महाभाष्यम्/षष्ठोऽध्यायः/चतुर्थः पादः

-6-4-1- अङ्गस्य (2999)
(अधिकारावधिनिर्णयाधिकरणम्)
(अधिकारमर्यादाभाष्यम्)
आ कुतोऽयमधिकारः ?
आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः ।।
(मर्यादायां पक्षान्तरोपस्थापकभाष्यम्)
यदि तर्ह्यासप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, गुणो यङ्लुकोः (7-4-82) इति यङ्लुग्ग्रहणं कर्तव्यम् । प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् ।
अस्तु तर्हि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः ।।
(पक्षान्तरे दूषणपूर्वकं सिद्धान्तभाष्यम्)
यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्च वकारस्य सम्प्रसारणं प्राप्नोति । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति उरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् (6-1-37) इति प्रतिषेधः सिद्धो भवति । स चेदानीमपरिहारो भवति यत्तदुक्तम्---।अङ्गान्यत्वाच्च सिद्धम् इति ।
अस्तु तर्ह्या सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः ।
ननु चोक्तमिदानीं गुणो यङ्लुको--- इति यङ्लुग्ग्रहणं कर्तव्यमिति ।
क्रियते न्यास एव ।।
(वार्तिकावतरणभाष्यम्)
किं पुनरियं स्थानषष्ठी---अङ्गस्य स्थान इति ?
एवं भवितुमर्हति ।।
(6419 स्थानषष्ठ्यां दोषवार्तिकम् ।। 1 ।।)
- अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तस्य चाधिकारः -
अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तस्य चाधिकारः कर्तव्यः । अङ्गात् इत्यपि वक्तव्यम् ।
अनुच्यमाने हि---अतो भिस ऐस्भवतीति अत इति पञ्चमी, अङ्गस्येति स्थानषष्ठी, तत्राशक्यं विविभक्तिकत्वादत इति पञ्चम्याऽङ्गं विशेषयितुम् ।
तत्र को दोषः ?
अतो भिस ऐस् इति अकारान्तात्परस्य भिस्मात्रस्यैस्भावो भवति--इति--इहापि प्रसज्येत ब्राह्मणभिस्सा, ओदनभिस्सटा--इति ।।
(6500 स्थानषष्ठ्यां दोषवार्तिकम् ।। 2 ।।)
- अवयवषष्ठ्यादीनां चाप्रतिपत्तिः -
अवयवषष्ठ्यादयश्च न सिध्यन्ति ।
तत्र को दोषः ?
शास इदङ्हलोः (6-4-34) इति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च । ऊदुपधाया गोहः (6-4-89) इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च ।।
(6501 दोषापोहवार्तिकम् ।। 3 ।।)
- सिद्धं तु परस्परं प्रत्यङ्गप्रत्ययसंज्ञाभावात् -
सिद्धमेतत् ।
कथम् ?
परस्परं प्रत्यङ्गप्रत्ययसंज्ञे भवतः । अङ्गसंज्ञां प्रति प्रत्ययसंज्ञा, प्रत्ययसंज्ञां प्रत्यङ्गसंज्ञा ।।
(वार्तिकावतरणभाष्यम्)
किमतो यत्परस्परं प्रत्यङ्गप्रत्ययसंज्ञे भवतः ?
(6502 स्थानषष्ठ्यां सिद्धान्तवार्तिकम् ।। 4 ।।)
- सम्बन्धषष्ठीनिर्देशश्च -
सम्बन्धषष्ठीनिर्देशश्चायं कृतो भवति--अङ्गस्य यो भिस्शब्द इति ।
किञ्ञ्चाङ्गस्य भिस्शब्दः ?
निमित्तम् । यस्मिन्नङ्गमित्येतद्भवति ।
कस्मिंश्चैतद्भवति ?
प्रत्यये ।।
(दोषाक्षेपपरिहारभाष्यम्)
एवमप्यवयवषष्ठ्यादयोऽविशेषिता भवन्ति ।
अवयवषष्ठ्यादयोऽपि सम्बन्ध एव ।।
एवमपि स्थानमविशेषितं भवति ।
स्थानमपि सम्बन्ध एव ।।
एवमपि न ज्ञायते---क्व स्थानषष्ठी, क्व विशेषणषष्ठीति ?
यत्र षष्ठी अन्यं योगं नापेक्षते सा स्थानषष्ठी ।
यत्र ह्यन्ययोगमपेक्षते सा विशेषणषष्ठी ।।
(वार्तिकावतरणभाष्यम्)
कानि पुनरङ्गाधिकारस्य प्रयोजनानि ?
अङ्गाधिकारस्य प्रयोजनम्---
(6503 अधिकारप्रयोजनवार्तिकम् ।। 5 ।।)
- सम्प्रसारणदीर्घत्वे -
हल उत्तरस्य सम्प्रसारणस्य दीर्घत्वं भवति---हूतः, जीनः, संवीतः शूनः ।
अङ्गस्येति किम् ?
निरुतम्, दुरुतम् ।।
(6504 प्रयोजनवार्तिकम् ।। 6 ।।)
- नाम्सनोर्दीर्घत्वे -
प्रयोजनम् । नामि दीर्घो भवति---अग्नीनाम्, इन्दूनाम् ।
अङ्गस्येति किम् ?
किमिणां पश्य, पामनां पश्य ।।
सनि दीर्घो भवति---चिचीषति, तुष्टूषति ।
अङ्गस्येति किमर्थम् ?
दधि सनोति, मधु सनोति ।।
(6505 प्रयोजनवार्तिकम् ।। 7 ।।)
- लिङ्येत्वे -
प्रयोजनम् । ग्लेयात्, म्लेयात् ।
अङ्गस्येति किमर्थम् ?
निर्यायात्, निर्वायात् ।।
(6506 प्रयोजनवार्तिकम् ।। 8 ।।)
- अतो भिस ऐस्त्वे -
प्रयोजनम् । वृक्षैः । प्लक्षैः ।
अङ्गस्येति किम् ?
ब्राह्मणभिस्सा, ओदनभिस्सटा ।।
(6507 प्रयोजनवार्तिकम् ।। 9 ।।)
- लुङादिष्वडाटौ -
प्रयोजनम् । अकार्षीत्, ऐहिष्ट ।
अङ्गस्येति किमर्थम् ?
प्राकरोत्, अवैहिष्ट ।।
(6508 प्रयोजनवार्तिकम् ।। 10 ।।)
- इङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि -
इयङुवङौ प्रयोजनम् । श्रियौ, श्रियः । भ्रुवौ, भ्रुवः ।
अङ्गस्येति किमर्थम् ?
श्र्यर्थम्, भ्र्वर्थम् ।।
युष्मदस्मदोः प्रयोजनम् । साम आकम् (7-1-33) युष्माकम्, अस्माकम् ।
अङ्गस्येति किम् ?
युष्मत्साम, अस्मत्साम ।।
तातङ् प्रयोजनम् । जीवतु जीवताद् भवान् ।
अङ्गस्येति किमर्थम् ?
पच हि तावत्त्वं, पच तु तावत्त्वम् । जल्प हि तावत्त्वम्, जल्प तु तावत्त्वम् ।।
आमि नुट् प्रयोजनम् । किशोरीणाम्, कुमारीणाम् ।
अङ्गस्येति किमर्थम् ?
कुमारी आमित्याह, किशोरी आमित्याह ।।
आने मुक् (7-2-82) प्रयोजनम् । यजमानः, पचमानः ।
अङ्गस्येति किमर्थम् ?
प्राणः ।।
के ह्रस्वः प्रयोजनम् । कुमारिका, किशोरिका ।
अङ्गस्येति किमर्थम् ?
कुमारीं कायति---कुमारीकः ।।
यि दीर्घः प्रयोजनम् । चीयते, स्तूयते ।
अङ्गस्येति किम् ?
दधियानम्, मधुयानम् ।।
भि तत्वं प्रयोजनम् । अदि्भः, अद्भ्यः ।
अङ्गस्येति किमर्थम् ?
अब्भारः, अब्भक्षः ।।
(वार्तिकावतरणभाष्यम्)
नैतानि सन्ति प्रयोजनानि ।
कथम् ?
(6509 प्रयोजनान्यथासिद्धिसाधकं वार्तिकम् ।। 11 ।।)
- अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यां सिद्धम् -
अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यामेवैतानि सिद्धानि । क्वचित् अर्थवद्ग्रहणेनानर्थकस्य इत्येवं न भविष्यति, क्वचित् प्रत्ययाप्रत्यययोर्ग्रहणे प्रत्ययस्यैव ग्रहणं भवति इति ।।
अथवा प्रत्यय इति प्रकृत्याङ्गकार्यमध्येष्ये ।
यदि प्रत्यय इति प्रकृत्याङ्गकार्यमधीषे---प्राकरोत्, उपैहिष्ट---उपसर्गात्पूर्वमडाटौ प्राप्नुतः ।
।सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ।
सिद्धमेतत् ।
कथम् ?
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवतीति, एवमुपसर्गात्पूर्वमडाटौ न भविष्यतः ।।
-6-4-2- हलः (3000)
(दीर्घाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
इह कस्मान्न भवति---तृतीयः ?
(6510 अतिव्याप्तिनिवारकवार्तिकम् ।। 1 ।।)
- अण्प्रकरणादृकारस्याप्राप्तिः -
अण्प्रकरणादृकारस्य दीर्घत्वं न भविष्यति । अण इति वर्तते ।
क्व प्रकृतम् ?
ढ्रलोपे पूर्वस्य दीर्घोऽणः (6-3-111) इति ।।
(वार्तिकावतरणभाष्यम्)
तद्वै इकः काशे (6-3-123) इत्यनेनेग्ग्रहणेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम् ।।
(6511 अण्ग्रहणानुवृत्तिसाधकवार्तिकम् ।। 2 ।।)
- इग्ग्रहणस्य चाण्विशेषणत्वात् -
अण्विशेषणमिग्ग्रहणम्--अण इक इति ।।
(अण्ग्रहणानुवृत्तौ दोषनिवारकभाष्यम्)
यदि तर्ह्यण्विशेषणमिग्ग्रहणं, चौ दीर्घो भवति--इतीह न प्राप्नोति---अवाचा, अवाचे ।
नैष दोषः । अण्ग्रहणमनुवर्तते, इग्ग्रहणं निवृत्तम् ।।
एवमपि कर्तृचः, कर्तॄचा, कर्तॄचे---अत्र न प्राप्नोति ।
यथालक्षणमप्रयुक्ते ।।
(वार्तिकान्यथासिद्धिसाधकभाष्यम्)
अथवा---उभयं निवृत्तम् । कस्मान्न भवति---तृतीय इति ?
निपातनात् ।
किं निपातनम् ?
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (2-2-3) इति ।।
-6-4-3- नामि (3001)
(सनकारग्रहणाक्षेपभाष्यम्)
किमर्थमामः सनकारस्य ग्रहणं क्रियते, न आमि दीर्घः इत्येवोच्यते ?
केनेदानीं सनकारस्य भविष्यति ?
नुडयमाम्भक्त आम्ग्रहणेन ग्राहिष्यते ।।
अत उत्तरं पठति---
(नुट्प्रयोजनश्लोकवार्तिकम्)
नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुड् भवेत् ।
नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् स्यात् । अग्नीनाम्, इन्दूनाम् ।
इदमिह संप्रधार्यम्---दीर्घत्वं क्रियतां नुडिति, किमत्र कर्तव्यम् ?
परत्वान्नुट् ।
नित्यं दीर्घत्वम् । कृतेऽपि नुटि प्राप्नोत्यकृतेऽपि । नित्यत्वाद्दीर्घे कृते ह्रस्वाश्रयो नुट् न प्राप्नोति ।।
(श्लोकवार्तिकावतरणभाष्यम्)
एवं तर्ह्याहायं---ह्रस्वान्तान्नुडिति, न च ह्रस्वान्तोऽस्ति । तत्र वचनाद्भविष्यति ।।
(सार्मथ्याभावोपपादकश्लोकवार्तिकम्)
वचनाद्यत्र तन्नास्ति ।
नेदं वचनाल्लभ्यम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ।
किम् ?
यत्र दीर्घत्वं प्रतिषिध्यते---तिसृणाम्, चतसृणामिति ।
नैतदस्ति प्रयोजनम् । इह तावच्चतसृणामिति, षट्चतुर्भ्यश्च (7-1-55) इत्येवं भविष्यति ।
तिसृणामिति, त्रिग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
त्रेस्त्रयः (7-1-53) इति ।
इदं तर्हि---त्वं नृणां नृपते जायसे शुचिः ।
नैकमुदाहरणं ह्रस्वग्रहणं प्रयोजयति । तत्र वचनात् भूतपूर्वगतिर्विज्ञास्यते---ह्रस्वान्तं यद्भूतपूर्वमिति ।।
(श्लोकवार्तिकावतरणभाष्यम्)
उत्तरार्थं तर्हि सनकारग्रहणं कर्तव्यम् ।।
(नुट्प्रयोजनश्लोकवार्तिकम्)
नोपधायाश्च चर्मणाम् ।
नोपधायाः नामि यथा स्यात् । इह मा भूत्---वर्मणाम्, चर्मणाम् ।।
(संग्रहः)
नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् भवेत् ।
वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्मणाम् ।। 1 ।।
-6-4-12- इन्हन्पूषार्यम्णां शौ (3010)
-6-4-13- सौ च (3011)
(6512 दोषाक्षेपवार्तिकम् ।। 1 ।।)
- हनः क्वावुपधादीर्घत्वप्रसङ्गः -
हनः क्वावुपधालक्षणं दीर्घत्वं प्राप्नोति---अनुनासिकस्य क्विझलोः क्ङिति (15) इति, तस्य प्रतिषेधो वक्तव्यः ।।
(आक्षेपनिरासभाष्यम्)
वृत्रहणौ, वृत्रहण इति---नियमवचनात्सिद्धम् । इन्हन्पूषार्यम्णां शौ सौ च इत्येतस्मान्नियमवचनाद्दीर्घत्वं न भविष्यति ।।
(6513 नियमाक्षेपवार्तिकम् ।। 2 ।।)
- नियमवचनात्सिद्धमिति चेत्सर्वनामस्थानप्रकरणे नियमवचनादन्यत्रानियमः -
नियमवचनात्सिद्धमिति चेत्सर्वनामस्थानप्रकरणे नियमवचनादन्यत्र नियमो न प्राप्नोति ।
क्वान्यत्र ?
ब्रह्महणि, भ्रूणहनि ।
नियमवचनात्सिद्धमिति चेदिति ।।
एवं तर्हि---
(नियमस्वरूपदर्शकं श्लोकवार्तिकम्)
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् ।
दीर्घविधिर्य इहेन्प्रभृतीनां तं सर्वनामस्थाने विनियम्य । इन्हन्पूषार्यम्णां सर्वनामस्थाने दीर्घो भवति ।
किमर्थमिदम् ?
नियमार्थम् । इन्हन्पूषार्यम्णां सर्वनामस्थान एव, नान्यत्र ।।
(नियमस्वरूपदर्शकं श्लोकवार्तिकम्)
शौ नियमं पुनरेव विदध्यात्
ततः--शौ । शावेव सर्वनामस्थाने नान्यत्र । ततः---सौ । सावेव सर्वनामस्थाने नान्यत्र ।।
(नियमसाधकं श्लोकवार्तिकम्)
भ्रूणहनीति तथाऽस्य न दुष्येत् ।। 1 ।।
तथाऽस्य भ्रूणहनीति न दोषो भवति ।।
(नियमे प्रकारान्तरदर्शकं श्लोकवार्तिकम्)
शास्मि निर्वत्य सुटीत्यविशेषे शौ नियमं कुरु वाऽप्यसमीक्ष्य ।
अथवा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमं वक्ष्यामि---इन्हन्पूषार्यम्णां शावेव । ततः---सौ, सावेव ।।
(नियमाक्षेपभाष्यम्)
इहापि तर्हि नियमान्न प्राप्नोति---इन्द्रो वृत्रहायते ।।
(आक्षेपनिरासे श्लोकवार्तिकम्)
दीर्घविधेरुपधानियमान्मे हन्तियि दीर्घविधौ च न दोषः ।। 2 ।।
उपधालक्षणदीर्घत्वस्य नियमः, नचैतदुपधालक्षणं दीर्घत्वम् ।।
(प्रकारान्तरेणाक्षेपनिरासे श्लोकवार्तिकम्)
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे ।
अथवाऽनुवर्तमाने सर्वनामस्थानप्रकरणेऽनवकाशः शौ नियमोऽप्रकृतस्यापि दीर्घत्वस्य नियामको भविष्यति ।
कथम् ?
(नियमसंपादकं श्लोकवार्तिकम्)
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ।। 3 ।।
यस्य हि शिसर्वनामस्थानं, न तस्य सुट् । यस्य च सुट्सर्वनामस्थानं, न च तस्य शिः । तत्र सर्वनामस्थानप्रकरणे नियम्यं नास्तीति कृत्वाऽविशेषेण शौ नियमो विज्ञास्यते ।।
(संग्रहः)
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् ।
शौ नियमं पुनरेव विदध्यात् भ्रूणहनीति तथाऽस्य न दुष्येत् ।। 1 ।।
शास्मि निर्वत्य सुटीत्यविशेषे शौ नियमं कुरु वाऽप्यसमीक्ष्य ।
दीर्घविधेरुपधानियमान्मे हन्तियि दीर्घविधौ च न दोषः ।। 2 ।।
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे ।
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ।। 3 ।।
-6-4-14- अत्वसन्तस्य चाधातोः (3012)
(6514 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अत्वसन्तस्य दीर्घत्वे पित उपसंख्यानम् -
अत्वसन्तस्य दीर्घत्वे पित उपसंख्यानं कर्तव्यम् । गोमान्, यवमान् ।
किं पुनः कारणं न सिध्यति ?
।अननुबंधकग्रहणे न सानुबन्धकस्य ग्रहणम् अननुबन्धकग्रहणे सानुबन्धकस्य ग्रहणं नेत्येवं पितो न
प्राप्नोति ।।
अननुबन्धकग्रहण इत्युच्यते, सानुबन्धकस्येदं ग्रहणम् ।
एवं तर्हि तदनुबन्धकस्य ग्रहणे अतदनुबन्धकस्य ग्रहणं न इत्येवं पितो न प्राप्नोति ।।
(उपसंख्यानाक्षेपभाष्यम्)
तत्तर्हि उपसंख्यानं कर्तव्यम् ?
न कर्तव्यम् ।
पकारलोपे कृते नातुबन्तं भवति, अत्वन्तमेव ।
यथैव तर्हि पकारलोपे कृते नातुबन्तमेवमुकारलोपे कृते नात्वन्तम् ।
ननु च भूतपूर्वगत्या भविष्यति अत्वन्तम् ।
यथैव तर्हि भूतपूर्वगत्याऽत्वन्तम्, एवमतुबन्तमपि ।
एवं तर्हि---आश्रीयमाणे भूतपूर्वगतिः, अत्वन्तं चाश्रीयते नातुबन्तम् ।।
(उपसंख्यानसाधकभाष्यम्)
न सिध्यति । इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते---अत्रास्यैतद्रूपमिति । रूपनिर्ग्रहणं शब्दस्य नान्तरेण लौकिकं प्रयोगम् । तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते ।
कोऽसौ ?
उपदेशः । उपदेशे चैतदतुबन्तं नात्वन्तम् ।।
(उपसंख्यानसाधकभाष्यम्)
यदि पुनरच्छब्दं गृहीत्वा दीर्घत्वमुच्येत ।
नैवं शक्यम् ।
इहापि प्रसज्येत---जगत्, जनगत् ।
अर्थवद्ग्रहणे नानर्थकस्य इत्येवमेतस्य न भविष्यति ।
इहापि तर्हि न प्राप्नोति---कृतवान्, भुक्तवान् ।
क्व तर्हि स्यात् ?
पचन्, यजन् । न वै अत्रेष्यते ।।
अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ।
तस्मादुपसंख्यानं कर्तव्यम् ।।
-6-4-16- अज्झनगमां सनि (3014)
(6515 उपसंख्यानवार्तिकम् ।। 1 ।।)
- गमेर्दीर्घत्वे इङ्ग्रहणम् -
गमेर्दीर्घत्वे इङ्ग्रहणं कर्तव्यम् । इङो गमेरिति वक्तव्यम् । इह मा भूत्---सञ्जिगंसते वत्सो मात्रेति ।।
(6516 उपसंख्यानसाधकवार्तिकम् ।। 2 ।।)
- अग्रहणे ह्यनादेशस्यापि दीर्घप्रसङ्गः -
अक्रियमाणे हीङ्ग्रहणेऽनादेशस्यापि दीर्घत्वं प्रसज्येत । सञ्जिगंसते वत्सो मात्रेति ।।
(6517 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।)
- न वा छन्दस्यनादेशस्यापि दीर्घत्वदर्शनात् -
न वा इङ्ग्रहणं कर्तव्यम् ।
किं कारणम् ?
छन्दस्यनादेशस्यापि दीर्घत्वदर्शनात् । छन्दस्यनादेशस्यापि गमेर्दीर्घत्वं दृश्यते---स्वर्गं लोकं सञ्ञ्जिगांसत् । छन्दस्यनादेशस्यापि गमेर्दीर्घत्वदर्शनादिङ्ग्रहणमनर्थकम् ।।
(उपसंख्यानसाधकभाष्यम्)
यथैव तर्हि छन्दस्यनादेशस्यापि गमेर्दीर्घत्वं भवति, एवं भाषायामपि प्राप्नोति । तस्मादिङ्ग्रहणं कर्तव्यम् ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
न कर्तव्यम् । योगविभागः करिष्यते---
अचः सनि ।
अजन्तानां सनि दीर्घो भवति ।
ततः---
हनिगम्योः ।
हनिगम्योश्च सनि दीर्घो भवति । अच इत्येव । अचः स्थाने यौ हनिगमी ।।
(वार्तिकावतरणभाष्यम्)
अथोपधाग्रहणमनुवर्तते, उताहो न ?
किञ्ञ्चातः ?
(6518 उपधापदानुवर्तने दोषवार्तिकम् ।। 4 ।।)
- सनि दीर्घ उपधाधिकारश्चेत् व्यञ्जनप्रतिषेधः -
सनि दीर्घ उपधाधिकारश्चेत् व्यञ्जनस्य प्रतिषेधो वक्तव्यः । चिचीषति---तुष्टूषतीत्येवमर्थम् ।
एवं तर्हि निवृत्तम् ।।
(6519 उपधापदाननुवर्तने दोषवार्तिकम् ।। 5 ।।)
- अनधिकारे उक्तम् -
किमुक्तम् ?
हनिगमिदीर्घेष्वज्ग्रहणम् इति ।
(सिद्धान्तभाष्यम्)
नैष दोषः ।
उक्तमेतत्---ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयात् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम् ।।
-6-4-19- च्छ्वोः शूडनुनासिके च (3017)
(ऊठोऽधिकरणम्)
(ऊठष्ठित्वसाधकभाष्यम्)
अथ ऊडादिः कस्मान्न भवति, आदिष्टित् भवतीति प्राप्नोति ।
कस्य पुनरादिः ?
वकारस्य । अस्तु ।
वकारस्य का प्रतिपत्तिः ?
लोपो व्योर्वलि (6-1-66) इति लोपो भविष्यति ।
नैवं शक्यम् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6-4-20) इति द्वावूटौ स्याताम् ।
एवं तर्हि नैष टित् ।
कस्तर्हि ?
ठित् ।
(ठित्वे आक्षेपपरिहारभाष्यम्)
यदि तर्हि ठति, धौतः पट इति एत्येधत्यूठ्सु (6-1-89) इति वृद्धिर्न प्राप्नोति ।
र्चत्वे कृते भविष्यति ।
असिद्धं र्चत्वं तस्यासिद्धत्वान्न प्राप्नोति ।
आश्रयात्सिद्धत्वं भविष्यति ।
असत्यन्यस्मिन्नाश्रयात्सिद्धत्वं स्यात्, अस्ति चान्यः वाह ऊट् इति ।
एषोऽपि ठित्करिष्यते । तत्रोभयोर्श्चत्वे कृते आश्रयात्सिद्धत्वं भविष्यति ।।
(क्ङिदनुवर्तनविचारभाष्यम्)
अथ क्ङिद्ग्रहणमनुवर्तते, उताहो न ?
किञ्ञ्चातः ?
(क्ङिदनुवर्तनाक्षेपे श्लोकवार्तिकम्)
शूट्त्वे क्ङिदधिकारश्चेच्छः षत्वम्
शूट्त्वे क्ङिदधःथ्द्य;कारश्चेत् छः षत्वं वक्तव्यम् । प्रष्टा, प्रष्टुं, प्रष्टव्यम् ।
(क्ङिदनुवर्तनाक्षेपे श्लोकवार्तिकम्)
तुक्प्रसङ्गश्च ।
तुक् च प्रसज्येत ।।
निवृत्तेऽपि वै क्ङिद्ग्रहणेऽवश्यमत्र तुगभावार्थो यत्नः कर्तव्यः । अन्तरङ्गत्वाद्धि तुक् प्राप्नोति ।
च्छ्वोः इति तुका सह सन्निपातग्रहणं विज्ञायते ।
ननु चैवमपि अन्त्यस्य प्राप्नोति ।
सन्निपातग्रहणसार्मथ्यात्सर्वस्य भविष्यति ।
एवमप्यङ्गस्य प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीति---एवमङ्गस्य न भविष्यति ।।
यद्येवमुत्पुच्छयतेरप्रत्ययः उत्पुड् इति प्राप्नोति, उत्पुदिति चेष्यते ।
तथा वाञ्ञ्छतेरप्रत्ययः--वान्, वांशौ, वांश इति न सिध्यति ।
यथालक्षणमप्रयुक्ते ।।
तत्र त्वेतावान् विशेषः---अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यम्, तत्र चापि सन्निपातग्रहणं विज्ञेयम् ।।
(क्ङिद्ग्रहणाननुवर्तनाक्षेपे श्लोकवार्तिकम्)
निवृत्ते दिव ऊठ्भावः
अथ निवृत्तं दिव ऊठ्भावः प्राप्नोति । द्युभ्यां द्युभिः ।
अस्तु ।
कथं द्युभ्यां---द्युभिः इति ?
ऊठि कृते दिव उत् (6-1-131) इत्युत्वं भविष्यति ।
न सिध्यति । आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ।।
(क्ङिद्ग्रहणाननुवर्तने दोषनिवारकं श्लोकवार्तिकम्)
तदर्थं तपरः कृतः ।।
तदर्थं तपरः क्रियते ।।
(संग्रहः)
शुट्त्वे क्ङिदधिकारश्चेच्छः षत्वं तुक्प्रसज्यते ।
निवृत्ते दिव ऊठ्भावस्तदर्थं तपरः कृतः ।।
(क्ङिद्ग्रहणानुवर्तने दोषनिवारकं भाष्यम्)
क्व पुनः क्ङिद्ग्रहणं प्रकृतम् ?
अनुनासिकस्य क्विझलोः क्ङिति (15) इति ।
यदि तदनुवर्तते, अज्झनगमां सनि (16) क्विझलोश्चेति क्विझलोरपि दीर्घत्वं प्राप्नोति ।
झलि तावन्न दोषः । सनमत्र झल्ग्रहणेन विशेषयिष्यामः--सनि झलादाविति ।
क्वावप्याचार्यप्रवृत्तिर्ज्ञापयति---नानेन क्वौ दीर्घत्वं भवतीति, यदयं क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां
दीर्घोऽसंप्रसारणं च इति दीर्घत्वं शास्ति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ।।
-6-4-22- असिद्धवदत्राभात् (3020)
(अधिकारमर्यादाधिकरणम्)
(असिद्धवचनाक्षेपभाष्यम्)
असिद्धवचनं किमर्थम् ?
(6520 असिद्धवचनप्रयोजनवार्तिकम् ।। 1 ।।)
- असिद्धवचने उक्तम् -
किमुक्तम् । तत्र तावदुक्तम्---।षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं इति ।
इहापि---असिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च ।
तत्र---आदेशलक्षणप्रतिषेधार्थं तावत्---आगहि, जहि । गतं, गतवानिति । अनुनासिकलोपे जभावे च कृते अतो लोपः (6-4-48) अतो हेः (105) इति च प्राप्नोति । असिद्धत्वान्न भवति ।
उत्सर्गलक्षणभावार्थं च---एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद्भवति ।।
(अत्रग्रहणाक्षेपभाष्यम्)
अथ अत्र ग्रहणं किमर्थम् ?
(6521 अत्रग्रहणप्रयोजनवार्तिकम् ।। 2 ।।)
- अत्रग्रहणं विषयार्थम् -
विषयः प्रतिनिर्दिश्यते । अत्र---एतस्मिन्नाभाच्छास्त्रे आभाच्छास्त्रमसिद्धं यथा स्यात् । इह मा भूत्---अभाजि, रागः, उपबर्हणमिति ।।
(सूत्रप्रयोजनाक्षेपभाष्यम्)
कानि पुनरस्य योगस्य प्रयोजनानि ?
(6522 सूत्रप्रयोजनवार्तिकम् ।। 3 ।।)
- प्रयोजनं शैत्वं धित्वे -
शाभाव एत्वं च धित्वे प्रयोजनम् । एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति ।
असिद्धत्वाद्भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
शाभावस्तावन्न प्रयोजयति ।
एवं वक्ष्यामि--शास् हौ--शा हाविति । यत्वभूतः सकारः, तत्र सात् धित्वम्, धि च (8-2-25) इति सकारस्य लोपः ।
अथवा---आ हौ इति वक्ष्यामि ।
एवमपि सकारस्य प्राप्नोति ।
उपधाया इति वर्तते । तत्रोपधाया आत्वे कृते सात् धित्वम्, धि च इति सकारलोपः ।
अथवा न हौ इति वक्ष्यामि । तत्रेत्वे प्रतिषिद्धे सात् धित्वम्, धि च इति सकारलोपः ।।
एत्वमपि लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोति ।।
(सूत्रप्रयोजनभाष्यम्)
करोतेर्हिलोप उत्त्वे प्रयोजनम् ।
कुर्वित्यत्र हिलोपे कृते सार्वधातुके परे उकार इति उत्वं न प्राप्नोति ।
असिद्धत्वाद्भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम् । वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम्---सार्वधातुके भूतपूर्वमात्रेऽपि
यथा स्यादुत्वम् ।।
(6523 सूत्रप्रयोजनवार्तिकम् ।। 4 ।।)
- तास्तिलोपेण्यणादेशा अडाडि्वधौ -
तलोप---अस्तिलोप---इणश्च यणादेशः---अडाडि्वधौ प्रयोजनम् ।
अकारि, ऐहि--इति । तलोपे कृते लुङीति अडाटौ न प्राप्नुतः ।
अस्तिलोप---इणश्च यणादेशः प्रयोजनम् । आसन्, आयन्---इति । इणस्त्योर्यण्लोपयोरनजादित्वादाट् न प्राप्नोति ।
असिद्धत्वाद्भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
अस्तिलोपस्तावन्न प्रयोजयति । आचार्यप्रवृत्तिर्ज्ञापयति---लोपादाट् बलीयानिति, यदयं श्नसोरल्लोपः (6-4-111) इति तपरकरणं करोति ।।
इण्यणादेशश्चापि न प्रयोजयति । यणादेशे योगविभागः करिष्यते---इणो यण् भवति । ततः---एरनेकाचः, एरनेकाच इणो यण् भवति । ततः---असंयोगपूर्वस्य असंयोगपूर्वस्य यण्भवति, एरनेकाच इत्येव ।।
(प्रकारान्तरेण प्रयोजनाक्षेपभाष्यम्)
सर्वेषामेव परिहारः---उपदेश इति वर्तते । तत्रोपदेशावस्थायामेवाडाटौ भवतः ।
अथवा---
आर्धधातुक इति वर्तते ।
अथवा---
लुङ्लङ्लृङ्क्ष्वडिति द्विलकारको निर्देशः । लुङादिषु लकारादिष्विति ।।
सर्वथा ऐज्यत---औप्यत इति न सिध्यति ।
वक्ष्यत्येतत्---।अजादीनामटा सिद्धम् इति ।।
(6524 सूत्रप्रयोजनवार्तिकम् ।। 5 ।।)
- अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च -
अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च प्रयोजनम् । आगहि, जहि । गतः, गतवानिति । अनुनासिकलोपे कृते जभावे च अतो हेः अतो लोपः इति च लोपः प्राप्नोति ।
असिद्धत्वान्न भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
अनुनासिकलोपस्तावन्न प्रयोजयति । अल्लोपे उपदेशे इति वर्तते ।
यद्युपदेश इति वर्तते, धिनुतः---कृणुतः---अत्र न प्राप्नोति ।
नैष दोषः । नोपदेशग्रहणेन प्रकृतिरभिसंबध्यते ।
किं तर्हि ?
आर्धधातुकमभिसंबध्यते । आर्धधातुकोपदेशे यदकारान्तमिति ।।
(प्रयोजनाक्षेपभाष्यम्)
जभावश्चापि न प्रयोजयति । हिलोपे योगविभागः करिष्यते---अतो हेः । ततः---उतश्च, हेर्लुग्भवतीति । ततः---प्रत्ययात् । प्रत्ययादित्युभयोः शेषः ।।
(वार्तिकरचनाक्षेपसमाधानभाष्यम्)
अथ किमर्थम् अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च इत्युच्यते, न अनुनासिकलोपजभावावल्लोपहिलोपयोः इत्येवोच्येत ?
संख्यातानुदेशो मा भूदिति । अनुनासिकलोपो हिलोपे प्रयोजयति---मण्डूकि ताभिरागहि, रोहिदश्व
इहागहि, मरुदि्भरग्न आगहि ।।
(6525 सूत्रप्रयोजनवार्तिकम् ।। 6 ।।)
- संप्रसारणमवर्णलोपे प्रयोजनम् -
मघोनः पश्य, मघोना, मघोने । संप्रसारणे कृते यस्य--- इति लोपः प्राप्नोति ।
असिद्धत्वान्न भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् । वक्ष्यत्येतत्---मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ।।
(6526 सूत्रप्रयोजनवार्तिकम् ।। 7 ।।)
- रेभाव आल्लोपे प्रयोजनम् -
किंस्विद् गर्भं प्रथमं दध्र आपः । रेभावे कृते आतो लोप इटि च (6-4-64) इत्याकारलोपो न प्राप्नोति ।
असिद्धत्वाद्भवति ।।
(प्रयोजनाक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम् । छान्दसो रेभावः, लिट् च छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपित् (1-2-4) ङिद्भवति इति ङित्त्वम्, श्नाभ्यस्तयोरातः (6-4-112) इत्याकारलोपो भवति ।।
(अधिकारप्रयोजनाधिकरणम्)
(सूत्राभावे दोषोपक्रमभाष्यम्)
यदि तर्हि अयं योगो नास्ति---
(सूत्रासत्त्वे दोषप्रतिपादकं श्लोकवार्तिकम्)
उत्तु कृञ्ञः कथमोर्विनिवृत्तौ
इह---कुर्वः, कुर्मः, कुर्यात्---इति, उकारलोपे कृते सार्वधातुकपर उकार इति उत्वं न प्राप्नोति ।।
(सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्)
णेरपि चेटि कथं विनिवृत्तिः ।
इह च---कारयतेः कारिष्यते णेरनिटी (6-4-51) इति णिलोपो न प्राप्नोति ।।
(सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्)
अब्रुवतस्तव योगमिमं स्यात्
लुक् च चिणो नु कथं न तरस्य ।। 1 ।।
इह च---अकारितराम्---अहारितराम्--इति चिण उत्तरस्य तरस्य लुक् कथं न स्यात् ।।
(दोषवारकं श्लोकवार्तिकम्)
चं भगवान्तकृतवांस्तु तदर्थं
तेन भवेदिटि णेर्विनिवृत्तिः ।
इह---स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽञ्ञ्झनग्रहदृशां वा चिण्वदिट् च (6-4-62) ।
किञ्च ?
णिलोपश्च ।।
(दोषवारकं श्लोकवार्तिकम्)
म्वोरपि ये च तथाऽप्यनुवृत्तौ
इहापि---कुर्वः, कुर्मः, कुर्यात्---इति म्वोर्ये चेति, तदप्यनुवर्तिष्यते ।।
(दोषवारकं श्लोकवार्तिकम्)
चिण्लुकि च क्ङित एव हि लुक् स्यात् ।। 2 ।।
चिण्लुक्यपि प्रकृतं क्ङिद्ग्रहणमनुवर्तते ।
क्व प्रकृतम् ?
गमहनजनखनघसां लोपः क्ङित्यनङि (6-4-98) इति ।
तद्वै सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1-1-67) इति ।।
(संग्रहः)
उत्तु कृञ्ञः कथमोर्विनिवृत्तौ णेरपि चेटि कथं विनिवृत्तिः ।
अब्रुवतस्तव योगमिमं स्यात् लुक् च चिणो नु कथं न तरस्य ।। 1 ।।
चं भगवान् कृतवांस्तु तदर्थं तेन भवेदिटि णेर्विनिवृत्तिः ।
म्वोरपि ये च तथाऽप्यनुवृत्तौ चिण्लुकि च क्ङित एव हि लुक् स्यात् ।। 2 ।।
(6527 सूत्रारम्भे उपसंख्यानवार्तिकम् ।। 8 ।।)
- आरभ्यमाणेऽप्येतस्मिन्योगे सिद्धं वसुसंप्रसारणमज्विधौ -
आरभ्यमाणेऽप्येतस्मिन् योगे वसु संप्रसारणमज्विधौ सिद्धं वक्तव्यम् ।
किं प्रयोजनम् ?
पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, लुलुवुषः पश्य, पुपुवुषः पश्य---इति । वसोः संप्रसारणे कृते अचि इत्याकारलोपादीनि यथा स्युरिति ।।
किं पुनः कारणं न सिध्यन्ति ?
(6528 उपसंख्यानकारणवार्तिकम् ।। 9 ।।)
- बहिरङ्गलक्षणत्वादसिद्धत्वाच्च -
बहिरङ्गलक्षणं चैव हि वसुसंप्रसारणमसिद्धं च ।।
(6529 उपसंख्यानवार्तिकम् ।। 10 ।।)
- आत्वं यलोपाल्लोपयोः पशुषो न वाजान् चाखायिता चाखायितुम् -
आत्वं यलोपाल्लोपयोः सिद्धं वक्तव्यम् ।
किं प्रयोजनम् ?
पशुषो न वाजान् । पशुष इत्यात्वस्यासिद्धत्वात् आतो धातोः (6-4-140) इत्याकारलोपो न प्राप्नोति ।
चाखायिता---चाखायितुमिति आत्वस्यासिद्धत्वात् यस्य हलः (6-4-49) इति यलोपः प्राप्नोति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
समानाश्रयवचनात्सिद्धम् ।
समानाश्रयमसिद्धं भवति, व्याश्रयं चैतत् ।
इह तावत्---पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, युयुवुषः पश्य, लुलुवुषः
पश्य---इति---वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ संप्रसारणम् ।
पशुष इति---विटि आत्वं, विडन्तस्य विभक्तावाकारलोपः ।
चाखायिता---चाखायितुमिति---यङ्यात्वम्, यङन्तस्य चार्धधातुके लोप इति ।।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
अत्र ग्रहणसार्मथ्यात् ।
ननु चान्यदत्रग्रहणस्य प्रयोजनमुक्तम् ।
किमुक्तम् ?
अत्र ग्रहणं विषयार्थमिति ।
अधिकारादप्येतत्सिद्धम्---इति ।।
(उपसंख्यानानर्थक्यसाधकभाष्यम्)
इह---पपुषः, चिच्युषः, लुलुवुषः, द्वौ हेतू उपदिष्टौ---बहिरङ्गलक्षणञ्ञ्चासिद्धत्वं चेति ।
तत्र भवेदसिद्धत्वं प्रयुक्तम्, बहिरङ्गलक्षणं तु नैव प्रत्युक्तम् ।
नैष दोषः । बहिरङ्गमन्तरङ्गमिति च प्रतिद्वन्द्विभाविनावेतावर्थौ ।
कथम् ?
सत्यन्तरङ्गे बहिरङ्गम्, सति च बहिरङ्गेऽन्तरङ्गम् । न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति । नानभिनिर्वृत्ते बहिरङ्गेऽन्तरङ्गं प्राप्नोति । तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य ।।
(6530 उपसंख्यानवार्तिकम् ।। 10 ।।)
- ह्रस्वयलोपाल्लोपाश्चायादेशे ल्यपि सिद्धा वक्तव्याः -
प्रशमय्य गतः, प्रतमय्य गतः, प्रबेभिदय्य गतः, प्रचेच्छिदय्य गतः, प्रस्तनय्य गतः, प्रगदय्य गतः । ह्रस्वयलोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् (6-4-56) इत्ययादेशो न प्राप्नोति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
अत्राप्येष परिहारः---समानाश्रयवचनात्सिद्धमिति ।
कथम् ?
णावेति विधयः, णेर्ल्यप्ययादेशः ।।
(6531 उपसंख्यानवार्तिकम् ।। 11 ।।)
- वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ -
बभूवतुः, बभूवुः । वुकोऽसिद्धत्वादुवङादेशः प्राप्नोति ।
उपदिदीये, उपदिदीयाते । युटोऽसिद्धत्वाद्यणादेशः प्राप्नोति ।।
(वुकः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्)
वुकस्तावन्न वक्तव्यम् । वुकं न वक्ष्यामि । एवं वक्ष्यामि---भुवो लुङि्लटोरूदुधायाः इति । अत्रोवङादेशे कृते या उपधा तस्याः स्यात् ।।
(प्रत्याक्षेप---समाधानभाष्यम्)
एवमपि कुतो नु खल्वेतत्---उवङादेशे कृते या उपधा तस्या ऊत्वं भविष्यति, न पुनः सांप्रतिकी योपधा तस्याः स्यात्---भकारस्येति ।
नैष दोषः । ओरिति वर्तते, तेनोवर्णस्य भविष्यति ।।
(पुनः प्रत्याक्षेप---समाधानभाष्यम्)
भवेत्सिद्धं---बभूवतुः, बभूवुः ।
इदं तु न सिद्ध्यति---बभूव, बभूविथेति ।
किं कारणम् ?
गुणवृद्ध्योः कृतयोरुवर्णाभावात् ।
नात्र गुणवृद्धी प्राप्नुतः ।
किं कारणम् ?
क्ङिति च (1-1-5) इति प्रतिषेधात् ।
कथं कित्त्वम् ?
इन्धिभवतिभ्यां च (1-2-6) इति ।
तद्वै कित्त्वं वयं प्रत्याचक्ष्महे वुका । इह तु कित्त्वेन वुक् प्रत्याख्यायते ।
किं पुनरत्र न्याय्यम् ?
वुग्वचनमेव न्याय्यम् । सति हि कित्त्वे स्यातामेवात्र गुणवृद्धी ।
किं कारणम् ?
इग्लक्षणयोर्गुणवृद्ध्योः स प्रतिषेधः, न चैषा इग्लक्षणा वृद्धिः ।
एवं तर्हि नार्थो वुका नापि कित्त्वेन । स्तामत्र गुणवृद्धी । गुणवृद्ध्योः कृतयोरवावोश्च कृतयोर्या उपधा तस्या ऊत्वं भविष्यति ।
कथम् ?
ओरित्यत्रावर्णमपि प्रतिनिर्दिश्यते ।
इहापि तर्हि प्राप्नोति---कीलालपः पश्य, शुभंयः पश्येति ।
लोपोऽत्र बाधको भविष्यति ।
इह तर्हि प्राप्नोति---कीलालपौ, कीलालपा इति ।
एवं तर्हि व्योरिति वर्तते, तेनोवर्णं विशेषयिष्यामः---व्योः-ओः-इरिति । इहेदानीमोरित्यनुवर्तते, व्योरिति निवृत्तम् ।।
(युटः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्)
युटश्चापि न वक्तव्यम् । युड्वचनसार्मथ्यान्न भविष्यति ।
अस्त्यन्यत् युड्वचने प्रयोजनम् ।
किम् ?
द्वयोर्यकारयोः श्रवणं यथा स्यात् ।
न व्यञ्जनपरस्यानेकस्यैकस्य वा यकारस्य श्रवणं प्रति विशेषोऽस्ति ।।
(असिद्धत्वमर्यादाजिज्ञासाभाष्यम्)
किं पुनः प्राग्भादसिद्धम्, आहोस्वित्सह तेन ?
कुतः पुनरयं सन्देहः ?
आङाऽयं निर्देशः क्रियते, आङ् च पुनः सन्देहं जनयति । तद्यथा---आ पाटलिपुत्रात् वृष्टो देव इति सन्देहः---किं प्राक् पाटलिपुत्रात्---सह तेनेति ।
एवमिहापि सन्देहः---प्राग्भात्---सह तेनेति ।
कश्चात्र विशेषः ?
(6532 आङो मर्यादार्थकत्वे दोषवार्तिकम् ।। 12 ।।)
- प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानम् -
प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानं कर्तव्यम् ।
शुनः पश्य, शुना, शुने । संप्रसारणे कृते अल्लोपोऽनः (6-4-134) इति प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वम्, असिद्धत्वात्तस्य न संयोगाद्वमन्तात् (137) इति प्रतिषेधो भविष्यति ।।
(दोषभाष्यम्)
यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः ।
कथम् ?
नास्त्यत्र विशेषः---अल्लोपेन निवृत्तौ सत्याम्, पूर्वत्वेन वा निवृत्तौ ।।
(प्रत्याक्षेपभाष्यम्)
अयमस्ति विशेषः---अल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत ।।
(प्रत्याक्षेपनिरासभाष्यम्)
नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति ।
किं कारणम् ?
न गोश्वन्साववर्ण--- (6-1-182) इति प्रतिषेधात् ।।
(निरासनिरसनभाष्यम्)
नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।
कस्य तर्हि ?
तृतीयादिस्वरस्य ।।
(प्रत्याक्षेपभाष्यम्)
यत्र तर्हि तृतीयादिस्वरो नास्ति---शुनः पश्येति ।।
(प्रत्याक्षेपनिरासभाष्यम्)
एवं तर्हि न वयं लक्षणस्य प्रतिषेधं शिष्मः ।
किं तर्हि ?
येन केनचिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्यायं प्रतिषेधः ।।
(आक्षेपनिरासभाष्यम्)
यत्र तर्हि विभक्तिस्वरो नास्ति---बहुशुनीति ।।
(प्रत्याक्षेपभाष्यम्)
यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत ।
(प्रत्याक्षेपापोहभाष्यम्)
नैवं शक्यम् । इहापि प्रसज्येत---कुमारीति ।।
(आक्षेपभाष्यम्)
एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति---नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति, यदयं श्वन्शब्दं गौरादिषु पठति । अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यात् ङीपैव ।।
(दोषाक्षेपभाष्यम्)
मघोनः पश्य, मघोना, मघोने, संप्रसारणे कृते यस्य--- इति लोपः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वं, असिद्धत्वात्तस्य न भविष्यति ।।
यस्यापि हि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः ।
कथम् ?
वक्ष्यत्येतत्---मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ।।
(दोषाक्षेपभाष्यम्)
भूगुणः---भूयान् । भूभावे कृते ओर्गुणः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वमसिद्धत्वात्तस्य न भविष्यति ।।
यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः ।
कथम् ?
दीर्घोच्चारणसार्मथ्यान्न भविष्यति ।
अस्त्यन्यद्दीर्घोच्चारणस्य प्रयोजनम् ।
किम् ?
भूमेति ।
निपातनादेतत्सिद्धम् ।
किं निपातनम् ? बहोर्नञ्ञ्वदुत्तरपदभूम्नि (6-2-175) इति ।।
(वार्तिकावतरणभाष्यम्)
अथ वा पुनरस्तु सह तेन---इति ।
(6533 आङोऽभिविध्यर्थत्वे दोषवार्तिकम् ।। 13 ।।)
- आ भादिति चेद्वसुसंप्रसारणयलोपप्रस्थादीनां प्रतिषेधः -
आ भादिति चेद्वसुसम्प्रसारणयलोपप्रस्थादीनां प्रतिषेधो वक्तव्यः ।
पपुषः पश्य, तस्थुषः, निन्युषः, चिच्युषः, लुलुवुषः, युयुवुष इति । चसुसम्प्रसारणे कृते तस्यासिद्धत्वादचीत्याकारलोपादीनि न सिद्ध्यन्ति ।
नैष दोषः ।
उक्तमेतत्---समानाश्रयवचनात्सिद्धमिति ।
कथम् ?
वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ सम्प्रसारणम्---इति ।।
(दोषाक्षेपभाष्यम्)
यलोपः । सौरी बलाका । योऽसावण्यकारो लुप्यते तस्यासिद्धत्वात्---इर्तीति यलोपो न प्राप्नोति ।
अत्राप्येष परिहारः---समानाश्रयवचनात्सिद्धमिति ।
कथम् ?
अणि अकारलोपः, अणन्तस्य---इर्ति यलोपः ।।
प्रस्थादिषु । प्रेयान्, स्थेयान् । प्रस्थादीनामसिद्धत्वात् प्रकृत्यैकाच् (6-4-163) इति प्रकृतिभावो न प्राप्नोति ।।
नैष दोषः । यथैव प्रस्थादीनामसिद्धत्वात्प्रकृतिभावो न भवति, एवं टिलोपोऽपि न भविष्यति ।।
-6-4-23- श्नान्नलोपः (3021)
(लोपाधिकरणम्)
(शकारप्रयोजनभाष्यम्)
अथ किमर्थं श्नमः शकारस्य ग्रहणं क्रियते, न नान्नलोप इत्येवोच्येत ?
नान्नलोप इतीयत्युच्यमाने---नन्दिता, नन्दकः---इत्यत्रापि प्रसज्येत ।
एवं तर्हि एवं वक्ष्यामि---नान्नलोपोऽनिदिताम् । ततः---हल उपधायाः क्ङिति इति, अनिदितामिति ।
नैवं शक्यम् । इह हि न स्यात्---हिनस्ति ।।
तस्मान्नैवं शक्यम् ।
न चेदेवम्--नन्दिता--नन्दकः--इत्यत्रापि प्रसज्येत ।।
एवं तर्हि क्ङितीति वर्तते ।
एवमपि हिनस्ति---इत्यत्र न प्राप्नोति ।
नैषा परसप्तमी ।
का तर्हि ?
सत्सप्तमी---क्ङिति सति ।
एवमपि---नन्दमानः---इत्यत्रापि प्राप्नोति ।
एवं तर्हि नशब्द एवात्र क्ङित्त्वेन विशेष्यतेक्ङिच्चेन्नशब्दो भवतीति ।
एवमपि---यज्ञानां---यत्नानाम्---इत्यत्र प्राप्नोति ।
दीर्घत्वमत्र बाधकं भविष्यति ।
इदमिह सम्प्रधार्यं---दीर्घत्वं क्रियतां---नलोप इति, किमत्र कर्तव्यम् ?
परत्वान्नलोपः ।
तस्मात् शकारस्य ग्रहणं कर्तव्यम् ।।
(शकारग्रहणे दोषनिवारकभाष्यम्)
अथ क्रियमाणेऽपि शकारग्रहणे इह कस्मान्न भवति---विश्नानां---प्रश्नानाम्---इति ?
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ।।
-6-4-24- अनिदितां हल उपधायाः क्ङिति (3022)
(6534 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अनिदितां नलोपे लङि्गकम्प्योरुपतापशरीरविकारयोरुपसंख्यानम् -
अनिदितां नलोपे लङि्गकम्प्योरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम् । विलगितः, विकपितः ।
उपतापशरीरविकारयोरिति किमर्थम् ?
विलङि्गतः । विकम्पितः ।।
(6535 उपसंख्यानवार्तिकम् ।। 2 ।।)
- बृंहेरच्यनिटि -
बृंहेरच्यनिटि उपसंख्यानं कर्तव्यम् । निबर्हकः ।
अचीति किमर्थम् ?
निबृंह्यते ।
अनिटीति किमर्थम् ?
निबृंहिता, निबृंहितुम् ।।
(उपसंख्यानाक्षेपभाष्यम्)
तत्तर्हि उपसंख्यानं कर्तव्यम् ?
न कर्तव्यम् । बृहिः प्रकृत्यन्तरम् ।
कथं विज्ञायते ?
अचीति लोप उच्यते, अनजादावपि दृश्यते---निबृह्यते ।
अनिटीत्युच्यते । इडादावपि दृश्यते---निबर्हिता, निबर्हितुम् ।
अजादावपि न दृश्यते---निबृंहयति, निबृंहकः ।।
(6536 उपसंख्यानवार्तिकम् ।। 3 ।।)
- रञ्ञ्जेर्णौ मृगरमणे -
रञ्ञ्जेर्णौ मृगरमणे उपसंख्यानं कर्तव्यम् । रजयति मृगान् ।
मृगरमण इति किमर्थम् ?
रञ्जयति वस्त्राणि ।।
(6537 उपसंख्यानवार्तिकम् ।। 4 ।।)
- घिनुणि च -
घिनुणि चोपसंख्यानं कर्तव्यम् । रागी ।।
(उपसंख्यानाक्षेपभाष्यम्)
घिनुणि निपातनात्सिद्धम् ।।
किं निपातनम् ?
त्यजरजेति ।।
(प्रत्याक्षेपभाष्यम्)
अशक्यं धातुनिर्देशे निपातनं तन्त्रमाश्रयितुम् । इह हि दोषः स्यात्---दशनहः करणे । दंष्ट्रा ।
(समाधानभाष्यम्)
नैतद्धातुनिपातनम् ।
किं तर्हि ?
प्रत्ययान्तस्यैतद्रूपम् । तस्मिंश्च प्रत्यये लोपो भवति दंशसञ्जस्वञ्ञ्जां शपि (6-4-25) इति ।।
(6538 उपसंख्यानवार्तिकम् ।। 5 ।।)
- रजकरजनरजः सूपसंख्यानम् -
रजकरजनरजः सूपंख्यानं कर्तव्यम् । रजकः, रजनम्, रज इति ।।
(उपसंख्यानाक्षेपभाष्यम्)
रजकरजनरजः सु कित्वात्सिद्धम् ।।
कित एवैते औणादिकाः । तद्यथा---रुचकः, भुवनम्, शिर इति ।।
-6-4-34- शास इदङ्हलोः (3032)
(6539 उपसंख्यानवार्तिकम् ।। 1 ।।)
- शास इत्त्वे आशासः क्वावुपसंख्यानम् -
शास इत्त्वे आशासः क्वावुपसंख्यानं कर्तव्यम् । आशीरिति ।।
(नियमार्थत्वोपपादकभाष्यम्)
किं पुनरिदं नियमार्थम्, आहोस्विद्विध्यर्थम् ?
कथं नियमार्थं स्यात्, कथं वा विध्यर्थम् ?
यदि तावच्छासिमात्रस्य ग्रहणम्, ततो नियमार्थम् ।
अथ हि यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, ततो विध्यर्थम् ।।
(नियमासम्भवदर्शकं भाष्यम्)
यद्यपि शासिमात्रग्रहणम्, एवमपि विध्यर्थमेव ।
कथम् ? ।
अङि हलादावुच्यते, न चात्र हलादिं पश्यामः ।
ननु च क्विबेव हलादिः ।
क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति ।
इदमिह सम्प्रधार्यम्---क्विलोपः क्रियताम्, अङ्हलोरित्त्वमिति ।
किमत्र कर्तव्यम् ?
परत्वादङ्हलोरित्त्वम् ।
नित्यः क्विलोपः, कृतेऽप्यङ्हलोरित्त्वे प्राप्नोत्यकृतेऽपि । नित्यत्वात् क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति ।
एवं तर्हि प्रत्ययलक्षणेन भविष्यति ।
वर्णाश्रये नास्ति प्रत्ययलक्षणम् ।।
(नियामकत्वोपपादकभाष्यम्)
यदि वा कानि चिद्वर्णाश्रयाण्यपि लक्षणेन भवन्ति, तथा चेदमपि भविष्यति ।
अथवैवं वक्ष्यामि---
शास इदङ्हलोः ।
ततः---
क्वौ ।
क्वौ च शास इद्भवति । आर्यशीः, मित्रशीः ।
ततः--
आङः ।
आङ्पूर्वाच्च क्वौ शास इद्भवति । आशीरिति ।
इदमिदानीं किमर्थम् ?
नियमार्थम् । आङ्पूर्वाच्छासेः क्वावेव ।
क्व मा भूत् ?
आशास्ते, आशास्यते, आशास्यमाने---इति ।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् । अविशेषेण शास इद्भवतीत्युक्त्वा ततोऽङीति वक्ष्यामि । तन्नियमार्थं
भविष्यति---अङ्येवाजादौ, नान्यस्मिन्नजादौ ।।
(अनिष्टाक्षेपभाष्यम्)
इहापि तर्हि नियमादित्वं प्राप्नोति---आशास्ते, आशास्यते, आशास्यमान इति ।।
(समाधानभाष्यम्)
यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, न चैतस्माच्छासेरङि्वहितः ।
कथमाशीरिति ?
निपातनात्सिद्धम् ।
किं निपातनम् ?
क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् (8-2-104) इति ।।
-6-4-37- अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (3035)
(6540 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च -
अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि चेति वक्तव्यम् । प्रमत्य । प्रतत्य ।।
(6541 उपसंख्यानवार्तिकम् ।। 2 ।।)
- वाऽमः -
वाऽम इति वक्तव्यम् । प्रयत्य, प्रयम्य । प्ररत्य, प्ररम्य । प्रणत्य, प्रणम्य ।।
-6-4-40- गमः क्वौ (3038)
(उपसंख्यानभाष्यम्)
गमादीनामिति वक्तव्यम् । इहापि यथा स्यात्--- परीतत्सह कण्डिका । संयत्, सुनदिति ।।
(6542 उपसंख्यानवार्तिकम् ।। 1 ।।)
- ऊङ् च -
ऊङ् च गमादीनामिति वक्तव्यम् । अग्रेगूः, अग्रेभ्रूः ।।
-6-4-42- जनसनखनां सञ्ञ्झलोः (3040)
(सञ्ञ्झलोरन्वयाक्षेपभाष्यम्)
अथ किमयं समुच्चयः---सनि च झलादौ चेति, आहोस्वित् सन्विशेषणं झल्ग्रहणं---सनि झलादाविति ?
किं चातः ?
(समुच्चये दोषभाष्यम्)
यदि समुच्चयः, सन्यझलादावपि प्राप्नोति । सिसनिषति, जिजनिषते, चिखनिषति ।
(विशेषणपक्षे दोषभाष्यम्)
अथ सन्विशेषणं झल्ग्रहणम्, जातः---जातवानित्यत्र न प्राप्नोति ।
यथेच्छसि तथाऽस्तु ।।
(समुच्चये दोषनिवारकभाष्यम्)
अस्तु तावत्समुच्चयः ।
ननु चोक्तं---सन्यझलादावपि प्राप्नोति ।
नैष दोषः । प्रकृतं झल्ग्रहणमनुवर्तते, तेन सनं विशेषयिष्यामः---सनि झलादाविति ।
(विशेषणपक्षे दोषनिवारकभाष्यम्)
अथ वा पुनरस्तु सन्विशेषणम् ।
कथं जातः---जातवानिति ?
प्रकृतं झलि क्ङितीत्यनुवर्तते ।।
(झल्ग्रहणप्रत्याख्यानभाष्यम्)
यद्येवं नार्थो झल्ग्रहणेन । योगविभागः करिष्यते---
जनसनखनाम् ।
अनुनासिकस्याकारो भवति झलि क्ङिति ।
ततः---
सनि च ।
सनि च जनसनखनामनुनासिकस्याकारो भवति, झलीत्येव ।
तस्मान्नार्थो झल्ग्रहणेन ।।
(6543 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- सनोतेरनुनासिकलोपादात्वं विप्रतिषेधेन -
सनोतेरनुनासिकलोपादात्वं भवति विप्रतिषेधेन ।
सनोतेरनुनासिकलोपस्यावकाशः---अन्ये तनोत्यादयः ।
आत्वस्यावकाशः---अन्ये जनादयः ।
सनोतेरनुनासिकस्योभयं प्राप्नोति---सातः, सातवान्---इति ।
आत्वं भवति विप्रतिषेधेन ।।
(विप्रतिषेधाक्षेपभाष्यम्)
नैष युक्तो विप्रतिषेधः । न हि सनोतेरनुनासिकलोपस्यान्ये तनोत्यादयोऽवकाशः । सनोतेर्यस्तनोत्यादिषु पाठः सोऽनवकाशः ।
न खल्वप्यात्वस्यान्ये जनादयोऽवकाशः । सनोतेर्यदात्वे ग्रहणं तदनवकाशम्, तस्यानवकाशत्वादयुक्तो विप्रतिषेधः ।।
(सकाराकारयोर्विप्रतिषेधोपपादनभाष्यम्)
एवं तर्हि तनोत्यादिषु पाठस्तावत्सावकाशः। कोऽवकाशः।
 अन्यानि तनोत्यादिकार्याणि---तनादिभ्यस्तथासोः (2-4-79) इति ।
आत्वेऽपि ग्रहणं सावकाशम् ।
कोऽवकाशः ?
सनि च । ये विभाषा (6-4-43) च । उभयोः सावकाशयोर्युक्तो विप्रतिषेधः ।।
(विप्रतिषेधाक्षेपभाष्यम्)
एवमप्ययुक्तो विप्रतिषेधः । पठिष्यति ह्याचार्यः---।पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इति । एकस्य हि नामाभावे विप्रतिषेधो न स्यात्, किं पुनर्यत्रोभयं नास्ति ।।
(ज्ञापकेन विप्रतिषेधस्थापनभाष्यम्)
नैष दोषः । भवतीह विप्रतिषेधः ।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
आचार्यप्रवृत्तिर्ज्ञापयति---भवतीह विप्रतिषेध इति, यदयं घुमास्थागापाजहातिसां हलि (6-4-66) इति हल्ग्रहणं करोति ।
कथं कृत्वा ज्ञापकम् ?
हल्ग्रहणस्यैतत्प्रयोजनं---हलादावीत्वं यथा स्यात्, इह मा भूत्---गोदः---कम्बलद इति । यदि चात्र विप्रतिषेधो न स्यादिह हल्ग्रहणमनर्थकं स्यात् ।
अस्त्वत्र इर्त्वम् । इर्त्वस्यासिद्धत्वाल्लोपो भविष्यति । पश्यति त्वाचार्यः---भवतीह विप्रतिषेधः, ततो हल्ग्रहणं करोति ।।
(इर्त्वस्य व्यवस्थार्थत्वबोधनेन ज्ञापकनिराकरणभाष्यम्)
नैतदस्ति ज्ञापकम्, व्यवस्थार्थमेतत्स्यात्---हलादावीत्वं यथा स्यादजातौ मा भूदिति ।
किञ्च स्यात् ?
यद्यजादावपीत्वं स्यात्, इयङादेशः प्रसज्येत ।।
(व्यवस्थार्थत्वाक्षेपभाष्यम्)
ननु चासिद्धत्वादेवेयङादेशो न भविष्यति ।।
(व्यवस्थार्थत्वसाधकभाष्यम्)
न शक्यमीत्वमियङादेशेऽसिद्धं विज्ञातुम् । इह हि दोषः स्यात्---धियौ, धियः । पियौ, पिय इति ।।
(व्यवस्थार्थत्वाक्षेपभाष्यम्)
नैतदीत्त्वम् ।
किं तर्हि ?
ध्याप्योः सम्प्रसारणमेतत् ।।
समानाश्रयं खल्वसिद्धं भवति, व्याश्रयं चैतत् ।
कथम् ?
क्वावीत्वम्, क्विबन्तस्य विभक्तावियङादेशः ।।
(व्यवस्थावाचित्वस्थापनभाष्यम्)
व्यवस्थार्थमेव तर्हि हल्ग्रहणं कर्तव्यम् ।
कुतो ह्येतत्---इर्त्वस्यासिद्धत्वाल्लोपः स्यात्, न पुनर्लोपस्यासिद्धत्वादीत्वमिति । तत्र चक्रकमव्यवस्था प्रसज्येत ।।
(ज्ञापकत्वपक्षोपपादकभाष्यम्)
नास्ति चक्रकप्रसङ्गः । न ह्यव्यवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतो नाम व्यवस्था । तत्र
इर्त्वस्यासिद्धत्वाल्लोपः, लोपेनावस्थानं भविष्यति । न खल्वपि तस्मिंस्तदेवासिद्धं भवति ।।
(ज्ञापकत्वाक्षेपभाष्यम्)
व्यवस्थार्थमेव तर्हि हल्ग्रहणं कर्तव्यम् । हलादावीत्वं यथा स्यात्, अजादौ मा भूदिति ।
कुतो ह्येतत्-- इर्त्वस्यासिद्धत्वाल्लोपः, लोपेनावस्थानं भविष्यति । न पुनर्लोपस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानं स्यात् ?
तदेव खल्वपि तस्मिन्नसिद्धं भवति ।
कथम् ?
पठिष्यति ह्याचार्यः---।चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात्, तलोपस्य चासिद्धत्वात् इति ।
चिणो लुक् चिणो लुक्येवासिद्धो भवति ।।
(ज्ञापकत्वसाधकभाष्यम्)
एवं तर्हि---यदि व्यवस्थार्थमेतत्स्यात् नैवायं हल्ग्रहणं कुर्वीत । अविशेषेणायमीत्वमुक्त्वा तस्याजादावाल्लोपमपवादं विदधीत ।
तदेतत्कथम् ?
इदमस्ति---आतो लोप इटि च इति ।
ततः---घुमास्थागापाजहातिसां । लोपो भवति इटि च अजादौ क्ङितीति ।
किमर्थं पुनरिदम् ?
इर्त्वं वक्ष्यति तद्बाधनार्थम् ।
ततः---इर्त् । इर्च्च भवति घ्वादीनाम् । ततः--- एर्लिङि । वान्यस्य संयोगादेः । न ल्यपि । मयतेरिदन्यतरस्याम् । ततः---यति । यति च इर्द्भवति । सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्धल्ग्रहणं
करोति---गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः---भवतीह विप्रतिषेध इति ।।
-6-4-45- सनः क्तिचि लोपश्चास्यान्यतरस्याम् (3043)
(अन्यतरस्यांग्रहणप्रत्याख्यानभाष्यम्)
इहान्यतरस्यां ग्रहणं शक्यमकर्तुम् ।
कथम् ?
सनः क्तिचि लोपश्च आत्वं च विभाषेति ।।
(लोपपदस्यापि प्रत्याख्यानभाष्यम्)
अपर आह---सर्व एवायं योगः शक्योऽवक्तुम् ।
कथम् ?
इह लोपोऽपि प्रकृतः, आत्वमपि प्रकृतम्, विभाषाग्रहणमपि प्रकृतम् । तत्र केवलमभिसम्बन्धमात्रं कर्तव्यम्---सनः क्तिचि लोपश्च आत्वं च विभाषा ।।
-6-4-46- आर्धधातुके (3044)
(अधिकारप्रयोजनाधिकरणम्)
(अधिकाराक्षेपभाष्यम्)
कानि पुनरार्धधातुकाधिकारस्य प्रयोजनानि ?
(अधिकारप्रयोजने श्लोकवार्तिकम्)
अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् ।
आल्लोप इर्त्वमेत्वं च चिण्वद्भावश्च सीयुटि ।। 1 ।।
अतो लोपः---चिकीर्षिता, चिकीर्षितुम् ।
आर्द्धधातुक इति किमर्थम् ?
चिकीर्षति ।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् । अस्त्वत्र सनोऽकारलोपः, शपोऽकारस्य श्रवणं भविष्यति ।।
(समाधानभाष्यम्)
शप एव तर्हि मा भूदिति ।।
(आक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति---नानेन शपोऽकारस्य लोपो भवतीति, यदयमदिप्रभृतिभ्यः शपो लुकं शास्ति ।।
(ज्ञापकाक्षेपभाष्यम्)
नैतदस्ति ज्ञापकम् । कार्यार्थमेतत्स्यात् । वित्तः, मृष्ट इति ।।
(प्रकारान्तरेण समाधानभाष्यम्)
यत्तर्हि आकारान्तेभ्यो लुकं शास्ति---याति, वाति ।
अस्तेश्च । अस्तेश्च शपो लुकं शास्ति । अस्ति ।।
(अधिकारप्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्---वृक्षस्य । अतो लोपः प्राप्नोति ।।
(अधिकारप्रयोजनभाष्यम्)
यलोपोऽपि प्रयोजनम्---बेभिदिता, चेछिदिता ।
आर्धधातुक इति किमर्थम् ?
बेभिद्यते । चेछिद्यते ।।
(अधिकारप्रयोजनभाष्यम्)
णिलोपः प्रयोजनम्---याज्यते, पाच्यते ।
आर्धधातुक इति किमर्थम् ?
पाचयति, याजयति ।।
(अधिकारप्रयोजनभाष्यम्)
आल्लोपः---ययतुः, ययुः ववतुः, ववुः ।
आर्धधातुक इति किमर्थम् ?
यान्ति, वान्ति ।।
(अधिकारप्रयोजनभाष्यम्)
इर्त्वम्---धीयते, दीयते ।
आर्धधातुक इति किमर्थम् ?
अदाताम् । अधाताम् ।।
(अधिकारप्रयोजनभाष्यम्)
एत्वम्---ग्लेयात्, म्लेयात् ।
आर्धधातुक इति किमर्थम् ?
स्नायात् । स्नायाताम् ।।
(अधिकारप्रयोजनभाष्यम्)
चिण्वद्भावश्च सीयुटि ।
चिण्वद्भावे सीयुटि किमुदाहरणम् ?
कारिषीष्ट, हारिषीष्ट ।
आर्धधातुक इति किमर्थम् ?
क्रियेत, ह्रियेत ।
नैतदुदाहरणम् । यका व्यवहितत्वान्न भविष्यति ।
इदं तर्ह्युदाहरणम्---प्रस्तुवीत ।
इदं चाप्युदाहरणम्---क्रियेत, ह्रियेत ।
ननु चोक्तं---यका व्यवहितत्वान्न भविष्यतीति ।
यक एव तर्हि मा भूदिति ।
किञ्च स्यात् ?
वृद्धिः, वृद्धौ कृतायां युक् प्रसज्येत ।।
-6-4-47- भ्रस्जो रोपधयोरमन्यतरस्याम् (3045)
(रमागमाधिकरणम्)
(रमागमस्थाननिर्धारणभाष्यम्)
अयं रम् रेफस्य स्थाने कस्मान्न भवति ?
मिदचोन्त्यात्परः (1-1-47) इत्यनेनाचामन्त्यात्परः क्रियते ।
रेफस्य तर्हि श्रवणं कस्मान्न भवति ?
षष्ठ्युच्चारणसार्मथ्यात् ।
भारद्वाजीयाः पठन्ति---
भ्रस्जो रोपधयोर्लोप आगमो रम् विधीयते । इति ।।
(6544 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- भ्रस्जादेशात्सम्प्रसारणं विप्रतिषेधेन -
भ्रस्जादेशात्सम्प्रसारणं विप्रतिषेधेन भवति ।
भ्रस्जादेशस्यावकाशः---र्भष्टा, र्भष्टुम् ।
सम्प्रसारणस्यावकाशः---भृज्जति ।
इहोभयं प्राप्नोति---भृष्टः, भृष्टवानिति ।
सम्प्रसारणं भवति विप्रतिषेधेन ।।
(विप्रतिषेधाक्षेपे वार्तिकावतरणभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ।
न वक्तव्यः ।
(6545 विप्रतिषेधाभावोपपादकवार्तिकम् ।। 2 ।।)
- रसोर्वर्वचनात्सिद्धम् -
रसोर्वा ऋ भवतीति वक्ष्यामि ।।
(न्यासान्तरेऽपि विप्रतिषेधावश्यकत्वप्रतिपादकभाष्यम्)
रसोर्वर्वचने सिचि वृद्धेर्भ्रस्जादेशो वक्तव्यः । वृद्धौ कृतायामिदमेव रूपं स्यात्---अभ्राक्षीत् । इदं न स्यात्---अभार्क्षीत्---इति ।
सर्वथा वयं पूर्वविप्रतिषेधान्न मुच्यामहे । सूत्रं च भिद्यते ।।
(विप्रतिषेधप्रत्याख्यानभाष्यम्)
यथान्यासमेवास्तु ।
ननु चोक्तं---।भ्रस्जादेशात्सम्प्रसारणं पूर्वविप्रतिषेधेन इति ।
इदमिह सम्प्रधार्यम्---भ्रस्जादेशः क्रियतां सम्प्रसारणमिति, किमत्र कर्तव्यम्?
एरत्वात् भ्रस्जादेशः । नित्यत्वात्सम्प्रसारणम्, कृतेऽपि भ्रस्जादेशे प्राप्नोत्यकृतेऽपि ।
भ्रस्जादेशोऽपि नित्यः । कृते सम्प्रसारणे प्राप्नोति, अकृतेऽपि प्राप्नोति ।
कथम् ?
यो सावृकारे रेफस्तस्य चोपधायाश्च कृतेऽपि प्राप्नोति ।।
अनित्यो भ्रस्जादेशः । न हि कृते सम्प्रसारणे प्राप्नोति ।
किं कारणम् ?
न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते ।
अथापि कथंचिद्गृह्यन्ते, एवमप्यनित्यः ।
कथम् ?
उपदेश इति वर्तते । तच्चावश्यमुपदेशग्रहणमनुर्वत्यम्---बरीभृज्यत इत्येवमर्थम् ।।
-6-4-48- अतो लोपः(3046)
(लोपाधिकरणम्)
(6546 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् -
ण्यल्लोपावियङ्यण्वृद्धिगुणदीर्घत्वेभ्यो भवतो विप्रतिषेधेन ।।
(णिलोपेयङादेशयोर्विप्रतिषेधप्रयोजनभाष्यम्)
णिलोपस्यावकाशः---कार्यते, हार्यते ।
इयङादेशस्यावकाशः---श्रियौ, श्रियः ।
इहोभयं प्राप्नोति---आटिटत्, आशिशत् ।।
ननु चात्र यणादेशेन भवितव्यम् ।
इदं तर्हि---अततक्षत्, अररक्षत् ।।
(णिलोपयणोर्विप्रतिषेधप्रयोजनभाष्यम्)
यणादेशस्यावकाशः---निन्यतुः, निन्युः ।
णिलोपस्य स एव ।
इहोभयं प्राप्नोति---आटिटत्, आशिशत् ।।
(णिलोपवृद्ध्योर्विप्रतिषेधप्रयोजनभाष्यम्)
वृद्धेरवकाशः---सखायौः, सखायः ।
णिलोपस्यावकाशः स एव ।
इहोभयं प्राप्नोति---कारयतेः---कारकः, हारयतेः---हारकः ।।
(णिलोपगुणयोर्विप्रतिषेधप्रयोजनभाष्यम्)
गुणस्यावकाशः--चेता, स्तोता ।
णिलोपस्यावकाशः---आटिटत्, आशिशत् ।
इहोभयं प्राप्नोति---कारणा, हारणा ।।
(णिलोपदीर्घयोर्विप्रतिषेधप्रयोजनभाष्यम्)
दीर्घत्वस्यावकाशः--चीयते, स्तूयते ।
णिलोपस्य स एव ।
इहोभयं प्राप्नोति---कार्यते, हार्यते ।
णिलोपो भवति विप्रतिषेधेन ।।
(णिलोपे पूर्वविप्रतिषेधाक्षेपभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ।
न वक्तव्यः । सन्त्वत्रैते विधयः । एतेषु विधिषु कृतेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यति ।।
(समाधानभाष्यम्)
नैवं शक्यम् । इयङादेशे हि दोषः स्यात् ।
किम् ?
अन्त्यलोपः प्रसज्येत ।।
(पूर्वविप्रतिषेधेऽल्लोपेयङ्यणुदाहरणाभावभाष्यम्)
अल्लोपस्येयङ्यणोश्च नास्ति सम्प्रधारणा ।।
(अल्लोपवृद्ध्योर्विप्रतिषेधप्रयोजनभाष्यम्)
वृद्धेरवकाशः--प्रियमाचष्टे प्रापयति ।
अल्लोपस्यावकाशः---चिकीर्षिता, चिकीर्षितुम् ।
इहोभयं प्राप्नोति---चिकीर्षकः, जिहीर्षकः ।।
गुणस्याल्लोपस्य च नास्ति सम्प्रधारणा ।।
(अल्लोपदीर्घत्वयोर्विप्रतिषेधप्रयोजनभाष्यम्)
दीर्घत्वस्यावकाशः---अपि काकः श्येनायते ।
अल्लोपस्य स एव ।
इहोभयं प्राप्नोति---चिकीर्ष्यते, जिहीर्ष्यते ।
अल्लोपो भवति विप्रतिषेधेन ।।
(विप्रतिषेधान्यथासिद्धिसाधकभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ।
न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं---यदिष्टं तद्भवति---इति ।।
-6-4-49- यस्य हलः (3047)
(वार्तिकावतरणे पक्षद्वयोपस्थापकं भाष्यम्)
किमिदं यलोपे वर्णग्रहणमाहो स्वित्सङ्घातग्रहणम् ?
कश्चात्र विशेषः ?
(6547 वर्णग्रहणे दोषवार्तिकम् ।। 1 ।।)
- यलोपे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः -
यलोपे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधो वक्तव्यः । शुच्यिता । मव्यिता ।।
(संघातग्रहणोपस्थापकभाष्यम्)
अस्तु तर्हि सङ्घातग्रहणम् । यदि सङ्घातग्रहणम्, अन्त्यस्य लोपः प्राप्नोति ।
सिद्धोऽन्त्यस्य पूर्वेणैव । तत्रारम्भसार्मथ्यात्सर्वस्य भविष्यति ।।
(आक्षेपभाष्यम्)
एवमपि तेनातिप्रसक्तमिति कृत्वा नियमो विज्ञास्यते --- यस्य हल एव, नान्यतः ।
क्व मा भूत् ?
लोलूयिता, योयूयिता ।
कैमर्थक्यान्नियमो भवति ?
विधेयं नास्तीति कृत्वा ।।
इह चास्ति विधेयम् ।
किम् ?
अन्त्यस्य लोपः प्राप्तः, सर्वस्य विधेयः ।।
(समाधानभाष्यम्)
तत्रापूर्वो विधिरस्तु नियमो वा---इति
अपूर्व एव विधिर्भविष्यति ।
एवमप्यन्त्यस्य लोपः प्राप्नोति ।
किं कारणम् ?
न हि लोपः सर्वापहारी ।
ननु च सङ्घातग्रहणसार्मथ्यात्सर्वस्य भविष्यति ।।
(6548 संघातग्रहणे दोषवार्तिकम् ।। 2 ।।)
- सङ्घातग्रहणं चेत् क्यस्य विभाषायां दोषः -
सङ्घातग्रहणं चेत् क्यस्य विभाषायां दोषो भवति । समिधिता । समिध्यिता । यदा लोपस्तदा सर्वस्य लोपः । यदाऽलोपस्तदा सर्वस्यालोपः प्राप्नोति ।।
(संघातग्रहणे दोषनिवारकं भाष्यवार्तिकम्)
आदेः परवचनात्सिद्धम् ।।
हल इति पञ्चमी तस्मादित्युत्तरस्य आदेः परस्य (1-1-67,54) इति यकारस्यैव भविष्यति ।।
(वर्णग्रहणेऽपि दोषनिवारकभाष्यम्)
अथ वा पुनरस्तु वर्णग्रहणम् ।
ननु चोक्तं । यलोपे वर्णग्रहणं चेत् धात्वन्तस्य प्रतिषेधः इति ।
नैष दोषः । अङ्गादिति हि वर्तते ।
न वै अङ्गादिति पञ्चम्यस्ति ।
एवं तर्ह्यङ्गस्येति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यो यकारः ।
किञ्ञ्चाङ्गस्य यकारः ?
यस्मिन्नङ्गमित्येतद्भवति ।
कस्मिंश्चैतद्भवति ?
प्रत्यये ।।
-6-4-51- णेरनिटि (3049)
(अनिटिग्रहणप्रत्याख्यानभाष्यम्)
अनिटीति किमर्थम् ?
कारयिता । कारयितुम् ।
अनिटीति शक्यमवक्तुम् ।
कस्मान्न भवति---कारयिता, कारयितुम् ?
निष्ठायां सेटि (6-4-52) इत्येतन्नियमार्थं भविष्यति---निष्ठायामेव सेटि णेर्लोपो भवति नान्यत्रेति ।
क्व मा भूत् ?
कारयिता, कारयितुम् ।
अथवा--उपरिष्टाद्योगविभागः करिष्यते---इदमस्ति निष्ठायां सेटि जनिता मन्त्रे शमिता यज्ञे । ततः--- अय् । अयादेशो भवति णेः सेटि । ततः---आमन्ताल्वाय्येत्न्विष्णुषु । अय् भवतीत्येव ।।
-6-4-52- निष्ठायां सेटि (3050)
(पदकृत्यभाष्यम्)
अथ सेड्ग्रहणं किमर्थम् ?
निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थम् । निष्ठायां सेड्ग्रहणं क्रियते अनिटि प्रतिषेधो यथा स्यादिति । संज्ञपितः पशुरिति ।।
(6549 सेड्ग्रहणानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थमिति चेत्तत्सिद्धम् -
निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थमिति चेदन्तरेणापि सेड्ग्रहणं तत्सिद्धम् ।
कथम् ?
अनिडभावात् ।।
(अनिडभावाक्षेपे वार्तिकावतरणभाष्यम्)
ननु च यस्य विभाषा (7-2-15) इति ज्ञपेरिटि्प्रतिषेधः ।।
(6550 अनिडभावसाधकवार्तिकम् ।। 2 ।।)
- एकाचो हि प्रतिषेधः -
एकाचो हि स प्रतिषेधः । ज्ञपिश्चानेकाच्
(6551 सेट्ग्रहणप्रयोजनवार्तिकम् ।। 3 ।।)
- इड्भावार्थं तु तन्निमित्तत्वाल्लोपस्य -
इड्भावार्थं तर्हि सेड्ग्रहणं क्रियते । कथं पुनः सेटीत्यने नेट् शक्यो भावयितुम् ?
तन्निमित्तत्वाल्लोपस्य । नात्राकृते इटि णिलोपेन भवितव्यम् ।
किं कारणम् ?
सेटीत्युच्यते ।।
(6552 सेट्ग्रहणाभावे दोषवार्तिकम् ।। 4 ।।)
- अवचने हि णिलोप इट्प्रतिषेधप्रसङ्गः -
अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इतीट्प्रतिषेधः प्रसज्येत । कारितम्, हारितम् ।।
(योगविभागेन सूत्रप्रत्याख्यानभाष्यम्)
एवं तर्हि नार्थः सेड्ग्रहणेन, नापि सूत्रेण ।
कथम् ?
सप्तमे योगविभागः करिष्यते । इदमस्ति----निष्ठायाम् (7-2-14), नेट् भवति ।
ततः---णेः। ण्यन्तस्य निष्ठायां नेट् भवति ।
कारितम् । हारितम् ।
ततः---वृत्तम् । वृत्तमिति च निपात्यते ।
(किं निपात्यते ?
णेर्निष्ठायां लोपो निपात्यते ।)
किं प्रयोजनम् ?
नियमार्थम् । अत्रैव निष्ठायां णेर्लोपो भवति नान्यत्र ।
क्व मा भूत् ?
कारितम् । हारितम् ।
इहापि तर्हि प्राप्नोति --- वर्तितम् अन्नम्, वर्तिता भिक्षा ।
ततः---अध्ययने । अध्ययने चेत् वृतिर्वर्तते इति ।।
(6553 उपसंख्यानवार्तिकम् ।। 5 ।।)
- वृधिरमिशृधीनामुपसंख्यानं सार्वधातुकत्वात् -
वृधिरमिशृधीनामुपसंख्यानं कर्तव्यम् ।
किं कारणम् ?
सार्वधातुकत्वात् । वर्धन्तु त्वा सुष्टुतयो गिरो मे, वर्धयन्तु इत्येवं प्राप्ते । बृहस्पतिष्ट्वा सुम्ने रम्णातु, रमयतु इत्येवं प्राप्ते । अग्ने शर्द्ध महते सौभगाय, शर्द्धयेति प्राप्ते ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् । न वक्तव्यम् । वृधिरमिशृधीनामार्धधातुकत्वात्सिद्धम् ।
कथमार्धधातुकत्वम् ?
अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि दृश्यन्ते ।।
-6-4-55- अयामन्ताल्वाय्येत्न्विष्णुषु (3053)
(णेरयादेशाधिकरणम्)
(पक्षद्वयोपस्थापकभाष्यम्)
किं पुनरयं क्त्नुः, आहो स्विदित्नुः ?
कश्चात्र विशेषः ?
(6554 प्रथमपक्षे दोषवार्तिकम् ।। 1 ।।)
- क्त्नाविटि णेर्गुणवचनम् -
क्त्नौ सति इटि णेर्गुणो वक्तव्यः । गदयित्नुः । स्तनयित्नुः ।।
अस्तु तर्हि इत्नुः ।।
(6555 द्वितीयपक्षे दोषवार्तिकम् ।। 2 ।।)
- इत्नौ प्रत्ययान्तरकरणम् -
यदि हि इत्नुः, प्रत्ययान्तरं कर्तव्यम् ।। अयादेशे चोपसंख्यानं कर्तव्यम् ।।
(दोषद्वयनिराकरणभाष्यम्)
उभयं क्रियते न्यासे एव ।।
-6-4-56- ल्यपि लघुपूर्वात् (3054)
(6556 षष्ठ्यन्तन्यासे दोषवार्तिकम् ।। 1 ।।)
- ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानम् -
ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । प्रशमय्य गतः । प्रतमय्य गतः ।।
(षष्ठ्यन्तन्यासे द्वितीयदोषदर्शकभाष्यम्)
अल्लोपे च गुरुपूर्वात्प्रतिषेधो वक्तव्यः । प्रतिचिकीर्ष्य गतः ।।
(6557 पञ्चम्यन्तन्यासस्थापकवार्तिकम् ।। 2 ।।)
- ल्यपि लघुपूर्वादिति वचनात् सिद्धम् -
ल्यपि लघुपूर्वादिति वक्तव्यम् ।।
(दोषोपस्थापकभाष्यम्)
एवमपि ह्रस्वयल्लोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशो न प्राप्नोति । प्रशमय्य गतः । प्रतमय्य गतः । प्रचेछिदय्य गतः । प्रबेभिदय्य गतः । प्रगदय्य गतः । प्रस्तनय्य गतः ।।
(6558 दोषवारकवार्तिकम् ।। 3 ।।)
- ह्रस्वादिषु चोक्तम् -
किमुक्तम् ? ।समानाश्रयवचनात्सिद्धम् इति ।।
कथम् ?
णावेते विधयः, णेर्ल्यप्ययादेशः ।।
-6-4-57- विभाषाऽऽपः (3055)
(अतिव्याप्तिवारकभाष्यम्)
इङादेशस्य प्रतिषेधो वक्तव्यः । अध्याप्य गतः ।।
(6559 अतिव्याप्तिवारणसाधकवार्तिकम् ।। 1 ।।)
- आपः सानुबन्धकस्य निर्देशादिङि सिद्धम् -
आपः सानुबन्धकनिर्देशः करिष्यतेआप्लृ इति । तेन इङादेशस्य न भविष्यति ।।
(लक्षणप्रतिपदोक्तपरिभाषया दोषनिवारकभाष्यम्)
(स तर्हि सानुबन्धकस्य निर्देशः कर्तव्यः ।
न कर्तव्यः । कथमध्याप्य गतः ?)
अथवा---लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे द्वितीयमाह्निकम् ।।
-6-4-62- स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (3060)
(भावकर्मणोर्विषये पक्षद्वयोपस्थापकं भाष्यम्)
(चिण्वद्भावाधिकरणम्)
कथमिदं विज्ञायते भावकर्मणोर्ये स्यादय इति, आहोस्विद्भावकर्मवाचिनि परतो ये स्यादय इति ?
किञ्ञ्चातः ?
यदि विज्ञायते---भावकर्मणोर्ये स्यादय इति, सीयुट् विशेषितः, स्यसिचूतासयोऽविशेषिताः ।
अथ विज्ञायते---भावकर्मवाचिनि परतो ये स्यादय इति, स्यसिच्तासयो विशेषिताः, सीयुडविशेषितः ।
उभयथा चिण्वद्भावोऽविशेषितः ।।
यथेच्छसि तथास्तु ।
(प्रथमपक्षे दोषवारकभाष्यम्)
अस्तु---भावकर्मणोर्ये स्यादय इति ।
ननु चोक्तं---सीयुट् विशेषितः, स्यसिच्तासयोऽविशेषिता इति ।
स्यसिच्तासयश्च विशेषिताः ।
कथम् ?
भावकर्मणोर्यग्भवतीत्यत्र स्यादयोऽप्यनुवर्तिष्यन्ते ।।
(द्वितीयपक्षे दोषवारकभाष्यम्)
अथवा पुनरस्तु---भावकर्मवाचिनि परतो ये स्यादय इति ।
ननु चोक्तं---स्यसिच्तासयो विशेषिताः, सीयुडविशेषित इति ।
सीयुट् च विशेषितः ।
कथम् ?
भावकर्मवाचिनि परतः सीयुट् नास्तीति कृत्वा भावकर्मवाचिनि सीयुटि कार्यं विज्ञास्यते ।।
(इट्संबन्धिनिर्णयोपक्रमभाष्यम्)
अथ इट् च इत्युच्यते, कस्यायमिट् भवति ?
अङ्गस्येति वर्तते ।
यद्येवमङ्गस्यादित इट् प्राप्नोति, अडाड्वत् । तद्यथा---अडाटौ टित्त्वादादितो भवतः ।।
(इट्संबन्ध्याक्षेपभाष्यम्)
एवं तर्हि स्यादीनां भविष्यति ।
एवमपि षष्ठ्यभावान्न प्राप्नोति ।
ननु च भावकर्मणोः इत्येषा षष्ठी ।
नैषा षष्ठी ।
किं तर्हि ?
अर्थनिर्देश एवासौ सप्तमी---भावे चार्थे कर्मणि चेति ।।
(इट्संबन्धिसाधकभाष्यम्)
एवं तर्हि भावकर्मणोः इत्येषा सप्तमी स्यादिष्विति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66) इति ।
एवमपि न सिध्यति ।
किं कारणम् ?
न ह्यर्थेन पौर्वापर्यमस्ति ।
अर्थेऽसम्भवाद्भावकर्मवाचिनि शब्दे कार्यं विज्ञास्यते ।।
(आक्षेपभाष्यम्)
एवमपि सीयुटो न प्राप्नोति ।।
(योगविभागेनाक्षेपनिवारकभाष्यम्)
एवं तर्हि सप्तमे योगविभागः करिष्यते---आर्धधातुकस्येट् यावानिण् नाम स सर्व आर्धधातुकस्य भवतीति विज्ञेयम् । ततः---वलादेः, वलादेरार्धधातुकस्येट् भवतीति ।।
(योगविभागाक्षेपभाष्यम्)
यद्येवम्, स्यसिच्सीयुट्तासिष्विट् भवति, चिण्वद्भावश्चाविशेषितो भवति ।
तत्र को दोषः ?
स्यसिच्सीयुट्तासिष्विट् भवति, अज्झनग्रहदृशां वा चिण्वदिति क्वचिदेव चिण्वद्भावः स्यात् ।।
(अनुवृत्त्याऽऽक्षेपनिरासभाष्यम्)
एवं तर्हि स्यादीनेवात्रापेक्षिष्यामहे । स्यसिच्सीयुट्तासिष्विट् भवति, अज्झनग्रहदृशां वा चिण्वत्स्यादिष्विति ।।
(इडुद्देश्यतावच्छेदकाक्षेपभाष्यम्)
के पुनरिममिटं प्रयोजयन्ति ?
येऽनुदात्ताः ।
अथ ये उदात्तास्तेषां कथम् ?
सिद्धं तेनैव परत्वात् ।।
(समाधानभाष्यम्)
उदात्तेभ्योऽपि अनेनैवेडेषितव्यः ।
किं प्रयोजनम् ?
कारयतेः कारिष्यते । हारिष्यते । इटोऽसिद्धत्वात् णेरनिटि (6-4-51) इति णिलोपो यथा स्यात् ।।
(प्रत्याक्षेपभाष्यम्)
कथं पुनरिच्छता भवता उदात्तेभ्योऽनेनैवेट् लभ्यः, न पुनरनेनास्तु तेनेति---तेनैव स्याद्विप्रतिषेधेन ।
(समाधानभाष्यम्)
नित्योऽयम् । कृतेऽपि तस्मिन् प्राप्नोत्यकृतेऽपि ।
न त्वस्मिन् कृते स प्राप्नोति ।
किं कारणम् ?
अवलादित्वात् ।
तस्मादनेनैवेडेषितव्यः ।।
(सूत्रप्रयोजनोपन्यासभाष्यम्)
कानि पुनरस्य योगस्य प्रयोजनानि ?
(प्रयोजने श्लोकवार्तिकम्)
वृद्धिश्चिण्वद्युक्व हन्तेश्च घत्वं
दीर्घश्चोक्तो यो मितां वा चिणीति ।।
वृद्धिः प्रयोजनम् । चेष्यते, चायिष्यते ।।
युक् प्रयोजनम् । ग्लास्यते, ग्लायिष्यते ।।
हन्तेश्च घत्वं प्रयोजनम् । हनिष्यते । घानिष्यते ।।
दीर्घश्चोक्तो यो मितां वा चिणीति, स च प्रयोजनम् ।
शमिष्यते । शामिष्यते । तमिष्यते । तामिष्यते ।।
(प्रयोजने श्लोकवार्तिकम्)
इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ।।
इटोऽसिद्धत्वात् णेरनिटि (6-4-51) इति णिलोपो यथा स्यात् ।
कथमयं नित्यः ?
कृताकृतप्रसङ्गित्वात् । कृताकृतप्रसङ्गी ह्ययम् । कृतेऽपि तस्मिन्निटि साप्तमिके आर्धधातुकस्येड्वलादेः (7-2-35) इति, पुनरनेनायं भवति । अस्मिंस्तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात्साप्तमिको न भवति । निमित्तं विहितं भवति । अयं तस्य निमित्तं विहन्ति तस्मादयं नित्यः । स तु अस्य निमित्तं न विहन्ति ।।
(पदकृत्यभाष्यम्)
अथोपदेशग्रहणं किमर्थम् ?
(6560 उपदेशपदप्रयोजनवार्तिकम् ।। 1 ।।)
- चिण्वद्भाव उपदेशवचनमृकारगुणबलीयस्त्वात् -
चिण्वद्भावे उपदेशवचनं क्रियते, ऋकारगुणस्य बलीयस्त्वात् । कारिष्यते । परत्वात् गुणे रपरत्वे चानजन्तत्वात् चिण्वद्भावो न प्राप्नोति, उपदेशग्रहणाद्भवति ।।
(6561 विप्रतिषेधवार्तिकम् ।। 2 ।।)
- वधिभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन -
वधिभावात्सीयुटि चिण्वद्भावो भवति विप्रतिषेधेन ।
वधिभावस्यावकाशः---वध्यात्, वध्यास्ताम्, वध्यासुः ।
चिण्वद्भावस्यावकाशः--घानिष्यते, अघानिष्यत ।
इहोभयं प्राप्नोति---घानिषीष्ट, घानिषीयास्ताम् ।
चिण्वद्भावो भवति विप्रतिषेधेन ।।
अथेदानीं चिण्वद्भावे कृते पुनः प्रसङ्गविज्ञानाद्वधिभावः कस्मान्न भवति ?
सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवेति कृत्वा ।।
(6562 आक्षेपवार्तिकम् ।। 3 ।।)
- हनिणिङादेशप्रतिषेधश्च -
हनिणिङादेशानां प्रतिषेधो वक्तव्यः । हनिष्यते, घानिष्यते । एष्यते, आयिष्यते । अध्येष्यते, अध्यायिष्यते । लुङीति हनिणिङादेशाः प्राप्नुवन्ति ।।
(6563 समाधानवार्तिकम् ।। 4 ।।)
- अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धम् -
अङ्गस्य यत्कार्यं तत्प्रतिनिर्दिश्यते । न च हनिणिङादेशा आङ्गा भवन्ति ते ।।
-6-4-64- आतो लोप इटि च (3062)
(लोपाधिकरणम्)
(इट्ग्रहणाक्षेपभाष्यम्)
इड्ग्रहणं किमर्थम् ?
(6564 इट्ग्रहणप्रयोजनवार्तिकम् ।। 1 ।।)
- इट्ग्रहणमक्ङिदर्थम् -
इट्ग्रहणं क्रियते, अक्ङिति लोपो यथा स्यात् । पपिथ, तस्थिथेति ।।
(उपसंख्यानभाष्यम्)
सार्वधातुके चादीत्यार्धधातुकाधिकारादुपसंख्यानं कर्तव्यम् । इषमूर्जमहमित आदीति ।।
(उपसंख्यानसमर्थकभाष्यम्)
ननु च यथैव क्ङिति इति वर्तमाने इट्ग्रहणमक्ङिदर्थम्, एवं आर्धधातुके इत्यपि वर्तमाने इट्ग्रहणं सार्वधातुकार्थं भविष्यति ।
न सिध्यति ।
किं कारणम् ?
नहि क्ङिता अज् विशेष्यते---अचि भवति, कतरस्मिन् ? अचीति ।
किं पुनः कारणमचा क्ङिद्विशेष्यते ?
यथा इडप्यज्ग्रहणेन विशेष्येत ।
अस्ति चेदानीं क्वचिदिडनजादिः, यदर्थो विधिः स्यात् ।
अस्तीत्याह । दासीय, धासीय---इति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि उपसंख्यानं कर्तव्यम् ?
न कर्तव्यम् । आर्धधातुकत्वात् सिद्धम् ।
कथमार्धधातुकत्वम् ?
उभयथा छन्दसीति वचनात् । अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि दृश्यन्ते ।।
-6-4-66- घुमास्थागापाजहातिसां हलि (3064)
(6565 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- इर्त्वे वकारप्रतिषेधो घृतं घृतपावान इति दर्शनात् -
इर्त्वे वकारप्रतिषेधो वक्तव्यः ।
किं प्रयोजनम् ?
घृतं घृतपावान इति दर्शनात् ।
इह मा भूत्---घृतं घृतपावानः पिबत वसां वसपावानः पिबत---इति ।।
(उपसंख्यानाक्षेपभाष्यम्)
यदि तर्हि वकारे प्रतिषेध उच्यते कथं धीवरी पीवरी ?
(6566 समाधानवार्तिकम् ।। 2 ।।)
- धीवरी पीवरीति चोक्तम् -
किमुक्तम् ?
नैतदीत्वम् ।
किं तर्हि ?
ध्याप्योरेतत्सम्प्रसारणमिति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
स तर्हि प्रतिषेधो वक्तव्यः ?
न वक्तव्यः । वनिबेष भविष्यति, न क्वनिबिति ।।
-6-4-74- न माङ्योगे (3072)
(अडाट्प्रतिषेधाधिकरणम्)
(प्रतिषेधप्रतियोगिजिज्ञासाभाष्यम्)
कस्यां प्रतिषेधः ?
आटः प्राप्नोति ।।
अटोऽपि त्विष्यते । तत्तर्ह्यटो ग्रहणं कर्तव्यम् ।।
(अट्साधकभाष्यम्)
न कर्तव्यम् । प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
लुङ्लङ्लृङ्क्ष्वडुदात्तः (6-4-71) इति ।।
(अडनुवर्तनाक्षेपभाष्यम्)
यदि तदनुवर्तते, आडजादीनाम् (72) अट् चेत्यडपि प्राप्नोति ।।
(समाधानभाष्यम्)
अस्तु, अटि कृते पुनराट् भविष्यति ।।
(प्रत्याक्षेपभाष्यम्)
इहापि अटि कृते पुनराट् प्राप्नोति---अकार्षीत्, अहार्षीत् ।।
(प्रत्याक्षेपसमाधानभाष्यम्)
अड्वचनान्न भविष्यति ।।
(पुनः प्रत्याक्षेपभाष्यम्)
इहापि तर्हि अड्वचनान्न स्यात्---ऐहिष्ट, ऐक्षिष्ट ।।
(समाधानभाष्यम्)
आड्वचनाद्भविष्यति ।।
(आक्षेपभाष्यम्)
इहापि तर्हि आड्वचनात् प्राप्नोति---अकार्षीत्, अहार्षीत् ।।
(समाधानभाष्यम्)
अकृतेऽटि योऽजादिरित्येवमेतद्विज्ञास्यते ।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
अड्वचनसार्मथ्यात् । यदि हि कृतेऽटि योऽजादिस्तत्र स्यात्, अड्वचनमनर्थकं स्यात् ।।
(प्रकारान्तरेण समाधानभाष्यम्)
अथवा---उपदेश इति वर्तते ।
अथवा---आर्धधातुक इति वर्तते ।
अथवा---लुङ्लङिति द्विलकारको निर्देशः । लुङादिषु लकारादिषु योऽजादिरिति ।।
(समाधानाक्षेपभाष्यम्)
सर्वथा---ऐज्यत---औप्यत इति न सिध्यति ।
एवं तर्हि---
(समाधाने श्लोकवार्तिकम्)
अजादीनामटा सिद्धम्
अजादीनामटैव सिद्धं नार्थ आटा ।।
(वार्तिकाक्षेपभाष्यम्)
एवं तर्हि वृद्ध्यर्थमाट् वक्तव्यः ।।
(समाधाने श्लोकवार्तिकम्)
वृद्ध्यर्थमिति चेदटः ।
अटो वृद्धिं वक्ष्यामि ।।
(वार्तिकावतरणभाष्यम्)
यदि तर्ह्यटो वृद्धिरित्युच्यते---
(समाधानाक्षेपे श्लोकवार्तिकम्)
अस्वपो हसतीत्यत्र
अस्वपो हसतीत्यत्रापि रोरुत्वे कृते वृद्धिः प्राप्नोति ।।
(समाधाने श्लोकवार्तिकम्)
धातौ वृद्धिमटः स्मरेत् ।।
धातावटो वृद्धिं वक्ष्यामि ।।
तत्तर्हि धातुग्रहणं कर्तव्यम् ।
न कर्तव्यम् । योगविभागः करिष्यते---अटः, अचि वृद्धिर्भवति । ततः---उपसर्गादृति--- वृद्धिर्भवति ।
ततः---धातौ इत्युभयोः शेषः ।।
(वार्तिकावतरणभाष्यम्)
इह तर्हि---आटीत्, आशीत्---अतो गुणे (6-1-97) इति पररूपं प्राप्नोति ।।
(समाधाने श्लोकवार्तिकम्)
पररूपं गुणे नाटः
आटो नेति वक्ष्यामि ।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् ।।
(प्रकारान्तरेण समाधानश्लोकवार्तिकम् ।।)
ओमाङोरुसि तत्समम् ।
यद्यप्येतदुच्यते, अथ वै तर्हि उस्योमङ्क्ष्वाटः प्रतिषेधश्चोदितः, स न वक्तव्यो भवति ।।
(आक्षेपभाष्यम्)
छन्दोऽर्थं तर्ह्याट् वक्तव्यः---आरैगु कृष्णा, त्रित एवमायुनक्, ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ।।
(समाधाने श्लोकवार्तिकम्)
छन्दोऽर्थं बहुलं दीर्घः
छन्दसि दीर्घो बहुलं दृश्यते । तद्यथा---पूरुषः, नारक इति ।।
(आक्षेपभाष्यम्)
एवं तर्हि---आयन्, आसन्---इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वाद्वृद्धिर्न प्राप्नोति ।।
(समाधाने श्लोकवार्तिकम्)
इणस्त्योरन्तरङ्गतः ।।
अन्तरङ्गत्वात् वृद्धिर्भविष्यति ।
तस्मान्नार्थ आट्ग्रहणेन ।।
(संग्रहः)
अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः ।
अस्वपो हसतीत्यत्र धातौ वृद्धिमटः स्मरेत् ।। 1 ।।
पररूपं गुणे नाट ओमाङोरुसि तत्समम् ।
छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ।। 2 ।।
-6-4-77- अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (3074)
(इयङाद्यधिकरणम्)
(6567 उपसंख्यानवार्तिकम् ।। 1 ।।)
- इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलम् -
इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य । स्वर्गं लोकम् । सुवर्गं लोकम् । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ।।
-6-4-82- एरनेकाचोऽसंयोगपूर्वस्य (3080)
(सूत्रार्थदर्शकभाष्यम्)
इह कस्मान्न भवति---ब्राह्मणस्य नियौ, ब्राह्मणस्य नियः ?
अङागाधिकारात् । अङ्गस्येति वर्तते ।।
एमवपि---परमनियौ, परमनिय इत्यत्रापि प्राप्नोति ।
गतिकारकपूर्वस्यैवेष्यते ।।
(6568 उपसंख्यानवार्तिकम् ।। 1 ।।)
- यणादेशः स्वरपदपूर्वोपधस्य च -
यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्येति वक्तव्यम् । स्वरपूर्वा च यस्योपधा पदपूर्वा च ।
स्वरपूर्वा---निन्यतुः, निन्युः ।
पदपूर्वा---उन्न्यौ, उन्नयः । उद्ध्यौ, उद्ध्यः ।
उभयपूर्वा---ग्रामण्यौ, ग्रामण्यः । सेनान्यौ, सेनान्य इति ।।
(6569 उपसंख्यानप्रयोजनवार्तिकम् ।। 2 ।।)
- असंयोगपूर्वे ह्यनिष्टप्रसङ्गः -
असंयोगपूर्वस्येत्युच्यमाने, अनिष्टं प्रसज्येत---उन्न्यौ, उन्न्यः । उद्ध्यौ, उद्ध्यः ।
असंयोगपूर्वस्येति प्रतिषेधः प्रसज्येत ।।
(वार्तिकार्थसाधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । धातोः इति वर्तते, धातुना संयोगं विशेषयिष्यामः---धातोर्यः संयोगस्तत्पूर्वस्य नेति ।
उपसर्जनं वै संयोगः, न चोपसर्जनस्य विशेषणमस्ति ।
धातोरित्यनुवर्तनसार्मथ्यादुपसर्जनस्यापि विशेषणं भविष्यति ।
अस्त्यन्यत् धातोरित्यनुवृत्तौ प्रयोजनम् ।
किम् ?
इवर्णं विशेष्यते ।
नैतदस्ति प्रयोजनम् । यद्ध्यधातोरिवर्णं, भवितव्यमेव तस्य यणादेशेन इको यणचि (6-1-77) इति ।।
-6-4-84- वर्षाभ्वश्च (3082)
(6570 उपसंख्यानवार्तिकम् ।। 1 ।।)
- वर्षाभूपुर्नभ्वश्च -
वर्षाभू इत्यत्र पुर्नभ्वश्चेति वक्तव्यम् । पुर्नभ्वौ, पुर्नभ्वः---इति ।
अत्यल्पमिदमुच्यते ।
वर्षादृन्कारपुनः पूर्वस्य भुव इति वक्तव्यम् । वर्षाभ्वौ, वर्षाभ्वः । दृन्भ्वौ, दृन्भ्वः । कारभ्वौ, कारभ्वः । पुर्नभ्वौ, पुर्नभ्वः ।।
-6-4-87- हुश्नुवोः सार्वधातुके (3085)
(6571 हुश्नुग्रहणप्रत्याख्यानवार्तिकम् ।। 1 ।।)
- हुश्नुग्रहणानर्थक्यमन्यस्याभावात् -
हुश्नुग्रहणमनर्थकम् ।
किं कारणम् ?
अन्यस्याभावात् । न ह्यन्यत्सार्वधातुकेऽस्ति, यस्य यणादेशः स्यात् ।।
ननु चायमस्ति---याति, वातीति ।
क्ङितीत्यनुवर्तते ।।
इदं तर्हि---यातः, वात इति ।
अचीति वर्तते ।।
इह तर्हि---यान्ति, वान्तीति ।
य्वोरिति वर्तते ।।
एवमपि---धियन्ति, पियन्ति---अत्र प्राप्नोति ।
ओरिति वर्तते ।।
एवमपि--सुवन्ति, रुवन्ति---इत्यत्र प्राप्नोति ।
अनेकाजिति वर्तते ।।
एवमपि---अयुवन्, अरुवन्--इत्यत्रापि प्राप्नोति ।
एतदप्यटोऽसिद्धत्वादेकाज्भवति ।।
एवमपि---प्रोर्णुवन्ति---इत्यत्रापि प्राप्नोति ।
असंयोगपूर्वस्येत्यनुवर्तते ।।
यङ्लुगर्थं तर्हि हुश्नुग्रहणं कर्तव्यम् । यङ्लुगन्तमनेकाजसंयोगपूर्वमुवर्णान्तमस्ति, तदर्थमिदम् । युवं योयुवतीनां वृषभम् । भवतु रोरुवतीनाम् ।।
यङ्लुगर्थमिति चेत्, तन्न ।
किं कारणम् ?
आर्धधातुकत्वात्सिद्धम् ।
कथमार्धधातुकत्वम् ?
उभयथा छन्दसीति वचनात् । अन्येऽपि हि धातुप्रत्ययाश्छन्दस्युभयथा दृश्यन्त इति ।।
(हुश्नुग्रहणज्ञापनभाष्यम्)
एवं तर्हि सिद्धे सति यत् हुश्नुग्रहणं करोति तज्ज्ञापयत्याचार्यः--भाषायामपि यङ्लुग्भवतीति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
बेभिदीति, चेच्छिदीति---इत्येतत्सिद्धं भवति भाषायामपि---इति ।।
-6-4-89- ऊदुपधाया गोहः (3087)
(उपधाकार्याधिकरणम्)
(विकृतनिर्देशाक्षेपभाष्यम्)
किमर्थं गुहेर्विकृतस्य ग्रहणं क्रियते, न गुह इत्येवोच्येत?
(6572 विकृतनिर्देशप्रयोजनवार्तिकम्।।1।।)
गोहिग्रहणं विषयार्थम्।।
गोहिग्रहणं क्रियते विषयार्थम्। विषयः प्रतिनिर्दिश्यते। यत्रास्यैतद्रूपं तत्र यथा स्यात्, इह मा भूत्-- निजुगुहतुः, निजुगुहुरिति।।
(विकृतनिर्देशप्रयोजनभाष्यम्)
अयादेशप्रतिषेधार्थं च विकृतग्रहणं क्रियते।।
(6573 प्रयोजनसमर्थकवार्तिकम्।।2।।)
 ह्रस्वादेशे ह्ययादेशप्रसङ्ग ऊत्वस्यासिद्धत्वात्।।
ह्रस्वादेशे हि सति अयादेशः प्रसज्येत। प्रगूह्य गतः, उपगूह्य गत इति। किं कारणम्?
ऊत्वस्यासिद्धत्वात्। असिद्धमूत्वम्, तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् (6-4-56) इत्ययादेशः प्रसज्येत।
(प्रथमप्रयोजनाक्षेपभाष्यम्)
विषयार्थेन तावन्नार्थो गोहिग्रहणेन। प्रश्लिष्टनिर्देशात्सिद्धम्। प्रश्लिष्टनिर्देशोऽयम्--उ-ऊत्-ऊदिति। तत्र ह्रस्वस्यावकाशः--निजुगुहतुः, निजुगुहुः। गुणस्यावकाशः--निगोढा, निगोढुम्। इहोभयं प्राप्नोति--निगूहयति, निगूहति, निगूहकः, साधु निगूही। परत्वात् गुणे कृते आन्तर्यतो दीर्घो भवति।
(द्वितीयप्रयोजनाक्षेपभाष्यम्)
अयादेशप्रतिषेधेन चापि नार्थः। समानाश्रयवचनात्सिद्धम्। समानाश्रयमसिद्धं भवति। व्याश्रयं चैतत्। णावूत्वम्, णेर्ल्यप्ययादेशः।।
-6-4-90- दोषो णौ (3088)
(विकृतनिर्देशाक्षेपभाष्यम्)
किमर्थं दुषेर्विकृतस्य ग्रहणं क्रियते, न दुष इत्येवोच्येत ?
(6574 विकृतनिर्देशप्रयोजनवार्तिकम् ।। 1 ।।)
- दोषिग्रहणे च -
किम् ?
अयादेशप्रतिषेधार्थं विकृतग्रहणं क्रियते ।
ह्रस्वादेशे ह्ययादेशप्रसङ्गः, ऊत्वस्यासिद्धत्वात् ।
ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । उपदूष्य गतः ।
किं कारणम् ?
ऊत्वस्यासिद्धत्वात् ।
असिद्धमूत्वं तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशः प्रसज्येत ।।
(प्रयोजनाक्षेपभाष्यम्)
समानाश्रयवचनात्सिद्धमित्येव । समानाश्रयमसिद्धम् । व्याश्रयं चैतत् । णावूत्वम्, णेर्ल्यप्ययादेश इति ।।
-6-4-93- चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (3091)
(6575 उपसंख्यानवार्तिकम् ।। 1 ।।)
- चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे च -
चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चोपसंख्यानं कर्तव्यम् । शमयन्तं प्रयोजितवान्---अशमि, अशामि । शमं शमम्, शामं शामम् । शंशमयतेः---अशंशमि, अशंशामि । शंशमं शंशमम्, शंशामं शंशामम् ।।
(उपसंख्यानप्रयोजनजिज्ञासाभाष्यम्)
किं पुनः कारणं न सिध्यति ?
चिण्णमुल्परे णौ मितामङ्गानां दीर्घो भवतीत्युच्यते, यश्चात्र णिश्चिण्णमुल्परो न तस्मिन् मिदङ्गम्, यस्मिंश्च मिदङ्गं नासौ चिण्णमुल्पर इति ।।
लोपे कृते चिण्णमुल्परो भवति ।
स्थानिवद्भावान्न चिण्णमुल्परः ।।
ननु च प्रतिषिध्यते तत्र स्थानिवद्भावः---दीर्घविधिं प्रति न स्थानिवदिति ।
एवमप्यसिद्धत्वान्न प्राप्नोति ।।
एवं तर्हि---
(प्रयोजनानर्थक्यबोधभाष्यम्)
चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चान्तरङ्गलक्षणत्वात्सिद्धम् ।
किमदमन्तरङ्गलक्षणत्वादिति ?
यावद्ब्रूयात्समानाश्रयवचनात्सिद्धमिति ।
व्याश्रयं चैतत् ।
कथम् ?
णौ णिलोपः, णौ चिण्णमुल्परे मितामङ्गानां दीर्घत्वम् । तस्मान्नार्थ उपसंख्यानेनेति ।।
-6-4-96- छादेर्घेऽद्व्युपसर्गस्य (3094)
(उपसंख्यानभाष्यम्)
अद्विप्रभृत्युपसर्गस्येति वक्तव्यम् । इहापि यथा स्यात्---समुपाभिछादः ।।
(उपसंख्यानाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् । यत्र त्रिप्रभृतयः सन्ति द्वावपि तत्र स्तः, तत्राद्व्युपसर्गस्येत्येव सिद्धम् ।।
(समाधानभाष्यम्)
न वा एष लोके संप्रत्ययः । न हि द्विपुत्र आनीयतामित्युक्ते त्रिपुत्र आनीयते ।
तस्मादद्विप्रभृत्युपसर्गस्येति वक्तव्यम् ।।
-6-4-100- घसिभसोर्हलि (3098)
(6576 हलिग्रहणप्रत्याख्यानवार्तिकम् ।। 1 ।।)
- हल्ग्रहणानर्थक्यमन्यत्रापि दर्शनात् -
हल्ग्रहणमनर्थकम् ।
किं कारणम् ?
अन्यत्रापि दर्शनात् । अन्यत्रापि हि लोपो दृश्यते---अग्निर्वनानि वप्सति, शरावे वप्सति---इति ।।
-6-4-101- हुझल्भ्यो हेर्धिः (3099)
(ध्यादेशाधिकरणम्)
(वार्तिकावतरणे प्रतिषेधोपसंख्यानभाष्यम्)
इटः प्रतिषेधो वक्तव्यः । रुदिहि, स्वपिहि । झल इति धित्वं प्राप्नोति ।।
(6577 प्रतिषेधानर्थक्ये बोधकवार्तिकम् ।। 1 ।।)
- हेर्धित्वे हलधिकारादिटोऽप्रतिषेधः -
हेर्धित्वे हलधिकारादिटोऽप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ।
धित्वं कस्मान्न भवति ?
हलधिकारात् । प्रकृतं हल्ग्रहणमनुवर्तते ।
क्व प्रकृतम् ?
घसिभसोर्हलि (100) इति ।
तद्वै सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ।
तद्वै तत्र प्रत्याख्यायते, प्रत्याख्यातं सद्यया विभक्त्या निर्दिश्यमानमर्थवद्भवति तया निर्दिष्टमिहानुवर्तते ।।
(प्रकारान्तरेण प्रतिषेधानर्थक्यबोधकभाष्यम्)
अथवा---हुझल्भ्यः इत्येषा पञ्चमी हलि इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1-1-67) इति ।।
(प्रकारान्तरबोधकभाष्यम्)
अथवा---निर्दिश्यमानस्यादेशा भवन्ति इत्येवं न भविष्यति ।
यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ?
इटा व्यवहितत्वात् ।।
(प्रकारान्तराक्षेपपरिहारभाष्यम्)
यद्येवं भिन्धकि छिन्धकीत्यत्र धित्वं न प्राप्नोति ।
एवं तर्हि धित्वे कृतेऽकज्भविष्यति ।
इदमिह सम्प्रधार्यम्---धित्वं क्रियतामकजिति, किमत्र कर्तव्यम् ?
परत्वाद्धित्वम् ।
नित्योऽकच् । कृतेऽपि धित्वे प्राप्नोत्यकृतेऽपि ।
अकजप्यनित्यः । अन्यस्य कृते धित्वे प्राप्नोति, अन्यस्याकृते । शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति इति । उभयोरनित्ययोः परत्वाद्धित्वम्, धित्वे कृतेऽकज्भविष्यति ।।
(प्रकारान्तरबोधकभाष्यम्)
अथवा---हकारस्यैवैतदशक्तिजेनेकारेण ग्रहणमिति ।।
-6-4-104- चिणो लुक् (3102)
(लुकोऽधिकरणम्)
(6578 उपसंख्यानवार्तिकम् ।। 1 ।।)
- चिणो लुकि तग्रहणम् -
चिणो लुकि तग्रहणं कर्तव्यम् ।
इह मा भूत्---अकारितराम्, अहारितराम्---इति ।।
(6579 एकदेशिवार्तिकम् ।। 2 ।।)
- चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात् -
चिणो लुकि तग्रहणमनर्थकम् ।
सङ्घातस्य लुक् कस्मान्न भवति ?
सङ्घातस्याप्रत्ययत्वात् । प्रत्ययस्य लुक्श्लुलुपो भवन्तीत्युच्यते, न च सङ्घातः प्रत्ययः ।।
तलोपे तर्हि कृते परस्य प्राप्नोति ।
(6580 सिद्धान्तवार्तिकम् ।। 3 ।।)
- तलोपस्य चासिद्धत्वात् -
असिद्धस्तलोपस्तस्यासिद्धत्वान्न भविष्यति ।।
(6581 प्रकारान्तरेण तकारानर्थक्ये वार्तिकम् ।। 4 ।।)
- कार्यकृतत्वाद्वा -
अथवा कृतश्चिणो लुगिति कृत्वा पुनर्न भविष्यति । तद्यथा---वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।
विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न स्यात्, यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा---वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत---इति अग्न्याधाननिमित्तं वसन्ते वसन्त इज्यते ।
तस्मात्पूर्वोक्तावेव परिहारौ ।।
(प्रकारान्तरबोधकभाष्यम्)
अथवा क्ङितीति वर्तते ।
क्व प्रकृतम् ?
गमहनजनखनघसां लोपः क्ङित्यनङि (6-4-98) इति ।
तद्वै तत्र सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ।
चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1-1-67) इति ।।
-6-4-106- उतश्च प्रत्ययादसंयोगपूर्वात् (3104)
(विशेषणविशेष्यभावे पक्षद्वयप्रदर्शकभाष्यम्)
कथमिदं विज्ञायते---उकारात् प्रत्ययादिति, आहोस्विदुकारान्तात् प्रत्ययादिति ?
किञ्ञ्चातः ?
यदि विज्ञायते---उकारात्प्रत्ययादिति सिद्धं तनु---कुरु । चिनु---सुनु---इति न सिद्ध्यति ।
अथ विज्ञायते---उकारान्तात्प्रत्ययादिति सिद्धं चिनु--सुनु । तनु---कुर्विति न सिध्यति ।
तथा---असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात्---अक्ष्णुहि, तक्ष्णुहि । आप्नुहि, शक्नुहीत्यत्र न स्यात् ।।
उकारस्य विशेष्यत्वात् तेन नास्ति तदन्तता ।
न सम्भवति चोकारः प्रत्ययान्तो यदा पुनः ।।
विशेष्यत उकारेण प्रत्ययोऽतस्तदन्तता ।
आश्रीयते प्रत्ययस्य तस्मात्पक्षद्वयोद्भवः ।।
(पक्षद्वये दोषाभावोपपादकभाष्यम्)
यथेच्छसि तथाऽस्तु ।
अस्तु तावदुकारात्प्रत्ययादिति ।
कथं चिनु---सुन्विति ?
तदन्तविधिना भविष्यति ।।
अथवा---पुनरस्तूकारान्तात्प्रत्ययादिति ।
कथं तनु कुरु ?
व्यपदेशिवद्भावेन भविष्यति ।।
यदप्युच्यते---तथाऽसंयोगपूर्वग्रहणेनेहैव पर्युदासः स्यात्---अक्ष्णुहि--तक्ष्णुहि । आप्नुहि---शक्नुहीत्यत्र न स्यात् इति ।
नास्माभिरसंयोगपूर्वग्रहणेनोकारान्तं विशेष्यते ।
किं तर्हि ?
उकारो विशेष्यते । उकारो योऽसंयोगपूर्वस्तदन्तात्प्रत्ययादिति ।।
(6582 उपसंख्यानवार्तिकम् ।। 1 ।।)
- उतश्च प्रत्ययाच्छन्दोवावचनम् -
उतश्च प्रत्ययात्--- इत्यत्र छन्दसि वा इति वक्तव्यम् । अव स्थिरा तनुहि यातुजूनाम् । धिनुहि यज्ञं धिनुहि यज्ञपतिम् । ते न मा भागिनं कृणुहि ।।
(6583 उपसंख्यानवार्तिकम् ।। 2 ।।)
- उत्तरार्थं च -
केचित्तावदाहुः---छन्दोग्रहणं कर्तव्यमिति ।
अपर आहुः---वावचनं कर्तव्यमिति । लोपश्चास्यान्तरस्यांम्वोः (107) इत्यत्रान्यतरस्यां ग्रहणं न कर्तव्यं भवति ।।
-6-4-110- अत उत् सार्वधातुके (3108)
(उदादेशाधिकरणम्)
(पदकृत्यभाष्यम्)
सार्वधातुक इति किमर्थम् ?
इह मा भूत्---सञ्चस्करतुः, सञ्चस्करुः इति ।।
(प्रतिषेधोपसंख्यानभाष्यम्)
स्यान्तस्य प्रतिषेधो वक्तव्यः । करिष्यति । करिष्यते ।।
(6584 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- कृञ्ञ उत्व उकारान्तनिर्देशात्स्यान्तस्याप्रतिषेधः -
कृञ्ञ उत्वे उकारान्तनिर्देशात्स्यान्तस्याप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ।
उत्वं कस्मान्न भवति ?
उकारान्तनिर्देशात् ।।
(आक्षेपभाष्यम्)
अशक्यः करोतावुकारान्तनिर्देशस्तत्राश्रयितुम् । इह सम्परिभ्यां भूषणसमवाययोः करोतावितीहैव
स्यात्---संस्करोति,
संस्कर्ता --- संस्कर्तुमित्यत्र न स्यात् ।।
(आक्षेपसमर्थकभाष्यम्)
न ब्रूमोऽस्मादुकारान्तनिर्देशाद्योऽयं करोतेरिति ।
किं तर्हि ?
उकारान्तप्रकरणादुकारान्तमङ्गमभिसंबध्यते । उत इति वर्तते ।
यद्येवम्, नार्थः सार्वधातुकग्रहणेन ।
कस्मान्न भवति---संचस्करतुः, संचस्करुरिति ?
उत इति वर्तते ।।
(सार्वधातुकपदप्रयोजनभाष्यम्)
उत्तरार्थं तर्हि सार्वधातुग्रहणं कर्तव्यम्---श्नसोरल्लोपः (111) इति ।
श्नः सार्वधातुक एव, अस्तोरप्यार्धधातुके भूभावेन भवितव्यम् ।
उत्तरार्थमेव तर्हि---श्नाऽभ्यस्तयोरातः (112) इति ।
श्ना सार्वधातुक एव । अभ्यस्तमप्याकारान्तमार्धधातुके नास्ति ।
ननु चेदमस्ति---अप्सु यायावरः प्रवपेत पिण्डानिति ।
नैतदाकारान्तम् ।
किं तर्हि ?
यकारान्तमेतत् ।।
उत्तरार्थमेव तर्हि---इर् हल्यघोः (113) इति ।
तत्रापि श्नाऽभ्यस्तयोरित्येव ।।
अतोऽप्युत्तरार्थमेव तर्हि---इद्दरिद्रस्य (114) इति ।
वक्ष्यत्येतत् दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति ।।
अतोऽप्युत्तरार्थं---भियोऽन्यतरस्याम् (115) । अभ्यस्तस्येत्येव ।।
अतोऽप्युत्तरार्थमेव तर्हि---जहातेश्च (116) ।
अभ्यस्तस्येत्येव ।।
अतोऽप्युत्तरार्थम्---आ च हौ (117) ।
हावित्युच्यते, अभ्यस्तस्येत्येव ।।
अतोऽप्युत्तरार्थमेव---लोपो यि (118) ।
अभ्यस्तस्येत्येव ।।
अतोऽप्युत्तरार्थमेव तर्हि---घ्वसोरेद्धावभ्यासलोपश्च (119) ।
हावित्युच्यते ।।
(प्रथमप्रयोजनस्थापकभाष्यम्)
तदेव तर्हि प्रयोजनम्---श्नसोरल्लोपः इति । ननु चोक्तं श्नः सार्वधातुक एव, अस्तेरप्यार्धधातुके भूभावेन भवितव्यम् इति ।।
(प्रयोजनसमर्थकं श्लोकवार्तिकम्)
अनुप्रयोगे तु भुवाऽस्त्यबाधनं
स्मरन्ति कर्तुर्वचनान्मनीषिणः ।।
अनुप्रयोगे तु भूभावेनास्तेरबाधनमिष्यते---इर्हामासतुः, इर्हामासुः ।।
किं च स्याद्यद्यत्र लोपः स्यात् ।।
(सार्वधातुकपराभावे दोषप्रतिपादकं श्लोकवार्तिकम्)
लोपे द्विर्वचनासिद्धिः
लोपे कृतेऽनच्कत्वादि्द्वर्वचनं न स्यात् ।।
स्थानिवद्भावाद्भविष्यति ।
(दोषप्रापकं श्लोकवार्तिकम्)
स्थानिवदिति चेत्कृते भवेत् द्वित्वे ।।
स्थानिवदिति चेत् कृते द्वित्वे लोपः प्राप्नोति ।।
अस्तु तर्हि परस्य लोपः । अभ्यासस्य योऽकारस्तस्य दीर्घत्वं भविष्यति ।।
(दोषप्रतिपादकं श्लोकवार्तिकम्)
नैवं सिध्यति कस्मात्
प्रत्यङ्गत्वाद्भवेद्धि पररूपम् ।।
नैवं सिध्यति ।
कस्मात् ?
प्रत्यङ्गत्वात्पररूपं प्राप्नोति ।।
(दोषे श्लोकवार्तिकम्)
तस्मिंश्च कृते लोपः
पररूपे च कृते लोपः प्राप्नोति ।।
(दोषसमर्थकं श्लोकवार्तिकम्)
दीर्घत्वं बाधकं भवेत्तत्र ।।
अत आदेः (7-4-70) इति दीर्घत्वं बाधकं भविष्यति ।।
(दोषप्रतिपादकं भाष्यम्)
इदं तर्हि प्रयोजनं---सार्वधातुके भूतपूर्वमात्रेऽपि यथा स्यात् । कुरु-इति ।।
-6-4-114- इद्दरिद्रस्य (3111)
(6585 उपसंख्यानवार्तिकम् ।। 1 ।।)
- दरिद्रातेरार्धधातुके लोपः -
दरिद्रातेरार्धधातुके लोपो वक्तव्यः ।।
(6586 सिद्धत्वोपसंख्यानवार्तिकम् ।। 2 ।।)
- सिद्धश्च प्रत्ययविधौ -
स च सिद्धः प्रत्ययविधौ ।
किं प्रयोजनम् ?
दरिद्राति---इति दरिद्रः आकारान्तलक्षणः प्रत्ययविधिर्मा भूदिति ।।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते ।
दिदरिद्रासतीत्येके दिदरिद्रियतीति वा ।।
(6587 उपसंख्यानवार्तिकम् ।। 3 ।।)
- अद्यतन्यां वा -
अद्यतन्यां वेति वक्तव्यम् । अदरिद्रीत्, अदरिद्रासीत् ।।
-6-4-120- अत एकहल्मध्येऽनादेशादेर्लिटि (3118)
(एत्वाधिकरणम्)
(6588 उपसंख्यानवार्तिकम् ।। 1 ।।)
- णकारषकारादेरेत्ववचनं लिटि -
णकारषकारादेरेत्वं लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सेहिरे ।
किं पुनः कारणं न सिध्यति ?
अनादेशादेरिति प्रतिषेधः प्राप्नोति ।।
(विशेष्यविशेषणभावेनेष्टसाधकं भाष्यम्)
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् । लिटाऽत्रादेशादिं विशेषयिष्यामः, लिटि य आदेशस्तदादेर्नेति ।।
(विशेषणविशेष्यभावाक्षेपसमाधानभाष्यम्)
अस्त्यन्यल्लिड्ग्रहणस्य प्रयोजनम् ।
किम् ?
इह मा भूत्---पक्ता, पक्तुम् ।
नैतदस्ति प्रयोजनम् । क्ङितीति वर्तते ।
एवमपि पक्वः पक्ववानित्यत्र प्राप्नोति । अभ्यासलोपसन्नियोगेनैत्वमुच्यते । न चात्राभ्यासलोपं पश्यामः ।
एवमपि पापच्यते---अत्र प्राप्नोति । दीर्घत्वमत्र बाधकं भविष्यति । नाप्राप्तेऽभ्यासविकार एत्वमारभ्यते, तद्यथाऽसावन्यानभ्यासविकारान् बाधत एवं दीर्घत्वमपि बाधेत ।
सत्यमेवमेतत् ।
अभ्यासविकारेष्वपि तु ज्येष्ठमध्यमकनीयांसः प्रकारा भवन्ति । तत्र ह्रस्वहलादिशेषावुत्सर्गौ तयोर्दीर्घत्वमपवाद एत्वं च । अपवादविप्रतिषेधाद्दीर्घत्वं भविष्यति ।।
(वार्तिकावतरणभाष्यम्)
इह तर्हि---बभणतुः---बभणुरित्यभ्यासादेशस्यासिद्धत्वादेत्वं प्राप्नोति ।।
(6589 सिद्धत्वज्ञापकवार्तिकम् ।। 2 ।।)
- फलिभजिग्रहणं तु ज्ञापकमभ्यासादेशसिद्धत्वस्य -
यदयं फलिभज्योर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः---अभ्यासादेशः सिद्ध एत्त्व इति ।
यद्येवं---
(6590 आक्षेपवार्तिकम् ।। 3 ।।)
- प्रथमतृतीयादीनामादेशादित्वादेत्वाभावः -
प्रथमतृतीयादीनामपि तर्ह्यादेशादित्वादेत्वं न प्राप्नोति । पेचतुः । पेचुः । देभतुः । देभुः ।।
(6591 समाधानवार्तिकम् ।। 4 ।।)
- न वा शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य -
न वा एष दोषः ।
किं कारणम् ?
शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य । यदयं शसिदद्योः प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः---रूपाभेदेन ये आदेशादयो न तेभ्यः प्रतिषेधो भवतीति ।।
(6592 उपसंख्यानवार्तिकम् ।। 5 ।।)
- दम्भ एत्वम् -
दम्भ एत्वं वक्तव्यम् । देभतुः । देभुः । किं पुनः कारणं न सिध्यति ?
(6593 उपसंख्यानसमर्थकवार्तिकम् ।। 6 ।।)
- नलोपस्यासिद्धत्वात् -
असिद्धो नलोपस्तस्यासिद्धत्वादेत्वं न प्राप्नोति ।।
(उपसंख्याने श्लोकवार्तिकम्)
नशिमन्योरलिट्येत्वम् ।
नशिमन्योरलिटि एत्त्वं वक्तव्यम् ।।
(उपसंख्याने श्लोकवार्तिकम्)
छन्दस्यमिपचोरपि ।।
छन्दसि अमिपचोरपीति वक्तव्यम् । किं प्रयोजनम् ?
(प्रयोजने श्लोकवार्तिकम्)
अनेशं मेनकेत्येतद् व्येमानं लिङि पेचिरन् ।।
यजायेजे वपावेपे
यजः---आयेजे, वपः---आवेपे ।।
(श्लोकवार्तिकम्)
दम्भ एत्वमलक्षणम् ।।
असिद्धत्वान्नलोपस्य दम्भ एत्त्वं न सिध्यति ।।
(ज्ञापकेनोपसंख्यानसाधकं श्लोकवार्तिकम्)
श्नोसोरत्त्वे तकारेण ज्ञायते त्वेत्त्वशासनम् ।।
अनित्योऽयंविधिरिति ।।
-6-4-121- थलि च सेटि (3119)
(वार्तिकावतरणभाष्यम्)
थल्ग्रहणं किमर्थम् ?
(6594 थल्ग्रहणप्रयोजनवार्तिकम् ।। 1 ।।)
- थल्ग्रहणमक्ङिदर्थम् -
थल्ग्रहणं क्रियतेऽक्ङिदर्थम् । अक्ङिति एत्वं यथा स्यात् । पेचिथ । शेकिथ ।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् । सेड्ग्रहणमेवात्राक्ङिदर्थं भविष्यति ।।
(प्रयोजनान्तरदर्शकभाष्यम्)
इदं तर्हि प्रयोजनम्---समुच्चयो यथा स्यात् थलि च सेटि क्ङिति च सेटि---इति ।
किं प्रयोजनम् ?
पेचिव । पेचिम । तत्र पचादिभ्य इड्वचनम् इति वक्ष्यति तन्न वक्तव्यं भवति ।।
(अतिव्याप्त्यव्याप्तिदर्शनेनेष्टसाधकभाष्यम्)
इह कस्मान्न भवति---लुलविथ ?
गुणस्य नेति प्रतिषेधात् ।
इहापि तर्हि न प्राप्नोति---पेचिथ, शेकिथ ।
गुणस्य योऽकार इत्येवमेतद्विज्ञायते ।
एवमपि शशरिथ---अत्र प्राप्नोति ।
गुणस्यैषोऽकारः ।
कथम् ?
वृद्धिर्भवति गुणो भवति---इति रेफशिरा गुणवृद्धिसंज्ञको निर्वर्तते ।
अथवा---
आचार्यप्रवृत्तिर्ज्ञापयति नैवंजातीयकानामेत्त्वं भवतीति यदयं तॄफलभजत्रपश्च (6-4-122) इति तॄग्रहणं करोति ।।
-6-4-123- राधो हिंसायाम् (1321)
(6595 उपसंख्यानवार्तिकम् ।। 1 ।।)
- राधादिषु स्थानिनिर्देशः -
राधादिषु स्थानिनिर्देशः कर्तव्यः ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
न कर्तव्यः । एकहल्मध्ये इति वर्तते ।
यद्येवं त्रेसतुः त्रेसुः रशब्दस्यैत्वं प्राप्नोति ।
अस्तु ।
अलोऽन्त्यस्य विधयो भवन्तीति अकारस्य भविष्यति ।
अनर्थकेऽलोऽन्त्यविधिर्नेत्येवं न प्राप्नोति ।
नैतस्याः सन्ति परिभाषायाः प्रयोजनानि ।।
अथवा---
अत इति वर्तते ।
एवमपि राधेर्न प्राप्नोति ।
आकारग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
श्नाऽभ्यस्तयोरातः (6-4-112) इति ।।
अथवा---
श्नसोरल्लोपः (111) इत्यत्र तपरकरणं प्रत्याख्यायते तत्प्रकृतमिहानुवर्तिष्यते ।
यदि तदनुवर्तते अत एकहल्मध्ये नादेशादेर्लिटि (120) अस्य चेति अवर्णमात्रस्यैत्त्वं प्राप्नोति । बबाधे ।
अकारेण तपरेणाऽवर्णं विशेषयिष्यामः---अस्यात इति । इहेदानीमस्येत्यनुवर्तते, अत इति निवृत्तम् ।।
-6-4-127- अर्वणस्त्रसावनञ्ञः (3125)
-6-4-128- मघवा बहुलम् (3126)
(त्रादेशाधिकरणम्)
(सूत्रप्रत्याख्याने श्लोकवार्तिकम्)
अर्वणस्तृ मघोनश्च
न शिष्यश्छान्दसं हि तत् ।
अर्वणस्तृ मघोनश्च न शिष्यः ।
किं कारणम् ?
छान्दसं हि तत् । दृष्टानुविधिछन्दसि भवतीति ।।
(प्रत्याख्याने श्लोकवार्तिकम्)
मतुब्वन्योर्विधानाच्च
मतुब्वनी खल्वपि छन्दसि विधीयेते ।।
(प्रत्याख्याने श्लोकवार्तिकम्)
छन्दस्युभयदर्शनात् ।।
उभयं खल्वपि छन्दसि दृश्यते ।।
इमान्यर्वणः पदानि । अनर्वाणं वृषभं मन्द्रजिह्वम् ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् ।।
-6-4-130- पादः पत् (3128)
(पादेशाधिकरणम्)
(6596 उपसंख्यानवार्तिकम् ।। 1 ।।)
- पाद उपधाह्रस्वत्वम् -
पाद उपधाह्रस्वत्वं वक्तव्यम् । द्विपदः पश्य ।।
(6597 आदेशे दोषवार्तिकम् ।। 2 ।।)
- आदेशे हि सर्वादेशप्रसङ्गः -
आदेशे हि सति सर्वादेशः प्रसज्येत । सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्द आदेशः प्रसज्येत येन विधिस्तदन्तस्य (1-1-72) इति ।।
तत्तर्हि वक्तव्यम् ।
(6598 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।)
- न वा निर्दिश्यमानस्यादेशात् -
न वा वक्तव्यम् ।
किं कारणम् ?
निर्दिश्यमानस्यादेशा भवन्तीत्येषा परिभाषा कर्तव्या ।।
कः पुनरत्र विशेषः--एषा वा परिभाषा क्रियते, उपधाह्रस्वत्वं वोच्यते ।
अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि ।
कानि पुनस्तानि प्रयोजनानि ?
(6599 परिभाषाप्रयोजनवार्तिकम् ।। 4 ।।)
- प्रयोजनं सुप्तिङादेशेषु -
सुप्---कुमार्याम्, किशोर्याम्, खट्वायाम्, मालायाम्, तस्याम्, यस्याम् । आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।
इदमिह संप्रधार्यम्---आड्याट्स्याटः क्रियन्तामामिति, किमत्र कर्तव्यम् ?
परत्वादाम् ।
नित्या आड्याट्स्याटः । कृतेऽप्यामि प्राप्नुवन्त्यकृतेऽपि ।
अनित्या आड्याट्स्याटः ।
कथम् ?
अन्यस्य कृते आमि प्राप्नुवन्त्यन्यस्याकृते । शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । उभयोरनित्ययोः परत्वादाम् ।।
इदं तर्हि---यस्यै---तस्यै, स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।
यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ?
स्याटा व्यवहितत्वात् । सुप् ।।
तिङ्---अरुदिताम्, अरुदितम्, अरुदित---इति ।
इटि कृते सेट्कस्य तांतंतामादेशाः प्राप्नुवन्ति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।
इदमिह संप्रधार्यम्---इट् क्रियताम्, तांतंताम इति, किमत्र कर्तव्यम् ?
परत्वादिडागमः, अन्तरङ्गास्तांतन्तामः ।।
इदं तर्हि---क्रियास्ताम्, क्रियास्तम्, क्रियास्त, क्रियासम् । यासुटि कृते सयासुट्कस्य तांतन्तामः प्राप्नुवन्ति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवतीति ।।
(6600 परिभाषाप्रयोजनवार्तिकम् ।। 5 ।।)
- ल्यब्भावे च -
ल्यब्भावे च प्रयोजनम् । प्रकृत्य । प्रहृत्य । क्त्वान्तस्य ल्यप्प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।।
(प्रयोजनभाष्यम्)
त्रिचतुर्युष्मदस्मात्त्यदादिविकारेषु च प्रयोजनम् ।
अतितिस्रः, अतिचतस्रः । त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।।
युष्मद्---अस्मद्---अतियूयम्, अतिवयम् । युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।।
त्यदादिविकारः---अतिस्यः, उत्तमस्यः, अत्यसौ, उत्तमासौ । त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति ।
किमन्तस्य कादेशः प्राप्नोति । अतिकः, परमकः ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।।
(प्रयोजनभाष्यम्)
उदः स्थास्तम्भोः पूर्वत्वे प्रयोजनम् । उदस्थात्, उदस्थाताम् । अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः--- इति ।
निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।।
यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ?
अटा व्यवहितत्वात् ।।
सा तर्ह्येषा परिभाषा कर्तव्या ।
न कर्तव्या । उक्तं षष्ठी स्थानेयोगा (1-1-49) इत्येतस्य योगस्य वचने प्रयोजनम्---षष्ठ्यन्तं स्थानेन
यथा युज्यते, यतः षष्ठी उच्चारितेति ।।
-6-4-132- वाह ऊठ् (3130)
(संप्रसारणाधिकरणम्)
(ऊडः स्थाननिर्णयभाष्यम्)
ऊडादिः कस्मान्न भवति, आदिष्टिद्भवतीत्यादिः प्राप्नोति ?
संप्रसारणमित्यनेन यणः स्थाने क्रियते ।
यद्येवम्---
(6601 ऊडि्वधानानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- वाह ऊड्वचनार्थक्यं संप्रसारणेन कृतत्वात् -
वाह ऊड्वचनमनर्थकम् ।
किं कारणम् ?
संप्रसारणेन कृतत्वात् । संप्रसारणेनैव सिद्धम् ।
का रूपसिद्धिः ? प्रष्ठौहः पश्य ।।
(6602 संप्रसारणविधाने सिद्धसाधकवार्तिकम् ।। 2 ।।)
- गुणः प्रत्ययलक्षणत्वात् -
प्रत्ययलक्षणेन गुणो भविष्यति ।।
(6603 संप्रसारणे वृद्धिसाधकवार्तिकम् ।। 3 ।।)
- एज्ग्रहणा वृद्धिः -
एज्ग्रहणा वृद्धिर्भविष्यति ।।
(अन्तरङ्गपरिभाषाज्ञापकभाष्यम्)
एवं तर्हि सिद्धे सति यद्वाह ऊठं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा---असिद्धं
बहिरङ्गलक्षणमन्तरङ्गलक्षण इति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
पचावेदम् । पचामेदम् । असिद्धत्वात् बहिरङ्गलक्षणस्याद्गुणस्यान्तरङ्गलक्षणमैत्वं न भवति---इति ।।
-6-4-133- श्वयुवमघोनामतद्धिते (3131)
(6604 पूर्वपक्षिण उपसंख्यानवार्तिकम् ।। 1 ।।)
- श्वादीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थम् -
श्वादीनां संप्रसारणे नकारान्तग्रहणं कर्तव्यम् ।
किं कारणम् ?
अनकारान्तस्य मा भूत् । मघवता, मघवते ।।
तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति यथेह भवति---यूनः पश्येति, एवं युवतीः पश्येत्यत्रापि स्यादिति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
यत्तावदुच्यते---नकारान्तग्रहणं कर्तव्यमिति ।
न कर्तव्यम् ।।
(6605 आनर्थक्यसाधकवार्तिकम् ।। 2 ।।)
- उक्तं वा -
किमुक्तम् ?
उक्तमेतत् अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् । इति ।
यदप्युच्यते---तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति यथेह भवति यूनः पश्यति, एवं
युवतीः पश्येत्यत्रापि स्यात् इति ।
लिङ्गविशिष्टग्रहणे चोक्तम् ।
।न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।।
अथवा---
उपरिष्टाद्योगविभागः करिष्यते---श्वयुवमघोनामतद्धिते अल्लोपः, अकारस्य च लोपो भवति । ततः---अनः इत्युभयोः शेषः ।।
-6-4-135- षपूर्वहन्धृतराज्ञामणि (3133)
(लोपाधिकरणम्)
(षपूर्वादिग्रहणे पक्षद्वयोपस्थापकं भाष्यम्)
अथ किमिदं षपूर्वादीनां पुनर्वचनमल्लोपार्थमाहोस्विन्नियमार्थम् ।
कथं वा अल्लोपार्थम्, कथं वा नियमार्थम् ?
यद्यविशेषेणाल्लोपटिलोपयोः प्रकृतिभावस्ततो विध्यर्थम् ।
अथ हि अणि टिलोपस्यैव प्रकृतिभावस्ततो नियमार्थम् ।
अत उत्तरं पठति---
(6606 अल्लोपपक्षस्थापकवार्तिकम् ।। 1 ।।)
- षपूर्वादीनां पुनर्वचनमल्लोपार्थम् -
षपूर्वादीनां पुनर्वचनं क्रियते अल्लोपार्थम् । अविशेषेणाल्लोपटिलोपयोः प्रकृतिभावः ।।
(6607 नियमपक्षे दोषदर्शकं वार्तिकम् ।। 2 ।।)
- अवधारणे ह्यन्यत्र प्रकृतिभाव उपधालोपप्रसङ्गः -
अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत ।
कथम् ?
यदि तावदेवं नियमः स्यात्---षपूर्वादीनामेवाणीति ।
एवमपि भवेदिह नियमान्न स्यात्---सामनः वैमन इति । ताक्षण्य इत्यत्र प्राप्नोति ।
अथाप्येवं नियमः स्यात्---षपूर्वादीनामण्येवेति ।
एवमपि भवेदिह नियमान्न स्यात्---ताक्षण्य इति । सामनो वैमन इत्यत्र तु प्राप्नोति ।
अथाप्युभयतो नियमः स्यात्---षपूर्वादीनामेवाणि, अण्येव षपूर्वादीनामिति ।
एवमपि सामन्यो वेमन्य इति प्राप्नोति ।
तस्मात्सुष्ठूच्यते---षपूर्वादीनां पुनर्वचनमल्लोपार्थम् अवधारणे ह्यन्यत्र प्रकृतिभाव उपधालोपप्रसङ्गः इति ।।
-6-4-140- आतो धातोः (3138)
(6608 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आतोऽनापः -
आतोऽनाप इति वक्तव्यम् ।
इहापि यथा स्यात्---समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप् (7-1-37) इति ।।
अनाप इति किम् ?
खट्वायाम्, मालायाम् ।।
(वार्तिकावतरणभाष्यम्)
श्लो यद्यनाप इत्युच्यते कथं क्त्वायाम् ?
(6609 प्रयोगसाधकवार्तिकम् ।। 2 ।।)
- निपातनादिति -
निपातनादेतत्सिद्धम् ।
किं निपातनम् ?
ठ।क्त्वायां वा प्रतिषेधः। इति ।।
(वार्तिकप्रत्याख्यानभाष्यम्)
यद्येवं नार्थः अनापः इत्यनेन ।
कथम् ?
समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप् इति निपातनादेतत्सिद्धम् ।
कथं हलः श्नः शानज्झौ (3-1-83) इति ?
एतदपि निपातनात्सिद्धम् ।।
अथवा---
योगविभागः करिष्यते---आतः, आकारलोपो भवति । ततः---धातोः, धातोश्चाकारस्य लोपो भवतीति ।।
-6-4-141- मन्त्रेष्वाङ्यादेरात्मनः (3139)
(अतिव्याप्त्यापादकभाष्यम्)
मन्त्रेष्वात्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः ।
इहापि यथा स्यात्---त्मन्या समञ्जन् । त्मनोरन्तरस्थ इति ।।
(अतिव्याप्तिनिरासभाष्यम्)
यदि प्रत्ययमात्रे लोप उच्यते कथं आत्मन एव निर्मिमीष्व इति ?
तस्मान्नार्थः प्रत्ययमात्रलोपेन ।
कथं---त्मन्या समञ्जन्, त्मनोरन्तरस्थ इति ?
छान्दसत्वात्सिद्धम् । दृष्टानुविधिश्छन्दसि भवति ।।
(6610 सूत्रांशप्रत्याख्यानवार्तिकम् ।। 1 ।।)
- आदिग्रहणानर्थक्यमाकारप्रकरणात् -
आदिग्रहणं चानर्थकम् ।
किं कारणम् ?
आकारप्रकरणात् । आतः इति वर्तते ।।
<M.5.354>
-6-4-142- ति विंशतेर्डिति (3140)
(पदकृत्यभाष्यम्)
तिग्रहणं किमर्थम्, न विंशतेर्डिति लोप इत्येवोच्येत ?
नैवं शक्यम् । विंशतेर्डिति लोपः इतीयत्युच्यमानेऽन्त्यस्य प्रसज्येत ।।
(तिग्रहणाभावेऽपि नियमार्थत्वबोधकभाष्यम्)
सिद्धोऽन्त्यस्य यस्य--- इति लोपेनैव । तत्रारम्भसार्मथ्यात्तिशब्दस्य भविष्यति ।।
(तिग्रहणप्रयोजनभाष्यम्)
कुतो नु खल्वेतत्---अनन्त्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनरङ्गस्येति ?
तस्मात्तिग्रहणं कर्तव्यम् ।।
अथ क्रियमाणेऽपि तिग्रहणेऽन्त्यस्य कस्मान्न भवति ?
निर्दिश्यमानस्यादेशा भवन्तीति न भविष्यति ।।
-6-4-143- टेः (3141)
(अभस्यापि टिलोपसाधकभाष्यम्)
अभस्योपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् उपसरजः, मन्दुरज इति ।
डित्यभस्याप्यनुबन्धकरणसार्मथ्याद्भविष्यति ।।
-6-4-144- नस्तद्धिते (3142)
(6611 उपसंख्यानवार्तिकम् ।। 1 ।।)
- नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् -
नकारान्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन्कलापिन्कुथुमिन्तैतिलिन्जाजलिन्लाङ्गलिन्शिलालिन्शिखण्डिन्सूकरसद्मन्सुपर्वन्---इत्येतेषामुपसंख्यानं कर्तव्यम् ।
सब्रह्मचारिन्---सब्रह्मचारिण इमे---साब्रह्मचाराः । सब्रह्मचारिन् ।।
पीठसर्पिन्---पैठसर्पाः । पीठसर्पिन् ।।
कलापिन्---कालापाः । कलापिन् ।।
कुथुमिन्---कौथुमाः । कुथुमिन् ।।
तैतिलिन्---तैतिलाः । तैतिलिन् ।।
जाजलिन्---जाजलाः । जाजलिन् ।।
लाङ्गलिन्---लाङ्गलाः । लाङ्गलिन् ।।
शिलालिन्---शैलालाः । शिलालिन् ।।
शिखण्डिन्---शौखण्डाः । शिखण्डिन् ।।
सूकरसद्मन्---सौकरसद्माः । सूकरसद्मन् ।।
सुपर्वन्---सौपर्वाः । सुपर्वन् ।।
<M.5.355>
(उपसंख्यानभाष्यम्)
चर्मणः कोश उपसंख्यानं कर्तव्यम् । चार्मः कोशः ।।
(उपसंख्यानभाष्यम्)
अश्मनो विकार उपसंख्यानं कर्तव्यम् । अश्मनो विकार आश्मः ।।
शुनः संकोचे । शौवः सङ्कोचः ।।
(6612 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अव्ययानां च सायम्प्रातिकाद्यर्थम् -
अव्ययानां च सायम्प्रातिकाद्यर्थमुपसंख्यानं कर्तव्यम् ।
किं प्रयोजनम् ?
सायम्प्रातिकाद्यर्थम् ।
सायम्प्रातिकः, पौनः पुनिकः ।।
(अतिप्रसक्तिनिरासभाष्यम्)
शांश्वतिके प्रतिषेधो वक्तव्यः ।
न वक्तव्यः । निपातनादेतत्सिद्धम् ।
किं निपातनम् ?
येषां च विरोधः शाश्वतिकः (2-4-9) इति ।
एवं तर्हि---शाश्वते प्रतिषेधो वक्तव्यः । शाश्वतम् ।।
-6-4-148- यस्येति च (3146)
(सूत्रप्रयोजनभाष्यम्)
इवर्णस्य-इर्ति किमुदाहरणम् ?
हे दाक्षि, दाक्ष्या, दाक्षेयः ।
हे दाक्षि--इर्ति---यदि लोपो न स्यात्परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वं प्रसज्येत ।
दाक्ष्या इति---यदि लोपो न स्यात्परस्य यणादेशे कृते पूर्वस्य श्रवणं प्रसज्येत ।
दाक्षेय इति---यदि लोपो न स्यात्परस्य लोपे कृते पूर्वस्य श्रवणं प्रसज्येत ।।
(प्रयोजननिराकरणभाष्यम्)
नैतानि सन्ति प्रयोजनानि । सवर्णदीर्घत्वेनाप्येतानि सिद्धानि ।।
(प्रयोजनभाष्यम्)
इदं तर्हि---अतिसखेरागच्छति, अतिसखेः स्वम् ।
यदि लोपो न स्यादुपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।।
(6613 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- यस्येत्यादौ श्यां प्रतिषेधः -
यस्येत्यादौ श्यां प्रतिषेधो वक्तव्यः । काण्डे, कुड्ये, सौर्ये नाम हिमवतः शृङ्गे ।
स तर्हि प्रतिषेधो वक्तव्यः ।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
न वक्तव्यः ।
इह श्यामित्यपि प्रकृतं नेत्यपि । तत्राभिसम्बन्धमात्रं कर्तव्यम्---यस्येत्यादौ लोपो भवति, श्यां न ।।
(6614 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 2 ।।)
- इयङुवङ्भ्यां लोपो विप्रतिषेधेन -
इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । इयङुवङोरवकाशः---श्रियौ, श्रियः । भ्रुवौ, भ्रुवः ।
लोपस्यावकाशः---कामण्डलेयः, भाद्रवाहेयः ।
इहोभयं प्राप्नोति---वात्सप्रेयः, लैखाभ्रेयः ।
लोपो भवति विप्रतिषेधेन ।।
(6615 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।)
- गुणवृद्धी च -
गुणवृद्धी चेयङुवङ्भ्यां भवतो विप्रतिषेधेन ।
गुणवृद्ध्योरवकाशः---चेता, गौः ।
इयङुवङोः स एव ।
इहोभयं प्राप्नोति---चयनम्, चायकः । लवनम्, लावकः ।
गुणवृद्धी भवतो विप्रतिषेधेन ।।
(6616 विप्रतिषेधप्रत्याख्यानवार्तिकम् ।। 4 ।।)
- न वेयङुवङादेशस्यान्यविषयवचनात् -
न वाऽर्थो विप्रतिषेधेन ।।
किं कारणम् ?
इयङुवङादेशस्यान्यविषये वचनात् । इयङुवङादेशोऽन्यविषये आरभ्यते ।
किं विषये ?
यणादेशविषये । स यथैव यणादेशं बाधते, एवं गुणवृद्धी अपि बाधेत ।।
(6617 प्रतिषेधोपसंख्यानवार्तिकम् ।। 5 ।।)
- तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः -
तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधो वक्तव्यः ।
(प्रतिषेधानर्थक्यबोधकभाष्यम्)
न वक्तव्यः ।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमियङुवङादेशो यणादेशं बाधिष्यते, गुणवृद्धी न बाधिष्यते ।।
-6-4-149- सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (3147)
(6618 आक्षेपवार्तिकम् ।। 1 ।।)
- सूर्यादीनामणन्तेऽप्रसिद्धिरङ्गान्यत्वात् -
सूर्यादीनामणन्तेऽप्रसिद्धिः । सौरी बलाका ।
किं कारणम् ?
अङ्गान्यत्वात् । अणन्तमेतदङ्गमन्यद्भवति ।।
लोपे कृते नाङ्गान्यत्वम् ।
स्थानिवद्भावादङ्गान्यत्वं भवति ।।
(6619 समाधानवार्तिकम् ।। 2 ।।)
- सिद्धं तु स्थानिवत्प्रतिषेधात् -
सिद्धमेतत् ।
कथम् ?
स्थानिवत्प्रतिषेधात् । प्रतिषिध्यतेऽत्र स्थानिवद्भावः---यलोपविधिं प्रति न स्थानिवद्भवतीति ।
एवमपि न सिध्यति ।
किं कारणम् ?
अङ्गान्यत्वात् । अन्यो हि सूर्यशब्दः, अन्यः सौर्यशब्दः ।
नैष दोषः । एकदेशविकृतमनन्यवद्भवतीत्येवं भविष्यति ।।
(6620 प्रत्याक्षेपवार्तिकम् ।। 3 ।।)
- उपधाग्रहणानर्थक्यं च -
स्थानिवद्भावे चेदानीं प्रतिषिद्धे उपधाग्रहणमनर्थकम् ।
किं कारणम् ?
अन्त्य एव हि सूर्यादीनां यकारः ।
किं यातमेतद्भवति ?
सुष्ठु यातम्, साधु च यातम्, यदि प्राग्भादसिद्धत्वम् । अथ सह तेनासिद्धत्वम्, असिद्धत्वाल्लोपस्यानन्त्यो यकारो भवति ।।
(समाधानभाष्यम्)
यद्यपि सह तेनासिद्धत्वम्, एवमपि न दोषः ।
नैवं विज्ञायते---सूर्यादीनामङ्गानां यकारलोप इति ।
कथं तर्हि ?
अङ्गस्य यलोपो भवति स चेत्सूर्यादीनां यकार इति ।
एवमपि सूर्यचरी अत्र प्राप्नोति ।
तस्मादुपधाग्रहणं कर्तव्यम् ।।
(6621 परिगणनोपसंख्यानवार्तिकम् ।। 4 ।।)
- विषयपरिगणनं च -
विषयपरिगणनं च कर्तव्यम् ।।
(6622 परिगणनवार्तिकम् ।। 5 ।।)
- सूर्यमत्स्ययोर्ङ्याम् -
सूर्यमत्स्ययोर्ङ्यामिति वक्तव्यम् । सौरी, मत्सी ।।
(6623 परिगणनवार्तिकम् ।। 6 ।।)
- सूर्यागस्त्ययोश्छे च -
सूर्यागस्त्ययोश्छे च ङ्यां चेति वक्तव्यम् । सौरी, सौरीयः । आगस्ती, आगस्तीयः ।।
(6624 परिगणनवार्तिकम् ।। 7 ।।)
- तिष्यपुष्ययोर्नक्षत्राणि -
तिष्यपुष्ययोर्नक्षत्राणि यलोपो वक्तव्यः । तैषम्, पौषः ।।
(6625 उपसंख्यानवार्तिकम् ।। 8 ।।)
- अन्तिकस्य तसि कादिलोप आद्युदात्तत्वं च -
अन्तिकस्य तसि कादिलोपो वक्तव्यः, आद्युदात्तत्वं च वक्तव्यम् । अन्तितो न दूरात् ।।
(उपसंख्यानभाष्यम्)
तमे तादेश्च कादेश्च लोपो वक्तव्यः । अग्ने त्वं नो अन्तमः । अन्तितमे अवरोहति ।।
(उपसंख्याने श्लोकवार्तिकम्)
तसीत्येष न वक्तव्यो
दृष्टो दाशतयेऽपि हि ।
द्यौ लोपोऽन्तिषदित्यत्र
अन्तिषत् ।।
(उपसंख्याने श्लोकवार्तिकम्)
तथाऽद्यौ येऽन्त्यथर्वसु ।। 1 ।।
अन्ति ये च दूरके ।।
-6-4-153- बिल्वकादिभ्यश्छस्य लुक् (3151)
(छग्रहणप्रत्याख्यानभाष्यम्)
छग्रहणं शक्यमकर्तुम् ।
इह कस्मान्न भवति---बिल्वकेभ्यः ?
भस्येति वर्तते ।।
एवमपि बिल्वकायेत्यत्र प्राप्नोति ।
तद्धितस्येति वर्तते ।।
एवमपि बिल्वकस्य विकारः---अवयवो वा---बैल्वकः, अत्र प्राप्नोति ।
तद्धिते तद्धितस्य इति वर्तते ।।
एवमपि बिल्वकीयायां भवो बैल्वकः, बैल्वकस्य किञ्ञ्चित्---बैल्वकीयम्, अत्र प्राप्नोति ।
न स बिल्वकात् ।
बिल्वकादिभ्यो यो विहित इत्युच्यते, न चासौ बिल्वकशब्दाद्विहितः ।
किं तर्हि ?
बिल्वकीयशब्दात् ।।
(ज्ञापनेन छग्रहणप्रयोजनसाधकभाष्यम्)
एवं तर्हि सिद्धे सति यच्छग्रहणं करोति तज्ज्ञापयत्याचार्यः---भवत्येषा परिभाषा सन्नियोगशिष्टानामन्यतराभावे उभयोरप्यभाव इति । तस्माच्छग्रहणं कर्तव्यम्, छस्यैव लुग्यथा स्यात् कुको मा भूदिति ।।
-6-4-154- तुरिष्ठेमेयः सु (3151)
(वार्तिकावतरणभाष्यम्)
तुः सर्वस्य लोपो वक्तव्यः, अन्त्यस्य मा भूदिति ।
स तर्हि वक्तव्यः ?
न वक्तव्यः ।।
(6626 उपसंख्यानसाधकवार्तिकम् ।। 1 ।।)
- सर्वलोपविज्ञानमन्त्यस्य वचनानर्थक्यात् -
तुः सर्वलोपो विज्ञायते ।
कुतः ?
अन्त्यस्य वचनानर्थक्यात् । अन्त्यस्य लोपवचने प्रयोजनं नास्तीति कृत्वा सर्वस्य भविष्यति ।।
अथवा---
लुक् प्रकृतः सोऽनुवर्तिष्यते ।।
अशक्यो लुगनुवर्तयितुम् ।
किं कारणम् ?
विजयिष्ठकरिष्ठयोर्गुणदर्शनात् । विजयिष्ठकरिष्ठयोर्गुणो दृश्यते । विजयिष्ठः । आसुतिङ्करिष्ठः ।।
-6-4-155- टेः (3153)
(6627 उपसंख्यानवार्तिकम् ।। 1 ।।)
- णाविष्ठवत्प्रातिपदिकस्य -
णौ प्रातिपदिकस्येष्ठवद्भावो वक्तव्यः ।
किं प्रयोजनम् ?
(6628 उपसंख्यानप्रयोजनवार्तिकम् ।। 2 ।।)
- पुंवद्भावरभावटिलोपयणादिपरार्थम् -
पुंवद्भावार्थम्---एनीमाचष्टे---एतयति, श्येतयति ।
रभावार्थम्---पृथुमाचष्टे---प्रथयति, म्रदयति ।
टिलोपः---पटुमाचष्टे---पटयति ।
यणादिपरार्थम्---दूरमाचष्टे---दवयति ।
किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम् ?
उदारणमात्रमित्याह । प्रादयोऽपि हीष्यन्तेप्रियमाचष्टे प्रापयति---इति ।।
(मतान्तरप्रदर्शकभाष्यम्)
भारद्वाजीयाः पठन्ति---णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति ।।
-6-4-159- इष्ठस्य यिट् च (3157)
(यिशब्दे प्रकारद्वयदर्शकं भाष्यम्)
किमयं यिशब्द आहोस्विद्याकारः ?
किञ्ञ्चातः ?
यदिलोपोऽप्यनुवर्तते, ततो यिशब्दः । अथ निवृत्तं, ततो यकारः ।।
-6-4-160- ज्यादादीयसः (3158)
(लोपानुवर्तनाभावेन परिभाषाज्ञापकभाष्यम्)
किमर्थं ज्यात्परस्येयस आत्वमुच्यते, न लोपः प्रकृतः सोऽनुवर्तते ?
का रूपसिद्धिः ?
ज्यायान् । अकृद्यकार इति दीर्घत्वं भविष्यति ।
एवं तर्हि सिद्धे सति यत् ज्यात्परस्येयस आत्वं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा---अङ्गवृत्ते पुनर्वृत्तावविधिरिति ।।
(ज्ञापकफलभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम् ?
पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ।।
(आत्वकरणेन परिभाषाज्ञापकभाष्यम्)
अथ किमर्थं ज्यात्परस्येयसो दीर्घ उच्यते, न अकार एवोच्येत ?
का रूपसिद्धिः ?
ज्यायान् । आन्तर्यतो दीर्घस्य दीर्घो भविष्यति ।
एवं तर्हि सिद्धे सति यद्दीर्घग्रहणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा---भाव्यमानेन सवर्णानां ग्रहणं नेति ।।
-6-4-161- र ऋतो हलादेर्लघोः (3159)
(अन्वयजिज्ञासाभाष्यम्)
कथमिदं विज्ञायते---हलादेरङ्गस्येति, आहोस्विद्धलादेर्ऋकारस्येति ?
युक्तं पुनरिदं विचारयितुम् ।।
(अङ्गविशेषणपक्षोपस्थापकभाष्यम्)
नन्वनेनासन्दिग्धेनाङ्गविशेषणेन भवितव्यम् ।
कथं ऋकारस्य नाम हल् आदिः स्यात्---अन्यस्यान्यः ?
(पक्षद्वयसम्भवानासमर्थकभाष्यम्)
अयमादिशब्दोऽस्त्येवावयववाची । तद्यथा---ऋगादिः, अर्धर्चादिः, श्लोकादिरिति ।
अस्ति सामीप्ये वर्तते । तद्यथा---दधिभोजनमर्थसिद्धेरादिः, दधिभोजनसमीपे ।
घृतभोजनमारोग्यस्यादिः, घृतभोजनसमीपे । यावता सामीप्येऽपि वर्तते जायते विचारणा हल्समीपस्य ऋकारस्य---इति, अथवा हलादेरङ्गस्येति ।।
(पक्षद्वयेऽपि दोषप्रदर्शकं भाष्यम्)
किञ्ञ्चातः ?
यदि विज्ञायते---हलादेरङ्गस्येति, अप्रथीयान्---अम्रदीयान्---अत्र न प्राप्नोति ।
अथ विज्ञायते---हलादेर्ऋकारस्येति, अनृचीयान्---अत्रापि प्राप्नोति ।
उभयथा स्वृचीयानित्यत्र प्राप्नोति । यथेच्छसि तथाऽस्तु ।।
(अङ्गविशेषणपक्षे दोषवारकभाष्यम्)
अस्तु तावत्---हलादेरङ्गस्येति ।
कथमप्रथीयान्---इति ?
तद्धितान्तेन समासो भविष्यति । न प्रथीयान् अप्रथीयानिति ।
भवेत्सिद्धं यदा तद्धितान्तेन समासः ।
यदा तु खलु समासात्तद्धितोत्पत्तिस्तदा न सिध्यति ।
न वै समासात्तद्धितोत्पत्त्या भवितव्यम् ।
किं कारणम् ?
बहुव्रीहिणोक्तार्थत्वान्मत्वर्थस्य ।।
(अङ्गविशेषणपक्षे दोषभाष्यम्)
भवेद्यदा बहुव्रीहिस्तदा न स्यात् ।
यदा तु खलु तत्पुरुषस्तदा प्राप्नोति---न पृथुः---अपृथुः । अयमपृथुः, अयमप्यपृथुः, अयमनयोरतिशयेनापृथुः---अप्रथीयानिति ।
(दोषवारकभाष्यम्)
न समासादजादिभ्यां भवितव्यम् ।
किं कारणम् ?
गुणवचनादित्युच्यते, न च समासो गुणवचन इति ।।
(प्रकारान्तरप्राप्तदोषवारकभाष्यम्)
यदा तर्हि समासाद्विन्मतुपौ, विन्मतुबन्तादजादी तदा प्राप्नुतः । अविद्यमानाः पृथवोऽपृथवः, अपृथवोऽस्य सन्ति---अपृथुमान् । अयमपृथुमान्, अयमप्यपृथुमान् । अयमनयोरतिशयेनापृथुमान्---अप्रथीयानिति ।
नैष दोषः । अपृथव एव न सन्ति, कुतो यस्यापृथव इति ।।
(सिद्धान्तपक्षस्थापकभाष्यम्)
इह कस्मान्न भवति---मातयति, भ्रातयति ।
लोपोऽत्र बाधको भविष्यति ।
इदमिह सम्प्रधार्यम्---लोपः क्रियतां रभाव इति, किमत्र कर्तव्यम् ?
परत्वाद्रभावः ।।
यदि पुनरवशिष्टस्य रभाव उच्यते ।
नैवं शक्यम्, इहापि प्रसज्येत---कृतमाचष्टे कृतयति ।
एवं तर्हि परिगणनं क्रियते---
पृथुमृदुभृशकृशदृढपरि-
वृढानामिति वक्तव्यम् ।।
-6-4-163- प्रकृत्यैकाच् (3161)
(प्रकृतिभावाधिकरणम्)
(विषयनिर्धारणोपक्रमभाष्यम्)
प्रकृत्यैकाजिति किमिष्ठेमयस्सु, आहोस्विदविशेषेण ?
किञ्ञ्चातः ?
(अविशेषेण इति पक्षे दोषवारकभाष्यम्)
यद्यविशेषेण; स्वी, खी, शौवम्, अधुना---अत्रापि प्राप्नोति ।
स्विखिनावेन न स्तः ।
कथम् ?
उक्तमेतत्---
एकाक्षरात्कृतो जातेः
सप्तम्यां च न तौ स्मृतौ ।
स्ववान्, खवानित्येव भवितव्यम् ।
शौवमिति, परत्वादैजागमे कृते टिलोपेन भवितव्यम् ।
अधुना---इति, सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनं क्रियते ।।
(विषयविशेषनिगमकं भाष्यम्)
इह तर्हि प्राप्नोति---द्रव्यम् ।
यस्य--- इत्यादौ प्रकृतिभावः । यस्य--- इति यस्य लोपप्राप्तिस्तस्य प्रकृतिभावः, न चैतानि यस्य--- इत्यादौ ।।
(इष्ठेमेयः सु प्रकृतिभावस्थापकभाष्यम्)
एवमपि श्रियै हितः---श्रीयः, ज्ञा देवताऽस्य स्थालीपाकस्य---ज्ञः स्थालीपाक इत्यत्र प्राप्नोति । तस्मादिष्ठेमेयस्सु प्रकृतिभावः ।।
(वार्तिकावतरणे उदारहणदर्शकभाष्यम्)
अथेष्ठेमेयस्सु प्रकृतिभावे किमुदाहरणम् ?
प्रेयान्, प्रेष्ठः ।
नैतदस्ति । प्रादीनामसिद्धत्वान्न भविष्यति ।
इदं तर्हि---श्रेयान्, श्रेष्ठः ।।
(6629 इष्ठेमेयः सु प्रकृतिभावाक्षेपवार्तिकम् ।। 1 ।।)
- प्रकृत्यैकाजिष्ठेमेयस्सु चेदेकाच उच्चारणसार्मथ्यादवचनात्प्रकृतिभावः -
प्रकृत्यैकाजिष्ठेमेयः सु चेत्तन्न ।
किं कारणम् ?
एकाच उच्चारणसामर्थादन्तरेणापि वचनं प्रकृतिभावो भविष्यति ।।
(प्रकृतिभावप्रयोजनभाष्यम्)
विन्मतोस्तु लुगर्थं प्रकृतिभावो वक्तव्यः । स्रग्वितरः---स्रजीयान् । स्रग्वितमः---स्रजिष्ठः । स्रग्वत्तरः---स्रुचीयान् । स्रग्वत्तमः---स्रुचिष्ठः ।।
(प्रयोजनाक्षेपभाष्यम्)
ननु च विन्मतोर्लुक् टिलोपं बाधिष्यते ।।
(प्रत्याक्षेपभाष्यम्)
कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ?
असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात् ।
यथैव खल्वपि विन्मतोर्लुक् टिलोपं बाधते, एवं नस्तद्धिते (144) इत्येतमपि बाधेत । यतरो नौ ब्रह्मीयान्---ब्रह्मवत्तर इति ।।
(आक्षेपप्रत्याक्षेपयोः समाधानभाष्यम्)
यत्तावदुच्यते---कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात्---इति ।
इदं तावदयं प्रष्टव्यः---यदि तर्हि विन्मतोर्लुङ्नोच्येत किमिह स्यात्---इति ।
टिलोप इत्याह ।
टिलोपश्चेत्, नाप्राप्ते टिलोपे विन्मतोर्लुगारभ्यते स बाधको भविष्यति ।।
यदप्युच्यते---असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्---इति ।
सत्यपि सम्भवे बाधनं भवति । तद्यथा---ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय---इति सत्यपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि सम्भवे विन्मतोर्लुक् टिलोपं बाधिष्यते ।
यदप्युच्यते---यथैव खल्वपि विन्मतोर्लुक्टिलोपं बाधते, एवं नस्तद्धिते इत्येतमपि बाधेत ।
न बाधते ।
किं कारणम् ?
येन नाप्राप्ते तस्य बाधनम् । नाप्राप्ते टिलोपे विन्मतोर्लुगारभ्यते, नस्तद्धिते इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च ।।
अथवा---
पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते-इत्येवं विन्मतोर्लुक् टिलोपं बाधिष्यते, नस्तद्धिते इत्येतन्न बाधिष्यते ।।
(आक्षेपसमाधानभाष्यम्)
यदि तर्हि विन्मतोर्लुक् टिलोपं बाधते, पयिष्ठ इति न सिध्यति; पयसिष्ट इति प्राप्नोति ।
यथालक्षणमप्रयुक्ते---इति ।।
(6630 उपसंख्यानवार्तिकम् ।। 2 ।।)
- प्रकृत्याऽके राजन्यमनुष्ययुवानः -
राजन्यमनुष्ययुवानोऽके प्रकृत्या भवन्तीति वक्तव्यम् । राजन्यकम्, मानुष्यकम्, यौवनिका ।।
-6-4-170- न मपूर्वोपत्येऽवर्मणः (3168)
(विकल्पोपसंख्यानभाष्यम्)
मपूर्वात्प्रतिषेधे वा हितनाम्न इति वक्तव्यम् । हैतनामः, हैतनामनः । आरोहितो वै हैतनामः । आरोहितो वै हैतनामनः । समानो हैतनामः । समानो हैतनामन इति ।।
-6-4-171- ब्राह्मोऽजातौ (3169)
(सूत्रे पक्षद्वयोपस्थापकं भाष्यम्)
अथ किमिदं ब्राह्मस्याजातावनो लोपार्थं वचनमाहोस्विन्नियमार्थम् ?
कथं वाऽनो लोपार्थं स्यात्कथं च नियमार्थम् ?
यदि तावत् अपत्ये इति वर्तते ततो नियमार्थम् ।
अथ निवृत्तं ततो लोपार्थम् ।
(वार्तिकावतरणभाष्यम्)
अत उत्तरं पठति---
ब्राह्मस्याजातौ लोपार्थं वचनं क्रियते । अपत्ये इति निवृत्तम् ।।
(6631 विधावुपसंख्यानवार्तिकम् ।। 1 ।।)
- तत्राप्राप्तविधाने प्राप्तप्रतिषेधः -
तत्राप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधो वक्तव्यः । ब्राह्मणः ।।
(6632 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- न वा पर्युदाससार्मथ्यात् -
न वा वक्तव्यः ।
किं कारणम् ?
पर्युदाससार्मथ्यात्, पर्युदासोऽत्र भविष्यति ।।
(आक्षेपभाष्यम्)
अस्त्यन्यत्पर्युदासे प्रयोजनम् ।
किम् ?
या जातिश्च नापत्यम्---ब्राह्मी ओषधिरिति ।।
(प्रत्याक्षेपभाष्यम्)
न वै अत्रेष्यते ।
अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ।।
(समाधानभाष्यम्)
एवं तर्ह्यनुवर्तते अपत्ये इति । नात्र अपत्ये इत्यनेन निपातनमभिसम्बध्यते---ब्राह्म इति निपात्यते अपत्येऽजाताविति ।
किं तर्हि ?
प्रतिषेधोऽभिसम्बध्यते---ब्राह्म इति निपात्यते, अपत्ये जातौ नेति ।।
-6-4-172- कार्मस्ताच्छील्ये (3170)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न नस्तद्धिते (144) इत्येव सिद्धम् ?
न सिध्यति । अन् अणीति प्रकृतिभावः प्रसज्येत ।।
(ज्ञापनेन समाधानभाष्यम्)
अणीत्युच्यते, णश्चायम् ।
एवं तर्हि सिद्धे सति यन्निपातनं करोति तज्ज्ञापयत्याचार्यः---ताच्छीलिकेऽण्कृतानि भवन्ति---इति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
चौरी, तापसी---इति अणन्तादितीकारः सिद्धो भवति ।।
-6-4-174- दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि (3172) (वार्तिकावतरणभाष्यम्)
अत्र भ्रौणहत्येति किं निपात्यते ?
यकारादौ तद्धिते तत्वं निपात्यते ।।
(6633 निपातनानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- भ्रौणहत्ये तत्वनिपातनानर्थक्यं सामान्येन कृतत्वात् -
भ्रौणहत्ये तत्वनिपातनमनर्थकम् ।
किं कारणम् ?
सामान्येन कृतत्वात् । सामान्येनैवात्र तत्वं भविष्यति---हनस्तोऽचिण्णलोः (7-3-32) इति ।।
(6634 ज्ञापनेन निपातनसार्थक्यबोधकवार्तिकम् ।। 2 ।।)
- ज्ञापकं तु तद्धिते तत्वप्रतिषेधस्य -
एवं तर्हि ज्ञापयत्याचार्यः---तद्धिते तत्वं न भवतीति ।।
किमेतस्य ज्ञापने प्रयोजनम् ?
भ्रौणघ्नो वार्त्रघ्न इत्यत्र तत्वं न भवति ।।
(6635 उपसंख्यानवार्तिकम् ।। 3 ।।)
- ऐक्ष्वाकस्य स्वरभेदान्निपातनं पृथक्त्वेन -
ऐक्ष्वाकस्य स्वरभेदान्निपातनं पृथक्त्वेन कर्तव्यम् । ऐक्ष्वाकः, ऐक्ष्वाकः ।।
(उपसंख्यानसाधकभाष्यम्)
एकश्रुतिनिर्देशात्सिद्धम् ।
एकश्रुतिः---स्वरसर्वनाम, यथा नपुंसकं लिङ्गसर्वनाम ।।
(वार्तिकावतरणभाष्यम्)
अथ मैत्रेये किं निपात्यते ।।
(6636 मैत्रेयनिपातनबोधकवार्तिकम् ।। 4 ।।)
- मैत्रेय यादिलोपनिपातनम् -
मैत्रेये ढञ्ञि यादिलोपो निपात्यते ।।
(मित्रयुशब्दस्य चतुर्ग्रहणाक्षेपभाष्यम्)
इदं मित्रयुशब्दस्य चतुर्ग्रहणं क्रियते---गृष्ट्यादिषु प्रत्ययविध्यर्थं पाठः क्रियते, द्वितीयेऽध्याये---यस्कादिषु लुगर्थं क्रियते, सप्तमेऽध्याये---इयादेशार्थम्, इदं चतुर्थं---यादिलोपार्थम् ।
द्विर्ग्रहणं शक्यमकर्तुम् । बिदादिष्विञ्ञि प्रत्ययविध्यर्थं पाठः कर्तव्यः । तत्र नैवार्थो लुका नापि यादिलोपेन । इयादेशेनैव सिद्धम् ।।
(समाधानभाष्यम्)
नैवं शक्यम् । इह हि---मैत्रेयकः सङ्घ इति सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4-3-127) इत्यण् प्रसज्येत ।।
(वार्तिकावतरणभाष्यम्)
हिरण्मये किं निपात्यते ?
(6637 निपातनबोधकवार्तिकम् ।। 5 ।।)
- हिरण्मये यलोपवचनम् -
हिरण्मये यलोपो निपात्यते । हिरण्मयं कलशं बिभर्षि ।।
(वार्तिकावतरणभाष्यम्)
अथ हिरण्यये किं निपात्यते ?
(6638 निपातनबोधकवार्तिकम् ।। 6 ।।)
- हिरण्यये छन्दसि मलोपवचनात्सिद्धम् -
हिरण्यये छन्दसि मलोपो निपात्यते । हिरण्ययी नौरभवत् । हिरण्ययाः पन्थान आसन् । हिरण्ययमासनम् ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् ।।
-9-9-999-