महाभाष्यम्/सप्तमोऽध्यायः/चतुर्थः पादः
-7-4-1- णौ चङ्युपधाया ह्रस्वः
अथ णिग्रहणं किमर्थं न चङ्युपधायाः ह्रस्व इत्येवोच्येत ? ।। चङ्युपधाया ह्रस्व इतीयत्युच्यमाने--अलीलवत् अपीपवत्--ऊकारस्यैव ह्रस्वत्वं प्रसज्येत ।। नैतदस्ति प्रयोजनम्(1), वृद्धिरत्र बाधिका भविष्यति ।।
वृद्धौ तर्हि कृतायामौकारस्यैव ह्रस्वत्वं प्रसज्येत ।। नैतदस्ति--अन्तरङ्गत्वादत्राऽऽवादेशो भविष्यति । न हीदानीं ह्रस्वभाविन्युपधा भवति । तस्माण्णिग्रहणं कर्तव्यम् ।।
अथ चङ्ग्रहणं किमर्थं न णावुपधाया इत्येव सिद्धम् ।। णावुपधाया ह्रस्व इतीयत्युच्यमाने कारयति हारयत्यत्रापि प्रसज्येत ।। नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति न णावेव ह्रस्वत्वं भवतीति यदयं मितां ह्रस्वत्वं शास्ति ।। इहापि तर्हि न प्राप्नोति--अचीकरत् अजीहरत् ।। वचनाद्भविष्यति ।। इहापि तर्हि वचनात्प्राप्नोति--कारयति हारयति । तस्माच्चङ्ग्रहणं कर्तव्यम् ।।
अथोपधाग्रहणं किमर्थम् ? ।। णौ चङ्युपधाग्रहणमन्त्यप्रतिषेधार्थम् ।। णौ चङ्युपधाग्रहणं क्रियते ।। किं प्रयोजनम् ? ।।
अन्त्यप्रतिषेधार्थम् । अन्त्यस्य ह्रस्वत्वं मा भूत्(1) ।
णौ चङि ह्रस्वःथ्द्य;तीयत्युच्यमाने अलीलवत् अपीपवत्--अन्त्यस्यैव ह्रस्वत्वं प्रसज्येत ।। नैतदस्ति प्रयोजनम्-अन्तरङ्गत्वादत्राऽवादेशो भविष्यति । न तर्हीदानीं(1) ह्रस्वभाव्यन्त्योस्ति, अन्त्यो ह्रस्वभावी नास्तीति कृत्वा वचनादनन्त्यस्य(2) भविष्यति ।। इहापि तर्हि वचनात्प्राप्नोति--अचकाड्क्षत्, अववाञ्ञ्छत्(4) ।। येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ।। केन च नाव्यवधानम् ? ।। वर्णेन(5) । एतेन पुनः(6) सङ्घातेन व्यवधानं भवति (च(6)) न भवति च । (।। उत्तरार्थन्तु(6) ।। ) उत्तरार्थं तर्ह्युपधाग्रहणं कर्तव्यम् । लोपः पिबतेरीच्चाऽभ्यासस्य उपधाया यथा स्यात् । अपीप्यत्, अपीप्यताम्, अपीप्यन् ।। अथेह कथं भवितव्यम्--मा भवानटिटदिति, आहो स्विन्माभवानाटिटदिति ।। मा भवानाटिटदिति(एवं(2)) भवितव्यम् ।। ह्रस्वत्वं कस्मान्न भवति ? ।। द्विर्वचने कृते परेण रूपेण व्यवहितमिति कृत्वा ।। इहमिह संप्रधार्यं,--द्विर्वचनं क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम् ? ।। परत्वाद्ह्रस्वत्वम् ।। नित्यं द्विर्वचनम्(1) । कृतेऽपि(2) ह्रस्वत्वे प्राप्नोत्यकृतेऽपि ।। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति--द्विर्वचनाद्ह्रस्वत्वं बलीय इति यदयमोणिमृदितं करोति ।। कथं कृत्वा ज्ञापकम् ? ।। ऋदित्करण एतत्प्रयोजनम्--ऋदितां नेति प्रतिषेधो यथा स्यात् । यदि चाऽत्र पूर्वं द्विर्वचनं स्यादृदित्करणमनर्थकं स्यात्, द्विर्वचने कृते परेण रूपेण(2) व्यवहितत्वाद्ह्रस्वत्वं न भविष्यति । पश्यति त्वाचार्यो-- द्विर्वचनाद्ह्रस्वत्वं बलीय इति तत ओणिमृदितं करोति । तस्मान्माभवानटिटदित्येव(4) भवितव्यम् ।।
।। उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम् (णिचा व्यवहितत्वात्(3)) ।। उपधाह्रस्वत्वे(5) णेर्णिच्युपसङ्ख्यानं कर्तव्यम् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन ।। किं पुनः कारणं न सिध्यति ? ।। णिचा व्यवहितत्वात् ।। णिलोपे कृते नास्ति व्यवधानम् ।। स्थानिवद्भावाव्द्यवधानमेव ।। प्रतिषिध्यतेऽत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवदिति ।। एवमप्यग्लोपिनां नेति प्रतिषेधः प्राप्नोति ।। वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ।। इदमिह संप्रधार्यं--वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ।। परत्वाद्वृद्धिः ।। नित्यो लोपः । कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि ।। अनित्यो लोपः, --अन्यस्य कृतायां वृद्धौ प्राप्नोद्यन्यस्याऽकृतायां । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्वृद्धिः, वृद्धौ कृतायां लोपः, तन्नाऽग्लोप्यङ्गं भवति ।। एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति--वृद्धेर्लोपो बलीयानिति,--यदयमग्लोपिनां नेति निषेधं शास्ति ।। नैतदस्ति ज्ञापकम्(1) । अस्त्यन्यदेतस्य(2) वचने प्रयोजनम् ।। किम् ? ।। यत्र वृद्धावपि कृतायामगेव लुप्यते--अत्यरराजत् ।। यत्तर्हि प्रत्याहारग्रहणं करोति । इतरथा ह्यलोपिनां नेति ब्रूयात् । एवं वा(3) वृद्धेर्लोपो बलीयानिति ।। अथ वाऽऽरभ्यते पूर्वविप्रतिषेधो ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्य पूर्वविप्रतिषिद्धमिति । तस्मादुपसङ्ख्यानं कर्तव्यमिति ।।
-7-4-2- नाग्लोपिशास्वृदिताम्
।। अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवद्भावात् ।। अग्लोपिप्रतिषेधश्चाऽनर्थकः ।। किं कारणम् ? ।।
स्थानिवद्भावात् । स्थानिवद्भावादत्र ह्रस्वत्वं न भविष्यति । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः ।। क्व च(1) स्थानिवद्भावो नास्ति ? ।। यो हलचोरादेशः--अत्यरराजत् ।। किं पुनः कारणं हलचोरादेशो न स्थानिवदिति ? ।। उच्यते । अजादेशः स्थानिवदित्युच्यते, न चाऽयमच एवादेशः ।। किं तर्हि ? ।। अचश्चाऽन्यस्य च ।। अग्लोपिनां ने-त्यपि तर्हि प्रतिषेधो न प्राप्नोति ।। किं कारणम् ? ।। अग्लोपिनां नेत्युच्यते न चाऽत्राऽगेव लुप्यते ।। किं तर्हि ? ।। अक्काऽन्यश्च ।। योऽत्राऽग्लुप्यते, तदाश्रयः प्रतिषेधो भविष्यति ।। यथैव(2) तर्हि योऽत्राऽग्लुप्यते तदाश्रयः प्रतिषेधो भवत्येवं योऽत्राऽज्लुप्यते तदाश्रयः स्थानिवद्भावो भविष्यति ।। एवं तर्हि सिद्धे सति यदग्लोपिना नेति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः-- इत उत्तरं स्थानिवद्भावो न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। पूर्वत्रासिद्धे न स्थानिवदित्युक्तन्तन्न वक्तव्यं भवति ।। यद्येतज्ज्ञाप्यते आदीधयतेः--आदीधकः । आवेवयतेः आवेवकः -- यीवर्णयोर्दीधीवेव्योरिति लोपो न प्राप्नोति । इह च यत्प्रलुनीह्यत्रेति(1) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोति ।। नैषः दोषः । यत्तावदुच्यते--आदीधयतेः आदीधकः । आवेवयतेः--आवेवकः । यीवर्णयोरिति लोपो न प्राप्नोतीति ।। यीवर्णयोरित्यत्रवर्णग्रहणसार्मथ्याद्भविष्यति । यदप्युच्यते--यत्प्रलुनीह्यत्र(2) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोतीति ।। बहिरङ्गो यणादेशोऽन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे । ( नाग्लोपिशास्वृदिताम् । )
-7-4-3- भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्
।। काण्यादीनां(1) वा ।। काण्यादीनां(2) वेति वक्तव्यम् ।। के पुनः काण्यादयः ? ।। काणिराणिश्राणिभाणिहेठिलोपयः । अचकाणत् अचीकणत् । अरराणत् अरीरणत् । अशश्राणत् । अशिश्रणत् । अबभाणत् अबीभणत् । अजिहेठत् अजीहिठत् । अलुलोपत् अलूलुपत् ।। ( भ्राजभासभाष ) ।।
-7-4-9- दयतेर्दिगि लिटि
इह(4) अवदिग्ये अवदिग्याते अवदिग्यिरे । दिग्यादेशे कृते द्विर्वचनं प्राप्नोति ।
(।। तत्र(1) साभ्यासस्य) ।। तत्र साभ्यासस्येति वक्तव्यम् । ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशो भविष्यति ।। न सिध्यति ।। किं कारणम् ? ।। दिग्यादेशस्य परत्वात्साभ्यासस्यादेशवचनम् ।। दिग्यादेशः क्रियतां द्विर्वचनमिति । परत्वादिग्यादेशेन भवितव्यं, तत्र साभ्यासस्येति वक्तव्यम् ।। एवं तर्हि दिग्यादेशो द्विर्वचनं बाधिष्यते ।। पुनः प्रसङ्गविज्ञानाद्विर्वचनं प्राप्नोति ।। पुनः प्रसङ्गविज्ञानादिति( 2) चेदमादिभिस्तुल्यम् ।। पुनः प्रसङ्गविज्ञानादिति(2) चेदमादिभिस्तुल्यमेतद्भवति । तद्यथा अमादिषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुमो न भवन्त्येवं दिग्यादेशे कृते पुनः प्रसङ्गाद्विर्वचनं न भविष्यति ।। अथ वा विप्रतिषेधे(3) पुनः प्रसङ्ग इत्युच्यते । विप्रतिषेधश्च द्वयोः सावकाशयोः । इह पुनरनवकाशो दिग्यादेशो द्विर्वचनं बाधिष्यते ।। यदि तर्ह्यनवकाशा विधयो बाधका भवन्ति--बभूव,--भूभावो(1) द्विर्वचनं बाधेत ।। सावकाशो भूभावः(1) ।। कोऽवकाशः ? ।। भविता भवितुम् ।। इह तर्हि चक्षिङः ख्याञ्ञ् वा लिटीति ख्याञ्ञ्द्विर्वचनं बाधेत ।। इह चापि बभूवेति, यदि तावत्स्थाने द्विर्वचनं, भूभावः सर्वादेशः प्राप्नोति, अथ द्विःप्रयोगो द्विर्वचनं, परस्य भूभावे कृते पूर्वस्य श्रवणं प्राप्नोति ।। नैष दोषः, आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु(2) । तत्रार्धधातुकसामान्ये भूभावे कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ।।
-7-4-10- ऋतश्च संयोगादेर्गुणः
।। संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञ्ञर्थम् ।। संयोगादेर्गुणविधाने संयोगोपधग्रहणं कर्तव्यम् ।। किमर्थम् ? ।। कृञ्ञर्थम् । इहापि यथा स्यात्--संचस्करतुः संचस्करुः ।। यदि संयोगोपधग्रहणं क्रियते नाऽर्थः संयोगादिग्रहणेन, इहापि सस्वरुतुः सस्वरुः -- संयोगोपधस्येत्येव सिद्धम् ।। भवेत्सिद्धं सस्वरतुः सस्वरुरिति, इदं तु न सिध्यति--संचस्करतुः संचस्करुरिति।। किं कारणम्?।। सुटो (1) बहिरङ्गलक्षणत्वात् । बहिरङ्गः सुडन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे । संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणमनन्यार्थं विज्ञायते ।। ऋतो लिटि गुणाञ्ञ्ञ्ञ्णितिवृद्धिर्विप्रतिषेधेन(1) ।। ॠतो लिटि गुणाञ्ञ्ञ्ञ्णि(ती(2))ति वृद्धिर्भवति पूर्वविप्रतिषेधेन । ॠतो लिटि गुणस्याऽवकाशः--सस्वरतुः सस्वरुः । ञ्ञ्णिति
वृद्धरवकाशः--स्वारकः ध्वारकः(2) । इहोभयं प्राप्नोति--सस्वार दध्वार । ञ्ञ्णिति वृद्धिर्भवति पूर्वविप्रतिषेधेन ।।
पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् ।। अथ वा पुनः प्रसङ्गाद्गुणे कृते रपरत्वे चाऽत उपधाया इति वृद्धिर्भविष्यति।। नैष युक्तः परिहारः । पुनः प्रसङ्गो नाम स(2) भवति यत्र तेनैव कृते प्राप्नोति तेनैव चाऽकृते । अत्र खलु गुणे कृते रपरत्वे चाऽत उपधाया इति वृद्धिः प्राप्नोति, अकृते चाऽचोञ्ञ्णितीति । तस्मात्सुष्ठूच्यते ऋतो लिटि गुणाञ्ञ्ञ्ञ्णिति वृद्धिः(3) पूर्वविप्रतिषेधेनेति(4) ।।
<M.6.245>
-7-4-12- शॄदॄप्रां ह्रस्वो वा
किमर्थं ह्रस्वो वेत्युच्यते, न गुणो वेत्युच्येत, तत्रायमप्यर्थो गुणग्रहणं न कर्तव्यं भवति प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। ऋतश्च संयोगादेर्गुणः इति ।। ॠतां ह्रस्वत्वमित्त्वप्रतिषेधार्थम् ।। ॠतो ह्रस्वत्वमुच्यते । (किं प्रयोजनम् ?) ।। इत्त्वप्रतिषेधार्थम् । इत्त्वं मा भूदिति । गुणो वेतीयत्युच्यमाने गुणेन मुक्ते इत्त्वं प्रसज्येत । ह्रस्वो वेति पुनरुच्यमाने(3) ह्रस्वेन मुक्ते यथाप्राप्तो गुणो भविष्यति ।। ( शॄदॄपरां ह्रस्वो वा ) ।।
-7-4-13- केऽणः
।। केऽणो ह्रस्वत्वे तद्धितग्रहणं कृन्निवृत्त्यर्थम्।। केऽणो ह्रस्वत्वे तद्धितग्रहणं कर्तव्यम्।। किं प्रयोजनम्?।। कृन्निवृत्त्यर्थम्। कृति मा भूत् राका धाकेति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।। (केऽणः)।।
-7-4-23- उपसर्गाद्ह्रस्व ऊहतेः
इह कस्मान्न भवति उपोह्यते प्रोह्यते ? ।। एकादेशे कृते व्यपवर्गाऽभावात् ।। एवमपि आ ऊह्यते ओह्यते समोह्यते इत्यत्र प्राप्नोति ।। अण(1) इति वर्तते ।।
-7-4-24- एतेर्लिङि
।। एतेर्लिङ्युपसर्गात् ।। एतेर्लिङ्युपसर्गादिति वक्तव्यम् । इह मा भूत् इर्यात्(2) ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । उपसर्गादिति वर्तते ।। एवं तर्ह्याचार्योऽन्वाचष्टे उपसर्गादित्यनुवर्तत इति । नैतदन्वाख्येयमधिकारा अनुवर्तन्त इति । एष एव न्यायो यदुताऽधिकारा अनुवर्तेरन् ।।
-7-4-27- रीङृतः
दीर्घोच्चारणं किमर्थं न रिङृत इत्येवोच्येत ?।। का रूपसिद्धिः - मात्रीयति , पित्रीयति ? अकृत्सार्वधातुकयोः इति दीर्घत्वं भविष्यति।। एवं तर्हि सिद्धे सति यद्दीर्घोच्चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा अङ्गवृत्तेपुनर्वृत्ताविधिर्निष्ठितस्येति।। किमेतस्य ज्ञापने प्रयोजनम् ? पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति।। (रीङृतः)।।
-7-4-30- यङि च
।। यङ्प्रकरणे हन्तेर्हिंसायामीट् ।। यङ्प्रकरणे हन्तेर्हिंसायामीड्वक्तव्यः । जेघ्नीयते । यदीट,अभ्यासरूपं न सिध्यति ।। एवं तर्हि ।। यङ्प्रकरणे हन्तोर्हिंसायामीक् ।। एवमप्युपधालोपो न प्राप्नोति ।। एवं तर्हि ।। यङ्प्रकरणे हन्तेर्हिंसायां(1) घ्नी ।। ( यङि च ) ।।
-7-4-35- न च्छन्दस्यपुत्रस्य
अत्यल्पमिदमुच्यते--अपुत्रस्येति ।। अपुत्रादीनामिति(2) वक्तव्यम् ।। इहापि यथा स्यात् जनीयन्तो न्वग्रवः । पुत्रीयन्तः सुदानवः ।। छन्दसि प्रतिषेधे दीर्घप्रतिषेधः ।। छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधो वक्तव्यः । संस्वेदयुः मित्रयुः ।। न वाऽश्वाघस्याद्वचमनधारणार्थम् ।। न वा वक्तव्यम् ।। किं कारणम् ? ।। (अश्वाघस्याद्वचनमवधारणार्थम्(1)) ।। अश्वाघस्याद्वचनमवधारणार्थं भविष्यति-- अश्वाघयोरेव च्छन्दसि दीर्घो भवति(2) नान्यस्येति ।। ( न छन्दस्यपुत्रस्य )
-7-4-37- रीङृतः
दीर्घोच्चारणं किमर्थं न रिङृत इत्येवोच्येत ? ।। का रुपसिद्धिः--मात्रीयति पित्रीयति ? ।। अकृत्सार्वधातुकयोरिति दीर्घत्वं भविष्यति ।। एवं तर्हि सिद्धे सति यद्दीर्घोच्चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा अङ्गवृत्ते पुनर्वत्तावविधिर्निष्ठितस्येति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।।
पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ।। ( रीङृतः )
-7-4-41- शाच्छोरन्यतरस्याम्
।। श्यतेरित्त्वं व्रते नित्यम्(3) ।। श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् । संशितव्रतः ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् ।।
।। देवत्रातौ(3) गलो ग्राह इति योगे च सद्विधिः ।
मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ।।
-7-4-46- दो दद्धोः
।। अवदत्तं विदत्तं च प्रदत्तं चाऽऽदिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ।।
किं पुनरयं तकारान्त आहो स्विद्दकारान्त उत धकारान्तोऽथ वा थकारान्तः ? ।। कश्चात्र विशेषः ? ।। तान्ते दोषो दीर्घत्वं स्यात्(2) ।। यदि तकारान्तो दस्तीति दीर्घत्वं प्राप्नोति ।। दान्ते दोषो निष्ठानत्वम्(2) ।। अथ दकारान्तो रदाभ्यां निष्ठा तो न इति नत्वं प्राप्नोति । ।। धान्ते(2) दोषो धत्वप्राप्तिः ।। अथ धान्तो झषस्तथोर्धोऽधःथ्द्य;ति धत्वं प्राप्नोति ।। थान्तेऽदोषस्तस्मात्थान्तः ।। अथ थकारान्तो न दोषो भवति ।। (दो दद्धोः ) ।
-7-4-47- अच उपसर्गात्तः
।। अच उपसर्गात्तत्वे आकारग्रहणम् ।। अच उपसर्गात्तत्वे आकारग्रहणं कर्तव्यम् ।। न कर्तव्यम् ।। अलोऽन्त्यस्य विधयो भवन्तीत्याकारस्य(1) भविष्यति ।। न सिध्यति ।। किं कारणम् ? ।। आदेर्हि परस्य ।। अत्र हि तस्मादित्युत्तरस्यादेः परस्येति दकारस्य प्राप्नोति ।। नैषः दोषः ।। अवर्णप्रकरणात्सिद्धम् ।। ( अवर्णप्रकरणात्सिद्धमेतत् ) ।। अस्येति वर्तते ।। क्व प्रकृतम् ? ।। अस्य च्वाविति ।।
यद्यवर्णग्रहणमनुवर्तते तद्भावे दोषो भवति ।। एवं तर्ह्येवं वक्ष्यामि--दोऽद्धोरिति(2) । दो य आकारस्तस्याऽद्भवति ।। ततः अच उपसर्गात्तः। अस्येत्येव।। एवमपि सूत्रभेदः कृतो भवति।। नाऽसौ(3) सूत्रभेदः । सूत्रभेदं तमुपाचरन्ति(4) यत्र तदेवाऽन्यत्सूत्रं क्रियते भूयो वा, यद्धि( 5) तदेवोपसहृत्य क्रियते नासौ सूत्रभेदः । अथ वा द्वितकारको निर्देशः क्रियते सोऽनेकाल्शित्सर्वस्येति सर्वस्य भविष्यति ।। इहापि तर्हि प्राप्नोति--अदि्भः, अद्भ्य इति ।। अच इति वर्तते । तच्चाऽवश्यमज्ग्रहणमनुर्वत्यं--लवाभ्यामित्येवर्थम् ।। अथ वा त्रितकारको निर्देशः करिष्यतेः-इहाऽर्थौ द्वावुत्तरार्थश्चैवः ।। द्यतेरित्त्वादचस्तः ।। द्यतेरित्त्वादचस्त इत्येतद्भवति विप्रतिषेधेन । द्यतेरित्त्वस्याऽवकाशः निर्दितं निर्दितवान् । अचस्त इत्यस्याऽवकाशः--प्रत्तम् अवत्तम् । इहोभयं प्राप्नोति--नीत्तं, वीत्तम् । अचस्त इत्येतद्भवति विप्रतिषेधेन ।। (अच उप) ।।
-7-4-48- अपो भि
।। अपो भि मासश्छन्दसि(1) ।। अपो भीत्यत्र मासश्चन्दस्युपसङ्ख्यानं कर्तव्यम् । मादि्भरिष्ट्वा इन्द्रो वृत्रहा ।। अत्यल्पमिदमुच्यते ।। स्ववस्स्वतवसोर्मास उषसश्च त इष्यते ।। स्ववदि्भः., स्वतवदि्भः, समुषदि्भरजायथाः । मादि्भरिष्टावा इन्द्रो वृत्रहा ।। ( अपो भि )
-7-4-54- सनि मीमाघुरभलभशकपतपदामच इस्
।। इस्त्वं सनि राधो हिंसायाम् ।। इस्त्वं सनि राधो हिंसायामिति वक्तव्यम् । प्रतिरित्सति ।। हिंसायामिति किमर्थम् ? ।। आरिरात्सति ।।
-7-4-55- आप्ज्ञप्यृधामीत्
।। ज्ञपेरीत्त्वमनन्त्यस्य ।। ज्ञपेरीत्त्वमनन्त्यस्येति वक्तव्यम् । ज्ञीप्सति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । लोपोऽन्त्यस्य बाधको भविष्यति ।। अनवकाशा हि(1) विधयो बाधका भवन्ति सावकाशश्च णिलोपः ।। कोऽवकाशः ? ।। कारणा हारणा ।। एवमपीत्त्वमन्त्यस्य लोपस्य बाधकं स्यात् । अनवकाशा हि विधयो बाधका भवन्ति ।। ईत्वमपि सावकाशम् ।। कोऽवकाशः ? ।। अनन्त्यः ।। कथं पुनः सत्यन्त्येऽनन्त्यस्येत्त्वं स्यात् ? ।। भवेद्योऽचाऽङ्गं विशेषयेत्तस्याऽनन्त्यस्य न स्याद्वयं तु खल्वङ्गेनाऽचं विशेषयिष्यामः--अङ्गस्याऽचो
यत्र तत्रास्थस्येति ।। एवमप्युभयोः सावकाशयोः परत्वादीत्त्वं प्राप्नोति तस्मादनन्त्यस्येति वक्तव्यम् ।। ( आप्ज्ञप्यृधामीत् ) ।
-7-4-58- अत्र लोपोऽभ्यासस्य
।। अभ्यासस्याऽनचि ।। अभ्यासस्येति यदुच्यते तदनचि द्रष्टव्यम् । पतापतः चराचरः । चलाचलः(1) वदावदः । ( अत्र लोपोऽभ्यासस्य ) ।
-7-4-60- हलादिः शेषः
किमयं षष्ठीसमासः हलामादिर्हलादिः, हलादिः शिष्यत इति । आहोस्वित्कर्मधारयः--हल्आदिर्हलादिः, हलादिः शिष्यत इति ? ।। कश्चात्र विशेषः ? ।। हलादिःशेषे षष्ठीसमास इति चेदजादिषु शेषप्रसङ्गः ।। हलादिःशेषे षष्ठीसमास इति चेदजादिषु शेषः प्राप्नोति । आनक्ष आनक्षतुः आनक्षुः । अस्तु तर्हि कर्मधारयः ।। कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लोपस्य तद्भावेऽन्त्यलोपवचनम्(1) ।। कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लोपस्य(2) तदभावे--आद्यस्य हलोऽभावे--ऽन्त्यलोपो(1) वक्तव्यः । आटतुः आटुः । ।। तस्मादनादिलोपः(3) ।। तस्मादानादिर्हल्लुप्यत(4) इति वक्तव्यम् ।। उक्तं वा ।। (उक्तं वा) । किमुक्तम् ? ।। प्रतिविधास्यते हलादिशेष इति ।। अयमिदानीं स प्रतिविधानकालः ।। इदं प्रतिविधीयते, इदं प्रकृतम् अत्र लोपोभ्यासस्येति । ततो वक्ष्यामि ह्रस्वः । ह्रस्वो भवत्यादेशः । अभ्यासस्य लोप इत्यनुवर्तते । (अभ्यासस्य(1) च लोपो भवति) । तत्र ह्रस्वभाविनां ह्रस्वो, लोपभाविनां लोपो भविष्यति । ततो हलादिः शेषश्चेति(2) ।। अथ वैवं वक्ष्यामि--ह्रस्वोऽहल् । (ठह्रस्वः) ह्रस्वो भवत्यभ्यासस्येति । ततोऽहल । अहल् च भवत्यभ्यासः । तत आदिः(2) शेषः(7) । आदिःशेषश्च(31) भवत्यभ्यासस्येति। अथ वा योगविभागः करिष्यते । ह्रस्वः (1)। ह्रस्वादेशो भवत्यभ्यासस्य। ततो हल्। हल् च लुप्यतेऽभ्यासस्य । तत आदिः शेषः । आदिःशेषश्च(3) भवत्यभ्यासस्य ।।
-7-4-61- शर्पूर्वाः खयः
।। शर्पूर्वशेषे खर्पूर्वग्रहणम् ।। शर्पूर्वशेषे खर्पूर्वग्रहणं कर्तव्यम् । खर्पूर्वाः खयः शिष्यन्ते खरो लुप्यन्त इति वक्तव्यम् ।। किं प्रयोजनम् ? ।। उचिच्छिषति । व्युचिच्छिषति(5) । तुकः श्रवणं मा भूदिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यं, र्चत्वे कृते तुग्न भविष्यति ।। असिद्धं र्चत्वं तस्याऽसिद्धत्वात्तुक्प्राप्नोति ।। सिद्धकाण्डे पठितम्-- ।। अभ्यासजश्त्वर्चत्वमेत्वतुकोः ।। इति ।।
एवमप्यन्तरङ्गत्वात्प्राप्नोति ।। तस्मात्खपूर्वग्रहणं कर्तव्यम् ।। न कर्तव्यम् । एत्वतुग्ग्रहणं न करिष्यते अभ्यासजश्त्वर्चत्वं सिद्धमित्येव ।। आदिशेषप्रसङ्गस्तु ।। आदिशेषस्तु प्राप्नोति । तिष्ठासति ।। ननु चाऽनादिशेष आदिशेषं बाधिष्यते ।। कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? ।। असति खल्वपि सम्भवे बाधनं भवतीति, अस्ति च सम्भवो यदुभयं स्यात् (इति) ।।
यद्यादिशेषोऽपि भवति शर्पूर्वचनमिदानीं किमर्थं स्यात् ? ।। शर्पूर्ववचनं किमर्थमिति चेत्खयां लोपप्रतिषेधार्थम् ।। शर्पूर्वचनं किमर्थमिति चेत्खयां (लोपप्रतिषेधार्थं, खयां) लोपो मा भूदिति ।। व्यपकर्षविज्ञानात्सिद्धम् ।। व्यपकर्षविज्ञानात्सिद्धमेतत् ।। किमिदं व्यवकर्षविज्ञानादिति ? ।। अपवाद विज्ञानात् । अपवादत्वादत्राऽनादिशेष आदिशेषं बाधिष्यते ।। ननु चोक्तं--कथमन्यस्योच्यमानमन्यस्य बाधकं स्यादिति ।। इदं तावदयं प्रष्टव्यः--यदि तन्नोच्यते किमिह स्यात् ? ।। हलादिशेषः ।। हलादिशेषश्चेन्नाऽप्राप्ते हलादिशेष इदमुच्यते तद्बाधकं भविष्यति ।। यदप्युच्यते--असति खल्वपि सम्भवे बाधनं भवत्यस्ति च सम्भवो यदुभयं स्यादिति(1) । सत्यपि सम्भवे बाधनं भवति, तद्यथा दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति, सत्यपि सम्भवे दधिदानस्य तक्रदानं बाधकं भवति । एवमिहापि सत्यपि सम्भवे अनादिशेष आदिशेषं बाधिष्यते ।। (शर्पूर्वाः खयः) ।।
-7-4-65- दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽर्लष्याऽऽपनीफणत्संनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरिवृजन्मर्मृज्यागनीगन्तीति च
दाधर्त्तीति किं निपात्यते ? ।। धारयतेः(2) श्लावभ्यासस्य दीर्घत्वं णिलुक्च ।। (धारयतेः श्लावभ्यासस्य दीर्घत्वं णिलुक्च निपात्यते ) ।। अनिपात्यं, तूतुजानवदभ्यासदीर्घत्वं पर्णशुषिवण्णिलुग्भविष्यति ।। धृङोवा
श्लावभ्यासस्य(1) दीर्घत्वं परस्मैपदं च ।। ( धृङो वा(2) श्लावभ्यासस्यदीर्घत्वं परस्मैपदञ्च
निपात्यते । ) ।। अनिपात्यं, तूतुजानवदभ्यासस्य दीर्घत्वं युध्यतिवत्परस्मैपदं(च(3)) भविष्यति ।। दर्धर्तीति किं निपात्यते ? ।। धारयतेः श्लावभ्यासस्य रुग्णिलुक्च(4) ।। (धारयतेः(3) श्र्लावभ्यासस्य रुक्(2) णिलुक्च निपात्यते ।) ।। अनिपात्यम् । देवा अदुह्रवद्रुट्पर्णशुषिवण्णिलुक्च भविष्यति ।। धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च ।। (धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च निपात्यते ।) । अनिपात्यम्, देवा अदुग्रवद्रुड्युध्यतिवत्परस्मैपदञ्च भविष्यति ।। दर्धर्षीति किं निपात्यते ? ।। धारयतेः श्र्लावम्यासस्य रुग्लिलुक्च ।। (धारयतेः श्र्लावभ्यासस्य(3) रुग्णिलुक्च निपात्यते) ।। अनिपात्यम्, देवा अदुह्रवद्रुट्पर्णशुषिवण्णिलुक्च भविष्यति ।। धुङो वाऽभ्यासस्यरुक् परस्मैपदं च ।। (धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च(5) निपात्यते) ।। अनिपात्यम्, देवा अद्रह्रवद्रुड्युध्यतिवत्परस्मैपदं च भविष्यति ।।
बोभूत्विति किं निपात्यते ? ।। भवतेर्यङ्लुगन्तस्याऽगुणत्वम् ।। (भवतेर्यङ्लुगन्तस्याऽगुणत्वं) निपात्यते ।। नैतदस्ति प्रयोजनं, सिद्धमत्राऽगुणत्वं भूसुवोस्तिङीति ।। एवं तर्हि नियमार्थं भविष्यति--अत्रैव यङ्लुगन्तस्य गुणो न भवति नान्यत्रेति ।। क्व मा भूत् ? ।। बोभवतीति(6) ।
तेतिक्ते इति किं निपात्यते ? ।। तिजेर्यङ्लुगन्तस्यात्मनेपदम् ।। (तिजेर्यङ्लुगन्तस्यात्मनेपदं) निपात्यते ।। नैतदस्ति प्रयोजनं, सिद्धमत्रात्मनेपदमनुदात्तङित आत्मनेपदमिति ।। एतन्नियमार्थं(7) तर्हि भविष्यति अत्रव यङ्लुगन्तस्यात्मनेपदं भवति नान्यत्रेति ।। क्व मा भूत् ? ।। बेभिदीति चेच्छिदिति ।।
-7-4-67- द्युतिस्वाप्योः संप्रसारणम्
किमर्थं स्वपेरभ्यासस्य संप्रसारणमुच्यते यदा सर्वेष्वभ्यासस्थानेषु स्वपेः संप्रसारणमुक्तम् ? ।। स्वापिग्रहणं व्यपेतार्थम्(1) ।। स्वापिग्रहणं क्रियते ।। (किं प्रयोजनम्(4) ? ) ।। व्यपेतार्थम् । व्यपेतार्थोऽयमारम्भः । सुष्वापयिषतीति ।। अस्ति प्रयोजनमेतत् ? ।। किं तर्हिति ।। तत्र क्यजन्तेऽतिप्रसङ्गः(2) ।। तत्र क्यजन्तेऽतिप्रसङ्गो(2) भवति । इहापि--प्राप्नोति स्वापकमिच्छति स्वापकीयति । स्वापकीयतेः सन् सिष्वापकीयिषतीति ।। सिद्धं तु णिग्रहणात्(3) ।। सिद्धमेतत् ।। कथम् ? ।। (ठणिग्रह(3)णात्(4) ।।) णिग्रहणं(3) कर्तव्यम् । (तत्तर्हि णिज्ग्रहणं(4) कर्त्तव्यम् ? ।।) ।। न कर्तव्यम् । निर्देशादेव हि व्यक्तं ण्यन्तस्य ग्रहणमिति ।। नात्र निर्देशः प्रमाणं शक्यं कर्तुम् । यथा हि निर्देशस्तथेहापि प्रसज्येत--स्वापं करोति स्वापयति । स्वापयतेः सन्--सिष्वापयिष्यतीति । तस्माण्णिग्रहणं कर्तव्यम् । ( द्युतिस्वाप्योः सम्प्रसारणम् ) ।।
-7-4-75- निजां त्रयाणां गुणः श्र्लौ
।। त्रिग्रहणानर्थक्यं गणान्तत्वात् ।। त्रिग्रहणमनर्थकम् ।। किं कारणम् ? ।। गणान्तत्वात् । त्रय एव निजादयः ।। उत्तरार्थं तु ।। उत्तरार्थं तर्हि त्रिग्रहणं कर्तव्यम्--भृञ्ञामित्--त्रयाणां(3) यथा स्यात्--इह मा भूत्--जहाति ।। ( निजां त्रयाणां गुणः श्र्लौ ) ।।
-7-4-77- अर्तिपिर्पत्योश्च
अर्तिग्रहणं किमर्थं न बहुलं छन्दसीत्येव सिद्धं, न ह्यन्तरेण छन्दोऽर्तेः श्र्लुर्लभ्यः ? ।। एवं तर्हि सिद्धे सति यदर्तिग्रहणं करोति तज्ज्ञापयत्याचार्यो भाषायामर्तेः श्र्लर्भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। इयर्तीत्येतत्सिद्धं भवति ।। ( अर्त्तिपिर्पत्त्योश्च ) ।।
-7-4-82- गुणो यङ्लुकोः
।। ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि(1) परं दीर्घत्वम् ।। ऐचोर्यङि दीर्घत्वं प्राप्नोति डोढौक्यते तोत्रौक्यत इति ।। ननु च ह्रस्वत्वे कृते (गुणो(1) भविष्यति) दीर्घत्वं न भविष्यति ।। न सिद्ध्यति ।। किं कारणम् ? ।। ह्रस्वाद्धि परं दीर्घत्वम् । ह्रस्वत्वं क्रियतां दीर्घत्वमिति(2) किमत्र कर्तव्यम् ? ।। परत्वादीर्घत्वेन भवितव्यम् ।। न वाऽभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् ।। न वैष दोषः ।। किं कारणम् ? ।। अभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् । अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्त इत्येषा परिभाषा कर्तव्या ।। कान्येतस्याः परिभाषायाः प्रयोजनानि ? ।। प्रयोजनं सन्वद्भावस्य दीर्घत्वम्(3) ।। (सन्वद्भावस्य(1) दीर्घत्वं प्रयोजनम्) ।। अचीकरत् अजीहरत् ।। सन्वद्भावमपवादत्वाद्दीर्घत्वं न बाधते ।। मान्प्रभृतीनां दीर्घत्वमित्त्वस्य ।।
मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वन्न बाधते।।। गणेरीत्वं हलादिशेषस्य।। गणेरीत्वमपवादत्वाद्धलादिशेषं न बाधते ।।
इदमयुक्तं वर्तते ।। किमत्राऽयुक्तम् ? ।। ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्त्वा तत उच्यते--न वाभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वादिति । तस्याश्च परिभाषायाः प्रयोजनानि नामोच्यन्ते--प्रयोजनं सन्वद्भावस्य दीर्घत्वं, मान्प्रभृतीनान्दीर्घत्वमित्त्वस्य(5), गणेरीत्वं हलादिशेषस्यति च । न(1) खलु सन्वद्भावमपवादत्वाद्दीर्घत्वं बाधते ।। किं तर्हि ? ।। परत्वात् । न खल्वपि मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वं बाधते ।। किं तर्हि ? ।। अन्तरङ्गत्वात् । न खल्वपि गणेरीत्वमपवाद्धलादिशेषं बाधते ।। किं तर्हि ? ।। अनवकाशत्वात् ।। एवं तर्हीयं परिभाषा कर्तव्या--अभ्यासविकारेषु बाधका न बाधन्त इति(2) ।। सा तर्ह्येषा परिभाषा कर्तव्या ? ।। न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषेति यदयमकित इति प्रतिषेधं शास्ति ।।
-7-4-83- दीर्घोऽकितः
अकित इति किमर्थम् ? ।। यंयम्यते रंरम्यते ।। अकित(1) इति शक्यमकर्तुम् ।। कस्मान्न भवति--यंयम्यते रंरम्यते इति ? ।। नुकि कृतेऽनजन्तत्वात् ।। अत उत्तरं पठति ।। अकिद्वचनमन्यत्र किदन्तस्याऽलोऽन्त्यनिवृत्त्यर्थम् ।। अकिद्वचनं क्रियते ज्ञापकार्थम् ।। किं ज्ञाप्यम्(2) ? ।। एतज्ज्ञापयत्याचार्योऽन्यत्र किदन्तस्याऽभ्यासस्यालोऽन्त्यविधिर्न(3) भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। प्रयोजनं ह्रस्वत्वात्वेत्त्वगुणेषु ।। (ह्रस्वत्वाऽत्वेत्त्वगुणेषु प्रयोजनम्) ।। ह्रस्वत्वम्--अवचच्छतुः अवचच्छुः । अत्वं -- चच्छृदतुः चच्छृदुः ।। इत्त्वं--चिच्छादयिषति चिच्छर्दयिषति । गुणः--चेच्छिद्यते चोच्छुप्यते । तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ।। विप्रतिषेधात्सिद्धम् ।। नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाऽप्येतानि सिद्धानि । तुक् क्रियतामेते विधय इति, किमत्र कर्तव्यं, परत्वादेते विधय इति ।। तदन्ताऽग्रहणाद्वा ।। अथ वा नैवं विज्ञायते--अभ्यासस्याऽजन्तस्य ऋकारान्तस्याऽकारान्तस्येगन्तस्येति ।। कथं तर्हि ? ।। अभ्यासे योऽच्, अभ्यासे य ॠकारः, अभ्यासे योऽकारः,अभ्यासे य इगिति । एवं च कृत्वा दीर्घत्वं प्राप्नोति ।। एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति ।। किम् ? ।। अपवादो नुग्दीर्घत्वस्येति ।। एवं तर्हि सिद्धे सति यदकित इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा--अभ्यासविकारेषु बाधका न बाधन्त इति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्तं स न दोषो भवति ।। ( दीर्घोऽकितः ) ।।
-7-4-85- नुगतोऽनुनासिकान्तस्य
।। नुकि यंयम्यते रंरम्यत इति रूपाऽसिद्धिः ।। नुकि सति यंयम्यते रंरम्यत इति रूपं न सिद्ध्यति।। अनुस्वारागमवचनात्तु(1) सिद्धम् ।। (अनुस्वारागमवचनात्सिद्धमेतत्) ।(2) अनुस्वारागमो वक्तव्यः । एवमपीदमेव रूपं स्यात्--यय्यँम्यते,(3) इदं न स्यात्(4) यंयम्यते(5) ।। पदान्तवच्च(6) ।। पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्येति ।। ( नुगतोऽनुनासिकान्तस्य ) ।।
-7-4-90- रीगृदुपधस्य च
।। रीगृत्वतः संयोगार्थम् ।। रीगृत्वत इति वक्तव्यम् ।। किं प्रयोजनम् ? ।। संयोगार्थम् । संयोगान्ताः प्रयोजयन्ति । वरीवृश्च्यते परीपृच्छ्यते वरीभृज्यते ।। (रीगृदुपधस्य च) ।।
-7-4-91- रुग्रिकौ च लुकि
।। मर्मृज्यते मर्मृज्यमानास इति चोपसङ्ख्यानम् ।। मर्मृज्यते मर्मृज्यमानास इति चोपसङ्ख्यानं कर्तव्यम् । मर्मृज्यते मर्मृज्यमानासः ।।
-7-4-92- ऋतश्च
किमिदमृकारग्रहणमङ्गविशेषणमृकारान्तस्याङ्गस्येति, आहोस्विदभ्यासविशेषणमृकारान्तस्याभ्यासस्येति
? अङ्गविशेषणमित्याह ।। कथं ज्ञायते ? ।। यदयं तपरकरणं करोति ।। कथं कृत्वा ज्ञापकम् ? ।। नहि कश्चिदभ्यासे दीर्घोऽस्ति यदर्थं तपरकरणं क्रियते ।। अथाऽङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किं
प्रयोजनम् ? ।। इह मा भूत्--चाकर्ति चाकीर्तः चाकिरति ।।
।। किरतिं चर्करीताऽन्तं पचतीत्यत्र यो नयेत् ।
प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन सङ्ग्रहः ।।
-7-4-93- सन्वल्लघुनि चङ्परेऽनग्लोपे
इह कस्मान्न भवति--अजजागरत् ? ।। लघुनि चङ्पर इत्युच्यते व्यवहितं चाऽत्र लघु चङ्परम् ।। इहापि तर्हि न प्राप्नोति--अचीकरत् अजीहरत् ।। वचनाद्भविष्यति ।। इहापि वचनात्प्राप्नोति--अजजागरत् ।। येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ।। केन च नाऽव्यवधानम् ? ।। वर्णेन । एतेन पुनः सङ्घातेन व्यवधानं भवति न भवति च ।। एवमपि अचिक्षणत्--अत्र न प्राप्नोति ।। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति भवत्येवंजातीयकानामित्त्वमिति यदयमत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशामितीत्त्वबाधनार्थमत्त्वंशास्ति ।
।। सन्वद्भावदीर्घत्वे णेर्णिच्युपसङ्ख्यानम् (णिचा व्यवहितत्वात्(2)) ।। सन्वद्भावदीर्घत्वे णेर्णित्युपसङ्ख्यानं कर्तव्यम् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन ।। किं पुनः कारणं न सिध्द्यति ? ।। णिचा व्यवहितत्वात् ।। लोपे कृते नाऽस्ति व्यवधानम् ।। स्थानिवद्भावव्द्यवधानमेव ।। प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति ।। एवमप्यनग्लोप इति प्रतिषेधः प्राप्नोति ।। वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ।। एवं तर्हीदमिह संप्रधार्यं--वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ।। परत्वाद्वृद्धिः ।। नित्यो लोपः । कृतायामपि वृद्धौ प्राप्नोत्यन्यस्याऽकृतायाम् । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्वृद्धिर्वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ।। मीमादीनां तु लोपप्रसङ्गः ।। मीमादीनां तु लोपाः प्राप्नोति । अमीमपत् ।। सिद्धं तु रूपातिदेशात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठरूपातिदेशात्(2)) ।। रूपातिदेशोऽयं--सनि यादृशमभ्यासरूपं तत्सन्वद्भावेनाऽतिदिश्यते, न च मीमादीनां सन्यभ्यासरूपमस्ति ।। अङ्गान्यत्वाद्वा सिद्धम् ।। अथ वा ण्यन्तमेतदङ्गमन्यत् ।। लोपे कृते नाऽङ्गन्यत्वम् ।। स्थानिवद्भावादङ्गमन्यत् ।। कथमजिज्ञपत् ? ।। अत्र सन्यपि ण्यन्तस्यैवोपादानमाप्ज्ञप्यृधामीदिति । अत्राऽङ्गन्यत्वाऽभावादभ्यासलोपः स्यात् । तस्मात्पूर्व एव परिहारः -सिद्धं तु रूपातिदेशादिति ।।
।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये सप्तमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ।। चतुर्थः पादश्च समाप्तः ।।