महाभाष्यम्/सप्तमोऽध्यायः/तृतीयः पादः

-7-3-1- देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्
देविकादिषु तदादिग्रहणम् देविकादिषु तदादिग्रहणं कर्तव्यम् । (देवकाद्यादीनामिति वक्तव्यम्(2) ।) ःथ्द्य;हापि यथा स्यात्---दाविकाकूलाः शालयः शांशपास्थला देवाः ।। किं पुनः कारणं न सिध्यति अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा अन्यत्र हि तस्य वा ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तम् आद्यज्विशेषणत्वात्सिद्धम् आद्यज्विशेषणं देविकादयः । नैवं विज्ञायते--देविकादीनामङ्गानामचामादेराकारो भवतीति ।। कथं तर्हि ? ।। ञ्ञ्णित्यङ्गस्याऽचामादेरच(2) आकारो भवति स चेदेविकादीनामाद्यज्भवतीति।।
आन्तरतम्यनिवर्तकत्वाद्वा(3) अथ वा नाऽनेनाऽनन्तरतमा वृद्धिर्निर्र्वत्यते ।। किं तर्हि ? ।। अन्तरतमाऽनेन(3) निर्वत्यते । अतः(4) सिद्धाऽत्र वृद्धिस्तद्धितेष्वचामादेरित्येव । तत्राऽनेनाऽन्तरतमा(1) वृद्धिर्निर्वत्यते ।।
परिहारान्तरमेवेदं मत्वा पठितं, कथं चेदं परिहारान्तरं स्यात् ? ।।
यदि नाद्यज्विशेषणं देविकादयः ।।
अवश्यं चैतदेवं विज्ञेयमाद्यज्विशेषणं देविकादय ःथ्द्य;ति, यदि नाद्यज्विशेषणं देविकादयः स्युरिहापि प्राप्नोति--सुदेविकायां भवः सौदेविक ःथ्द्य;ति ।। अथात्राऽप्याद्यज्विशेषणत्वादित्येव सिद्धं, परिहारान्तरं न भवति ।। न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति ।। किं तर्हि ? ।। यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम् ।। क्व च क्रियमाणे न दोषः ? ।। संज्ञाविधौ ।। वृद्धिरादैज्देविकादीनामाकारःथ्द्य;ति ।। सिध्यति, सूत्रं तर्हि भिद्यते ।। यथान्यासमेवास्तु ।। ननु चोक्तं-देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति। परिहृतमेतत्--देविकादिषु तदादिग्रहणमन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वेति ।। परिहृतमेतत्--आद्यज्विशेषणत्वात्सिद्धमिति ।। न्यग्रोधे च केवलग्रहणात् न्यग्रोधे च केवलग्रहणान्मन्यामहे--आद्यज्विशेषणं देविकादयःथ्द्य;ति । तस्य(3) हि केवलग्रहणस्यैतत्प्रयोजनम् ःथ्द्य;ह मा--भूत् न्याग्रोधमूलाः । शालय ःथ्द्य;ति । यदि चाद्यज्विशेषणं देविकादयस्ततः केवलग्रहणमर्थवद्भवति ।। तदेतत्कथं कृत्वा ज्ञापकं भवति ? ।। यदि न्यग्रोधशब्दोऽव्युत्पन्नं प्रातिपदिकं भवति । अथ हि न्यग्रोहतीति न्यग्रोधः, ततो नियमार्थं पदान्त ःथ्द्य;ति कृत्वा न ज्ञापकं भवति ।
।। वहीनरस्येद्वचनम्।। वहीनरस्येत्वं वक्तव्यम्। वहीनरस्याऽपत्यं वैहीनरिः ।।
कुणरवाडवस्त्वाह--नैष वहीनरः ।। कस्तर्हि ? ।। विहीनर(1) एषः । विहीनो नरः कामभोगाभ्यां विहीनरः । विहीनरस्याऽपत्यं--वैहीनरिः ।।
-7-3-3- न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्
य्वाभ्यां परस्याऽवृद्धित्वम्(1) य्वाभ्यां परस्याऽवृद्धित्वं सिद्धम् ।। कुतः ? अपवादौ(1) वृद्धैर्हि तौ अपवादौ हि वृद्धेस्तावैचावुच्येते । नित्यावैचो तयोर्वृद्धिः अथ वा नित्यावैचो, कृतायामपि वृद्धौ प्राप्नुतोऽकृतायामपि ।। नित्यत्वादैचोः कृतयोर्यद्यपि वृद्धिस्तयोरेव ।।
किमर्थं(1) नेति शिष्यते ? ।। अथ किमर्थं प्रतिषेध उच्यते ? ।।
ऐचोर्विषयार्थं प्रतिषेधसन्नियुक्तवचनम्(2) ऐचोर्विषयार्थं प्रतिषेधसन्नियोगेनैचावुच्येते(1) यत्र य्वाभ्यां (3) पराऽवृद्धिस्तत्राध्यश्वर्यथा न तौ यत्र य्वाभ्यां परस्याऽवृद्धित्वमुच्यते तत्रैचौ यथा स्यातामिह मा भूताम् --- आध्यश्विः दाध्यश्विः(2) माध्वश्विरिति ।। नैतदस्ति प्रयोजनम् । अचामादेर्य्वाभ्यां हि(2) तौ अचामादिनाऽत्र य्वौ विशेषयिष्यामः-अचामादेर्यौ य्वाविति।। कथं द्व्याशीति के न तौ ।। द्व्याशीतिकःथ्द्य;त्यत्र कस्मान्न तौ भवतः? यत्र वृद्धिरचामादेस्तत्रैचावत्र घोर्हि(4)सा यत्राऽचामादेरित्येवं वृद्धिस्तत्रैचावुच्येते । अत्र(5) घोरित्येवं वृद्धिः ।। किमिदं घोरिति(4) ? ।। उत्तरपदस्येति ।। उत्तरपदाधिकारेऽप्यवश्यमैजागमोऽनुर्वत्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्द ःथ्द्य;त्येवमर्थम् ।। नैषः दोषः -उत्तरपदेनाऽत्राऽचामादिं विशेषयिष्यामोऽचामादिना य्वौ--उत्तरपदस्याचामादेर्यौ य्वा(1)विति ? अथ कस्मात्पदान्ताभ्याम् अथ किमर्थं पदान्ताभ्यामित्युच्यते ? यथेणो न भवेद्यणः(2) ।।
।। ःथ्द्य;णो यणादेशे मा भूत्--यतश्छात्रा याता ःथ्द्य;ति ।।
ःथ्द्य;ह वैयाकरणः शौवश्व ःथ्द्य;ति शाकलं प्राप्नोति, य्वोश्च स्थानिवद्भावादायावौ प्राप्नुतः ? शाकलायावादेशेषु चोक्तम् (शकलायावादेशेषु(3) चोक्तम्) ।। किमुक्तम् ? ।। शाकले तावदुक्तम्--सिन्नित्यसमासयोः शाकलप्रतिषेध ःथ्द्य;ति ।। आयावोः किमुक्तम् ? ।। अचः पूर्वविज्ञानादैचोः सिद्धमिति ।।
य्वाभ्यां परस्याऽवृद्धत्वमपवादौ वृद्धेर्हि तौ ।
नित्यावैचौ तयोर्वृद्धिः किमर्थं नेति शिष्यते ।।
यत्र य्वाभ्यां पराऽवृद्धिस्तत्राध्यश्वेर्यथा न तौ ।
अचामादेर्य्वाभ्यां हि तौ कथं व्द्याशीतिकेन तौ ।।
यत्र वृद्धिरचामादेस्तत्रैचावत्र य्वोर्हि सा ।
अथ कस्मात्पदान्ताभ्यां यथेणो न भवेद्यणः
-7-3-4- द्वारादीनां च
अथ परस्याऽवृद्धिरित्यनुवर्तते उताहो न ? ।। किं चातः ? ।। यद्यनुवर्तते शौवं मांसं, टिलोपे कृते ऐजागमो न प्राप्नोति ।। अथ निवृत्तं, स्वाध्यायशब्दो द्वारादिषु पठ्यते तत्र यावन्तो यणः सर्वेभ्यः पूर्व ऐजागमः प्राप्नोति ।।
यथेच्छसि तथास्तु ।। अस्तु तावदनुवर्तते, कथं शैवं मांसम् ? ।। आनुपूर्व्या(1) सिद्धमेतत् । नात्राऽकृते ऐजागमे टिलोपः प्रप्नोति ।। किं कारणम् ? ।। प्रकृत्यैकाजिति प्रकृतिभावेन भवितव्यम् । तदेतदानुपूर्व्या(1) सिद्धं भवति ।।
अथ वा पुनरस्तु निवृत्तम् ।। ननु चोक्तं--स्वाध्यायशब्दो द्वारादिषु पठ्यते तत्र यावन्तो यणः सर्वेभ्यः पूर्व ऐजागमः प्राप्नोतीति ।। कः पुनरर्हति स्वाध्यायशब्दं द्वारादिषु पठितुम्, एवं किल पठ्येत--स्वमध्ययनं स्वाध्याय ःथ्द्य;ति ।। तच्च न ।। सुष्ठु वाऽध्ययनं स्वाध्यायः । (शोभनं वा अध्ययनं स्वाध्यायः(1) ।। अथापि स्वमध्ययनं स्वाध्यायः(1)) एवमपि न दोषः । अचामादेरिति वर्त्तते ।।
-7-3-8- श्वादेरिञ्ञि
अयं श्वञ्ञ्छब्दो(2) द्वारादिषु पठ्यते, तत्र कः प्रसङ्गो यत्तदादेः स्यात्, नैव(3) प्राप्नोति नाऽर्थः प्रतिषेधेन ।। (ःथ्द्य;ह तस्य वा(1) ग्रहणं भवति तदन्तस्य वा, न चेदं तत्, नापि तदन्तम् ) ।। तदादिविधिना प्राप्नोति ।। न(4) वै तदादिविधिरस्ति ।। अत उत्तरं पठति--- प्रतिषेधे श्वादिग्रहणं ज्ञापकमन्यत्र श्वन्ग्रहणे(5) तदादिग्रहणस्य, शौवहानाद्यर्थम् प्रतिषेधे श्वादिग्रहणं क्रियते ज्ञापकार्थम् ।। किं ज्ञाप्यम् ? ।। एतज्ज्ञापयत्याचार्यः-अन्यत्र च श्वन्ग्रहणे तदादिविधिर्भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। शौवहानाद्यर्थम् । शौवहानं नाम(1) नगरं शौवादंष्ट्रो मणिरिति ःथ्द्य;कारादिग्रहणं च श्वागणिकाद्यर्थम् ःथ्द्य;कारादिग्रहणं च कर्तव्यम् ।। किं प्रयोजनम् ? ।। श्वागणिकाद्यर्थम् । श्वगणेन चरति श्वागणिकः(2) तदन्तस्य चाऽन्यत्र प्रतिषेधः(3) तदन्तस्य चाऽन्यत्र(3) प्रतिषेधो वक्तव्यः । श्वाभस्त्रेः स्वं(1) श्वाभस्त्रम् ।।
-7-3-10- उत्तरपदस्य
किमर्थमिदमुच्यते ? ।। अवयवादृतोरिति वक्ष्यति तदुत्तरपदस्य यथा स्यादचामादेर्मा भूत् ।। नैतदस्ति प्रयोजनम् । अवयवादिति पञ्ञ्चमी तत्राऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदस्यैव भविष्यति ।। उत्तरार्थं तर्हि,--सुसर्वार्धाज्जनपदस्येति ।। सुसर्वार्द्धादिति पञ्ञ्चमी ।। दिशोऽमद्राणाम् (ःथ्द्य;ति(1)) ।। दिश ःथ्द्य;त्येव ।। सङ्ख्यायाः संवत्सरसङ्ख्यस्य च (ःथ्द्य;ति( 1)) ।। सङ्ख्याया ःथ्द्य;ति पञ्ञ्चमी । वर्षस्याभविष्यति ।। सङ्ख्याया ःथ्द्य;त्येव ।।
ःथ्द्य;दं तर्हि प्रयोजनं --जे प्रोष्ठपदानाम् । उत्तरपदस्य यथा स्यात्पूर्वपदस्य(2) मा भूत् -- प्रोष्ठपदासु जातः प्रोष्ठपादो ब्राह्मणः ।
तद्धितेष्वचामादिवृद्धेरुत्तरपदवृद्धिर्विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् तद्धितेष्वचामादेरुत्तरपदवृद्धिर्भवति विप्रतिषेधेन ।। किं प्रयोजनम् ? ।। व्द्याशीतिकाद्यर्थम् । अचामादिवृद्धरेवकाशः--ऐतिकायनः औपगवः ।
उत्तरपदवृद्धेरवकाशः-- द्विषाष्टिकम् त्रिषाष्टिकम् । ःथ्द्य;होभयं प्राप्नोति--द्व्याशीतिकः त्र्याशीतिकः । उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ।। कः पुनरत्र विशेषोऽचामादिवृद्धौ सत्यामुत्तरपदवृद्धौ वा ? ।। अयमस्ति विशेषः--यद्यत्राऽचामादिवृद्धिः स्यादैजागमः प्रसज्येत ।। (उत्तरपदस्य) ।।
-7-3-14- प्राचां ग्रामनगराणाम्
नगरग्रहणं किमर्थं न प्राचां ग्रामाणामित्येव सिद्धम् ? ।। न सिध्यति । अन्यो हि(1) ग्रामोऽन्यन्नगरम् ।। कथं ज्ञायते ? ।। एवं हि कश्चित्कं चित्पृच्छति--कुतो भवानागच्छति ग्रामात् ? ।। स आह-न ग्रामान्नगरादिति ।।
ननु च भो ! य एव ग्रामस्तन्नगरम् कथं ज्ञायते ? ।। लोकतः(2) । ये हि ग्रामे विधयो नेष्यन्ते साधीयस्ते नगरे न क्रियन्ते । तद्यथा --अभक्ष्यो ग्राहम्यकुक्कुटः अभक्ष्यो ग्राहम्यसूकर ःथ्द्य;त्युक्ते सुतरां नागरोऽपि न भक्ष्यते । तथा ग्रामे नाध्येयमिति साधीयो नगरेऽपि नाधीयते । तस्माद्य एव ग्रामस्तन्नगरम् ।।
कथं यदुक्तम्- एवं हि कश्चित्कं चित्पृच्छति--कुतोभवानागच्छति ग्रामात् ? । स आह--न ग्रामान्नगरादिति ? ।। संस्त्यायविशेषमसावाचष्टे । संस्त्यायविशेषा ह्येते ग्रामो घोषो नगरं संवाह ःथ्द्य;ति ।। एवं तर्हि सिद्धे सति यद्ग्रामग्रहणे नगरग्रहणं करोति तज्ज्ञापयत्याचार्योऽन्यत्र ग्रामग्रहणे नगरग्रहणं न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। विशिष्टलिङ्गो नदीदेशोऽग्रामा ःथ्द्य;त्यत्र नगरप्रतिषेधश्चोदितः स न वक्तव्यो भवति ।। यद्येतज्ज्ञाप्यते--उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तादित्यत्र नगरग्रहणं कर्तव्यम् । बाहीकग्रामेभ्यश्च नगरग्रहणं कर्तव्यम् । दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु । नगरग्रहणं कर्तव्यम् । ःथ्द्य;दं चतुर्थं ज्ञापकार्थम् । तत्राऽतिनिर्बन्धो(2) न लाभः । तस्माद्यस्मिन्नेव ग्रामग्रहणे नगरग्रहणं नेष्यते तस्य प्रतिषेधो वक्तव्यः ।।
-7-3-15- सङ्ख्यायाः सवत्सरसङ्ख्यस्य च
संवत्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात्, संवत्सरग्रहणमनर्थकम् ।। किं कारणम् ? ।। परिमाणान्तस्येति कृतत्वात् । परिमाणान्तस्याऽसंज्ञाशाणयोरित्येव सिद्धम् ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य(3) (एवं तर्हि ज्ञापयत्याचार्यः---कालपरिमाणानां(4)) वृद्धिर्न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। द्वैरात्रिकः त्रैरात्रिकः--अत्र वृद्धिर्न भवति ।। नैतदस्ति प्रयोजनं, नास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां(5) वा ।। ःथ्द्य;दं तर्हि--द्वैसमिकः त्रैसमिकः ।। ःथ्द्य;दं चापि प्रयोजनं--द्वैरात्रिकः त्रैरात्रिकः ।। ननु चोक्तंनास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां वेति ? ।। अयमस्ति विशेषः--यद्यत्रोत्तरपदवृद्धिः स्यादचामादेर्वृद्धिर्न स्यात् ।।
अपर आह ज्ञापकं तु कालपरिमाणानां परिमाणाऽग्रहणस्य एवं तर्हि ज्ञापयत्याचार्यः--कालपरिमाणानां परिमाणग्रहणेन ग्रहणं न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। अपरिमाणबिस्ताचिकम्बल्येभ्यो न तद्धितलुकि--द्विवर्षा त्रिवर्षा । परिमाणपदासेन पर्युदासो न भवति ।।
-7-3-28- प्रवाहणस्य ढे
परस्य वृद्धिर्नेत्यनुवर्तते उताहो न ? ।। किं चातः ? ।। यद्यनुवर्तते प्रवाहणेयी भार्याऽस्येति प्रवाहणेयीभार्यः, वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोति । अथ निवृत्तं, न दोषो भवति ।। यथा न दोषस्तथास्तु ।। अथवा पुनरस्त्वनुवर्तते । ननु चोक्तं- -प्रवाहणेयी भार्यास्य प्रवाहणेयीभार्यः --वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोतीति ।। नैषः दोषः, मा भूदेवं जातेश्चेत्येवं(2) भविष्यति ।। ( प्रवाहणस्य ढे ) ।।
-7-3-31- यथातथयथापुरयोः पर्यायेण
अयं योगः शक्योऽवक्तुम्(3) कथम्--अयाथातथ्यम् आयथातथ्यम् अयाथापुर्यम् आयथापुर्यम् ? ।। यदा तावत्पूर्वपदस्य वृद्धिस्तदैवं विग्रहः करिष्यते--न यथातथा अयथातथा, अयथातथा भावः आयथातथ्यम् । यदोत्तरपदस्य वृद्धिस्तदैवं विग्रहः करिष्यते--यथातथाभावो यथातथ्यम् । न
याथातथ्यम्--अयाथातथ्यम् ।। ( यथातथयथापुरयोः पर्यायेण )
-7-3-32- हनस्तोऽचिण्णलोः
।। हन्तेस्तकारे तद्धिते(1) प्रतिषेधः हन्तेस्तकारे तद्धिते(1) प्रतिषेधो वक्तव्यः । वार्त्रघ्नं भ्रौणघ्नम् उक्तं
वा किमुक्तम् ? ।। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति ।। ( हनस्तोऽचिण्णलोः )
-7-3-33- आतो युक् चिण्कृतोः
कृद्ग्रहणं किमर्थम् ? ।। इह मा भूत्--ददौ दधौ ।। नैतदस्ति प्रयोजनम्, अचिण्णलोरिति वर्तते ।। यद्यचिण्णलोरिति वर्तते,--अदायि(3) अधायीत्यत्र न प्राप्नोति ।। वचनाच्चिणि भविष्यति--अचिण्णलोरिति वर्तते ।। एवमपि चौडिः वालाकिरित्यत्र प्राप्नोति ।। लोपोऽत्र बाधको भविष्यति ।। इदमिह सम्प्रधार्यं--लोपः क्रियतां युगिति,--किमत्र कर्तव्यम् ? ।। परत्वाद्युक् ।। एवं तर्ह्यचामादेरिति वर्तते । यत्राचामादिराकारस्तत्र युगिति ।। एवमपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः--अत्र प्राप्नोति । तस्मात्कृद्ग्रहणं कर्तव्यम् ।।
-7-3-34- नोदात्तोपदेशस्य मान्तस्याऽनाचमेः
अत्यल्पमिदमुच्यते--अनाचमेरिति ।। ( अनाचमिकमिवमीनाम्(2) ) अनाचमिकमिवमीनामिति वक्तव्यम् । आचामः(3) कामः वामः(4) ।। (नोदात्तोप)
-7-3-37- शाच्छासाह्वाव्यावेपां युक
णिप्रकरणे(6) धूञ्ञप्रीञ्ञोर्नुग्वचनम् णिप्रकरणे(6) धूञ्ञ्प्रीञ्ञोर्नुग्वक्तव्यः । धूनयति प्रीणयति पातेर्लुग्वचनम् पालयति ।।
-7-3-44- प्रत्ययस्थात्कात्पूर्वस्यात ःथ्द्य;दाप्यसुपः
स्थग्रहणं किमर्थम् ? ।। ःथ्द्य;दं विचारयिष्यते--ःथ्द्य;त्वे कग्रहणं सङ्घातग्रहणं वा स्याद्वर्णग्रहणं वेति । तद्यदा सङ्द्यातग्रहणं तदा स्थग्रहणं कर्तव्यम् । ःथ्द्य;हापि यथा स्यात्--कारिका हारिका । यदा हि वर्णग्रहणं तदा केवलः ककारः प्रत्ययो नास्तीति कृत्वा वचनाद्भविष्यति ।।
अथाऽसुप ःथ्द्य;ति, कथमिदं विज्ञायते--असुब्वतोङ्गस्येति, आहो स्विन्न चेत्सुपः पर आबिति ।। किं चातः ? ।। यदि विज्ञायते--असुब्वतोऽङ्गस्येति,-- बहुचर्मिका--अत्र न प्राप्नोति । अथ विज्ञायते--न चेत्सुपः पर आबिति, न दोषो भवति ।। यथा न दोषस्तथाऽस्तु ।।
ःथ्द्य;दं विचार्यते--ःथ्द्य;त्वे कग्रहणं सङ्घातग्रहणं वा स्याद्वर्णग्रहणं वेति ? ।। कश्चात्र विशेषः ःथ्द्य;त्वे(1) कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिः ःथ्द्य;त्वे कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिः । एतिकाश्चरन्ति ।। वचनाद्भविष्यति ।। अस्ति वचने(2) प्रयोजनम् ।। किम् ? ।। कारिका हारिकेति(3) ।। अस्तु तर्हि वर्णग्रहणम् वर्णग्रहणं चेद्व्यवहितत्वादप्रसिद्धिः(4) वर्णग्रहणं चेद्व्यवहितत्वान्न प्राप्नोति । कारिका हारिका । अकारेण व्यवहितत्वान्न प्राप्नोति ।। एकादेशे कृते नास्ति व्यवधानम् ।। एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ।। एवं तर्ह्याहाऽयं -- प्रत्ययस्थात्कात्पूर्वस्ये(1)ति, न(2क्व चिदव्यवधानं, तत्र वचनाद्भविष्यति वचनप्रामाण्यादिति चेद्रथकठ्यादिष्वतिप्रसङ्गः वचनप्रामाण्यादिति चेद्रथकठ्यादिषु दोषो भवति । रथकट्या गर्गकाम्या ।। नैषः दोषः । येन नाऽव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्। केन च नाऽव्यवधानम् ? ।। वर्णेनैकेन ।। सङ्घातेन पुर्नव्यवधानं भवति(3), न भवति च ।
अथ वा पुनरस्तु सङ्घातग्रहणम् ।। ननु चोक्त मित्वे कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिरिति ।। परिहृतमेतत्--वचनाद्भविष्यतीति(4) ।। ननु चोक्तम्स्ति वचने प्रयोजनम् । किम् । कारिका हारिकेति ।। अत्राप्येकादेशे कृते व्यपवर्गाऽभावन्न प्राप्नोति ।। अन्तादिवद्भावेन व्यपवर्गः ।। उभयत आश्रये नान्तादिवत् ।। एवं तर्हि-- एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यपवर्गः ।। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति--भवत्येवं जातीयकानामपीत्त्वमिति यदयं न यासयोरिति प्रतिषेधं शास्ति ।।
मामकनरनयोरुपसङ्ख्यानमप्रत्ययस्थत्वात्(1)
मामकनरकयोरुपसङ्ख्यानं कर्तव्यम् । मामिका नरिका ।। किं पुनः कारणं न सिध्यति ? ।। अप्रत्ययस्थात्वात्(2) त्यत्तयपोश्च प्रतिषिद्धत्वात् त्यक्त्यपोश्चोपसङ्ख्यानं कर्तव्यम् । दाक्षिणात्यिका ःथ्द्य;हत्यिका(3) ।।
किं पुनः कारणं न सिध्यति ? ।। प्रतिषिद्धत्वात् । उदीचामातः स्थाने यकपूर्वाया ःथ्द्य;ति प्रतिषिद्धत्वात् ।। ( प्रत्ययस्थात्कात् ) ।।
-7-3-45- न यासयोः
न यत्तदोः(4) न यत्तदोरिति वक्तव्यम् ।। ःथ्द्य;हापि यथा स्यात्-यकामधीमहे(5), तकां पचामह(6) ःथ्द्य;ति प्रतिषेधे त्यकन उपसङ्ख्यानम् प्रतिषेधे त्यकन उपसङ्ख्यानं कर्तव्यम् । उपत्यका अधित्यका ।। तत्तर्हि उपसङ्ख्यानं कर्तव्यम् ? ।। न कर्तव्यम् । आचार्यप्रवृत्तिर्ज्ञापयति -- नैवंजातीयकानामित्वं भवतीति यदयं मृदस्तिकन्नितीत्वभूतं निर्देशं करोति पावकादीनां छन्दस्युसङ्ख्यानम् पावकादीनां छन्दस्युपसङ्ख्यानं कर्तव्यम् हिरण्यवर्णाः शुचयः पावकाः । ऋक्षकाः(2) अलोमकाः ।। छन्दसीति किमर्थम् ? ।। पाविका अलोमिका आशिषि चोपसङ्ख्यानम् आशिषि चोपसङ्ख्यानं कर्तव्यम् । जीवतात् जीवका । नन्दतान्नन्दका । भवताद्भवका उत्तरपदलोपे चोपसङ्ख्यानम् उत्तरपदलोपे चोपसङ्ख्यानं कर्तव्यम् । देवदत्तिका देवका । यज्ञदत्तिका यज्ञका क्षिपकादीनां(3) चोपसङ्ख्यानम् क्षिपकादीनां चोपसङ्ख्यानं कर्तव्यम् । क्षिपका ध्रुवका धुवका चटका(4) तारका(3) । ज्योतिष्युपसङ्ख्यानम्।। तारका ज्योतिष्युपसङ्ख्यानं कर्तव्यम्। तारका। ज्योतिषीति किमर्थम् ? ।। तारयतीति तारिका दासी वर्णका तान्तवे उपसङ्ख्यानम् वर्णका तान्तवे उपसङ्ख्यानं कर्तव्यम् । वर्णका । तान्तव ःथ्द्य;ति किमर्थम् ? ।। वर्णिका भागुरी लोकायतस्य वर्तका शकुनौ प्राचामुपसङ्ख्यानम् वर्तका शकुनौ प्राचामुपससङ्ख्यानं कर्तव्यम् वर्त्तका शकुनिः ।। शकुनाविति किमर्थम् ? ।। वर्तिका भागुरी लोकायतस्य । प्राचामिति किमर्थम् ? ।। वर्त्तिका अष्टका(1) पितृदेवत्ये उपसङ्ख्यानम् अष्टका पितृदेवत्ये उपसङ्ख्यानं कर्तव्यम् । अष्टका । पितृदेवत्य ःथ्द्य;ति किमर्थम् ? ।। अष्टिका खारी वा सूतकापुत्रकावृन्दारकाणामुपससङ्ख्यानम् वा सूतकापुत्रकावृन्दारकाणामुपसङ्ख्यानं कर्तव्यम् । सूतका-सूतिका ।। पुत्रका-पुत्रिका । वृन्दारका(2) वृन्दारिका ।। (नया)
-7-3-46- उदीचामातः स्थाने यकपूर्वायाः
किमर्थं स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्येत्येवोच्येत ? ।। स्त्रीविषयो य आकारस्तस्य स्थाने योऽकारस्तस्य प्रतिषेधो यथा स्यादिह मा भूत्-शुभं यातीति शुभंयाः शुभंयिका । भद्रंयाः- भद्रंयिका(3) यकपूर्वे धात्वन्तप्रतिषेधः यकपूर्वे धात्वन्तप्रतिषेधो वक्तव्यः ।। किं प्रयोजनम् ? ।। सुनयिका सुशयिका अशोकिका अपाकिका ।। ( उदीचामातः स्थाने ) ।।
-7-3-47- भस्त्रैषाजाज्ञाद्वास्वानञ्ञ्पूर्वाणामपि
एषाद्वे नञ्ञ्पूर्वे अनुदाहरणे असुप ःथ्द्य;ति प्रतिषेधात्(1) ।। अथ भस्त्राग्रहणं किमर्थं, न अभाषितपुंस्कादित्येव सिद्धम् ? ।। भस्त्राग्रहणमुपसर्जनार्थम् उपसर्जनार्थोऽयमारम्भः । अभस्त्रका(2) अभस्त्रिका(3) नञ्ञ्पूर्वग्रहणानर्थक्यं चोत्तरपदमात्रस्येद्वचनात्।। नञ्ञ्पूर्वग्रहणं चानर्थकम् किं कारणम् ? ।। उत्तरपदमात्रस्येद्ववचनात्(3) । उत्तरपदमात्रस्येत्वं वक्तव्यम् । निर्भस्त्रका निर्भस्त्रिका । बहुभस्त्रका--बहुभस्त्रिका ।।
-7-3-50- ठस्येकः
किमिदं ठादेशे वर्णग्रहणमाहोस्वित्सङ्घातग्रहणम् ? ।। कश्चात्र विशेषः ? ठादेशे वर्णग्रहणं चेद्धात्वन्तप्रतिषेधः ठादेशं वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधो वक्तव्यः(1) । पठिता(2) । पठितुम् ।। अस्तु तर्हि सङ्घातग्रहणम् सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेधः सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेधो वक्तव्यः । उणादीनां तावत्--कण्ठः(3) शण्ठः वण्ठः । ःथ्द्य;ह च(4) मथितं
पण्यमस्य माथितिक ःथ्द्य;ति,--अकारलोपे कृते तान्तादिति कादेशः प्राप्नोति । वर्णग्रहणे पुनः सत्यल्विधिरयं भवति तस्माद्विशिष्टग्रहणम् तस्माद्विशिष्टस्य ठकारस्य ग्रहणं कर्तव्यम् ।। ( तत्तर्हि कर्त्तव्यम्(5) ? । ) न कर्तव्यम् ।। अस्तु तावद्वर्णग्रहणम् । ननु चोक्तं ठादेशे वर्णग्रहणं चेद्धात्वन्तप्रतिषेध(1)ःथ्द्य;ति ।। नैषः दोषः-अङ्गादिति वर्तते ।। न वै अङ्गादिति पञ्ञ्चम्यस्ति ।। एव तर्हि प्रत्ययस्थस्येति वर्तते ।। क्व प्रकृतम् ? ।। प्रत्ययस्थात्कात्पूर्वस्यात ःथ्द्य;दाप्यसुप ःथ्द्य;ति ।। तद्वै पञ्ञ्चमीनिर्दिष्टं षष्ठीनिर्दिष्टेन चेहाऽर्थः ।। अर्थाद्विभक्तिविपरिणामो(2) भविष्यति । तद्यथा--उच्चानि देवदत्तस्य गृहाणि ।। आमन्त्रयस्वैनम्। देवदत्तमिति गम्यते। देवदत्तस्य गावोऽश्वा हिरण्यञ्ञ्च(2) । आढ्यो वैधवेयः । देवदत्त ःथ्द्य;ति गम्यते ।
पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं,द्वितीयानिर्दिष्टं च भवति । एवमिहापि -पुरस्तात्पञ्ञ्चमीनिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति।। एवमप्युणादीनां प्रतिषेधो वक्तव्यः ।। न वक्तव्यः । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि
एवमपि कर्मठ ःथ्द्य;त्यत्र प्राप्नोति ।। एवं तर्ह्यङ्गस्येति संबन्धषष्ठी विज्ञास्यते-- अङ्गस्य यष्ठकारः ।। किञ्ञ्चाऽङ्गस्य ठकारः ? ।। निमित्तम् ।। यस्मिन्नङ्गमित्येतद्भवति ।। कस्मिंश्चैतद्भवति ? ।। प्रत्यये ।।
अथ वा पुनरस्तु सङ्घातग्रहणम् ।। ननु चोक्तं सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेध ःथ्द्य;ति ।। उणादीनां तावत्प्रतिषेधो न वक्तव्यः । परिहृतमेतत्--उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति । यदप्युच्यते--ःथ्द्य;ह च मथितं पण्यमस्य माथितिक ःथ्द्य;त्यकारलोपे कृते तान्तादिति कादेशः प्राप्नोतीति ।। नैषः दोषः --अकारलोपस्य स्थानिवद्भावान्न भविष्यति ।। न सिध्यति-पूर्वविधौ स्थानिवद्भावो न चायं पूर्वविधिः ।। अयमपि पूर्वविधिः । पूर्वस्मादपि विधिः पूर्वविधिरिति ।। अथाप्युणादयो व्युत्पाद्यन्ते एवमपि न दोषः, क्रियते न्यास एव विशिष्टग्रहणं--ठस्येति ।। ( ठस्येकः ) ।।
-7-3-51- ःथ्द्य;सुसुक्तान्तात्कः
ःथ्द्य;ह कस्मान्न भवति, -- आशिषा तरति(1)--आशिषिकः । उषा तरति औषिकः ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। अथेह कथं भवितव्यं--दोर्भ्यां तरति(2) ? ।। दौष्क ःथ्द्य;ति भवितव्यम् ।। कथम् ? ।। यदि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते ।। ( ःथ्द्य;सुसुक्तान्तात्कः ) ।।
-7-3-54- हो हन्तेर्ञ्ञ्णिन्नेषु
किमिदं ञ्ञ्णिन्नकारग्रहणं हन्तिविशेषणं ञ्ञ्णिन्नकारपरस्य हन्तेर्यो हकार ःथ्द्य;ति, आहोस्विद्धकारविशेषणं ञ्ञ्णिन्नकारपरस्य हकारस्य, स चेद्धन्तेरिति ? ।। कश्चात्र विशेषः ? हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः । घ्नन्ति घ्नन्तु अघ्नन् ।। अस्तु तर्हि हकारविशेषणम् ।।
हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिर्व्यवहितत्वात्(23) ।। हकारस्येति चञ्ञ्ञ्ञ्णित्यप्राप्तिः। घातयति घातकः ।। किं कारणम्?।। व्यवहितत्वात् । नकारेणव्यवहितत्वान्न प्राप्नोति ।। वचनाद्भविष्यति ।। ःथ्द्य;हापि वचनात्प्राप्नोति--हननमिच्छति हननीयति--हन--नीयतेर्ण्वुल्--हननीयक ःथ्द्य;ति स्थानिवद्भावाच्चाऽचोनकारेऽप्रसिद्धिः स्थानिवद्भावाच्चऽचो नकारेऽप्रसिद्धिः स्यात्(4) । घ्नन्ति घ्नन्तु ।। वचनाद्भविष्यति वचनप्रामाण्यादिति चेदलोपे प्रतिषेधः वचनप्रामाण्यादिति चेदलोपे प्रतिषेधो वक्तव्यः । हन्ता हन्तुम् । ( नकारग्रहणसार्मथ्यादलोपे न(1) )। नकारग्रहणसार्मथ्यादलोपे न भविष्यति ।। अस्त्यन्यन्नकारवचनस्य प्रयोजनम् ।। ? ।। किम् ? ।। श्रूयमाणविशेषणम् । यत्र नकारः श्रूयते तत्र यथा स्यादिह मा भूत्--हतो हथ ःथ्द्य;ति सिद्धं तूपधालोप ःथ्द्य;ति वचनात् सिद्धमेतत् ।। कथम् ? ।। (ठउपधालोप ःथ्द्य;ति वचनात्) । उपधालोपे चेति वक्तव्यम् ।। सिध्यति, सूत्रं तर्हि भिद्यते ।।
यथान्यासमेवाऽस्तु । ननु चोक्तं--हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिरिति ? ।। वचनाद्भविष्यति ।। अथ वा पुनरस्तु--हकारविशेषणम् ।। ननु चोक्तं हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिरिति ? ।। वचनाद्भविष्यति ।। ननु चोक्तमिहापि वचनात्प्राप्नोति हननीयक ःथ्द्य;ति ? ।। नैष दोषो, येन नाव्यवधानं तेन व्यवहितेऽपि
वचनप्रामाण्यात् । न च क्वचिद्धात्ववयवेनाऽव्यवधानम्, एतेन पुनः सङ्घातेन व्यवधानं भवति(3), न च भवति । यदप्युच्यते--स्थानिवद्भावाच्चाऽचो नकारेऽप्रसिद्धिरिति । वचनाद्भविष्यति ।। ननु चोक्तं वचनप्रामाण्यादिति चेदलोपे प्रतिषेध ःथ्द्य;ति ।। नैषः दोषः ।। आनन्तर्यमिहाश्रीयते--हकारस्य नकार ःथ्द्य;ति । क्व चिच्च संनिपातदकृतमानन्तर्यं, न शास्त्रकृतमानन्तर्यं(4), क्व चिच्च न सन्निपातकृतं नापि शास्त्रकृतम् । लोपे सन्निपातकृतमानन्तर्यम्, न शास्त्रकृतमानन्तर्यम्(1), अलोपे नैव सन्निपातकृतं नापि शास्त्रकृतम् । यत्र कुतश्चिदेवानन्तर्यं तदाश्रयिष्यामः ।। ( होहन्तेर्ञ्ञ्णिन्नेषु ) ।।
-7-3-55- अभ्यासाच्च
अभ्यासात्कुत्वमसुपः अभ्यासात्कुत्वमसुप ःथ्द्य;ति वक्तव्यम् । ःथ्द्य;ह मा भूत्--हननमिच्छति
हननीयति, हननीयतेः सन् जिहननीयिषतीति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । हन्तेरभ्यासादित्युच्यते न चैष हन्तेरभ्यासः ।। हन्तेरेषोऽभ्यासः(2) ।। कथम् ? ।। एकाचो द्वे प्रथमस्येति ।। एवं तर्हि हन्तेरङ्गस्य योऽभ्यासस्तस्मादित्युच्यते न चैष हन्तेरङ्गस्याऽभ्यासः ।। हन्तेरङ्गस्यैषोऽभ्यासः ।। कथम् ? ।। एकाचो द्वे प्रथमस्येति ।। एवं तर्हि यस्मिन् हन्तिरङ्गं तस्मिन्योऽभ्यासस्तस्मादित्युच्यते, यस्मिंश्चाऽत्र हन्तिरङ्गं न तस्मिन्नभ्यासो, यस्मिंश्चाभ्यासो(3) न तस्मिन्हन्तिरङ्गं भवति । ( अभ्यासाच्च ) ।।
-7-3-56- हेरचङि
अचङीति किमर्थम् ? ।। प्राजीहयदूतम्(1) हेश्चङि प्रतिषेधानर्थक्यमङ्गाऽन्यत्वात् हेश्चङि प्रतिषेधोऽनर्थकः ।। किं कारणम् ? ।। अङ्गान्यत्वपात् । ण्यन्तमेतदङ्गमन्यद्भवति ।। लोपे कृते नाऽङ्गान्यत्वम् ।। स्थानिवद्भावादङ्गान्यत्वमेव ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वविज्ञानार्थम्(2) एवं तर्हि ज्ञापयत्याचार्योऽन्यत्र ण्यधिकस्य कुत्वं भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। प्रजिघाययिषतीत्यत्र कुत्वं सिद्धं भवति ।। ( हेरचङि ) ।।
-7-3-57- सँल्लिटोर्जेः
जिग्रहणे ज्यः प्रतिषेधः जिग्रहणे ज्यः प्रतिषेधो वक्तव्यः जिज्यतुः जिज्युरिति ।। स तर्हि प्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवे(3)त्येवमेतस्य न भविष्यति ।। सा तर्ह्येषा परिभाषा कर्तव्या ? ।। अवश्यं कर्तव्या, अध्याप्य गत ःथ्द्य;त्येवमर्थम् ।।
-7-3-59- न क्वादेः
क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात् क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधः । अनर्थकः(1) प्रतिषेधोऽप्रतिषेधः ।। कुत्वं कस्मान्न भवति ? ।। निष्ठायामनिटः कुत्ववचनात् ।। निष्ठायामनिटः कुत्वं वक्ष्यामि, सेटश्चैते निष्ठायाम् ।। यदि निष्ठायामनिटः कुत्वमुच्यते कथं शोकः समुद्ग ःथ्द्य;ति ? शुच्युब्ज्योर्घञ्ञि कुत्वम् शुच्युब्ज्योर्घञ्ञि कुत्वं वक्तव्यम् ।। कथमर्कः ? अर्चेः कविधानात्सिद्धम्(2) नैतद्धञ्ञन्तम्(3), औणादिक एष कशब्दस्तस्मिन्नाष्टमिकं कुत्वम् ।। ( न क्वादेः ) ।।
-7-3-61- भुजन्युब्जौ पाण्युपतापयोः
भुजः पाणा भुजः पाणाविति वक्तव्यम् ।। कथं न्युब्ज उपतात ःथ्द्य;ति ? न्युब्जेः कर्तृत्वादप्रतिषेधः (न्युब्जेः(1) कर्तृत्वादप्रतिषेधः ।) अनर्थकः प्रतिषेधोऽप्रतिषेधः ।। कुत्वं कस्मान्न भवति ? ।। कर्तृत्वात् । नैतद्धञ्ञन्तम्(1) । कर्तृप्रत्यय एषः । न्युब्जतीति न्युब्जः ।। ननु(1) च अधिकरणसाधनो वै लक्ष्यते घञ्ञ(1), --न्युब्जिताः शेरतेऽस्मिन्न्युब्ज उपताप ःथ्द्य;ति ।। एषोऽपि हि कर्तृसाधन एव ।। कथम् ? ।। न्युब्जयतीति न्युब्जः ।।
-7-3-66- यजयाचरुचप्रवचर्चश्च
प्रवचिग्रहणमनर्थकं वचोऽशब्दसंज्ञाभावात् प्रवचिग्रहणमनर्थकम् ।। किं कारणम् ? ।। वचोऽशब्दसंज्ञाभावात् । वचोऽशब्दसंज्ञायां प्रतिषेध उच्यते, प्रपूर्वश्च वचिरशब्दसंज्ञायां वर्तते । उपसर्गनियमार्थम् उपसर्गनियमार्थं तर्हीदं(1) वक्तव्यम् । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो यथा
स्यादिह मा भूत्--अविवाक्यमहरिति उपसर्गपूर्वनियमार्थमिति(3) चेदविवाक्यस्य विशेषवचनात्सिद्धम् (उपसर्गपूर्वनियमार्थमिति(4) चेदविवाक्यस्य विशेषवचनात्सिद्धमेतत्) । विशेषत(5) एव तद्वक्तव्यम् अविवाक्यमहरिति ।। क्व माभूत् ? ।। अविवाच्यमेवान्यदिति ण्यप्रतिषेधे त्यजेरुपसङ्ख्यानम् ण्यप्रतिषेधे त्यजेरुपसङ्ख्यानं कर्तव्यम् । त्याज्यम् ।।
-7-3-69- भोज्यम्भक्ष्ये
भोज्यमभ्यवहार्ये(6) भोज्यमभ्यवहार्य ःथ्द्य;ति वक्तव्यम् । ःथ्द्य;हापि यथा स्यात्--भोज्यः सूपः भोज्या यवागूरिति ।। किं पुनः कारणं न सिध्यति ? ।। भक्षिरयं खरविशदे एव(6) वर्तते तेन द्रवे न प्राप्नोति ।। नावश्यं भक्षिः खरविशदे एव वर्तते ।। किं तर्हि ? ।। अन्यत्रापि वर्तते । तद्यथा--अब्भक्षो वायुभक्ष ःथ्द्य;ति ।। ( भोज्यं भक्ष्ये ) ।।
-7-3-70- घोर्लोपो लेटि वा
वेति शक्यमवक्तुम्(1) कस्मान्न भवति--तदन्गिरन्गिये ददात् ? ।। अस्त्वत्र लोपः, आटः भविष्यति । तेनोभयं सिध्द्यति--दधद्रत्नानि दाशुषे । दधाद्रत्नानि दाशुषे ।। ( घोर्लोपो लेटि वा ) ।
-7-3-71- ओतः श्यनि
ओतः शिति ओतः शितीति वक्तव्यम् ।। किं प्रयोजनम् ? ।। उत्तरत्र शिद्ग्रहणाऽभावाय तत्रायमप्यर्थः ष्ठिबुक्लमुचमां शितीति शिद्ग्रहणं न कर्तव्यं भवति ।। ननु च भोः श्यन्ग्रहणमपि तर्ह्यत्तरार्थं कर्त्तव्यम् । शमामष्टानां दीर्घः श्यनीति श्यन्ग्रहणं न कर्तव्यं भवति ।। अत्राप्यस्तु--शितीत्येव । यदि(4) शितीत्युच्यते अनुत्वेन्द्रो भ्रमतु मदतु--अत्रापि प्राप्नोति।। शमादिभिरत्र शितं विशेषयिष्यामः---शमादीनां यः शिदिति ।। कश्च शमादीनां शित् ? ।। शमादिभ्यो यो विहितः ।। एवमपि तस्यति यस्यति--अत्र प्राप्नोति ।। अष्टानामिति वचनान्न भविष्यति ।। ( ओतः )
-7-3-75- ष्ठिवुक्लमुचमां शिति
दीर्घत्वमाङि चमः(1) दीर्घत्वमाङि चम(1) ःथ्द्य;ति वक्तव्यम् । आचामति, ःथ्द्य;ह मा भूत्--चमति(2) विचमतीति ।। ( ष्ठिवुक्लमुचमां शिति ) ।।
-7-3-77- ःथ्द्य;षगमियमां छः
ःथ्द्य;षेश्छत्वमहलि ःथ्द्य;षेश्छत्वमहलीति वक्तव्यम् । ःथ्द्य;ह मा भूत् ःथ्द्य;ष्णाति ःथ्द्य;ष्यति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । अचीति वर्तते ।। एवमपीषाणेत्यत्र प्राप्नोति ।। अथाऽहलीत्यप्युच्यमाने(4) कस्मादेवाऽत्र छत्वं(5) न भवति ? ।। नैवं विज्ञायते--न हल् अहल्, अहलीति ।। कथं तर्हि ? ।। अविद्यमानो हलस्मिन्सोऽयमहल, अहलीति ।। यद्येवमचीत्यपि वर्तमाने न दोषः । न ह्यचा शिद्विशेष्यते--शिति भवति, कतरस्मिन् ?, अचीति ।। कथं तर्हि ? ।। शिताऽज्विशेष्यते, -- अचि भवति, कतरस्मिन् ?, शितीति ( ःथ्द्य;षगमियमां छः ) ।।
-7-3-78- पाघ्राध्मास्थाम्नाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छर्पश्यच्छधौशीयसीदाः
पिबेर्गुणप्रतिषेधः पिबेर्गुणप्रतिषेधो वक्तव्यः, पिबति--लघूपधगुणः प्राप्नोति । स तर्हि प्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः ।। गुणः(1) कस्मान्न भवति ? ।। पिबतिरदन्तः(2) । अदन्त ःथ्द्य;ति चेदुक्तम् किमुक्तम् । धातोरन्त ःथ्द्य;ति चेदनुदात्ते च--बग्रहणमिति । अथ वाऽङ्गवृत्ते पुनर्वृत्ताबविधिर्निष्ठितस्येत्येवं न भविष्यति ।। ( पाघ्राध्मास्थाम्ना ) ।।
-7-3-79- ज्ञाजनोर्जा
दीर्घोच्चारणं किमर्थं, न ज्ञाजनोर्ज ःथ्द्य;त्येवोच्येत ? ।। का रूपसिद्धिः--जा नाति जायते ? ।। अतो दीर्घो यञ्ञीति दीर्घत्वं भविष्यति ।। एवं तर्हि सिद्धे सति यद्दीर्धोच्चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा(3)-- अङ्गवृत्ते पुनर्वृत्तावविधिरिति(4) ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। पिबतेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ।। ( ज्ञाजनोर्जा ) ।।
-7-3-83- जुसि च
जुसि गुणे यासुट्प्रतिषेधः जुसि गुणे यासुडादौ प्रतिषेधो वक्तव्यः । चिनुयुः सुनुयुरिति ।। (स तर्हि प्रतिषेधो वक्तव्यः ? ) । न वक्तव्यः । नैवं विज्ञायते--मिदेर्गुणः जुसि चेति ।। कथं तर्हि ? ।। मिदेर्गुणोऽजुसि चेति ।। किमिदम्-- अजुसीति ? ।। अजादावुस्यजुसीति ।। ःथ्द्य;हाऽपि तर्हि प्राप्नोति--चक्रुः जह्रुरिति ? ।। एवं तर्हि शितीति वर्तते ।। एवमप्यजुहवुः अबिभयुरित्यत्र न प्राप्नोति ।। ननु च(1) भूतपूर्वगत्या भविष्यति ।। न सिध्यति, न ह्युस् शिद्भूतपूर्वः ।। उस् शिद्भूतपूर्वो नास्तीति कृत्वा उसि यश्शिद्भूतपूर्वस्तस्मिन् भविष्यति ।। अथ वा क्रियते न्यास एव--अविभक्तिको निर्देशः । नैवं विज्ञायते--मिदेर्गुणो जुसि चेति ।। कथं तर्हि ? ।। मिदेर्गुण उ जुसि(1) चेति ।। किमिदमु जुसीति ? ।। उकारादौ जुसि (उ जुसिति) । अथ वाऽचीति वर्तते तेन जुसं विशेषयिष्यामोऽजादौ जुसिति ।। (जुसि च) ।।
-7-3-85- जाग्रोऽविचिण्णल्ङित्सु
ःथ्द्य;ह जागरयति जागरक ःथ्द्य;ति गुणे कृते रपरत्वे चाऽत उपधाया ःथ्द्य;ति वृद्धिः प्राप्नोति तस्याः प्रतिषेधो वक्तव्यः चिण्णलोः प्रतिषेधसार्मथ्यादन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः यदयमचिण्णलोरिति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो न गुणाभिनिर्वृत्तस्य वृद्धिर्भवतीति ।।
किं पुनरयं पर्युदासो--यदन्यद्विचिण्णल्ङिभ्द्य ःथ्द्य;ति, आहोस्वित्प्रसज्याऽयं प्रतिषेधो--विचिण्णल्ङित्सु नेत्ति ? ।। कश्चाऽत्र विशेषः ? प्रसज्य प्रतिषेधे जुसि गुणप्रतिषेधप्रसङ्गः उत्तमे च(2) णलि प्रसज्य प्रतिषेधे जुसि गुणप्रतिषेधः प्राप्नोति -- अजागरुः । । उत्तमे च णलि । । उत्तमेचणलि प्रतिषेधः प्राप्नोति--अहं जजागर(3) न वाऽनन्तरस्य प्रतिषेधात् । न वैष दोषः ।। किं कारणम् ? ।। अनन्तरस्य प्रतिषेधात् । अनन्तरं यद्गुणविधानं(4) तस्य प्रतिषेधः ।। कुत एतत् ? ।। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । जुसि पूर्वेण गुणविधानम् जुसि पूर्वेण गुणो विधीयते जुसि चेति । णलि च (णलि(5) च ) । किम् ? ।। न वानन्तरस्य(6) प्रतिषेधादित्येव । णलि च पूर्वेण गुणो विधीयते--सार्वधातुकार्धधातुकयोरिति ।।
अथ वा पुनरस्तु पर्युदासः अतोऽन्यत्र विधाने वावगुणत्वम् अतोऽन्यत्र विधाने वावगुणत्वं वक्तव्यम् । जागृविः । न वा पर्युदाससार्मथ्यात् न वा वक्तव्यम् ।। किं कारणम् ? ।। (ठपर्युदाससार्मथ्यात्) । पर्युदाससार्मथ्यादत्र गुणो न भविष्यति ।। अस्त्यन्यत्पर्युदासे प्रयोजनम् ।। किम् ? ।। क्विबर्थं पर्युदासः स्यात् । शुद्धपरस्य विशब्दस्य प्रतिषेधेग्रहणम्, अनुनासिकपरश्च क्वौ विशब्दः ।। वस्वर्थन्तर्हि पर्युदासः स्यात् जागृवांसो अनुग्मन् ।। कथं पुनर्वेः पर्युदास उच्यमानो वस्वर्थः(2) शक्यो विज्ञातुम् ? ।। सार्मथ्याद्वस्वर्थमिति विज्ञास्येत । वस्वर्थमिति चेन्न सार्वधातुकत्वात्सिद्धम् वस्वर्थमिति चेत्तन्न ।। किं कारणम् ? ।। सार्वधातुकत्वात्सिद्धम् । ( सार्वधातुकत्वात्सिद्धमेतत् ) ।। कथं सार्वधातुकसंज्ञा ? ।। छान्दसः क्वसुः, लिट्च छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपिन्डिदिति ङित्त्वात्पर्युदासो भविष्यति ।। अथ वा वकारस्यैवेदमशक्तिजेनेकारेण ग्रहणम् ।। ( जाग्रोऽविचिण्णल्ङित्सु ) ।।
-7-3-86- पुगन्तलघूपधस्य च
संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति संयोगे गुरुसंज्ञायां भेत्ता भेत्तुमिति गुणो न प्राप्नोति । विध्यपेक्षं(1) लघोश्चासौ विध्यपेक्षं लघुग्रहणं कृतं, लघोश्चाऽसौ विहितः ।
कथं कुण्डिर्न दुष्यति ? कुण्डिता हुण्डिता,--अत्र कस्मान्न भवति ? धातोर्नुम्विधावुक्तं, तत्र धातुग्रहणस्य प्रयोजनं धातूपदेशावस्थायामेव नुम्भवतीति । कथं रञ्ञ्जेः(2) कथं रञ्ञ्जेरुपधालक्षणा वृद्धिः(3) ? --आश्चार्यो रागः विचित्रो रागः स्यन्दिश्रन्थ्योर्निपातनात् यदयं स्यन्दिश्रन्थ्योरवृध्द्यर्थं निपातनं करोति तज्ज्ञापयत्या चार्यो--भवत्येवञ्ञ्जातीयकानां वृद्धिरिति ।।
अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः अनङ्लोपः(4)--दन्धा सक्थ्ना । शिदीर्घत्वं(4)-- कुण्डानि वनानि ।। एवं तर्हि--- अभ्यस्तस्य(1) यदाऽहाचि यदयं नाऽभ्यस्तस्याचि पिति सार्वधातुक ःथ्द्य;त्यज्ग्रहणं करोति तज्ज्ञापयत्याचार्यो--भवत्येवंजातीयकानां गुण ःथ्द्य;ति लङर्थं तत्कृतं भवेत् लङर्थमेतत्स्यात्--अनेनेक् क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं
स्याल्लघोर्गुणे
यदयं त्रसिगृधिधृषिक्षिपेः क्नुः ःथ्द्य;को झल् हलन्ताच्चेति क्नुसनौ कितौ करोति तज्ज्ञापयत्याचार्यो--भवत्येवंजातीयकानां गुण ःथ्द्य;ति ।।
संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति ।
विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ।। 1 ।।
धातोर्नुमः कथं रञ्ञ्जेः स्यन्दिश्रन्थ्योर्निपातनात् ।
अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।। 2 ।।
अभ्यस्तस्य यदाऽहाचि लङर्थं तत्कृतं भवेत् ।
क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ।।3।।
-7-3-87- नाभ्यस्तस्याचि पिति सार्वधातुके
अभ्यस्तानामुपदाह्रस्वत्वमचि पस्पशाते चाकशीमि वावशतीरिति दर्शनात् अभ्यस्तानामुपधा(या) ह्रस्वत्वमचि वक्तव्यम् ।। किं प्रयोजनम् ? ।। पस्पशाते चाकशीमि वावशतीरिति दर्शनात्(1) । पस्पशाते चाकशीमि वावशतीरिति प्रयोगो दृश्यते । कपोतः शरदं पस्पशाते । अहं भुवनं चाकशीमि । वावशतीरुदाजदिति बहुलं छन्दस्यानुषग्जुजोषदिति दर्शनात् बहुलं छन्दसीति वक्तव्यमुपधाह्रस्वत्वलम् ।। किं प्रयोजनम् ? ।। आनुषग्जुजोषदिति दर्शनात् । यस्त आतिथ्यमानुषग्जुजोषत् ।। यद्युपधाह्रस्वत्वमुच्यते प्रियां मयूरः प्रिति नर्नृतिती । यद्वत्त्वं नरवर ! नर्नृतीषि हृष्टः(2)--- अत्र गुणः प्राप्नोति । तस्मान्नाऽर्थ उपधाह्रस्वत्वेन ।।
कस्मान्न भवति--पस्पशाते चाकशीति वावशतीरिति ? ।। स्पशिकशिवशयः(3) प्रकृत्यन्तराणि ।। ( नाभ्यस्तस्याचि पिति सार्वधातुके ) ।।
-7-3-88- भूसुवोस्तिङि
भूसुवोः प्रतिषेधे तिङि(1) एकाज्ग्रहणं बोभवीत्यर्थम्(4) भूसुवोः प्रतिषेधे एकाज्ग्रहणं कर्तव्यम् ।। किं प्रयोजनम् ? ।। बोभवतीत्यर्थम्(1) । ःथ्द्य;ह मा भूत् बोभवतीति ।। यद्येकाज्ग्रहणं क्रियते--अभूत्--अत्र न प्राप्नोति ।। क्व तर्हि स्यात् ? ।। मा भूत् ।। तस्मान्नाऽर्थ एकाज्ग्रहणेन ।। कस्मान्न भवति बोभवतीति ? ।। बोभूत्वित्येतन्नियमार्थम् बोभूत्वित्येतन्नियमार्थं भविष्यति अत्रैव यङ्लुगन्तस्य गुणो न भवति नान्यत्रेति ।। क्व मा भूत्--बोभवतीति । ( भूसुवोस्तिङि ) ।।
-7-3-92- तृणह ःथ्द्य;म्
किमर्थं तृहिरागतश्र्नम्को गृह्यते न तृहेरिम्भवतीत्येवोच्येत ? ।। तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थम् तृणहिग्रहणं (क्रियते(4) ।। किं प्रयोजनम् ? ।। श्र्नमिमोर्व्यवस्थार्थम् । ) श्र्नमि कृते ःथ्द्य;म्यथा स्यात् तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वात् तृहिग्रहणे हि सतीम्विषये श्र्नमोऽभावः स्यात् ।। किं कारणम् ? ।। अनवकाशत्वात् । अनवकाश ःथ्द्य;म् श्र्नमं बाधेत ।। ःथ्द्य;दमयुक्तं वर्तते ।। किमत्राऽयुक्तम् ? ।। तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थमित्युक्त्वा, तत उच्यते--तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति । तत्र वक्तव्यं- तृणहिग्रहणं श्र्नमिमोर्भावाय, तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । व्यवस्थार्थमित्येव सिद्धं, न ह्यसतो व्यवस्थाऽस्ति(1) ।। ( तृणह ःथ्द्य;म् ) ।।
-7-3-95- तुरुस्तुशम्यमः सार्वधातुके
सार्वधातुक ःथ्द्य;ति वर्तमाने पुनः सार्वधातुकग्रहणं किमर्थम् ? ।। ( सार्वधातुक(2) ःथ्द्य;ति वर्त्तमाने ) पुनः सार्वधातुकग्रहणमपिदर्थम् अपिदर्थोऽयमारम्भः । अध्रिगो शमीध्वंसुशमिशमीध्वं शमीध्वमध्रिगो ।।
-7-3-103- बहुवचने झल्येत्
अतो दीर्घाद्बहुवचन एत्वं विप्रतिषेधेन अतो दीर्घाद्बहुचन एत्वं भवति विप्रतिषेधेन । अतो दीर्घो यञ्ञि सुपि चेत्यस्यावकाशः--वृक्षाभ्यां प्लक्षाभ्याम् । बहुवचने झल्येदित्यस्यावकाशो--वृक्षेषु ल्पक्षेषु
। ःथ्द्य;होभयं प्राप्नोति--वृक्षेभ्यः ल्पक्षेभ्यः । एत्वं भवति विप्रतिषेधेन ।। ( बहुवचने ) ।
-7-3-107- अम्बार्थनद्योर्ह्रस्वः
( डलकवतीनां प्रतिषेधः ) ।। डलकवतीनां प्रतिषेधो वक्तव्यः । अम्बाडे ! अम्बाले ! अम्बिके ! तल्(1) ह्रस्वत्वं वा ङिसंबुध्द्योः तल्ह्रस्वत्वं(2) वा ङिसंबुध्द्योरिति वक्तव्यम् । देवत देवते । देवतायां देवते ।।
स तर्हि प्रतिषेधो वक्तव्यः ?।। न वक्तव्यः ।। स कथं न वक्तव्यो भवति ? अम्बार्थं व्द्यक्षरं यदि यद्यम्बार्थं व्द्यक्षरं गृह्यते ।।
तत्तर्हि ह्रस्वत्वं वक्तव्यम् ? ।। ( अवश्यं छन्दसि ह्रस्वत्वमुपगायन्त मां पत्नयो गर्भिणयो युवतय ःथ्द्य;त्येवमर्थम् ) । अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यम्--उपगायन्तुं मां पत्नयो गर्भिणयो युवतय ःथ्द्य;त्येवमर्थम् ।। मातॄणां मातच्पुत्रार्थमर्हते मातॄणां मातजादेशो वक्तव्यः ।। (किं प्रयोजनम् ? ।।) । पुत्रार्थमर्हते । गार्गीमात वात्सीमात ।। ( अम्बार्थनद्योर्ह्रस्वः ) ।।
-7-3-108- ह्रस्वस्य गुणः
ःथ्द्य;ह कस्मान्न भवति--नदि कुमारि किशोरि ब्राह्मणि ब्राह्मबन्धु ? ।। ह्रस्ववचनसार्मथ्यात्(1) ।
अस्त्यन्यद्ह्रस्ववचने प्रयोजनम् ? ।। किं(2) ? ।। पृथग्विभक्तिं मोच्चीचरमिति ।। शक्या(3) पृथग्विभक्तिरनुच्चारयितुम् ।। कथम्(2) ? ।। एवमयं ब्रूयात् आम्बार्थानां ह्रस्वः नदीह्रस्वयोर्गुण ःथ्द्य;ति ।। यद्येवमुच्यते जसि चेत्यत्र नद्या अपि गुणः प्राप्नोति ।। एवं तर्हि योगविभागः करिष्यते--अम्बार्थनद्योर्ह्रस्वः । ततो ह्रस्वस्य । ह्रस्वस्य च ह्रस्वो भवति ।। किमर्थमिदं ? ।। गुणं वक्ष्यति तद्वाधनार्थम् ।। ततो गुणः । गुणश्च भवति ह्रस्वस्येति ।। अथ वा ह्रस्वस्य गुण ःथ्द्य;त्यत्राऽम्बार्थनद्योर्ह्रस्व ःथ्द्य;त्येतदनुवर्तिष्यते ।। ( ह्रस्वस्य गुणः ) ।
-7-3-109- जसि च
जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधायाः जसादिषु छन्दसि वेति वक्तव्यम् ।। किमविशेषेण ? ।। नेत्याह । प्राङ्णौ चङ्युपधायाः।। किं प्रयोजनम् ? ।। अम्बे दर्वि शतक्रत्वः पश्वे नृभ्यः(1) किकिदीव्या अम्बे--अम्ब । दर्वे(2)--दर्वि । शतक्रत्वः--शतक्रतवः । पश्वे नृभ्यः(1),पशवे नृभ्यः(1) । किकिदीव्या--किकिदीविना ।। ( जसि च ) ।।
-7-3-111- घेर्ङिति
घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधः घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधो वक्तव्यः । पट्वी मृद्वी कुरुत ःथ्द्य;ति सुबधिकारात्सिद्धम् (सुबधिकारात्सिद्धम्) । सुबिति वर्तते ।। क्व प्रकृतम् ? ।। सुपि च बहुवचने झल्येदिति ।। (घेर्ङिति) ।।
-7-3-113- याडापः
ःथ्द्य;हातिखट्वाय अतिमालायेति ह्रस्वत्वे कृते स्थानिवद्भवाद्याट्प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । न वक्तव्यः याडि्वधानेऽतिखट्वायेत्यप्रतिषेधो ह्रस्वादेशत्वात् याडि्वधानेऽतिखट्वायातिमालायेत्यप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ।। याट्कस्मान्न भवति(1) ? ।। ह्रस्वादेशत्वात् । ह्रस्वादेशोऽयम् । उक्तमेतत् ड्याब्ग्रहणेऽदीर्घ ःथ्द्य;ति ।। अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते आबसौ(1) भूतपूर्व ःथ्द्य;ति कृत्वा याट्कस्मान्न भवति ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। ननु चेदानीं सत्यपि स्थानिवद्भाव एतया परिभाषया शक्यमुपस्थातुम् ? ।। नेत्याह । न हीदानीं(2) क्वचिदपि स्थानिवद्भावः स्यात् ।। ( याडापः ) ।।
-7-3-116- ङेराम्नद्याम्नीभ्यः
ःथ्द्य;दुभ्द्यामाम्विधानमौत्वस्य परत्वात् ःथ्द्य;दुभ्द्यामाम्विधेयः, --शकट्यां पद्धत्यां धेन्वामिति ।। किं पुनः कारणं न सिध्यति ? ।। औत्वस्य परत्वात् । परत्वादौत्वं प्राप्नोति योगविभागात्सिद्धम् (योगविभागात्सिद्धमेतत्) । योगविभागः करिष्यते ङेराम्नद्याम्नीभ्यः । तत ःथ्द्य;दुद्भ्याम् ।
ःथ्द्य;दुद्भ्यामुत्तरस्य ङेराम्भवतीति । शकट्यां पद्धत्यां धेन्वामिति । तत
औदच्च घेः ।
-7-3-118- औत्
औत्वे योगविभागः औत्वे योगविभागः कर्तव्यः । औत् । औद्भवतीदुभ्द्याम् । ततः अच्च घेरिति । अकारश्च भवति घेरिति ।। किमर्थो योगविभागः ? सखिपतिभ्यामौत्त्वार्थः(2) सखिपतिभ्यामौत्त्वं यथा स्यात् । सख्यौ पत्यौ एकयोगे ह्यप्राप्तिरत्त्वसन्नियोगात् एकयोगे हि सत्यौत्त्वस्याऽप्राप्तिः ।। किं कारणम्?।। अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेनौत्त्वमुच्यते तेन यत्रैवात्वं तत्रैवौत्त्वं स्यात् नवाऽकारस्याऽन्वाचयवचनाद्यथा क्यङि सलोपः न वाऽर्थ औत्त्वे योगविभागेन ।। किं कारणम् ? ।। अकारस्यान्वाचयवनचनात्(3) । प्रधानशिष्टमौत्त्वमन्वाचयशिष्टमत्त्वम् । यथा क्यङि सलोपः । तद्यथा प्रधानशिष्टः क्यङ् प्रातिपदिकमात्राद्भवति । यत्र च सकारस्तत्र लोपः ।।
अत्त्वे टाप्प्रतिषेधः अत्त्वे टापः प्रतिषेधो वक्तव्यः शकटौ पद्धतौ धेनौ । अत्वे कृते (ठऽत ःथ्द्य;ति(4)) टाप् प्राप्नोति न वा सन्निपातलक्षणस्याऽनिमित्तत्वात् न वा वक्तव्यः । किं कारणम् ? ।। सन्निपातलक्षणस्याऽनिमित्तत्वात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न(5) भविष्यति डित्करणाद्वा(6) अथ वा डिदौकारः करिष्यते--औ डिच्च घेः ।
-7-3-119- अच्च घेः
औत्वे योगविभागः औत्वे योगविभागः कर्तव्यः । औत् । औद्भवतीदुभ्द्याम् । ततः अच्च घेरिति । अकारश्च भवति घेरिति ।। किमर्थो योगविभागः ? सखिपतिभ्यामौत्त्वार्थः(2) सखिपतिभ्यामौत्त्वं यथा स्यात् । सख्यौ पत्यौ एकयोगे ह्यप्राप्तिरत्त्वसन्नियोगात् एकयोगे हि सत्यौत्त्वस्याऽप्राप्तिः ।। किं कारणम्?।। अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेनौत्त्वमुच्यते तेन यत्रैवात्वं तत्रैवौत्त्वं स्यात् नवाऽकारस्याऽन्वाचयवचनाद्यथा क्यङि सलोपः न वाऽर्थ औत्त्वे योगविभागेन ।। किं कारणम् ? ।। अकारस्यान्वाचयवनचनात्(3) । प्रधानशिष्टमौत्त्वमन्वाचयशिष्टमत्त्वम् । यथा क्यङि सलोपः । तद्यथा प्रधानशिष्टः क्यङ् प्रातिपदिकमात्राद्भवति । यत्र च सकारस्तत्र लोपः ।।
अत्त्वे टाप्प्रतिषेधः अत्त्वे टापः प्रतिषेधो वक्तव्यः शकटौ पद्धतौ धेनौ । अत्वे कृते (ठऽत ःथ्द्य;ति(4)) टाप् प्राप्नोति न वा सन्निपातलक्षणस्याऽनिमित्तत्वात् न वा वक्तव्यः । किं कारणम् ? ।। सन्निपातलक्षणस्याऽनिमित्तत्वात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न(5) भविष्यति डित्करणाद्वा(6) अथ वा डिदौकारः करिष्यते--औ डिच्च घेः ।
-7-3-120- आङो नाऽस्त्रियाम्
किमर्थमस्त्रियामित्युच्यते नाऽऽङो ना पुंसीत्येवोच्येत ? ।। का रूपसिद्धिः--त्रपुणा जतुना ? ।। नुमा सिद्धम् ।। नैवं शक्यम् ःथ्द्य;ह ह्यमुना ब्राह्मणकुलेनेति मुभावस्याऽसिद्धत्वान्नुम्न स्यात् । अस्त्रियामिति पुनरुच्यमाने न दोषो भवति ।। कथम्(1) ? ।। वक्ष्यत्येतत्नमुटादेशःथ्द्य;ति ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते सप्तमस्य तृतीये द्वितीयमाह्निकम् ।। पादः समाप्तः
-9-9-999-