद्यर्थम्-
(भाष्यम्) तृजादिषु वर्तमानकालोपादानं कर्तव्यम्। किं कारणम्?। अध्यापकवेदाध्यायाद्यर्थम्। अध्यापकः वेदाध्यायः। अधीतवत्यध्येष्यमाणे वा मा भूद् इति।।
(1986 परिसंख्यानिराकरणवार्तिकम्।। 4 ।।)
- न वा कालमात्रे दर्शनादन्येषाम्-
(भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। कालमात्रे दर्शनादन्येषाम्। कालमात्रे ह्यन्ये प्रत्यया दृश्यन्ते। चर्चापारः शमनीपारः।। ण्वुल्तृचौ।। 133 ।।
-3-1-134- नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (751)
(432 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 25 )
(1987 इष्टसाधकवार्तिकम्।। 1 ।।)
- अजपि सर्वधातुभ्यः-
(भाष्यम्) अजपि सर्वधातुभ्यो वक्तव्यः इहापि यथा स्याद् --- भवः सव इति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं पचाद्यनुक्रमणं कर्तव्यम्।
(समाधानभाष्यम्)
कर्तव्यं च। किं प्रयोजनम्?।
(1988 गणपाठप्रयोजनवार्तिकम्।। 2 ।।)
- पचाद्यनुक्रमणमनुबन्धासंजनार्थमपवादबाधनार्थं च-
(भाष्यम्) अनुबन्धासंजानर्थं तावत्। नदट् नदी। चोरट् चोरी। अपवादबाधनार्थम्। जारभरा श्वपचेति। नन्दिग्रहि।। 134 ।।
-3-1-135- इगुपधज्ञाप्रीकिरः कः (752)
(अथ कप्रत्ययप्रकरणम्)
(436 कप्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ. 26)
(1989 वार्तिकम्।। 1 ।।)
- इगुपधेभ्य उपसर्गे कविधिर्मेषाद्यर्थः-
(भाष्यम्) इगुपधेभ्य उपसर्गे को विधेयः। किं प्रयोजनम्। मेषाद्यर्थः। मेषः देवः सेवः।।
(1990 निराकरणवार्तिकम्।। 2 ।।)
- न वा बुधादीनां दर्शनादनुपसर्गेऽपि-
(भाष्यम्) न वा को विधेयः। किं कारणम्। बुधादीनां दर्शनादनुपसर्गेऽपि। बुधादीनामनुपसर्गेऽपि को दृश्यते बुधः युधः भिद इति।।
(आक्षेपभाष्यम्)
कथं मेषः देवः सेव इति।
(समाधानभाष्यम्)
पचादिषु पाठः करिष्यते।। इगुपधज्ञा।। 135 ।।
-3-1-137- पाघ्राध्माधेट्दृशः शः (754)
(434 शप्रत्ययवधिसूत्रम्।। 3 । 1 । 6 आदृ 27)
(1991 वार्तिकम्।। 1 ।।)
- जिघ्रः संज्ञायां प्रतिषेधः -
(भाष्यम्) जिघ्रः संज्ञायां प्रतिषेधो वक्तव्यः। व्याजिघ्रतीति व्याघ्रः।।
(आक्षेपभाष्यम्)
इह केचिच्छस्यैव प्रतिषेधमाहुः। केचिज्जिघ्रभावस्य। किं पुनरत्र न्याय्यम्।।
(समाधानभाष्यम्)
शस्यैव प्रतिषेधो न्याय्यः। जिघ्रभावे हि प्रतिषेद्धे केन शे आकारलोपः स्यात्।। पाघ्राध्मा।। 137 ।।
-3-1-138- अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च (755)
(435 शप्रत्ययविधिसूत्रम्।। 3 । 6 आदृ 28 )
(1992 अव्याप्तिवारकवार्तिकम्।। 1 ।।)
- अनुपसर्गान्नौ लिम्पेः -
(भाष्यम्) अनुपसर्गान्नौ लिम्पेरिति वक्तव्यम्। निलिम्पा नाम देवाः।
(1993 परिसंख्यावार्तिकम्।। 2 ।।)
- गवि च विन्देः संज्ञायामुपसंख्यानम्-
(भाष्यम्) गवि चोपपदे विन्देः संज्ञायामुपसंख्यानं कर्तव्यम्। गोविन्दः।।
(न्यूनतापूरकभाष्यम्)
अत्यल्पमिदमुच्यते गवीति।।
(1994 वार्तिकम्।। 3 ।।)
- गवादिष्विति वक्तव्यम्-
(भाष्यम्) गोविन्दः। अरविन्दः।। अनुपसर्गाल्लिम्प।। 138 ।।
-3-1-140- ज्वलितिकसन्तेभ्यो णः (757)
(466 णप्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आदृ 29)
(1995 न्यूनतापूरकवार्तिकम्।। 1 ।।)
- तनोतेर्नउपसंख्यानम्-
(भाष्यम्) तनोतेर्न उपसंख्यानं कर्तव्यम्। अवतनोतीत्यवतानः।। ज्वलितिक।। 140 ।।
-3-1-145- शिल्पिनि ष्वुन् (732)
(467 ष्वुन् प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आदृ 30)
(1996 परिसंख्यावार्तिकम्।। 1 ।।)
- नृतिखनिरञ्ञ्जिभ्यः-
(भाष्यम्) नृतिखनिरञ्ञ्जिभ्य इति वक्तव्यम्। इहमा भूत् --- वायकः।। शिल्पिनि ष्वुन्।। 145 ।।
-3-1-149- प्रुसृल्वः समभिहारे वुन् (766)
(468 वुन् प्रत्ययविधिसूत्रम्।। 3 । 6 आदृ 3)
- प्रुसृल्वः साधुकारिणि वुन्विधानम्-
(भाष्यम्) प्रुसृल्वः साधुकारिणि वुन्विधेयः। सकृदपि यः सुष्ठु करोति तत्र यथा स्यात्।। बहुशोपि यो दुष्ठु करोति तत्र मा भूद् इति।। प्रुसृल्वः।। 149 ।।
-9-9-999-