महाभाष्यम्/पञ्चमोऽध्यायः/चतुर्थः पादः

-5-4-1- पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (2278)
(वुनोऽधिकरणम्)
(5899 सूत्रैकदेशानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् -
(भाष्यम्) पादशतग्रहणमनर्थकम्।
किं कारणम्?
अन्यत्रापि दर्शनात्। अन्यत्रापि हि वुन् दृश्यते--द्विमोदकिकां ददाति।।
-5-4-3- स्थूलादिभ्यः प्रकारवचने कन् (2280)
(कनोऽधिकरणम्)
(5900 उपसंख्यानवार्तिकम्।। 1 ।।)
- कन्प्रकरणे चञ्ञ्चद्बृहतोरुपसंख्यानम् -
(भाष्यम्) कन्प्रकरणे चञ्ञ्चद्बृहतोरुपसंख्यानं कर्तव्यम्। चञ्ञ्चत्कः, बृहत्कः।।
-5-4-4- अनत्यन्तगतौ क्तात् (2281)
(4901 पूर्वविप्रतिषेधबोधकवार्तिकम्।। 1 ।।)
- अनत्यन्तगतौ क्तान्तात्तमादयः पूर्वविप्रतिषिद्धम् -
(भाष्यम्) अनत्यन्तगतौ क्तान्तात्तमादयो भवन्ति पूर्वविप्रतिषेधेन।
अत्यन्तगतौ क्तान्तात्कन् भवतीत्यस्यावकाशः--अनत्यन्तगतेर्वचनं प्रकर्षस्यावचनम्--भिन्नकम् छिन्नकम्।
तमादीनामवकाशः--प्रकर्षस्य वचनमनत्यन्तगते रवचनम्--पटुतरः, पटुतमः।
उभयवचने उभयं प्राप्नोति--भिन्नतरकम्, छिन्नतरकम्।
तमादयो भवन्ति पूर्वविप्रतिषेधेन।।
(5902 उपसंख्यानवार्तिकम्।। 2 ।।)
- तदन्ताच्च स्वार्थे कन्वचनम् -
(भाष्यम्) तदन्ताच्च स्वार्थे कन्वक्तव्यः। भिन्नतरकम्, छिन्नतरकम्।।
-5-4-5- न सामिवचने (2282)
(5903 सूत्रानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- सामिवचने प्रतिषेधानार्थक्यं प्रकृत्यभिहितत्वात् -
(भाष्यम्) सामिवचने प्रतिषेधोऽनर्थकः।
किं कारणम्?
प्रकृत्यभिहितत्वात्। प्रकृत्याऽभिहितः सोऽर्थ इति कृत्वा कन्न भविष्यति।।
-5-4-7- अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः (2284)
(खप्रत्ययाधिकरणम्)
(5904 प्रत्ययानुपपत्तिप्रदर्शकवार्तिकम्।। 1 ।।)
- अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् -
(भाष्यम्) अध्युत्तरपदात्प्रत्ययविधेरनुपपत्तिः।
किं कारणम्?
विग्रहाभावात्। विग्रहपूर्विका तद्धितोत्पत्तिः, न चाध्युत्तरपदेन विग्रहो दृश्यते।।
(5905 न्यासान्तरेण प्रत्ययोपपादकवार्तिकम्।। 2 ।।)
- तस्मात्तत्रेदमिति सधीनर् -
(भाष्यम्) तस्मात्तत्रेदमिति सधीनर्प्रत्ययो वक्तव्यः। राजनीदम्, राजाधीनम्।
(न्यासान्तराक्षेपभाष्यम्)
यदि सधीनर् क्रियते सकारस्येत्संज्ञा न प्राप्नोति।
इह च श्र्यधीनः, भ्रवधीन इत्यङ्गस्येति इयङुवङौ स्याताम्।
सूत्रं च भिद्यते।।
(अनुपपत्तिनिरासभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तम् ।अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् इति।
नैष दोषः। अस्ति कारणं येनात्र विग्रहो न भवति।
किं कारणम्?
नित्यप्रत्ययोऽयम्।
(नित्यप्रत्ययप्रतिपादकभाष्यम्)
के पुनर्नित्यप्रत्ययाः। तमादयः प्राक्कनः, ञ्ञ्यादयः प्राग्वुनः, आमादयः प्राङ्नयटः, बृहतीजात्यन्ताः, समासान्ताश्चेति।
(अध्युत्तरपदादिति वार्तिकस्य प्रकृत्यनुपपत्तिप्रदर्शकपरं भाष्यम्)
एवं तर्हि नायं प्रत्ययविधिरुपालभ्यते।
किं तर्हि?
प्रकृतिरुपालभ्यते, अध्युत्तरपदा प्रकृतिर्नास्ति।
किं कारणम्?
विग्रहाभावात्। विग्रहपूर्विका समासप्रवृत्तिः, न चाधिना विग्रहो दृश्यते।।
(अनुपपत्तिनिरासभाष्यम्)
एवं तर्हि बहुव्रीहिर्भविष्यति।
किं कृतं भवति?
भवति वै कश्चिदस्वपदविग्रहोऽपि बहुव्रीहिः तद्यथा--शोभनं मुखमस्याः सुमुखीति।
नैवं शक्यम्।
इह हि महदधीनमित्यात्वकपौ प्रसज्येयाताम्।
एवं तर्ह्यव्ययीभावो भविष्यति।
एवमप्यधेः पूर्वनिपातः प्राप्नोति।
राजदन्तादिषु पाठः करिष्यते।
अथवा सप्तमीसमासोऽयम्। अधिः शौण्डादिषु पठ्यते।।
-5-4-8- विभाषाऽञ्ञ्चेरदिक् स्त्रियाम् (2285)
(पदकृत्यभाष्यम्)
दिग्ग्रहणं किमर्थम्?
अस्त्रियामितीयत्युच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इत्यत्रापि प्रसज्येत। दिग्ग्रहणे पुनः क्रियमाणे न दोषो भवति।
(पदकृत्यभाष्यम्)
अथ स्त्रीग्रहणं किमर्थम्, न यावता दिक्शब्दः स्त्रीविषय एव।
भवति वै कश्चिद्दिक्शब्दोऽस्त्रीविषयोऽपि।
तद्यथा,--प्राक्, प्राचीनम्। प्रत्यक्, प्रतीचीनम्। उदक्, उदीचीनम्।।
-5-4-14- णचः स्त्रियामञ्ञ् (2291)
(अञ्ञोऽधिकरणम्)
(स्त्रीग्रहणस्य ज्ञापकत्वोपपादकभाष्यम्)
स्त्रीग्रहणं किमर्थम्, न स्वार्थिकोऽयम्?
स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।
एवं तर्हि सिद्धे सति यत् स्त्रीग्रहणं करोति तज्ज्ञापयत्याचार्यः--स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानीति।
किमेतस्य ज्ञापने प्रयोजनम्?
गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरित्येतत्सिद्धं भवति।।
-5-4-19- एकस्य सकृच्च (2296)
(सुचोऽधिकरणम्)
(अभ्यावृत्तिपदार्थबोधकभाष्यम्)
सकृदादेशेऽभ्यावृत्तिग्रहणं निर्वत्यम्।
किं प्रयोजनम्?
पुनः पुनरावृत्तिरभ्यावृत्तिः, न चैकस्य पुनः पुनरावृत्तिर्भवति।।
(एकदेशिनः क्रियाग्रहणानुवृत्तौ फलभाष्यम्)
अथ क्रियाग्रहणमनुवर्तत उताहो न?
किं चार्थोऽनुवृत्त्या?
बाढमर्थः। इह मा भूत्--एको भुङ्क्त इति।।
(क्रियाग्रहणानुवृत्तावाक्षेपभाष्यम्)
अथानुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति--एकः पाक इति।।
(प्रतिबन्द्युत्तरभाष्यम्)
पूर्वयोश्चापि योगयोः कस्मान्न भवति--द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति?
नैतत् क्रियागणनम्।
किं तर्हि?
द्रव्यगणनमेतत्।
कथम्?
कृदभिहितो भावो द्रव्यवद्भवतीति।।
इहापि तर्हि द्रव्यगणनान्न प्राप्नोति--सकृद्भुक्त्वा--सकृद्भोक्तुमिति।
पूर्वयोश्चापि योगयोः--द्विर्भुक्त्वा--द्विर्भोक्तुम्, त्रिर्भुक्त्वा--त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा--पञ्ञ्चकृत्वो भोक्तुम्, दशकृत्वो भुक्त्वा--दशकृत्वो भोक्तुमिति द्रव्यगणनान्न प्राप्नोति।।
(पुनः पुनरावृत्तावित्यर्थे दोषभाष्यम्)
यदि खल्वपि पुनः पुनरावृत्तिरभ्यावृत्तिर्द्विरावृत्ते सकृदिति स्यात्, त्रिरावृत्ते द्विरिति।।
(अभ्यावृत्तिपदार्थबोधकभाष्यम्)
एवं तर्ह्यनुवर्तते--अभ्यावृत्तिग्रहणम्। न तु पुनः पुनरावृत्तिरभ्यावृत्तिः।
किं तर्हि?
अभिमुखी प्रवृत्तिरभ्यावृत्तिः। पूर्वा च परे प्रत्यभिमुखी, परे च पूर्वां प्रत्यभिमुख्यौ।।
(क्रियाग्रहणानुवृत्तावपि दोषाभावोपपादकभाष्यम्)
यदप्युच्यते--अनुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति--एकः पाक इति, पूर्वयोश्चापि योगयोः--द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति।
परिहृतमेतत्--नैतत् क्रियागणनम्।
किं तर्हि?
द्रव्यगणनमेतत्। कृदभिहितो भावो द्रव्यवद्भवतीति।
ननु चोक्तमिहापि तर्हि द्रव्यगणनान्न प्राप्नोति-सकृद्भुक्त्वा, सकृद्भोक्तमिति--पूर्वयोश्चापि
योगयोः--द्विर्भुक्त्वा--द्विर्भोक्तुम्, त्रिर्भुक्त्वा--त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा--पञ्ञ्चकृत्वो भोक्तम्, दशकृत्वो भुक्त्वा--दशकृत्वो भोक्तुमिति--द्रव्यगणनान्न प्राप्नोतीति।
नैष दोषः।
क्रियागणनाद्भविष्यति।
कथम्?
कृदभिहितो भावो द्रव्यवदपि क्रियावदपि यद्यपि।।
-5-4-24- देवतान्तात्तार्दथ्ये यत् (2301)
(यतोऽधिकरणम्)
(देवताशब्दस्य जातिवाचित्वे दोषभाष्यम्)
देवतान्तादित्युच्यते तत्रेदं न सिद्ध्यति--पितृदेवत्यमिति।
किं कारणम्?
न हि पितरो देवता।।
(देवताशब्दस्य क्रियावाचित्वमाश्रित्य दोषभावबोधकभाष्यम्)
नैष दोषः। दिवेरैश्वर्यकर्मणो देवः, तस्मात्स्वार्थे तल्। एवं च कृत्वा देवदेवत्यमपि सिद्धं भवति।।
-5-4-27- देवात्तल् (2304)
(तलोऽधिकरणम्)
(5906 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- तलि स्त्रीलिङ्गवचनम् -
(भाष्यम्) तलि स्त्रीलिङ्गं वक्तव्यम्। देवता।
किं पुनः कारणं न सिद्ध्यति?
देवशब्दोऽयं पुंल्लिङ्गः स्वार्थिकश्चायम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
(5907 सिद्धान्तवार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
स्वार्थिका अतिवर्तन्तेऽपि लिङ्गावचनानीति।।
-5-4-30- लोहितान्मणौ (2307)
(कनोऽधिकरणम्)
(5908 एकदेशिन उपसंख्यानवार्तिकम्।। 1 ।।)
- लोहिताल्लिङ्गबाधनं वा -
(भाष्यम्) लोहिताल्लिङ्गबाधनं वेति वक्तव्यम्।
लोहितिका, लोहिनिका।।
(5909 एकदेशिन उपसंख्यानवार्तिकम्।। 2 ।।)
- अक्षरसमूहे छन्दस उपसंख्यानम् -
(भाष्यम्) अक्षरसमूहे छन्दस उपसंख्यानं कर्तव्यम्। ओ श्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। ये यजामह इति पञ्ञ्चाक्षरम्। यजेति द्व्यक्षरम्। द्व्यक्षरो वषट्कारः। एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञमनुविहितः।।
(5910 एकदेशिन उपसंख्यानवार्तिकम्।। 3 ।।)
- छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् -
(भाष्यम्) छन्दसि बहुभिर्वसव्यैरुपसंख्यानं कर्तव्यम्। हस्तौ पृणस्व बहुभिर्वसव्यैः।।
(5911 एकदेशिन उपसंख्यानवार्तिकम्।। 4 ।।)
- अग्निरीशे वसव्यस्येति -
(भाष्यम्) अग्निरीशे वसव्यस्येत्युपसंख्यानं कर्तव्यम्।।
(5912 एकदेशिप्रत्याख्याने सिद्धान्तवार्तिकम्।। 5 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
।स्वार्थविज्ञानात्सिद्धम् इति। अपस्यो वसानाः। अपो वसानाः।। स्व ओक्ये। स्व ओके।। कव्योऽसि हव्यसूदन। कविरसि।। रौद्रेणानीकेन कव्यतायै। कवितायै।। आमुष्यायणस्य। अमुष्यपुत्रस्य।। क्षेम्यस्येशे। क्षेमस्येशे।। क्षेम्यमध्यवस्यति। क्षेममध्यवस्यति।। आयुर्वर्चस्यम्। वर्च एव वर्चस्यम्।। निष्केवल्यम्। निष्केवलम्।। उक्थ्यम्। उक्थम्।। जन्यं ताभिः। सजन्यं ताभिः। जनं ताभिः सजनं ताभिः।। स्तोमैर्जनयामि नव्यम्। नवम्।। प्रणो नव्येभिः। नवैः।। ब्रह्म पूर्व्यम्। पाथः पूर्व्यम्। तनुषु पूर्व्यम्। पूर्वम्।। पूर्व्याहः। पूर्वाहः।। पूर्व्या विशः। पूर्वा विशः।। पूर्व्यासः। पूर्वासः।। स प्र पूर्व्यः। स प्र पूर्वः।। अग्निं वः पूर्व्यम्। पूर्वम्।। तं जुषस्व यविष्ठय। यविष्ठ।। होत्रवाहं यविष्ठयम्। यविष्ठम्।। त्वं ह यद्यविष्ठ्य। यविष्ठ।। समावद्वसति समावद्गृह्णाति। समं वसति समं गृह्णाति।। समावद्देवयज्ञे हस्तौ। समम्।। समावद्वीर्यावहानि। समानि।। समावद्वीर्याणि करोति। समानि।। य इर्वत उलोकम्। य इर्वते ब्रह्मणे। य इर्यते।।
(5913 उपसंख्यानवार्तिकम्।। 6 ।।)
- नवस्य नू त्नप्तनखाश्च -
(भाष्यम्) नवस्य नू इत्ययमादेशो वक्तव्यः, त्नप्तनखाश्च प्रत्यया वक्तव्याः। नूत्नं, नूतनं, नवीनम्।।
(5914 उपसंख्यानवार्तिकम्।। 7 ।।)
- नश्च पुराणे प्रात् -
(भाष्यम्) नश्च पुराणे प्राद् वक्तव्यः। त्नप्तनखाश्च प्रत्यया वक्तव्याः। प्रणम्, प्रत्नम्, प्रतनम्, प्रीणम्।।
-5-4-36- तद्युक्तात्कर्मणोऽण् (2312)
(अणोऽधिकरणम्)
(तत्पदार्थप्रकाशकभाष्यम्)
तदित्यनेन किं प्रतिनिर्दिश्यते?
वागेव। यदेव वाचा व्याह्रियते तत्कर्मणा क्रियते।।
(5915 उपसंख्यानवार्तिकम्।। 1 ।।)
- अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यच्छन्दसि -
(भाष्यम्) अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यश्छन्दस्युपसंख्यानं कर्तव्यम्। कौलालः। वारुडः। नैषादः। चाण्डालः। आमित्रः।।
(5916 उपसंख्यानवार्तिकम्।। 2 ।।)
- भागरूपनामभ्यो धेयः -
(भाष्यम्) भागरूपनामभ्यो धेयो वक्तव्यः। भागधेयम्। रूपधेयम्। नामधेयम्।।
(5917 उपसंख्यानवार्तिकम्।। 3 ।।)
- मित्राच्छन्दसि -
(भाष्यम्) मित्राच्छन्दसि धेयो वक्तव्यः। मित्रधेये यतस्व।।
(5918 उपसंख्यानवार्तिकम्।। 4 ।।)
- अणमित्राच्च -
(भाष्यम्) अणमित्राच्चेति वक्तव्यम्। मैत्रः। आमित्रः।।
(सान्नाय्यादीनां निपातनभाष्यम्)
सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्यन्ते। सांनाय्यम्।
आनुजावरः। आनुषूकः। चातुष्प्राश्यः। राक्षोघ्नः। वैयातः। वैकृतः। वारिवस्कृतः। आग्रायणः। आग्रहायणः। सान्तपनः।।
(5919 उपसंख्यानवार्तिकम्।। 5 ।।)
- आग्नीध्रसाधारणादञ्ञ् -
(भाष्यम्) आग्नीध्रसाधारणादञ्ञ् वक्तव्यः। आग्नीध्रम्, साधारणम्।।
(5920 उपसंख्यानवार्तिकम् ।। 6 ।।)
- अयवसमरुद्भ्यां छन्दसि -
(भाष्यम्) अयवसमरुद्भ्यां छन्दस्यञ्ञ्वक्तव्यः। आयवसे वर्धन्ते। मारुतं शर्धः।।
(5921 उपसंख्यानवार्तिकम्।। 7 ।।)
- नवसूरमर्तयविष्ठेभ्यो यत् -
(भाष्यम्) नवसूरमर्तयविष्ठेभ्यो यद्वक्तव्यः। नव्यः। सूर्यः। र्मत्यः। यविष्ठ्यः।।
(5922 उपसंख्यानवार्तिकम्।। 8 ।।)
- क्षेमाद्यः -
(भाष्यम्) क्षेमाद्यो वक्तव्यः। क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः।।
-5-4-42- बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् (2319)
(शसोऽधिकरणम्)
(5923 उपसंख्यानवार्तिकम्।। 1 ।।)
- बह्वल्पार्थान्मङ्गलामङ्गलवचनम् -
(भाष्यम्) बह्वल्पार्थान्मङ्गलामङ्गलवचनं कर्तव्यम्। बहुशो देहि। अनिष्टेषु श्राद्धादिषु मा भूत्, इष्टेषु प्राशित्रादिषु यथा स्यात्। अल्पशो देहि। इष्टेषु प्राशित्रादिषु मा भूत्, अनिष्टेषु श्राद्धादिषु यथा स्यात्।।
-5-4-44- प्रतियोगे पञ्ञ्चम्यास्तसिः (2321)
  (तसिप्रत्ययाधिकरणम्)
(5924 उपसंख्यानवार्तिकम्।।1।।)
तसिप्रकरण आद्यादिभ्य उपसंख्यानम्।।
तसिप्रकरण आद्यादिभ्य उपसंख्यानं कर्तव्यम्।। आदितः । अध्यतः । अन्ततः।
 -5-4-50- कृभ्वस्तियोगे संपद्यकर्तरि च्विः (2327)
(च्विप्रत्ययाधिकरण्)
(5925 सूत्रपूरकवार्तिकम्।। 1 ।।)
- च्विविधावभूततद्भावग्रहणम् -
(भाष्यम्) च्विविधावभूततद्भावग्रहणं कर्तव्यम्। इह मा भूत्--संपद्यन्ते यवाः, संपद्यन्ते शालय इति।।
(वार्तिकावतरणभाष्यम्)
अथ क्रियमाणेऽपि वै अभूततद्भावग्रहण इह कस्मान्न भवति--संपद्यन्तेऽस्मिन् क्षेत्रे शालय इति?
(5926 सूत्रांशपूरकवार्तिकम्।। 2 ।।)
- प्रकृतिविवक्षाग्रहणं च -
(भाष्यम्) प्रकृतिविवक्षाग्रहणं च कर्तव्यम्।।
(5927 उपसंख्यानवार्तिकम्।। 3 ।।)
- समीपादिभ्य उपंसख्यानम् -
(भाष्यम्) समीपादिभ्य उपसंख्यानं कर्तव्यम्। समीपीभवति। अभ्याशीभवति। अन्तिकीभवति।।
(समीपादिभ्यः इति वार्तिकप्रत्याख्यानभाष्यम्)
किं पुनः कारणं न सिध्यति?
न ह्यसमीपं समीपं भवति। किं तर्हि?
असमीपस्थं समीपस्थं भवति।।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। तात्स्थ्यात्ताच्छब्द्यं भविष्यति।।
-5-4-57- अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (2334
(डाचोऽधिकरणम्)
(चित्करणप्रयोजनभाष्यम्)
किमर्थश्चकारः?
स्वरार्थः। चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।।
(चित्करणस्य निष्फलत्वद्योतकभाष्यम्)
नैतदस्ति प्रयोजनम्। एकाजयं तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्।।
<M.4.415>
अत उत्तरं पठति--
(5928 चित्करणप्रयोजनवार्तिकम्।। 1 ।।)
- डाचि चित्करणं विशेषणार्थम् -
(भाष्यम्) डाचि चित्करणं क्रियते विशेषणार्थम्।
क्व विशेषणार्थेनार्थः?
लोहितादिडाज्भ्यः क्यष् 3।1।13 इति। डा इति ह्युच्यमान इडा अतोऽपि प्रसज्येत।
अर्थवद्ग्रहणे नानर्थकस्येतीत्येवमेतस्य न भविष्यति।
इदं तर्हि प्राप्नोति--नाभा पृथिव्या निहितो दविद्युतत्। तस्माच्चकारः कर्तव्यः।।
-5-4-67- मद्रात् परिवापणे (2344)
(उपसंख्यानभाष्यम्)
भद्राच्चेति वक्तव्यम्। भद्राकरोति।।
-5-4-68- समासान्ताः (2345)
(अधिकाराधिकरणम्)
(अन्तग्रहणप्रयोजनभाष्यम्)
अन्तग्रहणं किमर्थम्?
अन्तो यथा स्यात्।
नैतदस्ति प्रयोजनम्। प्रत्ययपरत्वेनाप्येतत्सिद्धम्।।
इदं तर्हि प्रयोजनम्--तद्ग्रहणेन ग्रहणं यथा स्यात्।
कानि पुनस्तद्ग्रहणस्य प्रयोजनानि?
<M.4.416>
(5929 तद्ग्रहणप्रयोजनवार्तिकम्।। 1 ।।)
- प्रयोजनमव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः -
(भाष्यम्) अव्ययीभावः प्रयोजनम्। प्रतिराजम्, उपराजम्। अव्ययीभावश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्।
नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।
इदं तर्हि प्रयोजनम्--नाव्ययीभावादतोऽम्त्वपञ्ञ्चम्याः (2।4।83) इत्येष विधिर्यथा स्यात्। अव्ययीभाव।।
द्विगु। द्विगुसंज्ञा च प्रयोजनम्। पञ्ञ्चगवम्, दशगवम्। द्विगुश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्।
नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।
इदं तर्हि प्रयोजनम्--द्विपुरी, त्रिपुरी--द्विगोरकारान्तादिति इर्कारो यथा स्यात्।
एतदपि नास्ति प्रयोजनम्।
पुरशब्दोऽयमकारान्तस्तेन समासो भविष्यति। आतश्चाकारान्तः।
एवं ह्याह--
क्षेमे सुभिक्षे कृतसञ्ञ्चयानि
पुराणि राज्ञां विनयन्ति कोपम्। इति।।
इदं तर्हि प्रयोजनम्--द्विधुरी, त्रिधुरी--द्विगोरकारान्तादिति ङीब् यथा स्यात्। द्विगु।।
द्वन्द्व। द्वन्द्वसंज्ञा च प्रयोजनम्। वाक्त्वचम्, स्रक्त्वचम् । द्वन्द्वश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्।
नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।।
इदं तर्हि प्रयोजनम्--कोशश्च निषच्च कोशनिषदम्--कोशनिषदिनी द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः (5।2।128) इतीनिर्यथा स्यात्। द्वन्द्व।।
तत्पुरुष। तत्पुरुषसंज्ञा च प्रयोजनम्। परमधुरा, उत्तमधुरा--परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (2।4।26) इति परवल्लिङ्गता यथा स्यात्।
नैतदस्तिप्रयोजनम्। उत्तरपदार्थप्रधानस्तत्पुरुषः।।
इदं तर्हि प्रयोजनम्--अर्धधुरा।
एतदपि नास्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।।
इदं तर्हि--निर्धुरः। अव्ययं तत्पुरुषे प्रकृतिस्वरं भवतीत्येष स्वरो यथा स्यात्। तत्पुरुष।।
बहुव्रीहि। बहुव्रीहिसंज्ञा च प्रयोजनम्। उच्च धुरः, नीचधुरः। बहुव्रीहौ प्रकृत्या पूर्वपदं भवतीत्येष स्वरो यथा स्यात्।।
-5-4-69- न पूजनात् (2346)
(निषेधाधिकरणम्)
(सूत्रार्थोपपादकभाष्यम्)
इदं विप्रतिषिद्धम्।
को विप्रतिषेधः?
परिगणिताभ्यः प्रकृतिभ्यः समासान्तो विधीयते, न च तत्र काचित् पूजनान्ता प्रकृतिर्निर्दिश्यते।।
नैतद्विप्रतिषिद्धम्। नैवं विज्ञायते याभ्यः प्रकृतिभ्यः समासान्तो विधीयते न चेत्ताः पूजनान्ता भवन्तीति।
कथं तर्हि?
न चेत्ताः पूजनात्परा भवन्तीति।।
(5930 उपसंख्यानवार्तिकम्।। 1 ।।)
- पूजायां स्वतिग्रहणम् -
(भाष्यम्) पूजायां स्वतिग्रहणं कर्तव्यम्। सुराजा, अतिराजा।
<M.4.417>
क्व मा भूत्?
परमगवः, उत्तमगवः।।
(5931 उपसंख्यानवार्तिकम्।। 2 ।।)
- प्राग्बहुव्रीहिग्रहणं च -
(भाष्यम्) प्राग् बहुव्रीहिग्रहणं च कर्तव्यम्। इह मा भूत्--स्वक्षः, अत्यक्ष इति।।
-5-4-70- किमः क्षेपे (2347)
(क्षेपेग्रहणानर्थक्यबोधकभाष्यम्)
क्षेप इति किमर्थम्?
कस्य राजा किंराजः।।
क्षेप इति शक्यमकर्तुम्।
कस्मान्न भवति--कस्य राजा किंराज इति?
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति।।
-5-4-73- बहुव्रीहौ संख्येये डचबहुगणात् (2350)
(समासान्ताधिकरणम्)
(5932 उपसंख्यानवार्तिकम्।। 1 ।।)
- डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशद्यार्थम् -
(भाष्यम्) डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यम्।
किं प्रयोजनम्?
निस्त्रिंशाद्यर्थम्। निस्त्रिंशांनि वर्षाणि, निश्चत्वारिंशानि वर्षाणि।।
(5933 सूत्रपर्युदासवार्तिकम्।। 2 ।।)
- अन्यत्राधिकलोपात् -
(भाष्यम्) अन्यत्राधिकलोपादिति वक्तव्यम्। इह मा भूत्--एकाधिका विंशतिरेकविंशतिः। द्व्यधिका विंशतिर्द्वाविंशतिः।
(उपसंख्यानभाष्यम्)
अव्ययादेरिति च वक्तव्यम्।
इह मा भूत्--गोत्रिंशत्, गोचत्वारिंशदिति। तत्तर्हि वक्तव्यम्।
यद्यप्येतदुच्यते, अथ वै तर्हि--अन्यत्राधिकलोपादित्येतन्न क्रियते।।
-5-4-74- ऋक्पूरब्धूःपथामानक्षे (351)
(अनक्षे इत्यत्र पक्षद्वयेऽपि दोषोपपादकभाष्यम्)
अनक्ष इति कथमिदं विज्ञायते--न चेदक्षधूरन्तः समास इति, आहोस्विन्न चेदक्षः समासार्थ इति।
किं चातः?
यदि विज्ञायते--न चेदक्षधूरन्तः समास इति। सिद्धमक्षस्य धूः--अक्षधूरिति।
इदं तु न सिध्यति--दृढधूरयमक्षः।
अस्तु तर्हि--न चेदक्षः समासार्थ इति।
सिद्धं दृढधूरक्ष इति।
इदं तु न सिध्यति--अक्षस्य धूः--अक्षधूरिति।
(अनक्षे पदार्थबोधकभाष्यम्)
एवं तर्हि नैवं विज्ञायते--न चेदक्षधूरन्तः समास इति, नापि--न चेदक्षः समासार्थ इति।
कथं तर्हि?
<M.4.418>
न चेदक्षस्य धूरिति। एवं च कृत्वा नापि न चेदक्षधूरन्तः समास इति विज्ञायते, नापि न चेदक्षः समासार्थ इति--अथ चोभयोर्न भवति।।
-5-4-76- अक्ष्णोऽदर्शनात् (2353)
(अदर्शनात् इत्यस्य निष्फलत्वबोधकभाष्यम्)
अदर्शनादित्युच्यते तत्रेदं न सिध्यति--कबराक्षम्।
अदर्शनादिति शक्यमकर्तुम्।
कथं--ब्राह्मणाक्षि, क्षत्रियाक्षि?
अप्राण्यङ्गादिति वक्तव्यम्।।
-5-4-77- अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुर्हक्सामवाङ्भनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरुषायुषद्व्यायुषत्र्यायुर्षग्युजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (2354)
(सूत्रघटकपदोपपादकभाष्यम्)
आद्यास्त्रयो बहुव्रीहयः--अद्रष्टा चतुर्णामचतुरः, विद्रष्टा चतुर्णां विचतुरः, सुद्रष्टा चतुर्णां सुचतुरः।।
ततः परे एकादश द्वन्द्वाः--स्त्रीपुंस, धेन्वनडुह, ऋक्साम, वाङ्मनस, अक्षिभ्रुव, दारगव, ऊर्वष्ठीव, पदष्ठीव, नक्तन्दिव, रात्रिन्दिव, अहर्दिव।।
ततोऽव्ययीभावः--सह रजसा सरजसम्।।
ततस्तत्पुरुषः--निश्चितं श्रेयो निःश्रेयसम्।।
ततः षष्ठीसमासः--पुरुषस्यायुः पुरुषायुषम्।।
ततो द्विगू--द्वे आयुषी द्व्यायुषम्, त्रीण्यायूंषि त्र्यायुषम्।।
ततो द्वन्द्वः--ऋक् च यजुश्च ऋग्यजुषम्।।
जातादय उक्षान्ताः समानाधिकरणाः--जात उक्षा जातोक्षः, महानुक्षा महोक्षः, वृद्ध उक्षा वृद्धोक्षः।।
ततोऽव्ययीभावः--शूनः समीपमुपशुनम्।।
ततः सप्तमीसमासः--गोष्टे श्वा गोष्ठश्वः।।
(5934 उपसंख्यानवार्तिकम्।। 1 ।।)
- चतुरोऽच्प्रकरणे त्र्युषाभ्यामुपसंख्यानम् -
(भाष्यम्) चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानं कर्तव्यम्। त्रिचतुराः, उपचतुराः।।
-5-4-78- ब्रह्महस्तिभ्यां वर्चसः (2355)
(उपसंख्यानभाष्यम्)
पल्यराजभ्यां चेति वक्तव्यम्। पल्यवर्चसम्, राजवर्चसम्।।
-5-4-87- अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः (2364)
(5935 अहर्ग्रहणे विशेषार्थबोधककवार्तिकम्।। 1 ।।)
- अहर्ग्रहणं द्वन्द्वार्थम् -
(भाष्यम्) अहर्ग्रहणं द्वन्द्वार्थं द्रष्टव्यम्।।
<M.4.419>
किमुच्यते द्वन्द्वार्थमिति, न पुनस्तत्पुरुषार्थमपि स्यात्?
तत्पुरुषाभावात्। न हि रात्र्यन्तोऽहरादिस्तत्पुरुषोऽस्ति।।
-5-4-88- अह्नोऽह्न एतेभ्यः (2365)
(5936 सूत्रानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- अह्नोऽह्नवचनानर्थक्यं चाह्नष्टखोर्नियमवचनात् -
(भाष्यम्) अह्नोऽह्नवचनमनर्थकम्।
किं कारणम्?
अह्नष्टखोर्नियमवचनात्। अह्नष्टखोरेव (6।4।145) इत्येतन्नियमार्थं भविष्यति।।
-5-4-103- अनसन्तान्नपुंसकाच्छन्दसि (2380)
5-4-1 आ. 27 (1025 विधिसूत्रम्
(विकल्पोपसंख्यानभाष्यम्)
अनसन्तान्नपुंसकाच्छन्दसि वेति वक्तव्यम्। ब्रह्मसामम्, ब्रह्मसाम। देवच्छन्दसम्, देवच्छन्दः।।
-5-4-113- बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (2390)
(षचाक्षेपभाष्यम्)
किमर्थं षच् प्रत्ययान्तरं विधीयते, न टच्प्रकृतः सोऽनुवर्तिष्यते।।
अत उत्तरं पठति--
(5937 षच्करणस्य सार्थक्यबोधकवार्तिकम्।। 1 ।।)
- षचि प्रत्ययान्तरकरणमनन्तोदात्तार्थम् -
(भाष्यम्) षचि प्रत्ययान्तरं क्रियते।
किं प्रयोजनम्?
अनन्तोदात्तार्थम्। अनन्तोदात्ताः प्रयोजयन्ति--चक्रसक्थम्, चक्रसक्थी।।
-5-4-115- द्वित्रिभ्यां ष मूर्ध्नः (2392)
(षप्रत्ययाक्षेपभाष्यम्)
किमर्थं मूर्ध्नः षः प्रत्ययान्तरं क्रियते न षच्प्रकृतः सोऽनुवर्तिष्यते।।
<M.4.420>
(5938 षप्रत्ययस्य फलबोधकं वार्तिकम्।। 1 ।।)
- मूर्ध्नश्च षवचनम् -
(भाष्यम्) किम्?
अनन्तोदात्तार्थमित्येव। द्विमूर्धः, त्रिमूर्धः।।
-5-4-116- अप्पूरणीप्रमाण्योः (2393)
(5939 उपसंख्यानवार्तिकम्।। 1 ।।)
- अपि प्रधानपूरणीग्रहणम् -
(भाष्यम्) अपि प्रधानपूरणीग्रहणं कर्तव्यम्। प्रधानं या पूरणीति वक्तव्यम्। इह मा भूत्--कल्याणी पञ्ञ्चमी अस्य पक्षस्य कल्याणपञ्ञ्चमीकः पक्षः।।
अथेह कथं भवितव्यम्--कल्याणी पञ्ञ्चमी यासां रात्रीणामिति?
कल्याणीपञ्ञ्चमा रात्रय इति भवितव्यम्। रात्रयोऽत्र प्रधानम्।।
(5940 उपसंख्यानवार्तिकम्।। 2 ।।)
- नेतुर्नक्षत्रे उपसंख्यानम् -
(भाष्यम्) नेतुर्नक्षत्रे उपसंख्यानं कर्तव्यम्। पुष्यनेत्राः, मृगनेत्राः।।
(4941 उपंसख्यानवार्तिकम्।। 3 ।।)
- छन्दसि च -
(भाष्यम्) छन्दसि च नेतुरुपसंख्यानं कर्तव्यम्। बृहस्पतिनेत्राः, सोमनेत्राः।।
(5942 उपसंख्यानवार्तिकम्।। 4 ।।)
- मासात् भृतिप्रत्ययपूर्वपदाट्ठज्विधिः -
(भाष्यम्) मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः, पञ्ञ्चकमासिकः, षट्कमासिकः, दशकमासिकः।।
-5-4-118- अञ्ञ्नासिकायाः संज्ञायां नसं चास्थूलात् (2395)
(उपसंख्यानभाष्यम्)
खरखुराभ्यां च नस् वक्तव्यः। खरणाः, खुरणाः।
शितिना अर्चना अहिना इति नैगमाः। शितिनाः, अर्चनाः, अहिनाः।।
-5-4-119- उपसर्गाच्च (2396)
(उपसंख्यानभाष्यम्)
वेर्ग्रो वक्तव्यः। विग्रः।
(उपसंख्यानभाष्यम्)
(ख्यश्च वक्तव्यः। विख्यः।।)
<M.4.421>
-5-4-131- ऊधसोऽनङ् (2408)
(5943 उपसंख्यानवार्तिकम्।। 1 ।।)
- ऊधसोऽनङि स्त्रीग्रहणम् -
(भाष्यम्) ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत्--महोधाः पर्जन्य इति।।
-5-4-135- गन्धस्येदुत्पूतिसुसुरभिभ्यः (2412)
(5944 उपसंख्यानवार्तिकम्।। 2 ।।)
- गन्धस्येत्त्वे तदेकान्तग्रहणम् -
(भाष्यम्) गन्धस्येत्त्वे तदेकान्तग्रहणं कर्तव्यम्।
इह मा भूत्--शोभना गन्धा अस्य सुगन्ध आपणिक इति।।
अथानुलिप्ते कथं भवितव्यम्?
यदि तावद्यदनुगतं तदभिसमीक्षितम् सुगन्धिः इति भवितव्यम्। अथ यत्प्रविशीर्णम् सुगन्धः इति भवितव्यम्।।
-5-4-154- शेषाद्विभाषा (2431)
(शेषपदार्थबोधकभाष्यम्)
शेषादित्युच्यते कः शेषो नाम?
याभ्यः प्रकृतिभ्यः समासान्तो न विधीयते स शेषः।।
(शेषपदस्य फलबोधकभाष्यम्)
किमर्थं पुनः शेषग्रहणं क्रियते?
याभ्यः प्रकृतिभ्यः समासान्तो विधीयते ताभ्यः कब्मा भूदिति।
नैतदस्ति प्रयोजनम्।
ये प्रतिपदं विधीयन्ते ते तत्र बाधका भविष्यन्ति।
अनवकाशा हि विधयो बाधका भवन्ति सावकाशाश्च समासान्ताः।
कोऽवकाशः?
विभाषा कप् यदा न कप् सोऽवकाशः। कपः प्रसङ्गे उभयं प्राप्नोति। परत्वात्कप् प्राप्नोति। तस्माच्छेषग्रहणं कर्तव्यम्।।
(शेषग्रहणे पक्षद्वयोपपादकभाष्यम्)
किं पुनिरदं शेषग्रहणं कबपेक्षम्--यस्माद्बहुव्रीहेः कब्न विहित इति, आहोस्वित्समासान्तापेक्षम्--यस्माद् बहुव्रीहेः समासान्तो न विहित इति?
किं चातः?
<M.4.422>
(प्रथमपक्षे दोषोपपादकभाष्यम्)
यदि विज्ञायते--कबपेक्षम्,
अनृचः--बह्वृच इत्यत्रापि प्राप्नोति।।
(द्वितीयपक्षे दोषोपपादकभाष्यम्)
अथ समासान्तापेक्षम्।
अनृक्कं साम--बह्वृक्कं सूक्तमिति न सिद्ध्यति।।
(प्रथमपक्षे दोषान्तरोपपादकभाष्यम्)
अस्तु कबपेक्षम्।
कथमनृचो बह्वृच इति?
विशेष एतद् वक्तव्यम्--अनृचो, माणवे बह्वृचश्चरणाख्यायाम् इति।
इदं तर्हि--ऊधसोऽनङि स्त्रीग्रहणं चोदितं तस्मिन् क्रियमाणेऽपि प्राप्नोति।।
(शेषग्रहणस्यापेक्ष्यनिर्धारकभाष्यम्)
एवं तर्हि नैव कबपेक्षं शेषग्रहणम्, नापि समासान्तापेक्षम्।
किन्तर्हि?
अनन्तरो यो बहुव्रीह्यधिकारः सोऽपेक्ष्यते। अनन्तरे बहुव्रीह्यधिकारे यस्माद् बहुव्रीहेः समासान्तो न विहित इति।
कथमनृचः--बह्वृच इति?
वक्तव्यमेवैतत्--अनृचो माणवे, बह्वृचश्चरणाख्यायाम् इति।।
-5-4-156- इर्यसश्च (2433)
(5945 पूर्वपक्षिवार्तिकम्।। 1 ।।)
- इर्यस उपसर्जनदीर्घत्वं च -
(भाष्यम्) इर्यस उपसर्जनदीर्घत्वं चेति वक्तव्यम्। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी, विद्यमानश्रेयसी।।
<M.4.423>
(5946 पूर्वपक्षिवार्तिकम्।। 1 ।।)
- पुंवद्वचनात्सिद्धम् -
(भाष्यम्) पुंवद्वचनात्सिद्धमेतत्। पुंवद्भावोऽत्र भवति--इर्यसो बहुव्रीहौ पुंवद्वचनमिति।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम्।।
।। पादश्च समाप्तः ।।
पञ्ञ्चमोऽध्यायः समाप्तः ।। -5-4-1- आ. 27 (1025 विधिसूत्रम् -5-4-103- 2380 अनसन्तान्नपुंसकाच्छन्दसि
(विकल्पोपसंख्यानभाष्यम्)
अनसन्तान्नपुंसकाच्छन्दसि वेति वक्तव्यम्। ब्रह्मसामम्, ब्रह्मसाम। देवच्छन्दसम्, देवच्छन्दः।।