महाभाष्यम्/षष्ठोऽध्यायः/प्रथमः पादः

-6-1-1- एकाचो द्वे प्रथमस्य (2438)
(द्वित्वाधिकरणम्)
(एकाच्पदार्थबोधकवार्तिकावतरणभाष्यम्)
एकाच इति किमयं बहुव्रीहिः --- एकोऽच् यस्मिन् स एकाच् --- एकाचः --- इति,
आहोस्वित् तत्पुरुषोऽयं समानाधिकरणः --- एकोऽच् --- एकाच् --- एकाच इति ?
किं चातः ?
यदि बहुव्रीहिः, सिद्धम् --- पपाच, पपाठ । इयाय, आर --- इति न सिद्ध्यति ।
अथ तत्पुरुषः समानाधिकरणः, सिद्धम् --- इयाय, आर --- इति । पपाच, पपाठ --- इति न सिद्ध्यति ।।
अत उत्तरं पठति ---
(5947 एकाच्पदार्थबोधकवार्तिकम् ।। 1 ।।)
- एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशः -
एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशोऽयम् ।।
एकवर्णेषु च कथम् ?
(5948 अनुपपत्तिपरिहारकवार्तिकम् ।। 2 ।।)
- एकवर्णेषु च व्यपदेशिवद्वचनात् -
व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम् । एवमेकवर्णेषु द्विर्वचनं भविष्यति ।।
(अधिकारत्वनिर्णायकभाष्यम्)
एकाचो द्वे भवत इत्युच्यते, तत्र न ज्ञायते --- कस्यैकाचो द्वे भवत इति ।
वक्ष्यति लिटि धातोरनभ्यासस्य (6-1-8) इति, तेन धातोरेकाच इति विज्ञायते ।
यदि धातोरेकाच इति, सिद्धम् --- पपाच, पपाठ । जजागार, पुपुत्रीयिषति --- इति न सिध्यति ।
धातोरिति नैषैकाच्समानाधिकरणा षष्ठी --- धातोरेकाच इति ।
किं तर्हि ?
अवयवयोगैषा षष्ठी --- धातोर्य एकाजवयव इति ।।
अवयवयोगैषा षष्ठी चेत्सिद्धम् --- जजागार --- पुपुत्रीयिषतीति । पपाच --- पपाठेति न सिध्यति ।
एषोऽपि व्यपदेशिवद्भावेन धातोरेकाजवयव इति भविष्यति ।।
(प्रथमाक्षेपभाष्यम्)
एकाचो द्वे प्रथमस्येत्युच्यते तेन यत्रैव प्रथमश्चाप्रथमश्चास्ति तत्र द्विर्वचनं स्यात् --- जजागार, पुपुत्रीयिष्यतीति ।
पपाच --- पपाठेत्यत्र न स्यात् ।।
(5949 समाधानवार्तिकम् ।। 3 ।।)
- प्रथमत्वे च -
प्रथमत्वे च ।
किम् ?
व्यपदेशिवद्भावात्सिद्धमित्येव ।।
स तर्हि व्यपदेशिवद्भावो वक्तव्यः ।
        न वक्तव्यः ।।
(5950 समाधानसाधकवार्तिकम् ।। 4 ।।)
- उक्तं वा -
किमुक्तम् ?
तत्र व्यपदेशिवद्वचनम् एकाचो द्वे प्रथमार्थम् षत्वे चादेशसंप्रत्ययार्थम् ।
नैषः दोषः ।
अवचनाल्लोकविज्ञानात्सिद्धम् इत्येव ।।
(5951 समाधानसाधकान्तरवार्तिकम् ।। 5 ।।)
- योगविभागो वा -
अथवा योगविभागः करिष्यते --- एकाचो द्वे भवतः ।।
किमर्थो योगविभागः ?
(5952 साधकान्तरसमर्थकवार्तिकम् ।। 6 ।।)
- एकाज्मात्रस्य द्विर्वचनार्थः -
एकाज्मात्रस्य द्विर्वचनं यथा स्यात् । इयायं, पपाच ।
ततः ---
प्रथमस्य ।
प्रथमस्यैकाचो द्वे भवतः ।
इदमिदानीं किमर्थम् ?
नियमार्थम् । यत्र प्रथमश्चाप्रथमश्चास्ति तत्र प्रथमस्यैकाचो द्विर्वचनं यथा स्यात्, अप्रथमस्य मा भूदिति । जजागार --- पुपुत्रीयिषतीति ।।
(5953 आक्षेपवार्तिकम् ।। 7 ।।)
- एकाचोऽवयवैकाच्त्वादवयवानां द्विर्वचनप्रसङ्गः -
एकाचोऽवयवैकाच्त्वादवयवानां द्विर्वचनं प्राप्नोति । नेनिजतीत्यत्र निज्शब्दोऽप्येकाच्, इज्शब्दोऽप्येकाच्, इकारोऽप्येकाच्, निशब्दोऽपि ।
तत्र निज्शब्दस्य द्विर्वचने रूपं सिद्धम्, दोषाश्च न सन्ति ।
इज्शब्दस्य द्विर्वचने रूपं न सिध्यति, दोषा अपि न सन्ति ।
इकारस्य द्विर्वचने रूपं न सिद्ध्यति, दोषाश्च सन्ति ।
निशब्दस्य द्विर्वचने रूपं सिद्धम्, दोषास्तु सन्ति ।।
        तत्र को दोषः ?
(5954 आक्षेपसमर्थकवार्तिकम् ।। 8 ।।)
- तत्र जुस्भाववचनम् -
तत्र जुस्भावो वक्तव्यः । अनेनिजुः, पर्यवेविषुः । अभ्यस्तात् झेर्जुस्भावो भवतीति जुस्भावो न प्राप्नोति, जकारेण व्यवधानात् ।।
(5955 आक्षेपसमर्थकवार्तिकम् ।। 9 ।।)
- स्वरश्च -
स्वरश्च न सिध्यति । नेनिजति --- यत्परिवेविषतीति । अभ्यस्तानामादिरुदात्तो भवत्यजादौ लसार्वधातुक इत्येष स्वरो न प्राप्नोति ।।
(5956 आक्षेपसमर्थकवार्तिकम् ।। 10 ।।)
- अद्भावश्च -
अद्भावश्च न सिध्यति । नेनिजति, परिवेविषतीति । अदभ्यस्तात् (6-1-4) इत्यद्भावो न प्राप्नोति ।।
(5957 आक्षेपसमर्थकवार्तिकम् ।। 11 ।।)
- नुम्प्रतिषेधश्च -
नुम्प्रतिषेधश्च न सिद्ध्यति । नेनिजत्, परिवेविषत् । नाभ्यस्ताच्शतुः (7-1-78) इति नुम्प्रतिषेधो न प्राप्नोति, जकारणे व्यवधानात् ।।
(5958 समर्थकवार्तिकम् ।। 12 ।।)
- शास्त्रहानिश्च -
शास्त्रहानिश्च भवति । समुदायैकाचः शास्त्रं हीयते ।।
(5959 आक्षेपवारकवार्तिकम् ।। 13 ।।)
- सिद्धं तु तत्समुदायैकाच्त्वात् शास्त्राहानेः -
सिद्धमेतत् ।
कथम् ?
तत्समुदायैकाच्त्वात् ।
किमिदं तत्समुदायैकाच्त्वादिति ?
तस्य समुदायस्तत्समुदायः । एकाज्भाव एकाच्त्वम् । तत्समुदायस्यैकाच्त्वं तत्समुदायैकाच्त्वम्, तत्समुदायैकाच्त्वात् । तत्समुदायैकाचो द्विर्वचनं भविष्यति ।।
कुत एतत् ?
शास्त्राहानेः, एवं हि शास्त्रमहीनं भवति ।।
ननु च समुदायैकाचोऽपि द्विर्वचने क्रियमाणेऽवयवैकाचः शास्त्रं हीयते ।
न हीयते ।
किं कारणम् ?
अवयवात्मकत्वात्समुदायस्य । अवयवात्मकः समुदायः । अभ्यन्तरो हि समुदायेऽवयवः । तद्यथा --- वृक्षः प्रचलन् सहावयवैः प्रचलति ।।
(5960 आक्षेपवार्तिकम् ।। 14 ।।)
- तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनमन्यपदार्थत्वात् -
तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विर्वचनं प्राप्नोति । आटतुः, आटुः ।
किं कारणम् ?
अन्यपदार्थत्वाद् बहुव्रीहेः । अन्यपदार्थे बहुव्रीहिर्वर्तते, तेन यदन्यदचस्तस्य द्विर्वचनं स्यात् ।
तद्यथा --- चित्रगुरानीयतामित्युक्ते यस्यता गावः सन्ति स आनीयते, न गावः ।।
(5961 समाधानवार्तिकम् ।। 15 ।।)
- सिद्धं तु तद्गुणसंविज्ञानात्पाणिनेर्यथा लोके -
सिद्धमेतत् ।
कथम् ?
तद्गुणसंविज्ञानाद्भगवतः पाणिनेराचार्यस्य, यथा लोके । तद्यथा --- लोके शुक्लवाससमानाय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति । एवमिहापि ।।
(स्थाने द्विर्वचनपक्षोपपादकभाष्यम्)
अथ यस्य द्विर्वचनमारभ्यते किं तस्य स्थाने भवति, आहोस्विद् द्विः प्रयोग इति ।
कश्चात्र विशेषः ?
(5962 स्थाने द्विर्वचनपक्षे आक्षेपवार्तिकम् ।। 16 ।।)
- स्थाने द्विर्वचने णिलोपवचनं समुदायादेशत्वात् -
स्थाने द्विर्वचने णिलोपो वक्तव्यः । आटिटत्, आशिशत् ।
किं कारणम् ?
समुदायादेशत्वात् । समुदायस्य समुदाय आदेशः, तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टो णिर्भवतीति णेरनिटि (6-4-51) इति णिलोपो न प्राप्नोति ।
इदमिह संप्रधार्यम् --- द्विर्वचनं क्रियतां णिलोप इति, किमत्र कर्तव्यम् ?
परत्वाण्णिलोपः ।
नित्यं द्विर्वचनम् । कृतेऽपि णिलोपे प्राप्नोत्यकृतेऽपि ।
अनित्यं द्विर्वचनम् । अन्यस्य कृते णिलोपे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति ।
नित्यमेव द्विर्वचनम् ।
कथम् ?
रूपस्य स्थानिवत्त्वात् ।।
(5963 आक्षेपवार्तिकम् ।। 17 ।।)
- यच्च सन्यङन्तस्य द्विर्वचने -
यच्च सन्यङन्तस्य द्विर्वचने चोद्यं तदिहापि चोद्यम् ।
किं पुनस्तत् ?
सन्यङन्तस्येति चेदशेः सन्यनिटः दीर्घकुत्वप्रसारणषत्वमधिकस्य द्विर्वचनात् आवृद्ध्योश्चाभ्यस्तविधिप्रतिषेधः सन्यङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेश आमिश्रत्वात् इति ।।
(सिद्धान्तोपपादकभाष्यम्)
अस्तु तर्हि द्विः प्रयोगो द्विर्वचनम् ।
(5964 सिद्धान्ताक्षेपवार्तिकम् ।। 18 ।।)
- द्विः प्रयोग इति चेण्णकारषकारादेशादेरेत्त्ववचनं लिटि -
द्विः प्रयोग इति चेण्णकारषकारादेशादेरेत्त्वं लिटि वक्तव्यम् । नेमतुः, नेमुः । सेहे, सेहाते, सेहिरे । अनादेशादेरिति प्रतिषेधः प्राप्नोति ।
स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशः, तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स आदेशादिर्भवति ।।
(समाधानभाष्यम्)
द्विः प्रयोगेऽपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् --- लिटिय आदेशादिस्तदादेर्न इति ।।
(5965 आक्षेपवार्तिकम् ।। 19 ।।)
- इड्वचनं च यङ्लोपे -
इट् च यङ्लोपे वक्तव्यः । बेभिदिता, बेभिदितुम् । एकाच उपदेशेनुदात्तात् (7-2-10) इतीट्प्रतिषेधः प्राप्नोति ।
स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स भवति य एकाजुपदेशेऽनुदात्तः ।।
(समाधानभाष्यम्)
द्विः प्रयोगे चापि द्विर्वचने न दोषः । एकाज्ग्रहणेनाङ्गं विशेषयिष्यामः --- एकाचोऽङ्गादिति ।
ननु चैकैकमत्राङ्गम् ।
समुदाये या वाक्यपरिसमाप्तिस्तयाऽङ्गसंज्ञा भविष्यति ।
कुत एतत् ?
शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ।।
(5966 आक्षेपवार्तिकम् ।। 20 ।।)
- इड्दीर्घप्रतिषेधश्च -
इटो दीर्घत्वस्य च प्रतिषेधो वक्तव्यः । जरीगृहिता, जरीगृहितुम् । ग्रहोऽलिटि दीर्घः (7-2-37)
इति दीर्घत्वं प्राप्नोति । स्थाने पुनर्दिर्वचने समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टो
ग्रहिः ।।
(समाधानभाष्यम्)
द्विः प्रयोगे चापि द्विर्वचने न दोषः । ग्रहिणाऽङ्गं विशेषयिष्यामः --- ग्रहेरङ्गादिति । ननु चैकैकमप्यत्राङ्गम् । समुदाये या वाक्यपरिसमाप्तिस्तयाऽङ्गसंज्ञा भविष्यति ।
कुत एतत् ?
शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ।।
(5967 दोषवार्तिकम् ।। 21 ।।)
- पदादिविधिप्रतिषेधश्च -
पदादिलक्षणविधेः प्रतिषेधो वक्तव्यः । सिषेच, सुष्वाप । सात्पदाद्योः (8-3-111) इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनदि्र्वर्वचने सति न दोषः । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स पदादिर्भवति ।।
(समाधानभाष्यम्)
द्विः प्रयोगे चापि द्विर्वचने न दोषः । सुप्तिङ्भ्यां पदं विशेषयिष्यामः --- सुप्तिङन्तं पदम् --- यस्मात्सुप्तिङि्वधिस्तिदादि सुबन्तं तिङन्तं च ।
ननु चैकैकस्मादप्यत्र सुप्तिङि्वधिः । समुदाये या वाक्यपरिसमाप्तिस्तया पदसंज्ञा भविष्यति ।
कुत एतत् ?
शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ।।
तावेव सुप्तिङौ यौ
ततः परौ सैव च प्रकृतिराद्या ।
आदिग्रहणं च कृतं
समुदायपदत्वमेतेन ।।
-6-1-2- अजादेर्द्वितीयस्य (2439)
(5968 द्वितीयस्येति पदाक्षेपवार्तिकम् ।। 1 ।।)
- द्वितीयस्येत्यवचनमजादेरिति कर्मधारयात्पञ्चमी -
द्वितीयस्येति शक्यमवक्तुम् ।
कथम् ?
अजादेरिति नैषा बहुव्रीहेः षष्ठी --- अज् आदिर्यस्य सोऽयमजादिः --- अजादेरिति ।
किं तर्हि ?
कर्मधारयात्पञ्चमी --- अच् आदिः --- अजादिः, अजादेः परस्येति । तत्रान्तरेण द्वितीयग्रहणं द्वितीयस्यैव भविष्यति ।।
(5969 प्रत्याक्षेपवार्तिकम् ।। 2 ।।)
- द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् -
द्वितीयद्विर्वचने प्रथमस्य निवृत्तिर्वक्तव्या । अटिटिषति, अशिशिषतीति ।
किं कारणम् ?
प्राप्तत्वात् । प्राप्नोति एकाचो द्वे प्रथमस्य (6-1-1) इति ।।
ननु च द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते ।
कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ?
असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ।।
(5970 प्रत्याक्षेपसमाधानवार्तिकम् ।। 3 ।।)
- न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिरद्वितीयत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
प्रथमविज्ञाने हि सति द्वितीयस्याप्राप्तिः स्यात् ।
किं कारणम् ?
अद्वितीयत्वात् । न हीदानीं प्रथमद्विर्वचने कृते द्वितीयो द्वितीयो भवति ।
कस्तर्हि ?
तृतीयः । तद्यथा --- द्वयोरासीनयोस्तृतीय उपजायमाने न द्वितीयो भवति ।
कस्तर्हि ?
तृतीयः ।।
न हि किंचिदुच्यते --- अकृते द्विर्वचने यो द्वितीयस्तस्य भवितव्यमिति ।
किं तर्हि ?
कृते द्विर्वचने यो द्वितीयस्तस्य द्विर्वचनं भविष्यति ।।
अनारम्भसममेवं स्यात् । अटेः प्रथमस्य द्विर्वचनं स्यात्, हलादिः शेषः; द्वितीयस्य द्विर्वचनम्, हलादिः शेषः । त्रयाणामकाराणां पररूपत्वे --- अटिषतीत्येवं रूपं स्यात् ।।
नानारम्भसमम् । अटेः प्रथमस्य द्विर्वचनम्, हलादिः शेषः, इत्वम्, द्वितीयस्य द्विर्वचनम्, हलादिः शेषः, इत्वम्, द्वयोरिकारयोः सवर्णदीर्घत्वम्, अभ्यासस्यासवर्णे (6-4-78) इतीयङादेशः, इयटिषतीत्येतद्रूपं यथा स्यात्, ओणेश्चोवोणिषतीति ।।
नानिष्टार्था शास्त्रप्रवृत्तिर्भवितुमर्हति ।।
(5971 प्रत्याक्षेपसमाधाने दृष्टान्तवार्तिकम् ।। 4 ।।)
- यथा वाऽऽदिविकारेऽलोन्त्यविकाराभावः -
यथा वा आदिविधावलोन्त्यविधिर्न भवति, एवं द्वितीयद्विर्वचने प्रथमद्विर्वचनं न भविष्यति ।।
विषम उपन्यासः । नाप्राप्तेऽलोन्त्यविधावादिविधिरारभ्यते स तस्य बाधको भविष्यति ।।
इदमप्येवंजातीयकम् । नाप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते तद्वाधकं भविष्यति ।।
यदप्युच्यते --- असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यादिति, नैतदस्ति ।
सत्यपि संभवे बाधनं भवति । तद्यथा --- दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि दधिदानस्य संभवे तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनं बाधिष्यते ।।
(वार्तिकावतरणभाष्यम्)
तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिर्वक्तव्या । अटिटिषति --- इति । यथैवाचो निवृत्तिर्भवत्येवं व्यञ्जनस्यापि प्राप्नोति ।।
(5972 आक्षेपवारकवार्तिकम् ।। 5 ।।)
- तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिरशासनात्पूर्वस्य -
तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनस्यानिवृत्तिः सिद्धा ।
कुतः ?
अशासनात्पूर्वस्य । नेह वयं पूर्वस्य प्रतिषेधं शिष्मः ।
किं तर्हि ?
द्वितीयस्य द्विर्वचनमारभामहे । व्यञ्जनानि पुनर्नटभार्यावद्भवन्ति । तद्यथा --- नटानां स्त्रियो रङ्गगता यो यः पृच्छति कस्य यूयं कस्य यूयमिति तं तं तव तवेत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते ।।
(5973 व्यञ्जनानिवृत्तौ हेतुवार्तिकम् ।। 6 ।।)
- न्द्रादिप्रतिषेधाच्च -
यदयं न न्द्राः संयोगादयः (6-1-3) इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः --- पूर्वनिवृत्तौ व्यञ्जनस्यानिवृत्तिरिति ।।
(5974 पूर्वपक्षवार्तिकम् ।। 7 ।।)
- तत्र द्वितीयाभावे प्रथमाद्विर्वचनं प्रतिषिद्धत्वात् -
तत्र द्वितीयस्यैकाचोऽभावे प्रथमस्य द्विर्वचनं न प्राप्नोति । आटतुः, आटुः ।
किं कारणम् ?
प्रतिषिद्धत्वात् । अजादेर्द्वितीयस्येति प्रतिषेधात् ।।
(पूर्वपक्षसमाधानभाष्यम्)
नैष दोषः । सति तस्मिन्प्रतिषेधः । सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ।।
(5975 प्रत्याक्षेपवार्तिकम् ।। 8 ।।)
- सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोषः -
सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोषो भवति । हलादिशेषे सत्याद्ये हल्यनाद्यस्य हलो लोपः स्यात् ।
इहैव स्यात् --- पपाच पपाठेति ।
इह न स्यात् --- आटतुः, आटुरिति ।।
(5976 प्रत्याक्षेपवारकवार्तिकम् ।। 9 ।।)
- लोकवद्धलादिशेषे -
लोकवद्धलादिशेषे सिद्धम् । तद्यथा --- लोके इर्श्वर आज्ञापयति --- ग्रामाद्ग्रामान्मनुष्या आनीयन्ताम्, प्रागाङ्गं ग्रामेभ्यो ब्राह्मणा आनीयन्तामिति । येषु तत्र ग्रामेषु ब्राह्मणा न सन्ति न तर्हीदानीं ततोऽन्यस्यानयनं भवति । यथा तत्र क्वचिदपि ब्राह्मणस्य सत्ता सर्वत्राब्राह्मणस्य निवर्तिका भवति, एवमिहापि क्वचिदपि
हलाद्यः सन् सर्वस्यानाद्यस्य हलो निवर्तको भवति ।।
(5977 प्रत्याक्षेपवार्तिकम् ।। 10 ।।)
- क्वचिदन्यत्र लोप इति चेत् द्विर्वचनम् -
क्वचिदन्यत्र लोप इति चेद् द्विर्वचनमप्येवं प्राप्नोति । क्वचिदपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ।।
(सिद्धान्तभाष्यम्)
तस्मादस्तु सति तस्मिन् प्रतिषेध इत्येव ।
ननु चोक्तं सति तस्मिन् प्रतिषेध इति चेद्धलादिशेषे दोष इति ।
प्रतिविधास्यते हलादिशेषे ।।
-6-1-3- न न्द्राः संयोगादयः (2440)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते ?
(5978 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- न्द्रादेर्द्विर्वचनप्रसङ्गस्तत्र न्द्राणां प्रतिषेधः -
न्द्रादेरेकाचो द्विर्वचनं प्राप्नोति । तत्र न्द्राणां संयोगादीनां प्रतिषेध उच्यते ।।
(5979 उपसंख्यानवार्तिकम् ।। 2 ।।)
- इर्र्ष्यतेस्तृतीयस्य द्वे भावतः -
इर्र्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम् ।
केचिदाहुः --- एकाच इति । इर्र्ष्यिषिषति ।
अपर आह ---
व्यञ्जनस्येति । इर्र्ष्यियिषति ।।
(5980 उपसंख्यानवार्तिकम् ।। 3 ।।)
- कण्ड्वादीनां च -
कण्ड्वादीनां च तृतीयस्य द्वे भवत इति वक्तव्यम् । कण्डूयियिषति । असूयियिषति ।।
(5981 उपसंख्यानवार्तिकम् ।। 4 ।।)
- वा नामधातूनाम् -
वा नामधातूनां तृतीयस्य द्वे भवत इति वक्तव्यम् । अश्वीयियिषति । अशिश्वीयिषति ।।
अपर आह ---
यथेष्टं वा ।
यथेष्टं वा नामधातूनामिति । पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति।।
-6-1-4- पूर्वोऽभ्यासः (2441)
?B(अभ्याससंज्ञाधिकरणम्)
(सूत्रार्थसंयोजकभाष्यम्)
पूर्वोऽभ्यास इत्युच्यते, कस्य पूर्वोऽभ्याससंज्ञो भवति ?
द्वे इति वर्तते । द्वयोरिति वक्तव्यम् ।।
स तर्हि तथानिर्देशः कर्तव्यः । न कर्तव्यः । अर्थाद्विभक्तिविपरिणामो भविष्यति ।
तद्यथा --- -उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते ।
देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः । देवदत्त इति गम्यते ।
पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति ।
एवमिहापि पुरस्तात् प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ।।
-6-1-5- उभे अभ्यस्तम् (2442)
(अभ्यस्तसंज्ञाधिकरणम्)
(5982 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अभ्यस्तसंज्ञायां सहग्रहणम् -
उभे अभ्यस्तं सहेति वक्तव्यम् । किं प्रयोजनम् ?
(5983 सहपदप्रयोजनवार्तिकम् ।। 2 ।।)
- आद्युदात्तत्वे पृथगप्रसङ्गार्थम् -
आद्युदात्तत्वं सहभूतयोर्यथा स्यात्, एकैकस्य मा भूदिति ।
यस्मिन्नेवाभ्यस्तकार्येऽदोषस्तदेव पठितम् । अनुदात्तं पदमेकवर्जम् (6-1-158) इति नास्ति यौगपद्येन संभवः ।
पर्यायस्तर्हि प्रसज्येत । पर्यायश्च पूर्वस्य तावत् परेण रूपेण व्यवहितत्वान्न भविष्यति ।
परस्य तर्हि स्यात् । तत्राचार्यप्रवृत्तिर्ज्ञापयति --- न परस्य भवतीति, यदयं बिभेत्यादीनां पिति प्रत्ययात्पूर्वमुदात्तं भवतीत्याह । एवं व्यवधानान्न पूर्वस्य, ज्ञापकान्न परस्य ।
उच्यते चेदं --- अभ्यस्तानामादिरुदात्तो भवतीति । तत्र स एव दोषः --- पर्यायः प्रसज्येत ।
तस्मात्सहग्रहणं कर्तव्यम् ।।
(सहग्रहणप्रत्याख्यानभाष्यम्)
न कर्तव्यम् । उभेग्रहणं क्रियते तत्सहार्थं विज्ञास्यते । अस्त्यन्यदुभेग्रहणस्य प्रयोजनम् ।
किम् ?
उभेग्रहणं संज्ञिनिर्देशार्थम् ।
अन्तरेणाप्युभेग्रहणं प्रक्लृप्तः संज्ञिनिर्देशः ।
कथम् ?
द्वे इति वर्तते ।।
इदं तर्हि प्रयोजनम् --- यत्रोभे शब्दरूपे श्रूयेते तत्राभ्यस्तसंज्ञा यथा स्यात्, इह मा भूत् --- इर्र्त्सन्ति --- इर्प्सन्तीति, इर्र्त्सन् --- इर्प्सन्, ऐर्त्सन् --- ऐप्सन् ।
किंच स्यात् ?
अद्भावो नुम्प्रतिषेधो जुस्भाव इत्येते विधयः प्रसज्येरन् ।।
अद्भावे तावन्न दोषः । सप्तमे योगविभागः करिष्यते --- इदमस्ति अदभ्यस्तात् (7-1-4) इति । तत आत्मनेपदेषु । आत्मनेपदेषु चाद्भवति । अनत इत्युभयोः शेषः ।।
यदप्युच्यते --- नुम्प्रतिषेध इति ।
एकादेशे कृते व्यपवर्गाभावान्न भविष्यति ।
इदमिह संप्रधार्यं --- नुम्प्रतिषेधः क्रियतामेकादेश इति, किमत्र कर्तव्यम् ?
परत्वान्नुम्प्रतिषेधः । नित्य एकादेशः, कृतेऽपि नुम्प्रतिषेधे प्राप्नोत्यकृतेऽपि । एकादेशोऽप्यनित्यः । अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति, अन्यस्याकृते; शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति ।
अन्तरङ्गस्तर्ह्यकादेशः ।
काऽन्तरङ्गता ?
वर्णावाश्रित्यैकादेशः, विधिविषये नुम्प्रतिषेधः । विधिश्च नुमः सर्वनामस्थाने, प्राक्तु सर्वनामस्थानोत्पत्तेरेकादेशः । तत्र नित्यत्वाच्चान्तरङ्गत्वाच्चैकादेशः, एकादेशे कृते व्यपवर्गाभावान्नुम्प्रतिषेधो न भविष्यति ।।
यदप्युच्यते --- जुस्भाव इति ।
एकादेशे कृते व्यपवर्गाभावान्न भविष्यति ।
एकादेश इत्युच्यते, केन चात्रैकादेशः ?
अन्तिना ।
नात्रान्तिभावः प्राप्नोति ।
किं कारणम् ?
जुस्भावेन बाध्यते ।
नात्र जुस्भावः प्राप्नोति ।
किं कारणम् ?
शपा व्यवहितत्वात् ।
एकादेशे कृते नास्ति व्यवधानम् ।
एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव ।।
किं पुनः कारणम् निमित्तवानन्तिरेकादेशं तावत्प्रतीक्षते, न पुनस्तावत्येव निमित्तमस्तीत्यन्तिभावेन भवितव्यम् ?
इहापि तर्हि तावत्येव निमित्तमस्तीत्यन्तिभावः स्यात् --- अनेनिजुः, पर्यवेविषुः । अस्तु, अन्तिभावे कृते स्थानिवद्भावाज्झिग्रहणेन ग्रहणाज्जुस्भावो भविष्यति ।।
अथवा यद्यपि निमित्तिवानन्तिरयं तस्य जुस्भावोऽपवादः, न चापवादविषये उत्सर्गोऽभिनिमविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य चापवादविषयमुत्सर्गः प्रवर्तते । न तावदत्र कदाचिदप्यन्तिभावो भवति । अपवादं जुस्भावं प्रतीक्षते ।।
नखल्वपि क्वचिदभ्यस्तानां ज्ञेश्चानन्तर्यम्, सर्वत्र विकरणैर्व्यवधानम् । तेनावश्यं विकरणनाशः प्रतीक्ष्यः
क्वचिल्लुका, क्वचित् श्लुना, क्वचिदेकादेशेन । स यथैव श्लुलुकौ प्रतीक्षते तथैकादेशमपि प्रतीक्षते ।
एवं तर्हीदमिह व्यपदेश्यं सत् आचार्यो न व्यपदिशति ।
किम् ?
स्थानिवद्भावम् । स्थानिवद्भावाद्व्यवधानम्, व्यवधानान्न भविष्यति ।
पूर्वविधौ स्थानिवद्भावो न चायं पूर्वस्य विधिः ।
पूर्वस्मादपि विधिः पूर्वविधिः ।।
तदेतदसति प्रयोजने उभेग्रहणं सहार्थं विज्ञास्यते ।।
(पक्षभेदेन सहपदप्रयोजनभाष्यम्)
कथं कृत्वैकैकस्याप्यभ्यस्तसंज्ञा प्राप्नोति ?
प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति । तद्यथा --- प्रत्येकं वृद्धिगुणसंज्ञे भवतः ।
ननु चायमप्यस्ति दृष्टान्तः --- समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा --- गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति ।
सत्येतस्मिन् दृष्टान्ते तत्र यदि प्रत्येकमित्युच्यत इहापि सहग्रहणं कर्तव्यम् ।
अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवत इहापि नार्थः सहग्रहणेन ।।
-6-1-6- जक्षित्यादयः षट् (2443)
(5984 षट्पदाक्षेपवार्तिकम् ।। 1 ।।)
- जक्षित्यादिषु सप्तग्रहणं वेवीत्यर्थम् -
जक्षित्यादिषु सप्तग्रहणं कर्तव्यम् । सप्त जक्षित्यादयोऽभ्यस्तसंज्ञका भवन्तीति वक्तव्यम् ।
किं प्रयोजनम् ?
वेवीत्यर्थम् । वेवीतेरभ्यस्तसंज्ञा यथा स्यात् । वेव्यते । अभ्यस्तानामादिः इत्याद्युदात्तत्वं भवति ।।
(5985 षट्पदप्रत्याख्यानवार्तिकम् ।। 2 ।।)
- अपरिगणनं वा गणान्तत्वात् -
न वाऽर्थः परिगणनेन । अस्त्वागणान्तमभ्यस्तसंज्ञा ।।
इहापि तर्हि प्राप्नोति --- आङः शासु ।
अस्तु ।
अभ्यस्तकार्याणि कस्मान्न भवन्ति ?
भूयिष्ठानि कार्याणि परस्मैपदेषु, आत्मनेपदी चायम् ।
स्वरस्तर्हि प्राप्नोति । यत्राप्यस्यात्मनेपदेष्वभ्यस्तकार्यं स्वरस्तत्राप्यनुदात्तेतः परं लसार्वधातुकमनुदात्तं भवतीत्यनुदात्तत्वे कृते नास्ति विशेषो धातुस्वरेणोदात्तत्वे सत्यभ्यस्तस्वरेण वा ।।
षसिवशी छान्दसौ । दृष्टानुविधयश्छन्दसि भवन्ति ।।
चर्करीतमभ्यस्तसंज्ञमेव ।।
ह्नुङस्तर्हि प्राप्नोति ।
अस्तु ।
अभ्यस्तकार्याणि कस्मान्न भवन्ति ?
भूयिष्ठानि परस्मैपदेषु, आत्मनेपदी चायम् ।
स्वरस्तर्हि प्राप्नोति ।
अह्न्विङोः इति प्रतिषेधविधानसार्मथ्यात्स्वरो न भविष्यति ।।
(षट्पदार्थकथनपरभाष्यम्)
अथवा सप्तैवेमे धातवः पठ्यन्ते । जक्ष् --- अभ्यस्तसंज्ञो भवति । इत्यादयश्च षट्, जक्षित्यादयः षडिति ।।
-6-1-7- तुजादीनां दीर्घोऽभ्यासस्य (2444)
- तुजादिषु च्छन्दः प्रत्ययग्रहणम् -
तुजादिषु च्छन्दः प्रत्ययग्रहणं कर्तव्यम् । छन्दसि तुजादीनां दीर्घो भवतीति वक्तव्यम् । अस्मिंश्चास्मिंश्च प्रत्यय इति वक्तव्यम् । इह मा भूत्तुतोज शबलान् हरीन् ।।
(5986 उपसंख्यानानुपयोगकथने वार्तिकम् ।। 2 ।।)
- अनारम्भो वाऽपरिगणितत्वात् -
अनारम्भो वा पुनश्छन्दसि दीर्घत्वस्य नाय्यः ।
कुतः ?
अपरिगणितत्वात् । न हि च्छन्दसि दीर्घस्य परिगणनं कर्तुं शक्यम् ।
किं कारणम् ?
(5987 उपसंख्यानानुपयोगसाधकवार्तिकम् ।। 3 ।।)
- अन्येषां च दर्शनात् -
येषामपि दीर्घत्वं नारभ्यते तेषामपि च्छन्दसि दीर्घत्वं दृश्यते । तद्यथा --- पूरुषः, नारक इति ।।
(5988 उपसंख्यानानुपयोगसाधकवार्तिकम् ।। 4 ।।)
- अनेकान्तत्वाच्च -
येषां चाप्यारभ्यते तेषामप्यनेकान्तः । यस्मिन्नेव च प्रत्यये दीर्घत्वं दृश्यते तस्मिन्नेव च प्रत्यये न दृश्यते --- मामहान उक्थपात्रम्, ममहान इति च ।।
-6-1-8- लिटि धातोरनभ्यासस्य (2445)
(द्वित्वाधिकरणम्)
(पदकृत्यभाष्यम्)
धातोरिति किमर्थम् ?
इर्हाञ्चक्रे ।
नैतदस्ति । लिटीत्युच्यते, न चात्र लिटं पश्यामः ।
प्रत्ययलक्षणेन ।
न लुमता तस्मिन् (1-1-63) इति प्रत्ययलक्षणप्रतिषेधः ।
इदं तर्हि --- ससृवांसो विशृण्विरे ।।
(5989 उपसंख्यानवार्तिकम् ।। 1 ।।)
- लिटि द्विर्वचने जागर्तेर्वावचनम् -
लिटि द्विर्वचने जागर्तेर्वेति वक्तव्यम् । यो जागार तमृचः कामयन्ते । यो जजागार तमृचः कामयन्ते ।
(पदकृत्यभाष्यम्)
अनभ्यासस्येति किम् ?
कृष्णो नोनाव वृषभो यदीदम् । नोनूयतेर्नोनाव ।।
(5990 अभ्यासप्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- अभ्यासप्रतिषेधानर्थक्यं च छन्दसि वावचनात् -
अभ्यासप्रतिषेधश्चानर्थकः ।
किं कारणम् ?
छन्दसि वावचनात् । अवश्यं छन्दसि वा द्वे भवत इति वक्तव्यम् ।
किं प्रयोजनम् ?
(5991 विकल्पप्रयोजनवार्तिकम् ।। 3 ।।)
- प्रयोजनमादित्यान्याचिषामहे -
यियाचिषामह इति प्राप्ते । देवता नो दाति प्रियाणि, ददाति प्रियाणि । मघवा दातु, मघवा ददातु । स न स्तुतो वीरवद्धातु । वीरवद्दधातु ।।
(धातुग्रहणप्रत्याख्यानभाष्यम्)
यावतेदानीं छन्दसि वा द्वे भवत इत्युच्यते धातुग्रहणेनापि नार्थः ।
कस्मान्न भवति --- ससृवांसो विशृण्विर इति ?
छन्दसि वावचनात् ।।
तदेतद्धातुग्रहणं सान्यासिकं तिष्ठतु तावत् ।।
-6-1-9- सन्यङोः (2446)
(विभक्तिसन्देहभाष्यम्)
किमियं षष्ठी, आहोस्वित्सप्तमी ?
कुतः सन्देहः ?
समानो निर्देशः ।
किं चातः ?
यदि षष्ठी, सन्यङन्तस्य द्विर्वचनेन भवितव्यम् ।
अथ सप्तमी, सन्यङोः परतः पूर्वस्य द्विर्वचनेन भवितव्यम् ।
कश्चात्र विशेषः ?
(5992 सप्तमीपक्षे दोषवार्तिकम् ।। 1 ।।)
- सन्यङोः परत इति चेदिटो द्विर्वचनं परादित्वात् -
सन्यङोः परत इति चेदिटो द्विर्वचनं कर्तव्यम् । अटिटिषति, अशिशिषति ।
किं पुनः कारणं न सिद्ध्यति ?
परादित्वात् । इट् परादिः ।।
(5993 सप्तमीपक्षे दोषवार्तिकम् ।। 2 ।।)
- हन्तेश्चेटः -
हन्तेश्चेटो द्विर्वचनं कर्तव्यम् । जेघ्नीयते ।।
(प्रत्याक्षेपसमाधानभाष्यम्)
ननु च यस्यापि सन्यङन्तस्य द्विर्वचनं तस्यापि स्थानिवद्भावप्रसङ्गः । इर्टि स्थानिवद्भावादीटो द्विर्वचनं न प्राप्नोति ।
नैष दोषः ।
द्विर्वचननिमित्तेऽचि स्थानिवदित्युच्यते, न चासौ द्विर्वचननिमित्तम् । यस्मिन्नपि द्विर्वचनं यस्यापि द्विर्वचनं सर्वोऽसौ द्विर्वचननिमित्तम् ।
तस्मादीटो द्विर्वचनम् । तस्मादुभाभ्यामेव इर्टो द्विर्वचनं कर्तव्यम्, यश्चोभयोर्दोषो न तमेकश्चोद्यो भवति ।।
(5994 सप्तमीपक्षे दोषवार्तिकम् ।। 3 ।।)
- एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्सन इट्प्रतिषेधः -
एकाच उपदेशेऽनुदात्तात् (7-2-10) इत्युपदेशवचनमनुदात्तविशेषणं चेत्सन इट्प्रतिषेधो वक्तव्यः । विभित्सति, चिच्छित्सति । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति ।।
(षष्ठीपक्षावतरणभाष्यम्)
अस्तु तर्हि सन्यङन्तस्य ।।
(5995 षष्ठीपक्षे दोषवार्तिकम् ।। 4 ।।)
- सन्यङन्तस्येति चेदशेः सन्यनिटः -
सन्यङन्तस्येति चेदशेः सन्यनिटो द्विर्वचनं वक्तव्यम् । इयक्षमाणा भृगुभिः सजोषाः ।।
(प्रत्याक्षेपभाष्यम्)
यस्यापि सन्यङोः परतो द्विर्वचनं तेनाप्यत्रावश्यमिडभावे यत्नः कर्तव्यः ।
किं कारणम् ?
अशेर्हि प्रतिपदमिडि्वधीयते --- स्मिपूङ्रञ्ञ्ज्वशां सनि (7-2-74) इति । तेनैव द्वितीयद्विर्वचनमपि न भविष्यति ।।
(प्रत्याक्षेपसमाधानभाष्यम्)
अथ वा नैतदशे रूपम् । यजेरेष च्छान्दसो वर्णलोपः ।
तद्यथा --- तुभ्येदमग्ने, तुभ्यमिदमग्न इति प्राप्ते ।
अम्बानां चरुम्, नाम्बानां चरुमिति प्राप्ते ।
आव्याधिनीरुगणाः, सुगणा इति प्राप्ते ।
इष्कर्तारमध्वरस्य, निष्कर्तारमध्वरस्येति प्राप्ते ।
शिवा उद्रस्य भेषजी, शिवा रुद्रस्य भेषजीति प्राप्ते ।।
अश्यर्थो वै गम्यते ।
कः पुनरशेरर्थः ?
अश्रोतिर्व्याप्तिकर्मा । एवन्तर्हि --- यजिरप्यश्यर्थे वर्तते ।
कथं पुनरन्यो नामान्यस्यार्थे वर्तते ?
बह्वर्था अपि धातवो भवन्ति । तद्यथा --- वपिः प्रकिरणे दृष्टश्छेदनेऽपि वर्तते --- केशान् वपति ।
इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्ट इर्रणे चापि वर्तते --- अग्निर्वा इतो वृष्टिमीट्टे मरुतोऽमुतश्चावयन्ति ।
करोतिरयमभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते --- पृष्ठं कुरु --- पादौ कुरु, उन्मृदानेति गम्यते । निक्षेपणे चापि दृश्यते --- कटे कुरु --- घटे कुरु --- अश्मानमितः कुरु, स्थापयेति गम्यते ।।
एवं तर्हि ---
(5996 षष्ठीपक्षे दोषवार्तिकम् ।। 5 ।।)
- दीर्घकुत्वप्रसारणषत्वमधिकस्य द्विर्वचनात् -
दीर्घत्वं द्विर्वचनाधिकस्य न सिध्यति । चिचीषति, तुष्टूषति । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति । तत्राजन्तानां सनीति दीर्घत्वं न प्राप्नोति ।।
इदमिह संप्रधार्यम् --- दीर्घत्वं क्रियतां द्विर्वचनमिति ।
किमत्र कर्तव्यम् ?
परत्वाद्दीर्घत्वम् ।
नित्यं द्विर्वचनम्, कृतेऽपि दीर्घत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति ।
दीर्घत्वमपि नित्यम् । कृतेऽपि द्विर्वचने प्राप्नोत्यकृतेऽपि प्राप्नोति।
अनित्यं दीर्घत्वम् । न हि कृते द्विर्वचने प्राप्नोति ।
किं कारणम् ?
समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्याजन्तता नास्तीति दीर्घत्वं न प्राप्नोति ।
द्विर्वचनमप्यनित्यम् । अन्यस्य कृते दीर्घत्वे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति ।
उभयोरनित्ययोः परत्वाद्दीर्घत्वम् ।।
यत्तर्हि नाकृते द्विर्वचने दीर्घत्वं तन्न सिध्यति । जुहूषति ।।
कुत्वं द्विर्वचनाधिकस्य न सिध्यति --- जिघांसति, जङ्घन्यते ।
किं कारणम् ?
समुदायस्य समुदाय आदेशस्तत्र संप्रमुमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टो हन्तिर्भवति । तत्राभ्यासाद्धन्तिहकारस्येति कुत्वं न प्राप्नोति ।।
संप्रसारणं च द्विर्वचनाधिकस्य न सिद्ध्यति --- जुहूषति, जोहूयते । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टो ह्वयतिर्भवति । तत्र ह्वोऽभ्यस्तस्येति संप्रसारणं न प्राप्नोति ।
नैष दोषः । वक्ष्यत्येतत् --- ह्वोऽभ्यस्तनिमित्तस्येति । यावता चेदानीं ह्वोऽभ्यस्तनिमित्तस्येत्युच्यते सोऽप्यदोषो भवति यदुक्तम् --- यत्तर्हि नाकृते द्विर्वचने दीर्घत्वं तन्न सिद्ध्यतीति ।।
षत्वं च द्विर्वचनाधिकस्य न सिद्ध्यति --- पिपक्षति, यियक्षति । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः सन् भवति । तत्रेण्कुभ्यामुत्तरस्य प्रत्ययसकारस्येति षत्वं न प्राप्नोति ।।
इदमिह संप्रधार्यम् --- द्विर्वचनं क्रियतां षत्वमिति ।
किमत्र कर्तव्यम् ?
परत्वात्षत्वम् । पूर्वत्रासिद्धे षत्वम्, सिद्धासिद्धयोश्च नास्ति संप्रधारणा ।।
(5997 षष्ठीपक्षे दोषवार्तिकम् ।। 6 ।।)
- आबृद्ध्योश्चाभ्यस्तविधिप्रतिषेधः -
आबृद्ध्योश्चाभ्यस्ताश्रयो विधिः प्राप्नोति स प्रतिषेध्यः । इर्प्सन्ति, इर्र्त्सन्ति । इर्प्सन्, इर्र्त्सन् । ऐप्सन्, ऐर्त्सन् ।
किं च स्यात् ?
अद्भावो नुम्प्रतिषेधो जुस्भाव इत्येते विधयः प्रसज्येरन् ।।
नैष दोषः । उक्ता अत्र परिहाराः ।।
(5998 षष्ठीपक्षे दोषवार्तिकम् ।। 7 ।।)
- सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेश आमिश्रत्वात् -
सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेशः ।
किं कारणम् ?
आमिश्रत्वात् । आमिश्रीभूतमिवेदं भवति । तद्यथा --- क्षीरोदके संपृक्ते आमिश्रत्वान्न ज्ञायते कियत् क्षीरं कियदुदकमिति, कस्मिन् वा अवकाशे क्षीरं कस्मिन्नवकाशे उदकमिति । एवमिहाप्यामिश्रत्वान्न ज्ञायते --- का प्रकृतिः, कः प्रत्ययः, कस्मिन्नवकाशे प्रकृतिः, कस्मिन्नवकाशे प्रत्यय इति ।
तत्र को दोषः ?
सङि झलीति कुत्वादीनि न सिद्ध्यन्ति ।
इदमिह संप्रधार्यम् --- द्विर्वचनं क्रियताम्, कुत्वादीनीति; किमत्र कर्तव्यम् ?
परत्वात्कुत्वादीनि । पूर्वत्रासिद्धे कुत्वादीनि, सिद्धासिद्धयोश्च नास्ति संप्रधारणा ।।
एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इति वक्तव्यम् । तच्चावश्यं वक्तव्यम् । विभाषिताः प्रयोजयन्ति । दोग्धा --- दोग्धा । द्रोढा --- द्रोढा ।।
यावता चेदानीं पूर्वत्रासिद्धीयमद्विर्वचन इत्युच्यते सोऽप्यदोषो भवति यदुक्तं षत्वं न सिद्ध्यति इति ।।
(सिद्धान्तकथनभाष्यम्)
इह स्थाने द्विर्वचने णिलोपोऽपरिहृतः । सन्यङोः परतो द्विर्वचने इटो द्विर्वचनं वक्तव्यम् । सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वमपरिहृतम् ।
तत्र सन्यङन्तस्य द्विर्वचनं द्विः प्रयोगश्चेत्येष पक्षो निर्दोषः ।
तत्रेदमपरिहृतम् --- सन इट्प्रतिषेध इति ।
एतस्यापि सप्तमे परिहारं वक्ष्यति --- उभयविशेषणत्वात्सिद्धमिति ।
कथं जेघ्नीयते ?
वक्ष्यत्येतत् --- यङ्प्रकरणे हन्तेर्हिंसायां घ्नीति ।।
-6-1-12- दाश्वान् साह्वान्मीढ्वांश्च (2449)
(वार्तिकावतरणभाष्यम्)
दाश्वानिति किं निपात्यते ?
(5999 निपातनदर्शकवार्तिकम् ।। 1 ।।)
- दाशेर्वसौ द्वित्वेट्प्रतिषेधौ -
दाशेर्वसौ द्वित्वेट्प्रतिषेधौ निपात्येते । दाश्वांसो दाशुषः सुतम् ।।
दाश्वान् ।
साह्वानिति किं निपात्यते ?
(6000 निपातनदर्शकवार्तिकम् ।। 2 ।।)
- सहेर्दीर्घत्वं च -
किं च ?
द्वित्वेट्प्रतिषेधौ च । साह्वान् बलाहकः ।।
साह्वान् ।
मीढ्वानिति किं निपात्यते ?
(6001 निपातनदर्शकवार्तिकम् ।। 3 ।।)
- मिहेर्ढत्वं च -
यच्च पूर्वयोः ।
किञ्च पूर्वयोः ?
द्वित्वेट्प्रतिषेधौ दीर्घत्वं च । मीढ्वस्तोकाय तनयाय मृडय । यथेयमिन्द्रमीढ्वः ।।
(आक्षेपभाष्यम्)
मह्यर्थो वै गम्यते ।
कः पुनर्मह्यर्थः ?
महिर्दानकर्मा ।
अतः किम् ?
इत्वमपि निपात्यम् ।।
(6002 आक्षेपनिरांसवार्तिकम् ।। 4 ।।)
- मह्यर्थ इति चेन्मिहेस्तदर्थत्वात्सिद्धम् -
मह्यर्थ इति चेन्मिहिरपि मह्यर्थे वर्तते । कथं पुनरन्योनामान्यस्यार्थे वर्तते । बह्वर्था अपि धातवो भवन्तीति ।।
अस्ति पुनरन्यत्रापि क्वचिन्मिहिर्मह्यर्थे वर्तते ? अस्तीत्याह --- मिहेर्मेघः ।
मेघश्च कस्माद्भवति ?
अपो ददातीति ।।
(6003 उपसंख्यानवार्तिकम् ।। 5 ।।)
- द्विर्वचनप्रकरणे कृञ्ञादीनां के -
द्विर्वचनप्रकरणे कृञ्ञादीनां के उपसंख्यानं कर्तव्यम् । चक्रम्, चिक्लिदम्, चक्नसमिति ।।
कादिष्विति वक्तव्यम् ।
इहापि यथा स्यात् --- बभ्रुः, ययुरिति ।।
(6004 उपसंख्यानवार्तिकम् ।। 6 ।।)
- चरिचलिपतिवदीनामच्याक् चाभ्यासस्य -
चरिचलिपतिवदीनामचि द्वे भवत इति वक्तव्यम्, आक्चाभ्यासस्य । चराचरः, चलाचलः, पतापतः,
वदावदः ।।
(6005 उपसंख्यानवार्तिकम् ।। 7 ।।)
- हन्तेर्घश्च -
हन्तेर्घश्च वक्तव्यः । अचि द्वे भवतः, आक्चाभ्यासस्य । घनाघनः ।।
(6006 उपसंख्यानवार्तिकम् ।। 8 ।।)
- पाटेर्णिलुक्च दीर्घश्चाभ्यासस्योक्च -
पाटयतेर्णिलुग् वक्तव्यः । अचि द्वे भवत इति वक्तव्यम्, दीर्घश्चाभ्यासस्य, ःढ़द्य;क्चागमः । पाटूपटः ।।
(6007 विप्रतिषेधवार्तिकम् ।। 9 ।।)
- द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः -
यण् --- अयवायावादेश --- आल्लोप --- उपधालोप --- णिलोप --- किकिनोरुत्वेभ्यो द्विर्वचनं भवति पूर्वविप्रतिषेधेन ।।
द्विर्वचनस्यावकाशः --- बिभिदतुः, बिभिदुः ।
यणादेशस्यावकाशः --- दध्यत्र, मध्वत्र । इहोभयं प्राप्नोति --- चक्रतुः, चक्रुरिति ।
अयवायावादेशानामवकाशः --- चयनम्, चायकः, लवनम्, लावकः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- चिचाय, चिचयिथ, लुलाव, लुलविथ ।
आल्लोपस्यावकाशः --- गोदः, कम्बलदः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- ययतुः, ययुः, तस्थतुः, तस्थुः ।
उपधालोपस्यावकाशः --- श्लेष्मघ्नं मधु, पित्तघ्नं घृतम् । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- जग्मतुः, जग्मुः, जघ्नतुः, जघ्नुः ।
णिलोपस्यावकाशः --- कारणा, हारणा । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- आटिटत्, आशिशत् ।
उत्वस्यावकाशः --- निपूर्ताः पिण्डाः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- मित्रावरुणौ ततुरिः, दूरे ह्यध्वा जगुरिः ।।
द्विर्वचनं भवति पूर्वविप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ।।
(6008 विप्रतिषेधवार्तिकम् ।। 10 ।।)
- द्विर्वचनात् प्रसारणात्वधात्वादिविकाररीत्वेत्त्वेत्त्वोत्त्वगुणवृद्धिविधयः -
द्विर्वचनात् प्रसारण --- आत्व --- धात्वादिविकार --- रीत्व --- इर्त्त्व --- इत्त्वोत्त्व --- गुणवृद्धिविधयो भवन्ति विप्रतिषेधेन ।
द्विर्वचनस्यावकाशः --- बिभिदतुः, बिभिदुः ।
संप्रसारणस्यावकाशः--इष्टम्, सुप्तम् ।
इहोभयं प्राप्नोति --- इर्जतुः, इर्जुरिति ।
नैतदस्ति ।
अस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य कितीति भविष्यति, पूर्वस्य लिट्यभ्यासस्योभयेषाम् (6-1-17) इति ।
इदं तर्हि --- सोषुप्यते ।
इदं चाप्युदाहरणम् --- इर्जतुः, इर्जुः .
ननु चोक्तमस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य कितीति भविष्यति, पूर्वस्य
लिट्यभ्यासस्योभयेषामिति ।
न सिद्ध्यति । न संप्रसारणे संप्रसारणम् (37) इति प्रतिषेधः प्राप्नोति । अकारेण व्यवहितत्वान्न
भविष्यति । (एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।)
एवं तर्हि समानाङ्गग्रहणं तत्र चोदयिष्यति ।।
आत्वस्यावकाशः --- ग्लाता, म्लाता । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- जग्ले, मम्ले ।।
धात्वादिविकाराणामवकाशः --- नमति, सिञ्चति । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- ननाम, सिषेच, सस्नौ ।।
रीत्वस्यावकाशः --- मात्रीयति, पित्रीयति । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- चेक्रीयते, जेह्रीयते ।।
इर्त्वस्यावकाशः --- पीयते, गीयते । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- पेपीयते, जेगीयते ।।
इत्वोत्वयोरवकाशः --- आस्तीर्णम्, निपूर्ताः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- आतेस्तीर्यते, निपोपूर्यते ।।
गुणवृद्ध्योरवकाशः --- चेता, गौः । द्विर्वचनस्य स एव । इहोभयं प्राप्नोति --- चिचाय, चिचयिथ, लुलाव, लुलविथ ।
नैतदस्ति प्रयोजनम् । अस्त्वत्र द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।
इदं तर्हि प्रयोजनम् --- इयाय, इययिथ ।
ननु चात्राप्यस्तु द्विर्वचनम्, द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।
न सिद्ध्यति । अन्तरङ्गत्वात्सवर्णदीर्घत्वं प्राप्नोति । वार्णादाङ्गं बलीय इति गुणवृद्धी भविष्यतः ।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
आचार्यप्रवृत्तिर्ज्ञापयति --- वार्णादाङ्गं बलीयो भवतीति यदयं अभ्यासस्यासवर्णे (6-4-78) इत्यसवर्णग्रहणं करोति ।
कथं कृत्वा ज्ञापकम् ?
न ह्यन्तरेण गुणवृद्धी असवर्णपरोऽभ्यासो भवति ।
नैतदस्ति ज्ञापकम् । अर्त्यर्थमेतत्स्यात् । इयृतः, इयृथः, उवोण, उवोणिथ ।
यत्तर्हि दीर्घ इणः किति (7-4-69) इति दीर्घत्वं शास्ति ।
एतस्याप्यस्ति वचने प्रयोजनम् ।
किम् ?
सवर्णदीर्घबाधनार्थमेतत्स्यात् । स यथैव तर्हि सवर्णदीर्घत्वं बाधते, एवं यणादेशमपि बाधेत ।
एवं तर्हि यणादेशे योगविभागः करिष्यते । इदमस्ति --- इणो यण् भवति ।
ततः --- एरनेकाचः । एश्चानेकाच इणो यण्भवति ।
ततः --- असंयोगपूर्वस्य, एरनेकाच इत्येव ।।
असवर्णग्रहणमेव तर्हि ज्ञापकम् ।
ननु चोक्तर्मत्यर्थमेतत्स्यादिति ।
नैकमुदाहरणमसवर्णग्रहणं प्रयोजयति ।।
एवमपि स्थानिवद्भावादियङ्न प्राप्नोति ।
अथ सत्यपि विप्रतिषेधे यावता स्थानिवद्भावः कथमिवैतत्सिद्ध्यति --- कस्मादेवात्र न भवति ?
योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टाच्चैषोऽचः पूर्व इति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे प्रथममाह्निकम् ।।
-6-1-13- ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे (2450)
(सम्प्रसारणाधिकरणम्)
(6009 अतिप्रसङ्गापादकवार्तिकम् ।। 1 ।।)
- ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गः -
ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गो भवति । पुत्रपत्यादौ संप्रसारणं प्राप्नोति । कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापतिकुलम् ।।
(6010 अतिप्रसङ्गाक्षेपवार्तिकम् ।। 2 ।।)
- वर्णग्रहणात्सिद्धम् -
वर्णग्रहण एतद्भवति --- यस्मिन् विधिस्तदादाविति, न चेदं वर्णग्रहणम् ।।
(6011 प्रत्याक्षेपवार्तिकम् ।। 3 ।।)
 - वर्णग्रहण इति चेत्तदन्तप्रतिषेधः -
वर्णग्रहण इति चेत्तदन्तस्य प्रतिषेधो वक्तव्यः । पुत्रपत्यन्ते संप्रसारणं प्राप्नोति । कारीषगन्ध्यापरमपुत्रः, कारीषगन्ध्यापरमपतिः, कौमुदगन्ध्यापरमपुत्रः, कौमुदगन्ध्यापरमपतिः ।
किं कारणम् ?
यत्र हि तदादिविधिर्नास्ति तदन्तविधिना तत्र भवितव्यम् ।।
(6012 प्रत्याक्षेपनिरासवार्तिकम् ।। 4 ।।)
- सिद्धं तूत्तरपदवचनात् -
सिद्धमेतत् ।
कथम् ?
उत्तरपदवचनात् । पुत्रपत्योरुत्तरपदयोरिति वक्तव्यम् ।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् ।
पूर्वपदमुत्तरपदमिति संबन्धिशब्दावेतौ । सति पूर्वपद उत्तरपदं भवति, सति चोत्तरपदे पूर्वपदमिति, न चात्र पुत्रपती उत्तरपदे ।।
इहापि तर्हि न प्राप्नोति--कारीषगन्धीपुत्रः, कारीषगन्धीपतिरिति ।
किं कारणम् ?
पूर्वपदमित्युच्यते, न ह्यत्र ष्यङ् पूर्वपदमस्ति, ष्यङन्तमेतत्पूर्वपदम् ।
कथम् ?
प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति ।।
यदि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीत्युच्यते, परमकारीषगन्धीपुत्रः --- परमकारीषगन्धीपतिरिति न सिद्ध्यति ।
प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवत्यस्त्रीप्रत्ययेनेति ।।
यद्यस्त्रीप्रत्ययेनेत्युच्यते, अतिक्रान्तः कारीषगन्ध्यामतिकारीषगन्ध्यः, तस्य पुत्रः --- अतिकारीषगन्ध्यपुत्रः, अतिकारीषगन्ध्यपतिः --- इत्यत्रापि प्राप्नोति ।
अस्त्रीप्रत्ययेनानुपसर्जनेन । यो ह्युपसर्जनं स्त्रीप्रत्ययो भवत्येषा तत्र परिभाषा --- प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति ।।
(अतिप्रसङ्गापादकभाष्यम्)
ष्यङन्ते यावन्तो यणस्तेषां सर्वेषां संप्रसारणं प्राप्नोति । वाराहीपुत्रः, तार्णकर्णीपुत्रः । तत्राप्रत्ययस्थस्य प्रतिषेधो वक्तव्यः ।।
(6013 अतिप्रसङ्गापोहवार्तिकम् ।। 5 ।।)
- यथागृहीतस्यादेशवचनादप्रत्ययस्थे सिद्धम् -
निर्दिश्यमानस्यादेशा भवन्तीत्येवमप्रत्ययस्थस्य न भविष्यति ।।
(6014 अतिप्रसङ्गापोहे सिद्धान्तवार्तिकम् ।। 6 ।।)
- अनन्त्यविकारेऽन्त्यसदेशस्य वा -
अथवा --- अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीत्येषा परिभाषा कर्तव्या ।।
कः पुनरत्र विशेषः --- एषा वा परिभाषा क्रियेत, अप्रत्ययस्थस्य वा प्रतिषेध उच्येत ?
अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि ।
कानि ?
(6015 परिभाषाप्रयोजनवार्तिकम् ।। 7 ।।)
- प्रयोजनं न संप्रसारणे संप्रसारणम् -
न संप्रसारणे संप्रसारणम् (6-1-37) इत्येतन्न वक्तव्यं भवति ।
कथं व्यधेर्विद्ध इति ?
अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति न दोषो भवति ।
नैतदस्ति प्रयोजनम् । क्रियते न्यास एव ।।
(6016 परिभाषाप्रयोजनवार्तिकम् ।। 8 ।।)
- सान्तमहतो दीर्घत्वे -
सान्तमहतो दीर्घत्वे प्रयोजनम् । पयांसि, यशांसि । प इत्यस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति दोषो न भवति ।।
एतदपि नास्ति प्रयोजनम् । नोपधायाः (6-4-7) इति तत्र वर्तते ।।
एवमप्यनांसि मनांसीत्यत्रापि प्राप्नोति ।
सान्तसंयोगेनोपधां विशेषयिष्यामः --- सान्तसंयोगस्य नोपधाया इति ।।
एवमपि हंसशिरांसि --- ध्वंसशिरांसि --- अत्रापि प्राप्नोति ।
नैष दोषः । हम्मते: हंसः ।
कः पुनराह --- हम्मतेर्हंस इति ?
किं तर्हि ?
हन्तेर्हंसः, हन्त्यध्वानमिति ।।
एवं तर्हि सर्वनामस्थान इति वर्तते । सर्वनामस्थानपरतया सान्तसंयोगं विशेषयिष्यामः, सान्तसंयोगेन नोपधाम् --- सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपधाया इति ।।
(6017 प्रयोजनवार्तिकम् ।। 9 ।।)
- अन्कारान्तस्योल्लोपे -
अन्कारान्तस्याल्लोपे प्रयोजनम् । तक्ष्णा, तक्ष्णे --- इति त इत्यत्रापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीति न दोषो भवति ।।
एतदपि नास्ति प्रयोजनम् । अनाऽकारं विशेषयिष्यामः --- अनो योऽकार इति ।।
एवमप्यनसा, अनसे --- इत्यत्रापि प्राप्नोति ।
अन्कारेणाङ्गं विशेषयिष्यामः, अना अकारम् --- अन्कारान्तस्याङ्गस्यानो योऽकार इति ।।
एवमप्यनस्तक्ष्णा, अनस्तक्ष्णे --- इत्यत्रापि प्राप्नोति ।
एवं तर्हि कार्यकालं संज्ञापरिभाषम् यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम् । भस्येति तत्रोपस्थितमिदं भवति यचि भम् (1-4-18) इति तत्र यजादिपरतयाऽन्कारं विशेषयिष्यामः, अनाऽकारम् --- यजादिपरस्यानो योऽकार इति ।।
(6018 प्रयोजनवार्तिकम् ।। 10 ।।)
- मृजेर्वृद्धिविधौ -
मृजेर्वृद्धिविधौ प्रयोजनम् । न्यमार्ट् । अटोऽपि वृद्धिः प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं
भवतीति न दोषो भवति ।।
एतदपि नास्ति प्रयोजनम् । यथापरिभाषितं इको गुणवृद्धी (1-1-3) इति, इक एव वृद्धिर्भविष्यति ।।
एवमपि मिमार्जिषतीत्यत्र प्राप्नोति ।
अस्तु ।
अभ्यासनिर्ह्रासेन ह्रस्वो भविष्यति ।।
(6019 प्रयोजनवार्तिकम् ।। 11 ।।)
- वसोः संप्रसारणे च -
वसोः संप्रसारणे च प्रयोजनम् । विदुषः पश्य । विदिवकारस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ।।
एतदपि नास्ति प्रयोजनम् । न संप्रसारणे संप्रसारणम् (6-1-37) इति प्रतिषेधो भविष्यति ।
इद्कारेण व्यवहितत्वान्न प्राप्नोति ।
एवं तर्हि निर्देश्यमानस्यादेशा भवन्तीति न भविष्यति ।।
(6020 प्रयोजनवार्तिकम् ।। 12 ।।)
- युवादीनाञ्च -
युवादीनां च संप्रसारणे प्रयोजनम् । यूनः, यूना, यूने । यकारस्यापि प्राप्नोति । अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ।।
एतदपि नास्ति प्रयोजनम् । न संप्रसारणे संप्रसारणम् इति न भविष्यति ।
उकारेण व्यवहितत्वान्न प्राप्नोति ।
एकादेशे कृते नास्ति व्यवधानम् ।
एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।
एवं तर्हि समानाङ्गग्रहणं तत्र चोदयिष्यति ।।
(6021 प्रयोजनवार्तिकम् ।। 13 ।।)
- र्वोरुपधाग्रहणं च -
र्वोश्चोपधाग्रहणं न कर्तव्यं भवति --- र्वोरुपधाया दीर्घ इकः (8-2-76) इति ।
इह कस्मान्न भवति --- अबिभर्भवान् ?
अनन्त्यविकारेऽन्त्यसदेशस्येति न दोषो भवति ।।
एतदपि नास्ति प्रयोजनम् । क्रियते न्यास एव ।।
(6022 अनन्त्यविकारेतिस्वीकारे दोषापादकवार्तिकम् ।। 14 ।।)
- आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेष्वतिप्रसङ्गः -
आदिविधावतिप्रसङ्गो भवति । धात्वादेः षः सः (6-1-14) णो नः (65) इहैव स्यात् --- नेता, सोता । इह न स्यात् --- नमति, सिञ्चतीति । आदि ।।
त्यदादिविधि । इहैव स्यात् --- तद्, सः । त्यद्, स्यः --- इत्यत्र न स्यात् । त्यदादिविधि ।।
संयोगादिलोप । इहैव स्यात् --- मङ्क्ता । मङ्क्तव्यमित्यत्र न स्यात् । संयोगादिलोप ।।
कुत्व । इहैव स्यात् --- पक्ता । पक्तव्यमित्यत्र न स्यात् । कुत्व ।।
ढत्व । इहैव स्यात् --- लेढा । लेढव्यमित्यत्र न स्यात् । ढत्व ।।
भष्भाव । इहैव स्यात् --- अभुत्सि । अभुत्सातामित्यत्र न स्यात् । भष्भाव ।।
षत्व । इहैव स्यात् --- द्रष्टा । द्रष्टव्यमित्यत्र न स्यात् । षत्व ।।
णत्व । इहैव स्यात् --- माषवापेण । माषवापाणामित्यत्र न स्यात् । णत्व ।।
(परिभाषाविषये सिद्धान्तभाष्यम्)
एते दोषाः समा भूयांसो वा, तस्मान्नार्थोऽनया परिभाषया ।।
न हि दोषाः सन्तीति परिभाषा न वक्तव्या, लक्षणं वा न प्रणेयम् । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न च मृगाः सन्तीति यवा नोप्यन्ते । दोषाः खल्वपि साकल्येन परिगणिताः । प्रयोजनानामुदाहरणमात्रम् ।
कुत एतत् ?
न हि दोषाणां लक्षणमस्ति ।
तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं दोषेषु ।
इदं प्रतिविधीयते ---
(6023 परिभाषादोषनिरासवार्तिकम् ।। 15 ।।)
- उदात्तनिर्देशात् सिद्धम् -
यत्रैषा परिभाषेष्यते तत्रोदात्तनिर्देशः कर्तव्यः । ततो वक्तव्यम् --- अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवत्युदात्तनिर्देश इति ।।
(परिभाषाऽर्थबोधकभाष्यम्)
स तर्ह्युदात्तनिर्देशः कर्तव्यः ।
न कर्तव्यः । यत्रैवान्त्यसदेशश्चानन्त्यसदेशश्च युगपत्समवस्थितौ तत्रैषा परिभाषा भवति, दोषेषु च --- अन्यत्रान्त्यसदेशः, अन्यत्रानन्त्यसदेशः । प्रयोजनेषु पुनस्तत्रैवान्त्यसदेशश्चानन्त्यसदेशश्च ।।
तथाजातीयकानि खल्वत्याचार्येण प्रयोजनानि पठितानि, यान्युभयवन्ति भवन्ति ।
इदमेकं यथा दोषास्तथा र्वोरुपधाग्रहणमिति । अविभर्भवान् । तच्चापि क्रियते न्यास एव ।।
-6-1-14- बन्धुनि बहुव्रीहौ (245)
(उपसंख्यानभाष्यम्)
मातज्मातृकमातृषु ष्यङ् प्रसार्यो विभाषया ।।
मातच् --- कारीषगन्ध्या माताऽस्य कारीषगन्धीमातः, कारीषगन्ध्यामातः । मातच् ।।
मातृक --- कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । मातृक ।।
मातृ --- कारीषगन्धीमाता, कारीषगन्ध्यामाता ।।
-6-1-16- ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (245)
(पदकृत्यभाष्यम्)
वयिग्रहणं किमर्थं न वेञ् यजादिषु पठ्यते, वेञ्ञश्च वयिरादेशः क्रियते ?
तत्र यजादीनां कितीत्येव सिद्धम् ।
तत्रैतत्स्यात् --- ङिदर्थोऽयमारम्भ इति । तच्च न । लिट्यमादेशः, लिट् च किदेव ।।
अत उत्तरं पठति ---
(6024 पदकृत्यवार्तिकम् ।। 1 ।।)
- वयिग्रहणं वेञ्ञः प्रतिषेधात् -
वयिग्रहणं क्रियते, वेञ्ञः प्रतिषेधात् । वेञ्ञो लिटि प्रतिषेधं वक्ष्यति, स वयेर्मा भूदिति ।।
यथैव हि वेञ्ञ्ग्रहणाद्विधिः प्रार्थ्यते एवं प्रतिषेधोऽपि प्राप्नोति ।।
(6025 आक्षेपवार्तिकम् ।। 2 ।।)
- न वा यकारप्रतिषेधो ज्ञापकोऽप्रतिषेधस्य -
न वा एष दोषः ।
किं कारणम् ?
यदयं लिटि वयो यः (6-1-38) इति वयेर्यकारस्य संप्रसारणस्य प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः --- न वेञ्ञ्ग्रहणाद्वयेः संप्रसारणप्रतिषेधो भवतीति ।।
नैतदस्ति ज्ञापकम्, पित्यभ्यासार्थमेतत्स्यात् । वयेः पित्सु वचनेष्वभ्यासयकारस्य संप्रसारणं मा भूदिति ।
ननु च वेञ्ञ्ग्रहणादेव वयेः पित्स्वपि वचनेष्वभ्यासयकारस्य संप्रसारणप्रतिषेधः सिद्धः ।
न सिध्यति ।
किं कारणम् ?
कितीति तत्रानुवर्तते ।।
एवमपि वयेः पित्सु वचनेष्वभ्यासस्य यकारस्य संप्रसारणं न प्राप्नोति ।
किं कारणम् ?
हलादिः शेषेण बाध्यते । नात्र हलादिः शेषः प्राप्नोति ।
किं कारणम् ?
वक्ष्यति ह्येतत् --- अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेनेति ।।
स एष वयेर्यकारस्य संप्रसारणप्रतिषेधः पित्यभ्यासार्थः, न ज्ञापकार्थो भवति ।।
(6026 समाधानवार्तिकम् ।। 3 ।।)
- पित्यभ्यासार्थमिति चेन्नाविशिष्टत्वात् -
पित्यभ्यासार्थमिति चेत् तन्न ।
किं कारणम् ?
अविशिष्टत्वात् । अविशेषेण प्रतिषेधः, निवृत्तं तत्र कितीति ।
आतश्चाविशेषेण वेञ्ञोऽपि हि पित्सु वचनेष्वभ्यासस्य संप्रसारणं नेष्यते --- ववौ, वविथेति ।
विकृतिग्रहणं खल्वपि प्रतिषेधे क्रियते, न च विकृतिः प्रकृतिं गृह्णाति ।।
-6-1-17- लिट्यभ्यासस्योभयेषाम् (2454)
(6027 ग्रह्यादीनां फले विशेषाभावबोधकवार्तिकम् ।। 1 ।।)
- ग्रहिवृश्चतिपृच्छतिभृज्जतीनामविशेषः -
(वार्तिकाशयखण्डनभाष्यम्)
यदुच्यते वृश्चेरविशेष इति । तन्न । यद्यत्र रेफस्य संप्रसारणं न स्याद्वकारस्य प्रसज्येत । रेफस्य पुनः संप्रसारणे सति उरदत्वस्य स्थानिवद्भावात् न संप्रसारणे संप्रसारणम् (6-1-37) इति प्रतिषेधः सिद्धो भवति ।
तस्माद्वक्तव्यम् --- ग्रहेरविशेषः पृच्छतिभृज्जत्योरविशेष इति ।।
(पदकृत्यभाष्यम्)
अथोभयेषां ग्रहणं किमर्थम् ?
उभयेषामभ्यासस्य संप्रसारणं यथा स्यात् --- वचिस्वपियजादीनाम्, ग्रहादीनां च ।।
नैतदस्ति प्रयोजनम् ।
प्रकृतमुभयेषां ग्रहणमनुवर्तते ।
?B यद्यनुवर्तते, ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति चेति यजादीनां ङित्यपि प्राप्नोति ।।
नैष दोषः ।
सम्बन्धमनुवर्तिष्यते --- वचिस्वपियजादीनां किति, ग्रहादीनां ङिति, वचिस्वपियजादीनां किति । ततः --- लिट्यभ्यासस्योभयेषाम्, किति ङिति --- इति निवृत्तम् ।।
अथवा मण्डूकगतयोऽधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।।
अथवैकयोगः करिष्यते --- वचिस्वपियजादीनां किति ग्रहादीनां ङिति च --- इति । ततो लिट्यभ्यासस्येति । न चैकयोगेऽनुवृत्तिर्भवति ।।
अथवोभयं निवृत्तं तदपेक्षिष्यामहे ।।
इदं तर्हि उभयेषां ग्रहणस्य प्रयोजनम् --- उभयेषामभ्यासस्य संप्रसारणमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ।
किं चान्यत् प्राप्नोति ?
हलादिशेषः । अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेन इति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति ।।
(6028 विप्रतिषेधबोधकमेकदेशिवार्तिकम् ।। 2 ।।)
- अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेन -
अभ्यासस्य संप्रसारणं भवति हलादिशेषाद्विप्रतिषेधेन । अभ्याससंप्रसारणस्यावकाशः --- इयाज, उवाप । हलादिशेषस्यावकाशः --- बिभिदतुः, बिभिदुः ।
इहोभयं प्राप्नोति --- विव्याध, विव्यधिथ । अभ्याससंप्रसारणं भवति पूर्वविप्रतिषेधेन ।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ।।
(6029 विप्रतिषेधखण्डकवार्तिकम् ।। 3 ।।)
- न वा संप्रसारणाश्रयबलीयस्त्वादन्यत्रापि -
न वा वक्तव्यः ।
किं कारणम् ?
संप्रसारणाश्रयस्य बलीयस्त्वादन्यत्रापि । संप्रसारणं संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यम् । अन्यत्रापि, नावश्यमिहैव वक्तव्यम् ।
किं प्रयोजनम् ?
(6030 संप्रसारणाश्रयस्य बलीयस्त्वप्रदर्शकवार्तिकम् ।। 4 ।।)
- प्रयोजनं रमाल्लोपेयङ्यणः -
रम् ---
भृष्टः, भृष्टवान् । संप्रसारणं च प्राप्नोति रम्भावश्च । परत्वाद्रम्भावः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यम्, संप्रसारणं यथा स्यात् ।।
आल्लोपः ---
जुहुवतुः, जुहुवुः । संप्रसारणं च प्राप्नोत्याल्लोपश्च । परत्वादाकारलोपः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात् ।।
संप्रसारणे कृते पूर्वत्वं च प्राप्नोत्याकारलोपश्च । परत्वादाल्लोपः स्यात् । संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यं पूर्वत्वं यथा स्यात् ।।
इयङ् ---
शुशुवतुः, शुशुवुः । संप्रसारणं च प्राप्नोति, इयङादेशश्च । परत्वादियङादेशः स्यात् । संप्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात् ।।
यण् ---
संप्रसारणे कृते पूर्वत्वं च प्राप्नोति, यणादेशश्च । परत्वाद्यणादेशः स्यात् । संप्रसारणाश्रयं च बलीयो भवतीति वक्तव्यं पूर्वत्वं यथा स्यात् ।।
(बलीयस्त्वप्रदर्शकखण्डकभाष्यम्)
नैतानि सन्ति प्रयोजनानि ।
यत्तावदुच्यते --- रम् --- इति । इदमिह संप्रधार्यम् --- रम्भावः क्रियतां संप्रसारणमिति । किमत्र कर्तव्यम् ?
परत्वाद्रम्भावः । नित्यं संप्रसारणम्, कृतेऽपि रम्भावे प्राप्नोत्यकृतेऽपि ।
रम्भावोऽपि नित्यः, कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि ।
कथम् ?
योऽसावृकारे रेफस्तस्य चोपधायाश्च प्राप्नोति ।
अनित्यो रम्भावः न हि कृते संप्रसारणे प्राप्नोति ।
किं कारणम् ?
न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते ।
अथापि गृह्यन्ते, एवमप्यनित्यः । उपदेशे इति वर्तते । तच्चावश्यमुपदेशग्रहणमनुर्वत्यम्, बरीभृज्यत इत्येवमर्थम् ।।
आल्लोपेयङ्यणः --- इति । नित्यं संप्रसारणम् । अन्तरङ्गं पूर्वत्वम् ।।
तदनन्यार्थं संप्रसारणं तदाश्रयञ्च बलीयो भवतीति वक्तव्यम्, पूर्वविप्रतिषेधो वा वक्तव्यः ।।
उभयं न वक्तव्यम् । उक्तमत्रोभयेषां ग्रहणस्य प्रयोजनम् --- उभयेषामभ्यासस्य संप्रसारणमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ।।
(6031 उपसंख्यानवार्तिकम् ।। 5 ।।)
- व्यचेः कुटादित्वमनस्यञ्ञ्णिति संप्रसारणार्थम् -
व्यचेः कुटादित्वमनसीति वक्तव्यम् ।
किं प्रयोजनम् ?
अञ्ञ्णिति संप्रसारणार्थम् । अञ्ञ्णिति संप्रसारणं यथा स्यात् । अद्विचिता, उद्विचितुम्, उद्विचितव्यम् ।।
अनसीति किमर्थम् ?
उरुव्यचाः कण्टकः ।।
-6-1-18- स्वापेश्चङि (2455)
चङ्ग्रहणं शक्यमकर्तुम् ।
कथम् ?
ङितीति वर्तते । न चान्यः स्वापेर्ङिदस्ति, अन्यदतश्चङः ।।
-6-1-20- न वशः (2457)
(6032 उपसंख्यानवार्तिकम् ।। 1 ।।)
- वशेर्यङि प्रतिषेधः -
वशेर्यङि प्रतिषेधो वक्तव्यः संप्रसारणस्य । वावश्यते ।
क्व मा भूत् ?
उष्टः उशन्ति --- इति । स तर्हि तथा प्रतिषेधो वक्तव्यः ।
न वक्तव्यः । यङीति वर्तते ।
एवं तर्ह्यन्वाचष्टे --- यङीति वर्तत इति ।
नैतदन्वाख्येयम् --- अधिकारा अनुवर्तन्त इति । एष एव न्यायो यदुताधिकारा अनुवर्तेरन्निति ।।
-6-1-27- शृतं पाके (2464)
(निपातनाकांक्षाभाष्यम्)
किं निपात्यते ?
(6033 निपातनबोधकवार्तिकम् ।। 1 ।।)
- श्राश्रप्योः शृभावः -
श्राश्रप्योः शृभावो निपात्यते ।।
क्षीरहविषोरिति वक्तव्यम् ।
शृतं क्षीरम्, शृतं हविः ।
क्व मा भूत् ?
श्राणा यवागूः, श्रपिता यवागूरिति ।।
(6034 निपातननियमवार्तिकम् ।। 2 ।।)
- श्रपेः शृतमन्यत्र हेतोः -
श्रपेः शृतमन्यत्र हेतोरिति वक्तव्यम् । इह मा भूत् --- श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति ।।
-6-1-28- प्यायः पी (2465)
(6035 निपातननियामकवार्तिकम् ।। 1 ।।)
- आङ्पूर्वादन्धूधसोः -
आङ्पूर्वादन्धूधसोरिति वक्तव्यम् । आपीनोऽन्धुः, आपीनमूधः ।
किं प्रयोजनम् ?
नियमार्थम् । आङ्पूर्वादन्धूधसोरेव ।
क्व मा भूत् ?
आप्यानश्चान्द्रमा इति ।।
उभयतो नियमश्चायं द्रष्टव्यः --- आङ्पूर्वादेवान्धूधसोः, अन्धूधसोरेवाङ्पूर्वादिति ।
क्व मा भूत् ? प्रप्यानोऽन्धुः, प्रप्यानमूधः ।।
आङ्पूर्वाच्चैष नियमो द्रष्टव्यः । भवति हि--पीनं पुण्यम्, पीनाः शंबट्यः, श्लक्ष्णपीनमुखी कन्येति ।।
-6-1-30- विभाषा श्वेः (2467)
(6036 आक्षेपवार्तिकम् ।। 1 ।।)
- श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः -
श्वेर्लिट्यभ्यासलक्षणं संप्रसारणं नित्यं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । शिश्वियतुः, शिश्वियुः ।।
किमुच्यतेऽभ्यासलक्षणस्येति, न पुनः किल्लक्षणस्यापि । किल्लक्षणमपि हि नित्यमत्र प्राप्नोति ।
किल्लक्षणं श्वयतिलक्षणं बाधिष्यते ।
यथैव तर्हि किल्लक्षणं श्वयतिलक्षणं बाधते, एवमभ्यासलक्षणमपि बाधेत ।।
न ब्रूमोऽपवादत्वात् श्वयतिलक्षणं किल्लक्षणं बाधिष्यत इति ।
किं तर्हि ?
परत्वात् ।
श्वयतिलक्षणस्यावकाशः पिति वचनानि --- शुशाव, शुशविथ, शिश्वाय, शिश्वयिथ ।
किल्लक्षणस्यावकाशोऽन्ये कितः --- शूनः, शूनवान् ।
इहोभयं प्राप्नोति --- शिश्वियतुः, शिश्वियुरिति ।
श्वयतिलक्षणं भवति विप्रतिषेधेन ।।
(समाधानभाष्यम्)
अभ्यासलक्षणादपि तर्हि श्वयतिलक्षणं भविष्यति विप्रतिषेधेन ।
अभ्यासलक्षणस्यावकाशोऽन्ये यजादयः --- इयाज, उवाय ।
श्वयतिलक्षणस्यावकाशः परं धातुरूपम् --- शुशुवतुः, शुशुवुः, शुशविथ ।
श्वयतेरभ्यासस्योभयं प्राप्नोति --- शिश्वियुः ।
श्वयतिलक्षणं भविष्यति विप्रतिषेधेन ।।
नैष युक्तो विप्रतिषेधः । न हि श्वयतेरभ्यासस्यान्ये यजादयोऽवकाशः । श्वयतेर्यजादिषु यः पाठः सोऽनवकाशः, तस्यानवकाशत्वादयुक्तो विप्रतिषेधः ।
तस्मात्सुष्ठूच्यते --- श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेध इति ।।
-6-1-32-33- ह्वः संप्रसारणम्-अभ्यस्तस्य च (2469-70)
-6-1-33- ह्वः संप्रसारणम्-अभ्यस्तस्य च (2469-70)
  6037 योगविभागदर्शकवार्तिकम्।।1।।
ह्वः संप्रसारणे योगविभागः
ह्वः संप्रसारणे योगविभागः कर्तव्यः। ह्वः संप्रसारणम् --- भवति णौ च संश्चङोः। ततः--अभ्यस्तस्य च ।
अभ्यस्तस्य च संप्रसारणं भवतीति। किमर्थो योगविभागः?
6038 योगविभागफलबोधकवार्तिकम्।।2।।
      णौ च संश्चङ्विषयार्थः
णौ च संश्चङिवषये ह्वः संप्रसारणं यथा स्यात्। जुहावयिषति,अजूहवत्।
किं पुनः कारणं न सिद्ध्यति? ह्वोऽभ्यस्तस्येत्युच्यते। न चैतद् ह्वोऽभ्यस्तम्। कस्य तर्हि? ह्वाययतेः। ह्व एतदभ्यस्तम्। कथम्? एकाचो द्वे प्रथमस्य (6-1-1) इति। एवं तर्हि ह्वयतेरभ्यस्तस्येत्युच्यते। न चात्र ह्वयतिरभ्यस्तम्। कस्तर्हि? ह्वाययतिः। ह्वयतिरेवात्राभ्यस्तम्। कथम्? एकाचो द्वे प्रथमस्येति। एवमपि-
6039 योगविभागफलोपष्टम्भकवार्तिकम्।।3।।
अभ्यस्तनिमित्तेऽनभ्यस्तप्रसारणार्थम्
अभ्यस्तनिमित्त इति वक्तव्यम्। किं प्रयोजनम्? अनभ्यस्तप्रसारणार्थम्। अनभ्यस्तस्य प्रसारणं यथा स्यात्। जुहूषति,जोहूयते।
6040 आक्षेपवार्तिकम्।।4।।
अभ्यस्तप्रसारणे ह्यभ्यासप्रसारणाप्राप्तिः
अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्याप्राप्तिः स्यात्। न संप्रसारणे संप्रसारणम्(6-1-37) इति प्रतिषेधः प्रसज्येत। नैष दोषः । व्यवहितत्वान्न भविष्यति।
6041 आक्षेपसाधकवार्तिकम्।।5।।
समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः
समानाङ्गे प्रसारणप्रतिषेधात्प्रतिषेधः प्राप्नोति। समानाङ्गग्रहणं तत्र चोदयिष्यति।
6042 योगविभागफलोपष्टम्भसंपादकवार्तिकम्।। 6।।
कृदन्तप्रतिषेधार्थं च
कृदन्तप्रतिषेधार्थं चाभ्यस्तनिमित्त इति वक्तव्यम्। किं प्रयोजनम्? ह्वायकमिच्छति ह्वायकीयति,ह्वाकीयतेः सन् जिह्वायकीयिषति।
    (समाधानपूर्वकसिद्धान्तभाष्यम्)
स तर्हि निमित्तशब्द उपादेयः, न ह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते। अन्तरेणापि निमित्तशब्दं निमित्तार्थोऽवगम्यते। तद्यथा -- दधित्रपुसं प्रत्यक्षो ज्वरः,ज्वरनिमित्तमिति गम्यते। नड्वलोदकं पादरोगः, पादरोगनिमित्तमिति गम्यते। आयुर्वै घृतम्, आयुषो निमित्तमिति गम्यते। अथवाऽकारो मत्वर्थीयः। अभ्यस्तमस्त्यस्मिन् सोऽयमभ्यस्तः,अभ्यस्तस्येति। अथवाऽभ्यस्तस्येति नैषा ह्वयतिसमानाधिकरणा षष्ठी।
का तर्हि? संबन्धषष्ठी । अभ्यस्तस्य यो ह्वयतिः। किं चाभ्यस्तस्य ह्वयतिः। प्रकृतिः। ह्वोऽभ्यस्तस्य प्रकृतेरिति। योगविभागस्तु कर्तव्य एव। नात्र ह्वयतिरभ्यस्तप्रकृतिः। किं तर्हि? ह्वाययतिः।
-6-1-36- अपस्पृधेथामानृचुरानृहुश्चिच्युषे तित्याज श्राताः श्रितमाशीराशीर्ताः (2473)
(निपातनोपदर्शकभाष्यम्)
अपस्पृधेथामिति किं निपात्यते ?
स्पर्धेर्लङ्यात्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनं संप्रसारणमकारलोपश्च निपात्यते । इन्द्रश्च विष्णो यदपस्पृधेथाम्, अस्पर्धेथामिति भाषायाम् ।।
अपर आह ---
अपपूर्वात्स्पर्धेर्लङ्यात्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि संप्रसारणमकारलोपश्च निपात्यते ।
इन्द्रश्च विष्णो यदपस्पृधेथाम्, अपास्पर्धेथामिति भाषायाम् ।।
श्राताः श्रितमिति किं निपात्यते ?
श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते ।
क्व पुनः श्राभावः, क्व वा श्रिभावः ?
सोमे श्राभावः, अन्यत्र श्रिभावः । न तर्हीदानीमिदं भवति --- श्रितः सोम इति ।
बहुवचने श्राभावः ।।
न तर्हीदानीमिदं भवति --- श्रिता नो ग्रहाः ।
सोमबहुत्वे श्राभावः, अन्यत्र श्रिभावः ।।
-6-1-37- न संप्रसारणे संप्रसारणम् (2474)
(सूत्रप्रयोजनभाष्यम्)
किमर्थमिदमुच्यते ?
वचिस्वपियजादीनां च ग्रहादीनां च संप्रसारणमुक्तम् । तत्र यावन्तो यणः सर्वेषां संप्रसारणं प्राप्नोति । इष्यते च परस्य यथा स्यान्न पूर्वस्य --- इति । तच्चान्तरेण यत्नं न सिध्यतीति ---
न संप्रसारणे संप्रसारणम् ।
एवमर्थमिदमुच्यते ।।
किमन्येऽप्येवं विधयो न भवन्ति --- अतो दीर्घो यञ्ञि सुपि च (7-3-101;102) इति, घटाभ्याम् । अकारमात्रस्य दीर्घत्वं कस्मान्न भवति ?
अस्त्यत्र विशेषः । इयमत्र परिभाषोपतिष्ठते --- अलोऽन्त्यस्य (1-1-52) इति ।
ननु चेदानीमेतया परिभाषयेहापि शक्यमुपस्थातुम् ।
नेत्याह । न हि वचिस्वपियजादीनां ग्रहादीनां चान्त्यो यणस्ति ।
एवं तर्ह्यनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीत्यन्त्यसदेशो यो यण् तस्य कार्यं भविष्यति ।
नैतस्याः परिभाषायाः सन्ति प्रयोजनानि ।।
(प्रयोजनाक्षेपभाष्यम्)
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति --- न सर्वस्य यणः संप्रसारणं भवतीति यदयं प्यायः पीभावं शास्ति ।
कथं कृत्वा ज्ञापकम् ?
पीभाववचन एतत्प्रयोजनम् --- आपीनोऽन्धुः, आपीनमूधः --- एतद् रूपं यथा स्यादिति । यदि चात्र सर्वस्य यणः संप्रसारणं स्यात् पीभाववचनमनर्थकं स्यात् । संप्रसारणे कृते संप्रसारणपरपूर्वत्वे द्वयोरिकारयोरेकादेशे सिद्धं रूपं स्यात् --- आपीनोऽन्धुः, आपीनमूध इति ।
पश्यति त्वाचार्यः --- न सर्वस्य यणः संप्रसारणं भवतीति ततः प्यायः पीभावं शास्ति ।।
(प्रत्याक्षेपभाष्यम्)
नैतदस्ति ज्ञापकम् । सिद्धे हि विधिरारभ्यमाणो ज्ञापको भवति, न च प्यायः संप्रसारणेन सिध्यति । संप्रसारणे हि सत्यन्त्यस्य प्रसज्येत ।।
(प्रत्याक्षेपनिरासभाष्यम्)
एवमपि ज्ञापकमेव ।
कथम् ? प्याय इति नैषा स्थानषष्ठी ।
का तर्हि ?
विशेषणषष्ठी । प्यायो यो यणिति । तदेतज्ज्ञापयत्याचार्यः --- न सर्वस्य यणः संप्रसारणं भवतीति यदयं प्यायः पीभावं शास्ति ।।
(आक्षेपसमर्थकभाष्यम्)
एवमप्यनैकान्तिकमेतत् । एतावज्ज्ञाप्यते --- न सर्वस्य यणः संप्रसारणं भवतीति । तत्र कुत एतत् परस्य
भविष्यति न पूर्वस्येति ।।
उच्यमानेऽप्येतस्मिन् सूत्रे कुत एतत्परस्य भविष्यति न पुनः पूर्वस्येति ।
एकयोगलक्षणं खल्वपि संप्रसारणम्, तद्यदि तावत्परमभिनिर्वृत्तं पूर्वमप्यभिनिर्वृत्तमेव । प्रसक्तस्य चानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं नाभिनिर्वृत्तस्य । यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्था इति, किं तेन
कृतं स्यात् ।
अथापि पूर्वमनभिनिर्वृत्तं परमप्यनभिनिर्वृत्तमेव । तत्र निमित्तसंश्रयोऽनुपपन्नो न संप्रसारणे संप्रसारणमिति ।।
(आक्षेपनिवारकभाष्यम्)
नैष दोषः । यत्तावदुच्यते --- उच्यमानेऽप्येतस्मिन् कुत एतत्परस्य भविष्यति न पूर्वस्येति । इहेङि्गतेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो गम्यते । एतदेव ज्ञापयति --- परस्य भविष्यति न पूर्वस्येति यदयं न संप्रसारणे संप्रसारणमिति प्रतिषेधं शास्ति ।।
यदप्युच्यते --- एकयोगलक्षणं खल्वपि संप्रसारणं तद्यदि तावत्परमभिनिर्वृत्तं पूर्वमप्यभिनिर्वृत्तमेव प्रसक्तस्य चानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुमिति । अस्तूभयोरभिनिर्वृत्तिः । न वयं पूर्वस्य प्रतिषेधं शिष्मः ।
किं तर्हि ?
संप्रसारणाश्रयं यत् प्राप्नोति तस्य प्रतिषेधम् । ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् ।।
यदप्युच्यते --- अथापि पूर्वमनभिनिर्वृत्तं परमप्यनभिनिर्वृत्तमेव तत्र निमित्तसंश्रयोऽनुपपन्न इति । तार्दथ्यात्ताच्छब्द्यं भविष्यति । तद्यथा --- इन्द्रार्था स्थूणा --- इन्द्र इति ।
एवमिहापि संप्रसारणार्थं संप्रसारणम् । तद्यत्प्रसारणार्थं प्रसारणं तस्मिन् प्रतिषेधो भविष्यति ।।
(वार्तिकावतरणभाष्यम्)
अथ संप्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहणं किमर्थम् ?
(6043 पदकृत्यवार्तिकम् ।। 1 ।।)
- प्रसारणप्रकरणे पुनः प्रसारणग्रहणमतोऽन्यत्र प्रसारणप्रतिषेधार्थम् -
प्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहण एतत् प्रयोजनं विदेशस्थमपि यत् संप्रसारणं तस्यापि प्रतिषेधो यथा स्यात् --- व्यथो लिटि (7-4-68) विव्यथे ।
नैतदस्ति प्रयोजनम् । हलादिशेषापवादोऽत्र संप्रसारणम् ।।
इदं तर्हि --- श्वयुवमघोनामतद्धिते (6-4-133) यूना, यूने ।
उच्यमानेऽप्येतस्मिन्न सिध्यति ।
किं कारणम् ?
उकारेण व्यवधानात् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।
एवं तर्हि ---
(6044 उपसंख्यानवार्तिकम् ।। 2 ।।)
- समानाङ्गग्रहणं च -
समानाङ्गग्रहणं च कर्तव्यम् । न संप्रसारणे संप्रसारणं समानाङ्गे इति वक्तव्यम् ।।
(6045 उपसंख्याने दोषवार्तिकम् ।। 3 ।।)
- तत्रोपोषुषि दोषः -
तत्रोपोषुषि दोषो भवति । उपोषुषा, उपोषुषे, उपोपुषि --- इति ।।
(6046 दोषनिरासवार्तिकम् ।। 4 ।।)
- न वा यस्याङ्गस्य प्रसारणप्राप्तिस्तस्मिन् प्राप्तिप्रतिषेधात् -
न वा एष दोषः ।
किं कारणम् ?
यस्याङ्गस्य प्रसारणप्राप्तिस्तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते । अत्र च वसिः क्वसावङ्गम्, क्वस्वन्तं पुनर्विभक्तौ ।।
अथवा --- यस्याङ्गस्य प्रसारणप्राप्तिरित्यनेन किं क्रियते ?
यावद्ब्रूयात् प्रसक्तस्यानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुमिति । अत्र च यदा वसेः, न तदा क्वसोः । यदा च क्वसोः, अभिनिर्वृत्तं तदा वसेर्भवति ।।
अथवा --- यस्याङ्गस्य प्रसारणप्राप्तिरित्यनेन किं क्रियते ?
यावद्ब्रूयादसिद्धं बहिरङ्गमन्तरङ्ग इति । असिद्धत्वाद्बहिरङ्गलक्षणस्य वसुसंप्रसारणस्यान्तरङ्गलक्षणः प्रतिषेधो न भविष्यति ।।
(6047 उपसंख्यानवार्तिकम् ।। 5 ।।)
- ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि -
ऋचि त्रेः संप्रसारणं वक्तव्यम्, उत्तरपदादिलोपश्छन्दसि वक्तव्यः । तृचं सूक्तम्, तृचं साम ।
छन्दसीति किम् ?
त्यृचानि ।।
(6048 उपसंख्यानवार्तिकम् ।। 6 ।।)
- रयेर्मतौ बहुलम् -
रयेर्मतौ संप्रसारणं बहुलं वक्तव्यम् । आरेवानेतु नो विशः । न च भवति --- रयिमान् पुष्टिवर्धनः ।।
(6049 उपसंख्यानवार्तिकम् ।। 7 ।।)
- कक्ष्यायाः संज्ञायाम् -
कक्ष्यायाः संज्ञायां मतौ संप्रसारणं कर्तव्यम् । कक्षीवन्तं य औशिजः । कण्वः --- कक्षीवान् ।
संज्ञायामिति किमर्थम् ?
कक्ष्यावान् हस्ती ।।
-6-1-39- वश्चास्यान्यतरस्यां किति (2476)
(वश्चास्यग्रहणप्रत्याख्यानभाष्यम्)
वश्चास्यग्रहणं शक्यमकर्तुम् । अन्यतरस्यां किति वेञ्ञो न संप्रसारणं भवतीत्येव सिद्धम् ।
कथम् ?
प्रसारणे कृत उवङादेशे च द्विर्वचनं सवर्णदीर्घत्वम् । तेन सिद्धम् --- ववतुः, ववुः, ःढ़द्य;वतुः, ःढ़द्य;वुः । वयेरपि नित्यं यकारस्य प्रतिषेधः संप्रसारणस्य, ःढ़द्य;यतुः, ःढ़द्य;युः ।
 त्रैशब्दं चेह साध्यम्, तच्चैवं सति सिद्धं भवति ।।
यद्येवं --- ववौ, वविथेति न सिद्ध्यति ।
ल्यपि च (6-1-41) इत्यनेन चकारेण लिडप्यनुकृष्यते । तस्मिन्नित्ये प्रसारणप्रतिषेधे प्राप्ते इयं किति विभाषाऽऽरभ्यते ।।
इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।।
-6-1-45- आदेच उपदेशेऽशिति (2482)
(आत्वाधिकरणम्)
(उपदेशपदार्थे पक्षद्वयदर्शकं भाष्यम्)
कथमिदं विज्ञायते --- एज्य उपदेश इति, आहोस्विदेजन्तं यदुपदेश इति ?
किं चातः ?
(उपदेशशब्दस्य करणसाधनत्वे दोषोपपादकं भाष्यम्)
यदि विज्ञायते--एज्य उपदेश इति, ढौकितात्रौकिता --- अत्रापि प्राप्नोति ।
अथ विज्ञायते --- एजन्तं यदुपदेश इति, न दोषो भवति ।।
ननु चैजन्तं यदुपदेश इत्यपि विज्ञायमाने --- अत्रापि प्राप्नोति, एतदपि हि व्यपदेशिवद्भावेनैजन्तं भवत्युपदेशे ।
अर्थवता व्यपदेशिवद्भावः ।।
ननु चैज्य उपदेश इत्यपि विज्ञायमाने न दोषो भवति । अशितीत्युच्यते, न चात्राशितं पश्यामः ।
ननु च ककार एवात्राशित् ।
न ककारे भवितव्यम् ।
किं कारणम् ?
नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा
ह्यर्थगतिः ।
नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे कार्यं विज्ञायते तथा ह्यर्थो गम्यते । तद्यथा --- लोके अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशमानयति, नासौ लोष्टमानीय कृती भवति । एवमिहाप्यशिति प्रतिषेधादन्यस्मिन्नशिति --- शित्सदृशे कार्यं विज्ञास्यते ।
किं चान्यदशित् --- शित्सदृशम् ?
प्रत्ययः ।।
इदं तर्हि --- ग्लै ग्लानीयम्, म्लै म्लानीयम्, वेञ् वानीयम्, शो निशानीयम् --- परत्वादायादयः प्राप्नुवन्ति ।।
(उपदेशशब्दस्य कर्मसाधनत्वे दोषनिवारकभाष्यम्)
ननु चैजन्तं यदुपदेश इत्यपि विज्ञायमाने परत्वादायादयः प्राप्नुवन्ति ।
सन्तु ।
आयादिषु कृतेषु स्थानिवद्भावादेज्ग्रहणेन ग्रहणात्पुनरात्वं भविष्यति ।
ननु चैज्य उपदेशे इत्यपि विज्ञायमाने परत्वादायादिषु कृतेषु स्थानिवद्भावादेज्ग्रहणेन ग्रहणादात्वं भविष्यति ।
न भविष्यति । अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम् ।।
(उपदेशशब्दस्य कर्मसाधनत्वे दोषवारकभाष्यम्)
एवं तर्हि ---
एजन्तं यदुपदेश इत्यपि विज्ञायमाने हूतः --- हूतवान् इत्यत्रापि प्राप्नोति ।
भवत्येवात्रात्वम् ।
श्रवणं कस्मान्न भवति ?
पूर्वत्वमस्य भवति ।
न सिध्यति ।
इदमिह संप्रधार्यम् --- आत्वं क्रियतां पूर्वत्वमिति ।
किमत्र कर्तव्यम् ?
परत्वात्पूर्वत्वम् ।
एवं तर्हीदमिह संप्रधार्यम् --- आत्वं क्रियतां संप्रसारणमिति ।
किमत्र कर्तव्यम् ?
परत्वादात्वम् ।
नित्यं संप्रसारणम्, कृतेऽप्यात्वे प्राप्नोत्यकृतेऽपि ।
आत्वमपि नित्यम्, कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि ।
अनित्यमात्वम्, न हि कृते संप्रसारणे प्राप्नोति ।
किं कारणम् ?
अन्तरङ्गं पूर्वत्वं तेन बाध्यते ।
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च संप्रसारणमेवात्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादात्वे कृते संप्रसारणम्, संप्रसारणपूर्वत्वम् । कार्यकृतत्वात्पुनरात्वं न भविष्यति ।
अथापि कथं चिदात्वमनित्यं स्यात्, एवमपि न दोषः । उपदेशग्रहणं न करिष्यते।।
(उपदेशग्रहणवैर्यथ्यबोधकभाष्यम्)
यदि तन्न क्रियते, चेता स्तोतेत्यत्रापि प्राप्नोति ।
नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति --- न परनिमित्तकस्यात्त्वं भवतीति, यदयं क्रीङ्जीनां णावात्वं शास्ति ।
नैतदस्ति ज्ञापकम् । नियमार्थमेतत्स्यात् --- क्रीङ्जीनां णावेवेति ।
यत्तर्हि मीनातिमिनोतिदीङां ल्यपि च (6-1-50) इत्यत्रैज्ग्रहणमनुवर्तयति ।।
इह तर्हि --- ग्लै ग्लानीयम्, म्लै म्लानीयम्, शो निशानीयम् --- परत्वादायादयः प्राप्नुवन्ति ।
अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति --- नायादय आत्वं बाधन्त इति, यदयमशितीति प्रतिषेधं शास्ति । यदि हि बाधेरन्, शित्यपि बाधेरन् ।।
(करणसाधनपक्षोपपादकभाष्यम्)
अथ वा पुनरस्तु एज्य उपदेश इति । ननु चोक्तं --- ग्लै ग्लानीयम्, म्लै म्लानीयम्, वेञ् वानीयम्, शो निशानीयम् --- परत्वादायादयः प्राप्नुवन्ति ।
अत्रापि शित्प्रतिषेधो ज्ञापकः --- नायादय आत्वं बाधन्त इति ।।
(6050 करणसाधनत्वे दोषोपपादकवार्तिकम् ।। 1 ।।)
- आत्व एश्युपसंख्यानम् -
आत्वे एश्युपसंख्यानं कर्तव्यम् । जग्ले, मम्ले । अशितीति प्रतिषेधः प्राप्नोति ।
नैष दोषः । नैवं विज्ञायते --- शकार इत् यस्य सोऽयं शित्, न शित् अशिदशितीति ।
कथं तर्हि ?
शकार इत् --- शित्, न शित् --- अशित् --- अशितीति ।।
यद्येवम्, स्तनन्धय इत्यत्रापि प्राप्नोति ।
अत्रापि शप् शिद्भवति ।।
(अशिति पदे पक्षद्वयोपस्थापकभाष्यम्)
किं पुनरयं पर्युदासः --- यदन्यच्छित इति । आहोस्वित् प्रसज्यायं प्रतिषेधः --- शिति नेति ।
कश्चात्र विशेषः ?
(6051 पर्युदासस्वीकारे दोषवार्तिकम् ।। 2 ।।)
- अशित्येकादेशे प्रतिषेध आदिवत्त्वात् -
अशित्येकादेशे प्रतिषेधो वक्तव्यः --- ग्लायन्ति, म्लायन्ति ।
किं कारणम् ?
आदिवत्त्वात् । शिदशितोरेकादेशोऽशित आदिवत्स्यात्, अस्त्यन्यच्छित इति कृत्वाऽऽत्त्वं प्राप्नोति ।।
(6052 पर्युदासपक्षे दोषवार्तिकम् ।। 3 ।।)
- प्रत्ययविधिः -
प्रत्ययविधिश्च न सिद्ध्यति --- सुग्लः, सुम्लः । आकारान्तलक्षणः प्रत्ययविधिर्न प्राप्नोति । अनिष्टे प्रत्ययेऽवस्थिते आत्वम् । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत ।।
(6053 पर्युदासपक्षे दोषवार्तिकम् ।। 4 ।।)
- अभ्यासरूपं च -
अभ्यासरूपं च न सिद्ध्यति --- जग्ले, मम्ले । इवर्णाभ्यासता प्राप्नोति ।।
(6054 पर्युदासपक्षे दोषवार्तिकम् ।। 5 ।।)
- अयवायावां प्रतिषेधश्च -
अयादीनां च प्रतिषेधो वक्तव्यः । ग्लै ग्लानीयम्, म्लै म्लानीयम्, शो निशानीयम्, वेञ् वानीयम् । परत्वादायादयः प्राप्नुवन्ति ।।
अस्तु तर्हि प्रसज्यप्रतिषेधः --- शिति नेति ।।
(6055 प्रसज्यप्रतिषेधे दोषवार्तिकम् ।। 6 ।।)
- शिति प्रतिषेधे श्लुलुकोरुपसंख्यानम् --- ररीध्वम्, त्राध्वम्, शिशीते -
शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं कर्तव्यम् । दिवो नो वृष्टिं मरुतो ररीध्वम् । लुक्त्राध्वं नो देवा निजुरो वृकस्य । शिशीते शृङ्गे रक्षसे विनिक्षे ।
नैष दोषः । इह तावत् --- दिवो नो वृष्टिं मरुतो ररीध्वमिति, नैतत् रै इत्यस्य रूपम् ।
कस्य तर्हि ?
रातेर्दानकर्मणः ।
शिशीते शृङ्गे इति नैतत् श्यते रूपम् ।
कस्य तर्हि ?
शीङः ।
श्यत्यर्थो वै गम्यते ।
कः पुनः श्यतेरर्थः ?
श्यतिर्निशाने वर्तते ।
शीङपि श्यत्यर्थे वर्तते ।
कथं पुनरन्यो नामान्यस्यार्थे वर्तते ?
बह्वर्था अपि धातवो भवन्ति । तद्यथा --- वपिः प्रकिरणे दृष्टश्छेदने चापि वर्तते --- केशान् वपति इति ।
इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्टः प्रेरणे चापि वर्तते --- अग्निर्वा इतो वृष्टिमीट्टे, मरुतोऽमुतश्च्यावयन्ति ।
करोतिरभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते --- पृष्टं कुरु, पादौ कुरु --- उन्मृदानेति गम्यते । निः क्षेपणे चापि वर्तते । घटे कुरु, कटे कुरु, अश्मानमितः कुरु --- स्थापयेति गम्यते ।।
(प्रसज्यप्रतिषेधे दोषोद्धारकभाष्यम्)
सर्वेषामेष परिहारः --- शितीत्युच्यते न चात्र शितं पश्यामः ।
प्रत्ययलक्षणेन ।
न लुमता तस्मिन्निति प्रत्ययलक्षणाप्रतिषेधः ।।
त्राध्वमिति लुङेष व्यत्ययेन भविष्यति ।।
(पर्युदासपक्षे दोषोद्धारकभाष्यम्)
अथ वा पुनरस्तु पर्युदासः । ननु चोक्तम् अशित्येकादेशे प्रतिषेध आदिवत्त्वात् इति ।
नैष दोषः ।
एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानम् ।।
यदपि प्रत्ययविधिः इति, आचार्यप्रवृत्तिर्ज्ञापयति --- भवत्येजन्तेभ्य आकारान्तलक्षणः प्रत्ययविधिरिति, यदयं ह्वावामश्च (3-2-2) इत्यणं कबाधनार्थं शास्ति ।।
यदपि अभ्यासरूपम् इति, प्रत्याख्यायते स योगः । अथापि क्रियते, एवमपि न दोषः ।
कथम् ?
लिटीत्यनुवर्तते द्विलकारकश्चायं निर्देशः । लिटि लकारादाविति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तम् --- आत्व एश्युपसंख्यानम् इति ।।
यदप्युक्तम् --- अयवायावां प्रतिषेधश्च इति, शिति प्रतिषेधो ज्ञापको नायादय आत्वं बाधन्त इति ।।
(6056 प्रतिषेधोपसंख्यानवार्तिकम् ।। 7 ।।)
- प्रातिपदिकप्रतिषेधः -
प्रातिपदिकानां प्रतिषेधो वक्तव्यः । गोभ्याम्, गोभिः, नौभ्याम्, नौभिः ।। स तर्हि वक्तव्यः ।
न वा वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति --- न प्रातिपदिकानामात्वं भवतीति, यदयं रायो हलि (7-2-85)
इत्यात्वं शास्ति ।
नैतदस्ति ज्ञापकम् । नियमार्थमेतत्स्यात् --- रायो हल्येवेति ।
यत्तर्हि औतोम् शसोः (6-1-93) इत्यात्वं शास्ति ।
एतस्याप्यस्ति वचने प्रयोजनम् --- अमि वृद्धिबाधनार्थमेतत्स्यात्, शसिप्रतिषेधार्थं च । तस्मात् प्रातिपदिकानां प्रतिषेधो वक्तव्यः ।।
न वक्तव्यः ।।
(6057 उपसंख्यानवैर्यथ्यबोधकवार्तिकम् ।। 8 ।।)
- धात्वधिकारात्प्रातिपदिकस्याप्राप्तिः -
धात्वधिकारात्प्रातिपदिकस्यात्वं न भविष्यति । धातोरिति वर्तते ।
क्व प्रकृतम् ?
लिटि धातोरनभ्यासस्य (6-1-8) इति ।।
अथापि निवृत्तम् ।
एवमप्यदोषः । उपदेशे इत्युच्यते, उद्देशश्च प्रातिपदिकानां नोपदेशः ।।
-6-1-48- क्रीङ्जीनां णौ (2485)
(6058 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आत्वे णौ लीयतेरुपसंख्यानं प्रलम्भनशालीनीकरणयोः -
आत्वे णौ लीयतेरुपसंख्यानं कर्तव्यं प्रलम्भनशालीनीकरणयोः ।
किं प्रयोजनम् ?
प्रलम्भने चार्थे शालीनीकरणे च नित्यमात्वं यथा स्यात् ।
प्रलम्भने तावत् --- जटाभिरालापयते, श्मश्रुभिरालापयते ।
शालीनीकरणे --- श्येनी वर्तिकामुल्लापयते, रथी रथिनमपलापयते ।।
-6-1-49- सिध्यतेरपारलौकिके (2486)
(6059 उपसंख्यानवार्तिकम् ।। 1 ।।)
- सिध्यतेरज्ञानार्थस्य -
सिध्यतेरज्ञानार्थस्येति वक्तव्यम् ।।
(6060 उपसंख्यानफलबोधकवार्तिकम् ।। 2 ।।)
- इतरथा ह्यनिष्टप्रसङ्गः -
अपारलौकिके इत्युच्यमानेऽनिष्टं प्रसज्येत । अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति ।।
अस्ति पुनरयं सिध्यतिः क्वचिदन्यत्रापि ज्ञानार्थे वर्तते ।
अस्तीत्याह --- तपस्तापसं सेधयति, ज्ञानमस्य प्रकाशयति ।
स्वान्येवैनं कर्माणि सेधयन्ति, ज्ञानमस्य प्रकाशयन्तीत्यर्थः ।।
-6-1-50- मीनातिमिनोतिदीङां ल्यपि च (2487)
(6061 उपसंख्यानवार्तिकम् ।। 1 ।।)
- मीनात्यादीनामात्व उपदेशवचनं प्रत्ययविध्यर्थम् -
मीनात्यादीनामात्व उपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामात्वं भवतीति वक्तव्यम् ।
किं प्रयोजनम् ?
प्रत्ययविध्यर्थम् । उपदेशावस्थायामात्वे कृत इष्टः प्रत्ययविधिर्यथा स्यात् ।।
(वार्तिकफलबोधकभाष्यम्)
के पुनः प्रत्यया उपदेशिवद्भावं प्रयोजयन्ति ?
काः ।
कास्तावन्न प्रयोजयन्ति ।
किं कारणम् ?
एच इत्युच्यते, न च केष्वेजस्ति ।
णघञ्युज्विधयस्तर्हि प्रयोजयन्ति ।
ण, अवदायः । आत इति णः सिद्धो भवति । ण ।।
घञ्, अवदायो वर्तते । आत इति घञ् सिद्धो भवति ।
किं च भो आत इति घञ्ञुच्यते ?
न खल्वप्यात इत्युच्यते, आतस्तु विज्ञायते ।
कथम् ?
अविशेषेण घञ्ञुत्सर्गः, तस्य इवर्णान्तादुवर्णान्ताच्चाजपावपवादौ । तत्रोपदेशावस्थायामात्वे कृते अपवादस्य निमित्तं नास्तीति कृत्वा, उत्सर्गेण घञ् सिद्धो भवति । एवं च कृत्वा न च आतः इत्युच्यते, आतस्तु विज्ञायते ।।
युच्, इर्षदवदानम्, स्ववदानम् । आत इति युच् सिद्धो भवति ।।
(उपदेशपदान्वयबोधकभाष्यम्)
इदं विप्रतिषिद्धम् --- एच उपदेश इति । यद्येचः, नोपदेशे । अथोपदेशे, नैचः । एचश्चोपदेशे चेति विप्रतिषिद्धम् ।
नैतद्विप्रतिषिद्धम् । आहायम् --- एच उपदेश इति । यद्येचो नोपदेशे --- अतोपदेशे नैचः, ते वयं विषयं विज्ञास्यामः --- एज्विषय इति ।।
(उपदेशपदानुवृत्तिबोधकभाष्यम्)
तत्तर्हि उपदेशग्रहणं कर्तव्यम् ।
न कर्तव्यम्, प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
आदेच उपदेशेऽशिति (45) इति ।
तद्वै प्रकृतिविशेषणम्, विषयविशेषणेन चेहार्थः ।
न चान्यार्थं प्रकृतमन्यार्थं भवति ।
न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति --- न हि गोधा सर्पन्ती सर्पणादहिर्भवति ।।
(उपदेशपदस्य यथेष्टमभिसंबन्धबोधकभाष्यम्)
यत्तावदुच्यते --- न चान्यार्थं प्रकृतमन्यार्थं भवतीति ।
अन्यार्थमपि प्रकृतमन्यार्थं भवति । तद्यथा --- शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते, उपस्पृश्यते च, शालयश्च भाव्यन्ते ।।
यदप्युच्यते --- न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति --- न हि गोधा सर्पन्ती सर्पणादहिर्भवतीति ।
भवेत्, द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येन येनाभिसंबध्यते तस्य तस्य विशेषको भवति । तद्यथा ---
गौः शुक्लः, अश्वश्च । शुक्ल इति गम्यते ।।
(6062 प्रतिषेधोपसंख्यानवार्तिकम् ।। 2 ।।)
- निमिमीलियां खलचोः प्रतिषेधः -
निमिमीलियां खलचोः प्रतिषेधो वक्तव्यः ।
इर्षन्निमयम्, सुनिमयम्, निमयो वर्तते, नियमः । मि ।।
मी । इर्षत्प्रमयम्, सुप्रमयम् प्रमयो वर्तते, प्रमयः । मी ।।
ली । इर्षद्विलयम्, सुविलयम्, विलयो वर्तते, विलयः ।।
-6-1-51- विभाषा लीयतेः (2488)
(लीयतेः इति निर्देशार्थबोधकभाष्यम्)
किमिदं लीयतेरिति ?
लिनातिलीयत्योर्यका निर्देशः ।।
-6-1-56- बिभेतेर्हेतुभये (2493)
(पदकृत्यभाष्यम्)
हेतुभय इति किमर्थम् ?
कुञ्ञ्चिकयैनं भाययति, अहिनैनं भाययति ।।
(आक्षेपभाष्यम्)
हेतुभये इत्युच्यमानेऽप्यत्र प्राप्नोति । एतदपि हेतुभयम् ।।
(समाधानभाष्यम्)
हेतुभय इति नैवं विज्ञायते --- हेतोर्भयम् --- हेतुभयम्, हेतुभय इति ।
कथं तर्हि ?
हेतुरेव भयम् --- हेतुभयम्, हेतुभय इति । यदि स एव हेतुर्भयं भवतीति ।।
-6-1-58- सृजिदृशोर्झल्यमकिति (2495)
(अमागमाधिकरणम्)
(6063 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अमि सङ्ग्रहणम् -
अमि सङ्ग्रहणं कर्तव्यम् ।
किमिदं सङिति ?
प्रत्याहारग्रहणम् ।
क्व सन्निविष्टानां प्रत्याहारः ?
सनः प्रभृति आमहिङो ङकारात् ।।
किं प्रयोजनम् ?
(6064 उपसंख्यानफलबोधकवार्तिकम् ।। 2 ।।)
- क्विप्प्रतिषेधार्थम् -
क्विबन्तस्य मा भूत् । रज्जुसृड्भ्याम्, रज्जुसृडि्भः, देवदृग्भ्याम्, देवदृग्भिः ।।
(6065 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।)
- उक्तं वा -
किमुक्तम् ?
धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात्सिद्धमिति ।।
-6-1-60- शीर्षं श्छन्दसि (2497)
(प्रकृत्यन्तरबोधनाधिकरणम्)
(6066 सूत्रार्थबोधकवार्तिकम् ।। 1 ।।)
- शीर्षन् छन्दसि प्रकृत्यन्तरम् -
शीर्षन् छन्दसि प्रकृत्यन्तरं द्रष्टव्यम् । किं प्रयोजनम् ?
आदेशप्रतिषेधार्थम् । आदेशो मा विज्ञायि, प्रकृत्यन्तरं यथा विज्ञायेत ।
किं च स्यात् ?
अस्कारान्तस्य च्छन्दसि श्रवणं न स्यात् --- शिरो मे शीर्यते मुखे, इदं ते शिरो भिनद्मीति, तद्वा अथर्वणः शिरः ।।
-6-1-61- ये च तद्धिते ( 2498)
(6067 उपसंख्यानवार्तिकम् ।। 1 ।।)
- ये च तद्धिते शिरस आदेशार्थम् -
ये च तद्धिते इत्यत्र शिरसो ग्रहणं कर्तव्यम् ।
किं प्रयोजनम् ?
आदेशार्थम् । आदेशो यथा विज्ञायेत, प्रकृत्यन्तरं मा विज्ञायि ।
किं च स्यात् ?
यकारादौ तद्धितेऽस्कारान्तस्य श्रवणं प्रसज्येत--शीर्षण्यो हि मुख्यो भवति, शीर्षण्यः स्वरः ।।
(6068 विकल्पोपसंख्यानवार्तिकम् ।। 2 ।।)
- वा केशेषु -
वा केशेषु शिरसः शीर्षन्भावो वक्तव्यः । शीर्षण्याः केशाः, शिरस्याः ।।
(6069 उपसंख्यानवार्तिकम् ।। 3 ।।)
- अचि शीर्षः -
अचि परतः शिरसः शीर्षभावो वक्तव्यः । हास्तिशीर्षिः, पैलुशीर्षिः ।।
(6070 उपसंख्यानवार्तिकम् ।। 4 ।।)
- छन्दसि च -
शिरसः शीर्षभावो वक्तव्यः । द्वे शीर्षे ।।
(आक्षेपभाष्यम्)
इह --- हास्तिशीर्ष्या, पैलुशीर्ष्या --- इति, शिरसो ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति ।
अस्तु । नस्तद्धिते (6-4-144) इति टिलोपो भविष्यति ।
न सिध्यति ।
ये चाभावकर्मणोः (6-4-167) इति प्रकृतिभावः प्रसज्येत ।
(न्यासान्तरेण दोषनिवारकभाष्यम्)
यदि पुनः येऽचि तद्धिते इत्युच्यते ।
किं कृतं भवति ?
इञ्ञि शीर्षन्भावे कृते टिलोपेन सिद्धम् ।।
(न्यासान्तरे दोषभाष्यम्)
नैवं शक्यम् । इह हि --- स्थूलशिरस इदं स्थौलशीर्षमिति --- अन् (6-4-167) अणि --- इति प्रकृतिभावः प्रसज्येत ।
तस्मान्नैवं शक्यम् । न चेदेवं शिरसो ग्रहणेन ग्रहणाच्शीर्षन्भावः प्राप्नोति ।
(प्रथमाक्षेपसमाधानभाष्यम्)
पाक्षिक एष दोषः ।
कतरस्मिन् पक्षे ?
ष्यङि्वधौ द्वैतं भवति --- अणिञ्ञोर्वाऽऽदेशः ष्यङ्, अणिञ्ञ्भ्यां वा पर इति ।
तद्यदा तावदणिञ्ञोरादेशः, तदैष दोषः ।
यदा ह्यणिञ्ञ्भ्यां परः, न तदा दोषो भवति, अणिञ्ञ्भ्यां व्यवहितत्वात् ।।
-6-1-63- पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्ञ्शकन्नुदनासञ्ञ्शस्प्रभृतिषु (2500)
(प्रकृतिग्रहणस्य प्रकारार्थत्वबोधकभाष्यम्)
शस्प्रभृतिष्वित्युच्यते, अशस्प्रभृतिष्वपि दृश्यते --- शलादोषणी, ककुद्दोषणी याचते महादेवः ।।
(6071 उपसंख्यानवार्तिकम् ।। 1 ।।)
- पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् -
पदादिषु मांस्पृत्स्नूनामुपसंख्यानं कर्तव्यम् ।
यन्नीक्षणं मांस्पचन्याः, मांसपचन्या इति प्राप्ते । मांस् ।।
पृत् । पृत्सु र्मत्यम्, पृतनासु र्मत्यमिति प्राप्ते । पृत् ।।
स्नु । न ते दिवो न पृथिव्या अधि स्नुषु, अधि सानुष्विति प्राप्ते ।।
(6072 उपसंख्यानवार्तिकम् ।। 2 ।।)
- नस्नासिकाया यत्तस्क्षुद्रेषु -
यत्तस्क्षुद्रेषु परतो नासिकाया नस्भावो वक्तव्यः । यत् । नस्यम् । यत् ।।
तस् । नस्तः । तस् ।।
क्षुद्र । नः क्षुद्रः ।।
(उपसंख्याने शङ्कासमाधानभाष्यम्)
अवर्णनगरयोरिति वक्तव्यम् । इह मा भूत् --- नासिक्यो वर्णः, नासिक्यं नगरम् ।
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । इह तावत् --- नासिक्यो वर्ण इति, परिमुखादिषु पाठः करिष्यते ।
नासिक्यं नगरमिति, संकाशादिषु पाठः करिष्यते ।।
-6-1-64- धात्वादेः षः सः (2501)
(सत्वाधिकरणम्)
(पदकृत्यभाष्यम्)
धातुग्रहणं किमर्थम् ?
इह मा भूत् --- षोडन्, षण्डः, षडिकः ।।
अथादिग्रहणं किमर्थम् ?
इह मा भूत् --- पेष्टा, पेष्टुम् ।
नैतदस्ति प्रयोजनम् । अस्त्वत्र सत्वम्, सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यति ।
इदं तर्हि --- लषिता, लषितुम् ।।
इदं चाप्युदाहरणम् --- षेष्टा, पेष्टुम् ।
ननु चोक्तम् --- अस्त्वत्र सत्वं सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यतीति ।
नैवं शक्यम् । इह हि --- पेक्ष्यतीति, षत्वस्यासिद्धत्वात् षढोः कः सि (8-2-41) इति कत्वं न स्यात् ।।
(6073 प्रतिषेधवार्तिकम् ।। 1 ।।)
- सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः -
सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः । सुब्धातु --- षोडीयति, षण्डीयति ।। ष्ठिवु --- ष्ठीवति ।। ष्वष्क, ष्वष्कते ।।
(वार्तिकान्यथासिद्धिबोधकभाष्यम्)
सुब्धातूनां तावन्न वक्तव्यः । उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ।।
यद्येवम्, नार्थो धातुग्रहणेन ।
कस्मान्न भवति --- षोडन्, षण्डः, षडिक इति ?
उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ।।
ष्ठिवेरपि द्वितीयो वर्णष्ठकारः ।
यदि ठकारः, तेष्ठीव्यत इति न सिध्यति ।
एवं तर्हि थकारः ।
यदि थकारः, टुष्ठ्यूषति --- टेष्ठीव्यते इति न सिध्यति ।
एवं तर्हि द्वाविमौ ष्ठिवू । एकस्य द्वितीयो वर्णष्ठकारः, अपरस्य थकारः ।
यस्य थकारस्तस्य सत्वं प्राप्नोति ।।
एवं तर्हि द्वाविमौ द्विषकारकौ ष्ठिवुष्वष्कती ।
किं कृतं भवति ?
पूर्वस्य षकारस्य सत्त्वे कृते परेण सन्निपाते ष्टुत्वं भविष्यति ।
नैवं शक्यम्, इह हि --- श्वलिट् ष्ठीवति, मधुलिट् ष्वष्कते --- ष्टुत्वस्यासिद्धत्वात् डः सि धुट् (8-3-29) इति धुट् प्रसज्येत ।।
एवं तर्हि यकारादी ष्ठिवुष्वष्कती ।
किं यकारो न श्रूयते ?
लुप्तनिर्दिष्टो यकारः ।।
(सूत्रप्रयोजनभाष्यम्)
अथ किमर्थं षकारमुपदिश्य तस्य स आदेशः क्रियते, न सकार एवोपदिश्येत ।
लघ्वर्थमित्याह ।
कथम् ?
अविशेषेणायं षकारमुपदिश्य सकारमादेशमुक्त्वा लघुनोपायेन षत्वं निर्वर्तयति --- आदेशप्रत्यययोः (8-3-59) इति । इतरथा हि येषां षत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् ।।
(षोपदेशप्रदर्शकभाष्यम्)
के पुनः षोपदेशा धातवः पठितव्याः ?
अथ कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् ।
अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् ।
कथम् ?
अज्दन्त्यपराः सादयः षोपदेशाः, स्मिङ्स्वदिस्विदिस्वञ्ञ्जिस्वपश्च, सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।।
-6-1-65- णो नः (2502)
(नत्वाधिकरणम्)
(सूत्रप्रयोजनभाष्यम्)
अथ किमर्थं णकारमुपदिश्य तस्य नकार आदेशः क्रियते, न नकार एवोपदिश्यते ?
लघ्वर्थमित्याह ।
कथम् ?
अविशेषेणायं णकारमुपदिश्य तस्य नकारमादेशमुक्त्वा तस्य लघुनोपायेन णत्वं निर्वर्तयति --- उपसर्गादसमासेऽपि णोपदेशस्य (8-4-14) इति ।
इतरथा हि येषां णत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् ।
(णोपदेशपरिगणनभाष्यम्)
के पुनर्णोपदेशा धातवः पठितव्याः ?
कोऽत्र भवतः पुरुषकारः ?
यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् ।
अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् ।
कथम् ?
सर्वे नादयो णोपदेशाः, नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम् ।।
-6-1-66- लोपो व्योर्वलि (2503)
(लोपाधिकरणम्)
(6074 उपसंख्यानवार्तिकम् ।। 1 ।।)
- व्योर्लोपे क्वावुपसंख्यानम् -
व्योर्लोपे क्वावुपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् --- कण्डूयतेरप्रत्ययः --- कण्डूरिति ।
किं पुनः कारणं न सिध्यति ?
वलीत्युच्यते, न चात्र वलादिं पश्यामः ।
ननु चायं क्विबेव वलादिः ।
क्विब्लोपे कृते वलाद्यभावान्न प्राप्नोति ।।
एवं तर्हि --- इदमिह संप्रधार्यम् --- क्विब्लोपः क्रियताम् --- यलोप इति, किमत्र कर्तव्यम् ?
परत्वात् क्विब्लोपः, नित्यत्वाच्च ।
नित्यः खल्वपि क्विब्लोपः । कृतेऽपि यलोपे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वात्परत्वाच्च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावाद्यलोपो न प्राप्नोति ।।
(उपसंख्यानप्रत्याख्यानभाष्यम्)
एवं तर्हि प्रत्ययलक्षणेन भविष्यति ।
वर्णाश्रये नास्ति प्रत्ययलक्षणम् । यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति ।।
अथवैवं वक्ष्यामि --- लोपो व्योर्वलि ।
ततः --- वेः । व्यन्तयोश्च व्योर्लोपो भवति ।
ततः --- अपृक्तस्य । अपृक्तस्य च लोपो भवति । वेरित्येव ।।
(6075 व्योर्वकाराक्षेपवार्तिकम् ।। 2 ।।)
- वलोपाप्रसिद्धिरूङ्भाववचनात् -
वलोपस्याप्रसिद्धिः --- आस्रेमाणम्, जीरदानुरिति ।
किं कारणम् ?
ःढ़द्य;ङ्भाववचनात् । च्छोः शूडनुनासिके च (6-4-19) इत्यूठ् प्राप्नोति ।।
(6076 वकारग्रहणेऽतिप्रसङ्गापादकवार्तिकम् ।। 3 ।।)
- अतिप्रसङ्गो व्रश्चादिषु -
व्रश्चादिषु चातिप्रसङ्गो भवति । इहापि प्राप्नोति --- व्रश्चनः, व्रीहयः, व्रण इति ।।
(अतिप्रसङ्गनिरासे वार्तिकावतरणभाष्यम्)
उपदेशसार्मथ्यात्सिद्धम् । उपदेशसार्मथ्यात् व्रश्चादिषु लोपो न भविष्यति ।।
(6077 आक्षेपवार्तिकम् ।। 4 ।।)
- उपदेशसार्मथ्यात्सिद्धमिति चेत्संप्रसारणहलादिशेषेषु सार्मथ्यम् -
उपदेशसार्मथ्यात्सिद्धमिति चेत्, अस्त्यन्यदुपदेशवचने प्रयोजनम् । संप्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणं यथा स्यात् --- वृक्णः, वृक्णवान्, वृश्चति, विव्रश्चिषतीति ।।
(6078 समाधानवार्तिकम् ।। 5 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा एतत्प्रयोजनमस्ति ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गाः संप्रसारणहलादिशेषाः, अन्तरङ्गो लोपः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
(6079 व्योर्वकारप्रत्याख्यानवार्तिकम् ।। 6 ।।)
- अनारम्भो वा -
अनारम्भो वा पुनर्वलोपस्य न्याय्यः । कथम् --- आस्रेमाणम्, जीरदानुरिति ?
(6080 अनुपपत्तिपरिहारवार्तिकम् ।। 7 ।।)
- आस्रेमाणं जीरदानुरिति वर्णलोपात् -
आस्रेमाणं जीरदानुरिति च्छान्दसाद्वर्णलोपात्सिद्धम् ।।
(6081 अनुपपत्तिपरिहारे दृष्टान्तवार्तिकम् ।। 8 ।।)
- यथा संस्फानो गयस्फानः -
तद्यथा --- संस्फायनः --- संस्फानः, गयस्फायनः --- गयस्फान इति ।।
-6-1-67- वेरपृक्तस्य (2504)
(उपसंख्यानभाष्यम्)
दर्विजागृव्योः प्रतिषेधो वक्तव्यः । दर्विः, जागृविः ।।
किमुच्यते --- दर्विजागृव्योः प्रतिषेधो वक्तव्य इति यदाऽपृक्तस्येत्युच्यते ।
भवति वै किंचित्, आचार्याः क्रियमाणमपि चोदयन्ति ।
तद्वा कर्तव्यम्, दर्विजागृव्योः प्रतिषेधो वा वक्तव्यः ।।
(6082 प्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- वेर्लोपे दर्विजागृव्योरप्रतिषेधोऽनुनासिकपरत्वात् -
वेर्लोपे दर्विजागृव्योरप्रतिषेधः । अनर्थकः प्रतिषेधः --- अप्रतिषेधः ।
लोपः कस्मान्न भवति ?
अनुनासिकपरत्वात्, अनुनासिकपरस्य विशब्दस्य ग्रहणम् । न चात्रानुनासिकपरो विशब्दः, शुद्धपरश्चात्र विशब्दः ।।
(वार्तिकाक्षेपभाष्यम्)
यद्यनुनासिकपरस्य विशब्दस्य ग्रहणमित्युच्यते, घृतस्पृक् --- दलस्पृक् --- अत्र न प्राप्नोति, न ह्येतस्माद्विशब्दादनुनासिकं परं पश्यामः ।
अनुनासिकपरत्वात् इति नैवं विज्ञायते --- अनुनासिकः परो यस्मात्सोऽयमनुनासिकपरः, अनुनासिकपरत्वादिति ।
कथं तर्हि ?
अनुनासिकः परोऽस्मिन् सोऽयमनुनासिकपरः, अनुनासिकपरत्वादिति ।।
एवमपि प्रियदर्वि --- अत्रापि प्राप्नोति ।
असिद्धोऽत्रानुनासिकः ।।
एवमपि धात्वन्तस्य प्रतिषेधो वक्तव्यः । इवि, दिवि, धिवि ।।
(6083 प्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- धात्वन्तस्य चार्थवद्ग्रहणात् -
अर्थवतो विशब्दस्य ग्रहणम्, न धात्वन्तोऽर्थवान् ।।
(6084 प्रकारान्तरबोधकवार्तिकम् ।। 3 ।।)
- वस्य वाऽनुनासिकत्वात्सिद्धम् -
अथवा वकारस्यैवेदमनुनासिकस्य ग्रहणम् । सन्ति हि यणः सानुनासिका निरनुनासिकाश्च ।।
-6-1-68- हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (2505)
(वार्तिकावतरणभाष्यम्)
यदि पुनरयमपृक्तलोपः संयोगान्तलोपो विज्ञायेत ।
किं कृतं भवति ?
द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न कर्तव्यं भवति ।।
(6085 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
 - हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावो यथा पचन्निति -
हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावः --- राजा, तक्षा । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न प्राप्नोति ।
यथा --- पचन् --- इति । तद्यथा --- पचन्, यजन् --- इत्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति ।।
(वार्तिकोक्तप्रयोजनान्यथासिद्धबोधकभाष्यम्)
नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति --- सिद्धः संयोगान्तलोपो नलोपे --- इति, यदयं न ङिसंबुद्ध्योः (8-2-8) इति संबुद्धौ प्रतिषेधं शास्ति ।
इहापि तर्हि प्राप्नोति --- पचन्, यजन् ।
तुल्यजातीयस्य ज्ञापकं भवति ।
कश्च तुल्यजातीयः ?
यः संबुद्धावनन्तरः ।।
(6086 सूत्रप्रयोजनवार्तिकम् ।। 2 ।।)
- वस्वादिषु दत्वं संयोगादिलोपबलीयस्त्वात् -
वस्वादिषु दत्वं च न सिध्यति । उखास्रत्, पर्णध्वत् ।
किं कारणम् ?
संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात्संयोगादिलोपो बलीयानिति ।।
(6087 संयोगादिलोपबलीयस्त्वबोधकवार्तिकम् ।। 3 ।।)
- यथा कूटतडिति -
तद्यथा --- कूटतट्, काष्ठतट् --- इत्यत्र संयोगान्तलोपात्संयोगादिलोपो बलीयान् भवति ।।
ननु च दत्वे कृते न भविष्यति ।
असिद्धं दत्वम्, तस्यासिद्धत्वात् प्राप्नोति ।
सिद्धकाण्डे पठितं वस्वादिषु दत्वं सौ दीर्घत्व इति । तत्रसौ दीर्घत्वग्रहणं न करिष्यते । वस्वादिषु दत्वं सिद्धमित्येव ।।
एवमप्यपदान्तत्वान्न प्राप्नोति ।
अथ सावपि पदं भवति ।
राजा, तक्षा --- नलोपे कृते विभक्तेः श्रवणं प्राप्नोति ।
सैषोभयतस्पाशा रज्जुर्भवति ।।
(6088 एकदेश्युपसंख्यानवार्तिकम् ।। 4 ।।)
- रात्तलोपो नियमवचनात् -
रात्तस्य लोपो वक्तव्यः । अबिभर्भवान्, अजागर्भवान् ।
किं पुनः कारणं न सिध्यति ?
नियमवचनात् । रात्सस्य (8-2-24) इत्येतस्मान्नियमान्न प्राप्नोति ।।
नैष दोषः । रात्सस्य इत्यत्र तकारोऽपि निर्दिश्यते ।
यद्येवम्, कीर्तयतेरप्रत्ययः --- कीः इति प्राप्नोति, कीर्त् इति चेष्यते ।
यथा लक्षणमप्रयुक्ते ।।
(6089 उपसंख्यानवार्तिकम् ।। 5 ।।)
- रोरुत्वं च -
रोश्चोत्त्वं वक्तव्यम् । अभिनोऽत्र, अच्छिनोऽत्र । संयोगान्तलोपस्यासिद्धत्वात् । अतोऽति इत्युत्वं न प्राप्नोति ।।
(6090 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 6 ।।)
- न वा संयोगान्तलोपस्योत्वे सिद्धत्वात् -
न वा वक्तव्यम् । किं कारणम् । संयोगान्तलोपस्योत्त्वे सिद्धत्वात् । संयोगान्तलोप उत्त्वे सिद्धो भवति ।।
(6091 आनर्थक्ये दृष्टान्तवार्तिकम् ।। 7 ।।)
- यथा हरिवो मेदिनमिति -
तद्यथा --- हरिवो मेदिनं त्वा --- इत्यत्र संयोगान्तलोप उत्वे सिद्धो भवति ।।
(सूत्रप्रयोजने सिद्धान्तभाष्यम्)
स एव तर्हि दोषः --- सैषोभयतस्पाशेति ।
तस्मादशक्यो हलपृक्तलोपः संयोगान्तलोपो विज्ञातुम् । न चेद्विज्ञायते, द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं कर्तव्यमेव ।।
-6-1-69- एङ्ह्रस्वात्संबुद्धेः (2506)
(6092 एकदेश्युपसंख्यानवार्तिकम् ।। 1 ।।)
- संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः -
संबुद्धिलोपे डतरादिभ्यः प्रतिषेधो वक्तव्यः । हे कतरत्, हे कतमत् ।
किमुच्यते --- डतरादिभ्यः प्रतिषेधो वक्तव्य इति यदाऽपृक्तस्येत्यनुवर्तते ?
(6093 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- अपृक्ताधिकारस्य निवृत्तत्वात् -
निवृत्तोऽपृक्ताधिकारः ।।
किं डतरादिभ्यः प्रतिषेधं वक्ष्यामीत्यतोऽपृक्ताधिकारो निवर्तते ?
नेत्याह ।।
(6094 पूर्वोक्तार्थसमर्थकवार्तिकम् ।। 3 ।।)
- तच्चामर्थम् -
स चावश्यमपृक्ताधिकारो निर्वत्यः ।
किमर्थम् ?
अमर्थम् । अमो लोपो यथा स्यात् । हे कुण्ड, हे पीठ ।।
(आक्षेपभाष्यम्)
निवृत्तेऽपि वै अपृक्ताधिकारे अमो लोपो न प्राप्नोति ।
किं कारणम् ?
मा भूत्सर्वस्य लोपः । अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य लोपे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् --- हे कुण्ड, हे पीठेति ।।
यद्येतल्लभ्येत कृतं स्यात् । तत्तु न लभ्यम् ।
किं कारणम् ?
अत्र हि तस्मादित्युत्तरस्य आदेः परस्य (1-1-67,54) इत्यकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतो दीर्घो यञ्ञि सुपि च (7-3-101;102) इति दीर्घत्वे --- हे कुण्डाम्, हे पीठाम् --- इत्येतद्रूपं प्रसज्येत ।।
(सिद्धान्तभाष्यम्)
एवं तर्हि हलो लोपः संबुद्धिलोपः ।
तद्धल्ग्रहणं कर्तव्यम् ।
न कर्तव्यम् । प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (68) इति ।
तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ।
नैष दोषः । एङ्ह्रस्वादित्येषा पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति ।।
एमवपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते --- हे कुण्डा, हे पीठा --- इत्येतद्रूपं प्रसज्येत ।
अमि पूर्वत्मत्र बाधकं भविष्यति ।
अमीत्युच्यते, न चात्रामं पश्यामः ।
एकदेशविकृतमनन्यवद्भवतीति ।।
अथ वेदमिह संप्रधार्यम् --- संबुद्धिलोपः क्रियताम्, एकादेश इति; किमत्र कर्तव्यम् ?
परत्वादेकादेशः ।
एवमप्येकादेशे कृते व्यपवर्गाभावात्संबुद्धिलोपो न प्राप्नोति ।
अन्तादिवद्भावेन व्यपवर्गो भविष्यति ।
उभयत आश्रयणे नान्तादिवत् ।
नोभयत आश्रयः करिष्यते ।
कथम् ?
नैवं विज्ञायते --- ह्रस्वादुत्तरस्याः संबुद्धेर्लोपो भवतीति ।
कथं तर्हि ?
ह्रस्वादुत्तरस्य हलो लोपो भवतीति, स चेत्संबुद्धेरिति ।।
डतरादिभ्यः स तर्हि प्रतिषेधो वक्तव्यः ।
न वक्तव्यः ।।
(6095 सिद्धान्तवार्तिकम् ।। 4 ।।)
- उक्तं वा -
किमुक्तम् ?
सिद्धमनुनासिकोपधत्वात् इति ।।
एवमपि दलोपः साधीयः प्राप्नोति ।
दुक्करणाद्वा । अथवा दुक्डतरादीनामिति वक्ष्यामि ।।
डित्करणाद्वा । अथवा डिदच्छब्दः करिष्यते ।
स तर्हि डकारः कर्तव्यः ।
क्रियते न्यास एव, द्विडकारको निर्देशः --- अद्ड्डतरादिभ्य इति ।।
एवमपि लोपः प्राप्नोति ।
विहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति ।।
(6096 एकदेशिनो विप्रतिषेधबोधकवार्तिकम् ।। 5 ।।)
- अपृक्तसंबुद्धिलोपाभ्यां लुक् -
अपृक्तसंबुद्धिलोपाभ्यां लुग्भवति विप्रतिषेधेन ।
अपृक्तलोपस्यावकाशः --- गोमान्, यवमान् ।
लुकोऽवकाशः --- त्रपु, जतु ।
इहोभयं प्राप्नोति --- तत् ब्राह्मणकुलम्, यत् ब्राह्मणकुलम् ।
संबुद्धिलोपस्यावकाशः --- अग्ने, वायो ।
लुकः स एव ।
इहोभयं प्राप्नोति --- हे त्रपु, हे जतु ।
लुग्भवति विप्रतिषेधेन ।
स तर्हि विप्रतिषेधो वक्तव्यः ।
न वक्तव्यः ।।
(6097 सिद्धान्तवार्तिकम् ।। 6 ।।)
- न वा लोपलुकोर्लुगवधारणाद्यथाऽनडुह्यत इति -
न वाऽर्थो विप्रतिषेधेन ।
किं कारणम् ?
लोपलुकोर्लुगवधारणात् । लोपलुकोर्हि लुग्वधार्यते --- लुग्लोपयणयवायावेकादेशेभ्यः ।
यथा --- अनडुह्यत इति । तद्यथा --- अनड्वानिवाचरति --- अनुडुह्यत इत्यत्र लोपलुकोर्लुगवधार्यते ।
एवमिहापि ।।
-6-1-70- शेश्छन्दसि बहुलम् (2507)
(योगानुपयोगप्रख्यापनभाष्यम्)
अयं योगः शक्योऽवक्तुम् ।
कथम् --- अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम् --- इति ?
पूर्वसवर्णेनाप्येतत्सिद्धम् ।।
न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ।।
छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः --- मधोर्गृह्णाति, मधोस्तृप्ता इवासते, इत्येवमर्थम् । तत्र पुंवद्भावेन नुमो निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ।।
भवेत्सिद्धम् --- अग्ने त्री ते वाजिना त्री षधस्था ।
इदं तु न सिध्यति --- ता ता पिण्डानामिति ।
इदमपि सिद्धम् ।
कथम् ?
साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिको भविष्यति ।।
एवमपि जसि गुणः प्राप्नोति ।
वक्ष्यत्येतत् --- जसादिषु छन्दो वावचनं प्राङ् णौ चङ्युपधायाः ।।
-6-1-71- ह्रस्वस्य पिति कृति तुक् (2508)
(तुगधिकरणम्)
(6098 तुकः पूर्वान्तत्वे दोषवार्तिकम् ।। 1 ।।)
- तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च -
तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिध्यति । आराशस्त्रिच्छत्रम् । धानाशष्कुलिच्छत्रम् । निष्कौशाम्बिच्छत्रम् । निर्वाराणसिच्छत्रम् ।
द्विगुस्वरः --- पञ्ञ्चारत्निच्छत्रम्, दशारत्निच्छत्रम् ।
तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ।।
(6099 पूर्वान्तत्वे दोषाभावोपपादकवार्तिकम् ।। 2 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा एष दोषः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक्, अन्तरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
इह तर्हि --- ग्रामणिपुत्रः, सेनानिपुत्रः, ह्रस्वत्वे कृते तुक् प्राप्नोति ।।
(6100 दोषाभावोपपादकवार्तिकम् ।। 3 ।।)
- ग्रामणिपुत्रादिषु चाप्राप्तिः -
ग्रामणिपुत्रादिषु चाप्राप्तिः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वादेव ।।
अथवा परादिः करिष्यते ।
(6101 तुकः परादित्वे दोषवार्तिकम् ।। 4 ।।)
- परादौ संयोगादेरित्यतिप्रसङ्गः -
परादौ संयोगादेरित्यतिप्रसङ्गो भवति । अपच्छायात् । वाऽन्यस्य संयोगादेः(6-4-68) इत्येत्वम्प्रसज्येत ।।
(6102 दोषवार्तिकम् ।। 5 ।।)
- विलोपवचनं च -
वेश्च लोपो वक्तव्यः । अग्निचित्, सोमसुत् । अपृक्तस्य इति वेर्लोपो न प्राप्नोति ।
नैष दोषः । अपृक्तग्रहणं न करिष्यते ।
यदि न क्रियते, दर्विः --- जागृविः अत्रापि प्राप्नोति ।
अनुनासिकपरस्य विशब्दस्य ग्रहणम्, शुद्धपरश्चात्र विशब्दः ।
एवमपि सतुक्कस्य लोपः प्राप्नोति ।
निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भविष्यति ।।
(6103 दोषवार्तिकम् ।। 6 ।।)
- इट्प्रतिषेधश्च -
इट्प्रतिषेधश्च वक्तव्यः । परीतत् । सतुक्कस्य वलादिलक्षण इट् प्रसज्येत ।।
एवं तर्ह्यभक्तः करिष्यते ।।
(6104 अभक्तत्वे दोषवार्तिकम् ।। 7 ।।)
- अभक्ते स्वरः -
यद्यभक्तस्तर्हि स्वरभेदो भवति --- दधिच्छादयति, मधुच्छादयति तिङ्ङतिङः (8-1-28) इति निघातो न प्राप्नोति ।
ननु च तुगेवातिङ् ।
न तुकः परस्य निघातः प्राप्नोति ।
किं कारणम् ?
नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्ते इवयुक्ते वाऽन्यस्मिन् तत्सदृशे कार्यं विज्ञायते, तथा ह्यर्थो गम्यते । तद्यथा --- अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशमेवानयति, नासौ लोष्टमानीय कृती भवति । एवमिहापि अतिङ् इति प्रतिषेधादन्यस्मिंस्तिङ्सदृशे कार्यं विज्ञास्यते ।
किं चान्यदतिङ् --- तिङ्सदृशम् ?
पदम् ।।
-6-1-72- संहितायाम् (2509)
(योगानर्थक्यबोधकभाष्यम्)
अयं योगः शक्योऽवक्तुम् ।
कथम् ?
अधिकरणं नाम त्रिः प्रकारम् --- व्यापकम्, औपश्लेषिकम्, वैषयिकम् --- इति ।
शब्दस्य च शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि (6-1-77) अचि उपश्लिष्टस्येति ।
तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति ।।
-6-1-74- आङ्माङोश्च (2511)
(वार्तिकावतरणभाष्यम्)
अथ किमर्थमाङ्माङोः सानुबन्धकयोर्निर्देशः ?
(6105 अनुबन्धफलबोधकवार्तिकम् ।। 1 ।।)
- आङ्माङोः सानुबन्धकयोर्निर्देशो गतिकर्मप्रवचनीयप्रतिषेधसंप्रत्ययार्थः -
आङ्माङोः सानुबन्धकयोर्निर्देशः क्रियते --- आङो गतिकर्मप्रवचनीयसंप्रत्ययार्थः, माङः प्रतिषेधसंप्रत्ययार्थः ।
-6-1-75- दीर्घात् (2512)
-6-1-76- पदान्ताद्वा (2513)
(6106 उपसंख्यानवार्तिकम् ।। 1 ।।)
- दीर्घात्पदान्ताद्वा विश्वजनादीनां छन्दसि -
दीर्घात्पदान्ताद्वेत्यत्र विश्वजनादीनां छन्दस्युपसंख्यानं कर्तव्यम् । विश्वजनस्य छत्रम्, विश्वजनस्य च्छत्रम्, न छायां कुरवोऽपराम्, न च्छायां कुरवोऽपराम् ।।
-6-1-77- इको यणचि (2514)
(यणोऽधिकरणम्)
(पदकृत्यभाष्यम्)
इग्ग्रहणं किमर्थम् ?
इह मा भूत् --- अग्निचिदत्र, सोमसुदत्र ।
नैतदस्ति प्रयोजनम् । जश्त्वमत्र बाधकं भविष्यति ।।
(प्रत्याक्षेपकश्लोकभाष्यम्)
जश्त्वं न सिद्धं यणमत्र पश्य
असिद्धमत्र जश्त्वं तस्यासिद्धत्वाद्यणादेशः प्राप्नोति ।।
(अतिव्याप्तिदर्शकश्लोकभाष्यम्)
यश्चापदान्तो हलचश्च पूर्वः ।
यश्चापदान्तो हल् अचश्च पूर्वस्तस्य प्राप्नोति । पचतीति ।।
एवं तर्हि ---
(अतिव्याप्तिवारकश्लोकभाष्यम्)
दीर्घस्य यण्
दीर्घस्य यणादेशं वक्ष्यामि ।
तद्दीर्घग्रहणं कर्तव्यम् ।
न कर्तव्यम् । प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
दीर्घात् --- पदान्ताद्वा (75;76) इति ।
तद्वै पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ।
अचीत्येषा सप्तमी दीर्घादिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66) इति ।।
भवेत्सिद्धम् --- कुमार्यत्र, ब्रह्मबन्ध्वर्थमिति ।
इदं तु न सिध्यति --- दध्यत्र, मध्वत्रेति ।।
(अतिव्याप्तिवारकश्लोकभाष्यम्)
ह्रस्व इति प्रवृत्तं
ह्रस्वग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
ह्रस्वस्य पिति कृति (71) इति ।
यदि तदनुवर्तते दीर्घात्पदान्ताद्वा ह्रस्वस्य --- इति ह्रस्वादपि पदान्ताद्विकल्पेन प्राप्नोति ।।
(दोषवारकश्लोकभाष्यम्)
संबन्धवृत्त्या
संबन्धमनुवर्तिष्यते ---
ह्रस्वस्य पिति कृति तुक् (71) ।
संहितायाम् (72) ह्रस्वस्य पिति कृति तुक् ।
छे च (73) ह्रस्वस्य पिति कृति तुक् ।
आङ्माङोश्च (74) ह्रस्वस्य पिति कृति तुक् ।
दीर्घात्पदान्ताद्वा (75-76) ह्रस्वस्य पिति कृति तुक् ।
ततः इको यणचि ह्रस्वस्येति वर्तते, पिति कृति तुगिति निवृत्तम् ।।
इह तर्हि प्राप्नोति --- चयनम्, चायकः, लवनम्, लावकः ।
अयादयोऽत्र बाधका भविष्यन्ति ।।
इह तर्हि प्राप्नोति --- खट्वेन्द्रः, मालेन्द्रः, खट्वैलका, मालैलका ।
(अतिव्याप्तिवारकश्लोकभाष्यम्)
गुणवृद्धिबाध्यम् ।।
गुणवृद्धी अत्र बाधिके भविष्यतः ।
इदं तर्हि प्रयोजनम् --- इकोऽचि यणेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ।
किं चान्यत्प्राप्नोति ?
शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ।।
(6107 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- यणादेशः प्लुतपूर्वस्य च -
यणादेशः प्लुतपूर्वस्य चेति वक्तव्यम् । अग्ना3इ इन्द्रम् --- अग्ना3यिन्द्रम् । पटा3उ उदकम्--पटा3वुदकम् । अग्ना3इ आशा--अग्ना3याशा । पटा3उ आशा --- पटा3वाशा ।।
किं पुनः कारणं न सिध्यति ?
असिद्धः प्लुतः, प्लुतविकाराविमौ ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
सिद्धः प्लुतः स्वरसन्धिषु ।
कथं ज्ञायते ?
यदयं प्लुतप्रगृह्या अचि --- (6-1-125) इति प्लुतस्य प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः --- सिद्धः
प्लुतः स्वरसन्धिष्विति ।
कथं कृत्वा ज्ञापकम् ?
सतो हि कार्यिणः कार्येण भवितव्यम् ।।
इदं तर्हि प्रयोजनम् ---
(6108 उपसंख्यानप्रयोजनवार्तिकम् ।। 2 ।।)
- दीर्घशाकलप्रतिषेधार्थम् -
दीर्घत्वं शाकलं च मा भूदिति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
एतदपि नास्ति प्रयोजनम् । आरभ्यते प्लुतपूर्वस्य यणादेशः --- तयोर्य्वावचि संहितायाम् (8-2-108)
इति, तदेव दीर्घशाकलप्रतिषेधार्थं भविष्यति ।।
तन्न वक्तव्यं भवति ।।
ननु च च तस्मिन्नप्युच्यमाने इदं न वक्तव्यं भवति ।
अवश्यमिदं वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् । भो3 इ इन्द्रम् --- भो3 यिन्द्रम् । भो3 इ इह --- भो3 यिहेति ।।
यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम् । तन्न वक्तव्यम् ।
तदप्यवश्यं स्वरार्थं वक्तव्यम् । अनेन हि सति उदात्तस्वरितयोर्यणः --- (8-2-4) इत्येष स्वरः प्रसज्येत । ते पुनः सत्यसिद्धत्वान्न भविष्यति ।।
यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यम्, इदं न वक्तव्यम् ।
ननु चोक्तम् --- इदमप्यवश्यं वक्तव्यम्, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् --- भो3 यिन्द्रम्, भो3 यिहेति ।
छान्दसमेतत् । दृष्टानुविधिश्छन्दसि भवति ।
यत्तर्हि न छान्दसम् --- भो3यिन्द्र भो3यिहेति साम गायति ।
एषोऽपि छन्दसि दृष्टस्यानुप्रयोगः क्रियते ।।
जश्त्वं न सिद्धं यणमत्र पश्य यश्चापदान्तो हलचश्च पूर्वः ।
दीर्घस्य यण् ह्रस्व इति प्रवृत्तं संबन्धवृत्त्या गुणवृद्धिबाध्यम्।। 1 ।।
नित्ये च यः शाकलभाक्समासे तदर्थमेतद्भगवांश्चकार ।
सार्मथ्ययोगान्नहि किंचिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् ।। 2 ।।
-6-1-79- वान्तो यि प्रत्यये (2516)
(आयाद्यादेशाधिकरणम्)
(6109 पूर्वपक्षिवार्तिकम् ।। 1 ।।)
- वान्तादेशे स्थानिनिर्देशः -
वान्तादेशे स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोरिति वक्तव्यम् । एकारैकारयोर्मा भूदिति ।।
(वार्तिकप्रत्याख्यानभाष्यम्)
स तर्हि वक्तव्यः ।
न वक्तव्यः । वान्तग्रहणं न करिष्यते । एचो यि प्रत्ययेऽयादयो भवन्तीत्येव सिद्धम् ।
यदि वान्तग्रहणं न क्रियते --- चेयम् जेयम् --- इत्यत्रापि प्राप्नोति ।
क्षय्यजय्यौ शक्यार्थे (6-1-81) इत्येतन्नियमार्थं भविष्यति --- क्षिज्योरेवैच इति ।
तयोस्तर्हि शक्यार्थादन्यत्रापि प्राप्नोति --- क्षेयं पापम्, जेयो वृषल इति ।
उभयतो नियमो विज्ञास्यते --- क्षिज्योरेवैचः, तयोश्च शक्यार्थ एव --- इति ।
इहापि तर्हि नियमान्न प्राप्नोति --- लव्यम्, पव्यम्, अवश्यलाव्यम्, अवश्यपाव्यम् ।
तुल्यजातीयस्य नियमः ।
कश्च तुल्यजातीयः ?
यथाजातीयकः क्षिज्योरेच् ।
कथं जातीयकः क्षिज्योरेच् ?
एकारः ।
एवमपि रायमिच्छति--रैयति, अत्रापि प्राप्नोति ।
रायिश्छान्दसः, दृष्टानुविधिश्छन्दसि भवति ।।
(6110 उपसंख्यानवार्तिकम् ।। 2 ।।)
- गोर्यूतौ छन्दसि -
गोर्यूतौ छन्दस्युपसंख्यानं कर्तव्यम् । आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । गोयूतिमित्येवान्यत्र ।।
(6111 उपसंख्यानवार्तिकम् ।। 3 ।।)
 - अध्वपरिमाणे च -
अध्वपरिमाणे च गोर्यूतावुपसंख्यानं कर्तव्यम् । गव्यूतिमध्वानं गतः । गोयूतिमित्येवान्यत्र ।।
-6-1-80- धातोस्तन्निमित्तस्यैव (2517)
(एवकारप्रयोजनभाष्यम्)
एवकारः किमर्थः ?
नियमार्थः ।
नैतदस्ति प्रयोजनम् । सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति ।।
इष्टतोऽवधारणार्थस्तर्हि । यथैवं विज्ञायेत --- धातोस्तन्निमित्तस्यैवेति, मैवं विज्ञायि --- धातोरेव तन्निमित्तस्येति ।
किं च स्यात् ?
अधातोस्तन्निमित्तस्य न स्यात् । शङ्कव्यं दारु, पिचव्यः कार्पास इति ।।
-6-1-82- क्रय्यस्तदर्थे (2519)
(तत्पदार्थोपदर्शकभाष्यम्)
तत् --- इत्यनेन किं प्रतिनिर्दिश्यते ?
स एव क्रीणात्यर्थः । इह मा भूत् --- क्रेयं नो धान्यम्, न चास्ति क्रय्यमिति ।।
-6-1-83- भय्यप्रवय्ये च च्छन्दसि (2520)
(6112 उपसंख्यानवार्तिकम् ।। 1 ।।)
- भय्यादिप्रकरणे ह्रदय्या उपसंख्यानम् -
भय्यादिप्रकरणे ह्रदय्या उपसंख्यानं कर्तव्यम् । ह्रदय्या आपः ।।
(6113 उपसंख्यानवार्तिकम् ।। 2 ।।)
- अव् शरस्य च -
अवादेशो भवतीति वक्तव्यम् । शरस्य च ह्रदस्य चातोऽव्वक्तव्यः । ह्रदव्या आपः । शरव्या वै तेजनम् । शरव्यस्य पशूनभिघातकः स्यात् ।।
(6114 शरब्यशब्दस्यान्यथासिद्धिकथनवार्तिकम् ।। 3 ।।)
- शरुवृत्ताद्वा सिद्धम् -
शरुवृत्ताद्वा पुनः सिद्धमेतत् ।।
(6115 वार्तिकम् ।। 4 ।।)
- ऋञ्जती शरुः इत्यपि दृश्यते -
ऋञ्जती शरुरित्यपि शरुशब्दप्रवृत्तिर्दृश्यते ।।
(6116 वार्तिकम् ।। 5 ।।)
- शरुहस्त इति च लोके -
शरुहस्त इति च लोके शरहस्तमुपाचरन्ति ।।
-6-1-84- एकः पूर्वपरयोः (2521)
(एकादेशाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
एकवचनं किमर्थम् ?
(6117 पदकृत्यवार्तिकम् ।। 1 ।।)
- एकवचनं पृथगादेशप्रतिषेधार्थम् -
एकवचनं क्रियते, एक आदेशो यथा स्यात्, पृथगादेशो मा भूदिति ।।
(6118 एकपदानुपयोगप्रकथनवार्तिकम् ।। 2 ।।)
- न वा द्रव्यवत्कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तेः -
न वा एतत्प्रयोजनम् ।
किं कारणम् ?
द्रव्यवत्कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तेरेक आदेशो भविष्यति । तद्यथा --- द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति । अनयोः पूलयोः कटं कुरु, अनयोर्मृत्पिण्डयोर्घटं कुरु --- इति । न चोच्यते एकमिति, एकं चासौ करोति ।।
किं पुनः कारणं द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति ?
(6119 एकपदानुपयोगसमर्थकवार्तिकम् ।। 3 ।।)
- तच्चैकवाक्यभावात् -
एकवाक्यभावाद्द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति । आतश्चैकवाक्यभावाद्व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोरेक आदेशो भवति --- ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6-4-20) भ्रस्जोरोपधयोरमन्यतरस्याम् (6-4-47) इति ।।
(लौकिकदृष्टान्तेनाक्षेपभाष्यम्)
यत्तावदुच्यते --- एकवाक्यभावान् --- इति ।
तन्न ।
अर्थात् प्रकरणाद्वा लोके द्वयोरेकस्याभिनिर्वृत्तिर्भवति । अर्थो वाऽस्यैकेन भवति, प्रकृतं वा तत्र भवति --- इदमेकमेव कर्तव्यमिति । आतश्चार्थाद्वा प्रकरणाद्वा व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोर्द्वावादेशौ भवतः --- रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8-2-42) उभौ साभ्यासस्य (8-2-21) इति ।।
कथं यत्तदुक्तं --- व्याकरणेऽपि हि अन्यत्र द्वयोः स्थानिनोरेक आदेशो भवति --- ज्वरत्वरस्रिव्यविमवामुपधायाश्च भ्रस्जो रोपधयोरमन्यतरस्याम् इति ?
इह तावत् --- ज्वरत्वरस्रिव्यविमवामुपधायश्च इति, स्तां द्वावूठौ नास्ति दोषः, सवर्णदीर्घत्वेन सिद्धम् ।
इह --- भ्रस्जो रोपधयोरमन्यतरस्याम् इति, वक्ष्यति ह्येतत् --- भ्रस्जो रोपधयोर्लोप आगमो रम्विधीयत इति ।।
(समाधानभाष्यम्)
यदुच्यते --- अर्थात् प्रकरणाद्वेति,
तन्न ।
किं कारणम् ?
एकवाक्यभावादेव लोके द्वयोरेकस्याभिनिर्वृत्तिर्भवति ।
आतश्चैकवाक्यभावात् । अङ्ग हि भवान् ग्राम्यं पांसुरपादमप्रकरणज्ञमागतं ब्रवीतु --- अनयोः पूलयोः
कटं कुरु, अनयोर्मृत्पिण्डयोर्घटं कुरु --- इति । एकमेवासौ करिष्यति ।।
कथं यदुक्तं --- व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोर्द्वावादेशौ भवतः --- रदाभ्यां निष्ठातो नः पूर्वस्य च
दः उभौ साभ्यासस्य इति ?
इह तावत् --- रदाभ्यां निष्ठातो नः, पूर्वस्य च दः --- इति द्वे वाक्ये ।
कथम् ?
योगविभागः करिष्यते --- रदाभ्यां निष्ठातो नः ततः पूर्वस्य च दः इति ।
इहापि --- उभौ साभ्यासस्य इति, उभौग्रहणसार्मथ्याद् द्वावादेशौ भविष्यतः ।।
(6120 लौकिकदृष्टान्तेनाक्षेपवार्तिकम् ।। 4 ।।)
- तत्रावयवे शास्त्रार्थसम्प्रत्ययो यथा लोके -
तत्रावयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति, यथा लोके ।
तद्यथा लोके ---
वसन्ते ब्राह्मणोऽग्नीनादधीत इति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।
गर्भाष्टमे ब्राह्मण उपनेयः इति सकृदुपनीय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।
तथा त्रिर्हृदयङ्गमाभिरदि्भरशब्दाभिरुपस्पृशेत् इति सकृदुपस्पृश्य कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।
एवमिहापि खट्वेन्द्रे कृतः शास्त्रार्थ इति कृत्वा मालेन्द्रादिषु न स्यात् ।।
(6121 लौकिकदृष्टान्तेन समाधानवार्तिकम् ।। 5 ।।)
- सिद्धं तु धर्मोपदेशनेऽनवयवविज्ञानाद् यथा लौकिकवैदिकेषु -
सिद्धमेतत् ।
कथम् ?
धर्मोपदेशनमिदं शास्त्रम्, धर्मोपदेशने चास्मिञ्ञ्छास्त्रेऽनवयवेन शास्त्रार्थः संप्रतीयते, यथा लौकिकवैदिकेषु च कृतान्तेषु ।।
लोके तावत् --- ब्राह्मणो न हन्तव्यः, सुरा न पेया --- इति,
ब्राह्मणमात्रं न हन्यते, सुरामात्रं च न पीयते ।
यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, एकं च ब्राह्मणमहत्वैकां च सुरामपीत्वाऽन्यत्र कामचारः स्यात् ।
तथा --- पूर्ववया ब्राह्मणः प्रत्युत्थेयः इति,
पूर्ववयोमात्रं प्रत्युत्थीयते ।
यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, एकं पूर्ववयसं प्रत्युत्थायान्यत्र कामचारः स्यात् ।।
तथा --- वेदे खल्वपि वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतूभिर्यजेतेति,
अग्न्याधाननिमित्तं वसन्ते वसन्ते इज्यते ।
यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, सकृदिष्ट्वा पुनरिज्यायां न प्रवर्तेत ।।
(द्विविधदृष्टान्तव्यवस्थापकभाष्यम्)
उभयथेह लोके दृश्यते --- अवयवेनापि शास्त्रार्थसंप्रत्ययः, अनवयवेनापि ।
कथं पुनरिदमुभयं लभ्यते ?
लभ्यमित्याह ।
कथम् ?
इह तावत् --- वसन्ते ब्राह्मणोऽग्नीनादधीतेति,
अग्न्याधानं यज्ञमुखप्रतिपत्त्यर्थम् । सकृदाधाय कृतः शास्त्रार्थःउप्रतिपन्नं यज्ञमुखमिति कृत्वा पुनः प्रवृर्तिर्न भवति । अतोऽत्रावयवेन शास्त्रार्थः संप्रतीयते ।
तथा --- गर्भाष्टमे ब्राह्मण उपनेय इति,
उपनयनं संस्कारार्थम् । सकृच्चासावुपनीतः संस्कृतो भवति । अतोऽत्राप्यवयवेन शास्त्रार्थः संप्रतीयते

तथा --- त्रिर्हृदयङ्गमाभिरदि्भरशब्दाभिरुपस्पृशेदिति,
उपस्पर्शनं शौचार्थम् । सकृच्चासावुपस्पृश्य शुचिर्भवति । अतोऽत्राप्यवयवेन शास्त्रार्थः संप्रतीयते ।।
इहेदानीम् --- ब्राह्मणो न हन्तव्यः --- सुरा न पेयेति,
ब्राह्मणवधे सुरापाने च महान् दोष उक्तः । स ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः । अतोऽत्रानवयवेन शास्त्रार्थः संप्रतीयते ।
तथा --- पूर्ववया ब्राह्मणः प्रत्युत्थेय इति,
पूर्ववयसोऽप्रत्युत्थाने दोष उक्तः, प्रत्युत्थाने च गुणः ।
कथम् ?
ःढ़द्य;र्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ।। इति ।
स च पूर्ववयोमात्रे प्रसक्तः । अतोऽत्राप्यनवयवेन शास्त्रार्थः संप्रतीयते ।
तथा --- वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रितुभिर्यजेतेति,
इज्यायाः किंचित्प्रयोजनमुक्तम् ।
किम् ?
स्वर्गे लोकेऽप्सरस एनं जाया भूत्वोपशेरते इति । तच्च द्वितीयस्याश्च तृतीयस्याश्चेज्यायाः फलं भवितुमर्हति । अतोऽत्राप्यनवयेन शास्त्रार्थः संप्रतीयते ।
तथा --- शब्दस्यापि ज्ञाने प्रयोजनमुक्तम् ।
किम् ?
एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः
सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति --- इति ।
यद्येकः शब्दः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति, किमर्थं द्वितीयस्तृतीयश्च प्रयुज्यते ?
न वै कामानां तृप्तिरस्ति ।।
(वार्तिकावतरणभाष्यम्)
अथ पूर्वपरग्रहणं किमर्थम् ?
(6122 पदकृत्यवार्तिकम् ।। 6 ।।)
- पूर्वपरग्रहणं परस्यादेशप्रतिषेधार्थम् -
पूर्वपरग्रहणं क्रियते परस्यादेशप्रतिषेधार्थम् । परस्यादेशो मा भूत् --- आद् गुणः (6-1-87) इति ।।
कथं च प्राप्नोति ?
(6123 पदकृत्यसमर्थकवार्तिकम् ।। 7 ।।)
- पञ्चमीनिर्दिष्टाद्धि परस्य -
पञ्चमीनिर्दिष्टाद्धि परस्य कार्यमुच्यते । तद्यथा --- द्व्यन्तरुपसर्गेभ्योऽप इर्त् (6-3-97) इति ।।
(6124 पदकृत्यसमर्थकवार्तिकम् ।। 8 ।।)
- षष्ठीनिर्दिष्टार्थं तु -
षष्ठीनिर्देशार्थं च पूर्वपरग्रहणं क्रियते । षष्ठीनिर्देशो यथा प्रकल्पेत ।।
(6125 पदकृत्यसमर्थकवार्तिकम् ।। 9 ।।)
 - अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः -
अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्याप्रसिद्धिः स्यात् ।
कस्य ?
स्थानेयोगत्वस्य ।।
नैष दोषः । आदित्येषा पञ्चमी अचीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1-1-67) इति ।
तथा --- अचीत्येषा सप्तमी आदिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-68) इति ।।
एवं तर्हि सिद्धे सति यत्पूर्वपरग्रहणं करोति तज्ज्ञापयत्याचार्यः --- नोभे युगपत्प्रकल्पिके भवत इति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
यदुक्तं --- सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्ग इति, स न दोषो भवति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ।।
-6-1-85- अन्तादिवच्च (2522)
(अतिदेशाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
किमर्थमिदमुच्यते ?
(6126 प्रयोजनवार्तिकम् ।। 1 ।।)
- अन्तादिवद्वचनमामिश्रस्यादेशवचनात् -
अन्तादिवद्वचनं क्रियते, आमिश्रस्यादेशवचनात् । आमिश्रस्यायमादेश उच्यते स नैव पूर्वग्रहणेन गृह्यते, नापि परग्रहणेन । तद्यथा --- क्षीरोदके संपृक्ते आमिश्रत्वान्नैव क्षीरग्रहणेन गृह्येते नाप्युदकग्रहणेन, इष्यते च ग्रहणं स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यन्तादिवद्वचनम् ।
एवमर्थमिदमुच्यते ।।
(वार्तिकावतरणभाष्यम्)
अस्ति प्रयोजनमेतत् ।
किं तर्हीति ?
(6127 पूर्वपक्षिवार्तिकम् ।। 2 ।।)
- तत्र यस्यान्तादिवत्तन्निर्देशः -
तत्र यस्यान्तादिवद्भाव इष्यते तन्निर्देशः कर्तव्यः । अस्यान्तवद्भवति, अस्यादिवद्भवतीति वक्तव्यम् ।।
(6128 समाधानवार्तिकम् ।। 3 ।।)
- सिद्धं तु पूर्वपराधिकारात् -
सिद्धमेतत् ।
कथम् ?
पूर्वपराधिकारात् । पूर्वपरयोरिति वर्तते । पूर्वस्य कार्यं प्रत्यन्तवद्भवति । परस्य कार्यं प्रत्यादिवद्भवति ।।
(सूत्रस्याप्रवृत्तिस्थलबोधकभाष्यम्)
अथ यत्रोभयमाश्रीयते, किं तत्र पूर्वस्यान्तवद्भवति --- आहोस्वित्परस्यादिवद्भवति ?
उभयत आश्रये नान्तादिवत् ।
किं वक्तव्यमेतत् ?
न हि ।
कथमनुच्यमानं गंस्यते ?
लौकिकोऽयं दृष्टान्तः । तद्यथा --- लोके द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत् प्रेषयतः, नानादिक्षु च कार्ये भवतः, तत्र यद्यसावविरोधार्थी भवति उभयोर्न करोति

किं पुनः कारणमुभयोर्न करोति ?
यौगपद्यासंभवात् । नास्ति यौगपद्येन संभवः ।।
(वार्तिकावतरणभाष्यम्)
अथान्तवत्त्वे कानि प्रयोजनानि ?
(6129 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 4 ।।)
- अन्तवत्त्वे प्रयोजनं बह्वच्पूर्वपदाट्ठज्विधाने -
अन्तवत्त्वे बह्वच्पूर्वपदाट्ठज्विधाने प्रयोजनम् । द्वादशान्यिकः । पूर्वपदोत्तरपदयोरेकादेशः पूर्वस्यान्तवद्भवति, यथा शक्यते कर्तुं --- बह्वच्पूर्वपदाट्ठज्भवतीति ।
क्व तर्हि स्यात् ?
यत्र कृतेऽप्येकादेशे बह्वच्पूर्वपदं भवति --- त्रयोदशान्यिकः ।।
(6130 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 5 ।।)
- प्रत्ययैकादेशः पूर्वविधौ -
प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् । मधु पिबन्ति । शिदशितोरेकादेशः शितोऽन्तवद्भवति, यथा शक्येत कर्तुं --- शितीति पिबादेशः ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- पिबति ।।
(6131 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 6 ।।)
- वैभक्तस्य णत्वे -
वैभक्तस्य णत्वे प्रयोजनम् । क्षीरपेण, सुरापेण । उत्तरपदविभक्त्योरेकादेश उत्तरपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् --- एकाजुत्तरपदे णो भवतीति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- क्षीरपाणाम्, सुरापाणाम् ।।
(6132 अन्तवत्त्वप्रयोजनवार्तिकम् ।। 7 ।।)
- अदस इर्त्वोत्वे -
अदस इर्त्वोत्वे प्रयोजनम् । अमी अत्र, अमी आसते । अमू अत्र, अमू आसाते । अदस्विभक्त्योरेकादेशोऽदसोऽन्तवद्भवति, यथा शक्येत कर्तुं --- अदसोसेर्दादुदोमः एत इर्द्बहुवचने (8-2-80;81) इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- अमीभिः, अमूभ्याम् ।।
(वार्तिकावतरणे प्रयोजनभाष्यम्)
स्वरितत्वे प्रयोजनम् --- कार्या, हार्या । तिदतितोरेकादेशस्तितोऽन्तवद्भवति, यथा शक्येत कर्तुं --- तित्स्वरितम् (6-1-185) इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- कार्यः, हार्यः ।।
(6133 भाष्योक्तप्रयोजनखण्डनवार्तिकम् ।। 8 ।।)
- स्वरितत्वं विप्रतिषेधात् -
स्वरितत्वं क्रियताम् --- एकादेश इति, किमत्र कर्तव्यम् ?
परत्वात्स्वरितत्वं भविष्यति विप्रतिषेधेन ।।
(विप्रतिषेधाक्षेपनिरासभाष्यम्)
नैष युक्तो विप्रतिषेधः, नित्य एकादेशः, कृतेऽपि स्वरितत्वे प्राप्नोत्यकृतेऽपि ।
अनित्य एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति, अन्यथास्वरस्याकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति ।।
अन्तरङ्गस्तर्ह्येकादेशः ।
काऽन्तरङ्गता ?
वर्णावाश्रित्यैकादेशः, पदस्य स्वरितत्वम् ।
स्वरितत्वमप्यन्तरङ्गम् ।
कथम् ?
उक्तमेतत् --- पदग्रहणं परिमाणार्थमिति ।
उभयोरन्तरङ्गयोः परत्वात्स्वरितत्वम्, स्वरितत्वे कृते आर्न्तय्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो
भविष्यति ।।
(6134 खण्डनोपष्टम्भकवार्तिकम् ।। 9 ।।)
- लिङ्गविशिष्टग्रहणाद्वा -
अथवा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवमत्र स्वरितत्वं भविष्यति ।।
(वार्तिकावतरणे प्रयोजनभाष्यम्)
पूर्वपदान्तोदात्तत्वं च प्रयोजनम् --- गुडोदकम्, मथितोदकम् । पूर्वपदोत्तरपदयोरेकादेशः पूर्वपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् --- उदकेऽकेवले पूर्वपदस्यान्त उदात्तो भवतीति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो नास्ति --- उदश्विदुदकम् ।।
(6135 अवतरणोक्तप्रयोजनखण्डनवार्तिकम् ।। 10 ।।)
- पूर्वपदान्तोदात्तत्वं च -
पूर्वपदान्तोदात्तत्वं च विप्रतिषेधात् । पूर्वपदान्तोदात्तत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ?
परत्वात्पूर्वपदान्तोदात्तत्वम् । पूर्वपदान्तोदात्तस्यावकाशः --- उदश्विदुदकम् । एकादेशस्यावकाशः --- दण्डाग्रम्, क्षुपाग्रम् ।
इहोभयं प्राप्नोति --- मथितोदकम्, गुडोदकम् ।
पूर्वपदान्तोदात्तत्वं भवति विप्रतिषेधेन ।।
स चावश्यं विप्रतिषेध आश्रयितव्यः ।
(6136 विप्रतिषेधप्रयोजनवार्तिकम् ।। 11 ।।)
- एकादेशे हि स्वरिताप्रसिद्धिः -
एकादेशे हि स्वरितस्याप्रसिद्धिः स्यात् । यो हि मन्यते --- अस्त्वत्रैकादेशः, एकादेशे कृते पूर्वपदान्तोदात्तत्वं भविष्यति --- इति, स्वरितत्वं तस्य न सिध्यति --- स्वरितो वाऽनुदात्ते पदादौ (8-2-6) इति । गुडोदकम्, मथितोदकम् ।।
(वार्तिकावतरणेऽन्तवत्त्वप्रयोजनभाष्यम्)
कृदन्तप्रकृतिस्वरत्वं च प्रयोजनम् । प्राटिता प्राशिता । कृद्गत्योरेकादेशो गतेरन्तवद्भवति । यथा शक्यते कर्तुम् --- गतिकारकोपपदात्कृदन्तमुत्तरपदं प्रकृतिस्वरं भवति --- इति ।
क्व तर्हि स्यात् ?
यत्र नैकादेशः --- प्रकारकः, प्रकरणम् ।।
(6137 भाष्योक्तप्रयोजनान्यथासिद्धिवार्तिकम् ।। 12 ।।)
- कृदन्तप्रकृतिस्वरत्वं च -
कृदन्तप्रकृतिस्वरत्वं विप्रतिषेधात् ।
कृदन्तप्रकृतिस्वरत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ?
कृदन्तप्रकृतिस्वरस्यावकाशः --- प्रकारकः, प्रकरणम् ।
एकादेशस्यावकाशः --- दण्डाग्रम्, क्षुपाग्रम् ।
इहोभयं प्राप्नोति --- प्राटिता, प्राशिता ।
कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन ।।
स चावश्यं विप्रतिषेध आश्रयितव्यः ।
(6138 अन्तवत्त्वेनासिद्धिबोधकवार्तिकम् ।। 13 ।।)
- एकादेशे ह्यप्रसिद्धिरुत्तरपदस्यापरत्वात् -
यो हि मन्यते --- अस्त्वत्रैकादेशः, एकादेशे कृते कृदन्तप्रकृतिस्वरत्वं भविष्यतीति, कृदन्तप्रकृतिस्वरत्वं
तस्य न सिध्यति ।
किं कारणम् ?
उत्तरपदस्यापरत्वात् ।
न हीदानीमेकादेशे कृत उत्तरपदं परं भवति ।
ननु चान्तादिवद्भावेन परम् ।
उभयत आश्रये नान्तादिवत् ।।
(6139 विप्रतिषेधबोधकवार्तिकम् ।। 14 ।।)
- उत्तरपदवृद्धिश्चैकादेशात् -
उत्तरपदवृद्धःथ्द्य;श्चैकादेशाद्भवति विप्रतिषेधेन ।
उत्तरपदवृद्धेरवकाशः --- पूर्वत्रैगर्तकः, अपरत्रैगर्तकः ।
एकादेशस्यावकाशः --- दण्डाग्रम्, क्षुपाग्रम् ।
इहोभयं प्राप्नोति --- पूर्वैषुकामशमः, अपरैषुकामशमः ।
उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ।।
(6140 एकादेशस्यान्तरङ्गत्वबोधकवार्तिकम् ।। 15 ।।)
- एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् -
एकादेशस्तु प्राप्नोति ।
किं कारणम् ?
अन्तरङ्गबलीयस्त्वात् । अन्तरङ्गं बलीयो भवति ।
तत्र को दोषः ?
(6141 एकादेशस्यान्तरङ्गत्वे दोषवार्तिकम् ।। 16 ।।)
- तत्र वृद्धिविधानम् -
तत्र वृद्धिर्विधेया ।।
(एकादेशसाधकभाष्यम्)
नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति --- पूर्वोत्तरपदयोस्तावत्कार्यं भवति, नैकादेशः --- इति, यदयम् नेन्द्रस्य परस्य (7-3-22) इति प्रतिषेधं शास्ति ।
कथं कृत्वा ज्ञापकम् ?
इन्द्रे द्वावचौ । तत्रैकः यस्य --- इति लोपेन ह्रियते, अपर एकादेशेन । अनच्क इन्द्रः संपन्नः । तत्र को वृद्धेः प्रसङ्गः ? पश्यति त्वाचार्यः --- पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश इति, ततो नेन्द्रस्य परस्य इति प्रतिषेधं शास्ति ।।
(वार्तिकावतरणभाष्यम्)
अथादिवत्त्वे कानि प्रयोजनानि ?
(6142 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 17 ।।)
- आदिवत्त्वे प्रयोजनं प्रगृह्यसंज्ञायाम् -
आदिवत्त्वे प्रगृह्यसंज्ञायां प्रयोजनम् । अग्नी इति, वायू इति । द्विवचनाद्विवचनयोरेकादेशो द्विवचनस्यादिवद्भवति । यथा शक्येत कर्तुम् --- इर्दूदेदि्द्ववचनं प्रगृह्यम् (1-1-11) इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- त्रपुणी इति, जतुनी इति ।।
(6143 आदिवत्वे प्रयोजनवार्तिकम् ।। 18 ।।)
- सुप्तिङाब्विधिषु -
सुप्तिङाब्विधिषु प्रयोजनम् ।
सुप् --- वृक्षे तिष्ठति, प्लक्षे तिष्ठति । सुब्सुपोरेकादेशः सुप आदिवद्भवति । यथा शक्यते कर्तुम्-सुबन्तं
पदम् --- इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- वृक्षस्तिष्ठति, प्लक्षस्तिष्ठति । सुप् ।।
तिङ् --- पचे, यजे --- इति । तिङतिङोरेकादेशस्तिङ आदिवद्भवति । यथा शक्यते कर्तुम् --- तिङन्तं पदम् --- इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न भवति --- पचति, यजति । तिङ् ।।
आप् --- खट्वा, माला । आबनापोरेकादेश आप आदिवद्भवति । यथा शक्यते कर्तुम् --- आबन्तात्सोर्लोपो भवति --- इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न --- कुञ्ञ्चा, उष्णिहा, देवविशा ।।
(6144 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 19 ।।)
आङ्ग्रहणे पदविधौ प्रयोजनम् । अद्याहते, कदाहते । आङनाङोरेकादेश आङ आदिवद्भवति । यथा शक्येत कर्तुम् --- आङो यमहनः (1-3-28) इत्यात्मनेपदं भवति --- इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न --- आहते ।।
(6145 आदिवत्वे प्रयोजनवार्तिकम् ।। 20 ।।)
- आटश्च वृद्धिविधौ -
आटश्च वृद्धिविधौ प्रयोजनम् । अद्यैहिष्ट, कदैहिष्ट । आटोऽद्यशब्दस्य चैकादेश आट आदिवद्भवति । यथा शक्येत कर्तुम् --- आटश्च अचि वृद्धिर्भवति --- इति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न --- ऐहिष्ट, ऐक्षिष्ट ।।
(6146 आदिवत्त्वे प्रयोजनवार्तिकम् ।। 21 ।।)
- कृदन्तप्रातिपदिकत्वे च -
कृदन्तप्रातिपदिकत्वे च प्रयोजनम् । धारयः, पारयः । कृदकृतोरेकादेशः कृत आदिवद्भवति । यथा शक्येत कर्तुम् --- कृदन्तं प्रातिपदिकमिति ।
क्व तर्हि स्यात् ?
यत्रैकादेशो न --- कारकः, हारकः ।।
(6147 अन्तादिवद्भावनिषेधवार्तिकम् ।। 22 ।।)
- नाभ्यासादीनां ह्रस्वत्वे -
अभ्यासादीनां ह्रस्वत्वे नान्तादिवद्भवतीति वक्तव्यम् ।
के पुनरभ्यासादयः ?
अभ्यासोहाम्बार्थनदीनपुंसकोपर्जनह्रस्वत्वानि ।
अभ्यासह्रस्वत्वम् --- उपेयाज, उपोवाप ।
ःढ़द्य;हेर्ह्रस्वत्वम् --- उपोह्यते, प्रोह्यते, परोह्यते ।
अम्बार्थ --- नदी --- नपुंसक --- उपसर्जनह्रस्वत्वानि --- अम्बात्र, अक्कात्र । कुमारीदम्, किशोरीदम् । आराशस्त्रीदम्, धानाशष्कुलीदम् । निष्कौशाम्बीदम्, निर्वाराणसीदम् । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणाद्ह्रस्वत्वं प्राप्नोति ।।
(6148 निषेधानर्थक्यबोधकवार्तिकम् ।। 23 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा एतद्वक्तव्यम् ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । अन्तरङ्गं ह्रस्वत्वम्, बहिरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
(6149 अन्तादिवद्भावनिषेधवार्तिकम् ।। 24 ।।)
- वर्णाश्रयविधौ च -
वर्णाश्रयविधौ च नान्तादिवद्भवतीति वक्तव्यम् ।
किं प्रयोजनम् ?
(6150 अन्तादिवद्भावनिषेधप्रयोजनवार्तिकम् ।। 25 ।।)
- प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति -
इह --- खट्वाभिः, मालाभिः --- अतो भिस ऐस्भवतीत्यैस्भावः प्राप्नोति । नैष दोषः । तपरकरणसार्मथ्यान्न भविष्यति ।
अस्त्यन्यत् तपरकरणे प्रयोजनम् ।
किम् ?
कीलालपाभिः, शुभंयाभिः ।।
जुहाव --- आत औ णलः (7-1-34) इत्यौत्वं प्राप्नोति ।।
अस्या अश्व इति --- एङः पदान्तादति (6-1-109) इति पूर्वत्वं प्राप्नोति ।।
(6151 निषेधप्रत्याख्यानवार्तिकम् ।। 26 ।।)
- न वाऽताद्रूप्यातिदेशात् -
न वा वक्तव्यम् ।
किं कारणम् ?
अताद्रूप्यातिदेशात् । न हि ताद्रूप्यमतिदिश्यते । रूपाश्रया वा एते विधयः, अताद्रूप्यान्न भविष्यन्ति ।।
-6-1-86- षत्वतुकोरसिद्धः (2523)
(वार्तिकावतरणभाष्यम्)
किमर्थमिदमुच्यते ?
(6152 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च -
षत्वतुकोरसिद्धत्वमुच्यते, आदेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च ।
आदेशलक्षणप्रतिषेधार्थं तावत् --- कोऽसिञ्चत्, सोऽसिञ्चत् । एकादेशे कृते इण इति षत्वं प्राप्नोति, असिद्धत्वान्न भवति ।
उत्सर्गलक्षणभावार्थं च --- अधीत्य, प्रेत्य । एकादेशे कृते ह्रस्वस्य --- इति तुग्न प्राप्नोति,
असिद्धत्वाद्भवति ।।
अस्ति प्रयोजनमेतत् ।
किं तर्हीति ?
(6153 सूत्राक्षेपवार्तिकम् ।। 2 ।।)
- तत्रोत्सर्गलक्षणाप्रसिद्धिरुत्सर्गाभावात् -
तत्रोत्सर्गलक्षणस्य कार्यस्याप्रसिद्धिः । अधीत्य, प्रेत्य ।
किं कारणम् ?
उत्सर्गाभावात् । ह्रस्वस्येति । उच्यते, न चात्र ह्रस्वं पश्यामः ।।
ननु चात्राप्यसिद्धवचनात्सिद्धम् ।।
(6154 आक्षेपसमर्थकवार्तिकम् ।। 3 ।।)
- असिद्धवचनात्सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः -
असिद्धवचनात्सिद्धमिति चेत्, तन्न ।
किं कारणम् ?
नान्यस्यासिद्धवचनादन्यस्य भावः । न ह्यन्यस्यासिद्धवचनादन्यस्य प्रादुर्भावो भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति ।।
(6155 एकदेशिन उपसंख्यानवार्तिकम् ।। 4 ।।)
- तस्मात्स्थानिवद्वचनमसिद्धत्वं च -
तस्मात्स्थानिवद्भावो वक्तव्यः, असिद्धत्वं च ।
अधीत्ये, प्रेत्येति स्थानिवद्भावः ।
कोऽसिञ्चत्, सोऽसिञ्चदित्यत्रासिद्धत्वम् ।।
(6156 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 5 ।।)
- स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वात् -
स्थानिवद्वचनमनर्थकम् ।
किं कारणम् ?
शास्त्रासिद्धत्वात् । नानेन कार्यस्यासिद्धत्वं क्रियते ।
किं तर्हि ?
शास्त्रासिद्धत्वमनेन क्रियते । एकादेशशास्त्रं तुक्शास्त्रेऽसिद्धं भवतीति ।।
(वार्तिकावतरणे --- उपसंख्यानभाष्यम्)
संप्रसारणङीट्सु सिद्धः । संप्रसारणङीट्सु सिद्ध एकादेश इति वक्तव्यम् ।
शकहूषु, परिवीषु । संप्रसारण ।
ङि --- वृक्षे छत्रं, वृक्षे च्छत्रं, प्लक्षे छत्रं, प्लक्षे च्छत्रम् । ङि ।
इट् --- अपचे छत्रम्, अपचे च्छत्रम्, अयजे छत्रम्, अयजे च्छत्रम् ।।
(6157 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 6 ।।)
- संप्रसारणङीट्सु सिद्धः पदान्तपदाद्योरेकादेशस्यासिद्धवचनात् -
संप्रसारणङीट्सु सिद्ध एकादेशः । कुतः ?
पदान्तपदाद्योरेकादेशस्यासिद्धवचनात् । पदान्तपदाद्योरेकादेशोऽसिद्धो भवतीत्युच्यते, न चैष पदान्तपदाद्योरेकादेशः ।।
यदि पदान्तपदाद्योरेकादेशोऽसिद्धः --- सुसस्या ओषधीस्कृधि, सुपिप्पला ओषधीस्कृधि --- अत्र षत्वं प्राप्नोति ।
तुग्विधिं प्रति पदान्तपदाद्योरेकादेशोऽसिद्धः, षत्वं प्रत्येकादेशमात्रमसिद्धं भवति ।।
यदि षत्वं प्रत्येकमात्रदेशामसिद्धम् --- शकहूषु, परिवीषु --- अत्र षत्वं न प्राप्नोति ।।
अस्तु तर्ह्यविशेषेण ।
कथं --- सुसस्या ओषधीस्कृधि, सुपिप्पला ओषधीस्कृधि ?
नैष दोषः । भ्रातुष्पुत्रग्रहणं ज्ञापकम् --- एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यदयं कस्कादिषु भ्रातुष्पुत्रग्रहणं करोति तज्ज्ञापयत्याचार्यः --- नैकादेशनिमित्तात्षत्वं भवतीति ।
यद्येतज्ज्ञाप्यते, शकहूषु, परिवीषु --- अत्र षत्वं न प्राप्नोति ।
तुल्यजातीयस्य ज्ञापकम् ।
किं च तुल्यजातीयम् ?
यः कुप्वोः ।।
यद्येवं, वेञ्ञोऽप्रत्यये परत उरिति प्राप्नोति, उदिति चेष्यते ।
यथा लक्षणमप्रयुक्ते ।
अथवा --- नैवं विज्ञायते --- पूर्वस्य च पदादेः परस्य च पदान्तस्येति ।
कथं तर्हि ?
परस्य च पदादेः पूर्वस्य पदान्तस्येति ।।
-6-1-87- आद्गुणः (2524)
(गुणाधिकरणम्)
(पदकृत्यभाष्यम्)
गुणग्रहणं किमर्थम्, न आदेको भवतीत्युच्येत ?
(गुणपदाभावे आक्षेपश्लोकभाष्यम्)
आदेकश्चेद्गुणः केन
आदेकश्चेत्, गुणः केनेदानीं भविष्यति --- खट्वेन्द्रः, मालेन्द्रः । खट्वोदकम्, मालोदकम् ।
(समाधानश्लोकभाष्यम्)
स्थानेऽन्तरतमो हि सः ।
स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति ।।
ऐदौतावपि तर्हि प्राप्नुतः ।
(समाधानश्लोकभाष्यम्)
ऐदौतौ नैचि तावुक्तौ
ऐदौतौ न भविष्यतः ।
किं कारणम् ?
एचि ह्यैदौतावुच्येते ।।
इह तर्हि --- खर्ट्वश्यः, मार्लश्यः --- ऋकारस्तर्हि प्राप्नोति ।
(समाधानश्लोकभाष्यम्)
ऋकारो नोभयान्तरः ।। 1 ।।
उभयोर्योऽन्तरतमस्तेन भवितव्यम्, न च ऋकार उभयोरन्तरतमः ।।
आकारस्तर्हि प्राप्नोति ।
(समाधानश्लोकभाष्यम्)
आकारो नर्तिधातौ सः
आकारो न भविष्यति ।
किं कारणम् ?
ऋतिधातावाकार उच्यते तन्नियमार्थं भविष्यति --- ऋकारादौ धातावेव, नान्यत्रेति ।।
प्लुतस्तर्हि प्राप्नोति ।
(समाधानश्लोकभाष्यम्)
प्लुतश्च विषये स्मृतः ।
विषये प्लुत इत्युच्यते । यदा च स विषयः, भवितव्यमेव तदा प्लुतेन ।।
(गुणपदप्रयोजनश्लोकभाष्यम्)
आन्तर्यात् त्रिचतुर्मात्राः
इदं तर्हि प्रयोजनम् --- आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा --- इन्द्रः --- खट्वेन्द्रः । खट्वा --- उदकं --- खट्वोदकम् । खट्वा --- इर्षा --- खट्वेषा । खट्वा --- ःढ़द्य;ढा --- खट्वोढा । खट्वा --- एलका --- खट्वैलका । खट्वा --- ओदनः --- खट्वौदनः । खट्वा --- ऐतिकायनः --- खट्वैतिकायनः । खट्वा --- औपगवः --- खट्वौपगवः ।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेऽपि गुणग्रहणे कस्मादेवात्र त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ?
(समाधानश्लोकभाष्यम्)
तपरत्वान्न ते स्मृताः ।। 2 ।।
तपरे च गुणवृद्धी ।।
(तपरपदार्थबोधकभाष्यम्)
ननु च तः परो यस्मात्सोऽयं तपरः । नेत्याह ।
तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् (3-3-57) इहैव स्यात् --- यवः, स्तवः ।
लवः, पवः --- इत्यत्र न स्यात् ।
नैष तकारः ।
कस्तर्हि ?
दकारः ।
किं दकारे प्रयोजनम् ?
अथ किं तकारे ?
असंदेहार्थस्तकारः ।
यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि ।।
(6158 एकदेशिन उपसंख्यानवार्तिकम् ।। 7 ।।)
- गुणे ङिशीटामुपसंख्यानं दीर्घत्वबाधनार्थम् -
गुणे ङिशीटामुपसंख्यानं कर्तव्यम् । ङि --- वृक्ष इन्द्रः, प्लक्ष इन्द्रः ।
शी --- य इन्द्रम्, त इन्द्रम् ।
इट् --- अपच इन्द्रम्, अयज इन्द्रम् ।
किं प्रयोजनम् ?
दीर्घत्वबाधनार्थम् । सवर्णदीर्घत्वं मा भूदिति ।।
(6159 प्रत्याख्यानवार्तिकम् ।। 8 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा कर्तव्यम् ।
किं कारणं ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणं सवर्णदीर्घत्वम्, अन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
आदेकश्चेद्गुणः केन स्थानेऽन्तरतमो हि सः ।
ऐदौतौ नैचि तावुक्तौ ऋकारो नोभयान्तरः ।। 1 ।।
आकारो नर्तिधातौ सः प्लुतश्च विषये स्मृतः ।
आन्तर्यात् त्रिचतुर्मात्रास् तपरत्वान्न ते स्मृताः ।। 2 ।।
-6-1-89- एत्येधत्यूठ्सु (2526)
(वृद्ध्यधिकरणम्)
(एत्येधत्योर्विषये पक्षद्वयोपस्थापकं भाष्यम्)
किमिदमेत्येधत्यो रूपग्रहणम्, आहोस्विद्धातुग्रहणम् ?
किं चातः ?
यदि रूपग्रहणम्, सिद्धम् --- उपैति, प्रैति । उपैषि, उपैमि, प्रैमीति न सिद्ध्यति ।
अथ धातुग्रहणम्, सिद्धमेतद्भवति ।।
किं तर्हीति ?
(6160 धातुग्रहणपक्षे दोषवार्तिकम् ।। 9 ।।)
- इणीकारादौ प्रतिषेधः -
इणीकारादौ वृद्धेः प्रतिषेधो वक्तव्यः । उपेतः, प्रेतः --- इति ।।
(6161 दोषनिरासवार्तिकम् ।। 10 ।।)
        योगविभागात्सिद्धम्
योगविभागः करिष्यते । वृद्धिरेचि (88) । ततः --- एत्येधत्योः । एत्येधत्योश्चैचि वृद्धिर्भवति । ततः --- ःढ़द्य;ठि । ःढ़द्य;ठि च वृद्धिर्भवतीति ।।
(योगविभागे आक्षेपसमाधानविषयकं भाष्यम्)
एवमपि आ इतः --- एतः; उपेतः, प्रेतः --- इत्यत्रापि प्राप्नोति ।
आङि पररूपमत्र बाधकं भविष्यति ।
न भविष्यति । नाप्राप्ते पररूप इयं वृद्धिरारभ्यते, सा यथैव एङि पररूपम् बाधते, एवमाङिपररूपं बाधेत ।
न बाधते ।
किं कारणम् ?
येन नाप्राप्ते तस्य बाधनं भवति न चाप्राप्त एङि पररूप इयं वृद्धिरारभ्यते, आङि पररूपे पुनः प्राप्ते चाप्राप्ते च ।
अथ वा --- पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इतीयं वृद्धिरेङि पररूपं बाधिष्यते, नाङि पररूपम् ।।
(6162 उपसंख्यानवार्तिकम् ।। 11 ।।)
- अक्षादूहिन्याम् -
अक्षादूहिन्यां वृद्धिर्वक्तव्या । अक्षौहिणी ।।
(6163 उपसंख्यानवार्तिकम् ।। 12 ।।)
- प्रादूहोढोढ्येषैष्येषु -
प्रात् --- ःढ़द्य;ह-ःढ़द्य;ढ-ःढ़द्य;ढि-एष-एष्य-इत्येतेषु वृद्धिर्वक्तव्या । प्रौहः, प्रौढः, प्रौढिः, प्रैषः, प्रैष्यः ।।
(6164 उपसंख्यानवार्तिकम् ।। 13 ।।)
- स्वादीरेरिणोः -
स्वात् --- इर्र --- इर्रिन् --- इत्येतयोर्वृद्धिर्वक्तव्या । स्वैरः, स्वैरी ।।
(इर्रिन्ग्रहणप्रत्याख्यानभाष्यम्)
इर्रिन्ग्रहणं शक्यमकर्तुम् ।
कथं स्वैरीति ?
इनिनैतन्मत्वर्थीयेन सिद्धम् --- स्वैरोऽस्यास्तीति स्वैरी ।।
(6165 उपसंख्यानवार्तिकम् ।। 14 ।।)
- ऋते च तृतीयासमासे -
ऋते च तृतीयासमासे वृद्धिर्वक्तव्या । सुखार्तः, दुःखार्तः ।
ऋत इति किम् ?
सुखेतः, दुःखेतः ।
तृतीयाग्रहणं किम् ?
परमर्तः ।
समास इति किम् ?
सुखेनर्तः ।।
(6166 उपसंख्यानवार्तिकम् ।। 15 ।।)
- प्रबत्सतरकम्बलवसनानां चर्णे -
प्रवत्सतरकम्बलवसनानां च ऋणे वृद्धिर्वक्तव्या । प्रार्णम्, वत्सतरार्णम्, कम्बलार्णम्, वसनार्णम् ।।
(6167 उपसंख्यावार्तिकम् ।। 16 ।।)
- ऋणदशाभ्यां च -
ऋणदशाभ्यां च वृद्धिर्वक्तव्या । ऋणार्णम्, दशार्णम् ।।
-6-1-90- आटश्च (2527)
(चकारप्रयोजनभाष्यम्)
किमर्थश्चकारः ?
वृद्धेरनुकर्षणार्थः ।
नैतदस्ति प्रयोजनम्, प्रकृता वृद्धिरनुवर्तिष्यते ।।
इदं तर्हि --- आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ।
किं चान्यत् प्राप्नोति ?
पररूपम् ।
उस्योमाङ्क्ष्वाटः पररूपप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ।।
-6-1-91- उपसर्गादृति धातौ( 2528)
(धातुग्रहणप्रयोजनभाष्यम्)
धाताविति किमर्थम् ?
इह मा भूत् । प्रर्षभं वनम् ।।
(6168 धातुग्रहणानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- उपसर्गाद्वृद्धिविधौ धातुग्रहणे उक्तम् -
किमुक्तम् ?
गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनमिति ।।
क्रियमाणेऽपि धातुग्रहणे प्रर्छक इति प्राप्नोति ।
यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनान्न भवति ।।
(धातुग्रहणप्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम् --- उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ।
किं चान्यत् प्राप्नोति ?
ह्रस्वत्वम् ऋत्यकः (6-1-128) इति ।
ऋति ह्रस्वादुपसर्गाद्वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति स न वक्तव्यो भवति ।।
(6169 विप्रतिषेधवार्तिकम् ।। 2 ।।)
- छे तुकः संबुद्धिगुणः -
छे तुग्भवतीत्यस्मात्संबुद्धिगुणो भवति विप्रतिषेधेन ।
छे तुग्भवतीत्यस्यावकाशः --- इच्छति, गच्छति ।
संबुद्धिगुणस्यावकाशः --- अग्ने, वायो ।
इहोभयं प्राप्नोति --- अग्नेच्छत्रम् --- अग्ने छत्रम्, वायोच्छत्रम्--वायो छत्रम् ।
संबुद्धिगुणो भवति विप्रतिषेधेन ।।
स तर्हि विप्रतिषेधो वक्तव्यः ।
(6170 विप्रतिषेधखण्डनवार्तिकम् ।। 3 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा वक्तव्यः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक् । अन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
(आक्षेप --- समाधानपरभाष्यम्)
अन्तरेणापि विप्रतिषेधमन्तरेणापि चैतां परिभाषां सिद्धम् ।
कथम् ?
इदमिह संप्रधार्यम् --- संबुद्धिलोपः क्रियतां गुण इति, किमत्र कर्तव्यम् ?
परत्वाद् गुणः ।
नित्यः संबुद्धिलोपः । कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि ।
गुणोऽपि नित्यः। कृतेऽपि संबुद्धिलोपे प्राप्नोत्यकृतेऽपि।
अनित्यो गुणः । न हि संबुद्धिलोपे कृते प्राप्नोति । तावत्येव छेनानन्तर्यम्, तत्र तुका भवितव्यम् ।
तस्मात्सुष्ठूच्यते --- छे तुकः संबुद्धिगुणे न वा, बहिरङ्गलक्षणत्वादिति ।।
(6171 विप्रतिषेधवार्तिकम् ।। 4 ।।)
- सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च -
संप्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन ।।
संप्रसारणदीर्घत्वस्यावकाशः --- हूतः, जीनः, संवीतः, शूनः ।
तुकोऽवकाशः --- अग्निचित्, सोमसुत् ।
इहोभयं प्राप्नोति --- परिवीषु, शकहूषु ।।
णिलोपस्यावकाशः --- कारणा, हारणा ।
तुकः स एव ।
इहोभयं प्राप्नोति --- प्रकार्य गतः, प्रहार्य गतः ।।
अल्लोपस्यावकाशः --- प्रचिकीर्षिता, प्रजिहीर्षिता ।
तुकः स एव ।
इहोभयं प्राप्नोति --- प्रचिकीर्ष्य गतः, प्रजिहीर्ष्य गतः ।।
अभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन ।
के पुनरभ्यासगुणादयः ?
ह्रस्वत्वात्त्वेत्त्वगुणाः ।
ह्रस्वत्वस्यावकाशः --- ययतुः --- ययुः, तस्थतुः --- तस्थुः ।
तुकः स एव ।
इहोभयं प्राप्नोति --- अपचच्छतुः, अपचच्छुः ।।
अत्वस्यावकाशः --- चक्रतुः, चक्रुः ।
तुकः स एव ।
इहोभयं प्राप्नोति --- अपचच्छृदतुः, अपचच्छृदुः ।।
इत्वस्यावकाशः --- यियक्षति, पिपक्षति ।
तुकः स एव ।
इहोभयं प्राप्नोति --- चिच्छादयिषति, चिच्छर्दयिषति ।।
गुणस्यावकाशः --- लोलूयते, बेभिद्यते ।
तुकः स एव ।
इहोभयं प्राप्नोति --- चेच्छिद्यते, चोच्छुप्यते ।।
(6172 विप्रतिषेधवार्तिकम् ।। 5 ।।)
- यणादेशादाद्गुणः -
यणादेशादाद्गुणो भवति विप्रतिषेधेन ।
यणादेशस्यावकाशः --- दध्यत्र, मध्वत्र ।
आद्गुणस्यावकाशः --- खट्वेन्द्रः, खट्वोदकम् ।
इहोभयं प्राप्नोति --- वृक्षोऽत्र, प्लक्षोऽत्र ।।
(6173 विप्रतिषेधवार्तिकम् ।। 6 ।।)
- इरुर्गुणवृद्धिविधयश्च -
इरुर्गुणवृद्धिविधयश्च यणादेशाद्भवन्ति विप्रतिषेधेन ।।
इरुरोरवकाशः --- आस्तीर्णम्, निपूर्ताः पिण्डाः ।
यणादेशस्यावकाशः --- चक्रतुः, चक्रुः ।
इहोभयं प्राप्नोति --- दूरे ह्यध्वा जगुरिः, मित्रावरुणौ ततुरिः, किरति, गिरति ।।
गुणवृद्ध्योरवकाशः --- चेता, गौः ।
यणादेशस्य स एव ।
इहोभयं प्राप्नोति --- चयनम् --- चायकः, लवनम्--लावकः ।।
(6174 विप्रतिषेधवार्तिकम् ।। 7 ।।)
- भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च -
भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च यणादेशाच्च भवन्ति विप्रतिषेधेन ।।
भलोपस्यावकाशः --- गार्ग्यः, वात्स्यः ।
एकादेशयणादेशयोरवकाशः --- दधीन्द्रः मधूदकम्, दध्यत्र --- मध्वत्र ।
इहोभयं प्राप्नोति --- दाक्षी --- दाक्षायणः, प्लाक्षीप्लाक्षायणः ।।
(अचि भलोप एकादेशाद्भवति विप्रतिषेधेन ।
अचि भलोपस्यावकाशः --- दाक्षी --- दाक्षायणः, प्लाक्षी --- प्लाक्षायणः ।
एकादेशस्यावकाशः --- दण्डाग्रम्, क्षुपाग्रहम् ।
इहोभयं प्राप्नोति --- गाङ्गेयः, गाङ्गः ।।)
धातुस्वरस्यावकाशः --- पचति, पठति ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- श्र्यर्थम्, श्रीषा ।।
प्रातिपदिकस्वरस्यावकाशः --- आम्रः, शालः ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- अग्न्युदकम्, वृक्षार्थम् ।।
प्रत्ययस्वरस्यावकाशः --- चिकीर्षुः, औपगवः ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- चिकीर्ष्वर्थम्, औपगवार्थम् ।।
समासान्तोदात्तस्यावकाशः --- राजपुरुषः, ब्राह्मणकम्बलः ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- राजवैद्यर्थम्, राजवैदीहते ।।
उदात्तनिवृत्तिस्वरस्यावकाशः --- नदी, कुमारी ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- कुमार्यर्थम्, कुमारीहते ।।
(6175 विप्रतिषेधवार्तिकम् ।। 8 ।।)
- अल्लोपाल्लोपौ चार्धधातुके -
अल्लोपाल्लोपौ चार्धधातुके एकादेशाद्भवतो विप्रतिषेधेन ।।
अल्लोपस्यावकाशः --- चिकीर्षिता, जिहीर्षिता ।
एकादेशस्यावकाशः --- पचन्ति, पठन्ति ।
इहोभयं प्राप्नोति --- चिकीर्षकः, जिहीर्षकः ।।
आल्लोपस्यावकाशः --- पपिः सोमम्, ददिर्गाः ।
एकादेशस्यावकाशः --- यान्ति, वान्ति ।
इहोभयं प्राप्नोति --- ययतुः, ययुः ।।
(6176 विप्रतिषेधवार्तिकम् ।। 9 ।।)
- इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्च -
इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्चैकादेशयणादेशाभ्यां भवन्ति विप्रतिषेधेन ।
इयङुवङोरवकाशः --- श्रियौ --- श्रियः, भ्रुवौ --- भ्रुवः ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- चिक्षियिव --- चिक्षियिम, लुलुवतुः --- लुलुवुः, पुपुवतुः --- पुपुवुः ।।
गुणवृद्ध्योरवकाशः --- चेता, गौः ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- साधुचायी, सुचायी, नग्नंभावुकोऽध्वर्युः, शयिता, शयितुम् ।।
टितोऽवकाशः --- षण्णाम्, सप्तानाम्, पञ्ञ्चानाम् ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- वृक्षाणाम्, प्लक्षाणाम् ।।
कितोऽवकाशः --- साधुदायी, सुष्ठुदायी ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- दायकः, धायकः ।।
मितोऽवकाशः --- त्रपुणी, जतुनी ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- अस्थीनि, दधीनि, अतिसखीनि ब्राह्मणकुलानि ।।
पूर्वपदविकाराणामवकाशः --- होतापोतारौ ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- नेष्टोद्गातारौ, आग्नेन्द्रम् ।।
(6177 विप्रतिषेधबोधकवार्तिकम् ।। 10 ।।)
- उत्तरपदविकाराश्च -
उत्तरपदविकाराश्चेति वक्तव्यम् ।।
उत्तरविकाराणामवकाशः --- समीपम्, दुरीपम् ।
एकादेशयणादेशयोः स एव ।
इहोभयं प्राप्नोति --- नीपम्, वीपम्, प्रेपम्, परेपम् ।।
-6-1-93- औतोम्शसोः (2530)
(6178 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- ओतस्तिङि प्रतिषेधः -
ओतस्तिङि प्रतिषेधो वक्तव्यः । अचिनवम्, असुनवम् ।।
(वार्तिकप्रत्याख्यानभाष्यम्)
स तर्हि प्रतिषेधो वक्तव्यः ।
न वक्तव्यः । गोग्रहणं करिष्यते, आ गोतः --- इति वक्तव्यम् ।।
(6179 उपसंख्यानवार्तिकम् ।। 2 ।।)
- गोग्रहणे द्योरुपसंख्यानम् -
गोग्रहणे द्योरुपसंख्यानं कर्तव्यम् । द्यां गच्छ ।।
(6180 प्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।)
- समासाच्च प्रतिषेधः -
समासाच्च प्रतिषेधो वक्तव्यः । चित्रगुं पश्य, शबलगुं पश्य ।।
ननु च आ-ओतः इत्युच्यमानेऽपि समासात्प्रतिषेधो वक्तव्यः ।
न वक्तव्यः । ह्रस्वत्वे कृते न भविष्यति ।
इदमिह संप्रधार्यम् --- आत्वं क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम् ?
परत्वादात्वम् ।।
(6181 पूर्ववार्तिकप्रत्याख्यानवार्तिकम् ।। 4 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा वक्तव्यः ।
न वक्तव्यः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणमात्वम्, अन्तरङ्गं ह्रस्वत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ।।
ननु च --- आ गोतः --- इत्युच्यमानेऽपि समासात्प्रतिषेधो न वक्तव्यः ।
कथम् ?
ह्रस्वत्वे कृते न भविष्यति ।
स्थानिवद्भावात्प्राप्नोति ।
ननु च ओतः इत्युच्यमानेऽपि स्थानिवद्भावात् प्राप्नोति ।
नेत्याह । अनल्विधौ स्थानिवद्भावः ।
आ गोतः इत्युच्यमानेऽपि न दोषः । प्रतिषिध्यतेऽत्र स्थानिवद्भावः --- गोः पूर्वणित्त्वात्त्वस्वरेषु स्थानिवन्न भवतीति ।।
स एव तर्हि दोषः --- गोग्रहणे द्योरुपसंख्यानमिति । सूत्रञ्च भिद्यते ।
यथान्यासमेवास्तु ।
ननु चोक्तम् --- ओतस्तिङि प्रतिषेध इति ।।
(6182 प्रथमवार्तिकप्रत्याख्याने वार्तिकम् ।। 5 ।।)
- सुबधिकारात्सिद्धम् -
सुपीति प्रकृतं वर्तते ।
क्व प्रकृतम् ?
वा सुप्यापिशलेः (92) इति ।।
यद्यनुवर्तते, इहापि विभाषा प्राप्नोति ।
सुब्ग्रहणमनुवर्तते, वाग्रहणं निवृत्तम् ।।
कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तते, एकदेशो न ? ।
(6183 प्रत्याख्यानोपष्टम्भकवार्तिकम् ।। 6 ।।)
- एकयोगे चैकदेशानुवृत्तिरन्यत्रापि -
एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति । अन्यत्रापि, नावश्यमिहैव ।
क्वान्यत्र ?
अलुगधिकारः प्रागानङः, उत्तरपदाधिकारः प्रागङ्गाधिकारात् ।।
एवमपि--
(6184 आक्षेपवार्तिकम् ।। 7 ।।)
- अम्युपसंख्यानं वृद्धिबलीयस्त्वात् -
अम्युपसंख्यानं कर्तव्यम् । गां पश्य । किं पुनः कारणं न सिध्यति ?
वृद्धिबलीयस्त्वात् । परत्वाद् वृद्धिः प्राप्नोति ।।
(6185 समाधानवार्तिकम् ।। 8 ।।)
- न वाऽनवकाशत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
अनवकाशत्वात् । अनवकाशमात्वं वृद्धिं बाधिष्यते ।।
सावकाशमात्वम् ।
कोऽवकाशः ? द्यां गच्छ ।।
(6186 समाधानसाधकवार्तिकम् ।। 9 ।।)
- द्योश्च सर्वनामस्थाने वृद्धिविधिः -
द्योश्च सर्वनामस्थाने वृद्धिर्विधेया । किं प्रयोजनम् ?
(6187 समाधानसाधकप्रयोजनवार्तिकम् ।। 10 ।।)
- यद्याव इन्द्रेति दर्शनात् -
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
यावता चेदानीं द्योरपि सर्वनामस्थाने वृद्धिरुच्यते, अनवकाशमात्वं वृद्धिं बाधिष्यते ।।
-6-1-94- एङि पररूपम् (2531)
(पररूपाधिकरणम्)
(6188 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् -
पररूपप्रकरणे तु नु इत्येतयोर्वकारादौ निपात उपसंख्यानं कर्तव्यम् । तु वै-त्वै, वै-न्वै ।
वकारादाविति किमर्थम् ?
त्वावत्, न्वावत् ।।
निपात इति किमर्थम् ?
तु वानि, नु वानि ।।
(6189 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- न वा निपातैकत्वात् -
न वा कर्तव्यम् ।
किं कारणम् ?
निपातैकत्वात् । एक एवायं निपातः --- त्वै, न्वै ।।
(6190 उपसंख्यानवार्तिकम् ।। 3 ।।)
- एवे चानियोगे -
पररूपं वक्तव्यम् । इह एव --- इहेव, अद्येव ।
अनियोग इति किमर्थम् ?
इहैव भव मा स्म गाः, अत्रैव त्वमिह वयं सुशेवाः ।।
(6191 उपसंख्यानवार्तिकम् ।। 4 ।।)
- शकन्ध्वादिषु च -
शकन्ध्वादिषु पररूपं वक्तव्यम् । शक अन्धुः --- शकन्धुः, कुल अटा --- कुलटा, सीम अन्तः --- सीमन्तः ।
केशेष्विति वक्तव्यम् । यो हि सीम्नोऽन्तः, सीमान्तः स भवति ।।
(6192 उपसंख्यानवार्तिकम् ।। 5 ।।)
- ओत्वोष्ठयोः समासे वा -
ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् । स्थूलोतुः --- स्थूलौतुः, बिम्बोष्ठी --- बिम्बौष्ठी ।।
(6193 उपसंख्यानवार्तिकम् ।। 6 ।।)
- एमनादिषु च्छन्दसि -
एमनादिषु च्छन्दसि पररूपं वक्तव्यम् । अपां त्वेमन्सादयाम्यपां त्वोद्मन्सादयामि ।।
-6-1-95- ओमाङोश्च (2532)
(चकारानर्थक्यबोधकभाष्यम्)
किमर्थश्चकारः ? ।
एङीत्यनुकृष्यते ।
किं प्रयोजनम् ? ।
इह मा भूत् --- अद्य आ ऋश्यात् --- अद्यार्श्यात्, कदा अर्श्यात् --- कदार्श्यात् ।
नैतदस्ति प्रयोजनम् । अर्द्यश्यादित्येव भवितव्यम् ।
एवं हि सौनागाः पठन्ति --- चोऽनर्थकोऽनधिकारादेङः ।।
(6194 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- उस्योमाङ्क्ष्वाटः प्रतिषेधः -
उसि पररूपे ओमाङोश्चाटः प्रतिषेधो वक्तव्यः । औस्रीयत्, औढीयत्, औङ्कारीयत् ।।
स तर्हि प्रतिषेधो वक्तव्यः ।
न वक्तव्यः । उक्तम् आटश्च (90) इत्यत्र चकारस्य प्रयोजनम् --- आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति ।।
-6-1-96- उस्यपदान्तात्( 2533)
(अपदान्तात्पदप्रयोजनभाष्यम्)
अपदान्तादिति किमर्थम् ?
का उस्रा --- कोस्रा ।
अपदान्तादिति शक्यमकर्तुम् ।
कस्मान्न भवति --- का उस्रा --- कोस्रा ?
अर्थवद्ग्रहणे नानर्थकस्येति ।
नैषा परिभाषेह शक्या विज्ञातुम्, इह हि दोषः स्यात् --- भिन्द्या उस् --- भिन्द्युः, छिन्द्या उस् --- छिन्द्युः ।।
एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ।।
उत्तरार्थं तर्ह्यपदान्तग्रहणं कर्तव्यम् । अतो गुणे (97) अपदान्ताद्यथा स्यादिति ।
इह मा भूत् --- दण्डाग्रम्, क्षुपाग्रमिति ।।
-6-1-98- अव्यक्तानुकरणस्यात इतौ (2535)
(6195 उपसंख्यानवार्तिकम् ।। 1 ।।)
- इतावनेकाज्ग्रहणं श्रदर्थम् -
इतावनेकाज्ग्रहणं कर्तव्यम् ।
किं प्रयोजनम् ?
श्रदर्थम् । इह मा भूत् --- श्रदिति ।।
-6-1-99- नाम्रेडितस्यान्त्यस्य तु वा (2536)
(6196 एकदेशिनो नित्यत्वबोधकवार्तिकम् ।। 1 ।।)
- नित्यमाम्रेडिते डाचि -
नित्यमाम्रेडिते डाचि पररूपं कर्तव्यम् । पटपटायति ।।
(6197 नित्यत्वबोधनप्रत्याख्यानवार्तिकम् ।। 2 ।।)
- अकारान्तानुकरणाद्वा -
अथवा --- अकारान्तमेतदनुकरणम् ।
भवेत्सिद्धं यदाऽकारान्तम् ।
यदा तु खलु अच्छब्दान्तं तदा न सिध्यति ।
विचित्रास्तद्धितवृत्तयः, नातस्तद्धित उत्पद्यते ।।
-6-1-101- अकः सवर्णे दीर्घः (2538)
(दीर्घाधिकरणम्)
(6198 उपसंख्यानवार्तिकम् ।। 1 ।।)
- सवर्णदीर्घत्वे ऋति ऋ वावचनम् -
सवर्णदीर्घत्वे ऋति ऋ वा भवतीति वक्तव्यम् । होतृ ऋकारः --- होतृकारः ।।
(6199 उपसंख्यानवार्तिकम् ।। 2 ।।)
- लृति ल्लृ वा -
लृति ल्लृ वा भवतीति वक्तव्यम् । होतृ लृकारः --- होत्ल्लृकारः ।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ।।
-6-1-102- प्रथमयोः पूर्वसवर्णः (2539)
(दीर्घाधिकरणम्)
(प्रथमपदार्थे पक्षद्वयोपस्थापकम्भाष्यम्)
प्रथमयोरित्युच्यते, कयोरिदं प्रथमयोर्ग्रहणम् ?
किं विभक्त्योः आहोस्वित् प्रत्ययोः ?
(सिद्धान्तदर्शनभाष्यम्)
विभक्त्योरित्याह ।
कथं ज्ञायते ?
अचीति वर्तते । न चाजादी प्रथमौ प्रत्ययौ स्तः ।।
(आक्षेपभाष्यम्)
ननु चैवं विज्ञायते --- अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमौ --- इति ।।
(सिद्धान्तभाष्यम्)
यत्तर्हि तस्माच्छसो नः पुंसि (103) इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यः विभक्त्योर्ग्रहणमिति ।।
अथवा --- सुपीति वर्तते ।।
(अमिपूर्वः इति सूत्रप्रयोजनभाष्यम्)
अथ किमर्थं पूर्वसवर्णदीर्घः, अमिपूर्वत्वं चोच्यते, न प्रथमयोः पूर्वसवर्णः इत्येव सिद्धम् ?
न सिध्यति ।
प्रथमयोः पूर्वसवर्ण इत्युच्यमानेऽम्यपि दीर्घः प्राप्नोति --- वृक्षम्, प्लक्षम् ।
नैष दोषः ।
यत् पूर्वस्मिन् योगे दीर्घग्रहणं तदुत्तरत्र निवृत्तम् ।
एवमपि इदमपि पूर्वसवर्णग्रहणं क्रियते तेनाम्यपि पूर्वसवर्णः प्रसज्येत --- वृक्षम्, प्लक्षम्, द्विमात्रः प्राप्नोति ।
नैष दोषः ।
सवर्णग्रहणं न करिष्यते ।
यदि सवर्णग्रहणं न क्रियते, कुतो व्यवस्था ?
आन्तर्यतः ।
यद्येवम् --- अग्नी, वायू --- त्रिमात्रः प्राप्नोति । वृक्षम्, प्लक्षम् --- द्विमात्रः ।
तस्मात्सवर्णग्रहणं कर्तव्यम्, तस्मिंश्च क्रियमाणे दीर्घग्रहणमनुर्वत्यम्, तस्मिन्ननुवर्तमाने अमि पूर्वः इत्यपि वक्तव्यम् ।।
(योगविभागप्रयोजनभाष्यम्)
अथ किमर्थं पृथगुच्यते, नेहैवोच्येत --- प्रथमयोः पूर्वसवर्णोऽमि च इति ?
यदि प्रथमयोः पूर्वसवर्णदीर्घो भवति, अमि चेत्युच्यते, तेनाम्यपि दीर्घः प्रसज्येत --- वृक्षम्, प्लक्षम् ।
नैष दोषः ।
दीर्घग्रहणं निवर्तयिष्यते ।
एवमपि पूर्वसवर्णः प्रसज्येत ।
सवर्णग्रहणं न करिष्यते ।
यदि सवर्णग्रहणं न क्रियते, पूर्वस्मिन् योगे विप्रतिषिद्धम् --- यदि पूर्वः, न दीर्घः । अथ दीर्घः, न पूर्वः । पूर्वो दीर्घश्चेति विप्रतिषिद्धम् ।
तस्मादुभयमारब्धव्यम्, पृथक् च वक्तव्यम् ।।
(6200 योगविभागे पूर्वपक्षवार्तिकम् ।। 1 ।।)
- प्रथमयोरिति योगविभागः सवर्णदीर्घार्थः -
प्रथमयोः इति योगविभागः कर्तव्यः प्रथमयोरकः सवर्णदीर्घो भवति ।
ततः पूर्वसवर्णः, पूर्वसवर्णदीर्घो भवत्यकः प्रथमयोरिति ।।
किमर्थो योगविभागः ?
सवर्णदीर्घार्थः । सवर्णदीर्घत्वं यथा स्यात् --- वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् ।।
(6201 योगविभागसमर्थकवार्तिकम् ।। 2 ।।)
- एकयोगे हि जश्शसोः पररूपप्रसङ्गः -
एकयोगे हि सति जश्शसोः पररूप्रसज्येत --- वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् ।।
ननु च पूर्वसवर्णदीर्घत्वं पररूपं बाधिष्यते ।
नोत्सहते बाधितुम् ।
किं कारणम् ?
(6202 योगविभागफलसमर्थकवार्तिकम् ।। 3 ।।)
- आद्गुणयणादेशयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशास्तेषां पररूपं स्वरसन्धिषु -
आद्गुणयणादेशावुत्सर्गौ । तयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः । तेषां सर्वेषां पररूपमपवादः । तत्सर्वबाधकम्, सर्वबाधकत्वात् प्राप्नोति ।।
(योगविभागसार्मथ्यबोधकभाष्यम्)
अथ क्रियमाणेऽपि योगविभागे यावता पररूपमपवादः कस्मादेव न बाधते ?
योगविभागोऽन्यशास्त्रनिवृत्त्यर्थः । योगविभागोऽन्यशास्त्रनिवृत्त्यर्थो विज्ञायते ।।
(6203 योगविभागेऽतिप्रसङ्गापादनवार्तिकम् ।। 4 ।।)
- योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः -
योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गो भवति --- वृक्षम्, प्लक्षम् ।
यथैव हि योगविभागः पररूपं बाधते, एवममिपूर्वत्मपि बाधेत ।।
(6204 योगविभागेऽतिप्रसङ्गापादकवार्तिकम् ।। 5 ।।)
- नकाराभावश्च तस्मादित्यनन्तरनिर्देशात् -
नत्वस्य चाभावः --- वृक्षान्, प्लक्षान् । किं कारणम् ?
तस्मादित्यनन्तरनिर्देशात् । तस्मादित्यनेनानन्तरो योगः प्रतिनिर्दिश्यते --- प्रथमयोः पूर्वसवर्णः तस्माच्छसो नः पुंसि ।
किं पुनः कारणं तस्मादित्यनन्तरो योगो निर्दिश्यते ?
इह मा भूत् --- एतान् गाश्चतुरो बलीवर्दान् पश्य ।।
(वार्तिकावतरणभाष्यम्)
अस्तु तर्ह्येकयोग एव ।
ननु चोक्तम् --- एकयोगे हि जश्शसोः पररूपप्रसङ्गः इति ।
नैष दोषः ।
(6205 एकयोगत्वसमर्थकवार्तिकम् ।। 6 ।।)
- इज्ग्रहणं तु ज्ञापकं पररूपाभावस्य -
यदयं नादिचि (104) इतीज्ग्रहणं करोति तज्ज्ञापयत्याचार्यः --- न जश्शसोः पररूपं भवतीति ।
कथं कृत्वा ज्ञापकम् ?
इज्ग्रहणस्यैतत्प्रयोजनम् --- इह मा भूत् --- वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् । यदि च जश्शसोः पररूपं स्यात्, इज्ग्रहणमनर्थकं स्यात् । पश्यति त्वाचार्यः --- न जश्शसोः पररूपं भवति --- इति, तत इज्ग्रहणं करोति
।।
नैतदस्ति ज्ञापकम् ।
उत्तरार्थमेतत्स्यात् --- दीर्घाज्जसि च (105) इति चेति ।
यद्युत्तरार्थमेतत्स्यात्तत्रैवायमिज्ग्रहणं कुर्वीत । इहापि तर्हि क्रियमाणं यद्युत्तरार्थम्, न ज्ञापकं भवति ।
एवं तर्हि यद्युत्तरार्थमेतत्स्यान्नैवायमिज्ग्रहणं कुर्वीत, नापि जस्ग्रहणम् । एतावदयं ब्रूयात् --- दीर्घाच्छसि पूर्वसवर्णो भवति --- इति तन्नियमार्थं भविष्यति --- दीर्घाच्छस्येव, नान्यत्रेति ।
सोऽयमेवं लघीयसा न्यासेन सिद्धे यदिज्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः --- न जश्शसोः पररूपं भवतीति ।।
(योगविभागसमर्थकभाष्यम्)
अथवा पुनरस्तु योगविभागः ।
ननु चोक्तम् --- योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः --- इति ।
नैष दोषः ।
अम्यपि योगविभागः करिष्यते --- अमि । अमि यदुक्तं तन्न भवतीति । ततः --- पूर्वः । पूर्वश्च भवत्यमिति ।।
यदप्युच्यते --- नकाराभावश्च तस्मादित्यनन्तरनिर्देशात् --- इति ।
कः पुनरर्हति तस्मादित्यनेनानन्तरं योगं निर्देष्टुम् ?
एवं किल प्रतिनिर्दिश्यते --- तस्मात्उपूर्वसवर्णदीर्घादिति ।
तच्च न ।
एवं प्रतिनिर्दिश्यते --- तस्मात्उअको दीर्घादिति ।
अथवा --- तस्मात्उप्रथमयोर्दीर्घादिति ।।
(एकयोगत्वे सिद्धान्तभाष्यम्)
अथवा --- पुनरस्तु अम्येकयोगः ।
ननु चोक्तम् --- योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः --- इति ।
नैष दोषः ।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमयं योगविभागः पररूपं बाधिष्यते, अमि पूर्वत्वं न बाधिष्यते ।
यद्येतदस्ति --- मध्येऽपवादाः --- पुरस्तादपवादाः --- इति, नार्थ एकेनापि योगविभागेन ।
पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इत्येवं पररूपमकः सवर्णदीर्घत्वं बाधिष्यते, प्रथमयोः पूर्वसवर्णदीर्घत्वं न बाधिष्यते ।।
(प्रकारान्तरेण सिद्धान्तसाधकभाष्यम्)
अथवा --- सप्तमे योगविभागः करिष्यते ।
इदमस्ति --- अतो दीर्घो यञ्ञि (7-3-101) सुपि च (102) इति । ततो वक्ष्यामि --- बहुवचने । बहुवचने च अतो दीर्घो भवति । ततः --- झल्येत् । एकारश्च भवति बहुवचने झलीति ।
इहापि तर्हि प्राप्नोति --- वृक्षाणाम्, प्लक्षाणाम् ।
तत्र को दोषः ?
दीर्घत्वे कृते ह्रस्वाश्रयो नुण्न प्राप्नोति ।
इदमिह संप्रधार्यम् --- दीर्घत्वं क्रियतां नुडिति, किमत्र कर्तव्यम् ?
परत्वाद्दीर्घत्वम् ।
नित्यं खल्वपि दीर्घत्वम् । कृतेऽपि नुटि प्राप्नोति, अकृतेऽपि । नित्यत्वात्परत्वाच्च दीर्घत्वे कृते ह्रस्वाश्रयो नुण्न प्राप्नोति ।
एवं तर्हि आत् ग्रहणमिहापि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
आज्जसेरसुक् (7-1-50) इति । तेन कृतेऽपि दीर्घत्वे नुट् भविष्यति ।
इहापि तर्हि प्राप्नोति --- कीलालपाम्, शुभयाम् ।
आतो लोपोऽत्र बाधको भविष्यति ।
इदमिह संप्रधार्यम् --- लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ?
परत्वान्नुट् ।
एवं तर्हि ह्रस्वनद्यापो नुट् इत्यत्र आतो धातोः (6-4-140) इत्यातो लोपः संबन्धमनुवर्तिष्यते ।
इहापि तर्हि प्राप्नोति --- कीलालपानाम् ब्राह्मणकुलानाम् ।
नपुंसकस्य नेत्यप्यनुवर्तिष्यते ।।
-6-1-103- तस्माच्छसो नः पुंसि (2540)
(नत्वाधिकरणम्)
(पुंसांबहुत्वे--पुंशब्दाद्बहुषु --- इति पक्षद्वयोपस्थापकभाष्यम्)
किमदं नत्वं पुंसां बहुत्वे भवति, आहोस्वित्पुंशब्दाद्बहुषु ।
कश्चात्र विशेषः ?
(प्रथमे पक्षे दोषदर्शकं श्लोकभाष्यम्)
नत्वं पुंसां बहुत्वे चेत् पुंशब्दादिष्यते स्त्रियाम् ।
तन्न सिद्ध्यति । भ्रूकुंसान् पश्येति ।।
(प्रथमे दोषदर्शकं श्लोकभाष्यम्)
नपुंसके तथैवेष्टम्
तच्च न सिद्ध्यति । षण्ढान् पश्य, पण्डकान् पश्येति ।।
(प्रथमाश्रयणेऽतिव्याप्तिदर्शकं श्लोकभाष्यम्)
स्त्रीशब्दाच्च प्रसज्यते ।। 1 ।।
स्त्रीशब्दाच्च प्राप्नोति । चञ्ञ्चाः पश्य, वध्रिकाः पश्य, खरकुटीः पश्य ।।
अस्तु तर्हि पुंशब्दाद्बहुषु ।
(द्वितीये पक्षे दोषदर्शकं श्लोकभाष्यम्)
पुंशब्दादिति चेदिष्टं स्थूरापत्ये न सिद्ध्यति ।
स्थूरान् पश्येति ।।
(द्वितीये दोषदर्शकं श्लोकभाष्यम्)
कुण्डिन्या अररकायाः
अपत्यं च न सिध्यति । कुण्डिनान् पश्य, अररकान् पश्य ।।
(दोषवारकं श्लोकभाष्यम्)
पुंस्प्राधान्यात्प्रसिध्यति ।। 2 ।।
पुंस्प्रधाना एते शब्दाः ततो नत्वं भविष्यति ।।
(विशिष्टार्थे दोषदर्शकं श्लोकभाष्यम्)
पुंस्प्राधान्ये त एव स्युर्ये दोषाः पूर्वचोदिताः ।
भ्रूकुंसान् पश्य, षण्ढान् पश्य, पण्डकान् पश्य, चञ्ञ्चाः पश्य, वध्रिकाः पश्य, खरकुटीः पश्येति ।।
(सिद्धान्तभाष्यम्)
तस्माद्यस्मिन् पक्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं दोषेषु ।।
(संग्रहः)
न त्वं पुंसां बहुत्वे चेत् पुंशब्दादिष्यते स्त्रियाम् ।।
नपुंसके तथैवेष्टं स्त्रीशब्दाच्च प्रसज्येत ।। 1 ।।
पुंशब्दादिति चेदिष्टं स्थूरापत्ये न सिध्यति ।।
कुण्डिन्या अररकायाः पुंस्प्राधान्यात् प्रसिध्यति ।। 2 ।।
पुंस्प्राधान्ये त एव स्युर् ये दोषाः पूर्वचोदिताः ।।
तस्मादर्थे भवेन्नत्वं वध्रिकादिषु युक्तवत् ।। 3 ।।
-6-1-107- अमि पूर्वः (2544)
(पूर्वरूपाधिकरणम्)
(छन्दसि विकल्पबोधकं भाष्यम्)
वा च्छन्दसीत्येव । यमीं च यम्यं च, शमीं च शम्यं च, गौरीं च गौर्यं च, किशोरीं च किशोर्यं च ।।
-6-1-108- संप्रसारणाच्च (2545)
(छन्दसि वेत्यस्य सम्बन्धबोधकं भाष्यम्)
वाच्छन्दसीत्येव । मित्रावरुणौ यज्यमानः, मित्रावरुणौ इज्यमानः ।।
(6206 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणसमानाङ्गप्रतिषेधार्थम् -
संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणं कर्तव्यम् ।
किं प्रयोजनम् ?
असमानाङ्गप्रतिषेधार्थम् । असमानाङ्गस्य मा भूदिति --- शकह्वर्थम्, परिव्यर्थम् ।।
(6207 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- सिद्धमसंप्रसारणात् -
सिद्धमेतत् ।
कथम् ?
असंप्रसारणात् ।
कथमसंप्रसारणम् ?
वाक्यस्य संप्रसारणसंज्ञा, न वर्णस्य ।।
अथ वर्णस्य संप्रसारणसंज्ञायां दोष एव ।
वर्णस्य च संप्रसारणसंज्ञायां न दोषः ।
कथम् ?
अन्योऽयं संप्रसारणासंप्रसारणयोः स्थाने एक आदिश्यते ।।
(6208 एकदेशिनः समाधानान्तरवार्तिकम् ।। 3 ।।)
- कार्यकृतत्वाद्वा -
अथवा सकृत् कृतं पूर्वत्वमिति कृत्वा पुनर्न भविष्यति । तद्यथा --- वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।।
(एकदेशिसमाधानासङ्गतिबोधकभाष्यम्)
विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न भवति ।
यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा --- वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत --- इति अग्र्याधाननिमित्तं वसन्ते वसन्त इज्यते ।
तस्मात्पूर्वोक्त एव परिहारः --- सिद्धमसंप्रसारणात् --- इति ।।
(असंप्रसारणत्वे आक्षेपभाष्यम्)
यदि तर्हि नेदं संप्रसारणम्, हूत इति दीर्घत्वं न प्राप्नोति ।।
(6209 समाधानवार्तिकम् ।। 4 ।।)
- दीर्घत्वं वचनप्रामाण्यात् -
अनवकाशं दीर्घत्वं तद्वचनप्रामाण्याद्भविष्यति ।।
(6210 समाधानान्तरवार्तिकम् ।। 5 ।।)
- अन्तवत्त्वाद्वा -
अथवा पूर्वस्य कार्यं प्रत्यन्तवद्भवतीति दीर्घत्वं भविष्यति ।।
(6211 एकादेशप्रकरणशेषे विप्रतिषेधोपसंख्यानवार्तिकम् ।। 6 ।।)
- आटो वृद्धेरियङ् -
आटो वृद्धिर्भवतीत्येतस्मादियङ् भवति विप्रतिषेधेन ।
आटो वृद्धिर्भवतीत्यस्यावकाशः --- ऐक्षिष्ट, ऐहिष्ट ।
इयङोऽवकाशः --- अधीयाते, अधीयते ।
इहोभयं प्राप्नोति --- अध्यैयाताम्, अध्यैयत ।
इयङादेशो भवति विप्रतिषेधेन ।।
नैष युक्तो विप्रतिषेधः,
अन्तरङ्गाऽऽटो वृद्धिः ।
काऽन्तरङ्गता ?
वर्णावाश्रित्याटो वृद्धिः, अङ्गस्येयङादेशः ।
एवं तर्हीदमिह संप्रधार्यम् --- आट् क्रियताम् इयङादेश इति, किमत्र कर्तव्यम् ?
परत्वादियङ् ।
नित्य आडागमः, कृतेऽपीयङि प्राप्नोति --- अकृतेऽपि ।
इयङि्प नित्यः,कृतेऽप्याटि प्राप्नोति --अकृतेऽपि।
अनित्य इयङ्, न हि कृत आटि प्राप्नोति ।
किं कारणम् ?
अन्तरङ्गाऽऽटो वृद्धिः ।
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न चात्राडेवेयङो निमित्तं विहन्ति, अवश्यं लक्षणान्तरमाटो वृद्धिः प्रतीक्ष्या । उभयोर्नित्ययोः परत्वादियङादेशः ।।
(6212 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 7 ।।)
- आद्गुणात्सवर्णदीर्घत्वमाङभ्यासयोः -
आद्गुणात्सवर्णदीर्घत्वं भवति विप्रतिषेधेन ।
क्व ?
आङभ्यासयोः ।
आद्गुणस्यावकाशः --- खट्वा --- इन्द्रः --- खट्वेन्द्रः, खट्वोदकम् ।
सवर्णदीर्घत्वस्यावकाशः --- दण्डाग्रम्, क्षुपाग्रम् ।
इहोभयं प्राप्नोति --- अद्य-आ-ःढ़द्य;ढा-अद्योढा, कदा-आ-ःढ़द्य;ढा-कदोढा, उप-इ-इजतुः-उपेजतुः, उप-उ-उपतुः-उपोपतुः ।
सवर्णदीर्घत्वं भवति विप्रतिषेधेन ।।
(उदाहरणान्यथासिद्धिसाधकभाष्यम्)
अभ्यासार्थेन तावन्नार्थः ।
अस्त्वत्राद्गुणः, आद्गुणे कृते अयवौ च, हलादिः शेषः, पुनराद्गुणो भविष्यति ।
भवेत्सिद्धम् --- उपेजतुः, उपेजुरिति ।
इदं तु न सिद्ध्यति --- उपोपतुः, उपोपुरिति ।
अत्र ह्याद्गुणे कृत ओदन्तो निपात इति प्रगृह्यसंज्ञा, प्रगृह्यः प्रकृत्येति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति ।
पदान्तप्रकरणे प्रकृतिभावः न चैष पदान्तः ।
पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते ।
एवं तर्ह्येतदेवात्र नास्ति --- ओदन्तो निपात इति ।
किं कारणम् ?
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।।
इहापि तर्हि --- यद्योढा, कदोढेति ।
भवेद्रूपं सिद्धं स्यात् ।।
(6213 विप्रतिषेधाभावे दोषदर्शकवार्तिकम् ।। 8 ।।)
- स्वरदोषस्तु -
स्वरे तु दोषो भवति । अद्योढा --- एवं स्वरः प्रसज्येत, अद्योढा --- सति चेष्यते ।।
(विप्रतिषेधाभावे पररूपानर्थक्यबोधकभाष्यम्)
आङि पररूपवचनं चेदानीमनर्थकं स्यात् ।
नानर्थकम्, ज्ञापनार्थम् ।
किं ज्ञाप्यम् ?
(6214 पररूपवचनज्ञापनवार्तिकम् ।। 9 ।।)
- आङि पररूपं तु ज्ञापकमन्तरङ्गबलीयस्त्वस्य -
एतज्ज्ञापयत्याचार्यः --- अन्तरङ्गं बलीयो भवतीति ।
किं पुनरिहान्तरङ्गं किं बहिरङ्गम्, यावतो द्वे पदे आश्रित्य सवर्णदीर्घत्वमपि भवत्याद्गुणोऽपि ।
धातूपसर्गयोर्यत्कार्यं तदन्तरङ्गम् ।
कुत एतत् ।
पूर्वमुपसर्गस्य हि धातुना योगो भवति, नाद्यशब्देन ।
किमर्थं तर्ह्यशब्दः प्रयुज्यते ?
अद्यशब्दस्यापि समुदायेन योगो भवति ।।
किमेतस्य ज्ञापने प्रयोजनम् ?
(6215 ज्ञापनप्रयोजनवार्तिकम् ।। 10 ।।)
- प्रयोजनं पूर्वसवर्णपूर्वत्वतहिलोपटेनङेर्यङिस्मिन्ङिणलौत्वमन्तरङ्गं बहिरङ्गलक्षणाद्वर्णविकारात् -
पूर्वसवर्णः प्रयोजनम् । अग्नी अत्र, वायू अत्र । पूर्वसवर्णश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकार आवादेशः ।
पूर्वसवर्णदीर्घत्वं भवत्यन्तरङ्गतः । पूर्वसवर्ण ।।
पूर्वत्व । शकह्वर्थम्, परिव्यर्थम् । पूर्वत्वं च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् ।
पूर्वत्वं भवत्यन्तरङ्गतः । पूर्वत्व ।।
तहिलोप । अकार्यत्र, अहार्यत्र, पचेदम् । तहिलोपौ च प्राप्नुतः, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् ।
तहिलोपौ भवतोऽन्तरङ्गतः । तहिलोप ।।
तेन । वृक्षेणात्र, प्लक्षेणात्र । इनादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् ।
इनादेशो भवत्यन्तरङ्गतः । तेन ।।
ङेर्य । वृक्षायात्र, प्लक्षायात्र । ङेर्यादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः --- एङः पदान्तादति (6-1-109) इति परपूर्वत्वम् ।
ङेर्यादेशो भवत्यन्तरङ्गतः । ङेर्य ।।
ङिस्मिन् । यस्मिन्निदम्, तस्मिन्निदम् । स्मिन्भावश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् ।
स्मिन्भावो भवत्यन्तरङ्गतः । ङिस्मिन् ।।
ङिणलौत्वम् । अग्नाविदम्, ययावत्र । ङिणलौत्वं प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम्

औत्वं भवत्यन्तरङ्गतः ।।
(प्रयोजनाक्षेपभाष्यम्)
नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाप्येतानि सिद्धानि ।
(ज्ञापनप्रयोजनसमर्थकभाष्यम्)
इदं तर्हि प्रयोजनम् --- वृक्षा अत्र, प्लक्षा अत्र । पूर्वसवर्णश्च प्राप्नोति बहिरङ्गलक्षणश्च वर्णविकारः --- अतो रोरप्लुतादप्लुते (6-1-113) इत्युत्वम् ।
पूर्वसवर्णो भवत्यन्तरङ्गतः ।
न चावश्यमिदमेव प्रयोजनम् । आद्ययोगे बहूनि प्रयोजनानि सन्ति यदर्थमेषा परिभाषा कर्तव्या । प्रतिविधेयं दोषेषु ।।
-6-1-112- ख्यत्यात्परस्य (2549)
(ख्यत्यात्पदार्थबोधकभाष्यम्)
किमिदं ख्यत्यादिति ?
सखिपत्योर्विकृतग्रहणम् ।
किं पुनः कारणं विकृतयोः सखिपत्योर्ग्रहणं क्रियते, न सखिपतिभ्यामित्येवोच्येत ?
(विकृतनिर्देशप्रयोजनभाष्यम्)
नैवं शक्यम् । गरीयांश्चैव निर्देशः स्यात् ।
इह च प्रसज्येत --- अतिसखेरागच्छति, अतिसखेः स्वम् ।
इह च न स्यात् --- सखीयतेरप्रत्ययः --- सख्युः, पत्युः । लूनीयतेरप्रत्ययः --- लून्युः, पून्युः ।।
-6-1-113- अतो रोरप्लुतादप्लुते (2550)
(रुत्वाधिकरणम्)
(पदाक्षेपभाष्यम्)
किमर्थमप्लुतादप्लुत इत्युच्यते ?
(समाधानभाष्यम्)
प्लुतात्परस्य प्लुते वा परतो मा भूत् --- इति ।
प्लुत्पतारस्य --- सुस्रोता 3 अत्र न्वसि ।
प्लुते परतः --- तिष्ठतु पय आ3ग्निदत्त ।
अतः --- अति इत्युच्यते, कः प्रसङ्गः प्लुतात्परस्य प्लुते वा परतः स्यात् ?
असिद्धः प्लुतः, तस्यासिद्धत्वात् प्राप्नोति ।।
(अप्लुताप्लुतपदार्थनिर्णये एकदेशिभाष्यम्)
अथ अप्लुतात् --- अप्लुते इत्युच्यमानेऽपि यावताऽसिद्धः प्लुतः, कस्मादेवात्र न प्राप्नोति ?
अप्लुतभाविनोऽप्लुतभाविनीत्येवमेतद्विज्ञायते ।।
(एकदेशिनोज्ञापकाश्रयेण समाधानभाष्यम्)
नैतदस्ति प्रयोजनम्। सिद्धः प्लुतः स्वरसंधिषु। कथं ज्ञायते? यदयं प्लुतः प्रकृत्येति प्लुतस्य प्रकृतिभावं शास्ति, सतो हि कार्यिणः कार्येण भवितव्यम्।।
(6216 एकदेशिवार्तिकम् ।। 1 ।।)
- अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधः -
अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधो वक्तव्यः । पयो3ट्, पयो3द ।।
(6217 समाधानवार्तिकम् ।। 2 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्गमुत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ।।
इहापि तर्हि प्राप्नोति --- सुस्रोता3 अत्र न्वसि ।
अन्तरङ्गोऽत्र प्लुतः बहिरङ्गमुत्वम् ।।
(प्लुतोत्वयोरन्तरङ्गत्वबहिरङ्गत्वव्यवस्थापकभाष्यम्)
क्व पुनरिहान्तरङ्गः प्लुतः क्व वा बहिरङ्गमुत्वम्, उत्वं वाऽन्तरङ्गम् --- प्लुतो वा बहिरङ्गः ?
वाक्यान्तस्य वाक्यादावन्तरङ्गः प्लुतः, बहिरङ्गमुत्वम् ।
समानवाक्ये पदान्तस्य पदादावुत्वमन्तरङ्गम्, बहिरङ्गः प्लुतः ।।
(सिद्धान्तभाष्यम्)
किं पुनः कारणं बहिरङ्गत्वमुत्वे हेतुर्व्यपदिश्यते, न पुनरसिद्धत्वमपि ?
यथैव ह्ययं बहिरङ्ग एवमसिद्धोऽपि ।
एवं मन्यते --- असिद्धः प्लुत आश्रयात्सिद्धो भवति ।।
अथवा यस्यां नाप्राप्तायां परिभाषायामुत्वमारभ्यते, साऽऽश्रयात्सिद्धा स्यात् ।
कस्यां च नाप्राप्तायाम् ?
असिद्धपरिभाषायाम् ।
बहिरङ्गपरिभाषायां पुनः प्राप्तायामप्राप्तायां च ।।
-6-1-115- नान्तः पादमव्यपरे (2552)
(प्रकृतिभावाधिकरणम्)
(प्रतिषेध्यबोधकभाष्यम्)
कस्यायं प्रतिषेधः ?
नान्तः पादमिति सर्वप्रतिषेधः ।
नान्तः पादमिति सर्वस्यायं प्रतिषेधः ।
कथम् ?
अचीति वर्तते, अचि यत्प्राप्नोति तस्य प्रतिषेधः ।।
(6218 अतिप्रसङ्गापादकवार्तिकम् ।। 1 ।।)
- नान्तः पादमिति सर्वप्रतिषेधश्चेदतिप्रसङ्गः -
नान्तः पदमिति सर्वप्रतिषेधश्चेदतिप्रसङ्गो भवति । इहापि प्राप्नोति --- अन्वग्निरुषसामग्रमख्यत्, प्रत्यग्निरुषसामग्रमख्यात् ।।
(प्रतिषेध्यान्तरबोधकभाष्यम्)
एवं तर्हि अति इति वर्तते । अकाराश्रयं यत्प्राप्नोति तस्य प्रतिषेधः ।।
(6219 द्वितीयस्मिन् प्रतिषेध्ये दोषवार्तिकम् ।। 2 ।।)
- अकाराश्रयमिति चेदुत्ववचनम् -
अकाराश्रयमिति चेदुत्वं वक्तव्यम् । कालो अश्वः, शतधारो अयं मणिः ।।
(6220 द्वितीये दोषवार्तिकम् ।। 3 ।।)
- अयवोः प्रतिषेधश्च -
अयवोश्च प्रतिषेधो वक्तव्यः । सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यत् ।।
(दोषद्वयनिराकरणभाष्यम्)
एङ्प्रकरणात्सिद्धम् । एङः-अति इति वर्तते । एङोऽति यत्प्राप्नोति तस्य प्रतिषेधः ।।
(6221 एङ्ग्रहणानुवर्तने दोषवार्तिकम् ।। 4 ।।)
- एङ्प्रकरणात्सिद्धमिति चेदुत्वप्रतिषेधः -
एङ्प्रकरणात्सिद्धमिति चेदुत्वस्य प्रतिषेधो वक्तव्यः । अग्नेरत्र, वायोरत्र । अतो रोरप्लुतादप्लुते (113) एङश्च --- इत्युत्वं प्राप्नोति ।।
(6222 समाधानवार्तिकम् ।। 5 ।।)
- पुनरेङ्ग्रहणात्सिद्धम् -
पुनरेङ्ग्रहणं कर्तव्यम् ।।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम्, प्रकृतमनुवर्तते ।
ननु चोक्तम् --- एङ्प्रकरणात्सिद्धमिति चेदुत्वप्रतिषेध इति ।
नैष दोषः । पदान्ताभिसंबद्धमेङ्ग्रहणमनुवर्तते, न चैङः पदान्तात्परोरुरस्ति ।।
-6-1-123- अवङ् स्फोटायनस्य (2560)
(6223 न्यासान्तरबोधकवार्तिकम् ।। 1 ।।)
- गोरग्वचनं गवाग्रे स्वरसिद्ध्यर्थम् -
गोरग्वक्तव्यः ।
किं प्रयोजनम् ?
गवाग्रे स्वरसिद्ध्यर्थम् । गवाग्रे स्वरसिद्धिर्यथा स्यात् । गवाग्रम् ।।
(6224 प्रथमन्यासे दोषोपपादकवार्तिकम् ।। 2 ।।)
- अवङादेशे हि स्वरे दोषः -
अवङादेशे हि स्वरे दोषः स्यात् ।
अन्तोदात्तस्यान्तर्यतोऽन्तोदात्त आदेशः प्रसज्येत ।।
(दोषसमर्थकभाष्यम्)
कथं पुनरयमन्तोदात्तो यदैकाच् ?
व्यपदेशिवद्भावेन ।
यथैव तर्हि व्यपदेशिवद्भावेनान्तोदात्तः, एवमाद्युदात्तोऽपि । तत्रान्तर्यत आद्युदात्तस्याद्युदात्त आदेशः प्रसज्येत ।
सत्यमेवमेतत् ।
न त्विदं लक्षणमस्ति --- प्रातिपदिकस्यादिरुदात्तो भवतीति ।
इदं पुनरस्ति --- प्रातिपदिकस्यान्त उदात्तो भवतीति ।
सोऽसौ लक्षणेनान्तोदात्तः, तत्रान्तर्यतोऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत ।।
(व्युत्पत्तिपक्षाश्रयेण अवङ्न्यासस्थापनपरभाष्यम्)
यदि पुनर्गमेर्डो विधीयेत ।
किं कृतं भवति ?
प्रत्ययाद्युदात्तत्वे कृत आनन्तर्यत आद्युदात्तस्याद्युदात्त आदेशो भविष्यति ।
कथं पुनरयमाद्युदात्तो यदैकाच् ?
व्यपदेशिवद्भावेन ।
यथैव तर्हि व्यपदेशिवद्भावेनाद्युदात्तः, एवमन्तोदात्तोऽपि । तत्रान्तर्यतोऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत ।
सत्यमेवमेतत् ।
न त्विदं लक्षणमस्ति --- प्रत्ययस्यान्त उदात्तो भवतीति ।
इदं पुनरस्ति --- प्रत्ययस्यादिरुदात्तो भवतीति ।
सोऽसौ लक्षणेनाद्युदात्तः, तत्रान्तर्यत आद्युदात्तस्याद्युदात्त आदेशो भविष्यति ।।
(द्विधासमर्थनेऽप्याक्षेपभाष्यम्)
एतदप्यादेशे नास्ति --- आदेशस्यादिरुदात्तो भवतीति । प्रकृतितोऽनेन स्वरो लभ्यः । प्रकृतिश्चास्य यथैवाद्युदात्ता, एवमन्तोदात्ताऽपि ।।
(सिद्धान्तभाष्यम्)
एवं तर्हि आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ।
एवमपि --- उपदेशिवद्भावो वक्तव्यः ।
यथैव निपातनस्वरः प्रकृतिस्वरस्य बाधक एवं समासस्वरस्यापि । गवास्थि, गवाक्षि ।।
-6-1-124- इन्द्रे च (2561)
(न्यासाक्षेपसमाधानभाष्यम्)
इन्द्रादाविति वक्तव्यम् ।
इहापि यथा स्यात् --- गवेन्द्रयज्ञे वीहीति ।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् ।
नैवं विज्ञायते --- इन्द्रेऽचीति ।
कथं तर्हि ?
अचि भवति,
कतरस्मिन् ?
इन्द्रेऽचीति ।।
-6-1-125- प्लुतप्रगृह्या अचि नित्यम् (2562)
(नित्यग्रहणप्रयोजनभाष्यम्)
नित्यग्रहणं किमर्थम् ?
विभाषा मा भूदिति ।
नैतदस्ति प्रयोजनम् । पूर्वस्मिन्नेव योगे विभाषाग्रहणं निवृत्तम् ।
इदं तर्हि प्रयोजनम् --- प्लुतप्रगृह्याणामचि प्रकृतिभाव एव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ।
किं चान्यत्प्राप्नोति ?
शाकलम् ।
(सिन्नित्यसमासयोः शाकलप्रतिषेधं वक्ष्यति स न वक्तव्यो भवति) ।।
(अज्ग्रहणप्रयोजनभाष्यम्)
अथाज्ग्रहणं किमर्थम् ?
अचि प्रकृतिभावो यथा स्यात् ।।
(6225 अज्ग्रहणाक्षेपवार्तिकम् ।। 1 ।।)
- प्लुतप्रगृह्येष्वज्ग्रहणमनर्थकमधिकारात्सिद्धम् -
प्लुतप्रगृह्येषु अच्ग्रहणमनर्थकम् ।
किं कारणम् ?
अधिकारादेव सिद्धम् । अचि इति प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
इको यणचि (6-1-77) इति ।।
(6226 समाधानवार्तिकम् ।। 2 ।।)
- तत्तु तस्मिन् प्रकृतिभावार्थम् -
तत्तु द्वितीयमज्ग्रहणं कर्तव्यम्, प्रकृतिभावार्थम् ।
तस्मिन्नचि पूर्वस्य प्रकृतिभावो यथा स्यात् ।
इह मा भूत्--जानु उ अस्य रुजति, जानू अस्य रुजति, जान्वस्य रुजतीति ।।
(प्लुतस्य प्रकृतिभावाक्षेपभाष्यम्)
अथ किमर्थं प्लुतस्य प्रकृतिभाव उच्यते ?
स्वरसन्धिर्मा भूदिति ।
उच्यमानेऽप्येतस्मिन् स्वरसन्धिः प्राप्नोति ।
प्लुते कृते न भविष्यति ।
असिद्धः प्लुतस्तस्यासिद्धत्वात्प्राप्नोति ।।
(6227 समाधानवार्तिकम् ।। 3 ।।)
- प्लुतप्रकृति भाववचनं तु ज्ञापकमेकादेशात् प्लुतो विप्रतिषेधेनेति -
यदयं प्लुतः प्रकृत्येति प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः --- एकादेशात्प्लुतो भवति विप्रतिषेधेनेति ।।
(6228 समाधानाक्षेपवार्तिकम् ।। 4 ।।)
- एकादेशात् प्लुतो विप्रतिषेधेनेति चेच्छालेन्द्रेऽतिप्रसङ्गः -
एकादेशात्प्लुतो विप्रतिषेधेनेति चेत् शालेन्द्रेऽतिप्रसङ्गो भवति । शालायामिन्द्र--शालेन्द्रः ।।
(6229 समाधानवार्तिकम् ।। 5 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वाऽतिप्रसङ्गः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्ग एकादेशः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
-6-1-126- आङोऽनुनासिकश्छन्दसि (2563)
(6230 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आङोऽनर्थकस्य -
आङोनर्थकस्येति वक्तव्यम् । इह मा भूत् --- इन्द्रो बाहुभ्यामातरत् ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् ।
बहुवचनान्न भविष्यति । आङोऽनुनासिकश्छन्दसि बहुलम् ।।
-6-1-127- इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ( 2564)
(चकारप्रत्याख्यानभाष्यम्)
किमर्थश्चकारः ?
प्रकृत्येत्येतदनुकृष्यते ।
किं प्रयोजनम् ?
स्वरसन्धिर्मा भूदिति ।।
नैतदस्ति प्रयोजनम् । ह्रस्ववचनसार्मथ्यान्न भविष्यति ।।
भवेत् --- दीर्घाणां ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न स्यात्, ह्रस्वानां तु खलु स्वरसन्धिः प्राप्नोति ।
ह्रस्वानामपि ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न भविष्यति ।
न ह्रस्वानां ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनर्भुङ्क्ते, न वा कृतश्मश्रुः पुनः श्मश्रूणि कारयति ।
ननु च पुनः प्रवृत्तिरपि दृष्टा । भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुरपि पुनः श्मश्रूणि कारयति ।
सार्मथ्यात्तत्र पुनः प्रवृत्तिर्भवति --- भोजनविशेषात्, शिल्पिविशेषाद्वा ।
ह्रस्वानां पुनर्ह्रस्ववचने न किंचित् प्रयोजनमस्ति ।
अकृतकारि खल्वपि शास्त्रमग्निवत् । तद्यथा --- अग्निर्यददग्धं तद्दहति ।।
ह्रस्वानामपि ह्रस्ववचन एतत् प्रयोजनम् --- स्वरसन्धिर्मा भूदिति ।
कृतकारि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा --- पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति ।।
इदं तर्हि प्रयोजनम् --- प्लुतप्रगृह्या अनुकृष्यन्ते । इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च प्लुतप्रगृह्याश्च प्रकृत्या ।
नित्यग्रहणस्याण्येतत् प्रयोजनमुक्तम् ।
अन्यतरच्छक्यमवक्तुम् ।।
(6231 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- सिन्नित्यसमासयोः शाकलप्रतिषेधः -
सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । अयं ते योनिर्ऋत्वियः, प्रजां विदाम ऋत्वियाम्, वैयाकरणः, सौवश्वः ।।
(वार्तिकस्थनित्यग्रहणप्रत्याख्यानभाष्यम्)
नित्यग्रहणेन नार्थः । सित्समासयोः शाकलं न भवतीत्येव । इदमपि सिद्धं भवति --- वाप्यामश्वो वाप्यश्वः, नद्यामातिर्नद्यातिः ।।
(6232 उपसंख्यानवार्तिकम् ।। 2 ।।)
- इर्षा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् -
इर्षा अक्षादिषु च छन्दसि प्रकृतिभावमात्रं द्रष्टव्यम् । इर्षा अक्षः, का इर्मिरे पिशङि्गला, यथा अङ्गदः ।।
-6-1-128- ऋत्यकः (2565)
(वार्तिकावतरणभाष्यम्)
किमर्थमिदमुच्यते ?
(6233 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- ऋत्यकः सवर्णार्थः -
सवर्णार्थोऽयमारम्भः । होतृ ऋश्यः ।।
(6234 सूत्रप्रयोजनवार्तिकम् ।। 2 ।।)
- अनिगन्तार्थं च -
खट्व ऋश्यः । माल ऋश्यः ।।
(6235 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।)
- ऋति ह्रस्वादुपसर्गाद्वृद्धिर्विप्रतिषेधेन -
ऋति ह्रस्वो भवतीत्येतस्मादुपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन ।
ऋति ह्रस्वो भवतीत्येतस्यावकाशः --- खट्व ऋश्यः, माल ऋश्यः ।
उपसर्गाद्वृद्धेरवकाशः --- विभाषा ह्रस्वत्वम्, यदा न ह्रस्वत्वं सोऽवकाशः ।
ह्रस्वप्रसङ्ग उभयं प्राप्नोति --- प्रार्ध्नोति, उपार्ध्नोति ।
उपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन ।।
(विप्रतिषेधानर्थक्यबोधकभाष्यम्)
स तर्हि विप्रतिषेधो वक्तव्यः ?
न वक्तव्यः ।
उक्तं तत्र धातुग्रहणस्य प्रयोजनम् --- उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ।।
-6-1-129- अप्लुतवदुपस्थिते (2566)
(उपस्थितपदार्थबोधकभाष्यम्)
उपस्थिते इत्युच्यते, किमिदमुपस्थितं नाम ?
अनार्ष इतिकरणः । सुश्लोका 3 इति, सुश्लोकेति ।।
(पदकृत्यभाष्यम्)
अथ वद्वचनं किमर्थम् ?
(6236 वद्वचनप्रयोजनवार्तिकम् ।। 1 ।।)
- वद्वचनं प्लुतकार्यप्रतिषेधार्थम् -
वद्वचनं क्रियते प्लुतकार्यप्रतिषेधार्थम् । प्लुतकार्यं प्रतिषिध्यते, त्रिमात्रता न प्रतिषिध्यते ।
किं चेदानीं त्रिमात्रताया अप्रतिषेधे प्रयोजनम्, यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ?
(6237 त्रिमात्रताया अप्रतिषेधे फलबोधकवार्तिकम् ।। 2 ।।)
- प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् -
प्लुतप्रतिषेधे हि सति प्रगृह्यस्यापि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत । अग्नी3इति । वायू3इति ।
किं चेदानीं तस्या अपि त्रिमात्रताया अप्रतिषेधे प्रयोजनम् ?
यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ।
न भवितव्यम् ।
किं कारणम् ?
अन्येन विहितत्वात् । अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभाव उच्यते । प्रगृह्यः प्रकृत्येति ।।
-6-1-130- इर्3चाक्रवर्मणस्य (2567)
(वार्तिकावतरणभाष्यम्)
किमर्थमिदमुच्यते ?
(6238 प्रयोजनवार्तिकम् ।। 1 ।।)
- इर्3 चाक्रवर्मणस्येत्यनुपस्थितार्थम् -
अनुपस्थितार्थोऽयमारम्भः । चिनु ही3 इदम् --- चिनु हीदम्, सुनु ही3 इदम्-सुनु हीदम् ।।
(इर्कारप्रत्याख्यानभाष्यम्)
इर्कारग्रहणेन नार्थः, अविशेषेण चाक्रवर्मणस्याचार्यस्याप्लुतवद्भवतीत्येव ।
इदमपि सिद्धं भवति --- वशा 3 इयम्, वशेयम् ।।
-6-1-131- इर्3चाक्रवर्मणस्य (256)
 (उकारादेशाधिकरणम्)
(तपरप्रयोजनभाष्यम्)
किमर्थस्तकारः ?
तपरस्तत्कालस्य (1-1-70) इति तत्कालो यथा स्यात् ।।
नैतदस्ति प्रयोजनम् ।
आन्तर्यतोऽर्द्धमात्रिकस्य व्यञ्जनस्य स्थाने मात्रिक उकारः सिद्ध्यति ।
न सिद्ध्यति । ःढ़द्य;ठि कृते आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ।।
श्लोकभाष्यम् ---
तदर्थं तपरः कृतः ।
एवमर्थं तपरः क्रियते ।।
-6-1-135- सुट् कात्पूर्वः (2572)
(सुटोऽधिकरणम्)
(कात्पूर्वप्रयोजनभाष्यम्)
कात्पूर्वग्रहणं किमर्थम् ?
कात्पूर्वो यथा स्यात् --- संस्कर्ता, संस्कर्तुम् ।
नैतदस्ति प्रयोजनम् ।
सुडिति आदिलिङ्गोऽयं क्रियते, करोतिश्च ककारादिः, तत्रान्तरेण कात्पूर्वग्रहणं कात्पूर्व एव भविष्यति ।
अत उत्तरं पठति --- सुटि कात्पूर्वग्रहणमककारादौ कात्पूर्वार्थम् ।
सुटि कात्पूर्ववचनं क्रियते, अककारादौ करोतौ कात्पूर्वो यथा स्यात् । संचस्करतुः, संचस्करुः ।।
(6239 कात्पूर्वप्रयोजनाक्षेपवार्तिकम् ।। 1 ।।)
- सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थमिति चेदन्तरेणापि तत्सिद्धम् -
सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थमिति चेदन्तरेणापि कात्पूर्वग्रहणं सिद्धम् ।
कथम् ?
द्विर्वचनात्सुडि्वप्रतिषेधेन । द्विर्वचनं क्रियतां सुडिति, सुड् भविष्यति विप्रतिषेधेन ।
तत्र द्विर्वचनं भवतीत्यस्यावकाशः --- बिभिदतुः, बिभिदुः ।
सुटोऽवकाशः --- संस्कर्ता, संस्कर्तुम् ।
इहोभयं प्राप्नोति --- संचस्करतुः, संचस्करुरिति ।
सुट् भवति विप्रतिषेधेन ।।
(6240 एकदेशिनो विप्रतिषेधस्वीकारे दोषवार्तिकम् ।। 2 ।।)
- द्विर्वचनात्सुडि्वप्रतिषेधेनेति चेत् द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्गः -
द्विर्वचनात्सुडि्वप्रतिषेधेनेति चेदि्द्वर्भूते शब्दान्तरस्याकृतः सुडिति पुनः सुट् स्यात् ।।
(6241 शब्दान्तरत्वे दोषवार्तिकम् ।। 3 ।।)
- द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्ग इति चेत् द्विर्वचनम् -
सुटि कृते शब्दान्तरस्याकृतं द्विर्वचनमिति पुनर्व्दिर्वचनं प्राप्नोति ।।
(6242 विप्रतिषेधस्वीकारेऽनवस्थाख्यापकवार्तिकम् ।। 4 ।।)
- तथा चानवस्था -
पुनः सुट् पुनद्विर्वचनमिति चक्रकमव्यवस्था प्रसज्येत ।।
(चक्रकदोषनिवारकभाष्यम्)
नास्ति चक्रकप्रसङ्गः । न ह्यव्यवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतो हि नाम व्यवस्था । तत्र सुटि कृते द्विर्वचनम्, द्विर्वचनेनावस्थानं भविष्यति ।।
(6243 उपसंख्यानवार्तिकम् ।। 5 ।।)
- अड्व्यवाय उपसंख्यानम् -
अड्व्यवाये उपसंख्यानं कर्तव्यम् । समस्करोत्, समस्कार्षीत् ।।
(6244 उपसंख्यानवार्तिकम् ।। 6 ।।)
- अभ्यासव्यवाये च -
अभ्यासव्यवाये चोपसंख्यानं कर्तव्यम् । संचस्करतुः, संचस्करुः ।।
(उपसंख्यानाक्षेपभाष्यम्)
किमुच्यते अभ्यासव्यवाय इति, यदिदानीमेवोक्तम् --- द्विर्वचनात्सुडि्वप्रतिषेधेनेति ।।
(6245 विप्रतिषेधाक्षेपवार्तिकम् ।। 7 ।।)
- अविप्रतिषेधो वा बहिरङ्गलक्षणत्वात् सुटः -
अविप्रतिषेधो वा पुनः सुटः ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः सुट्, अन्तरङ्गं द्विर्वचनम् । असिद्धं बहिरङ्गमन्तरङ्गे ।।
(कात्पूर्वप्रयोजनभाष्यम्)
एवमर्थमेव तर्हि कात्पूर्वग्रहणं कर्तव्यम् --- कात्पूर्वो यथा स्यात् ।।
(कात्पूर्वग्रहणेऽप्याक्षेपभाष्यम्)
क्रियमाणेऽपि वै कात्पूर्वग्रहणेऽत्र न सिध्यति ।
किं कारणम् ?
न ह्ययं कात्पूर्वग्रहणेन शक्यो मध्ये प्रवेशयितुम् ।
किं कारणम् ?
आदिलिङ्गोऽयं क्रियते, करोतिश्च ककारादिः, दृष्टश्च पुनरातिदेशिकः करोतिरककारादिः ।।
(दोषस्थलदर्शकभाष्यम्)
पाक्षिक एष दोषः ।
कतरस्मिन् पक्षे ?
सुडि्वधौ द्वैतं भवति --- अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणं ककारादिदेशप्रक्लृप्त्यर्थं स्यात्, विशेषेण वा विधिरिति ।
द्विर्वचनविधौ चापि द्वैतं भवति --- स्थाने वा द्विर्वचनं स्यात्, द्विः प्रयोगो वा द्विर्वचनमिति ।
तद्यदा द्विः प्रयोगो द्विर्वचनम्, अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणं देशप्रक्लृप्त्यर्थं तदैष दोषः ।
यदा हि स्थाने द्विर्वचनं तदा यद्येवाविशेषेण विहितस्य सुटः कात्पूर्वग्रहणं देशप्रक्लृप्त्यर्थम् --- अथापि विशेषविधिः, न तदा दोषो भवति ।।
(आक्षेपनिरासभाष्यम्)
द्विः प्रयोगे चापि द्विर्वचने न दोषः ।
संपरिभ्यामिति नैषा पञ्चमी ।
का तर्हि ?
तृतीया । संपरिभ्यामुपसृष्टस्येति । व्यवहितश्चाप्युपसृष्टो भवति ।।
(6246 उपसंख्यानवार्तिकम् ।। 8 ।।)
- उपदेशिवद्वचनं च -
उपदेशिवद्भावश्च वक्तव्यः ।
किं प्रयोजनम् ?
(6247 उपसंख्यानप्रयोजनवार्तिकम् ।। 9 ।।)
- लिटिगुणचङिदीर्घप्रतिषेधार्थम् -
लिटि गुणार्थं चङि दीर्घप्रतिषेधार्थम् ।
लिटिगुणार्थं तावत् --- संचस्करतुः, संचस्करुः ।
चङि दीर्घप्रतिषेधार्थं च --- समचिस्करत् ।।
(उपसंख्यानप्रयोजनान्यथासिद्धिसाधकभाष्यम्)
लिटि गुणार्थेन तावन्नार्थः ।
वक्ष्यत्येतत् --- संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञ्ञर्थम् इति ।।
चङि दीर्घप्रतिषेधार्थेनापि नार्थः ।
पदमितीयं भगवतः कृत्रिमा संज्ञा ।
युक्तमिह द्रष्टव्यम् --- किमन्तरङ्गं किं बहिरङ्गमिति ।
धातूपसर्गयोः कार्यं यत्तदन्तरङ्गम् ।
कुत एतत् ?
पूर्वं हि धातुरुपसर्गेण युज्यते, पश्चात्साधनेनेति ।
नैतत्सारम् ।
पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेण । साधनं हि क्रियां निर्वर्तयति, तामुपसर्गो विशिनष्टि । अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम् ।
सत्यमेवमेतत् ।
यस्त्वसौ धातूपसर्गयोरभिसंबन्धस्तमभ्यन्तरं कृत्वा धातुः साधनेन युज्यते ।
अवश्यं चैतदेवं विज्ञेयम्, यो हि मन्यते पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति तस्य आस्यते गुरुणा इत्यकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् ।
एवं च कृत्वा सुट् सर्वतोऽन्तरङ्गतरको भवति ।
कात्पूर्वग्रहणं चापि शक्यमकर्तुम् ।।
(वार्तिकावतरणभाष्यम्)
यदि पुनरयं सुट् कात्पूर्वान्तः क्रियते ।
(6248 पूर्वान्तत्वाक्षेपवार्तिकम् ।। 10 ।।)
- कात्पूर्वान्त इति चेद्रुविधिप्रतिषेधः -
कात्पूर्वान्त इति चेत् रुः कश्चिद्विधेयः, कश्चित्प्रतिषेध्यः । संस्कर्ता । समो विधेयः, सुटः प्रतिषेध्यः ।।
(समाधानभाष्यम्)
समस्तावन्न विधेयः ।
वक्ष्यत्येतत् --- संपुंकानां सत्वम् रुत्वविधौ ह्यनिष्टप्रसङ्गः इति ।।
सुटश्चापि न प्रतिषेध्यः ।
समः सुटि (8-3-5) इति द्विसकारको निर्देशः । सुटि सकारादाविति ।।
(वार्तिकावतरणभाष्यम्)
अथवा परादिः करिष्यते ।
(6249 परादित्वाक्षेपवार्तिकम् ।। 11 ।।)
- परादाविड्गुणप्रसङ्गः -
यदि परादिः, इड्गुणौ प्राप्नुतः ।
संस्कृषीष्ट, ऋतश्च संयोगादेः (7-2-43) इतीट् प्राप्नोति ।
संस्क्रियते, गुणोर्तिसंयोगाद्योः (7-4-29) इति गुणः प्राप्नोति ।।
(वार्तिकावतरणभाष्यम्)
एवं तर्ह्यभक्तः करिष्यते ।
<M.5.140>
(6250 अभक्तत्वाक्षेपवार्तिकम् ।। 12 ।।)
- अभक्ते स्वरे दोषः -
यद्यभक्तः स्वरो न सिध्यति । संस्करोति, तिङ्ङतिङः (8-1-28) इति निघातो न प्राप्नोति ।
ननु चात्र सुडेवातिङ् ।
न सुटः परस्य निघातेन भवितव्यम् ।
किं कारणम् ?
नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्तमिव युक्तं चान्यस्मिन् सदृशे कार्यं विज्ञायते, तथा ह्यर्थो गम्यते ।
तद्यथा --- अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं क्षत्रियमानयति, नासौ लोष्टमानीय कृती भवति ।
एवमिहापि अतिङ् इति प्रतिषेधादन्यस्मादतिङस्तिङ्सदृशात्कार्यं विज्ञास्यते ।
किं चान्यदतिङ् तिङसदृशम् ?
पदम् ।।
-6-1-142- अपाच्चतुष्पाच्छकुनिष्वालेखने (2579)
(6251 अर्थोपसंख्यानवार्तिकम् ।। 1 ।।)
- किरतेर्हर्षजीविकाकुलायकरणेषु -
किरतेर्हर्षंजीविकाकुलायकरणेष्विति वक्तव्यम् । अपस्किरते वृषो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वाऽऽश्रयार्थी ।।
-6-1-144- अपरस्पराः क्रियासातत्ये (2581)
(सातत्यपदार्थबोधकभाष्यम्)
किमिदं सातत्य इति ?
सन्ततस्य भावः सातत्यम् ।
यद्येवं सांतत्ये इति भवितव्यम् ।।
<M.5.141>
(6252 सातत्यरूपसाधकवार्तिकम् ।। 1 ।।)
?B- समो हितततयोर्वा लोपः -
समो हितततयोर्वा लोपो वक्तव्यः । संहितम्, सहितम् । संततम्, सततम् ।।
(6253 मलोपसाधकवार्तिकम् ।। 2 ।।)
- सम्तुमुनोः कामे -
सम्तुमुनोः कामे लोपो वक्तव्यः । सकामः । भोक्तुकामः ।।
(मलोपसाधकभाष्यम्)
मनसि चेति वक्तव्यम् । समनाः । भोक्तुमनाः ।।
(6254 मलोपसाधकवार्तिकम् ।। 3 ।।)
- अवश्यमः कृत्ये -
अवश्यमः कृत्ये लोपो वक्तव्यः । अवश्यभाव्यम् ।।
-6-1-145- गोष्पदं सेवितासेवितप्रमाणेषु (2581)
(असेवितपदप्रयोजनभाष्यम्)
इदमतिबहु क्रियते --- सेविते --- असेविते --- प्रमाण इति, सेवितप्रमाणयोरित्येव सिद्धम् ।
केनेदानीमसेविते भविष्यति ?
नञ्ञा सेवितप्रतिषेधं विज्ञास्यामः ।।
नैवं शक्यम् ।
सेवितप्रसङ्ग एव स्यात्, असेविते न स्यात् । असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञास्यते --- अविद्यमानसेविते --- असेवित इति ।
तस्मादसेवितग्रहणं कर्तव्यम् ।।
<M.5.142>
-6-1-147- आश्चर्यमनित्ये (2584)
(6256 उपसंख्यानवार्तिकम् ।। 1 ।।)
- आश्चर्यमद्भुते -
आश्चर्यमद्भुत इति वक्तव्यम् । इहापि यथा स्यात् --- आश्चर्यमुच्चता वृक्षस्य, आश्चर्यं नीला द्यौः, आश्चर्यमन्तरिक्षेऽबन्धनानि नक्षत्राणि न पतन्तीति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । अनित्ये इत्येव सिद्धम् ।
इह तावत् --- आश्चर्यमुच्चता वृक्षस्येति, आश्चर्यग्रहणेन वृक्षोऽभिसंबध्यते ।
किं तर्हि ?
उच्चता । सा चानित्या ।।
आश्चर्यं नीला द्यौरिति, नाश्चर्यग्रहणेन द्यौरभिसम्बध्यते ।
किं तर्हि ?
नीलता । सा चानित्या ।।
आश्चर्यमन्तरिक्षेऽबन्धनानि नक्षत्राणि न पतन्तीति, नाश्चर्यग्रहणेन नक्षत्राण्यभिसम्बध्यन्ते ।
किं तर्हि ?
पतनक्रिया । सा चानित्या ।
तत्रानित्य इत्येव सिद्धम् ।।
-6-1-150- विष्किरः शकुनौ वा (2583)
(6255 उपसंख्यानवार्तिकम् ।। 1 ।।)
- विष्किरः शकुनौ विकिरो वा -
विष्किरः शकुनौ विकिरो वेति वक्तव्यम् । शकुनौ वेत्युच्यमाने शकुनौ वा स्यादन्यत्रापि नित्यम् ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । न वावचनेन शकुनिरभिसंबध्यते ।
किं तर्हि ?
निपातनमभिसंबध्यते --- विष्किर इत्येतन्निपातनं शकुनौ वा निपात्यत इति ।।
-6-1-154- मस्करमस्करिणौ वेणुपरिव्राजकयोः (2591)
(मस्करिग्रहणप्रयोजनभाष्यम्)
मस्करिग्रहणं शक्यमकर्तुम् ।
कथं मस्करी परिव्राजक इति ?
इनिनैतन्मत्वर्थीयेन सिद्धम् । मस्करोस्यास्तीति ।
न वै मस्करी मस्करोऽस्यास्तीति --- परिव्राजकः ।
किं तर्हि ?
मा कृत कर्माणि मा कृत कर्माणि शान्तिर्वः श्रेयसीत्याह, अतो मस्करी --- परिव्राजकः ।।
<M.5.143>
-6-1-157- पारस्करप्रभृतीनि च संज्ञायाम् (2594)
(गणस्वरूपसाधकभाष्यम्)
अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः ।
पारस्करो देशः । कारस्करो वृक्षः । रथस्पा नदी । किष्किन्धा गुहा । किष्कुः ।।
तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च ।
तस्करः, बृहस्पतिः ।।
प्रायस्य चित्तिचित्तयोः सुडस्कारो वा ।
प्रायश्चित्तिः । प्रायश्चित्तम् ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ।।
-6-1-159- कर्षात्वतो घञ्ञोऽन्त उदात्तः ( 2596)
(विकृतग्रहणप्रयोजनभाष्यम्)
किमर्थं कृषेर्विकृतस्य ग्रहणं क्रियते न कृषात्वतः इत्येवोच्येत ?
यस्य कृषेर्विकरण एतद्रूपं तस्य यथा स्यात् ।
इह मा भूत् --- हलस्य कर्षः इति ।।
(मतुबन्तग्रहणप्रयोजनभाष्यम्)
अथ किमर्थं मतुपा निर्देशः क्रियते, न कर्षातः इत्येवोच्येत ?
कर्षातः इतीयत्युच्यमाने यत्रैवाकारादनन्तरो घञ्ञस्ति तत्रैव यथा स्यात् । दायः, धायः ।
इह न स्यात् --- पाकः, पाठः ।।
न क्वचिदाकारादनन्तरो घञ्ञस्ति । इहापिदायः, धायः --- इति युका व्यधानम् ।।
एवमपि विहितविशेषणमाकारग्रहणं विज्ञायेत-- आकाराद्यो विहित इति ।
मतुब्ग्रहणे पुनः क्रियमाणे न दोषो भवति ।।
-6-1-161- अनुदात्तस्य च यत्रोदात्तलोपः (2598)
(पदकृत्यभाष्यम्)
अनुदात्तस्येति किमर्थम् ?
प्रासङ्गं वहति प्रासङ्ग्यः ।।
(6272 अनुदात्तस्येति पदस्य प्रत्याख्यानवार्तिकम् ।। 1 ।।)
- उदात्तलोपे स्वरितोदात्तयोरभावादनुदात्तग्रहणानर्थक्यम् -
उदात्तलोपे स्वरितोदात्तयोरभावादनुदात्तग्रहणमनर्थकम् । न हि कश्चिदुदात्त उदात्ते स्वरिते वा लुप्यते, सर्वोऽनुदात्त एव ।
ननु चायमुदात्तः स्वरिते लुप्यते --- प्रासङ्गं वहति --- प्रासङ्ग्य इति ।
एषोऽपि निघाते कृतेऽनुदात्त एव लुप्यते ।
इदमिह संप्रधार्यम् --- निघातः क्रियताम्, लोप इति; किमत्र कर्तव्यम् ?
परत्वाल्लोपः ।
एवं तर्ह्ययमद्य निघातस्वरः सर्वस्वराणामपवादः । न चापवादविषय उत्सर्गोऽभिनिविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य वाऽपवादविषयं तत उत्सर्गोऽभिनिविशते ।
तन्न तावदत्र कदाचिदन्तोदात्तस्थाथादिस्वरो भवति, अपवादं निघातं प्रतीक्षते ।
तत्र --- निघातः क्रियतां लोप इति, यद्यपि परत्वाल्लोपः सोऽसावविद्यमानोदात्तः --- अनुदात्ते लुप्यते ।।
(वार्तिकावतरणभाष्यम्)
किं पुनरनुदात्तस्यान्त उदात्तो भवति, आहोस्विदादिः ?
कश्चात्र विशेषः ?
(6273 अन्तोदात्तत्वे दोषवार्तिकम् ।। 2 ।।)
- अन्त इति चेत् र्श्ॉम्क्सयुष्मदस्मदिदंकिंलोपेषु स्वरः -
अन्त इति चेत् र्श्ॉम्क्सयुष्मदस्मदिदंकिंलोपेषु स्वरो न सिध्यति ।
र्श्ॉम् --- विन्दाते, खिन्दाते । र्श्ॉम् ।।
क्स --- मा हि धुक्षाताम्, मा हि धुक्षाथाम् । क्स ।।
युष्मदस्मद् --- युष्मभ्यम्, अस्मभ्यम् ।।
इदम्किम्लोपः --- इयान्, कियान् ।।
अस्तु तर्ह्यादिः ।
(6274 आदेरुदात्तत्वे दोषवार्तिकम् ।। 3 ।।)
- आदिरिति चेदिन्धीत द्वयमित्यन्तः -
आदिरिति चेदिन्धीत द्वयमित्यन्तोदात्तत्वं विधेयम् । इन्धीत्, द्वयम् --- त्रयम् ।।
(6275 आद्युदात्तत्वस्थापकवार्तिकम् ।। 4 ।।)
आदौ सिद्धम्
अस्तु तर्ह्यादिरुदात्तो भवतीति ।।
(वार्तिकावतरणभाष्यम्)
ननु चोक्तम् --- आदिरिति चेदिन्धीत द्वयमित्यन्त इति ।।
(6276 आद्युदात्तत्वे दोषवारकवार्तिकम् ।। 5 ।।)
- विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तप्रतिषेधाल्लिङि सिद्धम् -
विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तत्वं लिङि नेति वक्तव्यम् ।।
लिङ्ग्रहणेन नार्थः, अविशेषेण विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तत्वं नेत्येव ।
इदमपि सिद्धं भवति --- विन्दाते, खिन्दाते ।।
अयचि कथम् ?
(6277 दोषवारकवार्तिकम् ।। 6 ।।)
- अयचि चित्करणात् -
अयचि चित्करणसार्मथ्यादन्तोदात्तत्वं भविष्यति ।।े
-6-1-162- धातोः - (2599)
(वार्तिकावतरणभाष्यम्)
किं धातोरन्त उदात्तो भवति, आहोस्विदादिरिति ?
कश्चात्र विशेषः ?
(6278 अन्तोदात्तत्वे दोषवार्तिकम् ।। 1 ।।)
- धातोरन्त इति चेदनुदात्तेचबग्रहणम् -
धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यम् ।
अभ्यस्तानामादिः अनुदात्ते च (6-1-189;190) इति वक्तव्यम् ।
बग्रहणं च कर्तव्यम् । बान्तश्च पिबतिराद्युदात्तो भवतीति वक्तव्यम् ।।
(6279 अन्तोदात्तत्वे दोषवार्तिकम् ।। 2 ।।)
- संश्च नित् -
संश्च नित्कर्तव्यः ।
किं प्रयोजनम् ?
चिकीर्षति, जिहीर्षति --- नितीत्याद्युदात्तत्वं यथा स्यात् ।।
अस्तु तर्ह्यादिः ।
(6280 आद्युदात्तत्वे दोषवार्तिकम् ।। 3 ।।)
- आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वम् -
आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वं न सिध्यति ।
ःढ़द्य;र्णोति । ःढ़द्य;र्णु ।।
प्रत्ययधातु --- गोपायति, धूपायति, ऋतीयते ।।
(6281 सिद्धान्तवार्तिकम् ।। 4 ।।)
- अन्तोदात्तवचनात्सिद्धम् -
अस्तु तर्ह्यन्तोदात्तो भवतीति ।।
ननु चोक्तम् --- धातोरन्त इति चेदनुदात्तेचबग्रहणं कर्तव्यमिति ।
यत्तावदुच्यते --- अनुदात्ते च ग्रहणं कर्तव्यमिति ।
क्रियते न्यास एव --- अभ्यस्तानामादिः, अनुदात्ते च इति ।।
बग्रहणं कर्तव्यमिति ।
(6282 सिद्धान्तसाधकवार्तिकम् ।। 5 ।।)
- पिबौ निपातनात् -
पिबावाद्युदात्तनिपातनं क्रियते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ।।
संश्च नित्कर्तव्य इति ।
अवश्यं सनो विशेषणार्थो नकारः कर्तव्यः ।
क्व विशेषणार्थेनार्थः ?
सन्यङोः (6-1-9) इति ।
सयङोरितीयत्युच्यमाने --- हंसः, वत्सः --- अत्रापि प्राप्नोति ।
अर्थवद्ग्रहणेनानर्थकस्य इत्येवं न भविष्यति ।
इहापि तर्हि न प्राप्नोति --- जुगुप्सते, मीमांसत इति ।
अर्थवानेषः ।
न वै कश्चिदर्थ आदिश्यते ।
यद्यपि कश्चिदर्थो नादिश्यते, अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति --- इति --- अन्ततः स्वार्थे भविष्यति

कश्चास्य स्वार्थः ?
प्रकृत्यर्थः ।
इहापि तर्हि प्राप्नोति --- हंसः, वत्सः --- इति ।
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।।
स एषोऽनन्यार्थो नकारः कर्तव्यः ।
न कर्तव्यः ।
क्रियते न्यास एव ।।
अथवा धातोरिति वर्तते । धातोः सशब्दान्तस्य द्वे भवति इति ।।
-6-1-163- चितः (2600)
(6283 उपसंख्यानवार्तिकम् ।। 1 ।।)
- चितः सप्रकृतेर्बह्वकजर्थम् -
चितः सप्रकृतेरिति वक्तव्यम् ।
किं प्रयोजनम् ?
बह्वकजर्थम् । बहुजर्थमकजर्थं च ।
बहुजर्थं तावत् --- बहुभुक्तम्, बहुकृतम् ।
अकजर्थम् --- सर्वकैः, विश्वकैः, उच्चकैः, नीचकैः, सर्वके, विश्वके ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । मतुब्लोपोऽत्र द्रष्टव्यः ।
तद्यथा --- पुष्पका एषां ते पुष्पकाः, कालका एषां ते कालकाः ।।
अथवाऽकारो मत्वर्थीयः ।
तद्यथा --- तुन्दः, घाट इति ।
पूर्वसूत्रनिर्देशश्च --- चित्वान् --- चित इति ।।
-6-1-167-चतुरः शसि (2604)
(प्रतिषेधोपसंख्यानभाष्यम्)
शसि स्त्रियां प्रतिषेधो वक्तव्यः । चतस्रः पश्य ।।
(6285 प्रतिषेधाक्षेपवार्तिकम् ।। 1 ।।)
- चतुरः शसि स्त्रियामप्रतिषेध आद्युदात्तनिपातनात् -
चतुरः शसि स्त्रियामप्रतिषेधः । अनर्थकः प्रतिषेधः --- अप्रतिषेधः ।
शसि स्वरः कस्मान्न भवति ?
आद्युदात्तनिपातनात् । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधको भविष्यति ।।
(उपदेशिवद्भावोपसंख्यानभाष्यम्)
एवमप्युपदेशिवद्भावो वक्तव्यः । यथैव हि निपातनस्वरः शसि स्वरं बाधते, एवं विभक्तिस्वरमपि बाधेत --- चतसृणामिति ।।
(6286 उपदेशिवद्भावाक्षेपवार्तिकम् ।। 2 ।।)
- विभक्तिस्वरभावश्च हलादिग्रहणात् -
विभक्तिस्वरस्य च भावः सिद्धः ।
कुतः ?
हलादिग्रहणात् । यदयं षट्त्रिचतुर्भ्यो हलादिः (6-1-179) इति हलादिग्रहणं करोति तज्ज्ञापयत्याचार्यः --- न निपातनस्वरो विभक्तिस्वरं बाधत इति ।
कथं कृत्वा ज्ञापकम् ?
(6287 आक्षेपसाधने ज्ञापनसाधकवार्तिकम् ।। 3 ।।)
- आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् -
आद्युदात्तनिपातने हि सति हलादिग्रहणमनर्थकं स्यात् । न ह्यन्यद्धलादिग्रहणं प्रयोजयति --- अन्यदतश्चतसृशब्दात् ।।
षट्संज्ञास्तावन्न प्रयोजयन्ति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
जसिशसी चातो लुप्येते ।
अन्याः सर्वा हलादयो विभक्तयः ।।
त्रिशब्दश्चापि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम्।
शसि भवितव्यम् --- एकादेश उदात्तेनोदात्तः इति ।
अन्या --- सर्वा हलादयो विभक्तयः ।।
तिसृशब्दोऽपि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम् ।
शसि भवितव्यम् --- उदात्तयणो हल्पूर्वात् (6-1-174) इति ।
अन्याः सर्वा हलादयो विभक्तयः ।।
चतुः शब्दश्चापि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वानामस्थानमिति वचनाज्जसि न भवितव्यम् ।
शसि भवितव्यम् --- चतुरः शसि इति ।
?B अन्याः सर्वा हलादयो विभक्तयः ।।
तत्र चतसृशब्दादेकस्माच्छस् --- असर्वनामस्थानमजादिर्विभक्तिरस्ति । यदि चात्र निपातनस्वरः स्यात् हलादिग्रहणमनर्थकं स्यात् ।।
(सिद्धान्तभाष्यम्)
नैव वा पुनरत्र शसि स्वरः प्राप्नोति ।
किं कारणम् ?
यणादेशे कृते शसः पूर्व उदात्तभावी नास्तीति कृत्वा ।
अवशिष्टस्य तर्हि प्राप्नोति ।
ऋकारेण व्यवहितत्वान्न भविष्यति ।
यणादेशे कृते नास्ति व्यवधानम् ।
स्थानिवद्भावाद्व्यवधानमेव ।
प्रतिषिध्यते तत्र स्थानिवद्भावः --- स्वरविधिं प्रति न स्थानिवद्भवतीति ।
नैषोऽस्ति प्रतिषेधः । उक्तमेतत्प्रतिषेधे --- स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति ।।
-6-1-166- तिसृभ्यो जसः (2603)
(विभक्त्युदात्ताधिकरणम्)
(जस्ग्रहणप्रयोजनभाष्यम्)
जस इति किमर्थम् ?
तिसृका ।।
(6284 प्रयोजनाक्षेपवार्तिकम् ।। 1 ।।)
- तिसृभ्यो जस्ग्रहणानर्थक्यमन्यत्राभावात् -
तिसृभ्यो जस्ग्रहणमनर्थकम् ।
किं कारणम् ?
अन्यत्राभावात् । न ह्यन्यत् तिसृशब्दादन्तोदात्तत्वं प्रयोजयति, अन्यदतो जसः ।
किं कारणम् ?
बहुवचनविषय एव तिसृशब्दः , तेनैकवचनद्विवचने न स्तः ।
शसि भवितव्यम् --- उदात्तयणो हल्पूर्वात् (6-1-174) इति ।
अन्याः सर्वा हलादयो विभक्तयः, तत्र षट्त्रिचतुर्भ्यो हलादिः झल्युपोत्तमम् (6-1-179;80) इत्यनेन स्वरेण भवितव्यम् ।
तत्रान्तरेण जसो ग्रहणं जस एव भविष्यति ।।
ननु चेदानीमेवोदाहृतम् --- तिसृका --- इति ।
नित्स्वरोऽत्र बाधको भविष्यति । नाप्राप्तेऽन्यस्वरे तिसृस्वर आरभ्यते, स यथैव अनुदात्तौ सुप्तितौ (3-1-4) इत्येतं स्वरं बाधते, एवं नित्स्वरमपि बाधेत ।।
नैष दोषः । येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्तेऽनुदात्तौ सुप्तितावित्येतस्मिंस्तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च ।
अथवा मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवं तिसृस्वरोऽनुदात्तौ सुप्पिताविति स्वरं बाधिष्यते, नित्स्वरं न बाधिष्यते ।।
(जस्प्रयोजनभाष्यम्)
उपसमस्तार्थमेके जसो ग्रहणमिच्छन्ति । अतितिस्रौ, अतितिस्रः ।।
-6-1-167-चतुरः शसि (2604)
(प्रतिषेधोपसंख्यानभाष्यम्)
शसि स्त्रियां प्रतिषेधो वक्तव्यः । चतस्रः पश्य ।।
(6285 प्रतिषेधाक्षेपवार्तिकम् ।। 1 ।।)
- चतुरः शसि स्त्रियामप्रतिषेध आद्युदात्तनिपातनात् -
चतुरः शसि स्त्रियामप्रतिषेधः । अनर्थकः प्रतिषेधः --- अप्रतिषेधः ।
शसि स्वरः कस्मान्न भवति ?
आद्युदात्तनिपातनात् । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः शसि स्वरस्य बाधको भविष्यति ।।
(उपदेशिवद्भावोपसंख्यानभाष्यम्)
एवमप्युपदेशिवद्भावो वक्तव्यः । यथैव हि निपातनस्वरः शसि स्वरं बाधते, एवं विभक्तिस्वरमपि बाधेत --- चतसृणामिति ।।
(6286 उपदेशिवद्भावाक्षेपवार्तिकम् ।। 2 ।।)
- विभक्तिस्वरभावश्च हलादिग्रहणात् -
विभक्तिस्वरस्य च भावः सिद्धः ।
कुतः ?
हलादिग्रहणात् । यदयं षट्त्रिचतुर्भ्यो हलादिः (6-1-179) इति हलादिग्रहणं करोति तज्ज्ञापयत्याचार्यः --- न निपातनस्वरो विभक्तिस्वरं बाधत इति ।
कथं कृत्वा ज्ञापकम् ?
(6287 आक्षेपसाधने ज्ञापनसाधकवार्तिकम् ।। 3 ।।)
- आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् -
आद्युदात्तनिपातने हि सति हलादिग्रहणमनर्थकं स्यात् । न ह्यन्यद्धलादिग्रहणं प्रयोजयति --- अन्यदतश्चतसृशब्दात् ।।
षट्संज्ञास्तावन्न प्रयोजयन्ति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
जसिशसी चातो लुप्येते ।
अन्याः सर्वा हलादयो विभक्तयः ।।
त्रिशब्दश्चापि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम्।
शसि भवितव्यम् --- एकादेश उदात्तेनोदात्तः इति ।
अन्या --- सर्वा हलादयो विभक्तयः ।।
तिसृशब्दोऽपि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वनामस्थानमिति वचनाज्जसि न भवितव्यम् ।
शसि भवितव्यम् --- उदात्तयणो हल्पूर्वात् (6-1-174) इति ।
अन्याः सर्वा हलादयो विभक्तयः ।।
चतुः शब्दश्चापि न प्रयोजयति ।
किं कारणम् ?
बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः ।
असर्वानामस्थानमिति वचनाज्जसि न भवितव्यम् ।
शसि भवितव्यम् --- चतुरः शसि इति ।
अन्याः सर्वा हलादयो विभक्तयः ।।
तत्र चतसृशब्दादेकस्माच्छस् --- असर्वनामस्थानमजादिर्विभक्तिरस्ति । यदि चात्र निपातनस्वरः स्यात् हलादिग्रहणमनर्थकं स्यात् ।।
(सिद्धान्तभाष्यम्)
नैव वा पुनरत्र शसि स्वरः प्राप्नोति ।
किं कारणम् ?
यणादेशे कृते शसः पूर्व उदात्तभावी नास्तीति कृत्वा ।
अवशिष्टस्य तर्हि प्राप्नोति ।
ऋकारेण व्यवहितत्वान्न भविष्यति ।
यणादेशे कृते नास्ति व्यवधानम् ।
स्थानिवद्भावाद्व्यवधानमेव ।
प्रतिषिध्यते तत्र स्थानिवद्भावः --- स्वरविधिं प्रति न स्थानिवद्भवतीति ।
नैषोऽस्ति प्रतिषेधः । उक्तमेतत्प्रतिषेधे --- स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति ।।
-6-1-168- सावेकाचस्तृतीयादिर्विभक्तिः (2605)
(सुपदार्थनिर्णायकभाष्यम्)
साविति किमिदं प्रथमैकवचनस्य ग्रहणम्, आहोस्वित्सप्तमीबहुवचनस्य ?
कुतः सन्देहः ?
समानो निर्देशः ।
सप्तमीबहुवचनस्य ग्रहणम् ।
कथं ज्ञायते ?
यदयं न गोश्वन्साववर्ण --- (6-1-182) इति गोशुनोः प्रतिषेधं शास्ति ।
कथं कृत्वा ज्ञापकम् ?
यदि प्रथमैकवचनस्य ग्रहणं स्यात् गोशुनोः प्रतिषेधवचनमनर्थकं स्यात् ।
ननु चार्थसिद्धिरेवैषा ।
अनुगृहीताः स्मः । यैरस्माभिः प्रथमैकवचनमास्थाय गोशुनोः प्रतिषेधो वक्तव्यः इति स न वक्तव्यो भवति ।
भवेत्प्रतिषेधो न वक्तव्यः ।
दोषास्तु भवन्ति ।
तत्र को दोषः ?
स्विना, खिना । अन्तोदात्तत्वन्न प्राप्नोति ।
स्विखिनौ न स्तः । उक्तमेतत् ---
एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ।।
स्ववान् खवान् इत्येव भवितव्यम् ।।
इह तर्हि --- याद्भ्याम् --- यादि्भः --- इति न सिध्यति ।
तस्मात्सप्तमीबहुवचनस्य ग्रहणम् ।।
(6288 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः -
सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधो वक्तव्यः । त्वया, मया ।।
(6289 उपसंख्यानाक्षेपवार्तिकम् ।। 2 ।।)
- सिद्धं तु यस्मात्तृतीयादिस्तस्याभावात्सौ -
सिद्धमेतत् ।
कथम् ?
यस्मादत्र तृतीयादिर्न तत्सावस्ति ।।
यद्यपि तत् सौ नास्ति, प्रकृतिस्तस्य सावस्ति ।।
(6290 आक्षेपसाधकवार्तिकम् ।। 3 ।।)
- प्रकृतेस्त्वनेकाच्त्वात् -
यद्यपि तस्य प्रकृतिरस्ति सावनेकाच्तु सा भवति ।।
-6-1-169- अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यमासे (2606)
(उत्तरपदग्रहणजिज्ञासाभाष्यम्)
उत्तरपदग्रहणं किमर्थम् ?
(उत्तरपदप्रयोजनभाष्यम्)
यथैकाज्ग्रहणमुत्तरपदविशेषणं विज्ञायेत --- एकाजुत्तरपदादिति ।
अथाक्रियमाण उत्तरपदग्रहणे कस्यैकाज्ग्रहणं विशेषणं स्यात् ?
समासविशेषणम् ।
अस्ति चेदानीं कश्चिदेकाच्समासः, यदर्थमेकाज्ग्रहणं स्यात् ?
अस्तीत्याह । शुनः ःढ़द्य;र्क् --- श्वोर्क्, श्वोर्जा, श्वोर्ज इति ।।
-6-1-171- ःढ़द्य;डिदंपदाद्यप्पुम्रैद्युभ्यः (2608)
(पदादिविषये विशेषबोधकभाष्यम्)
पदादिषु निश्पर्यन्तानि प्रयोजयन्ति । अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि ।।
(6291 उपसंख्यानवार्तिकम् ।। 1 ।।)
- ःढ़द्य;ठ्युपधाग्रहणम् -
ःढ़द्य;ठ्युपधाग्रहणं कर्तव्यम् ।
किं प्रयोजनम् ?
अन्त्यप्रतिषेधार्थम् । अन्त्यस्य मा भूदिति । अक्षद्युवा, अक्षद्युवे ।।
-6-1-172- अष्टनो दीर्घात् (2609)
(दीर्घात्पदवैर्य्यथ्यबोधकभाष्यम्)
दीर्घग्रहणं किमर्थम्
अष्टसु प्रक्रमेषु ब्राह्मण आदधीत।। दीर्घादिति शक्यमकर्तुम्। कस्मान्न भवति--अष्टसु प्रक्रमेषु ब्राह्मण आदधीतेति ? षट्स्वरोऽत्र बाधको भविष्यति। नाप्राप्ते षट्स्वरे अष्टनः स्वर आरभ्यते स यथैव दीर्घाद्वाधते,एवं ह्रस्वादपि बाधेत। न दीर्घात्षट्स्वरः प्राप्नोति। किं कारणम् ? आत्वे कृते षट्संज्ञाऽभावात् । अत उत्तरं पठति--
(6292 दीर्घात्पदस्य ज्ञापकत्वस्थापकवार्तिकम्)
अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थम्।।1।।
अष्टनो दीर्घग्रहणं क्रियते ज्ञापकार्थम्। किं ज्ञाप्यम्? एतज्ज्ञापत्याचार्यः--भवत्यात्वे कृते षट्संज्ञेति। किमेतस्य ज्ञापने प्रयोजनम्? आकारान्तस्य नुडर्थम् । आकारन्तस्य नुट् सिद्धो भवति --अष्टनामिति।। ननु च नित्यमात्वम् एतदेव ज्ञापयति--विभाषा आत्वमिति, यदयं दीर्घग्रहणं करोति। इतरथा हि अष्टनः इत्येव ब्रूयात्।।
-6-1-173- शतुरनुमो नद्यजादी ( 2610)
(6293 उपसंख्यानवार्तिकम् ।। 1 ।।)
- नद्यजाद्युदात्तत्वे बृहन्महतोरुपसंख्यानम् -
नद्यजाद्युदात्तत्वे बृहन्महतोरुपसंख्यानं कर्तव्यम् । बृहती, बृहता । महती, महता ।।
-6-1-174- उदात्तयणो हल्पूर्वात् (2611)
(पदकृत्यभाष्यम्)
हल्पूर्वादिति किमर्थम् ?
अग्नये, वायवे ।।
(6294 न्यासान्तरेण लक्ष्यसिद्धिबोधकवार्तिकम् ।। 1 ।।)
- उदात्तयणि हल्ग्रहणं नकारान्तार्थम् -
उदात्तयणि हल्ग्रहणं कर्तव्यम् ।
किं प्रयोजनम् ?
नकारान्तार्थम् । नकारान्तादपि यथा स्यात् । वाक्पत्नी, चित्पत्नी ।।
(6295 हल्पूर्वग्रहणानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वात् -
हल्पूर्वग्रहणं चानर्थकम् ।
किं कारणम् ?
समुदायादेशत्वात् । समुदायोऽत्रादेशः ।।
(6296 आनर्थक्योपष्टम्भकवार्तिकम् ।। 3 ।।)
- स्वरितत्वे वावचनात् -
स्वरितत्वे च हल्पूर्वग्रहणस्यावचनात् मन्यामहे --- हल्पूर्वग्रहणमनर्थकमिति ।।
(वार्तिकत्रयप्रत्याख्यानभाष्यम्)
यत्तावदुच्यते --- उदात्तयणि हल्ग्रहणं नकारान्तार्थमिति, क्रियते न्यास एव । द्विनकारको निर्देशः --- उदात्तयणो हल्पूर्वान्नोङ्धात्वोरिति ।।
यदप्युच्यते --- हल्पूर्वग्रहणानर्थक्यं च समुदायादेशत्वादिति, अयमस्ति केवल आदेशः --- बहुतितवा, बहुतितवे --- इति ।।
-6-1-176- ह्रस्वनुड्भ्यां मतुप् (2613)
(6297 उपसंख्यानवार्तिकम् ।। 1 ।।)
- मतुबुदात्तत्वे रेग्रहणम् -
मतुबुदात्तत्वे रेग्रहणं कर्तव्यम् । आरेवानेतु नो विशः ।।
(6298 उपसंख्यानवार्तिकम् ।। 2 ।।)
- त्रिप्रतिषेधश्च -
त्रेश्च प्रतिषेधो वक्तव्यः । त्रिवतीर्याज्यानुवाक्या भवन्ति ।।
-6-1-177- नामन्यतरस्याम् (2614)
(उद्देश्यतावच्छेदकनिर्णायकभाष्यम्)
इह कस्मान्न भवति --- किशोरीणाम्, कुमारीणाम् ?
ह्रस्वादिति वर्तते ।
इहापि तर्हि न प्राप्नोति --- अग्नीनाम्, वायूनाम् ।
किं कारणम् ?
दीर्घत्वे कृते ह्रस्वाभावात् ।
इदमिह संप्रधार्यम् --- दीर्घत्वं क्रियतां स्वर इति, किमत्र कर्तव्यम् ?
परत्वाद्दीर्घत्वम् ।
एवं तर्हि ---
(6299 ह्रस्वोपसंख्यानवार्तिकम् ।। 1 ।।)
- नाम्स्वरे मतौ ह्रस्वग्रहणम् -
नाम्स्वरे मतौ ह्रस्वग्रहणं कर्तव्यम् --- मतौ ह्रस्वान्तात् इति ।।
(ह्रस्वग्रहणे प्रत्याख्यानभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् । आहायम् --- ह्रस्वान्तादिति, न च नामि ह्रस्वान्तोऽस्ति, तत्र भूतपूर्वगतिर्विज्ञास्यते --- ह्रस्वान्तं भूतपूर्वमिति ।।
सांप्रतिकाभावे भूतपूर्वगतिर्विज्ञायते ।
अयं चास्ति सांप्रतिकः --- तिसृणाम्, चतसृणामिति ।
नैतदस्ति । षटि्त्रचतुर्भ्यो हलादिः (6-1-179) इत्यनेनात्र भवितव्यम् । तस्मिन्नित्ये प्राप्ते इयं विभाषाऽऽरभ्यते ।
एवं तर्हि योगविभागः करिष्यते --- षटि्त्रचतुर्भ्यः, नामुदात्तो भवति ।
ततः --- हलादिः, हलादिश्च विभक्तिरुदात्ता भवति षटि्त्रचतुर्भ्य इति ।।
इदं तर्हि --- त्वं नृणां नृपते जायसे शुचिः ।
ननु चात्रापि नृ चान्यतरस्याम् (6-1-184) इत्येष स्वरोऽत्र बाधको भविष्यति ।
न सिद्ध्यति ।
किं कारणम् ?
झल्ग्रहणं तत्रानुवर्तते ।
किं पुनः कारणं झल्ग्रहणं तत्रानुवर्तते ?
इह मा भूत् --- न्रा. न्रे । उदात्तयणो हल्पूर्वात् (6-1-174) इत्येष स्वरोऽत्र बाधको भविष्यति ।।
इदं तर्हि --- नरि ।
नैकमुदाहरणं ह्रस्वग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् नाम् इत्येव ब्रूयात् । तत्र वचनात् भूतपूर्वगतिर्विज्ञास्यते --- ह्रस्वान्तं यद्भूतपूर्वमिति ।।
अथवा नैवं विज्ञायते --- नाम्स्वरे मतौ ह्रस्वग्रहणं कर्तव्यमिति ।
कथं तर्हि ?
नाम्स्वरे मतौ ह्रस्वादिति वर्तत इति ।।
-6-1-182- न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः (2619)
(एकदेशिनः सौ इति सप्तमीबहुवचननिर्णयभाष्यम्)
साविति किमिदं प्रथमैकवचनस्य ग्रहणम्, आहोस्वित्सप्तमीबहुवचनस्य ?
कुतः सन्देहः ?
समानो निर्देशः ।
पुरस्तादेष निर्णयः --- सप्तमीबहुवचनस्य ग्रहणमिति, इहापि तदेव भवितुमर्हति।।
(सप्तमीग्रहणे आक्षेपभाष्यम्)
यदि सप्तमीबहुवचनस्य ग्रहणम्, ताभ्यां ब्राह्मणाभ्याम् --- याभ्यां ब्राह्मणाभ्याम् --- अत्र न प्राप्नोति ।
विधिरप्यत्र न सिध्यति ।
किं कारणम् ?
न ह्येतद्भवति --- यत्सौ रूपम् ।
इदं तर्हि --- तेभ्यो ब्राह्मणेभ्यः, येभ्यो ब्राह्मणेभ्यः ।
विधिश्च सिद्धो भवति ।
प्रतिषेधस्तु न प्राप्नोति ।।
(प्रत्याक्षेपभाष्यम्)
अस्ति पुनः सप्तमीबहुवचनस्य ग्रहणे किंचिदिष्टं संगृहीतं भवति, आहोस्विद्दोषान्तमेव ।
अस्तीत्याह ।
इह --- याभ्यो ब्राह्मणीभ्यः ताभ्यो ब्राह्मणीभ्यः इति । विधिश्च सिद्धो भवति प्रतिषेधश्च ।
(साविति प्रथमैकवचनकग्रहणे दोषभाष्यम्)
अस्तु तर्हि प्रथमैकवचनस्य ग्रहणम् ।
यदि प्रथमैकवचनस्य ग्रहणम्, तेन इति स्वरः पुंसि न सिद्ध्यति ।
न चावश्यं पुंस्येव, स्त्रियां पुंसि नपुंसके च । तेन ब्राह्मणेन, तया ब्राह्मण्या, तेन कुण्डेन --- इति ।
सप्तमीबहुवचनस्यापि ग्रहणे एष दोषः ।।
(यत्तदोर्ग्रहणेन प्रथमैकवचनस्थापनभाष्यम्)
तस्मादुभाभ्यामपि प्रतिषेधे यत्तदोश्च ग्रहणं कर्तव्यम् --- इति । न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोश्च इति ।।
तेनेति यदुपन्यस्तं प्राप्तस्तत्र कथं स्वरः ।
एकारान्तं यदेकाच् सौ तस्मादत्र परो न टा ।।
न चाद्गुणे कृते प्राप्तिर्निषेधादुभयाश्रये ।
विधावन्तादिवत्त्वस्य चिन्त्यं तस्मादिदं बुधैः ।।
-6-1-185- तित्स्वरितम् (2622)
(स्वरिताधिकरणम्)
(6300 उपसंख्यानवार्तिकम् ।। 1 ।।)
- तिति प्रत्ययग्रहणम् -
तिति प्रत्ययग्रहणं कर्तव्यम् ।
इह मा भूत् --- ऋत इद्धातोः (7-1-100) किरति, गिरति ।।
(उपसंख्यानानर्थक्यबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्यम् ।
नैष तकारः ।
कस्तर्हि ?
दकारः ।।
(दकारकरणे दोषनिवारकभाष्यम्)
यदि दकार आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ।
भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति ।।
(भाव्यमानोऽप्युकार इति परिभाषासाधकभाष्यम्)
यदि भाव्यमानेन सवर्णानां ग्रहणं नेत्युच्यते अदसोसेर्दादुदोमः (8-2-80) अमूभ्यामित्यत्र न प्राप्नोति ।
एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति --- भवत्युकारेण भाव्यमानेन सवर्णानां ग्रहणम् --- इति, यदयं दिव उत् (6-1-131) इति उकारं तपरं करोति ।।
(उपसंख्यानोपष्टम्भकभाष्यम्)
एवमर्थमेव तर्हि प्रत्ययग्रहणं कर्तव्यम्, अत्र मा भूदिति ।।
(उपसंख्यानाक्षेपभाष्यम्)
नैष तकारः ।
कस्तर्हि ?
दकारः ।
यदि दकारः, न ज्ञापकं भवति ।
(समाधानभाष्यम्)
एवं तर्हि तपरस्तत्कालस्य (1-1-70) इति दकारोऽपि र्चत्वभूतो निर्दिश्यते ।
यद्येवं र्चत्वस्यासिद्धत्वात् हशि च (6-1-114) इत्युत्वं प्राप्नोति ।
सौत्रो निर्देशः ।
अथवा --- असंहितया निर्देशः करिष्यते --- अणुदित्सवर्णस्य चाप्रत्ययः त्तपरस्तत्कालस्य इति ।।
-6-1-186- तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (2623)
(अनुदात्ताधिकरणम्)
(अकारान्तं यदुपदेश इत्यर्थकरणपरभाष्यम्)
अदुपदेशादिति कथमिदं विज्ञायते --- अकारो य उपदेश इति, आहोस्विकारान्तं यदुपदेश इति ?
किं चातः ?
यदि विज्ञायते --- अकारो य उपदेश इति, हतः, हथः इत्यत्रापि प्राप्नोति ।
अथ विज्ञायते --- अकारान्तं यदुपदेश इति, न दोषो भवति ।
ननु चाकारान्तं यदुपदेश इत्यपि विज्ञायमानेऽत्रापि प्राप्नोति । एतदपि हि व्यपदेशिवद्भावेनाकारान्तं भवत्युपदेशे ।
अर्थवता व्यपदेशिवद्भावः ।।
(अकारान्तं यदुपदेश इत्यर्थस्वीकारे दोषनिवारकभाष्यम्)
यदि तर्हि अकारान्तं यदुपदेश इति विज्ञायते, मा हि धुक्षाताम् --- मा हि धुक्षाथाम् --- अत्रापि प्राप्नोति ।
अस्तु, अनुदात्तत्वे कृते लोपः, उदात्तनिवृत्तिस्वरेण सिद्धम् ।
न सिध्यति ।
इदमिह संप्रधार्यम् --- अनुदात्तत्वं क्रियताम्, लोप इति; किमत्र कर्तव्यम् ?
परत्वाल्लोपः ।
एवं तर्हि --- इदमद्य लसार्वधातुकानुदात्तत्वं प्रत्ययस्वरस्यापवादः । न चापवादविषय उत्सर्गोऽभिनिविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य वापवादविषयं तत उत्सर्गोऽभिनिविशते ।
तन्न तावदत्र कदाचित्प्रत्ययस्वरो भवति, अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते ।
तत्रानुदात्तत्वं क्रियताम्, लोप इति, किमत्र कर्तव्यम् ?
परत्वाल्लोपः ।
यद्यपि परत्वाल्लोपः सोऽसावविद्यमानोदात्तेऽनुदात्ते उदात्तो लुप्यते ।।
(6301 सप्तमीनिर्देशोपसंख्यानवार्तिकम् ।। 1 ।।)
- तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः -
तास्यादिभ्यश्चानुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः, लसार्वधातुके इति वक्तव्यम् ।
किं प्रयोजनम् ?
अभ्यस्तसिजर्थम् । अभ्यस्तानामादिरुदात्तो भवति लसार्वधातुके, सिजन्तस्यादिरुदात्तो भवति लसार्वधातुके ।
लसार्वधातुकम् इत्युच्यमाने तस्यैवाद्युदात्तत्वं स्यात् ।।
यदि सप्तमीनिर्देशः क्रियते, तास्यादीनामेवानुदात्तत्वं प्राप्नोति ।
नैष दोषः । तस्मादिभ्यः इत्येषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1-1-67) इति ।।
(6302 विप्रतिषेधबोधकवार्तिकम् ।। 2 ।।)
- चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेन -
चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं भवति विप्रतिषेधेन ।
चित्स्वरस्यावकाशः --- चलनः, चोपनः ।
तास्यादिभ्योऽनुदात्तत्वस्यावकाशः --- आस्ते, शेते ।
इहोभयं प्राप्नोति --- आसीनः, शयानः ।
तास्यादिभ्योऽनुदात्तत्वं भवति विप्रतिषेधेन ।
नैष युक्तो विप्रतिषेधः ।
किं कारणम् ?
द्विकार्ययोगो हि विप्रतिषेधः, न चात्रैको द्विकार्ययुक्तः । आदेरनुदात्तत्वम्, अन्तस्योदात्तत्वम् ।
नावश्यं द्विकार्ययोग एव विप्रतिषेधः ।
किं तर्हि ?
असंभवोऽपि ।
ननु चात्राप्यस्ति संभवो यदुभयं स्यात् --- आदेरनुदात्तत्वमन्तस्य चोदात्तत्वमिति, अस्ति च संभवो यदुभयं स्यात् ।
नैषोऽस्ति संभवः --- आदेरनुदात्तत्वमन्त्यस्य चोदात्तत्वमिति ।
कथम् ?
वक्ष्यत्येतत् --- स्वरविधौ सङ्घातः कार्यी भवति --- इति ।।
(6303 उपसंख्यानवार्तिकम् ।। 3 ।।)
- मुकश्चोपसंख्यानम् -
मुकश्चोपसंख्यानं कर्तव्यम् । पचमानः, यजमानः । मुका व्यवहितत्वाददुपदेशाल्लसार्वधातुकमनुदात्तं भवतीत्यनुदात्तत्वं न प्राप्नोति ।
ननु चायं मुगदुपदेशभक्तोऽदुपदेशग्रहणेन ग्राहिष्यते ।
न सिध्यति ।
अङ्गस्य मुगुच्यते, विकरणान्तं चाङ्गं सोऽसौ सङ्घातभक्तोऽशक्यो मुक् अदुपदेशग्रहणेन ग्रहीतुम् ।।
(अद्भक्तत्वेनोपसंख्यानानर्थक्यबोधकभाष्यम्)
अथायमतो भक्तः स्यात्, गृह्येतायमदुपदेशग्रहणेन ।
बाढं गृह्येत ।
अद्भक्तस्तर्हि भविष्यति ।
तत्कथम् ?
वक्ष्यत्येतस्य परिहारम् ।।
(6304 एकदेशिन उपसंख्यानवार्तिकम् ।। 4 ।।)
- इतश्चोपसंख्यानम् -
इतश्चोपसंख्यानं कर्तव्यम् । इदि्भश्च व्यवहितत्वादनुदात्तत्वं न प्राप्नोति । पचतः, पठतः ।।
(6305 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 5 ।।)
- इतश्चानेकान्तत्वात् -
अनेकान्ता अनुबन्धाः ।।
(अनेकान्तत्वे दोषभाष्यम्)
यद्यनेकान्ता अनुबन्धा अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधो वक्तव्यः । अत्तः, जुहुत इति । अदुपदेशात् इत्यनुदात्तत्वं प्राप्नोति ।।
(6306 दोषनिवारकवार्तिकम् ।। 6 ।।)
- तत्रादिप्रभृतिभ्यो जुहोत्यादिभ्योऽप्रतिषेधः स्थान्यादेशाभावात् -
तत्रादिप्रभृतिभ्यो जुहोत्यादिभ्योऽप्रतिषेधः । अनर्थकः प्रतिषेधः --- अप्रतिषेधः ।
अनुदात्तत्वं कस्मान्न भवति ?
स्थान्यादेशाभावात् । नैवात्र स्थानिनं नैवादेशं पश्यामः ।।
(6307 ज्ञापकेन दोषनिवारकवार्तिकम् ।। 7 ।।)
- अनुदात्तङिद्ग्रहणाद्वा -
अथवा यदयमनुदात्तङिद्ग्रहणं करोति तज्ज्ञापयत्याचार्यः --- न लुप्तविकरणेभ्योऽनुदात्तत्वं भवतीति ।
नैतदस्ति ज्ञापकम् ।
श्नमर्थमेतत्स्यात् --- विन्दाते, खिन्दाते ।।
यत्तर्हि ङिद्ग्रहणं करोति, न हि श्नम्विकरणो ङिदस्ति ।।
(प्रतिषेधोपसंख्यानभाष्यम्)
ङितोऽनुदात्तत्वे विकरणेभ्यः प्रतिषेधो वक्तव्यः । चिनुतः, सुनुतः, लुनीतः, पुनीतः । ङित इत्यनुदात्तत्वं प्राप्नोति ।।
(6308 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 8 ।।)
- ङितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः सर्वस्योपदेशविशेषणत्वात् -
ङितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः, अनर्थकः प्रतिषेधः --- अप्रतिषेधः।
अनुदात्तत्वं कस्मान्न भवति ?
सर्वस्योपदेशविशेषणत्वात् । सर्वमुपदेशग्रहणेन विशेषयिष्यामः ---
उपदेशेऽनुदात्तेतः,
उपदेशे ङितः,
उपदेशेऽकारान्तादिति ।।
-6-1-187- आदिः सिचोऽन्यतरस्याम् (2624)
(आद्युदात्ताधिकरणम्)
(6309 उपसंख्यानवार्तिकम् ।। 1 ।।)
- सिच आद्युदात्तत्वेऽनिटः पित उपसंख्यानम् -
सिच आद्युदात्तत्वेऽनिटः पित उपसंख्यानं कर्तव्यम् । मा हि कार्षम् ।
अनिट इति किमर्थम् ?
मा हि लाविषम् ।।
-6-1-188- स्वपादिहिंसामच्यनिटि (2625)
(6310 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- स्वपादीनां वाववचनादभ्यस्तस्वरो विप्रतिषेधेन -
स्वपादीनां वावचनादभ्यस्तस्वरो भवति विप्रतिषेधेन ।
स्वपादीनां वावचनस्यावकाशः --- स्वपन्ति, श्वसन्ति ।
अभ्यस्तस्वरस्यावकाशः --- ददति, दधति ।
इहोभयं प्राप्नोति --- जाग्रति ।
अभ्यस्तस्वरो भवति विप्रतिषेधेन ।।
-6-1-190- अनुदात्ते च (2627)
(6311 अनुदात्ते इत्यत्र बहुव्रीहिबोधकवार्तिकम् ।। 1 ।।)
- अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः -
अनुदात्ते चेति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानोदात्ते --- अनुदात्त इति वक्तव्यम् ।
किं प्रयोजनम् ?
लोपयणादेशार्थम् । लोपयणादेशयोः कृतयोराद्युदात्तत्वं यथा स्यात् । मा हि स्म दधात्, दधात्यत्र ।।
-6-1-191- सर्वस्य सुपि (2628)
(6312 उपसंख्यानवार्तिकम् ।। 1 ।।)
- सर्वस्वरोऽनकच्कस्य -
सर्वस्वरोऽनकच्कस्येति वक्तव्यम् । इह मा भूत् --- सर्वके ।।
-6-1-192- भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति (2629)
(भ्यादिप्रयोजनभाष्यम्)
भ्यादिग्रहणं किमर्थम् ?
इह मा भूत् --- ददाति, दधाति ।
(एकदेश्याक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् । अभ्यस्तस्वरोऽत्र बाधको भविष्यति ।।
(सिद्धान्तभाष्यम्)
अन्तत उभयं स्यात् ।
अनवकाशाः खल्वपि विधयो बाधका भवन्ति, सावकाशश्चाभ्यस्तस्वरः ।
कोऽवकाशः ?
मिमीते ।।
(प्रत्ययात्पदप्रयोजनभाष्यम्)
अथ प्रत्ययग्रहणं किमर्थम् ?
प्रत्ययात्पूर्वस्योदात्तत्वं यथा स्यात्, आटः पूर्वस्य मा भूदिति । बिभयानि ।
न चैवास्ति विशेषः --- प्रत्ययाद्वा पूर्वस्योदात्तत्वे सति, आटो वा । अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।
इदं तर्हि प्रयोजनम् --- प्रत्ययात्पूर्वस्योदात्तत्वं यथा स्यात्, आट एव मा भूदिति ।
एतदपि नास्ति प्रयोजनम् ।
पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।
एवं तर्हि सिद्धे सति यत्प्रत्ययग्रहणं करोति तज्ज्ञापयत्याचार्यः --- स्वरविधौ सङ्घातः कार्यी भवतीति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेन इति यदुक्तं तदुपपन्नं भवति ।।
(पूर्वग्रहणप्रयोजनभाष्यम्)
अथ पूर्वग्रहणं किमर्थम् ?
न तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66) इति पूर्वस्यैव भविष्यति ।
एवं तर्हि सिद्धे सति यत्पूर्वग्रहणं करोति तज्ज्ञापयत्याचार्यः --- स्वरविधौ सप्तम्यस्तदन्तसप्तम्यो भवन्ति --- इति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
उपोत्तमं रिति (6-1-217) रिदन्तस्य । चङ्यन्यतरस्याम् (218) चङन्तस्य ।।
यद्येतज्ज्ञाप्यते, चतुरः शसि (167) इति शसन्तस्यापि प्राप्नोति ।
शस्ग्रहणसार्मथ्यान्न भविष्यति । इतरथा हि तत्रैवायं ब्रूयात् --- ःढ़द्य;डिदं पदाद्यप्पुम्रैद्युभ्यः ---
चतुर्भ्यश्च --- इति ।।
(पिद्ग्रहणप्रयोजनभाष्यम्)
अथ पिद्ग्रहणं किमर्थम् ?
इह मा भूत् --- जाग्रति ।
नैतदस्ति प्रयोजनम्, भवत्येवात्र पूर्वेण ।
इदं तर्हि प्रयोजनम् --- दरिद्रति ।
आकारेण व्यवहितत्वान्न भविष्यति ।
लोपे कृते नास्ति व्यवधानम् ।
स्थानिवद्भावाद्व्यवधानमेव ।
प्रतिषिध्यतेऽत्र स्थानिवद्भावः --- स्वरविधिं प्रति न स्थानिवद्भवति इति ।।
-6-1-195- अचः कर्तृयकि (2632)
(6313 उपसंख्यानवार्तिकम् ।। 1 ।।)
- यकि रपर उपसंख्यानम् -
यकि रपर उपसंख्यानं कर्तव्यम् । स्तीर्यते स्वयमेव ।।
(6314 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- उपदेशवचनात्सिद्धम् -
उपदेश इति वक्तव्यम् ।।
(6315 आनर्थक्यप्रकारे आक्षेपवार्तिकम् ।। 3 ।।)
- उपदेशवचने जनादीनाम् -
उपदेशवचने जनादीनां स्वरो न सिध्यति । जायते स्वयमेव । जायते स्वयमेव ।।
(6316 समाधानवार्तिकम् ।। 4 ।।)
- योगविभागात्सिद्धम् -
योगविभागः करिष्यते --- अजन्तानां कर्तृयकि, वाऽऽदिरुदात्तो भवति । चीयते स्वयमेव --- चीयते स्वयमेव । जायते स्वयमेव --- जायते स्वयमेव ।
ततः उपदेशे, उपदेशे चाजन्तानां कर्तृयकि वा आदिरुदात्तो भवति । स्तीर्यते स्वयमेव --- स्तीर्यते स्वयमेव ।।
(उपदेशपदानुवर्तनबोधकभाष्यम्)
तत्तर्ह्युपदेशग्रहणं कर्तव्यम्, न ह्यन्तरेणोपदेशग्रहणं योगाङ्गं जायते ।
न कर्तव्यम्, प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6-1-186) इति ।
ननु चोक्तम् --- उपदेशे जनादीनां स्वरो न सिद्ध्यतीति ।
नैष दोषः । नैवं विज्ञायते --- उपदेशवचने जनादीनां स्वरो न सिध्यतीति ।
कथं तर्हि ?
जनादीनामप्यात्वे उपदेशवचनं कर्तव्यमिति ।
तत्तर्हि तत्रोपदेशग्रहणं कर्तव्यम् ।
न कर्तव्यम्, प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (6-4-37) इति ।।
-6-1-196- थलि च सेटीडन्तो वा (2633)
(सेड्ग्रहणप्रयोजनभाष्यम्)
सेड्ग्रहणं किमर्थम्, न थलीडन्तो वेत्युच्येत ?
इडन्तो वा इत्युच्यमान इहापि प्रसज्येत --- पपक्थ ।
नैतदस्ति प्रयोजनम्, अच इति वर्तते ।
इदं तर्हि प्रयोजनम् --- ययाथेति ।।
-6-1-204- संज्ञायामुपमानम् (2641)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न ञ्ञ्नित्यादिर्नित्यम् (6-1-197) इत्येव सिद्धम् ?
ञ्ञ्नितीत्युच्यते, न चात्र ञ्ञ्नितं पश्यामः ।
प्रत्ययलक्षणेन ।
न लुमता तस्मिन्निति प्रत्ययलक्षणप्रतिषेधः ।
अङ्गाधिकारोक्तस्य स प्रतिषेधः न लुमताङ्गस्य (1-1-63) इति ।
अत उत्तरं पठति ---
(6317 सूत्रप्रयोजनबोधकवार्तिकम् ।। 1 ।।)
- उपमानस्याद्युदात्तवचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य -
उपमानस्याद्युदात्तवचनं ज्ञापकार्थं क्रियते ।
किं ज्ञाप्यम् ?
एतज्ज्ञापयत्याचार्यः --- अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणं न भवतीति ।
किमेतस्य ज्ञापने प्रयोजनम् ?
गर्गाः, वत्साः, विदाः, उर्वाः । उष्ट्रग्रीवा वामरज्जुः । ञ्ञ्नितीत्याद्युदात्तत्वं न भवति ।
इह च --- अत्रय इति तद्धितस्य कितः (6-1-164;165) इत्यन्तोदात्तत्वं न भवति ।।
(ज्ञाप्याक्षेपभाष्यम्)
यद्यनुबन्धलक्षण इत्युच्यते, पथिप्रियः --- मथिप्रिय इति, पथिमथोः सर्वनामस्थाने (199) इत्याद्युदात्तत्वं प्राप्नोति ।।
(समाधानभाष्यम्)
एवं तर्ह्याचार्यो ज्ञापयति --- स्वरे प्रत्ययलक्षणं न भवतीति ।।
(ज्ञाप्याक्षेपभाष्यम्)
एवमपि सर्पिरागच्छ --- सप्तागच्छतेति आमन्त्रितस्य च (198) इत्याद्युदात्तत्वं न प्राप्नोति ।
इह च --- मा हि दाताम्, मा हि धाताम् आदिः सिचोऽन्यतरस्याम् (187) इत्येष स्वरो न प्राप्नोति ।।
(समाधानभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः --- सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ।।
(ज्ञाप्याक्षेपभाष्यम्)
एवमपि सर्वस्तोमः --- सर्वपृष्ठः सर्वस्य सुपि (191) इत्याद्युदात्तत्वं न प्राप्नोति ।।
(समाधानभाष्यम्)
एवं तर्हि अनुबन्धलक्षणे इत्येव । कथं पथिप्रियः, मथिप्रियः ?
वक्तव्यमेवैतत् --- पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणं न भवतीति ।।
-6-1-205- निष्ठा च द्व्यजनात् (2642)
(6318 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः -
निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधो वक्तव्यः । दत्ताभ्याम्, गुप्ताभ्याम् ।।
(6319 उपसंख्यानानुपयोगवार्तिकम् ।। 2 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गोऽत्र दीर्घः, अन्तरङ्गः स्वरः, असिद्धं बहिरङ्गमन्तरङ्गे ।।
(आक्षेपसमाधानानावश्यकत्वबोधकभाष्यम्)
अन्तरेण प्रतिषेधमन्तरेण चैतां परिभाषां सिद्धम् ।
कथम् ?
नैवं विज्ञायते --- न चेदकारान्ता निष्ठेति ।
कथं तर्हि ?
न चेदाकारात्परा निष्ठेति ।।
यद्येवं निर्देशश्चैव नोपपद्यते, न ह्येषा आकारात्परा पञ्चमी युक्ता । इह च प्राप्नोति --- आप्तः, राद्ध इति ।।
एवं तर्हि --- न चेदवर्णात्परा निष्ठेति ।
भवेन्निर्देश उपपन्नः, इह तु प्राप्नोति --- आप्तः, राद्ध इति, इह च न प्राप्नोति --- यतः, रत इति ।।
एवं तर्हि विहितविशेषणमकारान्तग्रहणम् --- न चेदकारान्ताद्विहिता निष्ठेति ।
एवमपि --- दत्तः --- अत्र न प्राप्नोति, इह च प्राप्नोति --- आप्तः, राद्ध इति ।।
एवं तर्हि कार्यिविशेषणमाकारग्रहणम् --- न चेदाकारः कार्यी भवति ।
एवमपि --- अद्याष्टः, कदाष्टः --- अत्र न प्राप्नोति ।
तस्मात्सुष्ठूच्यते --- निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः न वा बहिरङ्गलक्षणत्वात् इति ।।
-6-1-207- आशितः कर्ता (2644)
(जिज्ञासाभाष्यम्)
किं निपात्यते ?
(6320 निपातनबोधकवार्तिकम् ।। 1 ।।)
- आशिते कर्तरि निपातनमुपधादीर्घत्वमाद्युदात्तत्वं च -
आशित इति कर्तरि निपात्यते । आशितवान् --- आशितः । उपधादीर्घत्वमाद्युदात्तत्वं च निपात्यते ।।
(वार्तिकैकदेशप्रत्याख्यानभाष्यम्)
आद्युदात्तत्वमनिपात्यम्, अधिकारात् सिद्धम् ।
उपधादीर्घत्वमनिपात्यम्, आङ्पूर्वस्य प्रयोगः ।
यद्येवमवग्रहः प्राप्नोति ।
न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्यम् ।
यथालक्षणं पदं कर्तव्यम् ।।
-6-1-208- रिक्ते विभाषा (2645)
विभाषा वेण्विन्धानयोः
(विभाषानिर्धारकभाष्यम्)
किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ?
कथं च प्राप्ते, कथं चाप्राप्ते ?
यदि संज्ञायामुपमानम् निष्ठा च द्व्यजनात् (6-1-204;205) इति वा नित्ये प्राप्ते आरम्भस्ततः प्राप्ते, अन्यथा त्वप्राप्ते ।।
वेणुरिक्तयोरप्राप्ते विभाषा, प्राप्ते नित्यो विधिः । वेणुरिव वेणुः । रिक्तो नाम कश्चित् ।।
-6-1-215- विभाषा वेण्विन्धानयोः (2652)
  (विभाषानिर्धाकरकभाष्यम्)
किमियं प्राप्ते विभाषा,आहोस्विदप्राप्ते? कथं च प्राप्ते, कथं चाप्राप्ते?
यदि संज्ञायामुपमानम् निष्ठा च द्व्यजनात् (6-1-204,205) इति वा नित्ये प्राप्ते आरम्भस्ततः प्राप्ते, अन्यथा त्वप्राप्ते। वेणुरिक्तयोरप्राप्ते विभाषा, प्राप्ते नित्यो विधिः। वेणुरिव वेणुः। रिक्तो नाम कश्चित्।।
-6-1-217- उपोत्तमं रिति (2654)
(पदकृत्यभाष्यम्)
उपोत्तमग्रहणं किमर्थम्, न रिति पूर्वम् इत्येवोच्यते ?
तत्रायमप्यर्थः --- मतोः पूर्वमात्संज्ञायां स्त्रियाम् (219) इत्यत्र पूर्वग्रहणं न कर्तव्यं भवति ।।
एवं तर्हि --- उपोत्तमग्रहणमुत्तरार्थम् । चङ्यन्यतरस्याम् (218) उपोत्तममित्येव ।
इह मा भूत् --- मा हि स्म दधत् ।।
-6-1-220- अन्तोऽवत्याः (2657)
-6-1-221- इर्वत्याः (2658)
 (सूत्रद्वयप्रयोजनभाष्यम्)
किमर्थमिदमुभयमुच्यते, न वत्याः इत्येवोच्येत ?
वत्याः इतीयत्युच्यमाने राजवती --- अत्रापि प्रसज्येत ।
अथ अवत्याः इत्युच्यमाने कस्मादेवात्र न भवति ?
असिद्धो नलोपः, तस्यासिद्धत्वान्नैषोऽवतीशब्दः ।
कस्तर्हि ?
अन्वतीशब्दः ।
यथैव तर्हि नलोपस्यासिद्धत्वान्नावतीशब्दः, एवं वत्त्वस्यासिद्धत्वान्नावतीशब्दः ।
आश्रयात्सिद्धत्वं स्यात् ।।
-6-1-222- चौ (2659)
(6321 उपसंख्यानवार्तिकम् ।। 1 ।।)
- चोरतद्धिते -
चुस्वरः अतद्धिते इति वक्तव्यम् ।
इह मा भूत् --- दाधीचः, माधूच इति ।।
(वार्तिकाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम् ।
प्रत्ययस्वरोऽत्र बाधको भविष्यति ।।
(समाधानभाष्यम्)
स्थानान्तरप्राप्तश्चुस्वरः । प्रत्ययस्वरस्यापवादः अनुदात्तौ सुप्तितौ (3-1-4) इति । अनुदात्तौ सुप्तितावेतस्योदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः ।
स यथैवोदात्तनिवृत्तिस्वरं बाधते, एवं प्रत्ययस्वरमपि बाधेत ।।
(समाधानाक्षेपभाष्यम्)
नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति ।
किं कारणम् ?
न गोश्वन्साववर्ण --- (6-1-182) इति प्रतिषेधात् ।।
(प्रत्याक्षेपभाष्यम्)
नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।
कस्य तर्हि ?
तृतीयादिस्वरस्य ।।
(प्रत्याक्षेपसमाधानभाष्यम्)
यत्र तर्हि तृतीयादिस्वरो नास्ति --- दधीचः पश्येति ।।
(सिद्धान्तभाष्यम्)
एवं तर्हि न तृतीयादिलक्षणस्य प्रतिषेधं शिष्मः ।
किं तर्हि ?
येन केन चिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् ।
यदि विभक्तिस्वरस्य प्रतिषेधः, वृक्षवान् --- प्लक्षवान् --- अत्र न प्राप्नोति ।
मतुब्ग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
ह्रस्वनुड्भ्यां मतुप् (176) इति ।
यदि तदनुवर्तते, वेतस्वान् --- अत्रापि प्राप्नोति ।
मतुब्ग्रहणमनुवर्तते, ड्मतुश्चैषः ।
यदि तर्हि मतुपो ग्रहणे ड्मतुपो ग्रहणं न भवति, वेतस्वानिति वत्वं न प्राप्नोति ।
सामान्यग्रहणं वत्वे, इह पुनर्विशिष्टस्य ग्रहणम् ।
यत्र तर्हि विभक्तिर्नास्ति --- दधीची --- इति ।
यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत ।
नैवं शक्यम् ।
इहापि प्रसज्येत --- कुमारीति ।।
सति शिष्टः खल्वपि चुस्वरः ।
कथम् ?
चौ इत्युच्यते । यत्रास्यैतद्रूपम् ।
क्व चास्यैतद्रूपम् ?
यजादावसर्वनामस्थानेऽभिनिर्वृत्ते नकारलोपेऽकारलोपे च ।
तस्मात्सुष्ठूच्यते --- चोरतद्धित इति ।।
-6-1-223- समासस्य (2660)
(6322 उपसंख्यानवार्तिकम् ।। 1 ।।)
- समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानम् -
समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । राजदृषत्, ब्राह्मणसमित् ।।
(6323 परिभाषोपस्थापकवार्तिकम् ।। 1 ।।)
- हल्स्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् -
अथवा हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् भवतीत्येषा परिभाषा कर्तव्या ।।
(उभयकरणाक्षेपभाष्यम्)
किमर्थमिदमुभयमुच्यते, न हल्स्वरप्राप्तावविद्यमानवदित्येवोच्येत, स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति --- इति वा ।
द्विर्बद्धं सुबद्धं भवति ।।
(परिभाषास्वरूपाक्षेपभाष्यम्)
यदि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते, दधि --- उदात्तादनुदात्तस्य स्वरितः (8-4-66)
इति स्वरितत्वं न प्राप्नोति ।
उदात्ताच्च स्वरितविधौ व्यञ्जनमविद्यमानवद्भवतीत्येषा परिभाषा कर्तव्या ।।
(परिभाषाप्रयोजनजिज्ञासाभाष्यम्)
कान्येतस्याः परिभाषायाः प्रयोजनानि ?
(6324 प्रयोजनवार्तिकम् ।। 1 ।।)
- प्रयोजनं लिदाद्युदात्तान्तोदात्तविधयः -
लित्यति प्रयात्पूर्वमुदात्तं भवति --- इति, इहैव स्यात् --- भौरिकिविधम्, भौलिकिविधम् । चिकीर्षकः, जिहीर्षक इत्यत्र न स्यात् ।।
ञ्ञ्नित्यादिरुदात्तो भवति --- इति, इहैव स्यात् --- अहिचुम्बकायनिः, आग्निवेश्यः, गार्ग्यः । कृतिः --- इत्यत्र न स्यात् ।।
धातोरन्त उदात्तो भवति --- इति, इहैव स्यात् --- ःढ़द्य;र्णौति । पचति --- इत्यत्र न स्यात् ।।
(परिभाषास्वरूपाक्षेपभाष्यम्)
इदं तावदयुक्तम् --- यदुच्यते --- हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवतीति ।
कथं हि हलो नाम स्वरप्राप्तिः स्यात् ?
तच्चापि ब्रुवता उदात्ताच्च स्वरितविधौ इति वक्तव्यम् ।
तथाऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति ।।
(एकदेशिनः परिभाषास्वरूपोपस्थापकभाष्यम्)
यदि पुनः स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यते ।
अथ स्वरविधौ व्यञ्जनमविद्यमानवद्भवतीत्युच्यमानेऽनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्किं सिद्धं भवति व्यञ्जनादेर्व्यञ्जनान्ताच्च ?
बाढं सिद्धम् ।
कथम् ?
स्वरविधिरिति सर्वविभक्त्यन्तः समासः । स्वरेण विधिः --- स्वरविधिः, स्वरस्य विधिः --- स्वरतो विधिः --- स्वरविधिरिति ।
नैवं शक्यम् ।
इह हि दोषः स्यात् --- उदश्वित्वान् घोषः, विद्युत्वान् बलाहक इति, ह्रस्वनुड्भ्यां मतुप् (6-1-176) इत्येष स्वरः प्रसज्येत ।।
(परिभाषास्वरूपस्थापकभाष्यम्)
अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति --- इति ।
ननु चोक्तम् --- कथं हि हलो नाम स्वरप्राप्तिः स्यात् --- इति ।
उच्चैरुदात्तः (1-2-29) नीचैरनुदात्तः (30) इत्यत्र षष्ठीनिर्दिष्टमज्ग्रहणं निवृत्तम्, तस्मिन्निवृत्ते हलोऽपि स्वरप्राप्तिर्भवति ।।
यदप्युच्यते --- उदात्ताच्च स्वरितविधाविति वक्तव्यमिति ।
न वक्तव्यम् ।
नेदं पारिभाषिकस्यानुदात्तस्य ग्रहणम् ।
किं तर्हि ?
अन्वर्थग्रहणम् । अविद्यमानोदात्तमनुदात्तं भवति । उदात्तादनुदात्तस्य स्वरित इति ।।
यदप्युच्यते --- अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोति --- इति ।
आचार्यप्रवृत्तिर्ज्ञापयति --- तत्र सिद्धं तद्भवति व्यञ्जनादेर्व्यञ्जनान्ताच्चेति, यदयं नोत्तरपदेऽनुदात्तादावित्युक्त्वा अपृथिवीरुद्रपूषमन्थिषु इति प्रतिषेधं शास्ति ।।
(परिभाषाज्ञापकोपपादकभाष्यम्)
सा तर्ह्येषा परिभाषा कर्तव्या ।
न कर्तव्या ।
आचार्यप्रवृत्तिर्ज्ञापयति --- भवत्येषा परिभाषेति, यदयं यतोऽनावः (6-1-213) इति नावः प्रतिषेधं शास्ति ।।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ।।
पादश्च समाप्तः ।।
-6-1-158- अनुदात्तं पदमेकवर्जम् (2595)
(सूत्रार्थनिर्णायकभाष्यम्)
किमनुदात्तानि पदानि भवन्ति एकं पदं वर्जयित्वा ?
नेत्याह ।
पदे येषामुदात्तप्रसङ्गस्तेऽनुदात्ता भवन्ति एकमचं वर्जयित्वा ।।
(न्यासे न्यूनत्वाक्षेपभाष्यम्)
स तर्हि तथा निर्देशः कर्तव्यः --- अनुदात्ताः पदे, अनुदात्ताः पदस्येति वा ।।
(समाधानभाष्यम्)
न कर्तव्यः ।
अनुदात्तं पदमेकवर्जम् इत्येव सिद्धम् ।
कथम् ?
मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा --- पुष्पका एषां ते पुष्पकाः, कालका एषां ते कालका इति ।
अथवा --- अकारो मत्वर्थीयः । तद्यथा --- तुन्दः, घाट इति ।।
(सूत्राक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते ?
(सूत्रप्रयोजने श्लोकभाष्यम्)
आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च ।
पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः ।।
आगमस्य --- चतुरनडुहोरामुदात्तः (7-1-98) । चत्वारः, अनड्वाहः ।
विकारस्य --- अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7-1-75) । अस्थ्ना, दध्ना ।
प्रकृतेः --- गोपायति, धूपायति ।
प्रत्ययस्य च --- -कर्तव्यम्, तैत्तिरीयः ।
एतेषां पदे युगपत्स्वरः प्राप्नोति । इष्यते चैक एव स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यनुदात्तं पदमेकवर्जम् । एवमर्थमिदमुच्यते ।।
(सूत्राक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् ।
(सूत्रप्रयोजनसाधकज्ञापकश्लोकभाष्यम्)
यौगपद्यं तवै सिद्धम्
यदयं तवै चान्तश्च युगपत् (6-2-51) इति सिद्धे यौगपद्ये यौगपद्यं शास्ति तज्ज्ञापयत्याचार्यः --- न युगपत्स्वरो भवतीति ।।
(प्रत्याक्षेपभाष्यम्)
पर्यायस्तर्हि प्राप्नोति ।
(प्रत्याक्षेपसमाधानश्लोकभाष्यम्)
पर्यायो रिक्तशासनात् ।
यदयं रिक्ते विभाषा (6-1-208) इति सिद्धे पर्याये पर्यायं शास्ति तज्ज्ञापयत्याचार्यः --- न पर्यायो भवतीति ।।
(प्रयोजनाक्षेपश्लोकभाष्यम्)
उदात्ते ज्ञापकं त्वेतत्
एतदुदात्ते ज्ञापकं स्यात् ।।
(प्रयोजनसाधकश्लोकभाष्यम्)
स्वरितेन समाविशेत् ।।
स्वरितेन समावेशः प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति । तस्मान्नार्थोऽनेन योगेन ।।
(वार्तिकावतरणभाष्यम्)
आरभ्यमाणेऽप्येतस्मिन्योगे ---
(6257 सूत्रस्यानुदात्तत्वविधायकत्वे दोषवार्तिकम् ।। 1 ।।)
- अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् -
अनुदात्ते विप्रतिषेधो नोपपद्यते । पठिष्यति ह्याचार्यो विप्रतिषेधम् --- जे दीर्घाद्वह्वचः इति, स विप्रतिषेधो नोपपद्यते ।
किं कारणम् ?
एकस्मिन् युगपत्संभवात् । असति खलु सम्भवे विप्रतिषेधो भवति, अस्ति च सम्भवो यदुभयं स्यात् ।
कथं सम्भवः ?
यदाऽनुदात्तं पदमेकवर्जमित्युच्यते। तदिह नास्ति। किं कारणम्?
नानेनोदात्तत्वं प्रतिषिध्यते ।
किं तर्हि ?
अनुदात्तत्वमनेन क्रियते, अस्ति च सम्भवो यदुभयोश्चोदात्तत्वं स्यात्, अन्येषां चानुदात्तत्वम् ।।
(अस्याधिकारत्वमाश्रित्य दोषनिवारकभाष्यम्)
यदि पुनरयमधिकारो विज्ञायते ।
किं कृतं भवति ?
अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते ।
जे दीर्घान्तस्यादिरुदात्तो भवति, उपस्थितमिदं भवति --- अनुदात्तं पदमेकवर्जमिति ।
अन्त्यात्पूर्वं बह्वचः (6-2-83), उपस्थितमिदं भवति --- अनुदात्तं पदमेकवर्जमिति ।
तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति परेण भविष्यति, परत्वात् ।।
(अधिकारत्वे दोषभाष्यम्)
नैवं शक्यम् । एवमपि षाष्ठिक एव स्वरः संगृहीतः स्यात्, येऽन्ये सप्ताध्याय्यां स्वरास्ते न संगृहीताः स्युः --- समानोदरे शयित ओ चोदात्तः (4-4-108) अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7-1-75) इति ।।
(6258 न्यासान्तरेण दोषनिवारकवार्तिकम् ।। 2 ।।)
- सिद्धं त्वेकाननुदात्तत्वात् -
सिद्धमेतत् ।
कथम् ?
एकाननुदात्तत्वात् ।
एकाननुदात्तं पदं भवतीति वक्तव्यम् ।
किमिदमेकाननुदात्तत्वादिति ?
न उदात्तः --- अनुदात्तः, न अनुदात्तः --- अननुदात्तः । एकः --- अननुदात्तोऽस्मिंस्तदिदमेकाननुदात्तम्
। एकाननुदात्तत्वादिति ।
सिद्ध्यति । सूत्रं तर्हि भिद्यते ।।
(परिभाषात्वस्वीकारेण न्यासान्तरनिवारकभाष्यम्)
यथान्यासमेवास्तु ।
ननु चोक्तम् --- अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् इति ।
नैष दोषः ।
परिभाषेयम् ।
किं कृतं भवति ?
कार्यकालं संज्ञापरिभाषम् । यत्र कार्यं तत्रोपस्थितमिदं द्रष्टव्यम् ।
जे दीर्घान्तस्यादिरुदात्तो भवतीत्युपस्थितमिदं भवति --- अनुदात्तं पदमेकवर्जम् इति ।
अन्त्यात्पूर्वं बह्वचः इत्युपस्थितमिदं भवति --- अनुदात्तं पदमेकवर्जम् इति ।
तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति --- परेण भविष्यति, परत्वात् ।।
अथवा नेदं पारिभाषिकानुदात्तस्य ग्रहणम् ।
किं तर्हि ?
अन्वर्थग्रहणम् । अविद्यमानोदात्तम् --- अनुदात्तमिति ।।
(6259 आक्षेपवार्तिकम् ।। 3 ।।)
- एकवर्जमिति चाप्रसिद्धिः सन्देहात् -
एकवर्जमिति चाप्रसिद्धिः ।
कुतः ?
सन्देहात् । न ज्ञायते क एको वर्जयितव्य इति ।।
(6260 समाधानवार्तिकम् ।। 4 ।।)
- सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानर्थक्यं तद्वर्जम् -
सिद्धमेतत् ।
कथम् ?
यस्मिन्ननुदात्ते उदात्तवचनमनर्थकं स्यात्स एको वर्जयितव्यः ।।
(6261 समाधानाक्षेपवार्तिकम् ।। 5 ।।)
- प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः -
प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः स्यात् ।
प्रकृतिस्वरस्यावकाशः --- यत्रानुदात्तः प्रत्ययः । पचति, पठति ।
प्रत्ययस्वरस्यावकाशः --- यत्रानुदात्ता प्रकृतिः । समत्वम्, सिमत्वम् ।
इहोभयं प्राप्नोति --- कर्तव्यम्, तैत्तिरीयः ।।
(समाधानभाष्यम्)
विप्रतिषेधात्प्रत्ययस्वरः । विप्रतिषेधात्प्रत्ययस्वरो भविष्यति ।
नैवम् । विप्रतिषेधे परमित्युच्यते । न परः प्रत्ययस्वरः ।
नैष दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ।।
(6262 भाष्योक्तसमाधानाक्षेपवार्तिकम् ।। 6 ।।)
- विप्रतिषेधात्प्रत्ययस्वर इति चेत्काम्यायादिषु चित्करणम् -
विप्रतिषेधात् प्रत्ययस्वर इति चेत्काम्यायादयश्चितः कर्तव्याः । पुत्रकाम्यति, गोपायति, ऋतीयते ।
नैष दोषः ।
प्रकृतिस्वरोऽत्र बाधको भविष्यति ।।
(आक्षेपभाष्यम्)
प्रकृतिस्वरे प्रत्ययस्वराभावः । कर्तव्यम् । तैत्तिरीयम् ।।
(6263 समाधानवार्तिकम् ।। 7 ।।)
- सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्ययस्वरभावः -
सिद्धमेतत् ।
कथम् ?
प्रकृतिस्वराद्बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः ।
कथम् ?
प्रकृतिस्वरात् प्रत्ययस्वरो बलीयान् भवतीति वक्तव्यम् ।।
(6264 उपसंख्यानवार्तिकम् ।। 8 ।।)
- सति शिष्टस्वरबलीयस्त्वं च -
सति शिष्टस्वरो बलीयान् भवतीति वक्तव्यम् ।।
(6265 उपसंख्यानप्रयोजनवार्तिकम् ।। 9 ।।)
- तच्चानेकप्रत्ययसमासार्थम् -
तच्चावश्यं सति शिष्टस्वरबलीयस्त्वं वक्तव्यम् ।
किं प्रयोजनम् ?
अनेकप्रत्ययार्थमनेकसमासार्थं च ।
अनेकप्रत्ययार्थं तावत् --- औपगवः, प्रकृतिस्वरमण्स्वरो बाधते । औपगवत्वम्, त्वस्वरोऽण्स्वरं बाधते । औपगवत्वकम्, त्वस्वरं कस्वरो बाधते ।
अनेकसमासार्थम् --- राजपुरुषः, राजपुरुषपुत्रः, राजपुरुषपुत्रपुरुषः ।।
(सति शिष्टबलीयस्त्वाक्षेपभाष्यम्)
यदि सति शिष्टस्वरबलीयस्त्वमुच्यते, स्यादिस्वरः सार्वधातुकस्वरं बाधेत । सुनुतः, धिनुतः, चिनुतः ।।
(6266 समाधानवार्तिकम् ।। 10 ।।)
- स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्तवचनात् -
स्यादिस्वरस्य चाप्रसङ्गः ।
कुतः ?
तासेः परस्यानुदात्तवचनात् । यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इति ।।
(6267 प्रकारान्तरेण समाधानवार्तिकम् ।। 11 ।।)
- शास्त्रपरविप्रतिषेधानियमाद्वा शब्दपरविप्रतिषेधात्सिद्धम् -
अथवा शास्त्रपरविप्रतिषेधे न सर्वमिष्टं संगृहीतं भवतीति कृत्वा शब्दपरविप्रतिषेधो विज्ञास्यते ।
यदि शब्दपरविप्रतिषेधो भवति, काम्यादयश्चितः कर्तव्याः । पुत्र काम्यति । गोपायति । ऋतीयते ।
नैष दोषः ।
शब्दपरविप्रतिषेधो नाम स भवति यत्रोभयोर्युगपत्प्रसङ्गः, न च काम्यादिषु युगपत्प्रसङ्गः ।।
(6268 बलीयस्त्वबोधकवार्तिकम् ।। 12 ।।)
- विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् -
विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् भवतीति वक्तव्यम् ।
विभक्तिस्वरस्यावकाशः --- तिस्रस्तिष्ठन्ति ।
नञ्ञ्स्वरस्यावकाशः --- अब्राह्मणः, अवृषलः ।
इहोभयं प्राप्नोति --- अतिस्रः ।
नञ्ञ्स्वरो भवति ।।
(6269 बलीयस्त्वबोधकवार्तिकम् ।। 13 ।।)
- विभक्तिनिमित्तस्वराच्च -
विभक्तिनिमित्तस्वराच्च नञ्ञ्स्वरो बलीयानिति वक्तव्यम् ।
विभक्तिनिमित्तस्वरस्यावकाशः --- चत्वारः, अनड्वाहः ।
नञ्ञ्स्वरस्य स एव ।
इहोभयं प्राप्नोति --- अचत्वारः, अननड्वाहः ।।
(6270 बलीयस्त्वबोधकवार्तिकम् ।। 14 ।।)
- यच्चोपपदं कृति नञ् -
यच्चोपपदं कृति नञ्ञ्तस्य च स्वरो बलीयानिति वक्तव्यम् । अकरणिर्ह ते वृषल ।।
(6271 बलीयस्त्वबोधकवार्तिकम् ।। 15 ।।)
- सहनिर्दिष्टस्य च -
सहनिर्दिष्टस्य च नञ्ञः स्वरो बलीयानिति वक्तव्यम् । अव्यथी ।।
-9-9-999-