महाभाष्यम्/पञ्चमोऽध्यायः/द्वितीयः पादः

-5-2-4- विभाषा तिलमाषोमाभङ्गाणुभ्यः (2022)
(यतोऽधिकरणम्)
(5699 पूर्वपक्षिविधिवार्तिकम्।। 1 ।।)
- तिलादिभ्यः खञ्ञ्च -
(भाष्यम्) तिलादिभ्यः खञ्ञ्चेति वक्तव्यम्। तिल्यम्। तैलीनम्।
किमर्थंमिदमुच्यते, न यता मुक्ते धान्यानां भवने क्षेत्रे खञ्ञ् (5।2।1) ःथ्द्य;त्येव सिद्धम्।
न सिध्यति।
किं कारणम्?
(5701 समर्थकवार्तिकम्।। 2 ।।)
- उमाभङ्गयोरधान्यत्वात् -
(भाष्यम्) धान्यानां भवने क्षेत्रे खञ्ञ् ःथ्द्य;त्युच्यते, न चोमाभङ्गे धान्ये।
चमेषु यत्पठ्यते तद्धान्यम्, न चैते तत्र पठ्येते।।
(खञ्ञ्ग्रहणाक्षेपभाष्यम्)
तत्तर्हि कञ्ञ्ग्रहणं कर्तव्यम्?
न कर्तव्यम्।
प्रकृतमनुवर्तते।
क्व प्रकृतम्?
धान्यायां भवने क्षेत्रे खञ्ञिति।।
(अनुवर्तनाक्षेपभाष्यम्)
यदि तदनुवर्तते, व्रीहिशाल्योर्ढक् (2) यवयवकषष्टिकाद्यत् (3) ःथ्द्य;ति खञ्ञ्चेति खञ्ञपि प्राप्नोति।।
(आक्षेपपरिहारभाष्यम्)
सम्बन्धमनुवर्तिष्यते--धान्यानां भवने क्षेत्रे खञ्ञ्।
व्रीहिशाल्योर्ढग्भवति, धान्यानां भवने क्षेत्रे खञ्ञ्।
यवयवकषष्टिकाद्यद्भवति, धान्यानां भवने क्षेत्रे खञ्ञ्भवति।
विभाषातिलमाषोमाभङ्गाणुभ्यः, भवने क्षेत्रे खञ्ञ्ग्रहणमनुवर्तते। धान्यानामिति निवृत्तम्।।
(परिहारान्तरभाष्यम्)
अथ वा मण्डूकप्लुतयोऽधिकाराः।
यथा--मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति, तद्वदधिकाराः।।
(परिहारान्तरभाष्यम्)
अथ वा अन्यवचनाच्चकाराकरणात् प्रकृतस्यापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यापवादः। अन्यस्य प्रत्ययस्य वचनाच्चकारस्य चानुकषणार्थस्याकरणात्प्रकृतस्य खञ्ञो ठग्यतौ बाधकौ भविष्यतः, यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति।।
(परिहारान्तरभाष्यम्)
अथ वा एतज्ज्ञापयति--अनुवर्तन्ते नाम विधयो न चानुवर्तनादेव भवन्ति।
किं तर्हि?
यत्नाद्भवन्ति।।
(सिद्धान्तभाष्यम्)
अथ वा यता मुक्ते धान्यानां भवने क्षेत्रे खञ्ञ् ःथ्द्य;त्येव सिद्धम्।
ननु चोक्तं न सिध्यति।
किं कारणम्?
उमाभङ्गयोरधान्यत्वादिति।
नैष दोषः।
धिनोतेर्धान्यम्, एते चापि धिनुतः।
अथ वा शणसप्तदशानि धान्यानि।।
-5-2-6- यथामुखसंमुखस्य दर्शनः खः (2024)
(खप्रत्ययाधिकरणम्)
(निपातनाभिप्रायशङ्काभाष्यम्)
सममुखेति किं निपात्यते?
(5702 निपातनार्थबोधकवार्तिकम्।। 1 ।।)
- संमुखेति समस्यान्तलोपः -
(भाष्यम्) संमुखेति समस्यान्तलोपो निपात्यते। सममुखस्य दर्शनः--संमुखीनः।।
-5-2-9- अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु (2027)
(अयानयपदार्थबोधकं भाष्यम्)
अयानयं नेय ःथ्द्य;त्युच्यते, तत्र न ज्ञायते कः--अयः, कः--अनय ःथ्द्य;ति।।
अयः प्रदक्षिणम्। अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगमिनां शाराणां यस्मिन् परैः पदानामसमावेशः सः--अयानयः। अयानयं नेयः--अयानयीनः, शारः।।
-5-2-10- परोवरपरम्परपुत्रपौत्रमनुभवति (2028)
(निपातनजिज्ञासाभाष्यम्)
परोवरेति किं निपात्यते?
(5503 निपातनार्थबोधकवार्तिकम्।। 1 ।।)
- परोवरे परस्योत्ववचनम् -
(भाष्यम्) परोवरेति परस्यौत्वं निपात्यते।।
(सूत्रनिर्देशोपपादकं भाष्यम्)
यद्येवं परस्यौत्ववचनमिति प्राप्नोति।
शकन्धुन्यायेन निर्देशः।
अथ वा नैवं विज्ञायते परस्यौत्वं निपात्यत ःथ्द्य;ति।
कथं तर्हि?
परस्य शब्दरूपस्यादेरुत्वं निपात्यत ःथ्द्य;ति। परांश्चावरांश्चानुभवति--परोवरीणः।
(निपातनजिज्ञासाभाष्यम्)
अथ परम्परेति किं निपात्यते?
(5704 निपातनार्थबोधकवार्तिकम्।। 2 ।।)
- परपरतराणां परम्परभावः -
(भाष्यम्) परपरतराणां परम्परभावो निपात्यते। परांश्च परतरांश्चानुभवति--परम्परीणः।।
-5-2-12- समां समां विजायते (2030)
  (आक्षेपभाष्यम्)
ःथ्द्य;ह --समांसमीना गौः सुपो धातुप्रातिपदिकयोः(2-4-71) ःथ्द्य;ति सुब्लुक् प्राप्नोति।
।। समां समां विजायते ःथ्द्य;ति यलोपवचनादलुग्विज्ञानम्।।
समां समां विजायते ःथ्द्य;ति यलोपवचनादलुग्विज्ञानं भविष्यति। यदयं यलोपं शास्ति तज्ज्ञापयत्याचार्यः ---नात्र लुग्भवतीति।
(5706 प्रत्याक्षेपवार्तिकम्।।2।।)
- समां समां विजायत ःथ्द्य;ति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वचनम्।।
समां समां विजायत ःथ्द्य;ति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वक्तव्यः।
(5707 समाधानवार्तिकम्।।3।।)
सिद्धं तु पूर्वपदस्य यलोपवचनात् ।।
सिद्धमेतत् ।
 कथम्? पूर्वपदस्य यलोपो वक्तव्यः।
(5708) पक्षान्तरेण समाधानवार्तिकम्।।4।।)
अनुत्पत्तावुत्तरपदस्य वाचनम्।।
अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपो वा वक्तव्यः।
समां समां विजायते, समायां समायां विजायत ःथ्द्य;ति।
-5-2-14- आगवीनः (2032)
(निपातनजिज्ञासाभाष्यम्)
आगवीन ःथ्द्य;ति किं निपात्यते?
(5709 निपातनार्थबोधकवार्तिकम्।। 1 ।।)
- गोराङ्पूर्वादा तस्य गोः प्रतिदानात्कारिणि खः -
(भाष्यम्) गोराङ्पूर्वात् आ तस्य गोः प्रतिदानात् कारिणि खो निपात्यते। आ तस्य गोः प्रतिदानात्कर्मकारी--आगवीनः कर्मकरः।।
-5-2-20- शालीनकौपीने अधृष्टाकार्ययोः (2038)
(शालीनकौपीनार्थबोधकभाष्यम्)
किं यः शालायामधृष्टः स शालीनः, कूपे वा यदकार्यं तत्कौपीनम्।
नेत्याह। उत्तरपदलोपोऽत्र द्रष्टव्यः। शालाप्रवेशनमर्हत्यधृष्टः सः--शालीनः। कूपावतरणमर्हत्यकार्यं तत्कौपीनम्।।
-5-2-21- व्रातेन जीवति (2039)
  (व्रातपदार्थबोधकभाष्यम्)
व्रातेन जीवतीत्युच्यते,किं व्रातं नाम? नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः,तेषां कर्म-व्रातम्। व्रातकर्मणा जीवतीति--व्रातीनः।
-5-2-23- हैयङ्गवीनं संज्ञायाम् (2040)
(निपातनार्थजिज्ञासाभाष्यम्)
हैयङ्गवीनम् ःथ्द्य;ति किं निपात्यते?
(5910 निपातनार्थबोधकवार्तिकम्।। 1 ।।)
- ह्योगोदोहस्य हियङ्ग्वादेशः संज्ञायां तस्य विकारे -
(भाष्यम्) ह्योगोदोहस्य हियङ्ग्वादेशो निपात्यते संज्ञायां विषये तस्य विकारः ःथ्द्य;त्येतस्मिन्नर्थे। ह्योगोदोहस्य विकारः -- हैयङ्गवीनं घृतम्।
संज्ञायामिति किमर्थम्?
ह्योगोदोहस्य विकार--उदश्वित्--अत्र मा भूदिति।।
-5-2-25- पक्षात्तिः (2043)
(तिप्रत्ययाधिकरणम्)
(एकदेशिन उपसंख्यानभाष्यम्)
मूले ःथ्द्य;ति वक्तव्यम्। पक्षस्य मूलं पक्षतिः। तत्तर्हि वक्तव्यम्।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
न वक्तव्यम्। मूले ःथ्द्य;ति वर्तते।
क्व प्रकृतम्?
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्डाहचौ (5।2।24) ःथ्द्य;ति।
यदि तदनुवर्तते, पाकेऽपि प्राप्नोति।
मूल ःथ्द्य;त्यनुवर्तते, पाक ःथ्द्य;ति निवृत्तम्।
कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तेत, एकदेशो वा निवर्तेत।
एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति।
तद्यथा--संखायव्ययादेर्ङीप् (4।1।26) दामहायनान्ताच्च (27) संख्यादेरित्यनुवर्तते, अव्ययादेरिति निवृत्तम्।।
-5-2-27- विनञ्ञ्भ्यां नानाञ्ञौ न सह (2045)
(नानाञ्ञ्प्रत्ययाधिकरणम्)
(प्रत्ययार्थनिर्णायकभाष्यम्)
ःथ्द्य;ह नानेति सहार्थो गम्येत, द्वौ हि प्रतिषेधौ प्रकृतमर्थं गमयतः। न न सह--सहैवेति।
नैष दोषः।
नायं प्रत्ययार्थः।
किं तर्हि?
प्रकृतिविशेषणमेतत्। वि--नञ्ञ् ःथ्द्य;त्येताभ्यामसहवाचिभ्यां नानाञ्ञौ भवतः।
कस्मिन्नर्थे?
स्वार्थे।।
-5-2-28- वेः शालच्छङ्कटचौ (2046)
(शालच्शङ्कटच्प्रत्ययाधिकरणम्)
(प्रत्ययार्थनिर्णयभाष्यम्)
कस्मिन्नर्थे शालजादयो भवन्ति?
न सह ःथ्द्य;त्यनुवर्तते।
भवेत्सिद्धम्--विशाले शृङ्गे, विशङ्कटे श्रृङ्गे ःथ्द्य;ति।।
(आक्षेपभाष्यम्)
ःथ्द्य;ह खलु संकटम् ःथ्द्य;ति संगतार्थो गम्यते, प्रकटमिति प्रगतार्थो गम्यते, उत्कटमिति उद्गतार्थो गम्यते।।
(समाधानभाष्यम्)
एवं तर्हि साधने शालजादयो भवन्ति।
किं वक्तव्यमेतत्?
न हि।
कथमनुच्यमानं गंस्यते?
उपसर्गेभ्य ःथ्द्य;मे विधीयन्ते, उपसर्गाश्च पुनरेवमात्मकाः--यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः, यत्र हि न प्रयुज्यते ससाधनां तत्र क्रियामाहुः। त एते उपसर्गेभ्यो विधीयमानाः ससाधनायां क्रियायां भविष्यन्ति।।
(आक्षेपभाष्यम्)
एवमपि भवेत्सिद्धं--विशाले श्रृङ्गे ःथ्द्य;ति।
ःथ्द्य;दं तु न सिध्यति--विशालः, विशङ्कटः--ःथ्द्य;ति।।
(समाधानभाष्यम्)
एतदपि सिद्धम्।
कथम्?
अकारो मत्वर्थीयः। विशाले अस्य स्तो विशालः। विशङ्कटे अस्य स्तो विशङ्कट ःथ्द्य;ति।।
-5-2-29- संप्रोदश्च कटच् (2042)
(कटच्प्रत्ययाधिकरणम्)
(5711 उपसंख्यानवार्तिकम्।। 1 ।।)
- कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्युपसंख्यानम् -
(भाष्यम्) कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्यभिधेये उपसंख्यानं कर्तव्यम्। अलाबूकटः, तिलकटः, उमाकटः।।
(5712 उपसंख्यानवार्तिकम्।। 2 ।।)
- भङ्गायाश्च -
(भाष्यम्) भङ्गायाश्चेति वक्तव्यम्। भङ्गाकटः।।
(5713 उपसंख्यानवार्तिकम्।। 3 ।।)
- गोष्ठादयः स्थानादिषु पशुनामादिभ्यः -
(भाष्यम्) गोष्ठादयः प्रत्ययाः स्थानादिष्वर्थेषु पशुनामादिभ्यो वक्तव्याः। गवां स्थानं--गोगोष्ठम्। अविगोष्ठम्।
संघाते कटच्च वक्तव्यः।
अविकटः उष्ट्रकटः।
विस्तारे पटच्च वक्तव्यः।
अविपटः। उष्ट्रपटः।
गोयुगशब्दश्च प्रत्ययो वक्तव्यः।
उष्ट्रगोयुगम्। खरगोयुगम्।
तैलशब्दश्च प्रत्ययो वक्तव्यः।
ःथ्द्य;ङ्गुदतैलम्। सर्षपतैलम्।
शाकटशब्दश्च प्रत्ययो वक्तव्यः।
ःथ्द्य;क्षुशाकटम्। मूलशाकटम्।
शाकिनशब्दश्च प्रत्ययो वक्तव्यः।
ःथ्द्य;क्षुशाकिनम्। मूलशाकिनम्।।
(5714 गोष्ठादयः स्थानादिष्वित्यादेः प्रत्याख्यानवार्तिकम्।। 4 ।।)
- उपमानाद्वा सिद्धम् -
(भाष्यम्) उपमानाद्वा सिद्धमेतत्। गवां स्थानं--गोष्ठम्। यथा गवां तद्वदुष्ट्राणाम्।
कटज् वक्तव्य ःथ्द्य;ति। यथा नानाद्रव्याणां संघातः कटः, एवमवयः संहताः--अविकटः।
पटच्च वक्तव्य ःथ्द्य;ति। प्रस्तीर्णः पटो यथा, एवमवयः प्रस्तीर्णाः--अविपटः।
गोयुगशब्दश्च प्रत्ययो वक्तव्य ःथ्द्य;ति। गोर्युगंगोयुगम्। यथा गोस्तद्वदुष्ट्रस्य--उष्ट्रगोयुगम्।
तैलशब्दश्च प्रत्ययो वक्त्वय ःथ्द्य;ति। प्रकृत्यन्तरं तैलशब्दो विकारे वर्तते, एवं च कृत्वा तिलतैलमित्यपि सिद्धं भवति।
शाकटशब्दश्च प्रत्ययो वक्तव्य एव।
शाकिनशब्दश्च प्रत्ययो वक्तव्य एव।।
-5-2-33- ःथ्द्य;नच्पिटच्चिकचिच (2046)
(ःथ्द्य;नच्पिटजधिकरणम्)
(5715 उपसंख्यानवार्तिकम्।। 1 ।।)
- ःथ्द्य;नच्पिटच्काः चिकचिचिकादेशाश्च -
(भाष्यम्) ःथ्द्य;नच्पिटच्काः प्रत्ययाः वक्तव्याः, चिक चि चिक्-ःथ्द्य;त्येते च प्रकृत्यादेशा वक्तव्याः। चिकिनः। चिपिटः। चिक्कः।।
(5716 उपसंख्यानवार्तिकम्।। 2 ।।)
- क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी -
(भाष्यम्) क्लिन्नस्य चिल्पिल् ःथ्द्य;त्येतौ प्रकृत्यादेशौ वक्तव्यौ लश्च प्रत्ययः, अस्य चक्षुषी ःथ्द्य;त्यस्मिन्नर्थे। क्लिन्ने अस्य चक्षुषी--चिल्लः, पिल्लः।
चुल् च वक्तव्यः। चुल्लः।
यद्यस्येत्युच्यते, चिल्ले चक्षुषी पिल्ले चक्षुषी--ःथ्द्य;ति न सिध्यति तस्मान्नार्थोऽस्य ग्रहणेन।
कथं चिल्लः पिल्ल ःथ्द्य;ति?
अकारो मत्वर्थीयः। चिल्ले अस्य स्तः--चिल्लः। पिल्ले अस्य स्तः--पिल्ल ःथ्द्य;ति।।
-5-2-35- पुष्करादिभ्यो देशे (2153)
(5792 उपसंख्यानवार्तिकम्।। 1 ।।)
- ःथ्द्य;नि प्रकारणे बलाद्बाहूरूपूर्वपदादुपसंख्यानम् -
(भाष्यम्) ःथ्द्य;नि प्रकरणे बलाद्वाहूरुपूर्वपदादुपसंख्यानं कर्तव्यम्। बाहुबली। ःढ़द्य;रुबली।।
(5793 उपसंख्यानवार्तिकम्।। 2 ।।)
- सर्वादेश्च -
(भाष्यम्) सर्वादेश्चेनिर्वक्तव्यः। सर्वधनी। सर्वबीजी। सर्वकेशी।।
(5794 उपसंख्यानवार्तिकम्।। 3 ।।)
- अर्थाच्चासंनिहिते -
(भाष्यम्) अर्थाच्चासन्निहिते ःथ्द्य;निर्वक्तव्यः। अर्थी।।
असंनिहित ःथ्द्य;ति किमर्थम्?
अर्थवान्।।
(5795 उपसंख्यानवार्तिकम्।। 4 ।।)
- तदन्ताच्च -
(भाष्यम्) तदन्ताच्चेति वक्तव्यम्। धान्यार्थी। हिरण्यार्थी।।
(एकदेशिनः तदन्ताच्च ःथ्द्य;ति वार्तिकाक्षेपसमाधानभाष्यम्)
किमर्थं तदन्तादित्युच्यते न तदन्तविधिना सिद्धम्?।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।
एवं तर्हि--ःथ्द्य;नन्तेन सह समासो भविष्यति। धान्येनार्थी--धान्यार्थी।
स हि समासो न प्राप्नोति।।
यदि पुनरयमर्थयतेर्णिनिः स्यात्, एवमपि क्रियामेव कुर्वाणे स्यात्। तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽभिप्रायेण गम्यते--अर्थी--अयमनेनेति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि अयमर्थशब्दोऽस्त्येव द्रव्यपदार्थकः।
तद्यथा--अर्थवानयं देश ःथ्द्य;त्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते।
अस्ति क्रियापदार्थको भावसाधनः--अर्थनमर्थ ःथ्द्य;ति।
तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम्। एवं च कृत्वाऽर्थिकप्रत्यर्थिकावपि सिद्धौ भवतः।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।।
।। पादश्च समाप्तः।।
-5-2-37- प्रमाणे द्वयसज्दघ्नञ्ञ्मात्रचः (2055)
(द्वजसजादिप्रत्ययाधिकरणम्)
(प्रमाणे ःथ्द्य;ति प्रकृत्यर्थविशेषणं प्रत्ययार्थविशेषणं वेति निर्धारणे श्लोकवार्तिकम्)
प्रमाण ःथ्द्य;ति किमयं प्रत्ययार्थः?
प्रमाणं प्रत्ययार्थो न ।
प्रमाणे ःथ्द्य;ति नायं प्रत्ययार्थः।
क्व तर्हि प्रत्यया भवन्ति?
तद्वति।
कुत एतत्?
अस्येत्यनुवर्तनात्।
क्व प्रकृतम्?
तदस्य संजातं, तारकादिभ्य ःथ्द्य;तज् (5।2।36) ःथ्द्य;ति।।
(प्रत्ययार्थनिर्धारकं श्लोकवार्तिकम्)
प्रथमश्च द्वितीयश्च ःढ़द्य;र्ध्वमाने मतौ मम।।
ःढ़द्य;रुद्वयसम्। ःढ़द्य;रुदघ्नम्।
प्रमाणे लः।
प्रमाणे लो वक्तव्यः। शमः, दिष्टिः, वितस्तिः।
द्विगोर्नित्यम्।
द्विगोर्नित्यं लो वक्तव्यः। द्विशमम्, त्रिशमम्। द्विदिष्टिः, त्रिदिष्टिः। द्विवितस्तिः, त्रिवितस्तिः।
किमर्थमिदमुच्यते?
संशये श्राविणं वक्ष्यति तस्यायं पुरस्तादपकर्षः।
डट् स्तोमे।
डट्र स्तोमे वक्तव्यः। पञ्ञ्चदशः स्तोमः।
शच्शनोर्डिनिः।
शच्शनोर्डिनिर्वक्तव्यः। त्रिंशिनो मासाः। पञ्ञ्चदशिनोऽर्धमासाः।
विंशतेश्चेति वक्तव्यम्। विंशिनोऽङि्गरसः।।
(संशये मात्रच्प्रत्ययविधायकं श्लोकवार्तिकम्)
प्रमाणपरिमाणाभ्यां
संख्यायाश्चापि संशये।।
मात्रज्वक्तव्यः। शममात्रम्। दिष्टिमात्रम्। कुडवमात्रम्। पञ्ञ्चमात्राः। दशमात्राः।।
(5717 स्वार्थे प्रत्ययविधिवार्तिकम्।। 1 ।।)
- वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् -
(भाष्यम्) वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलं वक्तव्यौ। तावदेव--तावद्द्वयसम्, तावन्मात्रम्। यावदेव--यावद्द्वयसम्, यावन्मात्रम्।।
प्रमाणं प्रत्ययार्थो न
तद्वत्यस्येति वर्तनात्।
प्रथमश्च द्वितीयश्च
ःढ़द्य;र्ध्वमाने मतौ मम।।
प्रमाणे लो द्विगोर्नित्यं
डट्स्तोमे शच्शनोर्डिनिः।
प्रमाणपरिमाणाभ्यां
संख्यायाश्चापि संशये।।
-5-2-39- यत्तदेतेभ्यः परिमाणे वतुप् (2057)
(वतुप्प्रत्ययाधिकरणम्)
(परिमाणग्रहणाक्षेपभाष्यम्)
किमर्थं परिमाण ःथ्द्य;त्युच्यते, न प्रमाण ःथ्द्य;ति वर्तते?
(एकदेशिनः प्रयोजनभाष्यम्)
एवं तर्हि सिद्धे सति यत्परिमाणग्रहणं करोति तज्ज्ञापयत्याचार्यः--अन्यत् प्रमाणम्, अन्यत्परिमाणमिति।।
(ज्ञापकासंभवप्रदर्शकं श्लोकभाष्यम्)
डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते।
नैतज् ज्ञापकसाध्यमन्यत्प्रमाणमन्यत्परिमाणमिति। उक्तोऽत्र विशेषः।।
मात्राद्यप्रतिघाताय।
एवं च कृत्वा मात्रादीनां प्रतिघातो न भवति।।
भावः सिद्धश्च डावतोः।
डावत्वन्ताच्च मात्रजादीनां भावः सिद्धो भवति।।
(5718 सादृश्ये वतुब्विधिवार्तिकम्।। 1 ।।)
- वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम् -
(भाष्यम्) वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानं कर्तव्यम्। न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। त्वावतः पुरुवसो। यज्ञं विप्रस्य मावतः। त्वत्सदृशस्य मत्सदृशस्येति।।
डावतावर्थवैशेष्या-
न्निर्देशः पृथगुच्यते।
मात्राद्यप्रतिघाताय
भावः सिद्धश्च डावतोः।।
--5-2-40- किमिदंभ्यां वो घः (2058)
(किमिदंभ्यां वतुप्ज्ञापकभाष्यम्)
केन विहितस्य किमिदंभ्यां वतुपो वो घत्वमुच्यते?
एतदेव ज्ञापयत्याचार्यः--भवति किमिदंभ्यां वतुप् ःथ्द्य;ति, यदयं किमिदंभ्यामुत्तरस्य वतुपो वो घत्वं शास्ति।।
(योगविभागेन वतुप्साधकभाष्यम्)
अथवा योगविभागः करिष्यते--
किमिदंभ्याम्।
वतुब् भवति। ततः--
वो घः। ःथ्द्य;ति।
वश्चास्य घो भवतीति।।
-5-2-41- किमः संख्यापरिमाणे डति च (2059)
(पूर्वपक्षिण उपसंख्यानभाष्यम्)
बहुष्विति वक्तव्यम्। ःथ्द्य;ह मा भूत्--कियान्, कियन्तौ।
तत्तर्हि वक्तव्यम्।।
(सिद्धान्तभाष्यम्)
न वक्तव्यम्। किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चानिर्ज्ञाते, अनिर्ज्ञातं च बहुषु। द्व्येकयोः पुनर्निज्ञातम्। निर्ज्ञातत्वाद् द्वयेकयोः परिप्रश्नो न भवति। परिप्रश्नाभावात् किमेव तावन्नास्ति कुतः प्रत्ययः।।
-5-2-42- संख्याया अवयवे तयप् (2060)
(तयप्प्रत्ययाधिकरणम्)
(संख्याशब्देन कस्याग्रहणमितिनिर्णयभाष्यम्)
ःथ्द्य;ह कस्मान्न भवति--बहवोऽवयवा अस्याः संख्याया ःथ्द्य;ति?
अवयवे या संख्या ःथ्द्य;त्युच्यते, न च काचित्संख्याऽस्ति यस्या बहुशब्दोऽवयवः स्यात्।
ननु चेयमस्ति--संख्येत्येव।
नैषा संख्या, संज्ञैषा।।
(5719 अवयविनि तयब्विधिवार्तिकम्।। 1 ।।)
- अवयवविधानेऽवयविनि प्रत्ययः -
(भाष्यम्) अवयवविधानेऽवयविनि प्रत्ययो भवतीति वक्तव्यम्।
ःथ्द्य;ह मा भूत्--पञ्ञ्चावयवाः, दशावयवाः--ःथ्द्य;ति।।
(आक्षेपपूर्वकं वार्तिकान्यथासिद्धिसाधकं भाष्यम्)
अथ अवयविनीत्युच्यमानेऽवयवस्वामिनि कस्मान्न भवति--पञ्ञ्च पश्ववयवा देवदत्तस्येति?
अवयवशब्दोऽयं गुणशब्दः, अस्येति च वर्तते। तेन यं प्रत्यवयवो गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम्।
कं च प्रत्यवयवो गुणः?
समुदायम्।।
यद्येवमवयविनीत्यपि न वक्तव्यम्।
अवयवेषु कस्मान्न भवति?
अस्येति वर्तते।।
-5-2-44- उभादुदात्तो नित्यम् (1062)
(उदात्तपदाक्षेपप्रयोजनभाष्यम्)
किमर्थमुदात्त ःथ्द्य;त्युच्यते?
उदात्तो यथा स्यात्।
नैतदस्ति प्रयोजनम्, प्रत्ययस्वरेणाप्येष स्वरः सिद्धः।
न सिध्यति। चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं प्रसज्येत।
(उदात्तपदसार्मथ्यादिष्टार्थबोधकभाष्यम्)
अथ उदात्त ःथ्द्य;त्युच्यमाने कुत एतत्--आदेरुदात्तत्वं भविष्यति न पुनरन्तस्येति।
उदात्तवचनसार्मथ्यात् यस्याप्राप्तः स्वरस्तस्य भविष्यति।
कस्य चाप्राप्तः?
आदेः।
अन्तस्य पुनश्चित्स्वरेणैव सिद्धम्।।
-5-2-45- तदस्मिन्नधिकमिति दशान्ताड्डः (2063)
(डप्रत्ययाधिकरणम्)
(अधिकपदाक्षेपसमाधानभाष्यम्)
ःथ्द्य;ह कस्मान्न भवति--एकादश माषा अधिका अस्मिन् कार्षापणशत ःथ्द्य;ति?
अधिके समानजातौ
समानजातावधिक ःथ्द्य;ष्यते।
अथेह कस्मान्न भवति--एकादश कार्षापणा अधिका अस्यां कार्षापणत्रिंशति--ःथ्द्य;ति?
ःथ्द्य;ष्टं शतसहस्रयोः।
शतसहस्रयोरधिक ःथ्द्य;ष्यते।
अथेहैकादशं शतसहस्रमिति कस्याधिक्ये भवितव्यम्?
यस्य संख्या तदाधिक्ये
डः कर्तव्यो मतो मम ।।
यदि तावच्छतानि संख्यायन्ते शताधिक्ये भवितव्यम्, अथ सहस्राणि संख्यायन्ते सहस्राधिक्ये भवितव्यम्।।
(5720 ःथ्द्य;ष्टसिद्धौ सूत्रस्यासार्मथ्यबोधकवार्तिकम्।। 1 ।।)
- डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः -
(भाष्यम्) डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः। अगमको निर्देशोऽनिर्देशः। नह्येकादशानां शतमधिकरणम्।।
(5721 अन्यथानिर्देशेन समाधानवार्तिकम्।। 2 ।।)
- सिद्धं तु पञ्ञ्चमीनिर्देशात् -
(भाष्यम्) सिद्धमेतत्।
कथम्? पञ्ञ्चमीनिर्देशः कर्तव्यः--तदस्मादधिकमिति।।
(वार्तिकद्वयान्यथासिद्धिसाधकभाष्यम्)
स तर्हि पञ्ञ्चमीनिर्देशः कर्तव्यः।
न कर्तव्यः। यद्यपि तावद्वैषयिके व्यापके वाऽधिकरणत्वे संभवो नास्ति, औपश्लेषिकमधिकरणं विज्ञास्यते--एकादश कार्षापणा उपश्लिष्टा अस्मिञ्ञ्छते--एकादशं शतम्।।
अधिके समानजाताविष्टं शतसहस्रयोः.
यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ।। 1 ।।
-5-2-46- शदन्तविंशतेश्च (2064)
(908 विधिसूत्रम् ।। 5 । 2 । 1 आ. 22)
(अन्तग्रहणाक्षेपभाष्यम्)
किमर्थं शद्ग्रहणेऽन्तग्रहणम्?
(5722 अन्तग्रहणप्रयोजनवार्तिकम्।। 1 ।।)
- शद्ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिकार्थम् -
(भाष्यम्) शद्ग्रहणेऽन्तग्रहणं क्रियते प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीति ःथ्द्य;ह न प्राप्नोति--एकत्रिंशं शतम्। ःथ्द्य;ष्यते चात्रापि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति-अन्तग्रहणमेवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतम्।
किं तर्हीति?
(5723 उपसंख्यानवार्तिकम्।। 2 ।।)
- संख्याग्रहणं च -
(भाष्यम्) संख्याग्रहणं च कर्तव्यम्। ःथ्द्य;ह मा भूत्--गौत्रिंशदधिका अस्मिञ्ञ् शत ःथ्द्य;ति।।
(5724 उपसंख्यानवार्तिकम्।। 3 ।।)
- विंशतेश्च -
(भाष्यम्) विंशतेश्चान्तग्रहणं कर्तव्यम्। ःथ्द्य;हापि यथा स्यात्--एकविंशं शतम्।
चकारात्संख्याग्रहणं च कर्तव्यम्। ःथ्द्य;ह मा भूत्-गोविंशतिरधिका अस्मिञ्ञ्शत ःथ्द्य;ति।।
-5-2-47- संख्याया गुणस्य निमाने मयट् (2065)
(मयट्प्रत्ययाधिकरणम्)
(5725 उपसंख्यानवार्तिकम्।। 1 ।।)
- निमाने गुणिनि -
(भाष्यम्) निमाने गुणिनीति वक्तव्यम्।
किं प्रयोजनम्?
गुणेषु मा भूत्।।
(5726 उपसंख्यानवार्तिकम्।। 2 ।।)
- भूयसः -
(भाष्यम्) भूयस ःथ्द्य;ति च वक्तव्यम्।
किं प्रयोजनम्?
भूयसो वाचिकायाः संख्याया उत्पत्तिर्यथा स्यात्, अल्पीयसो वाचिकायाः संख्याया उत्पत्तिर्मा भूदिति।।
(5727 उपसंख्यानवार्तिकम्।। 3 ।।)
- एकोऽन्यतरः -
(भाष्यम्) एकश्चेदन्यतरो भवतीति वक्तव्यम्। ःथ्द्य;ह मा भूत्-द्वौ यवानां त्रय उदश्वित ःथ्द्य;ति।।
(5728 उपसंख्यानवार्तिकम्।। 4 ।।)
- समानानाम् -
(भाष्यम्) समानानां चेति वक्तव्यम्। ःथ्द्य;ह मा भूत्--एको यवानामध्यर्धमुदश्वित ःथ्द्य;ति।
तत्तर्हीदं बहु वक्तव्यम्।
न वक्तव्यम्।
(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)
यत्तावदुच्यते--गुणिनीति वक्तव्यमिति,
न वक्तव्यम्।
गुणेषु कस्मान्न भवति?
अस्येति वर्तते।।
(द्वितीयवार्तिकप्रत्याख्यानभाष्यम्)
यदुक्तं--भूयस ःथ्द्य;ति वक्तव्यम् ःथ्द्य;ति,
न वक्तव्यम्।
अल्पीयसो वाचिकायाः संख्याया उत्पत्तिः कस्मान्न भवति?
अनभिधानात्।।
(तृतीयवार्तिकप्रत्याख्यानभाष्यम्)
यदुक्तम्--कश्चेदन्यतरो भवतीति वक्तव्यम् ःथ्द्य;ति,
न वक्तव्यम्।
कस्मान्न भवति--द्वौ यवानां त्रय उदश्वित ःथ्द्य;ति?
तन्त्रं विभक्तिनिर्देशः।।
(चतुर्थवार्तिकप्रत्याख्यानभाष्यम्)
यदप्युच्यते--समानानामिति वक्तव्यमिति,
न वक्तव्यम्।
कस्मान्न भवति--एको यवानामध्यर्द्धमुदश्वित ःथ्द्य;ति?
अनभिधानात्।।
(5729 अतिव्याप्तिदर्शकं वार्तिकम्।। 5 ।।)
- निमेये चापि दृश्यते -
(भाष्यम्) निमेये चापि प्रत्ययो दृश्यते--द्विमया यवाः। त्रिमयाः।
(निमाननिमेयपदार्थबोधकं भाष्यम्)
किं पुनरिह निमानम्, किं निमेयम्?
यावता उभयं त्यज्यते।
सत्यमेवमेतत्। क्वचित्तुकाचित्प्रसृततरा गतिर्भवति। तद्यथा--समाने त्यागे धान्यं विक्रीणीते यवान् विक्रीणीते ःथ्द्य;त्युच्यते, न कश्चिदाह कार्षापणं विक्रीणीत ःथ्द्य;ति।
अथवा येनाधिगम्यते तन्निमानम्, यदधिगम्यते तन्निमेयम्।।
-5-2-48- तस्य पूरणे डट् (2066)
(डटोऽधिकरणम्)
(5730 अतिप्रसङ्गापादकवार्तिकम्।। 1 ।।)
- तस्य पूरण ःथ्द्य;त्यतिप्रसङ्गः -
(भाष्यम्) तस्य पूरण ःथ्द्य;त्यतिप्रसङ्गो भवति। ःथ्द्य;हापि प्राप्नोति--पञ्ञ्चानामुष्ट्रिकाणां पूरणो घट ःथ्द्य;ति।।
(5731 अतिप्रसङ्गनिरासवार्तिकम्।। 2 ।।)
- सिद्धं तु संख्यापूरण ःथ्द्य;ति वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
संख्यापूरण ःथ्द्य;ति वक्तव्यम्।
एवमपि घटे प्राप्नोति, संख्येयं ह्यसावदि्भः पूरयति।
संख्यापूरण ःथ्द्य;ति ब्रूमः, न ब्रूमः संख्येयपूरण ःथ्द्य;ति।।
(5732 प्रकारान्तरेणातिप्रसङ्गनिरासवार्तिकम्।। 3 ।।)
- यस्य वा भावादन्यसंख्यत्वं तत्र -
(भाष्यम्) अथ वा यस्य भावादन्या संख्या प्रवर्तते तत्रेति वक्तव्यम्। एवमपि द्वितीयेऽध्याये अष्टम ःथ्द्य;ति प्राप्नोति, सर्वेषां हि तेषां भावात्संख्या प्रवर्तते।
चरमोपजाते पूर्वस्मिंश्चानपगते ःथ्द्य;ति वक्तव्यम्।
एवमपि एकादशीद्वादश्यौ सौविष्टकृती, ःथ्द्य;दं द्वितीयमिदं तृतीयं, दश दशमानि--ःथ्द्य;ति न सिध्यति, सूत्रं च भिद्यते।।
(वार्तिकप्रत्याख्यानभाष्यम्)
यथान्यासमेवास्तु। ननु चोक्तं तस्य पूरण ःथ्द्य;त्यतिप्रसङ्गः ःथ्द्य;ति।
परिहृतमेतत्--सिद्धं तु संख्यापूरण ःथ्द्य;ति वचनादिति।
तत्तर्हि संख्याग्रहणं कर्तव्यम्?
न कर्तव्यम्। प्रकृतमनुवर्तते।
क्व प्रकृतम्?
संख्याया गुणस्य निमाने मयट् (47) ःथ्द्य;ति।
एवं तर्हि नेयं वृत्तिरुपालभ्यते।
किं तर्हि?
वृत्तिस्थानमुपालभ्यते।।
वृत्तिरेवात्र न प्राप्नोति।
किं कारणम्?
प्रत्ययार्थाभावात्।
नैष दोषः।
वचनात्स्वार्थिको भविष्यति।
अथवा पूर्वस्याः संख्यायाः परापेक्षयोत्पत्तिर्वक्तव्या। उत्तरा च संख्या आदेशो वक्तव्यः।।
अथवा न्यूनेऽयं कृत्स्नशब्दो द्रष्टव्यः। चतुर्षु पञ्ञ्चशब्दः।।
अथवा सर्व एव द्व्यादयोऽन्योन्यमपेक्षन्ते।
यद्येवं द्वितीयेऽध्याये अष्टम ःथ्द्य;ति प्राप्नोति।
भवत्येव।।
(वृत्त्युंपालम्भमारभ्यार्थस्य संग्रहश्लोकाः)
प्रकृत्यर्थाद्वहिः सर्वा वृत्तिः प्रायेण लक्ष्यते।
पूरणे स्यात्कथं वृत्तिर्वचनादिति लक्ष्यताम्।। 1 ।।
तस्याः पूर्वा तु या संख्या तस्यां भवतु तद्धितः।
आदेशश्चोत्तरा संख्या तथा न्याय्या भविष्यति।। 2 ।।
न्यूने वा कृत्स्नशब्दोऽयम्पूर्वस्यामुत्तरा यदि।
सार्मथ्यं च तया तस्यास्तथा न्याय्यं भविष्यति।। 3 ।।
अन्योन्यं वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयो यदि।
प्रवर्तन्ते तथा न्याय्या वृत्तिर्भवति पूरणे।। 4 ।।
बहूनां वाचिका संख्या पूरणश्चैक ःथ्द्य;ष्यते।
अन्यत्वादुभयोर्न्याय्या वार्क्षी शाखा निदर्शनम्।। 5 ।।
-5-2-49- नान्तादसंख्यादेर्मट् (2067)
(5736 निर्देशानुपपत्तिबोधकवार्तिकम्।। 1 ।।)
- मडादिषु यस्यादिस्तन्निर्देशः -
(भाष्यम्) मडादिषु यस्यादिः क्रियते तन्निर्देशः कर्तव्यः। अस्यादिर्भवतीति वक्तव्यम्।
अक्रियमाणे प्रत्ययाधिकारात्प्रत्ययोऽयं विज्ञायते।
तत्र को दोषः?
(5734 तादृशे निर्देशे दोषवार्तिकम्।। 2 ।।)
- प्रत्ययान्तरे हि सति स्वरे दोषः -
(भाष्यम्) प्रत्ययान्तरे हि सति स्वरे दोषः स्यात्। विंशतितमः--एष स्वरः प्रसज्येत। विंशतितम ःथ्द्य;ति चेष्यते।
स तर्हि तथा निर्देशः कर्तव्यः।।
(वार्तिकद्वयप्रत्याख्यानभाष्यम्)
न कर्तव्यः। प्रकृतं डड्ग्रहणमनुवर्तते।
क्व प्रकृतम्?
तस्य पूरणे डट् (48) ःथ्द्य;ति।।
तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः।।
नान्तादित्येषा पञ्ञ्चमी डडितिप्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1।1।67) ःथ्द्य;ति।।
प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति।
नायं प्रत्ययविधिः विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।
-5-2-51- षट्कतिकतिपयचतुरां थुक् (2069)
(5735 उपसंख्यानवार्तिकम्।। 1 ।।)
- चतुरश्छयतावाद्यक्षरलोपश्च -
(भाष्यम्) चतुरश्छयतौ वक्तव्यौ, आद्यक्षरलोपश्च वक्तव्यः। तुरीयम्। तुर्यम्।।
(वार्तिकावतरणभाष्यम्)
अथ किमर्थं थट्थुकौ पृथक् क्रियेते। न सर्वं थडेव वा स्यात् थुगेव वा।।
(5736 पृथगनुबन्धप्रयोजनवार्तिकम्।। 2 ।।)
- थट्थुकोः पृथक्करणं पदान्तविधिप्रतिषेधार्थम् -
(भाष्यम्) थट्थुकोः पृथग्ग्रहणं क्रियते पदान्तविधिप्रतिषेधार्थम्। पदान्तविध्यर्थम्, पदान्तप्रतिषेधार्थं च।
पदान्तविध्यर्थं तावत्--पर्णमयानि पञ्ञ्चथानि भवन्ति, रथः सप्तथः। पदान्तस्येति नलोपो यथा स्यात्।
पदान्तप्रतिषेधार्थम्--षष्ठः। पदान्तस्येति जश्त्वं मा भूत्।
ःथ्द्य;ह--चतुर्थ ःथ्द्य;ति, पदान्तस्येति विसर्जनीयो मा भूदिति।।
-5-2-52- बहुपूगगणसङ्घस्य तिथुक् (2070)
(5737 उपसंख्यानवार्तिकम्।। 1 ।।)
- बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः -
(भाष्यम्) बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिर्वक्तव्या। ःथ्द्य;हापि यथा स्यात्--बह्वीनां पूरणी बहुतिथी। कतिपयानां पूरणी कतिपयतिथी। तावतीनां पूरणी तावतिथी।।
(वार्तिकान्यथासिद्धिसाधकभाष्यम्)
बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सिद्धा।
कथम्?
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति।।
(5738 उपसंख्यानवार्तिकम्।। 2 ।।)
- पुंवद्वचनं च -
(भाष्यम्) पुंवद्भावश्च वक्तव्यः। बह्वीनां पूरणी बहुतिथी।
किमर्थम्? न भस्याढे तद्धिते पुंवद्भवतीति सिद्धम्।
भस्येत्युच्यते, यजादौ च भं भवति। न चात्र यजादिं पश्यामः।
किं कारणम्? तिथुका व्यवहितत्वान्न प्राप्नोति।।
(वार्तिकान्यथासिद्धौ सिद्धान्तभाष्यम्)
ःथ्द्य;दमिह संप्रधार्यम्--तिथुक् क्रियतां पुंवद्भाव ःथ्द्य;ति।
किमत्र कर्तव्यम्?
परत्वात्पुंवद्भावः।
नित्यस्तिथुक्, कृतेऽपि पुंवद्भावे प्राप्नोति, अकृतेऽपि प्राप्नोति।
तिथुगप्यनित्यः। अन्यस्य कृते पुंवद्भावे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति।
अन्तरङ्गस्तर्हि तिथुक्।
काऽन्तरङ्गता?
उत्पत्तिसंनियोगेन तिथुगुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्य पुंवद्भावः।
पुंवद्भावोऽप्यन्तरङ्गः।
कथम्?
उक्तमेतत् सिद्धश्च प्रत्ययविधौ ःथ्द्य;ति।
उभयोरन्तरङ्गयोः परत्वात्पुंवद्भावः, पुंवद्भावे कृते पुनः प्रसङ्गविज्ञानात् तिथुक् सिद्धः। बहुतिथी।।
-5-2-58- षष्टदेश्चासंख्यादेः (2076)
(पदकृत्यभाष्यम्)
असंख्यादेरिति किमर्थम्?
ःथ्द्य;ह मा भूत्--एकषष्टः, द्विषष्टः।।
(असङ्ख्यादिपदस्य वैर्यथ्यबोधकभाष्यम्)
असंख्यादेरिति शक्यमवक्तुम्।
कस्मान्न भवति--एकषष्टः, द्विषष्ट ःथ्द्य;ति?
षष्टिशब्दात्प्रत्ययो विधीयते, कः प्रसङ्गो यदेकषष्टिशब्दात्स्यात्। नैव प्राप्नोति नार्थः प्रतिषेधेन।
तदन्तविधिना प्राप्नोति।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।।
(असङ्ख्यादिपदस्य ज्ञापकत्वबोधकभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--भवतीह तदन्तविधिरिति।
किमेतस्य ज्ञापने प्रयोजनम्?
एकविंशतितमः-एतत्सिद्धं भवति।।
-5-2-59- मतौ छः सूक्तसाम्नोः (2077)
(छप्रत्ययाधिकरणम्)
(5739 एकदेशिवार्तिकम्।। 1 ।।)
- छप्रकरणे अनेकपदादपि -
(भाष्यम्) छप्रकरणेऽनेकपदादपीति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्--अस्यवामीयम्। कयाशुभीयम्।
किं पुनः कारणं न सिध्यति?
अप्रातिपदिकत्वात्।।
(5740 सिद्धान्तवार्तिकम्।। 2 ।।)
- सिद्धं तु प्रातिपदिकविज्ञानात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
प्रातिपदिकविज्ञानात्।
कथं प्रातिपदिकविज्ञानम्?
(5741 सिद्धान्तोपपादकवार्तिकम्।। 3 ।।)
- स्वं रूपं शब्दस्याशब्दसंज्ञेति वचनात् -
(भाष्यम्) स्वं रूपं शब्दस्याशब्दसंज्ञा भवतीति। एवं योऽसावाम्नाये अस्यवामशब्दः पठ्यते सोऽस्य पदार्थः।।
(आम्नायशब्दानां आन्यभाव्यावतरणभाष्यम्)
किं पुनरन्ये आम्नायशब्दाः, अन्य ःथ्द्य;मे।
ओमित्याह।
कुत एतत्?
(5742 आम्नायशब्दानां भेदोपपादकवार्तिकम्।। 4 ।।)
- आम्नायशब्दानामान्यभाव्यं स्वरवर्णानुपूर्वीदेशकालनियतत्वात्-
(भाष्यम्) आम्नायशब्दानामान्यभाव्यम्--अन्यभावः सिद्धः।
कथम्?
स्वरवर्णानुपूर्वीदेशकालनियतत्वात्।
स्वर--स्वरो नियत आम्नाये--अस्यवामशब्दस्य।
वर्णानुपूर्वी--वर्णानुपूर्वी खल्वप्याम्नाये नियता--अस्यवामशब्दस्य।
देशः--देशः खल्वप्याम्नाये नियतः, श्मशाने नाध्येयम्, चतुष्पथे नाध्येयमिति।
कालः--कालः खल्वप्याम्नाये नियतः, नामावास्यायामधीयीत, न चतुर्दश्यामिति।।
(5643 आम्नाये भेदोपपादकवार्तिकम्।। 5 ।।)
- पदैकदेशसुबलोपदर्शनाच्च -
(भाष्यम्) पदैकदेशः खल्वप्याम्नाये दृश्यते--अस्यवामीयम्।
ननु चैष सुब्लोपः स्यात्।
सुबलोपदर्शनाच्च। सुबलोपः खल्वपि दृश्यते--अस्यवामीयमिति।
(तस्मादन्ये आम्नायशब्दा अन्य ःथ्द्य;मे।)
यदि तर्हि अन्य आम्नायशब्दा अन्य ःथ्द्य;मे, मत्वर्थो नोपपद्यते--अस्यवामशब्दोऽस्मिन्नस्तीति।
न संज्ञा संज्ञिनं व्यभिचरति।।
-5-2-60- अध्यायानुवाकयोर्लुक् (2078)
(लुगधिकरणम्)
(5644 विकल्पोपसंख्यानवार्तिकम्।। 1 ।।)
- अध्यायानुवाकाभ्यां वा लुक् -
(भाष्यम्) अध्यायानुवाकाभ्यां वा लुग्वक्तव्यः। स्तम्भः, स्तम्भीयः। गर्दभाण्डः, गर्दभाण्डीयः। अनुकः, अनुकीयः।।
-5-2-65- धनहिरण्यात्कामे (2083)
(कन्प्रत्ययाधिकरणम्)
(5645 एकदेश्युपसंख्यानवार्तिकम्।। 1 ।।)
- धनहिरण्यात्कामाभिधाने -
(भाष्यम्) धनहिरण्यात्कामाभिधान ःथ्द्य;ति वक्तव्यम्।।
(5646 अनिष्टोपत्तिप्रदर्शकवार्तिकम्।। 2 ।।)
- षष्ठ्यर्थे ह्यनिष्टप्रसङ्गः -
(भाष्यम्) षष्ठ्यर्थे हि सति अनिष्टं प्राप्नोति। धने कामोऽस्येति।
तत्तर्हि वक्तव्यम्?
(सिद्धान्तभाष्यम्)
न वक्तव्यम्।
कस्मान्न भवति--धने कामोऽस्येति।
अनभिधानात्।।
-5-2-72- शीतोष्णाभ्यां कारिणि (2090)
(शीतोष्णशब्दयोर्मुख्यार्थेऽनिष्टापत्तिदर्शकभाष्यम्)
किं यः शीतं करोति स शीतकः, यो वा उष्णं करोति स उष्णकः?
किं चातः?
तुषारे आदित्ये च प्राप्नोति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि--उत्तरपदालोपोऽत्र द्रष्टव्यः। शीतमिव शीतम्। उष्णमिवोष्णम्। य आशु कर्तव्यानर्थांश्चिरेण करोति स उच्यते--शीतक ःथ्द्य;ति। यः पुनरांशु कर्तव्यानर्थानाश्वेव करोति स उच्यते--उष्णक ःथ्द्य;ति।।
-5-2-73- अधिकम् (2091)
(एकदेशिन आक्षेपभाष्यम्)
अधिकमिति किं निपात्यते?
(समाधानभाष्यम्)
अध्यारूढस्योत्तरपदलोपः कंश्च प्रत्ययः। अध्यारूढम्--अधिकम्--ःथ्द्य;ति।
भवेत्सिद्धम्--अध्यारूढो द्रोणः खार्याम्, अधिको द्रोणः खार्यामिति।
ःथ्द्य;दं तु न सिध्यति--अध्यारूढा द्रोणेन खारी, अधिका द्रोणेन खारीति। गत्यर्थानां हि क्तः कर्तरि विधीयते।
गत्यर्थानां वै क्तः कर्मण्यपि विधीयते।।
-5-2-75- पार्श्वेनान्विच्छति (2093)
(एकदेशिभाष्यम्)
किं यः पार्श्वेनान्विच्छति स पार्श्वकः?
कि चातः?
राजपुरुषे प्राप्नोति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि उत्तरपदलोपोऽत्र द्रष्टव्यः। पार्श्वमिव पार्श्वम्। य ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनोपायेनान्विच्छति स उच्यते--पार्श्वक ःथ्द्य;ति।।
-5-2-76- अयःशूलदण्डाजिनाभ्यां ठक्ठञ्ञौ (2094)
(ठक्ठञ्ञोरधिकरणम्)
(आक्षेपभाष्यम्)
किं योऽयःशूलेनान्विच्छति स आयःशूलिकः?
किं चातः?
शिवभागवते प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हि उत्तरपदलोपोऽत्र द्रष्टव्यः। अयः शूलमिव--अयःशूलं। यो मृदुनोपायेनान्वेष्टव्यानर्थान् रभसेनान्विच्छति स उच्यते--आयःशूलिकः।।
-5-2-77- तावतिथं ग्रहणमिति लुग्वा (2095)
(कनोऽधिकरणम्)
(5747 लुग्ग्रहणाक्षेपवार्तिकम्।। 1 ।।)
- तावतिथं ग्रहणमिति लुग्वावचनानर्थक्यं विभाषाप्रकरणात् -
(भाष्यम्) तावतिथं ग्रहणमिति लुग्वावचनमनर्थकम्।
किं कारणम्?
विभाषाप्रकरणात्। प्रकृता महाविभाषा, तयैतत्सिद्धम्।।
(5748 उपसंख्यानवार्तिकम्।। 2 ।।)
- तावतिथेन गृह्णातीति लुक् च -
(भाष्यम्) तावतिथेन गृह्णातीत्युपसंख्यानं कर्तव्यं लुक् च वक्तव्यः। षष्ठेन गृह्णाति षट्कः।।
-5-2-79- श्रृङ्खलमस्य बन्धनं करभे (2095)
(5749 निर्देशाक्षेपवार्तिकम्।।1।।)
शृङ्खलमस्य बन्धनं करभ ःथ्द्य;त्यनिर्देशः।।
शृङ्खलमस्य बन्धनं करभे ःथ्द्य;त्यनिर्देशः। अगमको निर्देशोऽनिर्देशः । न हि तस्य शृङ्खलं बन्धनम्, शृङ्खवत्याऽसौ रज्ज्वा बध्यते।।
(5750 समाधानवार्तिकम्।।2।।)
सिद्धं तु तद्विन्निर्देशाल्लुक् च ।।
सिद्धमेतत्। कथम् ? तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः--शृङ्खलवद्वन्धनमिति। तद्वन्निर्देशः कर्तव्यः, लुक् च वक्तव्यः--शृङ्खलवद्वन्धनमिति। स तर्हि तद्वन्निर्देशः कर्तव्यः।
न कर्तव्यः । ःथ्द्य;ह यन्नान्तरेण यस्य प्रवृत्तिर्भवति तत्तस्य निमित्तत्वाय कल्पते। न चान्तरेण शृङ्खलं
बन्धनं प्रवर्तते। अथवा साहचर्यात्ताच्छब्द्यं भविष्यति--शृङ्खलसहचरितं बन्धनं शृङ्खलं बन्धनमिति।।
-5-2-82- तदस्मिन्नन्नं प्राये संज्ञायाम् (2100)
(5751 उपसंख्यानवार्तिकम्।। 1 ।।)
- प्राये संज्ञायां वटकेभ्य ःथ्द्य;निः -
(भाष्यम्) प्राये संज्ञायां वटकेभ्य ःथ्द्य;निर्वक्तव्यः। वटकिनी पौर्णमासी।।
-5-2-84- श्रोत्रियंश्छन्दोऽधीते (2102)
(घप्रत्ययनिपातनाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
किं निपात्यते?
(5752 सूत्रार्थोपोद्बलकवार्तिकम्।। 1 ।।)
- श्रोत्रियंश्छन्दोऽधीत ःथ्द्य;ति वाक्यार्थे पदवचनम् -
(भाष्यम्) छन्दोऽधीत ःथ्द्य;त्यस्य वाक्यस्यार्थे श्रोत्रियन् ःथ्द्य;त्येतत्पदं निपात्यते।।
(5753 प्रकारान्तरवर्णनवार्तिकम्।। 2 ।।।)
- छन्दसो वा श्रोत्रभावः, तदधीत ःथ्द्य;ति घंश्च -
(भाष्यम्) छन्दसो वा श्रोत्रभावो निपात्यते, तदधीते ःथ्द्य;त्यस्मिन्नर्थे घंश्च प्रत्ययः। छन्दोऽधीते--श्रोत्रियः।।
-5-2-85- श्राद्धमनेन भुक्तमिनिठनौ (2103)
(ःथ्द्य;निठनोरधिकरणम्)
(5754 एकदेशिन उपसंख्यानवार्तिकम्।। 1 ।।)
- ःथ्द्य;निठनोः समानकालग्रहणम् -
(भाष्यम्) ःथ्द्य;निठनोः समानकालग्रहणं कर्तव्यम्। अद्य भुक्ते श्वः श्राद्धिक ःथ्द्य;ति मा भूत्।।
(5755 सिद्धान्तवार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति।।
-5-2-91- साक्षाद् द्रष्टरि संज्ञायाम् (2109)
(सूत्रार्थनिश्चायकभाष्यम्)
संज्ञायामिति किमर्थम्?
त्रिभिः साक्षाद् द्रष्टव्यं भवति--यश्च ददाति, यस्मै च दीयते, यश्चोपद्रष्टा, तत्र सर्वत्र प्रत्ययः प्राप्नोति।
संज्ञाग्रहणसार्मथ्याद्धनिकान्तेवासिनोर्न भवति।।
-5-2-92- क्षेत्रियच्परक्षेत्रे चिकित्स्यः(2110)
(निपातनाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
किं निपात्यते?
(5756 सूत्रार्थज्ञापकवार्तिकम्।। 1 ।।)
- क्षेत्रियः श्रोत्रियवत् -
(भाष्यम्) क्षेत्रियः श्रोत्रियवन्निपात्यते। परक्षेत्रे चिकित्स्य ःथ्द्य;त्येतस्य वाक्यस्यार्थे क्षेत्रियच् ःथ्द्य;त्येतत्पदं निपात्यते।।
(5757 प्रकारान्तरेण सूत्रार्थज्ञापकवार्तिकम्।। 2 ।।)
- परक्षेत्राद्वा तत्र चिकित्स्य ःथ्द्य;ति परलोपो घच्च -
(भाष्यम्) परक्षेत्राद्वा तत्र चिकित्स्य ःथ्द्य;त्येतस्मिन्नर्थे परलोपो निपात्यते घच्च प्रत्ययः। परक्षेत्रे चिकित्स्यः--क्षेत्रियः।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्।।
-5-2-94- तदस्यास्त्यस्मिन्निति मतुप् (2112)
(मतुप्प्रत्ययाधिकरणम्)
(पदकृत्यभाष्यम्)
किमर्थमिमावर्थावुभौ निर्दिश्येते--अस्य अस्मिन्निति, न यद्यस्य भवति तस्मिन्नपि तद् भवति, यच्च यस्मिन् भवति तत्तस्यापि भवति?
नैतयोरावश्यकः समावेशः। भवन्ति हि देवदत्तस्य गावः, न च तास्तस्मिन्नाधृता भवन्ति। भवन्ति च पर्वते वृक्षा न
च ते तस्य भवन्ति। तस्मात् अस्यास्मिन् ग्रहणम्।।
(अस्तिग्रहणाक्षेपभाष्यम्)
अथास्तिग्रहणं किमर्थम्?
(अस्तिग्रहणप्रयोजनभाष्यम्)
सत्तायामर्थे प्रत्ययो यथा स्यात्।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। न सत्तां पदार्थो व्यभिचरति।।
(प्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--संप्रति सत्तायां यथा स्यात्, भूतभविष्यत्सत्तायां मा भूत्। गावोऽस्यासन् गावोऽस्य भवितारः ःथ्द्य;ति।।
(अनिष्टनिवारकभाष्यम्)
न तर्हीदानीमिदं भवति--गोमानासीत्, गोमान् भवितेति।।
भवति, न त्वेतस्मिन् वाक्ये।
यद्येतस्मिन् वाक्ये स्यात्--यथेहास्तेः प्रयोगो न भवति गोमान् यवमान् ःथ्द्य;ति, एवमिहापि न स्यात्--गोमानासीत्, गोमान् भवितेति।
सति चाप्यस्तेः प्रयोगे यथेह बहुवचनं श्रूयते--गावोऽस्यासन्, गावोस्य भवितार ःथ्द्य;ति, एवमिहापि स्यात्--गोमानासीत्, गोमान् भवितेति।
का तर्हीयं वाचोयुक्तिः--गोमानासीत् गोमान् भवितेति।
एषैषा वाचो युक्तिः--नैषा गवां सत्ता कथ्यते।
किं तर्हि?
गोमत्सत्तैषा कथ्यते। अस्त्यत्र वर्तमानकालोऽस्तिः।
कथं तर्हि भूतभविष्यत्सत्ता गम्यते?
धातुसम्बन्धे प्रत्ययाः ःथ्द्य;ति।।
(प्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--अस्तियुक्ताद्यथा स्यात्, अनन्तरादियुक्तान्मा भूदिति। गावोऽस्यानन्तराः, गावोऽस्य समीप ःथ्द्य;ति।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेऽप्यस्तिग्रहणं ःथ्द्य;ह कस्मान्न भवति--गावोऽस्य सन्त्यनन्तराः, गावोऽस्य सन्ति समीप ःथ्द्य;ति?
(समाधानभाष्यम्)
असार्मथ्यात्।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति।।
(प्रत्याक्षेपभाष्यम्)
यथैव तर्हि क्रियमाणेऽस्तिग्रहणेऽसार्मथ्यादनन्तरादिषु न भवति, एवमक्रियमाणेऽपि न भविष्यति।।
(प्रत्याक्षेपनिरासभाष्यम्)
अस्त्यत्र विशेषः। क्रियमाणेऽस्तिग्रहणे नान्तरेण तृतीयस्य पदस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते। अक्रियमाणे
पुनरस्तिग्रहणे अन्तरेणापि तृतीयस्य पदस्य प्रयोगमनन्तरादयोऽर्था गम्यन्ते।।
(मतुप्प्रत्ययातिव्याप्तिनिवारकभाष्यम्)
अथेह कस्मान्न भवति--चित्रगुः शबलगुरिति?
बहुव्रीहिणोक्तत्वान्मत्वर्थस्य।।
(प्रत्ययातिव्याप्तिनिवारकभाष्यम्)
अथेह कस्मान्न भवति--चित्रा गावो यस्य सन्तीति?
कुतः कस्मान्न भवति? किमवयवात्, आहोस्वित्यसमुदायात्?
अवयवात्कस्मान्न भवति?
असार्मथ्यात्।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति।।
समुदायात्तर्हि कस्मान्न भवति?
अप्रातिपदिकत्वात्।
ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते। तद्यथा--सुप्सुपेति वर्तमाने अन्यस्य चान्यस्य च समासो भवति।
सत्यमेवमेतत्। आकृतिस्तु प्रत्येकं परिसमाप्यते। यावत्येतत्परिसमाप्यते ङ्याप्प्रातिपदिकादिति तावत उत्पत्त्या भवितव्यम्। अवयवे चैतत्परिसमाप्यते न समुदाये।।
(प्रत्ययातिव्याप्तिनिवारकभाष्यम्)
अथेह कस्मान्न भवति--पञ्ञ्च गावः सन्त्यस्प--पञ्ञ्चगुर्दशगुरिति?
प्रत्येकमसार्मथ्यात्, समुदायात्--अप्रातिपदिकत्वात्, समासात्--समासेनोक्तत्वात्।।
(आक्षेपभाष्यम्)
नैतत्सारम्। उक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितः। तद्यथा--द्वैमातुरः पाञ्ञ्चनापितिरिति।।
(समाधानभाष्यम्)
नैष द्विगुः।
कस्तर्हि?
बहुव्रीहिः।
अपवादत्वाद् द्विगुः प्राप्नोति।
अन्तरङ्गत्वाद्वहुव्रीहिर्भविष्यति।
काऽन्तरङ्गता?
अन्यपदार्थे बहुव्रीहिर्वर्तते, विशिष्टेऽन्यपदार्थे तद्धितार्थे द्विगुस्तस्मिंश्चास्य तद्धितेऽस्तिग्रहणं क्रियते।।
(प्रत्याक्षेपभाष्यम्)
यदि तर्हि अतिप्रसङ्गाः सन्तीति तद्धितविधावस्तिग्रहणं क्रियते, बहुव्रीहावप्यस्तिग्रहणं कर्तव्यमस्तियुक्ताद्यथा स्यादनन्तरादियुक्तान्मा भूदिति।
अथ न सन्ति, तद्धितविधावपि नार्थोऽस्ति ग्रहणेन।।
(प्रत्याक्षेपसमाधानभाष्यम्)
सत्यमेवमेतत्। क्रियते त्विदानीं तद्धितविधावस्तिग्रहणम्। तद्वै क्रियमाणमपि प्रत्ययविध्यर्थं, नोपाध्यर्थम्। अस्तिमानिति मुतब् यथा स्यात्।
किं च कारणं न स्यात्?
अप्रातिपदिकत्वात्।
नैष दोषः। अव्ययमेषोऽस्तिशब्दः, नैषोऽस्तेर्लट्।
कथमव्ययत्वम्?
विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा, निपातोऽव्ययमित्यव्ययसंज्ञा।
एवमपि न सिध्यति।
किं कारणम्?
अस्तिना सामानाधिकरण्ये मतुब् विधीयते, न चास्तेरस्तिना सामानाधिकरणम्यम्।।
तदेतत् क्रियमाणमपि प्रत्ययविध्यर्थं नोपाध्यर्थम्। तस्माद् द्विगोस्तद्धितस्य प्रतिषेधो वक्तव्यः, यदि तन्नास्ति सर्वत्र मत्वर्थे प्रतिषेधः ःथ्द्य;ति। सति हि तस्मिंस्तेनैतत्सिद्धम्।।
(मतुबन्तान्मतुप्प्रत्ययाभावोपपादकभाष्यम्)
अथ मत्वर्थीयान्मत्वर्थीयेन भवितव्यम्?
न भवितव्यम्।
किं कारणम्?
अर्थगत्यर्थः शब्दप्रयोगः। अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्।।
किं कारणम्?
उक्तार्थानामप्रयोग ःथ्द्य;ति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--दण्डिमती शाला, हस्तिमती उपत्यका ःथ्द्य;ति।।
(समाधानभाष्यम्)
भवति, अर्थान्तरे वृत्तादर्थान्तरे वृत्तिः। षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते, सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते।।
(प्रत्याक्षेपभाष्यम्)
अथ मत्वन्तान्मतुपा भवितव्यम्--गोमन्तोऽस्य सन्ति यवमन्तोऽस्य सन्तीति?
(प्रत्याक्षेपसमाधाने भाष्यम्)
न भवितव्यम्।
किं कारणम्?
यस्य गोमन्तः सन्ति, गावोऽपि तस्य सन्ति, तत्रोक्तो गोभिरभिसम्बन्धे प्रत्यय ःथ्द्य;ति कृत्वा तद्धितो न भविष्यति।
न तर्हीदानीमिदं भवति--दण्डिमती शाला, हस्तिमत्युपत्यकेति।
भवति, अर्थान्तरे वृत्ताद् अर्थान्तरे वृत्तिर्भविष्यति। षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते, सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते।।
(समानन्यायेनाक्षेपभाष्यम्)
ःथ्द्य;हापि--सप्तम्यर्थे वा वृत्तं षष्ठ्यर्थे वर्तते, षष्ठ्यर्थे वा वृत्तं सप्तम्यर्थे वर्तते। अन्यथाजातीयकः खल्वपि गोभिरभिसम्बन्धे प्रत्ययः, अन्यथाजातीयकस्तद्वता। येनैव खल्वपि हेतुना एतद्वाक्यं भवतिगोमन्तोऽस्य सन्ति यवमन्तोऽस्य सन्तीति तेनैव हेतुना वृत्तिरपि प्राप्नोति।।
(प्रतिषेधेन समाधानभाष्यम्)
तस्मान्मत्वर्थीयान्मतुबादेः प्रतिषेधो वक्त्वयः।
तं चापि ब्रुवता समानवृत्तौ सरूप ःथ्द्य;ति वक्तव्यम्। भवति हि--दण्डिमती शाला, हस्तिमत्युपत्यकेति।
शैषिकान्मतुबर्षीयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।
(प्रत्ययोद्देश्यतावच्छेदकनिर्धारणोपक्रमभाष्यम्)
किं पुनरिमे मतुप्प्रभृतयः सन्मात्रे भवन्ति?
एवं भवितुमर्हति।।
(5758 अतिप्रसंगापादकवार्तिकम्।। 1 ।।)
- मतुप्प्रभृतयः सन्मात्रे ःथ्द्य;ति चेदतिप्रसङ्गः -
(भाष्यम्) मतुप्प्रभृतयः सन्मात्र ःथ्द्य;ति चेदतिप्रसङ्गो भवति।
ःथ्द्य;हापि प्राप्नोति--व्रीहिरस्य, यवोऽस्येति।।
(एकदेशिसमाधानभाष्यम्)
तस्माद् भूमादिग्रहणं कर्तव्यम्।।
(भूमादिनिर्वचनभाष्यम्)
के पुनर्भूमादयः?
भूमनिन्दाप्रशंसासु
नित्ययोगेऽतिशायने।
संबन्धेऽस्तिविवक्षायां
भवन्ति मतुबादयः।।
भूम्नि--गोमान् यवमान्।
निन्दायाम्--ककुदावर्ती। संखादकी।
प्रशंसायाम्--रूपवान्। वर्णवान्।
नित्ययोगे--क्षीरिणो वृक्षाः। कण्टकिनो वृक्षा ःथ्द्य;ति।
अतिशायने--उदरिणी कन्या।
संसर्गे--दण्डी। छत्री।
तत्तर्हि भूमादिग्रहणं कर्तव्यम्?
न कर्तव्यम्।
कस्मान्न भवति--व्रीहिरस्य, यवोऽस्येति।।
(5759 सिद्धान्तवार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति।
ःथ्द्य;तिकरणः खल्वपि क्रियते ततश्चेद्विवक्षा, भूमादियुक्तस्यैव च विवक्षा।
गोमान्--यवमान्--भूमादियुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्यवो नास्ति।
संखादकी--ककुदावर्ती--निन्दायुक्तस्यैव सत्ता कथ्यते, न हि कश्चिन्न संखादकी।
रूपवान्--वर्णवान्--प्रशंसायुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्रूपं नास्ति।
क्षीरिणो वृक्षाः--कण्टकिनो वृक्षा ःथ्द्य;ति--नित्ययुक्तस्यैव सत्ता कथ्यते, न हि कस्यचित् क्षीरं नास्ति।
उदरिणी कन्येति--अतिशायनयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिदुदरं नास्ति।
दण्डी--छत्री--संसर्गयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद्दण्डो नास्ति।
यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते। कस्यचिच्चतसृभिः कल्पन्ते। कस्यचिच्छतेनापि न प्रकल्पन्ते।।
सन्मात्रे चर्षिदर्शनात्।
सन्मात्रे च पुनः ऋषिर्दर्शयति मतुपम्--यवमतीभिरदि्भर्यूपं प्रोक्षतीति।।
(5760 उपसंख्यानवार्तिकम्।। 3 ।।)
- गुणवचनेभ्यो मतुपो लुक् -
(भाष्यम्) गुणवचनेभ्यो मतुपो लुग्वक्तव्यः। शुक्लः। कृष्ण ःथ्द्य;ति।।
(उपसंख्यानाक्षेपभाष्यम्)
अव्यतिरेकात्सिद्धम्। न गुणो गुणिनं व्यभिचरतीति।।
(5761 समाधानवार्तिकम्।। 4 ।।)
- अव्यतिरेकात्सिद्धमिति चेद् दृष्टो व्यतिरेकः -
(भाष्यम्) अव्यतिरेकात्सिद्धमिति चेत् दृश्यते व्यतिरेकः। तद्यथा--पटस्य शुक्ल ःथ्द्य;ति।।
(5762 सिद्धान्तसाधकवार्तिकम्।। 5 ।।)
- तथा च लिङ्गवचनसिद्धिः -
(भाष्यम्) एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति--शुक्लं वस्त्रम्। शुक्ला शाटी। शुक्लः कम्बलः। शुक्लौ कम्बलौ। शुक्लाः कम्बला ःथ्द्य;ति।
यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति।।
-5-2-95- रसादिभ्यश्च (2113)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते न तदस्यास्त्यस्मिन्- ःथ्द्य;त्येव मतुप्सिद्धः?
(5763 एकदेशिवार्तिकम्।। 1 ।।)
- रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् -
(भाष्यम्) रसादिभ्यः पुनर्वचनं क्रियते--अन्येषां मत्वर्थीयानां प्रतिषेधार्थम्। मतुबेव यथा स्यात्, येऽन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन्निति।
(सिद्धान्तप्रत्यायकभाष्यम्)
नैतदस्ति प्रयोजनम्। दृश्यन्ते ह्यन्ये रसादिभ्यो मत्वर्थीयाः -- रसिको नटः। उर्वशी वै रूपिणी अप्सरसाम्। स्पर्शिको वायुरिति।।
-5-2-96- प्राणिस्थादातो लजन्यतरस्याम् (2114)
(अतिव्याप्त्याशंकाभाष्यम्)
ःथ्द्य;ह कस्मान्न भवति--चिकीर्षाऽस्यास्ति, जिहीर्षाऽस्यास्तीति?
(एकदेशिसमाधानभाष्यम्)
प्राण्यङ्गादिति वक्तव्यम्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्।।
(सिद्धान्तभाष्यम्)
कस्मान्न भवति--जिहीर्षाऽस्यास्ति, चिकीर्षाऽस्यास्तीति?
अनभिधानात्।।
-5-2-97- सिध्मादिभ्यश्च (2115)
(विकल्पेन लज्विधायकत्वे शंकाभाष्यम्)
सिध्मादिषु यान्यकारान्तानि तेभ्यो लचा मुक्ते ःथ्द्य;निठनौ प्राप्नुतः। ःथ्द्य;निठनौ च नेष्येते। कथं तौ न भविष्यतः?
(5764 समुच्चयबोधकत्वेनोत्तरवार्तिकम्।। 1 ।।)
- लजन्यतरस्यामिति समुच्चयः -
(भाष्यम्) लजन्यतरस्यामिति समुच्चयोऽयं, न विभाषा। लच्च मतुप् च।
कथं पुनरेतज्ज्ञायते--लजन्यतरस्यामिति समुच्चयो न विभाषेति?।
(5765 समुच्चयसमर्थकवार्तिकम्।। 2 ।।)
- पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं ज्ञापकमसमावेशस्य -
(भाष्यम्) यदयं पिच्छादिभ्यस्तुन्दादीनां नानायोगं करोति तज् ज्ञापयत्याचार्यः--समुच्चयोऽयं न विभाषेति।
यदि विभाषा स्यात् नानायोगकरणमनर्थकं स्यात्, तुन्दादीन्यपि पिच्छादिष्वेव पठेत्।
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यन्नानायोगकरणे प्रयोजनम्।
किम्?
तुन्दादिषु यानि अनकारान्तानि तेभ्य ःथ्द्य;निठनौ यथा स्याताम्।।
यानि तर्ह्यकारान्तानि तेषां पाठः किमर्थः?
ज्ञापकार्थ एव।।
(प्रकारान्तरेण ज्ञापकसाधकभाष्यम्)
अपर आह--तुन्दादिभ्यः पिच्छादीनां नानायोगकरणं ज्ञापकम्--असमावेशस्य।
यदयं तुन्दादिभ्यः पिच्छादीनां नानायोगं करोति तज्ज्ञापयत्याचार्यः--समुच्चयः, न विभाषेति।
यदि विभाषा स्यान्नानायोगकरणमनर्थके स्यात्। पिच्छादीन्यपि तुन्दादिष्वेव पठेत्।।
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यन्नानायोगकरणे प्रयोजनम्।
किम्?
पिच्छादिषु यान्यनकारान्तानि तेभ्य ःथ्द्य;निठनौ मा भूतामिति।
यानि तर्ह्यकारान्तानि तेषां पाठः किमर्थः।
ज्ञापकार्थ एव।।
(5766 समुच्चयबोधकवार्तिकम्।। 3 ।।)
- वस्य च पुनर्वचनं सर्वविभाषार्थम् -
(भाष्यम्) वस्य खल्वपि पुनर्वचनं क्रियते सर्वविभाषार्थम्--केशाद्वोऽन्यतरस्याम् (5।2।109) ःथ्द्य;ति। एतदेव ज्ञापयत्याचार्यः--समुच्चयोऽयं, न विभाषेति।।
(अन्यतरस्यांग्रहणस्य ज्ञापकाभावबोधकं भाष्यम्)
द्युद्रुभ्यां नित्यार्थमेकेऽन्यतरस्यांग्रहणमिच्छन्ति।
कथम्?
विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये ये विधयो नित्यास्ते भवन्तीति।।
-5-2-100- लोमादिपामादिपिच्छादिभ्यः शनेलचः (2118)
(5767 उपसंख्यानवार्तिकम्।। 1 ।।)
- नप्रकरणे दद्रवा ह्रस्वत्वं च -
(भाष्यम्) नप्रकरणे दद्रवा उपसंख्यानं कर्तव्यम्, ह्रस्वत्वं च वक्तव्यम्। दद्रुणः।
अत्यल्पमिदमुच्यते।
शाकीपलालीदद्रूणां ह्रस्वत्वं चेति वक्तव्यम्। शाकिनम्। पलालिनम्। दद्रुणम्।।
(5768 उपसंख्यानवार्तिकम्।। 2 ।।)
- विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः -
(भाष्यम्) विष्वगित्युपसंख्यानं कर्तव्यम्, उत्तरपदलोपश्चाकृतसन्धेर्वक्तव्यः। विष्वग्गतान्यस्य विषुणः।।
-5-2-101- प्रज्ञाश्रद्धार्चाभ्यो णः (2119)
(णप्रत्ययाधिकरणम्)
(5769 उपसंख्यानवार्तिकम्।। 1 ।।)
- वृत्तेश्च -
(भाष्यम्) वृत्तेश्चेति वक्तव्यम्। वार्तम्।।
-5-2-102- तपः सहस्राभ्यां विनीनी (2120)
-5-2-103- अण्च (2121)
(अण्प्रत्ययाधिकरणम्
(तपःशब्दाक्षेपे भाष्यम्)
किमर्थं तपः श्बदाद्विन् विधीयते। नासन्तादित्येव सिद्धम्?
(5770 समाधानवार्तिकम्।। 1 ।।)
- तपसो विन्वचनमण्विधानात् -
(भाष्यम्) तपसो विन्वचनं क्रियते।
किं प्रयोजनम्?
अण्विधानात्। तपःशब्दादण् विधीयते, स विशेषविहितः सामान्यविहितं विनं बाधेत।।
(5771 उपसंख्यानवार्तिकम्।। 2 ।।)
- अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम् -
(भाष्यम्) अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानं कर्तव्यम्। ज्यौत्स्नः। तामिस्नम्। कौण्डलः। कौतपः। वैपादिकः।।
-5-2-107- ःढ़द्य;षसुषिमुष्कमधो रः (2125)
(रप्रत्ययाधिकरणम्)
(मधुशब्दप्रत्यायकभाष्यम्)
अयं मधुशब्दोऽस्त्येव द्रव्यपदार्थकः, अस्ति रसवाची। आतश्च रसवाची अपि, मधुन्येव हि मधु--ःथ्द्य;दम्--मधुरम् ःथ्द्य;ति प्रयुज्यते। तद्यो रसवाची तस्येदं ग्रहणम्।।
यदि हि द्रव्यपदार्थकस्य ग्रहणं स्यादिहापि प्रसज्येत--मधु अस्मिन् घटेऽस्ति।।
(5772 उपसंख्यानवार्तिकम्।। 1 ।।)
- रप्रकरणे खमुखकुञ्ञ्जेभ्य उपसंख्यानम् -
(भाष्यम्) रप्रकरणे खमुखकुञ्ञ्जेभ्य उपसंख्यानं कर्तव्यम्। खरः। मुखरः। कुञ्ञ्जरः।।
(5773 उपसंख्यानवार्तिकम्।। 2 ।।)
- नगाच्च -
(भाष्यम्) नगाच्चेति वक्तव्यम्। नगरम्।।
-5-2-109- केशाद्वोऽन्यतरस्याम् (2127)
(वप्रत्ययाधिकरणम्)
(5774 उपसंख्यानवार्तिकम्।। 1 ।।)
- वप्रकरणे मणिहिरण्याभ्यामुपसंख्यानम् -
(भाष्यम्) वप्रकरणे मणिहिरण्याभ्यामुपसंख्यानं कर्तव्यम्। मणिवः। हिरण्यवः।।
(5775 उपसंख्यानवार्तिकम्।। 2 ।।)
- छन्दसीवनिपौ च -
(भाष्यम्) छन्दसि ःथ्द्य;र्वनिपौ च वक्तव्यौ वश्चमतुप् च। रथीः अभून्मुद्गलानी गविष्टौ। सुमङ्गलीरियं वधूः। ऋतावानम्। मघवानमीमहे। उद्वा च उद्वती च।।
(5776 उपसंख्यानवार्तिकम्।। 3 ।।)
- मेधारथाभ्यामिरनिरचौ -
(भाष्यम्) मेधारथाभ्यामिरनिरचौ वक्तव्यौ। मेधिरः। रथिरः।
(प्रकारान्तरबोधकभाष्यम्)
अपर आह--वप्रकरणे अन्येभ्योऽपि दृश्यते ःथ्द्य;ति वक्तव्यम्। बिम्बावम्। कुररावम्। ःथ्द्य;ष्टकावम्।।
-5-2-112- रजःकृष्यासुतिपरिषदो वलच् (2130)
(वलच्प्रत्ययाधिकरणम्)
(5777 उपसंख्यानवार्तिकम्।। 1 ।।)
- वलच्प्रकरणेऽन्येभ्योऽपि दृश्यते -
(भाष्यम्) वलच्प्रकरणे अन्येभ्योऽपि दृश्यत ःथ्द्य;ति वक्तव्यम्। भ्रातृवलः। पुत्रवलः। उत्सङ्गवलः।।
-5-2-115- अत ःथ्द्य;निठनौ (2132)
(ःथ्द्य;निठनोरधिकरणम्)
(5778 उपसंख्यानवार्तिकम्।। 1 ।।)
- ःथ्द्य;निठनोरेकाक्षरात्प्रतिषेधः -
(भाष्यम्) ःथ्द्य;निठनोरेकाक्षरात्प्रतिषेधो वक्तव्यः।। स्ववान्, खवान्।
अत्यल्पमिदमुच्यते।।
(उपसंख्याने श्लोकभाष्यम्)
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ।।
एकाक्षरात्--स्ववान्। खवान्।
कृतः--कारकवान्। हारकवान्।
जातेः--वृक्षवान्। प्लक्षवान्। व्याघ्रवान्। सिंहवान्।
सप्तम्यां च न तौ--दण्डा अस्यां शालायां सन्तीति।।
(एकाक्षरादित्यादेः प्रत्याख्यानभाष्यम्)
यदि कृतो नेत्युच्यते, कार्यी--कार्यिक ःथ्द्य;ति न सिध्यति।
तथा जातेर्नेत्युच्यते, तण्डुली--तण्डुलिक ःथ्द्य;ति न सिध्यति।।
एवं तर्हि नायं समुच्चयः--कृतश्च जातेश्चेति।
किं तर्हि?
जातिविशेषणं कृद्ग्रहणम्--कृद्या जातिरिति।
कथं कारकवान्, हारकवान्?
अनभिधानान्न भविष्यति।।
यद्येवं, नार्थोऽनेन
कथं--स्ववान्, खवान्, वृक्षवान्, सिंहवान्, व्याघ्रवान्, प्लक्षवान्, दण्डा अस्यां शालायां सन्तीति?
अनभिधानान्न भविष्यति।।
5-2-116- व्रीह्यादिभ्यश्च (2134)
(उपसंख्यानभाष्यम्)
शिखादिभ्य ःथ्द्य;निर्वाच्य
ःथ्द्य;कन् यवखदादिषु।।
किं प्रयोजनम्?
नियमार्थम्। ःथ्द्य;निरेव शिखादिभ्यः, ःथ्द्य;कन्नेव यवखदादिभ्यः।।
(5779 प्रत्याख्यानवार्तिकम्।। 1 ।।)
- शिखायवखदादिभ्यो नियमस्यावचनं निवर्तकत्वात् -
(भाष्यम्) शिखायवखदादिभ्यो नियमस्यावचनम्।
किं कारणम्?
निवर्तकत्वात्।
किं निवर्तकम्?
अनभिधानम्।।
-5-2-118- एकगोपूर्वाट्ठञ्ञ् नित्यम् (2136)
(ठञ्ञ्प्रत्ययाधिकरणम्)
(नित्यपदप्रयोजनभाष्यम्)
नित्यग्रहणं किमर्थम्?
विभाषा मा भूत्।
नैतदस्ति प्रयोजनम्।
पूर्वस्मिन्नेव योगे विभाषाग्रहणं निवृत्तम्।
एवं तर्हि सिद्धे सति यन्नित्यग्रहणं करोति तज्ज्ञापयत्याचार्यः--प्रागेतस्माद्योगात् विभाषा ःथ्द्य;त्यनुवर्तत ःथ्द्य;ति।।
(अनुवृत्तिनिश्चायकभाष्यम्)
अथ अतः ःथ्द्य;त्यनुवर्तते, उताहो न।
किं चातः?
यद्यनुवर्तते, ऐकगविको न सिध्यति।
समासान्ते कृते भविष्यति।
एवमपि गौशकटिको न सिध्यति।।
अथ निवृत्तम्।
ःथ्द्य;हापि प्राप्नोति--गोविंशतिरस्यास्तीति।
निवृत्तम्।।
ःथ्द्य;ह कस्मान्न भवति--गोविंशतिरस्यास्तीति?
अनभिधानान्न भविष्यति।।
-5-2-120- रूपादाहतप्रशंसयोर्यप् (2138)
(यप्प्रत्ययाधिकरणम्)
(5780 उपसंख्यानवार्तिकम्।। 1 ।।)
- यप्प्रकरणेऽन्येभ्योऽपि दृश्यते -
(भाष्यम्) यप्प्रकरणेऽन्येभ्योऽपि दृश्यते ःथ्द्य;ति वक्तव्यम्। हिम्याः पर्वताः। गुण्या ब्राह्मणाः।।
-5-2-122- बहुलं छन्दसि (2140)
(विनिप्रत्ययाधिकरणम्)
(5781 उपसंख्यानवार्तिकम्।। 1 ।।)
- छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्च -
(भाष्यम्) छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्। अष्ट्रावी। मेखलावी। द्वयावी। उभयावी। रुजावी। हृदयावी।।
मर्मणश्चेति वक्तव्यम्।
मर्मावी।।
(5782 उपसंख्यानवार्तिकम्।। 2 ।।)
- सर्वत्रामयस्य -
(भाष्यम्) सर्वत्रामयस्योपसंख्यानं कर्तव्यम्। आमयावी।।
(5783 उपसंख्यानवार्तिकम्।। 3 ।।)
- श्रृङ्गवृन्दाभ्यामारकन् -
(भाष्यम्) श्रृङ्गवृन्दाभ्यामारकन् वक्तव्यः। श्रृङ्गारकः। वृन्दारकः।।
(5784 उपसंख्यानवार्तिकम्।। 4 ।।)
- फलबर्हाभ्यामिनच् -
(भाष्यम्) फलबर्हाभ्यामिनच् वक्तव्यः। फलिनः। बर्हिणः।।
(5785 उपसंख्यानवार्तिकम्।। 5 ।।)
- हृदयाच्चालुरन्यतरस्याम् -
(भाष्यम्) हृदयाच्चालुर्वक्तव्योऽन्यतरस्याम्। हृदयालुः। हृदयी। हृदयिकः। हृदयवान्।।
(5786 उपसंख्यानवार्तिकम्।। 6 ।।)
- शीतोष्णतृप्रेभ्यस्तन्न सहते -
(भाष्यम्) शीतोष्णतृप्रेभ्यस्तन्न सहत ःथ्द्य;ति चालुर्वक्तव्यः। शीतालुः। उष्णालुः। तृप्रालुः।।
(5787 उपसंख्यानवार्तिकम्।। 7 ।।)
- हिमाच्चेलुः -
(भाष्यम्) हिमाच्चेलुर्वक्तव्यः, तन्न सहत ःथ्द्य;त्येतस्मिन्नर्थे। हिमेलुः।।
(5588 उपसंख्यानवार्तिकम्।। 8 ।।)
- बलाच्चोलः -
(भाष्यम्) बलाच्च ःढ़द्य;लो वक्तव्यस्तन्न सहत ःथ्द्य;त्येतस्मिन्नर्थे। बलूलः।।
(5789 उपसंख्यानवार्तिकम्।। 9 ।।)
- वातात्समूहे च -
(भाष्यम्) वातात्समूहे च तन्न सहते ःथ्द्य;त्येतस्मिन्नर्थे च ःढ़द्य;लो वक्तव्यः। वातूलः।।
(5790 उपसंख्यानवार्तिकम्।। 10 ।।)
- पर्वमरूद्भ्यां तप् -
(भाष्यम्) पर्वमरूद्भ्यां तप् वक्तव्यः। पर्वतः मरुत्तः।।
(5791 तप्प्रत्याख्यानवार्तिकम्।। 11 ।।)
- ददातिवृत्तं वा -
(भाष्यम्) ददातिवृत्तं वा पुनरेतद्भविष्यति। मरुदि्भर्दत्तो मरुत्तः।।
-5-2-125- आलजाटचौ बहुभाषिणि(2143)
(आलजाटच्प्रत्ययाधिकरणम्)
(एकदेशिभाष्यम्)
कुत्सित ःथ्द्य;ति वक्तव्यम्।
यो हि सम्यग्बहु भाषते वाग्मीत्येव स भवति।
तत्तर्हि वक्तव्यम्।।
(समाधानभाष्यम्)
न वक्तव्यम्।
नानायोगकरणसार्मथ्यान्न भविष्यति।।
-5-2-126- स्वामिन्नैश्वर्ये (2144)
(निपातनाधिकरणम्)
(अतिव्याप्त्याक्षेपनिरासभाष्यम्)
       ःथ्द्य;ह कस्मान्न भवति -- स्वम् अस्य अस्ति इति ?
नैष दोषः।
नायं प्रत्ययार्थः।
किं तर्हि?।
प्रकृतिविशेषणमेतत्--स्वामिन्नैश्वर्ये निपात्यते ःथ्द्य;ति।।
-5-2-129- वातातीसाराभ्यां कुक्च (2147)
(ःथ्द्य;निप्रत्ययाधिकरणम्)
(उपसंख्यानभाष्यम्)
पिशाचाच्चेति वक्तव्यम्। पिशाचकी वैश्रवणः।।
-5-2-135- पुष्करादिभ्यो देशे (2153)
(948 विधिसूत्रम् ।। 5 । 2 । 2 आ. 62)
(5792 उपसंख्यानवार्तिकम्।। 1 ।।)
- ःथ्द्य;नि प्रकारणे बलाद्बाहूरूपूर्वपदादुपसंख्यानम् -
(भाष्यम्) ःथ्द्य;नि प्रकरणे बलाद्वाहूरुपूर्वपदादुपसंख्यानं कर्तव्यम्। बाहुबली। ःढ़द्य;रुबली।।
(5793 उपसंख्यानवार्तिकम्।। 2 ।।)
- सर्वादेश्च -
(भाष्यम्) सर्वादेश्चेनिर्वक्तव्यः। सर्वधनी। सर्वबीजी। सर्वकेशी।।
(5794 उपसंख्यानवार्तिकम्।। 3 ।।)
- अर्थाच्चासन्निहिते -
(भाष्यम्) अर्थाच्चासन्निहिते ःथ्द्य;निर्वक्तव्यः। अर्थी।।
असंनिहित ःथ्द्य;ति किमर्थम्?
अर्थवान्।।
(5795 उपसंख्यानवार्तिकम्।। 4 ।।)
- तदन्ताच्च -
(भाष्यम्) तदन्ताच्चेति वक्तव्यम्। धान्यार्थी। हिरण्यार्थी।।
(एकदेशिनः तदन्ताच्च ःथ्द्य;ति वार्तिकाक्षेपसमाधानभाष्यम्)
किमर्थं तदन्तादित्युच्यते न तदन्तविधिना सिद्धम्?।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।
एवं तर्हि--ःथ्द्य;नन्तेन सह समासो भविष्यति। धान्येनार्थी--धान्यार्थी।
स हि समासो न प्राप्नोति।।
यदि पुनरयमर्थयतेर्णिनिः स्यात्, एवमपि क्रियामेव कुर्वाणे स्यात्। तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽभिप्रायेण गम्यते--अर्थी--अयमनेनेति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि अयमर्थशब्दोऽस्त्येव द्रव्यपदार्थकः।
तद्यथा--अर्थवानयं देश ःथ्द्य;त्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते।
अस्ति क्रियापदार्थको भावसाधनः--अर्थनमर्थ ःथ्द्य;ति।
तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम्। एवं च कृत्वाऽर्थिकप्रत्यर्थिकावपि सिद्धौ भवतः।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।।
।। पादश्च समाप्तः।।
-9-9-999-