महाभाष्यम्/प्रथमोऽध्यायः/द्वितीयः पादः

-1-2-1- गाङ्कुटादिभ्योऽञ्ञ्णिन्ङित्
।। अतिदेशत्वनिर्णयाधिकरणम् ।।
- ङित्किद्वचने तयोरभावादप्रसिद्धिः -
ङित्किद्वचने तयोरभावात्- ङकारककारयोरभावात्- ङित्त्वकित्त्वयोरप्रसिद्धिः। सता ह्यभिसम्बन्धः शक्यते कर्तुम्। न चाऽत्र ङकारककारावितौ पश्यामः। तद्यथा- चित्रगुर्देवदत्तः इति; यस्य ता गावो भवन्ति स एव ताभिः शक्यतेऽभिसम्बन्धुम्।
भाव्येते तर्ह्यनेन- गाङ्कुटादिभ्योऽञ्ञ्णिन्ङिद्भवति इति। असंयोगाल्लिट् किद्भवति इति।
- भवतीति चेदादेशप्रतिषेधः -
भवतीति चेदादेशस्य प्रतिषेधो वक्तव्यः। ङकारककारावितावादेशौ प्राप्नुतः।
कथं पुनरित्सञ्ञ्ज्ञो नामादेशः स्यात्?
किं हि वचनान्न भवति?
एवं तर्हि षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते, न चात्र षष्ठीं पश्यामः।
गाङ्कुटादिभ्यः इत्येषा पञ्चमी अञ्ञ्णत् इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति- तस्मादित्युत्तरस्य (1.1.67) इति।
सञ्ज्ञाकरणं तर्हीदम्- गाङ्कुटादिभ्योऽञ्ञ्णित् ङित्सञ्ञ्ज्ञो भवतीति। असंयोगाल्लिटि्कत्सञ्ञ्ज्ञो भवतीति।
- सञ्ज्ञाकरणे क्ङिद्ग्रहणेऽसम्प्रत्ययः शब्दभेदात् -
सञ्ज्ञाकरणे क्ङिद्ग्रहणेऽसम्प्रत्ययः स्यात्। किं कारणम्? शब्दभेदात्। अन्यो हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च। तथा किद्ग्रहणेषु ङिद्ग्रहणेषु चानयोरेव सम्प्रत्ययः स्यात्।
तद्वदतिदेशस्तर्ह्ययम्-गाङ्कुटादिभ्यः अञ्ञ्णित् ङिद्वद्भवति इति। असंयोगाल्लिटि्कद्वद्भवति इति।
स तर्हि वतिनिर्देशः कर्तव्यः।
न कर्तव्यः।
नह्यन्तरेण वतिमतिदेशो गम्यते?
अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा- एष ब्रह्मदत्तः। अब्रह्मदत्तं ब्रह्मदत्त इत्याह। ते मन्यामहे- ब्रह्मदत्तवदयं भवतीति। एवमिहाप्यङितं ङिदित्याह, ङिद्वदिति गम्यते। अकितं किदित्याह, किद्वदिति गम्यते।
- तद्वदतिदेशेऽकिद्विधिप्रसङ्गः -
तद्वदतिदेशेऽकिद्विधिरपि प्राप्नोति। सृजिदृशोर्झल्यमकिति (6.1.58) सिसृक्षति दिदृक्षते, अकिल्लक्षणोऽमागमः प्राप्नोति।
- सिद्धं तु प्रसज्यप्रतिषेधात् -
सिद्धमेतत्। कथम्? प्रसज्यप्रतिषेधात्, प्रसज्यायं प्रतिषेधः क्रियते- किति न इति।
- सर्वत्र सन्नन्तादात्मनेपदप्रतिषेधः -
सर्वेषु पक्षेषु सन्नन्तादात्मनेपदं प्राप्नोति उच्चुकुटिषति, निचुकुटिषति- ङितः इत्यात्मनेपदं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः।
- सिद्धन्तु पूर्वस्य कार्यातिदेशात् -
सिद्धमेतत्। कथम्? पूर्वस्य यत्कार्यं तदतिदिश्यते।
किं वक्तव्यमेतत्?
नहि। कथमनुच्यमानं गंस्यते? सप्तम्यर्थेऽपि वतिर्भवति। तद्यथा- मथुरायामिव मथुरावत् पाटलिपुत्र इव पाटलिपुत्रवत्। एवं ङितीव ङिद्वत्, कितीव किद्वत्।
।। पृथगनुबन्धप्रयोजनाधिकरणम् ।।
अथ किमर्थं पृथङ्ङित्कितौ क्रियेते, न सर्वं किदेव स्यात्, ङिदेव वा।
- पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसारणं सार्वधातुकचङादिषु -
पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसारणं सार्वधातुके चङादिषु च।
सार्वधातुके प्रयोजनम्- यथेह भवति सुप्तः सुप्तवानिति, एवं स्वपितः स्वपिथः इत्यत्रापि प्राप्नोति।
चङादिषु च प्रयोजनम्। के पुनश्चङादयः? चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः। चङ्- यथेह भवति शूनः शूनवान् इति, एवम् अशिश्वियत् अत्रापि प्राप्नोति। अङ्- यथेह भवति शून उक्त इति, एवम् अश्वद् अवोचद् अत्रापि प्राप्नोति। नजिङ्- यथेह भवति सुप्तः सुप्तवान् इति, एवं स्वप्नग् इत्यत्रापि प्राप्नोति। ङ्वनिप्- यथेह भवति इष्टमिष्टवानिति, एवं यज्वा अत्रापि प्राप्नोति। अथङ्- यथेह भवत्युषित इति, एवम् आवसथः अत्रापि प्राप्नोति। नङ्- यथेह भवति इष्टमिति, एवं यज्ञः अत्रापि प्राप्नोति।
- जाग्रोगुणविधिः -
जागर्तेरगुणविधिः प्रयोजनम्। यथेह भवति- जागृतः जागृथ इत्यङितीति पर्युदासः। एवं जागरितः जागरितवानित्यत्रापि प्राप्नोति।
अपर आह- जाग्रो गुणविधिः। जगार्तेर्गुणविधिः प्रयोजनम्। यथेह भवति- जागरितः जागरितवानिति। एवं जागृतः जागृथ इत्यत्रापि प्राप्नोति।
- कुटादीनामिट्प्रतिषेधः -
कुटादीनामिट्प्रतिषेधः प्रयोजनम्। यथेह भवति- लूत्वा, धूत्वा इति श्र्युकः किति (7.2.11) इतीट्प्रतिषेधः, एवं नुविता धुविता अत्रापि प्राप्नोति।
- क्त्वायां कित्प्रतिषेधश्च -
क्त्वायां कित्प्रतिषेधश्च प्रयोजनम्। किं च? इट्प्रतिषेधः?।
नेत्याह। अदेशेऽयं चः पठितः- क्त्वायां च कित्प्रतिषेधः इति। यथेह भवति- देवित्वा सेवित्वेति न क्त्वा सेट् (1.2.8) इति कित्त्वप्रतिषेधः। एवं कुटित्वा पुटित्वा अत्रापि प्राप्नोति।
अथवा देश एवायं चः पठितः- क्त्वायां कित्प्रतिषेधश्चेट्प्रतिषेधश्च। कित्प्रतिषेध उदाहृतम्। इट्प्रतिषेधो यथेह भवति लुत्वा धूत्वा श्र्युकः किति इतीट्प्रतिषेधः, एवं नुवित्वा धुवित्वा अत्रापि प्राप्नोति।
स्यादेतत्प्रयोजनं यद्यस्य नियोगत आतिदेशिकेन ङित्त्वेनौपदेशिकं कित्त्वं बाध्येत। सत्यपि तु ङित्त्वे किदेवैषः। तस्मान्नूत्वा धूत्वेत्येव भवितव्यम् ।। गाङ्कुटादिभ्योऽञ्ञ्णिन्ङित् ।। 1 ।।
-1-2-4- सार्वधातुकमपित्
सार्वधातुकग्रहणं किमर्थम्?
अपिदितीयत्युच्यमाने आर्धधातुकस्याप्यनेनापितो ङित्त्वं प्रसज्येत- कर्ता हर्ता।
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- नानेनार्धधातुकस्यापितो ङित्त्वं भवतीति। यदयमार्धधातुकीयान् कांश्चिद् ङितः करोति चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः।
सार्वधातुकेप्येतज्ज्ञापकं स्यात्।
नेत्याह। तुल्यजातीयस्य ज्ञापकम्।
कश्च तुल्यजातीयः?
यथाजातीयकाश्चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः।
कथंजातीयकाश्चैते? आर्धधातुकीयाः।
यद्येतदस्ति तुल्यजातीयस्य ज्ञापकमिति, चङ्ङङौ लुङि्वकरणानां ज्ञापकौ स्याताम्, नजिङ्वर्तमानकालानाम्, ङनिब् भूतकालानाम्, अथङ्शब्द औणादिकानाम्, नङ्शब्दो घञ्ञर्थानाम्। तस्मात् सार्वधातुकग्रहणं कर्तव्यम्।
किं पुनरयं पर्युदासः- यदन्यत्पित इति, आहोस्वित्प्रसज्यायं प्रतिषेधः- पिन्नेति?
कश्चात्र विशेषः ?
- अपिन्ङिदिति चेत् शबेकादेशप्रतिषेध आदिवत्त्वात् -
अपिन्ङिदिति चेत् शबेकादेशे प्रतिषेधो वक्तव्यः। च्यवन्ते प्लवन्ते। किं कारणम्? आदिवत्त्वात्। पिदपितोरेकादेशोऽपित आदिवत्स्यात्। अस्त्यन्यत् पित इति कृत्वा ङित्त्वं प्राप्नोति।
अस्तु तर्हि प्रसज्यप्रतिषेधः- पिन्नेति।
- न पिन्ङिदिति चेदुत्तमैकादेशप्रतिषेधः -
न पिन्ङिदिति चेदुत्तमैकादेशे प्रतिषेधः प्राप्नोति। तुदानि लिखानि। किं कारणम्? आदिवत्त्वादेव। पिदपितोरेकादेशः पित आदिवत् स्यात्। तत्र पिन्नेति प्रतिषेधः प्राप्नोति।
यथेच्छसि तथास्तु।
ननु चोक्तमुभयथापि दोष इति।
उभयथापि न दोषः। एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद् व्यवधानम् ।। 4 ।।
-1-2-5- असंयोगाल्लिट् कित्
- ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्विप्रतिषेधेन -
ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्भवति विप्रतिषेधेन। ववृते ववृधे।
- उक्तं वा -
किमुक्तम्? न वा क्सस्यानवकाशत्वादपवादो गुणस्य इति।
विषम उपन्यासः। युक्तं तत्र यदनवकाशं कित्करणं गुणं बाधते। इह पुनरुभयं सावकाशम्। कित्करणस्यावकाशः- इर्जतुः, इर्जुः। गुणस्यावकाशः- वर्तित्वा वर्द्धित्वा। इहोभयं प्राप्नोति- ववृते ववृधे। परत्वाद् गुणः प्राप्नोति।
इदं तर्ह्युक्तम्- इष्टवाची परशब्दः इति, विप्रतिषेधे परं यदिष्टं तद्भवति इति ।। असंयोगाल्लिट् कित् ।। 5 ।।
-1-2-6- इन्धिभवतिभ्यां च
किमर्थंमिदमुच्यते?
इन्धेः संयोगार्थं वचनन्। भवतेः पिदर्थम्।
अयं योगः शक्योऽवक्तुम्।
कथम्?
- इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां किद्वचनानर्थक्यम् -
इन्धेश्छन्दोविषयो लिट्। नह्यन्तरेण छन्द इन्धेरनन्तरो लिट् लभ्यः। आमा भाषायां
भवितव्यम्। भुवो वुको नित्यत्वात्। भवेतरपि नित्यो वुक् कृते गुणे प्राप्नोति, अकृतेऽपि
प्राप्नोति। ताभ्यां किद्वचनानर्थक्यम्। ताभ्यामिन्धिभवतिभ्यां किद्वचनमनर्थम् ।। इन्धिभवतिभ्यां च ।। 6 ।।
-1-2-7- मृडमृदगुधकुषक्लिशवदवसः क्त्वा
किमर्थं मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते, न किदेव हि क्त्वा?
न क्त्वा सेट् (1.2.18) इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम्।
यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते नार्थो न क्त्वा सेट् इत्यनेन कित्त्वप्रतिषेधेन। इदं नियमार्थं भविष्यति- मृडादिभ्य एव परस्य क्त्वः कित्त्वं भवति नान्येभ्य इति।
यदि नियमः क्रियते, इहापि तर्हि नियमान्न प्राप्नोति- लूत्वा पूत्वा। अत्राप्यकित्त्वं प्राप्नोति।
तुल्यजातीयस्य नियमः।
कश्च तुल्यजातीयः?
यथाजातीयको मृडादिभ्यः परः क्त्वा।
कथं जातीयकश्च मृडादिभ्यः परः क्त्वा? सेट्।
एवमप्यस्त्यत्र कश्चिद्विभाषितेट् सोऽनिटां नियामकः स्यात्।
अस्तु तावद्ये सेटस्तेषां ग्रहणं नियमार्थम्। य इदानीं विभाषितेट् तस्य ग्रहणं विध्यर्थं भविष्यति। रुदविदमुषग्रहिस्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा ।। मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।। 7 ।।
-1-2-9- इको झल्
किमर्थमिकः परस्य सनः कित्त्वमुच्यते?
- इकः कित्त्वं गुणो मा भूत्।
इकः कित्त्वं क्रियते गुणो मा भूदिति। चिचीषति। तुष्टूषति।
नैतदस्ति प्रयोजनम्।
दीर्घारम्भात्।
दीर्घत्वमत्र बाधकं भविष्यति।
कृते भवेत्।
कृते खलु दीर्घत्वे गुणः प्राप्नोति।
अनर्थकं तु।
अनर्थकमेवं सति दीर्घत्वं स्यात्।
नानर्थकम्।
ह्रस्वार्थम्।
ह्रस्वानां दीर्घवचनसार्मथ्याद् गुणो न भविष्यति।
भवेद् ह्रस्वानां दीर्घवचनसार्मथ्याद् गुणो न स्यात्।
दीर्घाणां तु प्रसज्यते।
दीर्घाणां तु खलु गुणः प्राप्नोति।
दीर्घाणामपि दीर्घवचनसार्मथ्याद् गुणो न भविष्यति।
न दीर्घाणां दीर्घाः प्राप्नुवन्ति। किं कारणम्? नहि भुक्तवान् पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति।
ननु च पुनः प्रवृत्तिरपि दृष्टा - भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति।
सार्मथ्याद्धि पुनर्भाव्यम्।
सार्मथ्याद्धि पुनः प्रवृत्तिर्भवति। भोजनविशेषाच्छिल्पिविशेषाद्वा। दीर्घाणां पुनर्दीर्घत्ववचने न किञ्चित्प्रयोजनमस्ति। अकृतकारि खल्वपि शास्त्रमग्निवत्। तद्यथा - अग्निर्यददग्धं तद्दहति।
दीर्घाणामपि दीर्घवचन एतत्प्रयोजनं गुणो मा भूदिति। कृतकारि खल्वपि शास्त्रं पर्जन्यवत्। तद्यथा - पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति। यथैव तर्हि दीर्घत्ववचसार्मथ्याद् गुणो न भवति। एवमॄदित्त्वमपि न प्राप्नोति - चिकीर्षति। जिहीर्षति।
ॠदित्त्वं दीर्घसंश्रयम्।
नाकृते दीर्घे ॠदित्त्वं प्राप्नोति। कि कारणम्? ॠत इत्युच्यते।
भवेद् ह्रस्वानां नाकृते दीर्घे ॠदित्त्वं स्याद्, दीर्घाणां तु खल्वकृतेऽपि दीर्घत्वे ॠदित्त्वं प्राप्नोति।
दीर्घाणां नाकृते दीर्घे।
दीर्घाणामपि नाकृते दीर्घत्वे ऋदित्त्वं प्राप्नोति। यदा दीर्घत्वेन गुणो बाधितः तत उत्तरकालमॄदित्त्वं भवति।
णिलोपस्तु प्रयोजनम्।
इदं तर्हि प्रयोजनम्। णिलोपो यथा स्यात् - ज्ञीप्सति।
क्वास्ताः क्व निपतिताः क्व कित्त्वं क्व णिलोपः। को वाऽभिसम्बन्धः - यत्सति कित्त्वे णिलोपः स्याद्, असति कित्त्वे न स्यात्?
एषोऽभिसम्बन्धः - यत्सति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते। असति पुनः कित्त्वेऽनवकाशं दीर्घत्वं यथैव गुणं बाधते, एवं णिलोपमपि बाधेत। तत्र णिलोपस्यावकाशः - कारणा। हारणा। दीर्घत्वस्यावकाशः - चिचीषति। तुष्टूषति। इहोभयं प्राप्नोति - ज्ञीप्सति। परत्वाण्णिलोपः।
असत्यपि कित्त्वे सावकाशं दीर्घत्वम्। कोऽवकाशः? इस्भावः - निमित्सति प्रमित्सति। मीनातिमिनोत्योर्दीर्घत्वे कृते मीग्रहणेन ग्रहणं यथा स्यात्।
यथैव तर्ह्यसति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते, एवं गुणोऽपि बाधेत। तस्मात्कित्त्वं वक्तव्यम्।
इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत्।
अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ।। 1 ।।
सार्मथ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम्।
दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम् ।। 2 ।। इको झल् ।। 9 ।।
-1-2-10- हलन्ताच्च
अयुक्तोऽयं निर्देशः। कथं हि इको नाम हलन्तः स्यादन्यस्यान्यः?
कथं तर्हि निर्देशः कर्तव्यः?
इग्वतो हलः इति।
यद्येवं यियक्षति अत्रापि प्राप्नोति।
एवं तर्हि इगुपधाद्धलन्ताद् इति वक्ष्यामि।
एवमपि दम्भेर्न प्राप्नोति। सूत्रं च भिद्यते।
यथान्यासमेवास्तु।
ननु चोक्तम्- अयुक्तोऽयं निर्देशः इति।
नायुक्तः। अयमन्तशब्दोऽस्त्येवावयववाची। तद्यथा - वस्त्रान्तः, वसनान्तः इति। वस्त्रावयवो वसनावयव इति गम्यते। अस्ति सामीप्ये वर्तते। तद्यथा - उदकान्तं गतः इति, उदकसमीपं गत इति गम्यते। तद्यः सामीप्ये वर्तते, तस्येदं ग्रहणम्।
एवमपि दम्भेर्न सिध्यति। यो ह्यत्रेक्समीपो हल्, न तस्मादुत्तरः सन्, यस्मादुत्तरः सन्,
नासाविक्समीपे हल्। एवं तर्हि -
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्।
हल्जातिर्निर्दिश्यते - इक उत्तरा या हल्जातिरिति ।। हलन्ताच्च ।। 10 ।।
-1-2-11- लिङ्सिचावात्मनेपदेषु
कथमिदं विज्ञायते- आत्मनेपदं यौ लिङ्सिचाविति। आहोस्विदात्मनेपदेषु परतो यौ लिङ्सिचाविति?
किं चातः? यदि विज्ञायते- आत्मनेपदं यौ लिङि्सचाविति। लिङ् विशेषितः, सिजविशेषितः। अथ विज्ञायते- आत्मनेपदेषु परतो यौ लिङि्सचाविति, सिज्विशेषितः, लिङविशेषितः।
यथेच्छसि तथास्तु।
अस्तु तावद्- आत्मनेपदं यौ लिङि्सचौ इति।
ननु चोक्तम्- लिङ् विशेषितः, सिजविशेषितः इति।
सिच्च विशेषितः। कथम्?। आत्मनेपदं सिज्नास्तीति कृत्वा आत्मनेपदपरे सिचि कार्यं विज्ञास्यते।
अथ वा पुनरस्तु- आत्मनेपदेषु परतो यौ लिङ्सिचौ- इति।
ननु चोक्तम्- सिज्विशेषितो लिङविशेषितः- इति।
लिङ् च विशेषितः। कथम्? आत्मनेपदेषु परतो लिङ् नास्तीति कृत्वाऽऽत्मनेपदे लिङि कार्यं विज्ञास्यते।
नैव वा पुनरर्थो लिङि्वशेषणेनात्मनेपदग्रहणेन। किं कारणम्? झलिति वर्तते। आत्मनेपदेषु चैव लिङ् झलादिः, न परस्मैपदेषु। तदेतत्सिज्विशेषणमात्मनेपदग्रहणम्।
अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किं प्रयोजनम्?
इह मा भूत्- अपाक्षीत्। अवाप्सीत्।
नैतदस्ति। इक इति वर्तते।
एवमपि- अचैषीत् अनैषीत् अत्रापि प्राप्नोति। एतदपि नास्ति प्रयोनम्। हलन्तादिति
वर्तते।
एवमपि अकोषीत् अमोषीत् अत्रापि प्राप्नोति।
नैतदस्ति। झलिति वर्तते।
एवमपि- अभैत्सीत् अच्छैत्सीत् अत्रापि प्राप्नोति।
नैतदस्ति। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः।
इदं तर्हि प्रयोजनम्- इह मा भूत्- अस्राक्षीत् अद्राक्षीत्। किं च स्यात्? अकिल्लक्षणेऽमागमो न स्यात् ।। लिङि्सचावात्मनेपदेषु ।। 11 ।।
-1-2-17- स्थाघ्वोरिच्च
- इच्च कस्य तकारेत्त्वम् -
कस्य हेतोरिकारस्तपरः क्रियते?
- दीर्घो मा भूत् -
दीर्घो मा भूदिति।
- ऋतेपि सः -
अन्तरेणाप्यारम्भं सिद्धोऽत्र दीर्घः घुमास्थागापाजहातिसां हलिः (6.4.66) इति।
- अनन्तरे प्लुतो मा भूत् -
इदं तर्हि प्रयोजनम्- अनन्तरे प्लुतो मा भूदिति। कुतो नु खल्वेतत् अनन्तरार्थ आरम्भे ह्रस्वो भविष्यति, न पुनः प्लुत इति?।
- प्लुतश्च विषये स्मृतः -
विषये प्लुत उच्यते। यदा च स विषयो, भवितव्यमेव तदा प्लुतेन।
इच्च कस्य तकारेत्वं दीर्घो मा भूदृतेऽपि सः।
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ।। 1 ।। स्थाघ्वोरिच्च ।। 17 ।।
-1-2-18- न क्त्वा सेट्
- न सेडिति कृतेऽकित्त्वे -
न सेडित्येव सिद्धम्, नार्थः क्त्वाग्रहणेन।
निष्ठायामपि तर्हि प्राप्नोति- गुधितः गुधितवानिति।
- निष्ठायामवधारणात् -
निष्ठायामवधारणान्न भविष्यति। किमवधारणम्? निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (1.2.16) इति।
परोक्षायां तर्हि प्राप्नोति। किं च स्यात्? पपिव पपिम क्ङितीत्याकारलोपो न स्यात्। मा भूदेवम्, इटीत्येवं भविष्यति। इदं तर्हि- जग्मिव जघ्निव क्ङितीत्युपधालोपो न स्यात्।
- ज्ञापकान्न परोक्षायाम् -
ज्ञापकात्परोक्षायां न भविष्यति। किं ज्ञापकम्?
- सनि झल्ग्रहणं विदुः -
यदयम् इको झल् (1.2.9) इति झल्ग्रहणं करोति तज्ज्ञापयत्याचार्यः- औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्य इति। कथं कृत्वा ज्ञापकम्? झल्ग्रहणस्यैतत्प्रयोजनं झलादौ यथा स्यात्, इह मा भूत्- शिशयिषत इति। यदि चात्रातिदेशिकस्यापि कित्त्वस्य प्रतिषेधः स्यात्, झल्ग्रहणमनर्थकं स्यात्। अस्त्वत्र कित्त्वम्, न सेड् इति प्रतिषेधो भविष्यति। पश्यति त्वाचार्य औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति, ततो झल्ग्रहणं करोति।
नैतदस्ति ज्ञापकम्। उत्तरार्थमेतत्स्यात् स्थाघ्वोरिच्च (1.2.17) झलादौ यथा स्यात्, इह मा भूत्- उपास्थायिषाताम् उपास्थायिषत।
- इत्त्वं कित्सन्नियोगेन -
कित्त्वसन्नियोगेनेत्त्वमुच्यते। तेनासति कित्त्वे इत्त्वं न भविष्यति।
- रेण तुल्यं सुधीवनि -
तद्यथा- सुधीवा सुपीवेति ङीप्सन्नियोगेन र उच्यमानोऽसति ङीपि न भविति।
अथ वाऽस्त्वत्रेत्त्वम्। का रूपसिद्धिः? वृद्धौ कृतायामायादेशो भविष्यति।
- वस्वर्थम् -
वस्वर्थं तर्हि क्त्वाग्रहणं कर्तव्यम्। वसोर्ह्यौपदेशिकं कित्त्वम्। किं च स्यात्? पपिवान् तस्थिवान् कितीत्याकारलोपो न स्यात्।
मा भूदेवम्। इटीत्येवं भविष्यति।
इदं तर्हि जग्मिवान् जघ्निवान् कितीत्युपधालोपो न स्यात्।
- किदतिदेशात् -
अस्त्वत्रौपदेशिकस्य कित्त्वस्य प्रतिषेधः। आतिदेशिकमत्र कित्त्वं भविष्यति।
यत्र तर्हि तत्प्रतिषिध्यते, अञ्ञ्जेः- आजिवानिति।
एवं तर्हि च्छान्दसः क्वसुः। लिट् च च्छन्दसि सार्वधातुकमपि भवति। तत्र
सार्वधातुकमपिन्ङिद्भवतीति ङित्युपधालोपो भविष्यति।
- (नि) गृहीतिः -
इदं तर्हि प्रयोजनम्। इह मा भूत्- निगृहीतिः उपस्निहितिः निकुचितिः।
तत्तर्हि क्त्वाग्रहणं कर्तव्यम्? न कर्तव्यम्।
- क्त्वा च विग्रहात् -
उपरिष्टाद् योगविभागः करिष्यते- न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः(19) मृषस्तितिक्षायाम् (20) उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (21)। ततः पूङः। पूङश्च निष्ठा सेट् किन्न भवति। ततः क्त्वा च क्त्वा च सेट् किन्न भवति। पूङ इति निवृत्तम्।
न सेडिति कृतेऽकित्त्वे निष्ठायावधारणात्।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ।। 1 ।।
इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि।
वस्वर्थं कितदीदेशाद् गृहीतिः क्त्वा च विग्रहात् ।। 2 ।। न क्त्वा सेट् ।। 18 ।।
-1-2-21- उदुपधाद्भावादिकर्मणोरन्तरस्याम्
इह कस्मान्न भवति- गुधितः गुधितवान्?
- उदुपधाच्छपः -
शब्विकरणेभ्य इष्यते ।। उदुपधाद्भा।। 21 ।।
-1-2-22- पूङः क्त्वा च
- पूङः क्त्वानिष्ठयोरिटि वाप्रसङ्गः सेट्प्रकरणात् -
पूङः क्त्वानिष्ठयोरिटि विभाषा कित्त्वं प्राप्नोति। किं कारणम्?। सेट्प्रकरणात्। सेडिति वर्तते।
- न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् -
न वा एष दोषः। किं कारणम्?। सेट्त्वस्याकिदाश्रयत्वात्। अकिदाश्रयं सेट्त्वम्। यदा अकित्त्वं तदेटा भवितव्यम्। सेट्त्वस्याकिदाश्रयत्वादनिट्येव विभाषा कित्त्वं भविष्यति।
इडि्वधौ पूङो ग्रहणं क्रियते। तेन वचनादिट्। सेट्प्रकरणाच्च इट्येव विभाषा कित्त्वं प्राप्नोति।
- इडि्वधौ ह्यग्रहणम् -
इडि्वधौ हि पूङो ग्रहणं न कर्तव्यं भवति।
भारद्वाजीयाः पठन्ति-
- नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम् -
नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः सिद्धम्। कथम्? विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये च ये विधयस्ते नित्या भवन्ति। किमर्थं तर्हि क्त्वाग्रहणम्? क्त्वा ग्रहणमुत्तरार्थम्। उत्तरार्थं क्त्वाग्रहणं क्रियते नोपधात्थफान्ताद्वा (23) वञ्चिलुञ्ञ्च्यृतश्च (24) इति ।। पूङः क्त्वा च ।। 22 ।।
-1-2-25- तृषिमृषिकृषेः काश्यपस्य
काश्यपग्रहणं किमर्थम्? काश्यपग्रहणं पूजार्थम्। वेत्येव हि वर्तते ।। तृषिमृषिकृषेः काश्यपस्य ।। 25 ।।
-1-2-26- रलो व्युपधाद्धलादेः संश्च
किमिदं रलः क्त्वासनोः कित्त्वं विधीयते, आहोस्वित्प्रतिषिध्यते? किं चातः? यदि विधीयते, क्त्वाग्रहणमनर्थकम्। किदेव हि क्त्वा। अथ प्रतिषिध्यते, सन्ग्रहणमनर्थकम्। अकिदेव हि सन्।
अत उत्तरं पठति -
रलः क्त्वासनोः कित्त्वम्।
रलः क्त्वासनोः कित्त्वं विधीयते।
ननु चोक्तम्- क्त्वाग्रहणमनर्थकम् इति।
नानर्थकम्। न क्त्वा सेट् (1.2.18) इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।। रलो व्युपधाद्धलादेः संश्च ।। 26 ।।
-1-2-27- ऊकालोऽज्झ्रस्वदीर्घप्लुतः
अयुक्तोऽयं निर्देशः। ऊ इत्यनेन कालः प्रतिनिर्दिश्यते, ऊ इत्ययं च वर्णः तत्राऽयुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्।
कथं तर्हि निर्देशः कर्तव्यः?
ऊकालकाल इति।
किमिदमूकालकाल इति? ऊ इत्येतस्य काल ऊकालः, उकालः कालो यस्य स ऊकालकाल इति।
स तर्हि तथानिर्देशः कर्तव्यः?
न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः। एव मूकालकाल ऊकाल इति।
अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णः। वर्णोऽपि काल एव।
- ह्रस्वादिषु समसङ्ख्याऽप्रसिद्धिनिर्देशवैषम्यात् -
ह्रस्वादिषु समसङ्ख्यत्वस्याऽप्रसिद्धिः। किं कारणम्?। निर्देशवैषम्यात् तिस्रः सञ्ज्ञा एकः सञ्ञ्ज्ञी, वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति।
- सिद्धं तु समसङ्ख्यत्वात् -
सिद्धमेतत्। कथम्?। समसङ्ख्यत्वात्। कथं समसङ्ख्यत्वम्?
- त्रयाणां हि विकारनिर्देशः -
त्रयाणामयं प्रश्लिष्टनिर्देशः। कथं पुनर्ज्ञायते- त्रयाणामयं प्रश्लिष्टनिर्देश इति?। तिसृणां सञ्ज्ञानां करणसार्मथ्यात्।
यद्यपि तावत्तिसृणां सञ्ज्ञानां करणसार्मथ्याज्ज्ञायते- त्रयाणमयं प्रश्लिष्टनिर्देश इति। कुतस्त्वेतदेतेनानुपूर्व्येण सन्निविष्टानां सञ्ज्ञा भविष्यति इति, आदौ मात्रिकस्ततो द्विमात्रस्ततस्त्रिमात्र इति। न पुनर्मात्रिको मध्ये वाऽन्ते वा स्यात्, तथा द्विमात्र आदौ वा स्यादन्ते वा। तथा त्रिमात्र आदौ वा मध्ये वा स्यात्? ।
अयं तावत् त्रिमात्रोऽशक्य आदौ वा मध्ये वा कर्तुम्। कुतः? प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत। मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यति।
यत्तावदुच्यते- अयं तावत् त्रिमात्रोऽशक्य आदौ मध्ये वा कर्तुं प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत इति प्लुताश्रयः प्रकृतिभावः। प्लुतसञ्ज्ञा चानेनैव। यदि च त्रिमात्र आदौ वा मध्ये वा स्यात् प्लुतसञ्ञ्ज्ञैवास्य न स्यात्कुतः प्रकृतिभावः।
यदप्युच्यते मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यति इति। ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा चानेनैव। यदि च मात्रिको मध्ये वान्ते वा स्याद्ह्रस्वसञ्ञ्ज्ञैवास्य न स्यात्, कुतो घिसञ्ज्ञा, कुतः पूर्वनिपातः? एवमेषा व्यवस्था न प्रकल्पते।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिकोऽन्ते भवतीति, यदयं- विभाषा पृष्टप्रतिवचने हेः (8.2.93) इति मात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च मात्रिकोऽन्ते
स्यात्प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र हि मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्।
मध्ये तर्हि स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिको मध्ये भवतीति। यदयम्- अतो दीर्घो यञ्ञि सुपि च इति (7.3.101,102) इति दीर्घत्वं शास्ति। कथं कृत्वा
ज्ञापकम्? यो मध्ये स दीर्घसञ्ञ्ज्ञकः। यदि च मात्रिको मध्ये स्याद्दीर्घसञ्ज्ञाऽस्य स्यात्। तत्र
मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्।
द्विमात्रस्तर्ह्यन्ते स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न द्विमात्रोऽन्ते भवतीति, यदयम्- ओमभ्यादाने (8.2.87) इति द्विमात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च द्विमात्रोऽन्ते स्यात् प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र द्विमात्राकालस्य द्विमात्राकालवचनमनर्थकं स्यात्। मात्रिकेण चास्य पूर्वनिपातो बाधित इति कृत्वा क्वान्यत्रोत्सहते भवितुमन्यदतो मध्यात्। एवमेषां व्यवस्था प्रक्लृप्ता।
भवेद् व्यवस्था च प्रक्लृता।
- दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञाप्रसङ्गः -
दीर्घप्लुतयोरपि पूर्वसञ्ज्ञा प्राप्नोति। का? ह्रस्वसञ्ज्ञा। किं कारणम्? अण् सवर्णान् गृह्णाति इति।
- सिद्धं तु तपरनिर्देशात् -
सिद्धमेतत्। कथम्? तपरनिर्देशः कर्तव्यः- उदूकाल इति।
यद्येवं-
- द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कालभेदात् -
द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा मध्यमायां तपरकरणे द्रुतविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा विलम्बितायां तपरकरणे द्रुतमध्यमयोरुपसङ्ख्यानं कर्तव्यम्। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ।।
- द्रुतादिषु चोक्तम् -
किमुक्तम्? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद्वृत्तयो विशिष्यन्ते इति।
स तर्हि तपरनिर्देशः कर्तव्यः?
न कर्तव्यः। इह कालग्रहणं क्रियते। यावच्च तपरकरणं तावच्च कालग्रहणम्। प्रत्येकं च कालशब्दः परिसमाप्यते- उकाल ऊकाल ऊ3काल इति।
अथ वैकसञ्ज्ञाधिकारेऽयं योगः कर्तव्यः। तत्रैका सञ्ज्ञा भविष्यति या परा अनवकाशा चेति। एवं हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति।
अथवा स्वं रूपं शब्दस्याशब्दसञ्ज्ञा (1.1.68) इत्ययं योगः प्रत्याख्यायते। तत्र यदेतद् अशब्दसञ्ज्ञा इति, एतद्यया विभक्त्या निर्दिश्यमानमर्थवद्भवति तया निदिष्टमुत्तरत्रानुवर्तिष्यते। अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) अशब्दसञ्ज्ञायाम् इति।
अथवा ह्रस्वसञ्ज्ञावचनसार्मथ्याद्दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति।
ननु चेदं प्रयोजनं स्यात्- सञ्ञ्ज्ञया विधाने नियमं वक्ष्यामीति ह्रस्वसञ्ञ्ज्ञया यदुच्यते तदचः स्थाने यथा स्यात् इति। स्यादेतत्प्रयोजनं यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः। यतस्तु खलु यावदज्ग्रहणं तावद्ह्रस्वग्रहणमतोऽकिञ्चित्कराणि ह्रस्वशासनानि।
इदं तर्हि प्रयोजनम्- एच इग्ह्रस्वादेशे (1.1.48) इति वक्ष्यामीति। अनुच्यमाने ह्येतस्मिंस्त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति वक्तव्यं स्यात्। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) एच इग्भवति इति। णौ चङ्युपधाया ह्रस्वः (7.4.1) एच इग्भवति इति। ह्रस्वः, हलादिः शेषः (7.4.59,60) एच इग्भवति इति। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्।
लघीयश्च त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति, न पुनः सञ्ज्ञाकरणम्। त्रिर्ह्रस्वप्रदेशेषु एच इग्भवतीति षड् ग्रहणानि। सञ्ज्ञाकरणे पुनरष्टौ। ह्रस्वसञ्ज्ञा वक्तव्या, त्रिर्ह्रस्वप्रदेशेषु ह्रस्वग्रहणं कर्तव्यं- ह्रस्वो ह्रस्वो ह्रस्व इति। एच
इग्घ्रस्वादेशे इति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद् गरीयांसं यत्नमारभते तस्यैतत्प्रयोजनं दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञा मा भूदिति । ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।। 27 ।।
-1-2-28- अचश्च
किमयमलोऽन्त्यशेष आहोस्विदलोन्त्यापवादः?
कथं वाऽयं तच्छेषः स्यात्, कथं वा तदपवादः?
यद्येकं वाक्यं तच्चेदं च अलोन्त्यस्य विधयो भवन्त्यचो ह्रस्वदीर्घप्लुता अन्त्यस्य इति, ततोऽयं तच्छेषः। अथ नानावाक्यम्- अलोन्त्यस्य विधयो भवन्ति अचो ह्रस्वदीर्घप्लुता अन्त्यस्यानन्त्यस्य च इति, ततोऽयं तदपवादः।
कश्चाऽत्र विशेषः?
- ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम् -
ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्र्गहणं कर्तव्यम्। वचिपृच्छ्योर्दीर्घः अचः इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति।
शमादीनां दीर्घः अच इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति।
हनिगम्योदीर्घः अच इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति।
अस्तु तर्हि तदपवादः।
- अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः -
अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यस्य प्रतिषेधो वक्तव्यः। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) यथेह भवति- रै अतिरि, नौ अतिनु। एवं सुवाग्ब्राह्मणकुलम् इत्यत्रापि प्राप्नोति।
अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) यथेह भवति- चीयते सूयते। एवं छिद्यते भिद्यते अत्रापि प्राप्नोति।
नामि (6.4.3) दीर्घो यथेह भवति- अग्नीनाम् वायूनाम्। एवं षण्णामित्यत्रापि प्राप्नोति।
नैष दोषः। नोपधायाः (6.4.7) इत्येतन्नियमार्थं भविष्यति।
प्रकृतस्यैष नियमः स्यात्। किं च प्रकृतम्? नामि इति। तेन भवेदिह नियमान्न स्यात् षण्णामिति। अन्यते तन्यत इत्यत्रापि प्राप्नोति।
अथाप्येवं नियमः स्यात्- नोपधाया नाम्येव इति। एवमपि भवेदिह नियमान्न स्यात्- अन्यते तन्यत इति। षण्णाम् इत्यत्र प्राप्नोति।
अथाप्युभयतोऽयं नियमः स्यात्- नोपधाया एव नामि, नाम्येव नोपधाया इति। एवमपि भिद्यते छिद्यते सुवाग्ब्राह्मणकुलमित्यत्रापि प्राप्नोति।
एवं तर्हि ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयाद् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। तत्र कामचारः- गृह्यमाणेन वाऽचं विशेषयितुमचा वा गृह्यमाणम्। यावता कामचारः, इह तावद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेनाऽचं विशेषयिष्यामः। एतेषां दीर्घो भवति, अच इति। इहेदानीं नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वचा गृह्यमाणं विशेषयिष्यामः। नपुंसकस्य ह्रस्वो भवति, अचः अजन्तस्येति। अकृत्सार्वधातुकयोर्दीर्घो भवति, अचः अजन्तस्येति। नामि दीर्घो भवति अचः अजन्तस्येति।
इह कस्मान्न भवति- द्यौः पन्थाः स इति।
- सञ्ञ्ज्ञया विधाने नियमः -
सञ्ञ्ज्ञया ये विधीयन्ते तेषु नियमः।
किं वक्तव्यमेतत्? नहि।
कथमनुच्यमानं गंस्यते?
अजिति हि वर्तते। तत्रैवमभिसम्बन्धः करिष्यते- अचः अज्भवति ह्रस्वो दीर्घः प्लुत इत्येवं भाव्यमान इति।
अथ पूर्वस्मिन् योगेऽज्ग्रहणे सति किं प्रयोजनम्?
- अज्ग्रहणं संयोगाऽच्समुदायनिवृत्त्यर्थम् -
अज्ग्रहणं कियते संयोगनिवृत्त्यर्थम्, अच्समुदायनिवृत्त्यर्थं च। संयोगनिवृत्त्यर्थं तावत्- प्रतक्ष्य प्ररक्ष्य। ह्रस्वस्य पिति
कृति तुक् (6.1.71) इति तुङ्मा भूदिति। अच्समुदायनिवृत्त्यर्थम्- तितउच्छत्रं तितउच्छाया। दीर्घात्पदान्ताद्वा (6.1.75,76) इति विभाषा तुङ्मा भूदिति ।। अचश्च ।। 28 ।।
-1-2-29- उच्चैरुदात्तः
।। अथ षष्ठीनिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम् ।।
किं षष्ठीनिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न?
किं चातः?
यद्यनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति इत्येषा परिभाषा न प्रकल्पते। कथं हलो नाम स्वरप्राप्तिः स्यात्। एवं तर्हि निवृत्तम्। बहून्येतस्याः परिभाषायाः प्रयोजनानि।
।। अथ प्रथमानिर्दिष्टामज्ग्रहणानुवृत्तिविचाराधिकरणम् ।।
अथ प्रथमानिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न?
किं चार्थोऽनुवृत्त्या?
बाढमर्थः। यद्येते व्यञ्जनस्यापि गुणा लक्ष्यन्ते।
ननु च प्रत्यक्षमुपलभ्यन्ते- इषे त्वोर्जे त्वा।
नैते व्यञ्जनस्य गुणाः, किन्त्वच एव। तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते। तद्यथा- द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते। बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते।
कुतो नु खल्वेतत्- अच एते गुणाः, तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते, न पुर्नव्यञ्जनस्यैते गुणाः स्युस्तत्सामीप्यात्त्वजपि तद्गुण उपलभ्येत इति?
अन्तरेणापि व्यञ्जनमच एवैते गुणा लक्ष्यन्ते, न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति। अन्वर्थं खल्वपि निर्वचनम्- स्वयं राजन्त इति स्वराः, अन्वग्भवति व्यञ्जनमिति।
- उच्चनीचस्यानवस्थितत्वात्सञ्ज्ञाऽप्रसिद्धिः -
इदमुच्चनीचमनवस्थितपदार्थकम्, तदेव हि कञ्चित्प्रत्युच्चैर्भवति, कञ्चित्प्रति नीचैः। एवं हि कश्चित्कञ्चिदधीयानमाह- किमुच्चै रोरूयसे शनैर्वर्ततामिति। तमेव तथाऽधीयानमपर आह किमन्तर्दन्तकेनाधीषे उच्चैर्वर्ततामिति। एवमुच्चनीचमनवस्थितपदार्थकम्, तस्यानवस्थितत्वात्सञ्ज्ञाया अप्रसिद्धिः।
एवं तर्हि लक्षणं करिष्यते- आयामो दारुण्यमणुता खस्येति उच्चैःकराणि शब्दस्य। आयामो गात्राणां निग्रहः। दारुण्यं स्वरस्य दारुणता रूक्षता। अणुता खस्य कण्ठस्य संवृतता। उच्चैः कराणि शब्दस्य। अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य। अन्ववसर्गो
गात्राणां शिथिलता। मार्दवं स्वरस्य मृदुता स्निग्धता। उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य।
एतदप्यनैकान्तिकम्। यद्ध्यल्पप्रमाणस्य सर्वोच्चैस्तद्धि महाप्राणस्य सर्वनीचैः।
- सिद्धं तु समानप्रक्रमवचनात् -
सिद्धमेतत्। कथम्? समाने प्रक्रम इति वक्तव्यम्। कः पुनः प्रक्रमः? उरः कण्ठः शिर इति ।। उच्चैरुदात्तः ।। 29 ।।
-1-2-30- नीचैरनुदात्तः
।। अथ षष्ठीनिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम् ।।
किं षष्ठीनिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न?
किं चातः?
यद्यनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति इत्येषा परिभाषा न प्रकल्पते। कथं हलो नाम स्वरप्राप्तिः स्यात्। एवं तर्हि निवृत्तम्। बहून्येतस्याः परिभाषायाः प्रयोजनानि।
।। अथ प्रथमानिर्दिष्टामज्ग्रहणानुवृत्तिविचाराधिकरणम् ।।
अथ प्रथमानिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न?
किं चार्थोऽनुवृत्त्या?
बाढमर्थः। यद्येते व्यञ्जनस्यापि गुणा लक्ष्यन्ते।
ननु च प्रत्यक्षमुपलभ्यन्ते - इषे त्वोर्जे त्वा।
नैते व्यञ्जनस्य गुणाः, किन्त्वच एव। तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते। तद्यथा - द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते। बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते।
कुतो नु खल्वेतत्- अच एते गुणाः, तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते, न पुर्नव्यञ्जनस्यैते गुणाः स्युस्तत्सामीप्यात्त्वजपि तद्गुण उपलभ्येत इति?
अन्तरेणापि व्यञ्जनमच एवैते गुणा लक्ष्यन्ते, न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति। अन्वर्थं खल्वपि निर्वचनम्- स्वयं राजन्त इति स्वराः, अन्वग्भवति व्यञ्जनमिति।
- उच्चनीचस्यानवस्थितत्वात्सञ्ज्ञाऽप्रसिद्धिः -
इदमुच्चनीचमनवस्थितपदार्थकम्, तदेव हि कञ्चित्प्रत्युच्चैर्भवति, कञ्चित्प्रति नीचैः। एवं हि कश्चित्कञ्चिदधीयानमाह- किमुच्चै रोरूयसे शनैर्वर्ततामिति। तमेव तथाऽधीयानमपर आह किमन्तर्दन्तकेनाधीषे उच्चैर्वर्ततामिति। एवमुच्चनीचमनवस्थितपदार्थकम्, तस्यानवस्थितत्वात्सञ्ज्ञाया अप्रसिद्धिः।
एवं तर्हि लक्षणं करिष्यते- आयामो दारुण्यमणुता खस्येति उच्चैःकराणि शब्दस्य। आयामो गात्राणां निग्रहः। दारुण्यं स्वरस्य दारुणता रूक्षता। अणुता खस्य कण्ठस्य संवृतता। उच्चैः कराणि शब्दस्य। अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य। अन्ववसर्गो
गात्राणां शिथिलता। मार्दवं स्वरस्य मृदुता स्निग्धता। उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य।
एतदप्यनैकान्तिकम्। यद्ध्यल्पप्रमाणस्य सर्वोच्चैस्तद्धि महाप्राणस्य सर्वनीचैः।
- सिद्धं तु समानप्रक्रमवचनात् -
सिद्धमेतत्। कथम्? समाने प्रक्रम इति वक्तव्यम्। कः पुनः प्रक्रमः? उरः कण्ठः शिर इति।। नीचैरनुदात्तः ।। 30 ।।
 -1-2-31- समाहारः स्वरितः
।। समाह्रियमाणनिर्णयाधिकरणम् ।।
समाहारः स्वरित इत्युच्यते। कस्य समाहारः स्वरितसञ्ञ्ज्ञो भवति?
अचोरित्याह।
- समाहारोऽचोश्चेन्नाभावात् -
समाहारोऽचोश्चेत्, तन्न। किं कारणम्? अभावात्। नह्यचोः समाहारोऽस्ति।
नन्वयमस्ति गाङ्गेऽनूप इति?
नैषोऽचोः समाहारः। अन्योयमुदात्तानुदात्तयोः स्थाने एक आदिश्यते।
एवं तर्हि गुणयोः।
- गुणयोश्चेन्नाच्प्रकरणात् -
गुणयोः समाहार इति चेत्, तन्न। किं कारणम्? अच्प्रकरणात्। अजिति वर्तते।
- सिद्धं त्वच्समुदायस्याऽभावात्तद्गुणसम्प्रत्ययः -
सिद्धमेतत्। कथम्? अच्समुदायो नास्तीति कृत्वा तद्गुणस्याचः समाहारगुणस्य सम्प्रत्ययो भविष्यति।
कथं पुनः समाहार इत्यनेनाऽच्छक्यः प्रतिनिर्देष्टुम्?
मतुब्लोपोऽत्र द्रष्टव्यः। तद्यथा- पुष्पका एषां ते पुष्पकाः। कालका एषां ते कालका इति। एवं समाहारवान् समाहारः।
अथ वा अकारो मत्वर्थीयः। तद्यथा तुन्दो घाट इति।
यद्येवं त्रैस्वर्यं न प्रकल्पते। तत्र को दोषः? त्रैस्वर्येणाधीमहे इत्येतन्नोपपद्यते। नैतद्गुणापेक्षम्। किं तर्हि? अजपेक्षमेतत्- त्रैस्वर्येणाधीमहे त्रिप्रकारैरज्भिरधीमहे, कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैः तद्यथा- शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते- कल्माष इति वा
सारङ्ग इति वा। एवमिहाप्युदात्तगुण उदात्तः, अनुदात्तगुणोऽनुदात्तः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते स्वरित इति ।। समाहारः स्वरितः ।। 31 ।।
-1-2-32- तस्यादित उदात्तमर्द्धह्रस्वम्
अर्द्धह्रस्वम् इत्युच्यते तत्र दीर्घप्लुतयोर्न प्राप्नोति। कन्या। शक्तिके3 शक्तिके।
नैष दोषः। मात्रचोऽत्र लोपो द्रष्टव्यः। अर्द्धह्रस्वमात्रमर्धह्रस्वमिति।
किमर्थं पुनरिदमुच्यते? आमिश्रीभूतमिवेदं भवति। तद्यथा- क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वान्न ज्ञायते- कियत् क्षीरम्, कियदुदकम्, कस्मिन्नवकाशे क्षीरम्, कस्मिन्वोदकम् इति। एवमिहाप्यामिश्रीभूतत्वान्न ज्ञायते- कियदुदात्तम्, कियदनुदात्तम्, कस्मिन्नवकाशे उदात्तम्, कस्मिन्ननुदात्तमिति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे- इयदुदात्तमियदनुदात्तमस्मिन्नवकाश उदात्तम्, अस्मिन्नवकाशेऽनुदात्तम् इति।
यद्ययमेवं सुहृत्किमन्यान्यप्येवंजातीयकानि नोपदिशति। कानि पुनस्तानि? स्थानकरणानुप्रदानानि। व्याकरणं नामेयमुत्तरा विद्या। सोऽसौ छन्दःशास्त्रेष्वभिविनीत उपलब्ध्याधिगन्तुमुत्सहते।
यद्येवं नार्थोऽनेन। इदमप्युपलब्धाऽधिगमिष्यति।
सञ्ज्ञाकरणं तर्हीदम्। तस्य स्वस्तिस्यादितोऽर्धह्रस्वमुदात्तसञ्ञ्ज्ञं भवतीति। किं कृतं भवति?। त्रिरुदात्तप्रदेशेषु स्वरितग्रहणं न कर्तव्यं भवति। उदात्तस्वरितपरस्य सन्नतरः (1.2.40) उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् (8.4.67) इति।
एतदपि नास्ति प्रयोजनम्। सञ्ज्ञाकरणं हि नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थं हि सञ्ज्ञाकरणम्। लघीयश्च त्रिरुदात्तप्रदेशेषु स्वस्तिग्रहणं न पुनः सञ्ज्ञाकरणम्।
त्रिरुदात्तप्रदेशेषु स्वरितग्रहणे नवाक्षराणि, सञ्ज्ञाकरणे पुनरेकादश।
एवं तर्ह्युभयमनेन क्रियते। अन्वाख्यानं च सञ्ज्ञा च। कथं पुनरेकेन यत्नेनोभयं लभ्यम्? लभ्यमित्याह। कथम्? अन्वर्थग्रहणात्। अन्वर्थग्रहणं विज्ञास्यते। तस्य स्वरितस्यादितोऽर्धह्रस्वमुदात्तसञ्ञ्ज्ञं भवति। ऊर्ध्वमात्तमिति चात उदात्तम्।
यदि तर्हि सञ्ज्ञाकरणम्, उदात्तादेर्यदुच्यते तत्स्वरितादेरपि प्राप्नोति।
अन्वाख्यानमेव तर्हीदं मन्दबुद्धेः।
- स्वरितस्यार्द्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरितात् कार्यं, स्वरितादिति सिद्ध्यर्थम् -
स्वरितस्यार्द्धह्रस्वोदात्ताद् आ उदात्तस्वरितपरस्य सन्नतरः (1.2.40) इत्येतस्मात्सूत्रादिदं सूत्रकाण्डमूर्ध्वम्- उदात्तादनुदात्तस्य स्वरितः (8.4.66) इत्यतः कर्त्तव्यम्। किं प्रयोजनम्? स्वरितादिति सिद्ध्यर्थम्। स्वरितादिति सिद्धिर्यथा स्यात्- स्वरितात्संहितायामनुदात्तानाम् (1.2.3) इति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- कार्यं देवदत्तयज्ञदत्तौ।
- स्वरितोदात्तार्थं च -
स्वरितोदात्तार्थं च तत्रैव कर्तव्यम्। न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (1.2.37) इन्द्र आगच्छ। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- सुब्रह्मण्योमिन्द्रागच्छ।
- स्वरितोदात्ताच्चाऽस्वरितार्थम् -
स्वरितोदात्ताच्चाऽस्वरितार्थं तत्रैव कर्तव्यम्। इन्द्रागच्छ। हरिव आगच्छ।
- स्वरितपरसन्नतरार्थञ्च -
स्वरितपरसन्नतरार्थं च तत्रैव कर्तव्यम्। उदात्तस्वरितपरस्य सन्नतरः (1.2.40) माणवकजटिलकाध्यापकन्यङ्। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- माणवकजटिलकाभिरूपक क्व।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।
- देवब्रह्मणोरनुदात्तवचनं ज्ञापकं स्वरितादिति सिद्धत्वस्य -
देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति।
यद्येतज्ज्ञाप्यते, स्वरितोदात्तात्परस्यानुदात्तस्य स्वरितत्त्वं प्राप्नोति।
न ब्रूमो देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति। किं तर्हि? परमेतत्सूत्रकाण्डमिति ।। तस्यादित उदात्तमर्द्धह्रस्वम् ।। 32 ।।
-1-2-33- एकश्रुति दूरात्सम्बुद्धौ
किमिदं परिभाषिक्याः सम्बुद्धेर्ग्रहणम् एकवचनं सम्बुद्धिः (2.4.49) इति, आहोस्विदन्वर्थग्रहणम्- सम्बोधनं सम्बुद्धिरिति? किं चातः? यदि पारिभाषिक्याः सम्बुद्धेर्ग्रहणं देवा ब्रह्माणः अत्र न प्राप्नोति। अथान्वर्थग्रहणम्, न दोषो भवति।
यथा न दोषस्तथास्तु।
किं पुनरियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता?
नोदात्ता। कथं ज्ञायते? यदयम् उच्चैस्तरां वा वषट्कारः (1.2.35) इत्याह। कथं कृत्वा ज्ञापकम्? अतन्त्रं तरनिर्देशः। यावदुच्चैस्तावदुच्चैस्तरामिति।
यदि तर्हि नोदात्ता, अनुदात्ता।
अनुदात्ता च न। कथं ज्ञायते? यदयम्- उदात्तस्वरितपरस्य सन्नतरः (1.2.40) इत्याह। कथं कृत्वा ज्ञापकम्?। अतन्त्रं तरनिर्देशः। यावत्सन्नस्तावत्सन्नतर इति। सैषा ज्ञापकाभ्यामुदात्तानुदात्तयोर्मध्यमेकश्रुतिरन्तरालं ह्रियते।
अपर आह- किमियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता?
उदात्ता। कथं ज्ञायते? यदयम् उच्चैस्तरां वा वषट्कारः इत्याह। कथं कृत्वा ज्ञापकम्? तन्त्रं तरनिर्देशः। उच्चैर्द्दष्ट्वा उच्चैस्तरामित्येतद्भवति।
यदि तर्ह्युदात्ता नानुदात्ता।
अनुदात्ता च। कथं ज्ञायते?। यदम् उदात्तस्वरितपरस्य सन्नतरः इत्याह। कथं कृत्वा ज्ञापकम्? तन्त्रं तरनिर्देशः। सन्नं दृष्ट्वा सन्नतर इत्येतद्भवति। त एते तन्त्रे तरनिर्देशे सप्त स्वरा भवन्ति- उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्तरः, स्वरिते य उदात्तः सोऽन्येन विशिष्टः,
एकश्रुतिः सप्तमः ।। एकश्रुति दूरात्सम्बुद्धौ ।। 33 ।।
-1-2-37- न सुब्रह्मण्यायां स्वरितस्य तूदात्तः
- सुब्रह्मण्यायामोकार उदात्तः -
सुब्रह्मण्यायामोकार उदात्तो भवति। सुब्रह्मण्योम्।
- आकार आख्याते परादिश्च -
आकार आख्याते परादिश्चोदात्तो भवति। इन्द्र आगच्छ। हरिव आगच्छ।
- वाक्यादौ च द्वे द्वे -
वाक्यादौ च द्वे द्वे उदात्ते भवतः। इन्द्र आगच्छ। हरिव आगच्छ।
- मघवन्वर्जम् -
आगच्छ मघवन्।
- सत्यापराणामन्तः -
सुत्यापराणामन्त उदात्तो भवति। द्व्यहे सुत्याम् त्र्यहे सुत्याम्।
- असावित्यन्तः -
असावित्यन्त उदात्तो भवति। गार्ग्यो यजते। वात्स्यो यजते।
- अमुष्येत्यन्तः -
अमुष्येत्यन्त उदात्तो भवति। दाक्षेः पिता यजते।
- स्यान्तस्योपोत्तमं च -
स्यान्तस्योपोत्तममुदात्तं भवति, अन्त्यश्च। गार्ग्यस्य पिता यजते। वात्स्यस्य पिता यजते।
- वा नामधेयस्य -
वा नामधेयस्य स्यान्तस्योपोत्तममुदात्तं भवति। देवदत्तस्य पिता यजते। देवदत्तस्य पिता यजते ।। न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।। 37 ।।
-1-2-38- देवब्रह्मणोरनुदात्तः
- देवब्रह्मणोरनुदात्तत्वमेके -
देवब्रह्मणोरनुदात्तत्वमेक इच्छन्ति। देवा ब्रह्माणः, देवा ब्रह्माणः ।। देवब्रह्मणोरनुदात्तः ।। 38 ।।
-1-2-39- स्वरितात्संहितायामनुदात्तानाम्
।। द्व्येकयोरप्येकश्रुतिसाधनाधिकरणम् ।।
- स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम् -
स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यं वक्तव्यम्। आग्निवेश्यः पचतीति। किं पुनः कारणं न सिध्यति? बहुवचननिर्देशात्। बहुवचनेनायं निर्देशः क्रियते, तेन बहूनामेवैकश्रुत्यं स्याद् द्व्येकयोर्न स्यात्।
नैष दोषः। नात्र बहुवचनेन निर्देशस्तन्त्रम्।
कथं पुनस्तेनैव च नाम निर्देशः क्रियते, तच्चातन्त्रं स्यात्? तत्कारी च भवांस्तद्द्वेषी च।
नान्तरीयकत्वादत्रबहुवचनेन निर्देशः क्रियते- अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्य इति। तद्यथा- कश्चिदन्नार्थी शालिकलापं सपलालं सतुषमाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय तुषपलालान्युत्सृजति। तथा कश्चिन्मांसार्थी मत्स्यान् सकण्टकान् सशकलानाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति। एवमिहापि नान्तरीयकत्वाद् बहुवचननिर्देशः क्रियते। अविशेषेणैकश्रुत्यं भवति।
- अविशेषेणैकश्रुत्यमिति चेद्व्यवहितानामप्रसिद्धिः -
अविशेषेणैकश्रुत्यमिति चेद्वयवहितानामैकश्रुत्यं न प्राप्नोति- इमं मे गङ्गे यमुने सरस्वति शुतुद्रि।
- अनेकमपीति तु वचनात्सिद्धम् -
अनेकमप्येकमपि स्वरितात्परं संहितायामेकश्रुति भवतीति वक्तव्यम्।
सिध्यति। सूत्रं तर्हि भिद्यते।
यथान्यासमेवास्तु।
ननु चोक्तम्- स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम्, अविशेषेणेति चेद्व्यवहितानामप्रसिद्धिः इति।
नैष दोषः। कथम्? एकशेषनिर्देशोऽयम्। अनुदात्तस्य चानुदात्तयोश्चानुदात्तानां चानुदात्तानामिति।
एवमपि षट्प्रभृतीनामेव प्राप्नोति। षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते।
प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति ।। स्वरितात्संहितायामनुदात्तानाम् ।। 39 ।।
-1-2-41- अपृक्त एकाल्प्रत्ययः
- अपृक्तसञ्ज्ञायां हल्ग्रहणं स्वादिलोपे हलोऽग्रहणार्थम् -
अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। एकहल्प्रत्ययोऽपृक्तसञ्ञ्ज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? स्वादिलोपे हलोऽग्रहणार्थम्। एवं हि स्वादिलोपे हलो ग्रहणं न कर्तव्यं भवति। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (6.1.68) इत्यपृक्तस्येत्येव सिद्धम्।
- अणिञोर्लुगर्थमल्ग्रहणम् -
अणिञोर्लुगर्थमल्ग्रहणं कर्तव्यम्। किं प्रयोजनम्? अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति ण्यक्षत्रियार्षञ्ञितो यूनि लुगणिञ्ञोः (2.4.58) इत्यपृक्तस्येत्येव सिद्धम्।
- अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गः -
अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गो भवति। इहापि प्राप्नोति- फाण्टाहृतेरपत्यं माणवकः
फाण्टाहृतः इति।
णवचनसार्मथ्यान्न भविष्यति।
- वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थं वचनम् -
वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थमेतत्स्यात्। फगतो मा भूदिति।
- पैलादिषु वचनात्सिद्धम् -
यद्येतावत्प्रयोजनं स्यात् पैलादिष्वेवास्य पाठं कुर्वीत। तत्र पाठादन्येषामपि फको निवृत्तिर्भवति। एवं सिद्धे सति यदयं णं शास्ति तज्ज्ञापयत्याचार्यो - नास्य लुग्भवति इति।
तान्येतानि त्रीणि ग्रहणानि भवन्ति - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं न कर्तव्यम्। अणिञोर्लुकि ग्रहणं कर्तव्यम्। अल्ग्रहणेऽपि वै क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति- अपृक्तसञ्ज्ञायामलग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं कर्तव्यम्। अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति, अपृक्तग्रहणं कर्तव्यम्। तत्र नास्ति लाघवकृतो विशेषः।
अयमस्ति विशेषः। अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते।
कस्मान्न भवति- दर्विः जागृविः?
अलेव यः प्रत्ययः।
किं वक्तव्यमेतत्?
नहि।
कथमनुच्यमानं गंस्यते? अल्ग्रहणसार्मथ्यात्। यदि च योऽल् चान्यश्च तत्र स्यात्, अल्ग्रहणमनर्थकं स्यात्।
हल्ग्रहणेपि वै क्रियमाणे एकग्रहणं न करिष्यते।
कस्मान्न भवति- दर्विः जागृविः?
हलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? हल्ग्रहणसार्मथ्यात्। यदि च यो हल् चान्यश्च तत्र स्यात्, हल्ग्रहणमनर्थकं स्यात्।
<M.2.037>
अस्त्यन्यद्धल्ग्रहणस्य प्रयोजनम्। किम्? हलन्तस्य यथा स्यादजन्तस्य मा भूदिति।
एवं तर्हि सिद्धे सति यदल्ग्रहणे क्रियमाणे एकग्रहणं करोति, तज्ज्ञापयत्याचार्यः- अन्यत्र वर्णग्रहणे जातिग्रहणं भवति इति।
किमेतस्य ज्ञापने प्रयोजनम्?
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् इत्युक्तं तदुपपन्नं भवति ।। अपृक्त एकाल्प्रत्ययः ।। 41 ।।

-1-2-42- तत्पुरुषः समानाधिकरणः कर्मधारयः
।। सामानाधिकरण्योपपादनाधिकरणम् ।।
- तत्पुरुषस्समानाधिकरणः कर्मधारय इति चेत्समासैकार्थत्वादप्रसिद्धिः -
तत्पुरुषः समानाधिकरणः कर्मधारय इति चेत् समासस्यैकार्थत्वात् सञ्ज्ञाया अप्रसिद्धिः।
एकोऽयमर्थस्तत्पुरुषो नाम, अनेकार्थाश्रयं च सामानाधिकरण्यम्।
- सिद्धं तु पदसामानाधिकरण्यात् -
सिद्धमेतत्। कथम्? तत्पुरुषस्समानाधिकरणपदः कर्मधारयसञ्ञ्ज्ञो भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते।
यथान्यासमेवास्तु।
ननु चोक्तम्- तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वादप्रसिद्धिः इति।
नैष दोषः। अयं तत्पुरुषोस्त्येव प्राथमकल्पिको यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च। अस्ति तार्दथ्यात् ताच्छब्द्यं तत्पुरुषार्थानि पदानि तत्पुरुष इति। तद्यस्तार्दथ्यात्ताच्छब्द्यं तस्येदं ग्रहणम् ।। तत्पुरुषः समानाधिकरणः कर्मधारयः ।। 42 ।।
<M.2.038>
-1-2-43- प्रथमानिर्दिष्टं समास उपसर्जनम्
।। समासपदार्थनिरूपणाधिकरणम् ।।
- प्रथमानिर्दिष्टं समासे उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे सञ्ज्ञाऽप्रसिद्धिः -
प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समास उपसर्जनसञ्ज्ञाया अप्रसिद्धिः। नहि कष्टादीनां समासे प्रथमां पश्यामः।
- सिद्धं तु समासविधाने वचनात् -
सिद्धमेतत्। कथम्? समासविधाने प्रथमानिर्दिष्टमुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। ततर्हि वक्तव्यम्?
- न वा तार्दथ्यात्ताच्छब्द्यम् -
न वा वक्तव्यम्। किं कारणम्? तार्दथ्यात्ताच्छब्द्यं भविष्यति। समासार्थं शास्त्रं समास इति।
<M.2.039>
- यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्रोपसर्जनसञ्ज्ञाप्रसङ्गः -
यस्य विधौ प्रथमानिर्देशः क्रियते ततोन्यत्रापि तस्योपसर्जनसञ्ज्ञा प्राप्नोति। राज्ञः कुमारीं राजकुमारीं श्रितः। श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं तस्य षष्ठीसमासेप्युपसर्जनसञ्ज्ञा प्राप्नोति।
- सिद्धं तु यस्य विधौ तं प्रतीति वचनात् -
सिद्धमेतत्। कथम्? यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। उपसर्जनम् इति हि महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करण एतत्प्रयोजनमन्वर्थसञ्ज्ञा यथा विज्ञायेत- अप्रधानमुपसर्जनमिति। प्रधानमुपसर्जनमिति च सम्बन्धिशब्दावेतौ। तत्र
सम्बन्धादेतद् गन्तव्यम्- यं प्रति यदप्रधानं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति।
अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्योपसर्जनसञ्ज्ञा न भवति। राज्ञः पुरुषस्य राजपुरुषस्येति।
- षष्ठ्यन्तयोश्चोपसर्जनत्वे उक्तम् -
किमुक्तम्? षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्याऽपूर्वनिपातः इति। एवं न चेदमकृतं भवति उपसर्जनं पूर्वम् इति। अर्थश्चाऽभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति।
<M.2.040>
यद्यपि तावदेतदुपसर्जनकार्यं परिहृतम्, इदमपरं प्राप्नोति,- राज्ञः कुमार्याः राजकुमार्याः। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्राप्नोति।
- उक्तं वा -
किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ।। प्रथमा निर्दिष्टं समास उपसर्जनम् ।। 43 ।।
-1-2-44- एकविभक्ति चापूर्वनिपाते
।। प्रथमानिर्दिष्टस्य पूर्वनिपातसाधकाधिकरणम् ।।
द्वितीयादीनामप्यनेनोपसर्जनसञ्ज्ञा प्राप्नोति। तत्र को दोषः?। तत्राऽपूर्वनिपात इति प्रतिषेधः प्रसज्येत।
<M.2.041>
- नाऽप्रतिषेधात् -
नायं प्रसज्यप्रतिषेधः- पूर्वनिपाते न इति। किं तर्हि? पर्युदासोऽयम्- यदन्यत्पूर्वनिपातात् इति। पूर्वनिपातेऽव्यापारः। यदि केनचित्प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति तेन भविष्यति।
- अप्राप्तेर्वा -
अथवा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। पूर्वा
प्राप्तिरप्रतिषिद्धा तया भविष्यति।
ननु चेयं प्राप्तिः पूर्वां प्राप्ति बाधते।
नोत्सहते प्रतिषिद्धा सति बाधितुम्।
- एकविभक्तावषष्ठ्यन्तवचनम् -
एकविभक्तावषष्ठ्यन्तानामिति वक्तव्यम्। इह मा भूत्- अर्धं पिप्पल्याः अर्धपिप्पलीति।
- उक्तं वा -
किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणं भविष्यति।
कानि पुनरस्य योगस्य प्रयोजनानि?
- प्रयोजनं द्विगुप्राप्तापन्नालंपूर्वोपसर्गाः क्तार्थे -
द्विगुः- पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः।
प्राप्तापन्न(पूर्व)- प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापन्नजीविकः।
अलंपूर्व- अलं कुमार्यै अलंकुमारिः।
उपसर्गाः क्तार्थे- निष्कौशाम्बिः निर्वाराणसिः ।। एकविभक्ति चापूर्वनिपाते ।। 44 ।।
इति श्रमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीयपादे प्रथममाह्निकम् ।। 1 ।।
-1-2-45- अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
।। पदकृत्यनिरूपणाधिकरणम् ।।
(अर्थवद्ग्रहणं किमर्थम्?।)
अर्थवदिति व्यपदेशाय। वर्णानां च मा भूदिति।
किं च स्यात्?। वनं घनमिति नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः प्रसज्येत।
अधातुरिति किमर्थम्?
अहन् वृत्रम्।
अधातुरिति शक्यमवक्तुम्।
कस्मान्न भवति अहन्वृत्रम् इति?
आचार्यप्रवृत्तिर्ज्ञापयति- न धातोः प्रातिपदिकसञ्ज्ञा भवतीति, यदयं सुपो धातुप्रातिपदिकयोः (2.4.71) इति धातुग्रहणं करोति।
नैतदस्ति ज्ञापकम्। प्रतिषिद्धार्थमेतत्स्यात् अपि काकः श्येनायते इति।
अप्रत्यय इति किमर्थम्?
काण्डे कुड्ये।
अप्रत्यय इति शक्यमवक्तुम्।
कस्मान्न भवति काण्डे कुड्य इति? कृत्तद्धितग्रहणं नियमार्थं भविष्यति- कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति।
- अर्थवत्यनेकपदप्रसङ्गः -
अर्थवति प्रातिपदिकसञ्ज्ञायामनेकस्यापि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति। दश दाडिमानि, षडपूपाः, कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति।
समुदायोऽत्रानर्थकः।
- समुदायोऽनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वं यथा लोके -
समुदायोऽनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वम्। अवयवैरर्थवदि्भः समुदाया अप्यर्थवन्तो भवन्ति। यथा लोके। तद्यथा- लोके आढ्यमिदं नगरं गोमदिदं नगरम् इत्युच्यते। न च सर्वे तत्राढ्या भवन्ति, सर्वे वा गोमन्तः।
यथा लोके इत्युच्यते, लोके चावयवा एवार्थवन्तो न समुदायाः। अतश्चावयवा एवार्थवन्तो न समुदायाः। यस्य हि यद् द्रव्यं भवति स तेन कार्यं करोति। यस्य च या गावो भवन्ति स तासां क्षीरं घृतं चोपभुङ्क्ते, अन्यैरेतद्
द्रष्टुमप्यशक्यम्।
का तर्हीयं वाचोयुक्तिराढ्यमिदं नगरं गोमदिदं नगरमिति? एषैषा वाचोयुक्तिः। इह तावदाढ्यमिदं नगरमित्यकारो मत्वर्थीयः- आढ्या अस्मिन्सन्ति तदिदमाढ्यमिति। गोमदिदं
नगरमिति, मत्वन्तान्मत्वर्थीयो लुप्यते।
एवमपि-
- वाक्यप्रतिषेधोऽर्थवत्त्वात् -
वाक्यस्य प्रातिपदिकसञ्ज्ञायाः प्रतिषेधो वक्तव्यः। देवदत्त गामभ्याज शुक्लाम्, देवदत्त
गामभ्याज कृष्णामिति। किं कारणम्? अर्थवत्त्वात्। अर्थवद्ध्येतद्वाक्यं भवति।
न वै पदार्थादन्यस्यार्थस्योपलब्धिर्भवति वाक्ये।
- पदार्थादन्यस्यानुपलब्धिरिति चेत् पदार्थाभिसम्बन्धस्योपलब्धिः (स्तस्मात्प्रतिषेधः) -
पदार्थादन्यस्यानुपलब्धिरिति चेदेवमुच्यते- पदार्थाभिसम्बन्धस्योपलब्धिर्भवति वाक्ये। इह देवदत्त इत्युक्ते कर्ता निर्दिष्टः, कर्म क्रियागुणौ चानिर्दिष्टौ। गामित्युक्ते कर्म निर्दिष्टम्, कर्ता क्रियागुणौ चानिर्दिष्टौ। अभ्योजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्चानिर्दिष्टः। शुक्लामित्युक्ते गुणो निर्दिष्टः, कर्तृकर्मणी क्रिया चानिर्दिष्टा। इहेदानीं देवदत्त गामभ्याज शुक्लामित्युक्ते सर्वं निर्दिष्टम्- देवदत्त एव कर्ता नान्यः। गामेव कर्म नान्यत्। अभ्याजैव क्रिया नान्या। शुक्लमेव न कृष्णामिति। एतेषां पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थः। तस्मात् प्रतिषेधः। तस्मात्प्रतिषेधो वक्तव्यः।
न वक्तव्यः।
- अर्थवत्समुदायानां समासग्रहणं नियमार्थम् -
अर्थवत्समुदायानां समासग्रहणं नियमार्थं भविष्यति। समास एवार्थवतां समुदायानां प्रातिपदिकसञ्ञ्ज्ञो भवति नान्य इति।
यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति- बहुपटवः उच्चकैर्नीचकैरिति।
किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते?
प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यादिति।
नैष दोषः। यथैवात्राप्रातिपदिकत्वात्सुबुत्पत्तिर्न भवति, एवं लुगपि न भविष्यति। तत्र यैवासावन्तर्वर्तिनी विभक्तिस्तस्या एव श्रवणं भविष्यति।
नैवं शक्यम्। स्वरे दोषः स्यात्- बहुपटव इत्येवं स्वरः स्यात्। बहुपटव इति चेष्यते। पठिष्यति ह्याचार्यः- चितः सप्रकृतेर्बह्वकजर्थम् इति। तस्यां पुनर्लुप्तायां यान्या विभक्तिरुत्पद्यते तस्याः प्रकृत्यनेकदेशत्वादन्तोदात्तत्वं न भविष्यति।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा- इति। यदयम् अप्रत्ययः इति प्रतिषेधं शास्ति। स च तदन्तप्रतिषेधः।
स तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधो वक्तव्यः।
ननु चायं प्राप्त्यर्थोऽपि वक्तव्यः।
नार्थः प्राप्त्यर्थेन। कृत्तद्धितग्रहणं नियमार्थं भविष्यति- कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति, नान्यस्य प्रत्ययान्तस्य इति।
स एषोऽनन्यार्थः प्रत्ययप्रतिषेधो वक्तव्यः। प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या।
उभयं न वक्तव्यम्। तुल्यजातीयस्य नियमः।
कश्च तुल्यजातीयः?
यथाजातीयकानां समासः।
कथं जातीयकानां समासः?
सुबन्तानाम्।
सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति।
सुप्तिङ्समुदायस्यापि प्रातिपदिकसञ्ज्ञाऽऽरभ्यते- जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति इति। तन्नियमार्थं भविष्यति- एतस्यैव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति।
तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति।
तिङ्समुदायस्यापि प्रातिपदिकसञ्ज्ञाऽऽरभ्यते- आख्यातमाख्यातेन क्रियासातत्ये इति। तन्नियमार्थं भविष्यति- एतस्यैव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति।
- अर्थवत्ता नोपपद्यते केवलेनाऽवचनात् -
अर्थवत्ता नोपपद्यते वृक्षशब्दस्य। किं कारणम्? केवलेनावचनात्। न केवलेन वृक्षशब्देनार्थो गम्यते। केन तर्हि? सप्रत्ययकेन।
- न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्याऽप्रयोगः -
न वैष दोषः। किं कारणम्? प्रत्ययेन नित्यसम्बन्धात् नित्यसम्बन्धावेतावर्थौ प्रकृतिः प्रत्यय इति। प्रत्ययेन नित्यसम्बन्धात् केवलस्य प्रयोगो न भविष्यति।
अन्यद्भवान्पृष्टोऽन्यदाचष्टे। आम्रान् पृष्टः कोविदारानाचष्टे। अर्थवत्ता नोपपद्यते केवलेनावचनाद् इति भवानस्माभिश्चोदितः केवलस्याऽप्रयोगे हेतुमाह।
एवं किल नाम कृत्वा चोद्यते समुदायस्यार्थे प्रयोगादवयवानामप्रसिद्धिः इति।
- सिद्धं त्वन्वयव्यतिरेकाभ्याम् -
सिद्धमेतत्। कथम्? अन्वयाद् व्यतिरेकाच्च।
कोसावन्वयो व्यतिरेको वा?
इह वृक्ष इत्युक्ते कश्चिच्छब्दः श्रूयते वृक्षशब्दोऽकारान्तः सकारश्च प्रत्ययः। अर्थोऽपि कश्चिद् गम्यते मूलस्कन्धफलपलाशवान्, एकत्वं च। वृक्षावित्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी। सकारो हीयते, औकार उपजायते, वृक्षशब्द अकारान्तोऽन्वयी। अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी- एकत्वं हीयते द्वित्वमुपजायते
मूलस्कन्धफलपलाशवानन्वयी। ते मन्यामहे- यः शब्दो हीयते तस्यासावर्थो यो हीयते, यः शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थो योऽर्थोऽन्वयीति।
विषम उपन्यासः। बहवो हि शब्दा एकार्था भवन्ति। तद्यथा- इन्द्रः शक्रः पुरुहूतः पुरन्दरः। कन्दुः कोष्ठः कुसूल इति। एकश्च शब्दो बह्वर्थः। तद्यथा- अक्षाः पादा माषा इति।
अतः किम्?
न साधीयोऽर्थवत्ता सिद्धा भवति।
न ब्रूमः- अर्थवत्ता न सिध्यतीति। वर्णिता अर्थवत्तान्वयव्यतिरेकाभ्यामेव।
तत्र कुत एतदयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति। न पुनः प्रकृतिरेवोभावर्थौ ब्रूयात्। प्रत्यय एव वा?
सामान्यशब्दा एत एवं स्युः। सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणं वा विशेषेष्ववतिष्ठन्ते। यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चदर्थे प्रतीतिरुपजायते। अतो मन्यामहे नेमे सामान्यशब्दा इति। न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे।
।। वर्णानामर्थवत्तानर्थकत्वनिर्णयाधिकरणम् ।।
किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदनर्थकाः?
- वर्णस्यार्थवदनर्थकत्वे उक्तम् -
किमुक्तम्?। अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनाद्वर्णव्यत्यये चार्थान्तरगमनाद्वर्णानुपलब्धौ चानर्थगतेः सङ्घातार्थवत्त्वाच्च। सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्। अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेर्वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनाद् इति।
तत्रेदमपरिहृतम्- सङ्घातार्थवत्त्वाच्च इति।
तस्य परिहारः-
- सङ्घातार्थवत्त्वाच्चेति चेद् दृष्टो ह्यतदर्थेन गुणेन गुणिनोऽर्थभावः -
सङ्घातार्थवत्त्वाच्चेति चेद् दृश्यते हि पुनरतदर्थेन गुणेन गुणिनोऽर्थभावः। तद्यथा- एकस्तन्तुस्त्वक्त्राणेऽसमर्थस्तत्समुदायश्च कम्बलः समर्थः। एकश्च तण्डुलः
क्षुत्प्रतिघातेऽसमर्थः, तत्समुदायश्च वर्द्धितकं समर्थम्। एकश्च बल्वजो बन्धनेऽसमर्थः, तत्समुदायश्च रज्जुः समर्था भवति।
विषम उपन्यासः। भवति हि तत्र या च यावती चाऽर्थमात्रा। भवति हि
कञ्चित्प्रत्येकस्तन्तुस्त्वक्त्राणे समर्थः, एकश्च तण्डुलः क्षुत्प्रतिघाते समर्थः, एकश्च बल्वजो बन्धने समर्थः। इमे पुनर्वर्णा अत्यन्तमेवाऽनर्थकाः।
यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकं व्रजिक्रियां प्रत्यसमर्थानि भवन्ति तत्समुदायश्च रथः समर्थः, एवमेषां वर्णानां समुदाया अर्थवन्तः, अवयवा अनर्थका इति।
।। अथानर्थकनिपातप्रातिपदिकसञ्ज्ञासाधनाधिकरणम् ।।
- निपातस्यानर्थकस्य प्रातिपदिकत्वम् -
निपातस्यानर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या। खञ्जति। निखञ्जति। लम्बते प्रलम्बते।
किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते?
प्रातिपदिकाद् इति स्वाद्युत्पत्तिः सुबन्तं पदम् इति पदसञ्ज्ञा। पदस्य पदात् (8.1.16,17) इति निघातो यथा स्यात्।
नैतदस्ति प्रयोजनम्। सत्यामपि प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तिर्न प्राप्नोति। किं कारणम्? नहि प्रातिपदिकसञ्ज्ञायामेव स्वाद्युत्पत्तिः प्रतिबद्धा। किं तर्हि? एकत्वादिष्वप्यर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति।
नैष दोषः। अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते।
अथ वा प्रकृतानर्थानपेक्ष्य नियमः। के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवार्थ एकवचनं, न द्वयोर्न बहुषु। द्वयोरेवार्थयोद्विवचनं नैकस्मिन्न बहुषु। बहुष्वेवार्थेषु बहुवचनं, नैकस्मिन्न द्वयोः इति।
अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति- अनर्थकानामप्येतेषां भवत्यर्थवत्कृतम् इति, यदयम् अधिपरी अनर्थकौ (1.4.93) इत्यनर्थकयोर्गत्युपसर्गसञ्ज्ञाबाधिकां कर्मप्रवचनीयसञ्ञ्ज्ञां शास्ति।
।। अथाप्रत्यय इत्यत्र पर्युदासप्रसज्यप्रतिषेधविचारः ।।
किं पुनरयं पर्युदासो यदन्यत्प्रत्ययादिति, अहोस्वित्प्रसज्याऽयं प्रतिषेधः प्रत्ययो नेति? कश्चात्र विशेषः?
- अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात् -
अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधो वक्तव्यः। काण्डे कुड्ये। किं कारणम्? अन्तवत्त्वात्। तिबतिपोरेकादेशोऽतिपोऽन्तवत्स्यात्। अस्त्यन्यत्तिप इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति।
अस्तु तर्हि प्रसज्यप्रतिषेधः- प्रत्ययो न इति।
- न प्रत्यय इति चेदूङेकादेशे प्रतिषेध आदित्त्वात् -
न प्रत्यय इति चेदूङेकादेशे प्रतिषेधः प्राप्नोति। ब्रह्मबन्धूः। किं कारणम्? आदिवत्त्वात् प्रत्ययाऽप्रत्यययोरेकादेशः प्रत्ययस्यादिवत्स्यात्। तत्र प्रत्ययो न इति प्रतिषेधः प्राप्नोति।
किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते?
प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यात्।
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- उत्पद्यन्ते ऊङन्तात्स्वादय इति, यदयं
नोङ्धावत्वोः (6.1.175) इति विभक्तिस्वरस्य प्रतिषेधं शास्ति।
अथ वा द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे- अवयवस्यापि, समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसञ्ज्ञा तयाऽन्तवद्भावात्स्वाद्युत्पत्तिर्भविष्यति।
- सुब्लोपे च प्रत्ययलक्षणत्वात् -
सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति। राजा। तक्षा। प्रत्ययलक्षणेन प्रत्ययो न इति प्रतिषेधः प्राप्नोति।
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- न प्रत्ययलक्षणेन प्रतिषेधो भवति इति, यदयं- न ङिसम्बुद्ध्योः (8.2.8) इति प्रतिषेधं शास्ति।
अथ वा पुनरस्तु पर्युदासः। ननु चोक्तम् अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधोऽन्तवत्त्वाद् इति।
प्रसज्यप्रतिषेधेऽप्येष दोषः। द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे, अवयवस्यापि समुदायस्यापि। गृह्यते च प्रातिपदिकाप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन। तस्मादुभाभ्यामपि वक्तव्यं स्याद्- ह्रस्वो नपुंसके यत्तस्य इति। किं च नपुंसके? नपुंसकं यस्य गुणः। कस्य च नपुंसकं गुणः? प्रातिपदिकस्य ।। अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।। 45 ।।
-1-2-46- कृत्तद्धितसमासाश्च
समासग्रहणं किमर्थम् ?
- समासग्रहण उक्तम् -
किमुक्तम्? अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति ।। कृत्तद्धितसमासाश्च ।। 46 ।।
-1-2-47- ह्रस्वो नपुंसके प्रातिपदिकस्य
।। प्रातिपदिकपदप्रयोजनाधिकरणम् ।।
प्रातिपदिकग्रहणं किमर्थम्?
- नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं तिब्निवृत्त्यर्थम् -
नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं क्रियते तिब्निवृत्त्यर्थम् तिबन्तस्य ह्रस्वत्वं मा भूत्- काण्डे कुड्ये। रमते ब्राह्मणकुलमिति।
- अव्ययप्रतिषेधः -
अव्ययानां प्रतिषेधो वक्तव्यः। इह मा भूत्- दोषा ब्राह्मणकुलम्। दिवा ब्राह्मणकुलमिति।
स तर्हि वक्तव्यः?
न वक्तव्यः। नात्राऽव्ययं नपुंसके वर्तते। किं तर्हि? अधिकरणमत्राव्ययं नपुंसकस्य।
इह तर्हि प्राप्नोति- काण्डीभूतं वृषलकुलम्, कुड्यीभूतं वृषलकुलमिति।
- न वा लिङ्गाऽभावात् -
न वा वक्तव्यम्। किं कारणम्? लिङ्गाऽभावात्। अलिङ्गमव्ययम्।
किं पुनरयमव्ययस्यैव परिहार अहोस्वित्तिबन्तस्यापि परिहारः?
तिबन्तस्यापि इत्याह। कथम्? अव्ययं हि किञ्चिद्विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम्। उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम्, हिरुक् पृथगिति क्रियाप्रधानम्। तिबन्तं चापि किञ्चिद्विभक्त्यर्थप्रधानं, किञ्चित्क्रियाप्रधानम्। काण्डे कुड्ये इति विभक्त्यर्थप्रधानं, रमते
ब्रह्मणकुलमिति क्रियाप्रधानम्। न चैतयोरर्थयोलिङ्गसङ्ख्याभ्यां योगोऽस्ति।
अवश्यं चैतदेवं विज्ञेयम्। क्रियमाणेऽपि हि प्रातिपदिकग्रहणे इह प्रसज्येत-- काण्डे कुड्ये। द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे। अवयवस्यापि समुदायस्यापि । गृह्यते च प्रातिपदिकाऽप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन।
तस्मादुभाभ्यामिति वक्तव्यं स्यात्- ह्रस्वो नपुंसके यत्तस्य इति। किं च नपुंसके? नपुंसकं यस्य गुणः। कस्य च नपुंसकं गुणः प्रातिपदिकस्य।
<M.2.054>
- यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः -
यञ्ञैकादेशदीर्घेत्त्वेषु प्रतिषेधो वक्तव्यः। युगवरत्राय युगवरत्रार्थम् युगवरत्रेभ्यः।
- यञ्ञेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात्सिद्धम् -
बहिरङ्गा एते विधयः। अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।
- उपसर्जनह्रस्वत्वे च -
किम्? यञ्ञेकादेशदीर्घैत्वेषु प्रतिषेधो वक्तव्यः। अतिखट्वाय। अतिखट्वार्थम्। अतिखट्वेभ्यः। बहिरङ्गलक्षणत्वात्सिद्धम् इत्येव। बहिरङ्गा एते विधयः। अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे ।। ह्रस्वो नपुंसके प्रातिपदिकस्य ।। 47 ।।
-1-2-48- गोस्त्रियोरुपसर्जनस्य
- उपसर्जनह्रस्वत्वे च -
उपसर्जनह्रस्वत्वे च। किम्?। यञ्ञेकादेशदीर्घैत्वेषु प्रतिषेधो वक्तव्यः। अतिखट्वाय अतिखट्वार्थम् अतिवट्वेभ्यः।
उपसर्जनह्रस्वत्वे च। किम्?। बहिरङ्गलक्षणत्वात् सिद्धमित्येव। बहिरङ्गा एते विधयः, अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।फ्
।। न्यायान्तरनिराकरणाधिकरणम् ।।
- गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम् -
गोटाङ्ग्रहणं कर्तव्यम्। किमिदं टाङ् इति?। प्रत्याहारग्रहणम्। क्व सन्निविष्टानां प्रत्याहारः? टापः प्रभृत्या ष्यङो ङकारात्। कि प्रयोजनम्? कृन्निवृत्त्यर्थम् कृत्स्त्रिया धातुस्त्रियाश्च ह्रस्वत्वं मा भूदिति। अतितन्त्रीः अतिश्रीः अतिलक्ष्मीरिति।
<M.2.055>
तत्तर्हि वक्तव्यम्? न वक्तव्यम्। स्त्रीग्रहणं स्वरिष्यते। तत्र स्वरितेनाधिकारगतिर्भवति। स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते।
स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति।
यद्येवं प्रत्ययग्रहणमिदं भवति। तत्र प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवति इतीह न प्राप्नोति- अतिराजकुमारिः, अतिसेनानीकुमारिरिति।
अस्त्रीप्रत्ययेन इत्येवं तत्।
।। अनिष्टह्रस्वापत्तिवारणाधिकरणम् ।।
- इर्यसो बहुव्रीहौ पुंवद्वचनम् -
इर्यसो बहुव्रहौ पुंवद्भावो वक्तव्यः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी, विद्यमानश्रेयसी।
- पूर्वपदस्य च प्रतिषेधो गोसमासनिवृत्त्यर्थम् -
पूर्वपदस्य च प्रतिषेधो वक्तव्यः। किं प्रयोजनम्? गोसमासनिवृत्त्यर्थम्। गोनिवृत्यर्थं, समासनिवृत्त्यर्थं च । गोनिवृत्त्यर्थं तावत् गोकुलम्, गोक्षीरम्, गोपालक इति।
समासनिवृत्त्यर्थम्- राजकुमारीपुत्रः सेनानीकुमारीपुत्र इति।
<M.2.056>
किमुच्यते समासनिवृत्त्यर्थमिति, न पुनरसमासोऽपि किञ्चित्पूर्वपदं यदर्थः प्रतिषेधः स्यात्?
स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य र्ह्रस्वो भवति इत्युच्यते। न चान्तरेण समासं स्त्र्यन्तं प्रातिपदिकमुपसर्जनमस्ति।
ननु चेदमस्ति खट्वापादो मालापाद इति। एकादेशे कृतेऽन्तादिवद्भावात्प्राप्नोति।
उभयत आश्रयणे नान्तादिवत्।
गोनिवृत्त्यर्थेन तावन्नार्थः। गोन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्यच्यते, न चैतद्गोन्तम्।
ननु चैतदपि व्यपदेशिवद्भावेन गोन्तम्।
व्यपदेशिवद्भावोऽप्रातिपदिकेन।
समासनिवृत्यर्थेन चापि नार्थः। स्त्र्यन्तन्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्युच्यते, प्रधानमुपसर्जनम् इति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यं यं प्रति यदप्रधानं तस्य चेत्सोऽन्तो भवति इति। अवश्यं चैतदेवं
विज्ञेयम्। उच्यमानेऽपि हि प्रतिषेध इह प्रसज्येत- पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, दशकुमारीप्रिय इति।
<M.2.057>
- कपि च -
कपि च प्रतिषेधो वक्तव्यः। बहुकुमारीकः, बहुवृषलीकः।
- द्वन्द्वे च -
द्वन्द्वे च प्रतिषेधो वक्तव्यः। कुक्कुटमयूर्यौ।
- उक्तं वा -
किमुक्तम्?। कपि तावदुक्तं- न कपि (7.4.14) इति प्रतिषेध इति।
नैतदस्त्युक्तम्। केणः (7.4.13) इति या ह्रस्वप्राप्तिस्तस्याः प्रतिषेध इति। कुत एतत्?
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते या च यावती च ह्रस्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेध इति, इहापि तस्य प्रतिषेधः प्रसज्येत प्रियं ग्रामणि। ब्राह्मणकुलमस्य प्रियग्रामणिकः, प्रियसेनानिकः।
इदं तर्ह्युक्तम् कपि कृते अनन्त्यत्वाद्ह्रस्वत्वं न भविष्यति। इदमिह सम्प्रधार्यम्- कप् क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम्? परत्वात् कप्। अन्तरङ्गं ह्रस्वत्वम्। अन्तरङ्गतरः
कप्।
न चायं कप् समासान्त इत्युच्यते।
तार्दथ्यात्ताच्छब्द्यं भविष्यति। येषां पदानां समासो न तावत्तेषामन्यद्भवति कपं तावत् प्रतीक्षते।
<M.2.058>
द्वन्द्वेऽप्युक्तम्। किमुक्तम्? परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ।। गोस्त्रियोरुपसर्जनस्य ।। 48 ।।
-1-2-49- लुक्तद्धितलुकि
।। अनिष्टपरिहाराधिकरणम् ।।
- तद्धितलुक्यवन्त्यादीनां प्रतिषेधः -
तद्धितलुक्यवन्त्यादीनां प्रतिषेधो वक्तव्यः। अवन्ती। कुन्ती। कुरूः।
- तद्धितलुक्यवन्त्यादीनामप्रतिषधोऽलुक्परत्वात् -
तद्धितलुक्यवन्त्यादीनामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः। लुक्कस्मान्न भवति? अलुक्परत्वात्। लुकि इत्युच्यते, न चाऽत्र लुकं पश्यामः।
लुकि इति नैषा परसप्तमी शक्या विज्ञातुम्। नहि लुका पौर्वापर्यमस्ति। का तर्हि? सत्सप्तमी। लुकि सतीति। सत्सप्तमी चेत् प्राप्नोति।
एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति। किम्? उपसर्जनस्येति वर्तते इति। न च जातिरुपसर्जनम् ।। लुक्तद्धितलुकि ।। 49 ।।
<M.2.059>
-1-2-50- इद् गोण्याः
- इद्गोण्या नेति वक्तव्यम् -
गोण्या न इत्येव सिद्धम्। नार्थ इत्त्वेन।
का रूपसिद्धिः?। पञ्चगोणिर्दशगोणिः।
- ह्रस्वता हि विधीयते -
ह्रस्वत्वमत्र विधीयते गोस्त्रियोरुपसर्जनस्य (1.2.48) इति।
- इति वा वचने तावत् -
इद् इति वोच्येत, नेति वा। को न्वत्र विशेषः?
- मात्रार्थं वा कृतं भवेत् -
अथवा मात्रार्थमिदं वक्तव्यम्। गोणीमात्रमिदं गोणिः। अपर आह-
- गोण्या इत्त्वं प्रकरणात् -
अशिष्यं गोण्या इत्त्वम्। किं कारणम्? प्रकरणात्। प्रकृतं ह्रस्वत्म्। ह्रस्व इति वर्तते।
<M.2.060>
न तु सूच्याः।
- सूच्याद्यर्थमथापि वा -
सूच्याद्यर्थमिदं द्रष्टव्यम्। पञ्चसूचिः दशसूचिः।
इद्गोण्या नेति वक्तव्यं ह्रस्वता हि विधीयते।
इति वा वचने तावन्मात्रार्थं वा कृतं भवेत् ।। 1 ।।
गोण्या इत्त्वं प्रकरणात्सूच्याद्यर्थमथापि वा ।। इद् गोण्याः ।। 50 ।।
-1-2-51- लुपि युक्तवद्व्यक्तिवचने
।। पदकृत्यवर्णनाधिकरणम् ।।
व्यक्तिवचने इति किमर्थम्? शिरीषाणामदूरभवो ग्रामः शिरीषाः। तस्य ग्रामस्य वनं शिरीषवनम्। किं च स्यात्? विभाषौषधिवनस्पतिभ्यः (8.4.6) इति णत्वं प्रसज्येत।
अपर आह- कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी। षष्ठी युक्तवद्भावेन मा भूदिति।
अथ व्यक्तिवचने इत्यप्युच्यमाने कस्मादेवात्र न भवति, षष्ठ्यपि हि वचनम्?
नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्- उच्यते वचनमिति।
<M.2.061>
एवमपि षष्ठी प्राप्नोति। षष्ठ्यपि ह्युच्यते।
लुपोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति।
आतिदेशिकी तर्हि प्राप्नोति।
एवं तर्हि-
- प्रागपि वृत्तेर्युक्तं वृत्तं चापीह यावता युक्तम्।
वक्तुश्च कामचारः प्राग्वृत्तेर्लिङ्गसङ्ख्येये -
प्रागपि वृत्तेर्युक्तं वनस्पतिभिः नगरम्। वृत्तञ्ञ्चापि युक्तं वनस्पतिभिर्नगरम्। वृत्ते च युक्तवद्भावो विधीयते। कामचारश्च प्रयोक्तुः प्राग्वृत्तेर्ये लिङ्गसङ्ख्ये ते अतिदेष्टुम्, वृत्तस्य वा ये लिङ्गसङ्ख्ये ते। यावता कामचारः, वृत्तस्य ये लिङ्गसङ्ख्ये ते अतिदेक्ष्येते, न प्राग्वृत्तेर्ये।
अथ वा प्राग्वृत्तेर्ये लिङ्गसङ्ख्ये ते अतिदेक्ष्येते। षष्ठी कस्मान्न भवति? सामान्यातिदेशे विशेषानतिदेश इति।
<M.2.062>
किमर्थं पुनरिदमुच्यते?
- अन्यत्राभिधेयस्य व्यक्तिवचनभावाल्लुपि युक्तवदनुदेशः -
अन्यत्राभिधेयवल्लिङ्गवचनानि भवन्ति। क्वान्यत्र? लुकि। लवणः सूपः। लवणा यवागूः। लवणं शाकमिति। अन्यत्राभिधेयवद्व्यक्तिवचनानि भवन्ति लुकि। इहाप्यभिधेयवल्लिङ्गवचनानि प्राप्नुवन्ति। इष्यन्ते चाभिधानवत्स्युरिति। तच्चान्तरेण यत्नं न
सिध्यतीति लुपि युक्तवदनुदेशः। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति।
- लुपोऽदर्शनसञ्ज्ञित्वादर्थगतिर्नोपपद्यते -
लुब्नामेयमदर्शनस्य सञ्ज्ञा क्रियते। न चाऽदर्शनस्य लिङ्गसङ्ख्ये शक्येते अतिदेष्टुम्।
लुपोऽदर्शनसञ्ज्ञित्वादर्थगतिर्नोपपद्यते।
- न वाऽदर्शनस्याऽशक्यत्वादर्थगतिः साहचर्यात् -
न वैष दोषः। किं कारणम्? अदर्शनस्याऽशक्यत्वात्। अदर्शनस्य लिङ्गसङ्ख्ये अशक्ये अतिदेष्टुमिति कृत्वाऽदर्शनसहचरितो योऽर्थस्तस्य गतिर्भविष्यति साहचर्यात्।
- योगाऽभावाच्चान्यस्य -
अन्यस्याऽदर्शनेन च योगो नास्तीति कृत्वाऽदर्शनसहचरितो योऽर्थस्तस्य गतिर्भविष्यति, साहचर्यात्।
- समास उत्तरपदस्य बहुवचनस्य लुपः -
समासे उत्तरपदस्य बहुवचनस्य लुपो युक्तवद्भावो वक्तव्यः। मधुरापञ्ञ्चालाः। किं प्रयोजनम्? नियमार्थम्- समास उत्तरपदस्यैव। क्व मा भूत्? पञ्ञ्चालमधुरे इति । लुपि युक्तवद्व्यक्तिवचने ।। 51 ।।
<M.2.063>
-1-2-52- विशेषणानां चाऽजातेः
।। जातिपदार्थान्वयनिर्णयाधिकरणम् ।।
कथमिदं विज्ञायते- जातिर्यद्विशेषणमिति, आहोस्विज्जातेर्यानि विशेषणानीति?
किं चातः? यदि विज्ञायते- जातिर्यद्विशेषणमिति। सिद्धम्- पञ्ञ्चाला जनपद इति। सुभिक्षः सम्पन्नपानीयो बहुमाल्यफल इति न सिद्ध्यति।
अथ विज्ञायते- जातेर्यानि विशेषणानि इति। सिद्धम्- सुभिक्षः सम्पन्नपानीयो बहुमाल्यफलः इति। पञ्ञ्चाला जनपदः इति न सिद्ध्यति।
एवं तर्हि नैवं विज्ञायते- जातिर्यद्विशेषणाम् इति, नापि- जातेर्यानि विशेषणानि इति। कथं तर्हि? विशेषणानां युक्तवद्भावो भवति, आ जातेः, आजातिप्रयोगात्।
(अथ) किमर्थं पुनरिदमुच्यते?
- विशेषणानां वचनं जातिनिवृत्त्यर्थम् -
जातिनिवृत्त्यर्थोऽयमारम्भः। किमुच्यते जातिनिवृत्त्यर्थ इति। न पुनर्विशेषणानामपि युक्तवद्भावो यथा स्यादिति?
- समानाधिकरणत्वात्सिद्धम् -
समानाधिकरणत्वाद्विशेषणानां युक्तवद्भावो भविष्यति।
<M.2.064>
यद्येवं नार्थोऽनेन। लुपोऽन्यत्रापि जातेर्युक्तवद्भावो न भवति। क्वान्यत्र? बदरी सूक्ष्मकण्टका मधुरा (वृक्षः) इति। किं पुनः कारणमन्यत्रापि जातेर्युक्तवद्भावो न भवति?
आविष्टलिङ्गा जातीर्यल्लिङ्गमुपादाय प्रवर्त्तते, उत्पत्तिप्रभृत्या विनाशान्न तल्लिङ्गं जहाति।
न तर्हीदानीमयं योगो वक्तव्यः?
वक्तव्यश्च। किं प्रयोजनम्? इदं तत्र तत्रोच्यते- गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति इति, तदनेन क्रियते।
- हरीतक्यादिषु व्यक्तिः -
हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेन। हरीतक्याः फलानि हरीतक्यः फलानि।
- खलतिकादिषु वचनम् -
खलतिकादिषु वचनं भवति युक्तवद्भावेन। खलतिकस्य पर्वतस्याऽदूरभवानि वनानि खलतिकं वनानि।
- मनुष्यलुपि प्रतिषेधः -
मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्ञ्चा अभिरूपः। वध्रिका दर्शनीयः ।। विशेषणानां चाऽजातेः ।। 52 ।।
<M.2.065>
-1-2-53- तदशिष्यं सञ्ज्ञाप्रमाणत्वात्
।। सञ्ज्ञाशब्दार्थनिर्णयाधिकरणम् ।।
किं या एताः कृत्रिमाष्टिघुभादिसञ्ज्ञास्तत्प्रामाण्यादशिष्यम्?
न इत्याह। सञ्ज्ञानं सञ्ज्ञा ।। तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ।। 53 ।।
-1-2-58- जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्
।। एकत्वे बहुवचनसाधनाधिकरणम् ।।
इदमयुक्तं वर्तते। किमत्रायुक्तम्? बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। तद्यदेकवचने
शासितव्ये बहुवचनं शिष्यते एतदयुक्तम्। बहुष्वेकवचनमिति नाम वक्तव्यम्। अत उत्तरं पठति-
- जात्याख्यायां सामान्याभिधानादैकार्थ्यम् -
जात्याख्यायां सामान्याभिधानादैकार्थ्यं भविष्यति। यत्तद् व्रीहौ व्रीहित्वं यवे यवत्वं गार्ग्ये गार्ग्यत्वं तदेकम्, तच्च विवक्षितम्, तस्यैकत्वादेकवचनमेव प्राप्नोति। इष्यते च बहुवचनं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति- जात्याख्यायामेकस्मिन् बहुवचनम्। एवमर्थमिदमुच्यते।
<M.2.066>
अस्ति प्रयोजनमेतत्। किं तर्हीति।
- तत्रैकवचनादेश उक्तम् -
किमुक्तम्? व्रीहिभ्य आगत इत्यत्र घेर्ङिति (7.3.111) इति गुणः प्राप्नोतीति।
नैष दोषः।
- अर्थातिदेशात्सिद्धम् -
अर्थातिदेशोऽयम्। नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्- उच्यते वचनम्, बहूनामर्थानां वचनं बहुवचनमिति। यावद्ब्रूयादेकोऽर्थो बहुवद्भवतीति, तावदेकस्मिन्
बहुवचनमिति।
- सङ्ख्याप्रयोगे प्रतिषेधः -
सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको व्रीहिः सम्पन्नः सुभिक्षं करोति। एको यवः सम्पन्नः सुभिक्षं करोति।
- अस्मदो नामयुवप्रत्यययोश्च -
अस्मदो नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधो वक्तव्यः। नामप्रयोगे, अहं देवदत्तो ब्रवीमि। अहं यज्ञदत्तो ब्रवीमि। युवप्रत्ययप्रयोगे अहं गार्ग्यायणो ब्रवीमि। अहं वात्स्यायनो ब्रवीमि।
युवग्रहणेन नार्थः अस्मदो नामप्रत्ययप्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं गार्ग्यो ब्रवीमि। अहं वात्स्यो ब्रवीमि।
अपर आह-
अस्मदः सविशेषणस्य प्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं पटुर्ब्रवीमि। अहं पण्डितो ब्रवीमि।
<M.2.067>
- अशिष्यं वा बहुवत्पृथक्त्वाभिधानात् -
अशिष्यो वा बहुवद्भावः। किं कारणम्? पृथक्त्वाभिधानात्। पृथक्त्वेन हि द्रव्याण्यभिधीयन्ते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्।
किमुच्यते पृथक्त्वाभिधानात् इति। यावता इदानीमेवोक्तम् जात्याख्यायां सामान्यभिधानादैकार्थ्यम् इति?
- जातिशब्देन हि द्रव्याभिधानम् -
जातिशब्देन हि द्रव्यमप्यभिधीयते, जातिरपि।
कथं पुनर्ज्ञायते जातिशब्देन द्रव्यमप्यभिधीयत इति?
एवं हि कश्चिन्महति गोमण्डले गोपालकमासीनं पृच्छति- अस्त्यत्र काञ्चिद्गां पश्यसि इति। स पश्यति- पश्यति चायं गाः, पृच्छति च- काञ्चिदत्र गां पश्यसि इति, नूनमस्य द्रव्यं विवक्षितम् इति। तद्यदा- द्रव्याभिधानं तदा बहुवचनं भविष्यति, यदा सामान्याभिधानं तदैकवचनं भविष्यति ।। जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ।। 58 ।।
-1-2-59- अस्मदो द्वयोश्च
अयमपि योगः शक्योऽवक्तुम्।
कथम्- अहं ब्रवीमि आवां ब्रूवः वयं ब्रूमः?
इमानीन्द्रियाणि कदाचित्स्वातन्त्र्येण विवक्षितानि भवन्ति। तद्यथा- इदं मे अक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोतीति। कदाचित्पारतन्त्र्येण विवक्षितानि भवन्ति- अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमीति। तद्यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनं भविष्यति। यदा पारतन्त्र्येण तदैकवचनद्विवचने भविष्यतः ।। अस्मदो द्वयोश्च ।। 59 ।।
<M.2.068>
-1-2-60- फल्गुनीप्रोष्ठपदानां च नक्षत्रे
अयमपि योगः शक्योऽवक्तुम्।
कथम् - उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः। उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः?
फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो वर्तते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। यदा
तयोरेवाभिधानं तदा द्विवचनं भविष्यति ।। फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।। 60 ।।
-1-2-61- छन्दसि पुनर्वस्वोरेकवचनम्
-1-2-62- विशाखयोश्च
इमावपि यौगौ शक्याववक्तुम्।
कथम्?
- पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्णेति सिद्धम् -
पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्ण इत्येव सिद्धम् ।। छन्दसि पुनर्वस्वोरेकवचनम् ।। 61 ।। विशाखयोश्च ।। 62 ।।
-1-2-63- तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्
तिष्यपुनर्वस्वोरिति किमर्थम्?
कृत्तिकारोहिण्यः।
नक्षत्र इति किमर्थम्?
तिष्यश्च माणवकः, पुनर्वसू च माणवकौ, तिष्यपुनर्वसवः।
अथ नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणं किमर्थम्?
अयं तिष्यपुनर्वसुशब्दोऽस्त्येव ज्योतिषि वर्तते। अस्ति च कालवाची। तद्यथा- बहवस्तिष्यपुनर्वसवोऽतिक्रान्ताः, कतरेण तिष्येण गत इति। तद्यो ज्योतिषि वर्तते तस्येदं ग्रहणम्।
<M.2.069>
अथ वा नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनम्- विदेशस्थमपि तिष्यपुनर्वस्वोः कार्यं (तदपि) नक्षत्रस्यैव यथा स्यात्। तिष्यपुष्ययोर्नक्षत्राऽणि यलोपो वक्तव्यः इति नक्षत्रग्रहणं न कर्तव्यं भवति।
अथ वा नक्षत्रे इति वर्त्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनं तिष्यपुनर्वसुपर्यायवाचिनामपि यथा स्यात् तिष्यपुनर्वसू, सिध्यपुनर्वसू।
अथ द्वन्द्व इति किमर्थम्?
यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसव उन्मुग्धाः।
।। सर्वो द्वन्द्वो विभाषैकवदिति परिभाषाधिकरणम् ।।
बहुवचनस्येति किमर्थम्?
उदितं तिष्यपुनर्वसु।
कथं चात्रैकवचनम्?
जातिद्वन्द्व एकवद्भवतीति।
अप्राणिनाम् इति प्रतिषेधः प्राप्नोति।
<M.2.070>
एवं तर्हि सिद्धे सति यद्बहुवचनग्रहणं करोति, तज्ज्ञापयत्याचार्यः- सर्वो द्वन्द्वो विभाषयैकवद्भवति इति। किमेतस्य ज्ञापने प्रयोजनम्? बाभ्रवशालङ्कायनम्,
बाभ्रवशालङ्कायना इत्येतत्सिद्धं भवति।
अथ वा नात्र भवन्तः प्राणिनः, प्राणा एवात्र भवन्तः ।। तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।। 63 ।।
इति श्रीमद्भगवत्पतञ्जलिविरिचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ।। 2 ।।
-1-2-64- सरूपाणामेकशेष एकविभक्तौ
।। पदकृत्याधिकरणम् ।।
रूपग्रहणं किमर्थम्?
समानानामेकशेष एकविभक्तौ इतीयत्युच्यमाने यत्रैव सर्वं समानं शब्दोऽर्थश्च, तत्रैव स्यात्- वृक्षाः प्लक्षा इति। इह न स्यात् - अक्षाः पादा माषा इति। रूपग्रहणे पुनः क्रियमाणे न दोषो भवति। रूपं निमित्तत्वेनाश्रीयते। श्रुतौ च रूपग्रहणम्।
अथैकग्रहणं किमर्थम्?
सरूपाणां शेष एकविभक्तौ इतीयत्युमाने द्विबह्वोरपि शेषः प्रसज्येत। एकग्रहणे पुनः क्रियमाणे न दोषो भवति।
अथ शेषग्रहणं किमर्थम्?
सरूपाणां शेष एकविभक्तौ इतीयत्युच्माने आदोशोऽयं विज्ञायेत।
तत्र को दोषः?
अश्वश्चाऽश्वश्चाऽश्वौ। आन्तर्यतो द्व्युदात्तवतः स्थानिनो द्व्युदात्तवानादेशः प्रसज्येत। लोप्यलोपिता च न प्रकल्पेत।
तत्र को दोषः?
गर्गा वत्सा उर्वाः। यञ्ञ्यो बहुष्वञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति।
मा भूदेवम्। यञ्ञन्तं यद्बहुषु अञ्ञन्तं यद्बहुषु इत्येवं भविष्यति।
नैवं शक्यम्, इह हि दोषः स्यात्- काश्यपप्रतिकृतयः काश्यपा इति।
एकविभक्ताविति किमर्थम्?
पयः पयो जरयति, वासो वासश्छादयति, ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहीति।
।। सूत्रप्रयोजनाधिकरणम् ।।
किमर्थं पुनरिदमुच्यते?
- प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम् -
प्रत्यर्थं शब्दा अभिनिविशन्ते। किमिदं प्रत्यर्थमिति? अर्थमर्थं प्रति प्रत्यर्थम्। प्रत्यर्थं शब्दनिवेशात्। एतस्मात्कारणान्नैकेन शब्देनानेकस्यार्थस्याभिधानं प्राप्नोति।
तत्र को दोषः?
- तत्रानेकार्थाभिधानेऽनेकशब्दत्वम् -
तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्राप्नोति। इष्यते चैकेनाप्यनेकस्याभिधानं स्यादिति। तच्चाऽन्तरेण यत्नं न सिध्यति। तस्मादेकशेषः। एवमर्थमिदमुच्यते।
अस्ति प्रयोजनमेतत्। किं तर्हीति।
किमिदं प्रत्यर्थं शब्दा अभिनिविशन्त इत्येतं दृष्टान्तमास्थाय सरूपाणामेकशेष आरभ्यते,
न पुनरप्रत्यर्थं शब्दा अभिनिविशन्त इत्येतं दृष्टान्तमास्थाय विरूपाणामनेकशेष आरभ्यते?
तत्रैतत्स्यात्- लघीयसी सरूपनिवृत्तिः, गरीयसी विरूपप्रतिपत्तिरिति।
तच्च न। लघीयसी विरूपप्रतिपत्तिः।
किं कारणम्? यत्र हि बहूनां सरूपाणामेकः शिष्यते तत्राऽवरतो द्वयोः सरूपयोर्निवृत्तिर्वक्तव्या स्यात्।
एवमप्येतस्मिन् सति किञ्चिदाचार्यः सुकरतरकं चैकशेषारम्भं मन्यते।
।। एकशेषस्यानैमित्तिकत्वसाधनाधिकरणम् ।।
किं पुनरयमेकविभक्तावेकशेषो भवति?
एवं भवितुमर्हति।
- एकविभक्ताविति चेन्नाऽभावाद्विभक्तेः -
एकविभक्ताविति चेत्तन्न। किं कारणम्? अभावाद्विभक्तेः। नहि समुदायात्परा विभक्तिरस्ति। किं कारणम्? अप्रातिपदिकत्वात्।
ननु च अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति।
नियमान्न प्राप्नोति- अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति।
यदि पुनः पृथक्सर्वेषां विभक्तिपराणामेकशेष उच्येत?
- पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिस्तदाश्रयत्वात् -
पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिः प्राप्नोति।
किमुच्यते एकशेषे पृथग्विभक्त्युपलब्धिः इति।
यावता समयः कृतो न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति। तदाश्रयत्वात् प्राप्नोति। यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिस्तत्राऽप्रत्ययिकायाः प्रकृतेः प्रयोगे भवति- अग्निचित्सोमसुदिति यथा। यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्राऽप्रकृतिकस्य प्रत्ययस्य प्रयोगो भवति- अधुना इयानिति यथा।
अस्तु। संयोगान्तलोपेन सिद्धम्।
कुतो नु खल्वेतत्- परयोर्वृक्षशब्दयोर्निवृत्तिर्भविष्यति, न पुनः पूर्वयोरिति? तत्रैतत्स्यात्पूर्वनिवृत्तावपि सत्यां संयोगादिलोपेन सिद्धमिति।
न सिध्यति। तत्राऽवरतो द्वयोस्सकारयोः श्रवणं प्रसज्येत।
यत्र च संयोगान्तलोपो नास्ति, तत्र च न सिध्यति।
क्व च संयोगान्तलोपो नास्ति?
द्विवचनबहुवचनयोः।
यदि पुनः समास एकशेष उच्येत।
किं कृतं भवति?
कश्चिद्वचनलोपः परिहृतो भवति।
तत्तर्हि समासग्रहणं कर्तव्यम्?
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् (1.2.63) इति।
- समास इति चेत्स्वरसमासान्तेषु दोषः -
समास इति चेत्स्वरसमासान्तेषु दोषो भवति। स्वर- अश्वश्चाऽश्वश्च अश्वौ। समासान्तोदात्तत्वे कृत एकशेषः प्राप्नोति। इदमिह सम्प्रधार्यम्- समासान्तोदात्तत्वं क्रियतामेकशेष- इति, किमत्र कर्तव्यम्? परत्वात्समासान्तोदात्तत्वम्। समासान्तोदात्तत्वे च दोषो भवति। स्वर।
समासान्त- ऋक्च ऋक्च ऋचौ। समासान्ते कृतेऽसारूप्यादेकशेषो न प्राप्नोति। इदमिह सम्प्रधार्यम्- समासान्तः क्रियतामेकशेष इति। किमत्र कर्तव्यम्? परत्वात्समासान्तः। समासान्ते च दोषो भवति।
- अङ्गाश्रये चैकशेषवचनम् -
अङ्गाश्रये च कार्य एकशेषो वक्तव्यः। स्वसा च स्वसारौ च स्वसारः। अङ्गाश्रये
कृतेऽसारूप्यादेकशेषो न प्राप्नोति। इदमिह सम्प्रधार्यमङ्गाश्रयं क्रियतामेकशेष इति। किमत्र कर्तव्यम्? परत्वादङ्गाश्रयम्।
- तिङ्समासे तिङ्समासवचनम् -
तिङ्समासे तिङ्समासो वक्तव्यः।
एकं तिङ्ग्रहणमनर्थकम्। समासे तिङ्समास इत्येव सिद्धम्।
नानर्थकम्। तिङ्समासे प्रकृते तिङ्समासो वक्तव्यः।
- तिङ्विधिप्रतिषेधश्च -
तिङ् च कश्चिद्विधेयः, कश्चित्प्रतिषेध्यः। पचति च पचति च पचतः। तश्शब्दो विधेयः, तिशब्दः प्रतिषेध्यः।
यदि पुनरसमास एकशेषः उच्येत?
- असमासे वचनलोपः -
यद्यसमासे वचनलोपो वक्तव्यः।
ननु चोत्पततैव वचनलोपं चोदिताः स्मः।
द्विवचनबहुवचनविधिं द्वन्द्वप्रतिषेधं च वक्ष्यति, तदर्थं पुनश्चोद्यते।
- द्विवचनबहुवचनविधिः -
द्विवचनबहुवचनानि विधेयानि। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति।
- द्वन्द्वप्रतिषेधश्च -
द्वन्द्वस्य च प्रतिषेधो वक्तव्यः। वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति। चार्थे द्वन्द्वः (2.2.29) इति द्वन्द्वः प्राप्नोति।
नैष दोषः। अनवकाश एकशेषो द्वन्द्वं बाधिष्यते।
सावकाश एकशेषः। कोऽवकाशः? तिङन्तान्यवकाशः।
यदि पुनः पृथक्सर्वेषां विभक्त्यन्तानामेकशेष उच्येत? किं कृतं भवति? कश्चिद्वचनलोपः परिहृतो भवति। विभक्त्यन्तानामेकशेषे विभक्त्यन्तानामेव तु निवृत्तिर्भवति।
- एकविभक्त्यन्तानामिति तु पृथग्विभक्तिप्रतिषेधार्थम् -
एकविभक्त्यन्तानाम् इति तु वक्तव्यम्। किं प्रयोजनम्? पृथग्विभक्तिप्रतिषेधार्थम्। पृथग्विभक्त्यन्तानां मा भूत्। ब्राह्मणाभ्यां च देहि ब्राह्मणाभ्यां च कृतम्।
- न वाऽर्थविप्रतिषेधाद्युगपद्वचनाऽभावः -
न वैष दोषः। किं कारणम्? अर्थविप्रतिषेधात्। विप्रतिषिद्धावेतावर्थौ कर्ता सम्प्रदानमित्यशक्यौ युगपन्निर्देष्टुम्। तयोर्विप्रतिषिद्धत्वाद्युगपद्वचनं न भविष्यति।
- अनेकार्थाश्रयश्च पुनरेकशेषः -
अनेकमर्थं सम्प्रत्याययिष्यामीत्येकशेष आरभ्यते।
- तस्मान्नैकशब्दत्वम् -
तस्मादेकशब्दत्वं न भविष्यति।
अयं तर्हि दोषः कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्च इति।
यदि पुनः प्रातिपदिकानामेकशेष उच्येत? किं कृतं भवति? वचनलोपः परिहृतो भवति।
- प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् -
प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्यः। माता च जनयित्री, मातरौ च धान्यस्य मातृमातरः। किं कारणम्? सरूपत्वात्। सरूपाणि ह्येतानि प्रातिपदिकानि।
किमुच्यते प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्य इति, न पुनर्यस्यापि विभक्त्यन्तानामेकशेषस्तेनापि मातृमात्रोः प्रतिषेधो वक्तव्यः स्यात्। तस्यापि ह्येतानि क्वचिद्विभक्त्यन्तानां सरूपाणि, मातृभ्यां च मातृभ्यां चेति?
अथ मतमेतद्विभक्त्यन्तानां सारूप्ये भवितव्यमेवैकशेषेणेति, प्रातिपदिकानामेवैकशेषे दोषो
भवति। एवं च कृत्वा चोद्यते।
- हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसङ्ख्यानम् -
हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसङ्ख्यानं कर्तव्यम्। हरितस्य स्त्री हरिणी, हरिणस्यापि हरिणी, हरिणी च हरिणी च हरिण्यौ। श्येतस्य स्त्री श्येनी, श्येनस्यापि स्त्री श्येनी, श्येनी च श्येनी च श्येन्यौ। रोहितस्य स्त्री रोहिणी, रोहिणस्यापि रोहिणी, रोहिणी च रोहिणी च
रोहिण्यौ।
- न वा पदस्याऽर्थे प्रयोगात् -
न वैष दोषः। किं कारणम्? पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते। विभक्त्यन्तं च पदम्। रूपं चेहा श्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगात्। तस्मिंश्च लौकिके प्रयोगे सरूपाण्येतानि।
अपर आह- न वा पदस्याऽर्थे प्रयोगात्। न वैष पक्ष एवास्ति प्रातिपदिकानामेकशेष इति। किं कारणम्? पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते, विभक्त्यन्तं च पदम्। रूपं चेहा श्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे प्रातिपदिकानां प्रयोगो नास्ति।
अथानेन पक्षेणार्थः स्यात्प्रातिपदिकानामेकशेष इति।
बाढमर्थः।
किं वक्तव्यमेतत्?
न हि।
कथमनुच्यमानं गंस्यते? एतेनैवाभिहितं सूत्रेण सरूपाणामेकशेष एकविभक्तौ इति। कथम्?
विभक्तिः सारूप्येणाश्रीयते। अनैमित्तिक एकशेषः। एकविभक्तौ लौकिके प्रयोगे यानि सरूपाणि तेषामेकशेषो भवति।
क्व?
यत्र वा तत्र वेति।
अथानेन पक्षेणार्थः स्याद्- विभक्त्यन्तानामेकशेषः इति?
बाढमर्थः।
किं वक्तव्यमेतत्?
नहि।
कथमनुच्यमानं गंस्यते?
एतदप्येतेनैवाभिहितं सूत्रेण सरूपाणामेकशेष एकविभक्तौ इति।
कथम्?
नेदं पारिभाषिक्या विभक्तेर्ग्रणम्।
किं तर्हि?
अन्वर्थग्रहणम्- विभागो विभक्तिरिति। एकविभागे यानि सरूपाणि तेषामेकशेषो भवतीति।
ननु चोक्तम्- कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्च इति।
नैषः दोषः। यत्तावदुच्यते- कश्चिद्वचनलोपो द्विवचनबहुवचनविधिः इति।
- सहविवक्षायामेकशेषः -
युगपद्विवक्षायामेकशेषेण भवितव्यम्।
न तर्हीदानीमिदं भवति- वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति? नैतत्सहविवक्षायां भवति। अथापि निदर्शयितुं बुद्धिरेवं निदर्शयितव्यम्- वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाश्च वृक्षाश्च वृक्षाश्च वृक्षा इति।
यदप्युच्यते- द्वन्द्वप्रतिषेधश्च वक्तव्य इति। नैष दोषः। अनवकाश एकशेषो द्वन्द्वं
बाधिष्यते।
ननु चोक्तम्- सावकाश एकशेषः। कोऽवकाशः? तिङन्तान्यवकाशः इति।
न तिङन्तान्येकशेषारम्भं प्रयोजयन्ति। किं कारणम्? यथाजातीयकानां द्वितीयस्य पदस्य प्रयोगे सार्मथ्यमस्ति तथाजातीयकानामेकशेषः। न च तिङन्तानां द्वितीयपदस्य प्रयोगे सार्मथ्यमस्ति। किं कारणम्? एका हि क्रिया। एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्- उक्तार्थानामप्रयोग इति।
यदि तर्ह्येका क्रिया, द्विवचनबहुवचनानि न सिध्यन्ति- पचतः पचन्ति।
नैतानि क्रियापेक्षाणि। किं तर्हि? साधनापेक्षाणि।
अथ वा पुनरस्तु एकविभक्तौ इति?
ननु चोक्तम्- एकविभक्ताविति चेन्नाऽभावाद्विभक्तेः इति।
नैष दोषः। परिहृतमेतत्- अर्थवत्प्रातिपदिकमिति प्रातिपदिकसञ्ज्ञा भविष्यति इति।
ननु चोक्तम्- नियमान्न प्राप्नोति, अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति।
नैष दोषः। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथञ्ञ्जातीयकानां समासः? सुबन्तानाम्।
- सर्वत्राऽपत्यादिषूपसङ्ख्यानम् -
सर्वेषु पक्षेष्वपत्यादिषूपसङ्ख्यानं कर्तव्यम्? भिक्षाणां समूहो भैक्षमिति।
सर्वत्र इत्युच्यते प्रातिपदिकानां चैकशेषे सिद्धम्।
अपत्यादिष्वित्युच्यते बहवश्चापत्यादयः। गर्गस्यापत्यं बहवो गर्गाः। एका प्रकृतिर्बहवश्च यञ्ञः। असारूप्यादेकशेषो न प्राप्नोति।
ननु च यथैव बहवो यञ्ञः, एवं प्रकृतयोऽपि बह्व्यः स्युः।
नैवं शक्यम्। इह हि दोषः स्यात्- गर्गा वत्सा बिदा उर्वा इति। अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति।
मा भूदेवम्। अञ्ञन्तं यद् बहुषु, यञ्ञन्तं यद् बहुष्वित्येवं भविष्यति।
ननु चोक्तम्- नैवं शक्यमिह हि दोषः स्यात्- काश्यपप्रतिकृतयः काश्यपा इति।
नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्।
अथ वा पुनरस्त्वेका प्रकृतिर्बहवश्च यञ्ञः?
ननु चोक्तम्- असारूप्यादेकशेषो न प्राप्नोतीति।
- सिद्धं तु समानार्थानामेकशेषवचनात् -
सिद्धमेतत्। कथम्? समानार्थानामेकशेषो भवतीति वक्तव्यम्।
यदि समानार्थानामेकशेष उच्यते, कथमक्षाः पादा माषा इति?
- नानार्थानामपि सरूपाणाम् -
नानार्थानामपि सरूपाणामेकशेषो वक्तव्यः।
- एकार्थानामपि विरूपाणाम् -
एकार्थानामपि विरूपाणामेकशेषो वक्तव्यः। वक्रदण्डश्च कुटिलदण्डश्च- वक्रदण्डौ. कुटिलदण्डाविति वा।
- स्वरभिन्नानां यस्योत्तरस्वरविधिः -
स्वरभिन्नानां यस्योत्तरः स्वरविधिस्तस्यैकशेषो वक्तव्यः। अक्षश्च अक्षश्च अक्षौ। मीमांसकश्च मीमांसकश्च मीमांसकौ।
।। सङ्ख्याशब्दानामेकशेषाभावाधिकरणम् ।।
इह कस्मान्न भवति- एकश्च एकश्च द्वौ च द्वौ चेति?
- सङ्ख्याया अर्थाऽसम्प्रत्ययादन्यपदार्थत्वाच्चानेकशेषः -
सङ्ख्याया अर्थाऽसम्प्रत्ययादेकशेषो न भविष्यति। नह्येकावित्यनेनार्थो गम्यते। अन्यपदार्थत्वाच्च सङ्ख्याया एकशेषो न भविष्यति। एकश्च एकश्चेत्यस्य द्वौ इत्यर्थः। द्वौ च द्वौ
चेत्यस्य चत्वार इत्यर्थः।
नैतौ स्तः परिहारौ। यत्तावदुच्यते- सङ्ख्याया अर्थासम्प्रत्ययात् इति। अर्थासम्प्रत्ययेऽपि हि सत्येकशेषो भवति। तद्यथा- गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। न चोच्यते वृद्धयुवानाविति, भवति चैकशेषः। यदप्युच्यते- अन्यपदार्थत्वाच्च इति। अन्यपदार्थेऽप्येकशेषो भवति। तद्यथा- विंशतिश्च विंशतिश्च विंशती इति।
तयोश्चत्वारिंशदित्यर्थः।
एवं तर्हि नेमौ पृथक्परिहारौ। एकपरिहारोऽयम् सङ्ख्याया अर्थाऽसम्प्रत्ययादन्यपदार्थत्वाच्च इति। यत्र ह्यर्थाऽसम्प्रत्यय एव वा, अन्यपदार्थतैव वा, भवति तत्रैकशेषो गार्ग्यौ विशती इति यथा।
अथ वा नेमे एकशेषशब्दाः। यदि तर्हि नेम एकशेषशब्दाः समुदायशब्दास्तर्हि भवन्ति। तत्र को दोषः? एकवचनं प्राप्नोति। एकार्था हि समुदाया भवन्ति। तद्यथा- यूथम्, शतम्, वनमिति।
सन्तु तर्ह्येकशेषशब्दाः। किंकृतं सारूप्यम्? अन्योन्यकृतं सारूप्यम्? सन्ति पुनः केचिदन्येऽपि शब्दा येषामन्योऽन्यकृतो भावः?
सन्ति इत्याह। तद्यथा- माता पिता भ्रातेति।
विषम उपन्यासः। सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते। इह पुनरेकेनाप्यपाये न
भवति चत्वार इति।
अन्यदिदानीमेतदुच्यते- सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते इति। यत्तु भवानस्मांश्चोदयति- सन्ति पुनः केचिदन्येऽपि शब्दा येषामन्योकृतो भावः इति।
तत्रैतेऽस्माभिरुपन्यस्ताः। तत्रैतद्भवानाह- सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते इति। एतच्च वार्तम्।
एकैको नोद्यन्तुं भारं शक्नोति यत्कथं तत्र।
एकैकः कर्ता स्यात्सर्वे वा स्युः कथं युक्तम् ।। 1 ।।
कारणमुद्यमनं चेन्नोद्यच्छति चान्तरेण तत्तुल्यम्।
तस्मात्पृथक् पृथक् ते कर्तारः सव्यपेक्षास्तु ।। 2 ।।
।। प्रथममध्यमोत्तमानामेकशेषविधानाधिकरणम् ।।
- प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वात् -
प्रथममध्यमोत्तमानामेकशेषो वक्तव्यः। पचति च पचसि च पचथः। पचसि च पचामि च पचावः। पचति च पचसि च पचामि च पचामः। किं पुनः कारणं न सिध्यति? असरूपत्वात्।
।। सूत्रप्रत्याख्यानाधिकरणम् ।।
- द्विवचनबहुवचनाऽप्रसिद्धिरेकार्थत्वात् -
द्विवचनबहुवचनयोश्चाऽप्रसिद्धिः। किं कारणम्? एकार्थत्वात् एकोऽयमवशिष्यते तेनानेन तदर्थेन भवितव्यम्। किमर्थेन? यदर्थ एकः। किमर्थश्चैकः? एकार्थः।
- नैकार्थ्यम् -
नायमेकार्थः। किं तर्हि? द्व्यर्थो बह्वर्थश्च।
- नैकार्थ्यमिति चेदारम्भानर्थक्यम् -
नैकार्थ्यमिति चेदेकशेषारम्भोऽनर्थकः स्यात्। इह हि शब्दस्य स्वाभाविकी वाऽनेकार्थता स्याद्वाचनिकी वा।
तद्यदि तावत्स्वाभाविकी-
- अशिष्य एकशेष एकेनोक्तत्वात् -
अशिष्य एकशेषः। किं कारणम्? एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्- उक्तार्थानामप्रयोग इति।
अथ वाचनिकी, तद्वक्तव्यम्- एकोऽयमवशिष्यते, स च द्व्यर्थो भवति बह्वर्थश्च इति।
न वक्तव्यम्। सिद्धमेकशेष इत्येव।
कथं पुनरेकोयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुम्? तच्चैकशेषकृतम्। नह्यन्तरेण तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवति। पश्यामश्च पुनरन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवतीति अग्निचित्सोमसिदिति यथा। ते मन्यामहे- लोपकृतमेतत्- येनात्राऽन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवति इति। एवमिहाप्येकशेषकृतमेतत्- येनात्रैकोऽयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता च भवति।
उच्येत तर्हि न तु गम्येत। यो हि गामश्व इति ब्रूयादश्वं वा गौरिति, न जातुचित्सम्प्रत्ययः स्यात्। तेनानेकार्थाभिधाने यत्नं कुर्वताऽवश्यं लोकः पृष्ठतोऽनुगन्तव्यः केष्वर्थेषु लौकिकाः कान् शब्दान्प्रयुञ्जते इति। लोके चैकैकस्मिन् वृक्ष इति प्रयुञ्जते, द्वयो वृक्षौ इति, बहुषु वृक्षा इति। यदि तर्हि लोकोऽवश्यं शब्देषु प्रमाणं, किमर्थमेकशेष आरभ्यते?
अथ किमर्थं लोप आरभ्यते?
प्रत्ययलक्षणमाचार्यः प्रार्थयमानो लोपमारभते, एकशेषारम्भे पुनरस्य न
किञ्चित्प्रयोजनमस्ति।
ननु चोक्तं- प्रत्यर्थं शब्दनिवेशान्नैकेनाऽनेकस्याभिधानम् इति। यदि चैकेन शब्देनानेकस्याऽर्थस्याभिधानं स्यान्न प्रत्यर्थं शब्दनिवेशः कृतः स्यात्।
- प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याऽभिधानादप्रत्यर्थमिति चेत्तदपि प्रत्यर्थमेव -
प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याऽभिधानादप्रत्यर्थमिति चेदेवमुच्यते, यदप्येकेनानेकस्याभिधानं भवति तदपि प्रत्यर्थमेव। यदपि ह्यर्थावर्थौ प्रति तदपि प्रत्यर्थमेव। यदपि ह्यर्थानर्थान्प्रति तदपि प्रत्यर्थमेव।
- यावतामभिधानं तावतां प्रयोगो न्याय्यः -
यावतामर्थानामभिधानं भवति तावतां शब्दानां प्रयोगः इत्येष पक्षो न्याय्यः।
- यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेकेनाप्यनेकस्याऽभिधानम् -
यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेवमुच्यते। एषोऽपि पक्षो न्याय्य एव यदप्येकेनानेकस्याभिधानं भवति।
यदि तर्ह्येकेनाऽनेकस्याभिधानं भवति- प्लक्षन्यग्रोधौ।
- एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः -
एकेनोक्तत्वात्तस्याऽर्थस्यापरस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति।
- एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः -
एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा
न्यग्रोधशब्दः प्रयुज्यते।
कथमनुक्तः। यदिदानीमेवोक्तमेकेनाप्यनेकस्याऽभिधानं भवतीति? सरूपाणामेकेनाप्यनेकस्याभिधानं भवति न विरूपाणाम्।
किं पुनः कारणं सरूपाणामेकेनाप्यनेकस्याभिधानं भवति, न पुनर्विरूपाणाम्?
- अभिधानं पुनः स्वाभाविकम् -
स्वाभाविकमभिधानम्।
- उभयदर्शनाच्च -
उभयं खल्वपि दृश्यते। विरूपाणामप्येकेनानेकस्याभिधानं भवति। तद्यथा- द्यावा ह क्षामा। द्यावा चिदस्मै पृथिवी नमेते इति। विरूपाणां किल नामैकेनाऽनेकस्याभिधानं स्यात्किं पुनः सरूपाणाम्।
- आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः -
आकृत्यभिधानाद्वैकं शब्दं विभक्तौ वाजप्यायन आचार्यो न्याय्यं मन्यते। एकाऽऽकृतिः, सा चाभिधीयत इति।
कथं पुनर्ज्ञायते- एकाऽऽकृतिः सा चाभिधीयते इति।
- प्रख्याऽविशेषात् -
नहि गौरियुक्ते विशेषः प्रख्यायते- शुक्ला नीला कपिला कपोतिकेति।
यद्यपि तावत्प्रख्याऽविशेषाज्ज्ञावते- एकाऽऽकृतिः इति, कुतस्त्वेतत्- साऽभिधीयत इति?
- अव्यपवर्गगतेश्च -
अव्यपवर्गतेश्च मन्यामहे आकृतिरभिधीयत इति। नहि गौरित्युक्ते व्यपवर्गो गम्यते- शुक्ला नीला कपिला कपोतिकेति।
- ज्ञायते चैकोपदिष्टम् -
ज्ञायते खल्वप्येकोपदिष्टम्। गौरस्य कदाचिदुपदिष्टो भवति। स
तमन्यस्मिन्देशेऽन्यस्मिन्कालेऽन्यस्यां च वयोऽवस्थायां दृष्ट्वा जानाति- अयं गौः इति।
कः पुनरस्य विशेषः प्रख्याऽविशेषात् इत्यतः?तस्यैवोपोद्बलकमेतत्- प्रख्याऽविशेषाद् ज्ञायते चैकोपदिष्टम् इति।
- धर्मशास्त्रं च तथा -
एवं च कृत्वा धर्मशास्त्रं प्रकृतम्, ब्राह्मणो न हन्तव्यः सुरा न पेया इति ,ब्राह्मणमात्रं च न हन्यते, सुरामात्रं च न पीयते। यदि द्रव्यं पदार्थः स्यादेकं ब्राह्मणमहत्वैकां च सुरामपीत्वाऽन्यत्र कामचारः स्यात्।
कः पुनरस्य विशेषः अव्यपवर्गगतेश्च इत्यतः?
तस्यैवोपोद्बलकमेतत्- अव्यपवर्गगतेश्च, धर्मशास्त्रं च तथा इति।
- अस्ति चैकमनेकाधिकरणस्थं युगपत् -
अस्ति खल्वप्येकमनेकाधिकरणस्थं युगपल्लभ्यते। किम्? आदित्यः। तद्यथा- एक आदित्योऽनेकाधिकरणस्थो युगपदुपलभ्यते।
विषम उपन्यासः। नैको द्रष्टाऽऽदित्यमनेकाधिकरणस्थं युगपदुपलभते।
एवं तर्हि-
- इतीन्द्रवद्विषयः -
तद्यथा- एक इन्द्रोऽनेकस्मिन् क्रतुशते आहूतो युगपत्सर्वत्र भवति। एवमाकृतिरपि
युगपत्सर्वत्र भविष्यति।
अवश्यं चैतदेवं विज्ञेयम्- एकमनेकाधिकरणस्थं युगपदुपलभ्यत इति।
- नैकमनेकाधिकरणस्थं युगपदिति चेत्तथैकशेषे -
यो हि मन्यते- नैकमनेकाधिकरणस्थं युगपदुपलभ्यत इति। एकशेषे तस्य दोषः स्यात्। एकशेषेऽपि नैको वृक्षशब्दोऽनेकमर्थं युगपदभिदधीत।
अवश्यं चैतदेवं विज्ञेयमाकृतिरभिधीयत इति।
- द्रव्याभिधाने ह्याकृत्यसम्प्रत्ययः -
द्रव्याभिधाने सत्याकृतेरसम्प्रत्ययः स्यात् ।। तत्र को दोषः?
- तत्राऽसर्वद्रव्यगतिः -
तत्राऽसर्वद्रव्यगतिः प्राप्नोति। असर्वद्रव्यगतौ को दोषः? गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति। एकः शास्त्रोक्तं कुर्वीत, अपरोऽशास्त्रोक्तम्। अशास्त्रोक्ते च क्रियमाणे विगुणं कर्म भवति, विगुणे च कर्मणि फलाऽनवाप्तिः।
ननु च यस्याप्याकृतिः पदार्थस्तस्यापि, यद्यनवयवेन चोद्यते न चानुवध्यते। विगुणं कर्म भवति। विगुणे च कर्मणि फलाऽनवाप्तिः। एकाऽऽकृतिः इति प्रतिज्ञा हीयेत। यच्चास्य पक्षस्योपादाने प्रयोजनम्- एकशेषो न वक्तव्य इति, स चेदानीं वक्तव्यो भवति।
एवं तर्ह्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते, यथाऽऽदित्यः।
ननु च यस्यापि द्रव्यं पदार्थस्तस्याप्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते। एकशेषस्त्वया वक्तव्यः। त्वयाऽपि तर्हि द्विवचनबहुवचनानि साध्यानि।
- चोदनायां चैकस्योपाधिवृत्तेः -
चोदनायां चैकस्योपाधिवृत्तेर्मन्यामहे- आकृतिरभिधीयते इति। आग्नेयमष्टाकपालं निर्वपेत्। एकं निरुप्य द्वितीयस्तृतीयश्च निरुप्यते। यदि च द्रव्यं पदार्थः स्यादेकं निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणं न प्रकल्पेत।
कः पुनरेतयोर्जातिचोदनयोर्विशेषः? एका निर्वृत्तेन, अपरा निर्र्वत्त्येन।
- द्रव्याभिधानं व्याडिः -
द्रव्याभिधानं व्याडिराचार्यो न्याय्यं मन्यते- द्रव्यमभिधीयते इति।
- तथा च लिङ्गवचनसिद्धिः -
एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति। ब्राह्मणी ब्राह्मणः ब्राह्मणौ ब्राह्मणा इति।
- चोदनासु च तस्यारम्भात् -
चोदनासु च तस्यारम्भान्मन्यामहे- द्रव्यमभिधीयत इति। गौरनुबन्ध्योऽजोऽग्नीषोमीय इति। आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते।
- न चैकमनेकाधिकरणस्थं युगपत् -
न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यते। नह्येको देवदत्तो युगपत्स्रुघ्ने भवति
मथुरायां च।
- विनाशे प्रादुर्भावे च सर्वं तथा स्यात् -
किम्? विनश्येच्च प्रादुःष्याच्च। श्वा मृतः इति, श्वा नाम लोके न प्रचरेत्। गौर्जातः इति, सर्वं गोभूतमनवकाशं स्यात्।
- अस्ति च वैरूप्यम् -
अस्ति खल्वपि वैरूप्यम्- गौश्च गौश्च, खण्डो मुण्ड इति।
- तथा च विग्रहः -
एवं च कृत्वा विग्रह उपपन्नो भवति- गौश्च गौश्चेति।
- व्यर्थेषु च मुक्तसंशयम् -
व्यर्थेषु च मुक्तसंशयं भवति। आकृतावपि पदार्थ एकशेषो वक्तव्यः। अक्षाः पादा माषा इति।
- लिङ्गवचनसिद्धिर्गुणस्याऽनित्यत्वात् -
लिङ्गवचनानि सिद्धानि भवन्ति। कुतः? गुणस्यानित्यत्वात्। अनित्या गुणा अपायिन उपायिनश्च। किं य एते शुक्लादयः? न इत्याह। स्त्रीपुन्नपुंसकानि सत्त्वगुणाः, एकत्वद्वित्वबहुत्वानि च। कदाचिदाकृतिरेकत्वेन युज्यते, कदाचिद्द्वित्वेन, कदाचिद् बहुत्वेन, कदाचित्स्त्रीत्वेन, कदाचित्पुंस्त्वेन, कदाचिन्नपुंसकत्वेन।
भवेल्लिङ्गपरिहार उपपन्नः, वचनपरिहारस्तु नोपपद्यते। यदि हि कदाचिदाकृतिरेकत्वेन युज्यते कदाचिद्द्वित्वेन कदाचिद् बहुत्वेन एकाऽऽकृतिः इति प्रतिज्ञा हीयेत, यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तम् एकशेषो न वक्तव्यः इति, स चेदानीं वक्तव्यो भवति।
एवं तर्हि-
- लिङ्गवचनसिद्धिर्गुणविवक्षाऽनित्यत्वात् -
लिङ्गवचनानि सिद्धानि भवन्ति। कुतः? गुणविवक्षाया अनित्यत्वात्। अनित्या गुणविवक्षा। कदाचिदाकृतिरेकत्वेन विवक्षिता भवति, कदाचिद्द्वित्वेन, कदाचिद् बहुत्वेन, कदाचित्स्त्रीत्वेन, कदाचित्पुंस्त्वेन, कदाचिन्नपुंसकत्वेन।
भवेल्लिङ्गपरिहार उपपन्नः, वचनपरिहारस्तु नोपपद्यते। यदि कदाचिदाकृतिरेकत्वेन विवक्षिता भवति कदाचिदि्द्वत्वेन कदाचिद् बहुत्वेन, एकाऽऽकृतिः इति च प्रतिज्ञा हीयेत। यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तम्- एकशेषो न वक्तव्य इति, स चेदानीं वक्तव्यो भवति।
लिङ्गपरिहारश्चापि नोपपद्यते। किं कारणम्? आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय
प्रवर्त्तते। उत्पत्तिप्रभृत्याविनाशात्तल्लिङ्गं न जहाति।
तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम्। अवश्यं कश्चित्स्वकृतान्त आस्थेयः। कोऽसौ स्वकृतान्तः?
- संस्त्यानप्रसवौ लिङ्गम् -
संस्त्यानप्रसवौ लिङ्गमास्थेयौ।
किमिदं संस्त्यानप्रसवाविति?
- संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप्प्रसवे पुमान् -
ननु च लोकेऽपि स्त्यायतेरेव स्त्री, सूतेश्च पुमान्?
अधिकरणसाधना लोके स्त्री- स्त्यायत्यस्यां गर्भ इति। कर्तृसाधनश्च पुमान्- सूते पुमानिति। इह पुनरुभयं भावसाधनं- स्त्यानं प्रवृत्तिश्च।
कस्य पुनः स्त्यानं स्त्री, प्रवृत्तिर्वा पुमान्?
गुणानाम्।
केषाम्?
शब्दस्पर्शरूपरसगन्धानाम्। सर्वाश्च पुनर्मूर्तय एवमात्मिकाः- संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः। यत्राल्पीयांसो गुणास्तत्राऽवरस्तस्त्रयः- शब्दः स्पर्शो रूपमिति। रसगन्धौ न सर्वत्र। प्रवृत्तिः खल्वपि नित्या। नहीदं कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्द्धते यावदनेन वर्द्धितव्यमपचयेन वा युज्यते। तच्चोभयं सर्वत्र।
यद्युभयं सर्वत्र, कुतो व्यवस्था?
विवक्षातः। संस्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान्, उभयोरप्यविवक्षायां नपुंसकम्। तत्र लिङ्गवचनसिद्धिर्गुणविवक्षाऽनित्यत्वाद् इति लिङ्गपरिहार उपपन्नः।
वचनपरिहारस्तु नोपपद्यते।
वचनपरिहारश्चाप्युपपन्नः। इदं तावदयं प्रष्टव्यः- अथ यस्य द्रव्यं पदार्थः कथं तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति? एवं स वक्ष्यति- एकस्मिन्नेकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनम् इति। यदि तस्यापि वाचनिकानि न स्वाभाविकानि। अहमप्येवं वक्ष्यामि- एकस्मिन्नेकवचनं द्वयोर्द्विवचनं बहुषु बहुवचनम् इति। नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः, द्रव्यपदार्थकस्य वाऽऽकृतिर्न पदार्थः। उभयोरुभयं पदार्थः। कस्यचित् किञ्चित्प्रधानभूतं किञ्चिद् गुणभूतम्। आकृतिपदार्थकस्याकृतिः प्रधानभूता, द्रव्यं गुणभूतम्। द्रव्यपदार्थकस्य द्रव्यं प्रधानभूतमाकृतिर्गुणभूता।गुणभूता।
- गुणवचनवद्वा -
गुणवचनवद्वा लिङ्गवचनानि भविष्यन्ति। तद्यथा- गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति- शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः शुक्लौ कम्बलौ, शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति।
एवमिहापि यदसौ द्रव्यं श्रिताऽऽकृतिस्तस्य यल्लिङ्गं वचनं च तदाकृतेरपि भविष्यति।
- अधिकरणगतिः साहचर्यात् -
आकृतावारम्भणादीनां सम्भवो नास्तीति कृत्वाऽऽकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति।
- न चैकमनेकाधिकरणस्थं युगपदित्यादित्यवद्विषयः -
न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यत इत्यादित्यवद्विषयो भविष्यति। तद्यथा- एक आदित्योऽनेकाधिकरणस्थो युगपदुपलभ्यते।
विषम उपन्यासः। नैको द्रष्टाऽनेकाधिकरणस्थमादित्यं युगपदुलभते।
एवं तर्हि-
- इतीन्द्रवद्विषयः -
तद्यथैक इन्द्रोऽनेकस्मिन्क्रतुशते आहूतो युगपत्सर्वत्र भवत्येवमाकृतिर्युगपत्सर्वत्र भवेदिति।
- अविनाशोऽनाश्रितत्वात् -
द्रव्यविनाशे आकृतेरविनाशः। कुतः? अनाश्रितत्वात्। अनाश्रिताऽऽकृतिर्द्रव्यम्।
किमुच्यते अनाश्रितत्वाद् इति, यदिदानीमेवोक्तम्- अधिकरणगतिः साहचर्यात् इति?।
एवं तर्हि-
- अविनाशोऽनैकात्म्यात् -
द्रव्यविनाशे आकृतेरविनाशः। कुतः? अनैकात्म्यात्। अनेक आत्माऽऽकृतेर्द्रव्यस्य च। तद्यथा- वृक्षस्थोऽवतानो वृक्षे छिन्नेऽपि न विनश्यति।
- वैरूप्यविग्रहौ द्रव्यभेदात् -
वैरूप्यविग्रहावपि द्रव्यभेदाद्भविष्यतः।
- व्यर्थेषु सामान्यात्सिद्धम् -
विभिन्नार्थेषु च सामान्यात्सिद्धं सर्वम्। सर्वत्र अश्नोतेरक्षः, पद्यतेः पादः, मिमीतेर्माषः। तत्र क्रियासामान्यात्सिद्धम्।
अपरस्त्वाह- पुराकल्पे एतदासीत्षोडशमाषाः कार्षापणम्, षोडशपलाश्च माषशंवट्यः। तत्र सङ्ख्यासामान्यात्सिद्धम् ।। सरूपाणामेकशेष एकविभक्तौ ।। 64 ।।
<M.2.102>
-1-2-65- वृद्धो यूना तल्लक्षणश्चेदेव विशेषः
इह कस्मान्न भवति- अजश्च बर्करश्च, अश्वश्च किशोरश्च, उष्ट्रश्च करभश्चेति?
तल्लक्षणश्चेदेव विशेषः इत्युच्यते। न चात्र तल्लक्षण एव विशेषः।
तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ।। वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।। 65 ।।
-1-2-66- स्त्री पुंवच्च
इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते- स्त्रीग्रहणेषु स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्र्यर्थग्रहणं वा,
स्त्रीशब्दग्रहणं वा इति।
किं चातः?
यदि प्रत्ययग्रहणं वा, शब्दग्रहणं वा, गार्गी च गार्ग्यायणौ च गर्गाः केन यशब्दो न श्रूयते। अस्त्रियाम् इति हि लुगुच्यते। इह च गार्गी च गार्ग्यायणौ च गर्गान्पश्य तस्माच्छसो नः पुसि
(6.1.103) इति नत्वं च प्राप्नोति। अथाऽर्थग्रहणम्, न दोषो भवति।
<M.2.103>
यथा न दोषस्तथास्तु।
इह कस्मान्न भवति- अजा च बर्करश्च, वडवा च किशोरश्च, उष्ट्री च करभश्चेति? तल्लक्षणश्चेदेव विशेष इत्युच्यते। न चाऽत्र तल्लक्षण एव विशेषः।
तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ।। स्त्री पुंवच्च ।। 66 ।।
-1-2-67- पुमान् स्त्रिया
।। अनिष्टवारणाधिकरणम् ।।
इह कस्मान्न भवति- हंसश्च वरटा च, कच्छपश्च दुली च, ऋश्यश्च रोहित् च इति? तल्लक्षणश्चेदेव विशेष इत्युच्यते। न चाऽत्र तल्लक्षण एव विशेषः।
तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ।। पुमान् स्त्रिया ।। 67 ।।
-1-2-68- भ्रातृपुत्रौ स्वसृदुहितृभ्याम्
किमर्थमिदमुच्यते, न पुमान् स्त्रिया इत्येव सिद्धम्?
न सिध्यति। तल्लक्षणश्चेदेव विशेषः इत्युच्यते, न चात्र तल्लक्षण एव विशेषः।
तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः।
एवं तर्हि सिद्धे सति यदिमं योगं शास्ति तज्ज्ञापयत्याचार्यो यत्रोर्ध्वं प्रकृतेस्तल्लक्षण एव विशेषस्तत्रैकशेषो भवति इति।
किमेतस्य ज्ञापने प्रयोजनम्?
हंसश्च वरटा च, कच्छपश्च दुलिश्च, ऋश्यश्च रोहित् च इति। अत्रैकशेषो न भवति।
पूर्वयोर्योगयोर्भूयान्परिहारः- यावद् ब्रूयाद् गोत्रं यूनेति तावद्वृद्धो यूनेति। पूर्वसूत्रे गोत्रस्य वृद्धम् इति सञ्ज्ञा क्रियते।
<M.2.104>
।। प्रत्याख्यानाधिकरणम् ।।
- असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषस्याऽविवक्षितत्वात्सामान्यस्य च विवक्षितत्वात्सिद्धम् -
असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषश्चाऽविवक्षितः, सामान्यं च विवक्षितम्। विशेषस्याऽविवक्षितत्वात्सामान्यस्य च विवक्षितत्वात् सरूपाणामेकशेष एकविभक्तौ (1.2.64) इत्येव सिद्धम्।
।। अनिष्टवारणाधिकरणम् ।।
पुमान् स्त्रिया (1.2.67) इह कस्मान्न भवति- ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेति?
- ब्राह्मणवत्साब्राह्मणीवत्सयोर्लिङ्गस्याऽविभक्तिपरस्य विशेषवाचकत्वादनेकशेषः -
ब्राह्मणवत्साब्राह्मणीवत्सयोर्लिङ्गस्याऽविभक्तिपरस्य विशेषवाचकत्वादेकशेषो न भविष्यति। यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकं तत्रैकशेषो भवति। नाऽत्र लिङ्गं
विभक्तिपरमेव विशेषवाचकम्।
यदि तर्हि यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकं तत्रैकेशेषो भवति, इह न प्राप्नोति कारकश्च कारिका च कारकौ। नह्यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकम्। किं तर्हि? इत्वमपि।
कथं पुनरिदं विज्ञायते शब्दो या स्त्री तल्लक्षणश्चेदेव विशेषः इति, आहोस्वित् अर्थो या स्त्री तल्लक्षणश्चेदेव विशेषः इति?
किं चातः?
<M.2.105>
यदि विज्ञायते शब्दो या स्त्री तल्लक्षणश्चेदेव विशेषः इति, सिद्धं कारकश्च
कारिका च कारकौ। इदं तु न सिद्ध्यति- गोमांश्च गोमती च गोमन्तौ। अथ विज्ञायते- अर्थो या स्त्री तल्लक्षणश्चेदेव विशेषः इति, सिद्धं गोमांश्च गोमती च गोमन्तौ। इदं तु न सिध्यति- कारकश्च कारिका च कारकौ उभयथापि पटुश्च पट्वी च पटू इत्येतन्न सिध्यति।
एवं तर्हि नैवं विज्ञायते- शब्दो या स्त्री तल्लक्षणश्चेदेव विशेषः इति, नाऽपि अर्थो या स्त्री तल्लक्षणश्चेदेव विशेषः इति। कथं तर्हि? शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणो विशेष आश्रीयते।
एवं च कृत्वेहाऽपि प्राप्तिः- ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च इति।
एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति। किम्? तत् इत्यनुवर्त्तते। तदित्यनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते। कौ च प्रकृतौ? प्रधाने। प्रधानं या शब्दस्त्री, प्रधानं याऽर्थस्त्रीति ।। भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।। 68 ।।
-1-2-69- नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्
अयं योगः शक्योऽवक्तुम्।
कथं- शुक्लश्च कम्बलः शुक्लं च वस्त्रं तदिदं शुक्लम्, ते इमे शुक्ले। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं वस्त्रं तदिदं शुक्लम्, तानीमानि शुक्लानि?
- प्रधाने कार्यसम्प्रत्ययाच्छेषः -
प्रधाने कार्यसम्प्रत्ययाच्छेषो भविष्यति। किं च प्रधानम्? नपुंसकम्। कथं पुनर्ज्ञायते नपुंसकं प्रधानम् इति? एवं हि दृश्यते लोके- अनिर्ज्ञातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते। किं जातम् इत्युच्यते। द्वयं चैव हि जायते- स्त्री वा पुमान्वा। तथा- विदूरेऽव्यक्तरूपं दृष्ट्वा वक्तारो भवन्ति- महिषीरूपमिव ब्राह्मणीरूपमिव। प्रधाने कार्यसम्प्रत्ययान्नपुंसकस्य शेषो भविष्यति।
<M.2.106>
इदं तर्हि प्रयोजनम्- एकवच्चास्यान्यतरस्यामिति वक्ष्यामि इति।
एतदपि नास्ति प्रयोजनम्।
- आकृतिवाचित्वादेकवचनम् -
आकृतिवाचित्वादेकवचनं भविष्यति। यदा द्रव्याभिधानं तदा द्विवचनबहुवचने भविष्यतः ।। नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।। 69 ।।
भ्रातृपुत्रौ स्वसृदुहितृभ्याम्
-1-2-70- पिता मात्रा
-1-2-71- श्वशुरः श्वश्र्वा
।। सूत्रप्रयोजनाधिकरणम् ।।
किमर्थमिदमुच्यते। न पुमान्स्त्रिया (1.2.67) इत्येव सिद्धम्?
- भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशः -
भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशो भवति।
<M.2.107>
- भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् -
यदि तावद्विभर्तीति भ्राता, स्वसर्यप्येतद्भवति। तथा- यदि पुनातीति प्रीणातीति वा पुत्रः, दुहितर्यप्येतद्भवति।
तथा यदि पाति पालयतीति वा पिता, मातर्यप्येतद्भवति।
तथा यद्याश्वाप्तव्यः श्वशुरः, श्वश्र्वामप्येतद्भवति।
- दर्शनं वै हेतुः -
नहि स्वसरि भ्रातृशब्दो दृश्यते।
- दर्शनं हेतुरिति चेत्तुल्यम् -
दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति। स्वसर्यपि भ्रातृशब्दो दृश्यताम्। तुल्यं हि कारणम्।
- न वा एष लोके सम्प्रत्ययः -
नहि लोके भ्राताऽऽनीयताम् इत्युक्ते स्वसाऽऽनीयते।
- तद्विषयं च -
तद्विषयं चैतद् द्रष्टव्यं भवति- स्वसरि भ्रातृत्वम्। किंविषयम्? एकशेषविषयम्।
युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः?
बाढं युक्तम्।
- अन्यत्रापि तद्विषयदर्शनात् -
अन्यत्रापि नियतविषयाः शब्दा दृश्यन्ते। तद्यथा- समाने रक्ते वर्णे गौर्लोहित इति भवति अश्वः शोणः इति। समाने च काले वर्णे गौः कृष्ण इति भवति अश्वो हेम इति। समाने च शुक्ले वर्णे गौः श्वेत इति भवति अश्वः कर्क इति ।। भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।। पिता मात्रा ।। 70 ।। श्वशुरः श्वश्र्वा ।। 71 ।।

-1-2-72- त्यदादीनि सर्वैर्नित्यम्
- त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि -
त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि भवन्ति। सा च देवदत्तश्च तौ। सा च कुण्डे च तानि।
<M.2.108>
- अद्वन्द्वतत्पुरुषविशेषणानाम् -
अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्। इह मा भूत्- स च कुक्कुटः, सा च मयूरी, कुक्कुटमयूर्यौ ते। अर्द्धं पिपल्यास्तत्, अर्द्धपिप्पली च सा- अर्द्धपिप्पल्यौ ते।
।। प्रत्याख्यानाधिकरणम् ।।
अयमपि योगः शक्योऽवक्तुम्। कथम्?
- त्यदादीनां सामान्यार्थत्वात् -
त्यदादीनां सामान्यमर्थः। आतश्च सामान्यं देवदत्तेऽपि हि स इत्येतद्भवति, यज्ञदत्तेऽपि।
त्यदादीनां सामान्यार्थत्वाच्छेषो भविष्यति।
इदं तर्हि प्रयोजनं- परस्य शेषं वक्ष्यामि इति।
- परस्य चोभयवाचित्वात् -
उभयवाचि परम्।
- पूर्वशेषदर्शनाच्च -
पूर्वस्य खल्वपि शेषो दृश्यते- स च यश्च तावानय यावानय इति।
इदं तर्हि प्रयोजनं- द्वन्द्वो मा भूत् इति।
एतदपि नास्ति प्रयोजनम्।
- सामान्यविशेषवाचिनोश्च द्वन्द्वाऽभावात्सिद्धम् -
सामान्यविशेषवाचिनोश्च द्वन्द्वो न भवतीति वक्तव्यम्।
यदि सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीत्युच्यते, शूद्राभीरम् गोबलीवर्दम् तृणोलपम् इति न सिध्यति।
नैष दोषः। इह तावच्छूद्राभीरमिति,- आभीरा जात्यन्तराणि।
गोबलीवर्दम् इति,- गाव उत्कालितपुंस्का वाहाय च विक्रयाय च, स्त्रिय एवावशिष्यन्ते।
<M.2.109>
तृणोलपमिति,- अपामुलपमिति नामधेयम्।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। सामान्येनोक्तत्वाद्विशेषस्य प्रयोगो न भविष्यति। सामान्येनोक्तत्वात्तस्यार्थस्य, विशेषस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति।
न तर्हीदानीमिदं भवति- तं ब्राह्मणमानय गार्ग्यम् इति?
भवति। यदा नियोगतस्तस्यैवानयनं भवति।
एवं तर्हि येनैव खल्वपि हेतुनैतद्वाक्यं भवति- तं ब्राह्मणमानय गार्ग्यम् इति। तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीति वक्तव्यम् ।। त्यदादीनि सर्वैर्नित्यम् ।। 72 ।।
-1-2-73- ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री
अयमपि योगः शक्योऽवक्तुम्।
<M.2.110>
कथं- गाव इमाश्चरन्ति, अजा इमाश्चरन्ति?
गाव उत्कालितपुंस्का वाहाय च विक्रयाय च। स्त्रिय एवावशिष्यन्ते।
इदं तर्हि प्रयोजनम्- ग्राम्येष्विति वक्ष्यामि इति। इह मा भूत्- न्यङ्कव इमे, सूकरा इम इति।
कः पुनरर्हत्यग्राम्याणां पुंस उत्कालयितुम्, ये ग्रहीतुमशक्याः। कुत एव वाहाय च विक्रयाय च। इदं तर्हि प्रयोजनम्- पशुष्विति वक्ष्यामि इति। इह मा भूत्- ब्राह्मणा इमे, वृषला इमे।
कः पुनरर्हत्यपशूनां पुंस उत्कालयितुं येऽशक्या वाहाय च विक्रयाय च।
इदं तर्हि प्रयोजनम्- सङ्घेष्विति वक्ष्यामि इति। इह मा भूत्- एतौ गावौ चरतः।
कः पुनरर्हति निर्ज्ञातेऽर्थेऽन्यथा प्रयोक्तुम्।
इदं तर्हि प्रयोजनम्- अतरुणेष्विति वक्ष्यामि इति। इह मा भूत्- उरुणका इमे, बर्करा इम इति।
कः पुनरर्हति तरुणानां पुंस उत्कालयितुं येऽशक्या वाहाय च विक्रयाय च।
- अनेकशफेषु -
अनेकशफेष्विति वक्तव्यम्। इह मा भूत्। अश्वाश्चरन्ति, गर्दभाश्चरन्तीति ।। ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री ।। 73 ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीये पादे तृतीयमाह्निकम् ।। पादश्च समाप्तः ।।