महाभाष्यम्/सप्तमोऽध्यायः/द्वितीयः पादः

7-2
-7-2-1- सिचि वृद्धिः परस्मैपदेषु
।। सिचि वृद्धावोकारप्रतिषेधः ।। सिचि वृद्धावोकारस्य प्रतिषेधो वक्तव्यः । उदवोढम् (1)। उदवोढम्(1) । उदवोढेति(1) ।। स तर्हि प्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः । ।। ओकाराद्वृद्धिर्विप्रतिषेधेन ।। (ओकाराद्वृद्धिर्भवति(2) विप्रतिषेधेन) । ओत्वं क्रियतां वृद्धिरिति । (किमत्र कर्तव्यम् ? ।।) वृद्धिर्भविष्यति विप्रतिषेधेन ।। ओकाराद्वृद्धिर्विप्रतिषेधेनेति चेदोत्वाऽभावः ।। ओकाराद्वृर्विप्रतिषेधेनेति चेदोत्त्वस्याऽभावः । उदवोढाम् उवोढम्(1) उदवोढेति ।। नैषः दोषः । उक्तं तत्र वर्णग्रहणस्य प्रयोजनं वृद्धावपि कृतायामोत्त्वं यथा स्यात् ।। पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् ।। अथ वा पुनः प्रसङ्गादत्र वृद्धौ कृतायामोत्वं भविष्यति ।। यथा प्रसारणादिषु(4) द्विर्वचनम् ।। तद्यथा--जग्ले मम्ले ःथ्द्य;र्जतुः ःथ्द्य;र्जुरिति प्रसारणादिषु(4) पुनः प्रसङ्गविज्ञानाद्विर्वचनं भवति ।।
ःथ्द्य;हापि तर्हि पुनःप्रसङ्गविज्ञानादोत्वं स्यात्--सौढामित्रिरिति ।। सौढामित्रौ बहिरङ्गलक्षणत्वात्सिद्धम् ।। (सौढामित्रौ(1) बहिरङ्गलक्षणत्वात्सिद्धम् ।) ।। बहिरङ्गलक्षणा वृद्धिरन्तरङ्गमोत्त्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ।।
-7-2-2- अतो ल्रान्तस्य(1)
अन्तग्रहणं किमर्थं नाऽतो ल्र(2) ःथ्द्य;त्येवोच्यत ? ।। केनेदानीं तदन्तस्य भविष्यति ? ।। तदन्तविधिना ।। ःथ्द्य;दं तर्हि प्रयोजनम्---अयमन्तशब्दोस्त्येवाऽवयववाची । तद्यथा---वस्त्रान्तो वसनान्तः । अस्ति सामीप्ये वर्त्तते । तद्यथा---उदकान्तं गतः । उदकसमीपं गत ःथ्द्य;ति गम्यते । तद्यः सामीप्ये वर्त्तते तस्येदं ग्रहणं यथा विज्ञायेत्(3) । अङ्गान्तौ यौ रेफलकारौ तयोः समीपे योऽकारस्तस्य(4) यथा स्यात् । ःथ्द्य;ह माभूत्--अश्वल्लीत् अवभ्रीत् । ( अतोल्रा ) ।।
-7-2-3- वदव्रजहलन्तस्याचः
हल्ग्रहणं किमर्थम् ।। समुच्चयो यथा विज्ञायेत -- वदिव्रज्योश्च हलन्तस्य(1) चाऽचःथ्द्य;ति । नैतदस्ति प्रयोजनम्, अज्ग्रहणादेवाऽत्र समुच्चयो भविष्यति--- वदिव्रज्योश्चाऽचश्चेति ।। अस्त्यन्यदज्ग्रहणे प्रयोजनम् ।। (किम्(2) ?) ।। वदिव्रजिविशेषणं यथा विज्ञायेत--वदिव्रज्योरच ःथ्द्य;ति ।। यद्येतावत्प्रयोजनं स्याद्वदिव्रज्योरत ःथ्द्य;त्येव(3) ब्रूयात् । अथ वैतदपि न ब्रूयात् । अत ःथ्द्य;ति वर्तते ।। ःथ्द्य;दं तर्हि प्रयोजनं---हलन्तस्य यथा स्यादजन्तस्य मा भूत् ।। कस्य पुनरजन्तस्य प्राप्नोति ? ।। अकारस्य । अचीकीर्षीत् । अजिहीर्षीत् ।। लोपोऽत्र बाधको भविष्यति ।। आकारस्य तर्हि प्राप्नोति---अयासीत् अवासीत् ।। नास्त्यत्र विशेषः--सत्यां वा वृद्धावसत्यां वा ।। सन्ध्यक्षरस्य तर्हि प्राप्नोति ।। नवै सन्ध्यक्षरमन्त्यमस्ति ।। ननु चेदमस्ति ढलोपे कृते उदवोढामुदवोढमुदवोढेति(1) ? ।। असिद्धो ढलोपस्तस्याऽसिद्धत्वान्नैतदन्त्यं भवति ।।
अत उत्तरं पठति---।। हल्ग्रहणमिटि प्रतिषेधार्थम् ।। हल्ग्रहणं क्रियते ।। (किं प्रयोजनम् ?) ।। ःथ्द्य;टिप्रतिषेधार्थम् । नेटीति प्रतिषेधं वक्ष्यति स हलन्तस्य यथा स्यादजन्तस्य मा भूत्, ---अलावीत् अयावीत्(4) । ।। न वाऽनन्तरप्रतिषेधात् ।। न वैतत्प्रयोजनमस्ति ।। किं कारणम्।।अनन्तरस्य(5) प्रतिषेधात् । अनन्तरं यद्वृद्धिविधानं तत्प्रतिषिध्यते ।।
कुत एतत् ? ।। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ।। तच्चानन्त्यार्थम् ।। तच्चाऽनन्तरं वृद्धिविधानमनन्त्यार्थं विज्ञायते ।। कथं पुनर्ज्ञायतेऽनन्तरं वृद्धिविधानमनन्त्यार्थमिति ।। अन्त्यस्य(7) वचनार्थक्यात् ।। अन्त्यस्य वृद्धिविधाने प्रयोजनं नास्तीति कृत्वाऽनन्तरं वृद्धिविधानमनन्त्यार्थं विज्ञायते ।। (।। अतो विभाषार्थन्तु (1)।।) अतो विभाषार्थं तर्हीदं वक्तव्यम् । अतो हलादेर्लघोरिति विभाषा वृद्धिं वक्ष्यति सा हलन्तस्य यथा स्यादजन्तस्य मा भूत्---अचिकीर्षीत् अजिर्हीषीत् -- (ःथ्द्य;ति(1))।।
।। अतो विभाषार्थमिति चेत्तत्सिद्धं (2)वृद्धेर्लोपबलीयस्त्वात् ।। अतो विभाषार्थमिति चेत्तदन्तरेणापि हल्ग्रहणं सिद्धम् ।। कथम् ? ।। वृद्धेर्लोपबलीयस्त्वात् । वृद्धेर्लोपो बलीयान्भवतीति । ःथ्द्य;दमिह संप्रधार्यं--वृद्धिः क्रियतां लोप ःथ्द्य;ति, किमत्र कर्तव्यम् ? ।। परत्वाद्वृद्धिः ।। नित्यो लोपः --- कृतायामपि वृद्धौ
प्राप्नोत्यकृतायामपि ।। अनित्यो लोपो, न(3) हि कृतायां वृद्धौ प्राप्नोति, परत्वात्सगिड्भयां
भवितव्यम् ।। नात्र सगिटौ प्राप्नुतः ।। किं कारणम् ? ।। एकाचस्तौ वलीति वा ।। एकाचः सगिटावुच्येते ।। अथ वा वलीति तत्रानुवर्तते ।। किं पुनः कारणमेकाचस्तौ वलीति वा(1) ? ।। दरिद्रातेर्मा भूतामिति (2)। दरिद्रातेर्न सगिड्भयां भवितव्यम् ।। किं कारणम्(3) ? ।। उक्तमेतत्(4)--दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधाविति । यश्चेदानीं प्रत्ययविधौ सिद्धः सिद्धोऽसौ सगिडि्वधौ(5) ।। एवमर्थमेव तर्ह्येकाज्ग्रहणमनुर्वत्यम्--अत्र सगिटौ मा भूतामिति । स एष नित्यो लोपो वृद्धिं बाधिष्यते ।। किं पुनर्भवान् वृद्धेरवकाशं मत्वाह--नित्यो लोप ःथ्द्य;ति ?, अनवकाशा वृद्धिर्लोपं बाधिष्यते ।। सावकाशा वृद्धिः ।। कोऽवकाशः ।। अनन्त्यः---अकणीत् अकाणीत् ।। कथं पुनः सत्यन्त्येऽनन्त्यस्य वृद्धिः स्यात्(2) ? ।। भवेद्योऽताङ्गं विशेषयेत्तस्याऽनन्त्यस्य न स्यात् । वयं तु खल्वङ्गेनाऽकारं विशेषयिष्यामस्तत्राऽनन्त्यो न स्यात् । वयं तु खल्वङ्गेवनाऽकारं विशेषयिष्यामस्तत्राऽनन्त्यो वृद्धेरवकाशोऽन्त्यस्य लोपो बाधको भविष्यति । एवं वृद्धेर्लोपबलीयस्त्वम्(7) ।। (एवं वृद्धेर्लोपो बलीयान् भवति ) ।।
अथ वाऽऽरभ्यते पूर्वविप्रतिषेधो- ण्यल्लोपावियड्य्ण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् -- ःथ्द्य;ति(9) ।। सा तर्ह्येषाऽनन्त्यार्था वृद्धिः--हलन्तस्य यथा स्यादजन्त्यस्य मा भूत्---अपिपठिषीत् ।। एतदपि नास्ति प्रयोजनम् ।। कथम् ? ।। हलादेरितिनैषा बहुव्रीहेः षष्ठी-हल् आदिर्यस्य सोऽयं हलादिः, हलादेरिति ।। का तर्हि(1) ? ।। कर्मधारयात्पञ्ञ्चमी--हल् आदिर्हलादिः, हलादेः परस्येति ।। यदि कर्मधारयात्पञ्ञ्चमी--अचकासीत्, --अत्र प्राप्नोति ।। सिचा आनन्तर्यं विशेषयिष्यामः---हलादेः परस्य
सिच्यनन्तरस्येति ।। यदि सिचाऽऽनन्तर्यं विशेष्यते--अकणीत् अकाणीत्,--अत्र न प्राप्नोति ।। वचनाद्भविष्यति ।। ःथ्द्य;हापि तर्हि वचनात्प्राप्नोति--अचकासीत् ।। येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ।। येन च नाव्यवधानम् ? ।। वर्णेनैकेन । सङ्घातेन पुर्नव्यवधानं भवति, न च भवति ।। यदि सिचाऽऽनन्तर्यं विशेष्यते---अस्तु बहुव्रीहेः षष्ठी ।। कस्मान्न भवति--अपिपठिषीदिति ? ।। व्यवहितत्वात् ।।
एव तर्हि--अतिदूरमेवेदं हल्ग्रहणमनुसृतम्---हल्ग्रहणमनन्त्यार्थमज्ग्रहणमनिगर्थम् ।। ( वदव्रजहलन्तस्याचः ) ।।
-7-2-5- ह्म्यन्तक्षणश्र्वसजागृणिश्र्व्येदिताम्
किमर्थं जागर्तेर्वृद्धिप्रतिषेध उच्यते ? ।। सिचि वृद्धिर्मा भूदिति ।। नैतदस्ति प्रयोजनम् । जागर्तेर्गुण उच्यते, वृद्धिविषये प्रतिषेधविषये च स बाधको भविष्यति ।। गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति ।। नेटीति तस्याः प्रतिषेधो भविष्यति ।।
ःथ्द्य;यं तर्हि---प्रतिषेधोत्तरकाला वृद्धिरारभ्यतेऽतो ल्रान्तस्येति ।।
अपर आह--कक्ष्यया कक्ष्या निमातव्या । सिचि वृद्धिश्च प्राप्नोति गुणश्च । गुणो भवति । गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति । नेटीति च(1) तस्याः प्रतिषेधो भवति । प्रतिषेधोत्तरकालमतो हलादेर्लघोरिति विभाषा वृद्धिः प्राप्नोति । न च किं चित् । अतो ल्रान्तस्येति च(1) वृद्धिः प्राप्नोति । न च(2) किंचित् ।। ( ह्म्यन्तक्षणश्र्वसजागृणिश्र्व्येदिताम् ) ।।
-7-2-8- नेड्वशि कृति
किमर्थं पुरस्तात्प्रतिषेध उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियते(3) । तद्यथा---अन्यत्रापि विध्युत्तरकालाः प्रतिषेधा भवन्ति ।। क्वाऽन्यत्र ? ।। कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्य ःथ्द्य;ति । देवताद्वन्दे च नेन्द्रस्य परस्य (ःथ्द्य;ति(4)) ।। तत्रायमप्यर्थो--द्विरिङ्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते ।। नैवं शक्यम्, ःथ्द्य;डर्थं सार्वधातुकग्रहणं लिङः सलोपे संनिहितं तद्विच्छिद्येत ।। यदि पुनर्न वृध्द्यश्चतुर्भ्य ःथ्द्य;त्यत्रैवोच्येत ? ।। किं कृतं भवति ? ।। विध्युत्तरकालश्चैव प्रतिषेधः कृतो भवति । द्विश्चेड्ग्रहणं न कर्तव्यम्भवति (5)। ःथ्द्य;डर्थं च स सार्वधातुकग्रहणं लिङः सलोपे सन्निहितं भवति । तत्राऽयमप्यर्थः--द्विःप्रतिषेधो(6) न कर्तव्यो भवति ।। नैवं शक्यम्, ःथ्द्य;ह हि तुष्टोथ दुद्रोथेति,---ऋतो भारद्वाजस्येत्येतस्मान्नियमादिट्प्रसज्येत ।। कृसृभृवृस्तुद्रुस्रुश्रुवो(1) लिटीत्येष योगः प्रतिषेधार्थो भविष्यति ।। यद्येष योगः प्रतिषेधार्थो य
एतस्माद्योगादिट्परिप्राप्यते नियमात्स न सिध्यति, -- पेचिव पेचिम । शेकिव शेकिम
।। एवं तर्हि---( ।। कृसृभृग्रहणं नियमार्थं(2), स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञो ज्ञापकार्थम् ।।) ।। कृसृभृ ःथ्द्य;त्येषां(3) ग्रहणं नियमार्थं भविष्यति, स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञोर्ज्ञापकार्थम् ।।
एवमपि सामान्यविहितस्यैवेटः प्रतिषेधो विज्ञायेत(4), विशेषविहितश्चायं--थलीति(1) ।। पुरस्तात्पुनः(2) प्रतिषेधे सत्यनारभ्यापवादोऽयं भवति । तेन यावानिण्नाम तस्य सर्वस्यैव(4) प्रतिषेधः सिद्धो भवति ।। यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियत(5) ःथ्द्य;ति, पुरस्तादपि प्रतिषेधे सति तन्न करिष्यते ।।
कथम् ? ।। ःथ्द्य;दमस्ति नेड्वशि कृतीति । ततो वक्ष्यामि--आर्धधातुकस्य वलादेरिति । ःथ्द्य;डित्यनुवर्तते । नेति निवृत्तम् ।।
अथ कृद्ग्रहणं किमर्थम् ? ।। ःथ्द्य;ह मा भूत् -- बिभिदिव बिभिदिमेति ।। नैतदस्ति प्रयोजनं---कृसृभृवृस्तुद्रुश्रुस्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ।। नाऽत्र तेन परिप्रापणं प्राप्नोति ।। किं कारणम् ? ।। प्रकृतिलक्षणस्य प्रतिषेधस्य स प्रत्यारम्भः प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ।। उभयोः(6) स प्रत्यारम्भः ।। कथं ज्ञायते ? ।। वृङ्वृञ्ञोर्ग्रहणात् ।। कथं कृत्वा ज्ञापकम् ? ।। ःथ्द्य;मौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्य--उभयोः स प्रत्यारम्भःथ्द्य;ति, ततो वृङ्वृञ्ञोर्ग्रहणं करोति । (किं च)-- न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च ।। ततः किम् ? ।। तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ।। ःथ्द्य;दं तर्हि प्रयोजनम्---ःथ्द्य;ह मा भूत्--रुदिवः रुदिमः ।। एतदपि नास्ति प्रयोजनम्, --- उपरिष्टाद्योगविभागः करिष्यते, -- आर्धधातुकस्य । यदेतदनुक्रान्तं एतदार्धातुकस्यैव(1) द्रष्टव्यम् । ततःथ्द्य;ड्वलादेरिति । तत्र(2) त्वेतावद्द्रष्टव्यं यदि किंचित्तत्रान्यदप्यार्धधातुकग्रहणस्य प्रयोजनमस्ति । अथ न किं चित्--ःथ्द्य;ह वा कृद्ग्रहणं क्रियेत(3), तत्र वार्धधातुकग्रहणं, को न्वत्र विशेषः ! ।।
।। 8 ।। नेड्वररमनादौ(4) कृति ।। वररमनादौ कृतीट्प्रतिषेधं प्रयोजयति । (वर--) ःथ्द्य;र्शिता ःथ्द्य;र्शितुम् ःथ्द्य;र्श्वरः । वर ।। र--दीपिता दीपितुम् दीप्रम्(6) । र ।। म -- भसिता भसितुम् भस्म । म ।। न--यतिता । यतितुम् यत्नः ।। अथान्ये ये वशादयस्तत्र कथम् ? ।। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।।
-7-2-9- तितुत्रतथसिसुसरकसेषु च
।। तितुत्रेष्वग्रहादीनाम् ।। तितुत्रेष्वग्रहादीनामिति वक्तव्यम् । ःथ्द्य;ह मा भूत् । निगृहीतिः । उपस्निहितिः निकुचितिः । निपठितिरिति ।।
-7-2-10- एकाच उपदेशेऽनुदात्तात्
एकाज्ग्रहणं किमर्थम् ? ।। एकाज्ग्रहणं जार्गत्यर्थम् ।। एकाज्ग्रहणं क्रियते ।। (किं प्रयोजनम् ? ।। जार्गत्त्यर्थम् ।) जागर्तेरिट्प्रतिषेधो मा भूदिति(7) । जागरिता जागारतुम् ।। नैतदस्ति प्रयोजनम्--उपदेशेऽनुदात्तादित्युच्यते जागर्तिश्चोपदेशे उदात्तः ।। न ब्रूम ःथ्द्य;हार्थं जार्गत्त्यर्थमेकाज्ग्रहणं कर्तव्यमिति ।। किं तर्हि ? ।। उत्तरार्थम् । ।। श्र्युकः कितीतीट्प्रतिषेधं वक्ष्यति स जागर्तेर्मा भूदिति,--जागरितः जागरितवानिति ।। एतदपि नास्ति प्रयोजनं--जागर्तेर्गुण उच्यते(1) वृद्धिविषये प्रतिषेधविषये च स बाधको भविष्यति । तत्र गुणे कृते रपरत्वे(2) च कृतेऽनुगन्तत्वादिट्प्रतिषेधो न भविष्यति ।। ननु चोपदेशाधिकारात्प्राप्नोति ।। उपदेशग्रहणं निवर्तयिष्यते ।। यदि निर्वत्त्यते(3) -- स्तीर्त्वा पूर्त्वा--ःथ्द्य;त्त्वोत्त्वयोः कृतयो रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। नैषः दोषः--आनुपूर्व्या सिद्धमेतत्(4) ।। नात्राऽकृत ःथ्द्य;ट्प्रतिषेधे ःथ्द्य;त्त्वोत्त्वे प्राप्नुतः ।। किं कारणम् ? ।। न क्त्वा सेडिति कित्त्वप्रतिषेधात् ।। ःथ्द्य;दं तर्हि --- आतिस्तीर्षति निपुपूर्षति । ःथ्द्य;त्त्वोत्वयोः कृतयो रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। मा भूदेवं--श्र्युकः कितीति, ःथ्द्य;ट्सनि वेत्येवं भविष्यति ।। ःथ्द्य;दं तर्हि प्रयोजनम्(1)--आस्तीर्णं निपूर्ताः पिण्डाः । ःथ्द्य;त्त्वोत्त्वयोः कृतयोः रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। मा भूदेवम्, ःथ्द्य;ट्सनि वेति सनि विभाषा, यस्य विभाषेति प्रतिषेधो भविष्यति ।।
ःथ्द्य;हार्थमेव तर्हि--।। वध्यर्थमेकाज्ग्रहणम्(1) ।। (वध्यर्थमेकाज्ग्रहणं कर्त्तव्यम् ) ।। वध
ःथ्द्य;ट्प्रतिषेधो मा भूदिति -- वधिषीष्टेति ।। एतदपि नास्ति प्रयोजनं, क्रियमाणेऽपि एकाज्ग्रहणे वध ःथ्द्य;ट्प्रतिषेधः प्राप्नोति,--वधिषीष्टेति ।। किं कारणम् ? ।। वध ःथ्द्य;टप्रतिषेधः सन्निपात एकाच्त्वात्प्रकृतेश्चानुदात्तत्वात् ।। संनिपाते चैव हि वधिरेकाच्श्रूयते प्रकृतिश्चास्याऽनुदात्ता ।।
किं पुनः कारणमेवं विज्ञायते--उपदेशेऽनुदात्तादेकाचः श्रूयमाणादिति ।। यङ्लोपार्थम् ।। यङ्लोपे मा भूदिति । बेभिदिता बेभिदितुम् । चेच्छिदिता चेच्छिदितुम् । ।। एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्योलिटि नियमाऽनुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य ।। एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्यो लिटि नियमस्याऽनुपपत्तिः ।। किं कारणम् ? ।। अप्राप्तत्वात्प्रतिषेधस्य । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति । असतीट्प्रतिषेधे नियमो नोपपद्यते ।। असति नियमे को दोषः ? ।। तत्र पचादिभ्य ःथ्द्य;ड्वचनम् ।। तत्र पचादिभ्य ःथ्द्य;ड्वक्तव्यः । पेचिव । शेकिम ।। सनश्चेट्प्रतिषेधः ।। सनश्चेट्प्रतिषेधो वक्तव्यः बिभित्सति चिच्छित्सति । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति । ःथ्द्य;ह च नीत्तः -- तत्वे कृतेऽनच्कत्वादिट्प्रतिषेधो(1) न प्राप्नोति ।। नैषः दोषः । आनुपूर्व्या सिद्धमेतत् । नात्राऽकृते ःथ्द्य;ट्प्रतिषेधे तत्वं प्राप्नोति।। किं कारणम्(1) ।। ति कितीत्युच्यते ।। यदप्युच्यते---एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्यो लिटि नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्येति, मा भून्नियमः ननु चोक्तं--तत्र पचादिभ्य ःथ्द्य;ड्वचनमिति ।। नैषः दोषः--उक्तं तत्र थल्ग्रहणस्य प्रयोजनम् ।। (किम्(1) ?) ।। समुच्चयो यथा विज्ञायेत(2)--थलि च सेटि, क्ङिति च सेटीति ।।
यदप्युच्यते सनश्चेट्प्रतिषेध ःथ्द्य;ति ।। उभयविशेषणत्वात्सिद्धम् ।। उभयमुपदेशग्रहणेन विशेषयिष्यामः--उपदेशेऽनुदात्तादुपदेशे एकाच ःथ्द्य;ति ।। यङ्लोपे कथम्(2) ? ।। यङ्लोपे च(3) तदन्तद्विर्वचनात् ।। सन्यङन्तस्य स्थाने द्विर्वचनं तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः स भवति यः स एकाजुपदेशेऽनुदात्तः ।। अथापि द्विःप्रयोगो द्विर्वचनमेवमपि न दोषः ।। न ह्यस्य भिद्युपदेश उपदेशः ।। किं तर्हि ? ।। बेभिद्युपदेश उपदेशः ।।
अथापि भिद्युपदेश उपदेश एवमपि न दोषः---अकारेण व्यवहितत्वान्न भविष्यति ।। ननु च लोपे कृते नास्ति व्यवधानम् ? ।। स्थानिवद्भावाद्व्यवधानमेव ।। न सिध्यति । पूर्वविधौ स्थानिवद्भावो न चाऽयं
पूर्वविधिः ? ।। एवं तर्हि(1)--पूर्वस्मादपि विधिः पूर्वविधिः ।।
कः पुनरुपदेशो न्याय्यः ? ।। यः कृत्स्नः ।। कश्च कृत्स्नः ? ।। य उभयोः ।। यदि तर्हि य उभयोः स कृत्स्नः स च न्याय्यो वध ःथ्द्य;ट्प्रतिषेधः प्राप्नोति---आवधिषीष्टेति ।। नैषः दोषः---आद्युदात्तनिपातनं करिष्यते स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति(2) ।। एवमपि उपदेशिवद्भावो वक्तव्यो यथैव हि स निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरमपि बाधेत---आवधिषीष्टेति ।। नैषः दोषः---आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु । तत्रार्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात्प्रत्ययस्वरो भविष्यति ।।
अथ के पुनरनुदात्ताः ? ।। आदन्ताः--अदरिद्राः । ःथ्द्य;वर्णान्ताश्चाऽश्रिश्विडीशीदीधीवेवीङः(3) । उवर्णान्ताः---युरुणुक्षुक्ष्णुस्नूर्णुवर्जम्(4) । ऋदन्ताश्चाऽजागृवृङवृञ्ञः(5) शकिः--कवर्गान्तानाम् । पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिमस्जिरुजियुजिणिजिविजिसञ्ञ्जिस्वञ्ञ्जयश्चवर्गान्तानाम्। अ(6)दिसदिशदिह(7)दिछिदितुदिनु(6)दिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दि(7)(विन्ति(8))विद्यतिराधियुधि(8)बुधिशुधि(8)क्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयस्तवर्गान्तानाम् । तपितिपिवपिशपिछु(1)पिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः--पवर्गान्तानाम् । रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिमृषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहि(वहि(2))लिहिमिहयश्चोष्मान्तानाम्(3) । वसिः प्रसारणी ।। ( एकाच उपदेशे ) ।
-7-2-13- कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
।। कृञ्ञोऽसुटः ।। कृञ्ञोऽसुट ःथ्द्य;ति वक्तव्यम् । ःथ्द्य;ह माभूत् -- संचस्करिव । संचस्करिम ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम्---गुणे कृते रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न भविष्यति ।। एवमप्युपदेशाधिकारात्प्राप्नोति तस्मादसुट ःथ्द्य;ति वक्तव्यम् ।। ( कृसृभृवृ )
-7-2-14- श्वीदितो निष्ठायाम्
श्विग्रहणं किमर्थं, न प्रसारणे कृते प्रसारणपूर्वत्वे(4) चोगन्तादित्येव सिद्धम् ? ।। अत उत्तरम्पठति---।। श्विग्रहणमिदन्तत्वादुपदेशस्य ।। श्विग्रहणं क्रियते (किङ्कारणम् ? ।।) ःथ्द्य;दन्तत्वादुपदेशस्य । उपदेशे उगन्तादित्युच्यते । श्वयतिश्चोपदेशे ःथ्द्य;दन्तः ।। (श्वीदितो निष्ठायाम् ) ।।
-7-2-15- यस्य विभाषा
।। यस्य विभाषाऽविदेः ।। यस्य विभाषाऽविदेरिति वक्तव्यम् । ःथ्द्य;ह मा भूत्---विदितः विदितवानिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः । शविकरणस्य(1) विभाषा, लुग्विकरणश्चायम् ।।
-7-2-16- आदितश्च
विभाषा भावादिकर्मणोः ।।
किमर्थो योगविभागो न(2) आदितो विभाषा भावादिकर्मणोरित्येवोच्येत ।। केनेदानीं कर्तरि प्रतिषेधो भविष्यति ? ।। यस्य विभाषेत्यनेन ।। एवं तर्हि सिद्धे सति यद्योगविभागं करोति तज्ज्ञापयत्याचार्यः -- यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध ःथ्द्य;ति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। यस्य विभाषाऽविदेरित्युक्तं तन्न वक्तव्यं भवति ।।
-7-2-17- विभाषा भावादिकर्मणोः
आदितश्च ।।
किमर्थो योगविभागो न(2) आदितो विभाषा भावादिकर्मणोरित्येवोच्येत ।। केनेदानीं कर्तरि प्रतिषेधो भविष्यति ? ।। यस्य विभाषेत्यनेन ।। एवं तर्हि सिद्धे सति यद्योगविभागं करोति तज्ज्ञापयत्याचार्यः -- यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध ःथ्द्य;ति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। यस्य विभाषाऽविदेरित्युक्तं तन्न वक्तव्यं भवति ।।
-7-2-18- क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टवाढानि मन्थमनस्तमस्सक्ताऽविस्पष्टस्वराऽनायासभृशेषु
।। क्षुब्धं मन्थाऽभिधाने(1) ।। क्षुब्धं मन्थाभिधाने ःथ्द्य;ति वक्तव्यम् । क्षुभितं मन्थेनेत्येवान्यत्र । क्षुब्ध ।। स्वान्त- ।। स्वान्तं(1) मनोभिधाने ।। स्वान्तं मनोभिधाने ःथ्द्य;ति वक्तव्यम् । स्वनितं मनसेत्येवान्यत्र । स्वान्त ।। ध्वान्त-- ।। ध्वान्तं(1) तमोऽभिधाने ।। ध्वान्तं तमोभिधान ःथ्द्य;ति वक्तव्यम् । ध्वनितं तमसेत्येवान्यत्रा ध्वान्त ।। (लग्न(2)--।। लग्नं सक्ताभिधाने(1) ।। लग्नंसक्ताभिधाने ःथ्द्य;ति वक्तव्यम् ।। लगितं सक्तेनेत्येवान्यत्र । लग्न ।। ल्मिष्ट--।। ल्मिष्टं विस्पष्टाऽभिधाने(1) ।। ।। ल्मिष्टं विस्पष्टाऽभिधान ःथ्द्य;ति वक्तव्यम् । म्लेच्छितं विस्पष्टेनेत्येवान्यत्र । ल्मिष्ट ।। विरिब्ध--।। विरिब्धं स्वराभिधाने(1) ।। विरिब्धं स्वराभिधाने ःथ्द्य;ति वक्तव्यम् । विरेभितं स्वरेणेत्येवान्यत्र । विरिब्ध ।। -- फाण्ट---।। फाण्टम् अनायासाभिधाने(1) ।। फाण्टमनायासाभिधाने ःथ्द्य;ति वक्तव्यम् । फाणितमेवान्यत्र । फाण्ट ।। बाढ---।। बाढं भृशाभिधाने ।। बाढं भृशाभिधाने ःथ्द्य;ति वक्तव्यम् ।। 8 ।। बाहितमेवान्यत्र(2)) ।। (क्षुब्धस्वान्त)।।
-7-2-19- धुषिशसी वैयात्ये
किमिदं वैयात्य ःथ्द्य;ति ? ।। वियातभावो(1) वैयात्यम् ।।
-7-2-20- दृढः स्थूलबलयोः
दृढ (ःथ्द्य;ति(2)) निपातनं किमर्थं, न दृहेर्नेड्भवतीत्येवोच्येत ।। दृढनिपातनं नकारहकारलोपार्थं परस्य च ढत्वार्थम्(2) ।। दृढनिपातनं क्रियते, (किमर्थम् ? ।।) ठनकारहकारलोपार्थम् । नकारहकारलोपो यथा स्यात् । (परस्य च ढत्वार्थम्(2)) परस्य च ढत्वं यथा स्यात् । ।। अनिड्वचने हि
रभावाऽप्रसिद्धिरलघुत्वात् ।। अनिड्वचने हि रभावस्याऽप्रसिद्धिः स्यात्(2) । द्रढीयान् ।। किं कारणम् ? ।।
अलघुत्वात् ।। नलोपवचने च ।। नलोपश्च वक्तव्यः । ःथ्द्य;ह परिद्रढय्य गतः -- ल्यपि लघुपूर्वस्येत्ययादेशो न स्यात् । ःथ्द्य;ह च पारिदृढी कन्येति--गुरूपोत्तमलक्षणः ष्यङ्प्रसज्येत ।।
-7-2-21- प्रभौ परिवृढः
परिवृढ ःथ्द्य;ति किमर्थं निपात्यते, न परिपूर्वाद्वृहेर्नेड्भवतीत्येवोच्येत । ।। परिवृढनिपातनं च ।। (परिवृढ ःथ्द्य;ति निपातनं च) ।। किम् ? ।। नकारहकारलोपार्थं परस्य च ढत्वार्थम्, आनिड्वचने हि रभावाऽप्रसिद्धिरलघुत्वात्, नलोपवचनं चेत्येव ।। परिव्रढीयानिति र ऋतो हलादेर्लघोरिति रभावो न स्यात् । ःथ्द्य;ह च परिव्रढय्य गतःथ्द्य;ति, ल्यपि लघुपूर्वस्येत्ययादेशो न स्यात् । ःथ्द्य;ह च परिवृढी कन्येति गुरूपोत्तमलक्षणः ष्यङ्प्रसज्येत ।।
-7-2-29- हृषेर्लोमसु
।। 8 ।। हृषेर्लोमकेशकर्तृकस्य ।। हृषेलोमकेशकर्तृकस्येति वक्तव्यम् । हृष्टानि लोमानि हृषितानि लोमानि । हृष्टं लोमभिः हृषितं लोमभिः । हृष्टाः केशाः हृषिताः केशाः । हृष्टं केशैः हृषितं केशैः ।। (।। विस्मितप्रतिघातयोः(1) ।।) ।। विस्मितप्रतिघातयोरिति वक्तव्यम् । हृष्टो देवदत्तः । हृषितो देवदत्तः। हृष्टा दन्ताः । हृषिता दन्ताः ।। ( हृषेर्लोमसु ) ।।
-7-2-23- घुषिरविशब्दने
किमर्थमविशब्दन ःथ्द्य;त्युच्यते, न विशब्दने चुरादिणिचा भवितव्यम् ।। एवं तर्हि सिद्धे सति यदयमविशब्दन ःथ्द्य;त्याह तज्ज्ञापयत्याचार्यौ--विशब्दने घुषेर्विभाषा णिज्भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः(3)--एष प्रयोग उपपन्नो भवति ।।
-7-2-26- णेरध्ययने वृत्तम्
किं पुन(1)रिदमध्ययनाऽभिधायिकायां निष्ठायां निपातनं क्रियते आहोस्विदध्ययने चेद्वृतिर्वर्त्तत ःथ्द्य;ति ? ।। किं चातः ? ।। यद्यध्ययनाभिधायिकायां निष्ठायां(2) निपातनं क्रियते, सिद्धं वृत्तो गुणः वृत्तं पारायणम् । वृत्तं(3) गुणस्य वृत्तं पारायणस्येति न सिध्यति ।। अथ विज्ञायते--अध्ययने चेद्वृतिर्वर्त्ततःथ्द्य;ति न दोषो भवति ।। यथा न दोषस्तथास्तु ।। अध्ययने चेद्वृतिर्वर्त्ततःथ्द्य;त्यपि वै विज्ञायमाने न सिध्यति ।। किं कारणम् ? ।। वृत्तिरयमकर्मकः ।। अकर्मकाश्चापि ण्यन्ताः सकर्मका भवन्ति, अकर्मकश्चात्र वृतिः ।।
कथं पुनर्ज्ञायतेऽकर्मकोऽत्र वृतिरिति ? ।। अकर्मकाणां भावे क्तो भवती(1)त्येवमत्र भावे क्तो भवति । तत्र उदितः क्त्व विभाषा(2), यस्य विभाषेति ःथ्द्य;ट्प्रतिषेधो भविष्यति ।। अथ णिग्रहणं किमर्थम् ? ।।
।। वृत्तनिपातने णिग्रहण(3)मण्यन्तस्याऽवधारणप्रतिषेधार्थम् ।। वृत्तनिपातने णिग्रहणं क्रियते ।। (किं प्रयोजनम्(4) ? ।। अण्यन्तस्याऽवधारणप्रतिषेधार्थम्) । अण्यन्तस्याऽवधारणं माभूदिति ।। कैमर्थक्यान्नियमो भवति ? ।। विधेयं नास्तीति कृत्वा ।। ःथ्द्य;ह चास्ति विधेयं ।। किम्(4) ? ।। ण्यधिकाद्वृते रिट्प्रतिषेधो विधेयः तत्राऽपूर्वो विधिरस्तु नियमोऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः ।। कुतो नु खल्वेतदधिकार्थ आरम्भे सति ण्यधिकस्य भविष्यति न पुनः(5) सनधिकस्य वा स्याद्यङि्धकस्य वेति ? ।। तस्माण्णिग्रहणं(6) कर्तव्यम् ।। अथ किमर्थं निपातनं क्रियते ? ।। निपातनं णिलोपेङ्गुणप्रतिषेधार्थम् ।। निपातनं क्रियते । (किमर्थम् ? ।। णिलोपेङ्गुणप्रतिषेधार्थम् ) । णिलोपार्थमिङ्गुणप्रतिषेधार्थं च ।। (णेरध्ययने वृत्तम् ) ।।
-7-2-27- वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः
अथ(1) दान्तशान्तयोः किं निपात्यते ? ।। दान्तशान्तयोरुपधादीर्घत्वं च ।। (दान्तशान्तयोरुपधादीर्घत्वञ्ञ्च) ।। किं च ? ।। णिलोपेट्प्रतिषेधौ च ।। उपधादीर्घत्वमनिपात्यं, वृध्द्या सिद्धम् ।। न सिध्यति, मितां ह्रस्व ःथ्द्य;ति ह्रस्वत्वेन भवितव्यम् ।। एवं तर्ह्यनुनासिकस्य क्विझलोः क्ङितीत्येवात्र (2)दीर्घत्वं भविष्यति ।। न सिध्यति ।। किं कारणम् ? ।। णिचा व्यवहितत्वात् ।। णिलोपे कृते नास्ति व्यवधानम् ।। स्थानिवद्भावाद्व्यवधानमेव ।। प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधि प्रति न स्थानिवदिति
।।
अथ स्पष्टच्छन्नयोः किं निपात्यते ? ।। स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ।। ( स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च
) ।। किं च ? ।। णिलोपेट्प्रतिषेधौ च ।।
-7-2-28- रुष्यमत्वरसंघुषास्वनाम्
।। घुषिस्वनोर्वावचनमिट्प्रतिषेधाद्विप्रतिषेधेन ।। घुषिस्वनोर्वानचनमिट्प्रतिषेधाद्भवति विप्रतिषेधेन । घुषेरिट्प्रतिषेधस्याऽवकाशः --असंपूर्वादविशब्दनम्---घुष्टा रज्जुः घुष्टो माथः(4) । वावचनस्यावकाशः --- संपूर्वाद्विषब्दनम् --- सङ्घुष्टं वाक्यं सङ्घुषितं वाक्यम् । संपूर्वादविशब्दने उभयं प्राप्नोति --- सङ्घुष्टा रज्जुः सङ्घुषिता रज्जुः । वावचनं भवति विप्रतिषेधेन ।।
स्वन ःथ्द्य;ट्प्रतिषेधस्यावकाशः अनाङ्पूर्वान्मनोऽभिधानं--स्वान्तं मनः । वावचनस्यावकाशः--आङ्पूर्वादमनोऽभिधानम्--आस्वान्तो देवदत्तः आस्वनितो देवदत्तः । आङ्पूर्वान्मनोभिधान उभयं प्राप्नोति--आस्वान्तं मनः आस्वनितं मनः । वावचनं भवति विप्रतिषेधेन ।। ( रुष्यमत्वरसंघुषास्वनाम् ) ।।
-7-2-30- अपचितश्च
अपचितःथ्द्य;ति किं निपात्यते ? ।। (।। चायेश्चिभावश्च(2) ।। ) चायेश्चिभावो (2)निपात्यते । अपचितः । (।। क्तिनि नित्यम्(3) ।। ) ।। क्तिनि नित्यमिति वक्तव्यम् । अपचितिः ।। ( अपचितश्च ) ।।
-7-2-35- आर्धधातुकस्येड्वलादेः
आर्धधातुकग्रहणं किमर्थम् ? ।। वलादिग्रहणमार्धधातुकविशेषणं(4) यथा विज्ञायेत-- वलादेरार्धधातुकस्येति ।। अथाऽक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणं विशेषणं स्यात् ? ।। अङ्गस्येति वर्ततेऽङ्गविशेषणम् ।।
तत्र को दोषः ? ।। अङ्गस्य वलादेरादित ःथ्द्य;ट्प्रसज्येत--अडाड्वत् । तद्यथा--अडाटावङ्गस्यादितो भवतस्तद्वत् ।। क्रियमाणेऽप्यार्धधातुकग्रहणेऽनिष्टं शक्यं(5) विज्ञातुं --- वलादेरार्धधातुकस्य यदङ्गमिति । अक्रियमाणे चेष्टम्--अङ्गस्य योवलादिरिति ।। किं चाङ्गस्य वलादिः ? ।। निमित्तं, -- यस्मिन्नङ्गमित्येतद्भवति ।। कस्मिन्नङ्गमित्येतद्भवति ? ।। प्रत्यये ।। यावता क्रियमाणेऽपि चाऽनिष्टं विज्ञायते, अक्रियमाणे चेष्टं. तत्राऽक्रियमाणे एवेष्टं विज्ञास्यामः ।। ःथ्द्य;दं तर्हि प्रयोजनम्--ःथ्द्य;ह मा भूत्--आस्ते शेते ।। एतदपि नास्ति प्रयोजनं--रुदादिभ्यः सार्वधातुक ःथ्द्य;त्येतन्नियमार्थं भविष्यति -- रुदादिभ्य एव सार्वधातुक ःथ्द्य;ड्भवति नान्येभ्य ःथ्द्य;ति ।। एवमपि वृक्षत्वं वृक्षता -- अत्र प्राप्नोति ।। एवं तर्हि विहितविशेषणं धातुग्रहणं---धातोर्यो विहितः ।। ननु च(3) धातोरेवाऽयं विहितः ।। न चायं धातोरित्येवं विहितः ।। क्व पुनर्धातुग्रहणं प्रकृतम् ? ।। ऋत ःथ्द्य;द्धातोरिति ।। तद्वै षष्ठीनिर्दिष्टं पञ्ञ्चमीनिर्दिष्टेन चेह विहितः(4) शक्यते विशेषयितुम् ।। अथेदानीं षष्ठीनिर्दिष्टेनचापि विहितः(4)शक्यते विशेषयितुम् । शक्यमार्धधातुकग्रहणमकर्तुमिति ।।
-7-2-36- स्नुक्रमोरनात्मनेपदनिमित्ते
।। स्नुक्रमोरनात्मनेपदनिमित्तेचेत्कृत्युपसङ्ख्यानम् ।। स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपसङ्ख्यानं कर्तव्यम् । प्रस्नविता प्रस्नवितुम् प्रस्नवितव्यम् । प्रक्रमिता प्रक्रमितुम् प्रक्रमितव्यम् ।। तत्तर्हि वक्तव्यम् ? ।।
न वक्तव्यम् । अविशेषेण स्नुक्रमोरिडागममुक्त्वा आत्मनेपदपरे नेति वक्ष्यामि । ।। आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः ।। आत्मनेपदपरप्रतिषेधे(च)तत्परपरसीयुडेकादेशेषु प्रतिषेधो वक्तव्यः । तत्परपरे तावत्--प्रसुस्नूषिष्यते । प्रचिक्रंसिष्यते ।। सीयुटि--प्रस्नोषीऽट प्रक्रंसीष्ट । एकादेशे-- प्रस्नोष्यन्ते । प्रक्रंस्यन्ते । एकादेशे कृते व्यपवर्गाऽभावान्न प्राप्नोति ।। अन्तादिवद्भावेन व्यपवर्गः ।। उभयत आश्रये नान्तादिवत् ।।
एवं तर्ह्येकादेशः पूर्वविधौ(1) स्थानिवद्भवतीति स्थानिवद्भावाद्व्यपवर्गः ।। तत्परपरसीयुटोस्तर्हि
प्रतिषेधो वक्तव्यः ।। सिद्धंतु स्नोरात्मनेपदेन समानपदस्थास्येट्प्रतिषेधात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठस्नोरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् । ) । स्नोरात्मनेपदेन समानपदस्थस्य नेड्भवतीति वक्तव्यम् । यदि स्नोरात्मनेपदेन समानपदस्थस्येण्न भवतीत्युच्यते--प्रस्नवितेवाचरति प्रस्नवित्रीयते--अत्र न प्राप्नोति ।।
।। बहिरङ्गत्वाच्च(3) ।। बहिरङ्गलक्षणमत्रात्मनेपदम् ।।
।। क्रमेश्च(4) ।। क्रमेश्चात्मनेपदेन समानपदस्थस्येण्न(5) भवतीति वक्तव्यम् ।। अथ किमर्थं क्रमेः
पृथग्ग्रहणं क्रियते न स्नुक्रमिभ्यामित्येवोच्येत ? ।। कर्तरि चात्मनेपदविषयात्कृति नेति वक्ष्यति तत्क्रमेरेव(6) यथा स्यात्स्नोर्मा भूत् । व्यतिप्रस्नविता(1) । व्यतिप्रस्नवितारौ । व्यतिप्रस्नवितारः ।। कर्तरि चात्मनेपदविषयात्कृति प्रतिषेधः(1) ।। कर्तरि चात्मनेपदविषयात्कृति प्रतिषेधो वक्तव्यः । प्रक्रन्ता । उपक्रन्ता ।। तत्तर्हीदं बहु वक्तव्यम् -- स्नोरात्मनेपदेन समानपदस्थस्येण्न भवतीति वक्तव्यम् । क्रमेश्चेति वक्तव्यम् । कर्तरि चात्मनेपदविषयात्कृतीति वक्तव्यम् । सूत्रं च भिद्यते ।।
यथान्यासमेवाऽस्तु । ननु चोक्तं-- स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपसङ्ख्यानमिति ।। नैषः दोषः । स्नुक्रमी एवात्मनेपदनिमित्तत्वेन विशेषयिष्यामः, --न चेत्स्नुक्रमी आत्मनेपदस्य निमित्ते ःथ्द्य;ति ।। कथं पुनर्धातुर्नामाऽऽत्मनेपदस्य निमित्तं स्यात् ? ।। धातुरेव निमित्तम् । आह हि भगवान्(2)--अनुदात्तङित आत्मनेपदम् शेषात्कर्त्तरि परस्मैपदमिति ।।
यत्र तर्हि धातुर्नाश्रीयते--भावकर्मणोरिति ? ।। अत्रापि धातुरेवाश्रीयते--- भावकर्मवृत्ताद्धातोरिति ।। कथं प्रक्रमितव्यम् उपक्रमितव्यम् (1)? ।। सत्यात्मनेपदे निमित्तशब्दो वर्तते ।। कथं प्रक्रन्ता उपक्रन्ता ।। तस्मादसत्यपि ।।
कथं प्रक्रमितव्यम् । उपक्रमितव्यम्(4) । तस्मात्सत्येव ।। कथं प्रक्रन्ता उपक्रन्ता ? ।। वक्तव्यमेवैतत् -- कर्त्तरि चात्मनेपदविषयात्कृतीति ।।
अथ वा कृतीति वर्तते ( स्नुक्रमोरनात्मनेपदनिमित्ते ) ।।
-7-2-37- ग्रहोऽलिटि दीर्घः
।। ग्रहेर्दीर्घत्वे ःथ्द्य;ड्ग्रहणम्(2) ।। ग्रहेर्दीर्घत्वे ःथ्द्य;ड्ग्रहणं कर्तव्यम् । ःथ्द्य;टो दीर्घ ःथ्द्य;ति वक्तव्यम् ।। न वक्तव्यम्--प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आर्धधातुकस्येड्वलादेरिति ।। एवमपि कर्त्तव्यमेव(3) ।। अकरणे(4) ह्यसंप्रत्ययः षष्ठ्यभावात् ।। अक्रियमाणे हीड्ग्रहणेऽसंप्रत्ययः स्यात् ।। किं कारणम् ? ।। षष्ठ्यभावात् । षष्ठीनिर्दिष्टस्य आदेशा उच्यन्ते न चात्र षष्ठीं पश्यामः ।। क्रियमाणे चापि ःथ्द्य;ड्ग्रहणे(1)-- ।। चिण्वदिटः प्रतिषेधः ।। चिण्वदिटः प्रतिषेधो वक्तव्यः । ग्रहिष्यते ।। यङ्लोपे च ।। यङ्लोपे च प्रतिषेधो वक्तव्यः । जरीगृहिता जरीगृहितुम् जरीगृहितव्यम् ।।
यदि पुनरिड् दीर्घ आगमान्तरं विज्ञायेत ? ।। ःथ्द्य;ड्दीर्घ ःथ्द्य;ति चेद्विप्रतिषिद्धम् ।। ःथ्द्य;डदीर्घ ःथ्द्य;ति चेद्विप्रतिषिद्धं भवति(3) । यदि ःथ्द्य;ण्न दीर्घः, अथ दीर्घो नेट्, ःथ्द्य;ड् दीर्घश्चेति विप्रतिषिद्धम् ।। प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाऽभावः(1) ।। प्रतिषिद्धस्य च (2)पुनर्विधाने दीर्घत्वस्याऽभावः । वुवूर्षते विवरिषते विवरीषते ।। अत्रापीड् दीर्घ ःथ्द्य;त्यनुवर्तिष्यते ।।
यत्तर्हि विदेशस्थं प्रतिषिध्य पुनर्विधानं तन्न सिध्यति । जॄव्रश्च्योः क्त्विश्र्युकः कितीत्यनेन प्रतिषिद्धे दीर्घत्वं न प्राप्नोति । जरित्वा जरीत्वा । ःथ्द्य;र्टो विधिरिटः प्रतिषेधः । यथाप्राप्त(3) ःथ्द्य;ड् दीर्घो भविष्यति ।।
यदि तर्हीटो ग्रहणे ःथ्द्य;र्टो ग्रहणं न भवति,--जरीत्वा--न क्त्वा सेडिति कित्त्वप्रतिषेधो न प्राप्नोति । ःथ्द्य;ह चाऽग्रहीदिति-- ःथ्द्य;ट ःथ्द्य;र्टीति सिज्लोपो न प्राप्नोति । ःथ्द्य;ह चाऽग्रहीत्--नेटीति वृद्धिप्रतिषेधो न प्राप्नोति ।। मा भूदेवं ह्मयन्तानामित्येवं भविष्यति ।। अत्रापि नेटीत्येवानुवर्तते । तच्चावश्यमिड्ग्रहणमनुर्वत्यम्-अधाक्षीदित्येवमर्थम्(4) । तथा--अग्रहीध्वम्(5) अग्रहीढ्वं -- विभाषेट ःथ्द्य;ति मूर्धन्यो न प्राप्नोति । तस्मान्नैतच्छक्यं(1) वक्तुम्--ःथ्द्य;टोग्रहणे ःथ्द्य;र्टो ग्रहणं न भवतीति ।। भवति चेत्प्रतिषिद्धस्य च(2) पुनर्विधाने दीर्घाऽभाव (ःथ्द्य;त्येव) ।
तस्मादशक्य ःथ्द्य;ड् दीर्घ आगमान्तरं विज्ञातुम् । न चेद्विज्ञायते ःथ्द्य;टो ग्रहणं कर्तव्यम् ।। न कर्तव्यम् ।
आर्धधातुकस्येति वर्तते । ग्रहः परस्यार्धधातुकस्य दीर्घत्वं वक्ष्यामि ।। ःथ्द्य;हापि तर्हि प्राप्नोति -- ग्रहणम् ग्रहणीयम् ।।वलादेरिति वर्तते ।। एवमपि ग्रहीता ग्रहीतुम् अत्र न प्राप्नोति ।। भूतपूर्वगत्या भविष्यति । एवमपि ग्राहकः-अत्र प्राप्नोति ।। किं चेट्प्रतिघातेन खल्वपि दीर्घत्वमुच्यमानमिटं बाधेत(3) । तस्मादिटो ग्रहणं कर्तव्यम् ।। न कर्तव्यम् । प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आर्धधातुकस्येड्वलादेरिति ।।
ननु चोक्तम्--एवमपि कर्तव्यमेव(5), अग्रहणे ह्यसंप्रत्ययः षष्ठ्यनिर्देशा--दिति ।। नैषः दोषः । ग्रह ःथ्द्य;त्येषा पञ्ञ्चमी ःथ्द्य;डिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति---तस्मादित्युत्तरस्येति ।। एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं चिण्वदिटः प्रतिषधःथ्द्य;ति ।। कथम् ? ।। प्रकृतस्येट(6) ःथ्द्य;दं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ।। यङ्लोपे च(7) कथम् ? ।। प्रकृतस्येट(6) ःथ्द्य;दं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ।। यङ्लोपे च(7)कथम् ? ।। यङ्लोपे चोक्तम्-- ःथ्द्य;टि सर्वत्र ।। क्व सर्वत्र ? ।। यद्येव(1) प्रकृतस्येटो दीर्घत्वमथापि ःथ्द्य;र्ड्दीर्घ(2) आगमान्तरं विज्ञायेत (2)।। यङ्लोपे चोक्तम्(4) ।। किमुक्तम् ? ।। तदन्तद्विर्वचनादिति ।।
-7-2-44- स्वरतिसूतिसूयतिधूञ्ञूदितो वा
अथ वेति वर्तमाने पुनर्वावचनं किमर्थम् ? ।। पुवर्वावचनं लिङि्सचोर्निवृत्त्यर्थम् ।। पुनर्वावचनं क्रियते ।। (किमर्थम्(5) ?) ।। लिङि्सचोर्निवृत्त्यर्थम् ? ।। (लिङि्सचोर्निवृत्तिर्यथा स्यात्(5)) ।।
अथ किमर्थं सूतिसूयत्योः पृथग्ग्रहणं क्रियते ? ।। सुवतेर्मा भूत् ।।
अथ किमर्थं धूञ्ञः सानुबन्धकस्य ग्रहणं क्रियते ? ।। धुवतेर्मा भूदिति ।।
किं पुनरियं प्राप्ते विभाषा, आहो स्विदप्राप्ते ? ।। कथं च प्राप्ते कथं चाऽप्राप्ते(1) ? ।। यदि स्वरतिरुदात्तस्ततः प्राप्ते, अथाऽनुदात्तस्ततोऽप्राप्ते । ।। स्वरतिरुदात्तः ।। स्वरतिरुदात्तः पठ्यते ।। किमर्थं तर्हि वावचनम् ? ।। वावचनं निवृत्त्यर्थम् ।। वावचनं क्रियते ।। (किं प्रयोजनम् ?) ।। निवृत्त्यर्थम् ।। अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनर्विधानात् ।। अनुदात्ते हि सति किति विभाषा प्रसज्येत । स्वृत्वा ।। किं कारणम् ? ।। प्रतिषिध्य पुनर्विधानात् । प्रतिषिध्य किलाऽयं पुनर्विधीयते । स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवं श्र्युकः कितीत्येतमपि बाधेत ।।
यदि तर्ह्युदात्तः स्वरतिः, पठिष्यति(1) विप्रतिषेधं-- स्वरतेर्वेट्त्वादृतः स्ये विप्रतिषेधेनेति स(2) विप्रतिषेधो नोपपद्यते ।। किं कारणम् ।। ? स विधिरयं प्रतिषेधो, विधिप्रतिषेधयोश्चाऽयुक्तो विप्रतिषेधः ।। सोऽपि विधिर्न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते, स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवमिममपि बाधिष्यते ।। अथ वा येन नाप्राप्ते तस्य बाधनं भवति । न चाऽप्राप्तेवलादिक्षणे ःथ्द्य;यं विभाषा आरभ्यते, स्यलक्षणे पुनः प्राप्ते चाऽप्राप्ते च ।।
अथ वा-मध्येपवादाः पूर्वान्विधीन्बाधन्ते ःथ्द्य;त्येवमियं विभाषा वलादिलक्षणमिटं बाधिष्यते, स्यलक्षणं न बाधिष्यते ।।
अथ वा पुनरस्त्वनुदात्तः ।। ननु चोक्तम्- अनुदात्ते हि किति वा प्रसङ्गः प्रतिषिध्य पुनर्विधानादिति ।। नैषः दोषः । येन नाप्राप्ते तस्य बाधनं भवति, न चाऽप्राप्ते एकाज्लक्षणे प्रतिषेधे ःथ्द्य;यं विभाषा आरभ्यते । श्र्युकः कितीत्येतस्मिन्पुनः प्राप्ते चाऽप्राप्ते च ।। अथ वा श्र्युकः कितीत्येष(1) योग उदात्तार्थश्च, येभ्यश्चाऽनुदात्तेभ्य ःथ्द्य;ट्प्राप्यते तद्वाधनार्थश्च ।। अथ वा(2) श्र्युकः कितीतीहाऽनुवर्तिष्यते ।। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति--नेयं विभाषा उग्लक्षणस्य(2) प्रतिषेधस्य विषये भवतीति--यदयं सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनामिति स्वृग्रहणं करोति ।। (स्वरतिसूतिसूयति) ।।
-7-2-47- ःथ्द्य;ण्निष्ठायाम्
ःथ्द्य;डिति वर्तमाने पुनरिड्ग्रहणं किमर्थम् ? ।। ःथ्द्य;ड्ग्रहणं नित्यार्थम् ।। (ःथ्द्य;डितिवर्त्तमाने(4) पुनरिड्ग्रहणं क्रियते ।। किं प्रयोजनम् ? ।। नित्यार्थम्) । नित्यार्थोयमारम्भः ।। नैतदस्ति प्रयोजनं सिद्धाऽत्र विभाषा पूर्वेणैव, तत्रारम्भसार्मथ्यान्नित्यो विधिर्भविष्यति ।। नात्र पूर्वेण विभाषा प्राप्नोति ।। किं कारणम् ? ।। यस्य विभाषेति प्रतिषेधात् । तत्रारम्भसार्मथ्याद्विभाषा लभ्येत । पुनरिड्ग्रहणादिडेव(1) भवति ।। ( ःथ्द्य;ण्निष्ठायाम् ) ।।
-7-2-48- तीषसहलुभरुषरिषः(2)
।। ःथ्द्य;षेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः ।। ःथ्द्य;षेस्तकारे श्यन्प्रत्ययात्प्रतिषेधो वक्तव्यः । ःथ्द्य;ह मा भूत्---प्रेषिता प्रेषितुम् प्रेषितव्यम् ।। (तीषसहलुभ) ।।
-7-2-52- वसतिक्षुधोरिट्
ःथ्द्य;डिति वर्तमाने पुनरिडग्रहणं किमर्थम् ? ।। पुनरिड्ग्रहणं नित्यार्थम् ।। ःथ्द्य;डिति वर्तमाने पुनरिड्ग्रहणं क्रियते ।। (किं प्रयोजनम् ? ।।) ठनित्यार्थम् । नित्यार्थोऽयमारम्भः ।। (वसतिक्षुधोरिट्) ।।
-7-2-58- गमेरिट् परस्मैपदेषु
।। गमेरिट्परस्मैपदेषु चेत्कृत्युपसड्ख्यानम्(3) ।। गमेरिट् परस्मैपदेषु(4) चेत्कृत्युपसङ्ख्यानं कर्तव्यम् । जिगमिषिता जिगमिषितुम् जिगमिषितव्यम् ।। तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ।। न कर्तव्यम् । अविशेषेण गमेरिडागममुक्त्वा आत्मनेपदपरे नेति वक्ष्यामि ।। आत्मनेपदपरप्रतिषेधे उक्तम् ।। किमुक्तम् ? ।। आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेध ःथ्द्य;ति । ःथ्द्य;हापि-- ।। आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषुप्रतिषेधोवक्तव्यः ।। तत्परपरे तावत्---संजिगंसिष्यते । सीयुटि--संगंसीष्ट । एकादेशे--संगंस्यन्ते । एकादेशे कृते व्यपवर्गाऽभावान्न(1) प्राप्नोति ।। सिद्धं तु गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् ।। सिद्धमेतत् ।। कथम् ? ।। गमेरात्मनेपदेन समानपरस्थस्य (ःथ्द्य;ट्प्रतिषेधात् । गमेरात्मनेपदेन समानपदस्थस्य(2)) ःथ्द्य;ण्न भवतीति वक्तव्यम् ।। (गमेरिट्परस्मैपदेषु) ।।
-7-2-59- न वृद्भ्यश्चतुर्भ्यः
।। वृतादिप्रतिषेधे च ।। किम् ? ।। कृत्युपसङ्ख्यानम् ।। (कृत्युपसङ्ख्यानं(3)) कर्तव्यम् । विवृत्सिता । विवृत्सितुम् । विवृत्सितव्यम् ।। तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ।। न कर्तव्यम् ? ।। अविशेषेण वृतादिभ्य ःथ्द्य;ट्प्रतिषेधमुक्त्वा आत्मनेपदपर ःथ्द्य;ड्भवतीति वक्ष्यामि ।। आत्मनेपदपर(4) ःथ्द्य;ड्वचने तत्परपरसीयुडेकादेशेष्विड्वचनम्(5) ।। आत्मनेपदपर ःथ्द्य;ड्वचने तत्परपरसीयुडेकादेशेष्विड्वक्तव्यः । तत्परपरे तावत्--विवर्तिषिष्यते । सीयुटि--वर्तिषीष्ट । एकादेशे-वर्तिष्यन्ते वर्द्धिष्यन्ते(6) ।। सिद्धं तु वृतादीनामात्मनेपदेन समानपरस्थस्येड्वचनात् ।। सिद्धमेतत् ।। कथम् ? ।। वृतादीनामात्मनेपदेन समानपदस्थस्ये (ड्वचनात् । वृतादीनामात्मनेपदेन(1) समानपदस्थस्ये--) ड्भवतीति वक्तव्यम् ।। चतुस्तासिक्लृपिग्रहणार्थक्यं च ।। चतुर्ग्रहणं चानर्थकम् । सर्वेभ्यो (2)हि वृतादिभ्यः प्रतिषेध ःथ्द्य;ष्यते ।। तासिग्रहणं चानर्थकम् ।। किं कारणम् ? ।। निवृत्तत्वात्सकारस्य ।। निवृत्तं सकारादाविति । तास्ग्रहणे चेदानीमक्रियमाणे क्लृपिग्रहणेनापि नार्थः । एषोऽपि हि वृतादिः पञ्ञ्चमः ।।
भवेत्क्लृपिग्रहणं न कर्तव्यं, तास्ग्रहणन्तु कर्तव्यम् । यद्धि तत्सकारदाविति न तच्छक्यं निवर्तयितुं, तृच्यपि हि प्रसज्येत--वर्तिता वर्धिता ।। तास्ग्रहणे चेदानीं क्रियमाणे क्लृपिग्रहणमपि कर्तव्यमन्येभ्योऽपि वृतादिभ्यस्तासौ मा भूदिति । भवेत्तासिग्रहणं कर्तव्यं, क्लृपिग्रहणं तु नैव कर्तव्यम् ।। अन्येभ्योपि(4) वृतादिभ्यः तासौ कस्मान्न भवति ? ।। पररमैपदेष्विति वर्तते, क्लृपेरेव च तास्परस्मैपदपरो नान्येभ्यो वृतादिभ्यः (5)।। यद्येवं तास्ग्रहणेनापि नार्थः ।। तृचि कस्मान्न भवति ? ।। परस्मैपदेष्विति वर्तते ।।
-7-2-62- उदेशेऽत्वतः
तासावत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गोऽकारवत्त्वात्।। तासावत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति--जघसिथ ।। किं कारणम्?।। अकारवत्त्वात्। सोऽपि ह्यकारवान्।। सिद्धं तु हलादिग्रहणात्।। सिद्धमेतत् ।। कथम्?।। हलादिग्रहणात् । हलादिग्रहणं कर्तव्यम्। तच्चावश्यं कर्तव्यम्--अट्यशी प्रयोजयतः ।। अट्यशी तावन्न प्रयोजयतः।। किं कारणम्?।। तासावनिट ःथ्द्य;त्युज्यते सेटौ चेमौ तासौ।। अञ्ञ्ज्वशू तर्हि प्रयोजयतः।। अञ्ञ्ज्वशू चापि न प्रयोजयतः।। किं कारणम्?।। तासौनित्याऽनिटःथ्द्य;त्युच्यते,विभाषितेटावेतौ ।। अदिस्तर्हि प्रयोजयति। आदिथ ।। क्रियमाणेऽपि वै हलादिग्रहणेऽत्र प्राप्नोति--जघसिथ। एषोऽपि हि हलादिः ।। तस्य चाभावात्तासौ ।। तासावनिट ःथ्द्य;त्युच्यते न च घसिस्तासावस्ति।। ननु च यस्तासौ नात्यनिडप्यसौ तासौ भवति।। नैवं विज्ञायते--यस्तासावनिडिति ।। कथं तर्हि?।। यस्तासावस्त्यनिट् चेति।। किं वक्तव्यमेतत्
?।। न हि ।। कथमनुच्यमानं गंस्यते ?।। सप्त्यम्यर्थे वतिः।। सप्तम्यर्थेऽपि वै वतिर्भवति। तद्यथा मथुरायामिव मथुरावत्। पाटलिपुत्र ःथ्द्य;व पाटलिपुत्रवत् । एवं तासाविव तास्वत्।। उपदेशेत्वतः।।
-7-2-63- ऋतो भारद्वाजस्य
किमर्थमिदमुच्यते न अचस्तास्वत्थल्यनिटो नित्यमित्येव सिद्धम् ।। एवं तर्हि नियमार्थोयमारम्भः--ऋत एव भारद्वाजस्य नान्यतो भारद्वाजस्येति ।। क्व मा भूत् ? ।। ययिथ(1) वविथेति ।। ऋतो भारद्वाजस्येति नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य(2)।। ऋतो भारद्वाजस्येति नियमानुपपत्तिः ।। किं कारणम् ? ।। अप्राप्तत्वात्प्रतिषेधस्य। गुणे कृते रपरत्वे चाऽनजन्तत्वात्प्रतिषेधो न प्राप्नोति ।। असति नियमे को दोषः ? ।। तत्र पचादिभ्य ःथ्द्य;ड्वचनम् ।। तत्र पचादिभ्य ःथ्द्य;ड्वक्तव्यः--पेचिथ शेकिथेति ।।
यदि पुनरयं(3) भारद्वाजः पुरस्तादपकृष्येत(4)---अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य । उपदेशेऽत्वतः । तत ऋतः । भारद्वाजस्येति निवृत्तम् ? ।। सिध्यत्येवमयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति ।। एवं तर्हि,---।। योगविभागात्सिद्धम्(1) ।। योगविभागः करिष्यते । अचस्तास्वत्थल्यनिटो नित्यमुपदेशे । ततः--अत्वतः । अत्वतश्चोपदेश ःथ्द्य;ति ।। ( ऋतो भारद्वाजस्य ) ।।
-7-2-64- बभूथाततन्थजगृम्भववर्थेति निगमे
वृग्रहणं किमर्थं न कृसृभृवृस्तुद्रुस्रुश्रुवो(2) लिटीत्येव सिद्धम् ।। एवं तर्हि ।। नियमार्थोयमारम्भः ।। निगम एव यथा स्यात् ।। क्व मा भूत् ? ।। ववरिथ ।।
-7-2-67- वस्वेकाजाद्वसाम्
किमर्थमिदमुच्यते ? ।। वस्वेकाजाद्धसांवचनं नियमार्थम् ।। नियमार्थोऽयमारम्भः -- वसावेकाजाद्धसामेव ।।क्व मा भूत् ? ।। बिभिद्वान् ।। किमुच्यते-- नियमार्थमिति, न पुनर्विध्यर्थमपि(1) स्यात् । प्रतिषेधोऽपि ह्यत्र प्राप्नोति --- नेड्वशि कृतीति, कृच्चैवाऽयं(2) वशादिश्च ।। एवं तर्हि---कृसृभृवृस्तुद्रुस्रुश्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ।। नात्र तेन परिप्रापणं प्राप्नोति ।। किं कारणम् ? ।। प्रकृतिलक्षणस्य प्रतिषेधस्य स(3) प्रत्यारम्भः, प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ।। उभयोः(4) स प्रत्यारम्भः । ।। कथं ज्ञायते ? ।। वृङ्वृञ्ञोर्ग्रहणात् ।। कथं कृत्वा ज्ञापकम् ? ।। ःथ्द्य;मौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्यः-उभयोः स प्रत्यारम्भ ःथ्द्य;ति, ततोवृङ्वृञ्ञोर्ग्रहणं करोति । न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च। तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ।।
अथ यावता वसावेकाजाद्धसिभ्य(5) ःथ्द्य;टा भवितव्यं को न्वत्र विशेषो नियमार्थे वा सति विध्यर्थे वा ? ।। न खलु कश्चिद्विशेषः, आहोपुरुषिकामात्रं तु,--भवानाह विध्यर्थमिति, वयं तु ब्रूमो--नियमार्थमिति ।।
अथैकाज्ग्रहणं किमर्थम् ? ।। ःथ्द्य;ह मा भूत्--बिभिद्वान् चिच्छिद्वानिति ।। क्रियमाणेऽपि वै एकाज्ग्रहणेऽत्र प्राप्नोति, एषोऽपि ह्येकाच् ।। एवं तर्हि कृते द्विर्वजने य(1) एकाच् ।। किं वक्तव्यमेतत् ? ।। न हि ।। कथमनुच्यमानं गंस्यते ? ।। एकाज्ग्रहणसार्मथ्यात् । न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति यदर्थमेकाज्ग्रहणं क्रियते ।। ननु चायमस्ति जागर्तिः---जागृवांसोऽनुग्मन्(2) ।। यत्तर्ह्याकारग्रहणं करोति । न हि कश्चिदकृते द्विर्वचने आकारान्तोऽनेकाजस्ति ।। ननु चायमस्ति,--दरिद्रातिः ।। न दरिद्रातेरिटा भवितव्यम् ।। किं कारणम् ? ।। उक्तमेतत्(1)--दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधाविति । यश्चेदानीं प्रत्ययविधौ सिद्धः सिद्धौऽसाविडि्वधौ । एवमपि भूतपूर्वगतिर्विज्ञायेत--आकारान्तो यो भूतपूर्वःथ्द्य;ति ।। एकाज्ग्रहणमेव तर्हि ज्ञापकम् ।। ननु चोक्तं--जार्गत्यर्थमेतत्स्यात् ।। नैकमुदाहरणमेकाज्ग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्या ज्जार्तेर्नेत्येव ब्रूयात् ।।
अथ घसिग्रहणं किमर्थं, न एकाजित्येव सिद्धम् ।। घसिग्रहणमनच्कत्वात् ।। घसिग्रहणं क्रियते, लोपे कृतेऽनच्कत्वादिण्न(1) प्राप्नोति ।। ःथ्द्य;दमिह संप्राधार्यमिट् क्रियतां लोप ःथ्द्य;ति, किमत्र कर्तव्यम् ? ।। परत्वादिडागमः ।। नित्यो लोपः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ।। ःथ्द्य;डपि नित्यः । कृतेऽपि लोपे प्राप्नोत्यकृतेऽपि ।। अनित्य ःथ्द्य;ट् । न हि कृते लोपे प्राप्नोति ।। किं कारणम् ? ।। अनच्कत्वात् ।। एवं तर्हि
द्विर्वचने कृतेऽभ्यासे योऽकारस्तदाश्रय ःथ्द्य;ड्भविष्यति ।। न सिध्यति ।। किं कारणम् ? ।। द्वित्वाल्लोपस्य परत्वात् । द्विर्वचनं क्रियतां लोप ःथ्द्य;ति किमत्र कर्तव्यम् ? ।। परत्वाल्लोपः । लोपे कृतेऽनच्कत्वाद्विर्वचनं न
प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषो भवति ।। कथम् ? ।। वचनादिड्भविष्यति ।। ःथ्द्य;टि कृते द्विर्वचनं क्रियतां लोप ःथ्द्य;ति यद्यपि परत्वाल्लोपः, स्थानिवद्भावाद्विर्वचनं भविष्यति ।। (वस्वेकाजाद्धसाम्) ।।
-7-2-68- विभाषा गमहनविदविशाम्
।। दृशेश्च(2) ।। दृशेश्चेति वक्तव्यम् । ददृश्वान् । ददृशिवान् ।। तत्तर्हि वक्तव्यम् ।। न वक्तव्यम् । दृशेरिति वर्तते ।। ( विभाषा गमहन )
-7-2-70- ऋद्धनोः स्ये
।। स्वरतेर्वेट्त्वादृतः(1) स्ये (ःथ्द्य;ति(2)) विप्रतिषेधेन ।। स्वरतिलक्षणाद्वावचनादृतः स्य ःथ्द्य;त्येतद्भवति विप्रतिषेधेन । स्वरतिलक्षणस्य वावचवनस्यावकाशः स्वर्ता स्वरिता । ऋतः स्य ःथ्द्य;त्यस्यावकाशः --करिष्यते हरिष्यते । ःथ्द्य;होभयं प्राप्नोति--स्वरिष्यति । अस्वरिष्यत् । ऋतः स्ये ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
-7-2-73- यमरमनमातां सक्च
किमुदाहरणम् ? ।। अयंसीत् अनंसीत् अयासीत् अवासीत् ।। नैतदस्ति, नास्त्यत्र विशेषः सति वा ःथ्द्य;ट्यसति वा ।। ःथ्द्य;दं तर्हि--अयंसिष्टाम् अयंसिषुः । व्यरंसिष्टां व्यरंसिषुः । अनंसिष्टाम् अनंसिषुः । अयासिष्टाम् अयासिषुः । अवासिष्टाम् अवासिषुः ।। ःथ्द्य;दं चाप्युदाहरणम्--अयंसीत् व्यरंसीत् अनंसीत् अयासीत् अवासीत् ।। ननु चोक्तं--नास्त्यत्र विशेषः सति वेट्यसति वेति ।। अयमस्ति विशेषः--यद्यत्रेण्न स्याद्वृद्धिः प्रसज्येत । ःथ्द्य;टि पुनः सति नेटीति प्रतिषेधः सिद्धो भवति ।। मा भूदेवं ह्यन्तानामित्येवं भविष्यति ।। अत्रापि(3) नेटीत्यनुवर्तते । तच्चाऽवश्यमिड्ग्रहणमनुर्वत्यम्--अधाक्षीदित्येवमर्थम् ।
आकारान्तश्चापि(4) पदपूर्व एकवचन उदाहरणं--मा हि यासीत् । यद्यत्रेण्न स्यादनुदात्तस्य ःथ्द्य;र्टः श्रवणं प्रसज्येत । ःथ्द्य;टि पुनः सत्युक्तमेतत्---अर्थवत्तु सिचश्चित्करणसार्मथ्याद्धीट उदात्तत्व मिति । तत्रैकादेश उदात्तेनोदात्त ःथ्द्य;त्युदात्तत्वं सिद्धं भवति ।। ( यमरमनमातां सक्च ) ।।
-7-2-77- ःथ्द्य;र्शः से
ःथ्द्य;र्ड्जनोर्ध्वे च (1) ।।
किमर्थो योगविभागो न -- ःथ्द्य;र्शीड्जनां स्ध्वे ःथ्द्य;त्येवोच्येत ।। ःथ्द्य;र्शो ध्वे मा भूदिति ।। ःथ्द्य;ष्यत एव(2) ःथ्द्य;र्शिध्वे ःथ्द्य;ति ।। ःथ्द्य;र्ड्जनोस्तर्हि से मा भूदिति(3) । ःथ्द्य;ष्यते एव -- ःथ्द्य;र्डिषे जनिषे ःथ्द्य;ति(3) ।। ःथ्द्य;र्शस्तर्हि(4) मा भूदिति(3) ।। ःथ्द्य;ष्यते एव ःथ्द्य;र्शिष्वेति ।। से तर्हि यः स्वशब्दस्तत्र यथा स्यात्, क्रियासमभिहारे यः स्वशब्दस्तत्र मा भूदिति ।। अत्रापीष्यते--स भवीनीशिष्वेत्येवायमीष्ट ःथ्द्य;ति । आतश्चेष्यते -- एवं ह्याह -- सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनादिति ।। ( ःथ्द्य;र्ड्जनोर्ध्वो ) ।।
-7-2-78- ःथ्द्य;र्ड्जनोर्ध्वे च (1)
ःथ्द्य;र्शः से ।।
किमर्थो योगविभागो न -- ःथ्द्य;र्शीड्जनां स्ध्वे ःथ्द्य;त्येवोच्येत ।। ःथ्द्य;र्शो ध्वे मा भूदिति ।। ःथ्द्य;ष्यत एव(2) ःथ्द्य;र्शिध्वे ःथ्द्य;ति ।। ःथ्द्य;र्ड्जनोस्तर्हि से मा भूदिति(3) । ःथ्द्य;ष्यते एव -- ःथ्द्य;र्डिषे जनिषे ःथ्द्य;ति(3) ।। ःथ्द्य;र्शस्तर्हि(4) मा भूदिति(3) ।। ःथ्द्य;ष्यते एव ःथ्द्य;र्शिष्वेति ।। से तर्हि यः स्वशब्दस्तत्र यथा स्यात्, क्रियासमभिहारे यः स्वशब्दस्तत्र मा भूदिति ।। अत्रापीष्यते--स भवीनीशिष्वेत्येवायमीष्ट ःथ्द्य;ति । आतश्चेष्यते -- एवं ह्याह -- सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनादिति ।। ( ःथ्द्य;र्ड्जनोर्ध्वो ) ।।
-7-2-80- अतोयेयः(2)
किं सार्वधातुकग्रहणमनुवर्तत उताहो न ? ।। किं चार्थोऽनुवृत्त्या ? ।। बाढमर्थः(3) ।। यद्यकारात्परो याशब्द(4)--आर्धधातुकमस्ति ।। ननु चायमस्ति चिकीर्ष्यात् जिहीष्यात्(1) ।। लोपोऽत्र बाधको भविष्यति ।। किं तर्ह्यस्मिन्योग उदाहरणम् ? ।। पचेत्(2) यजेत् ।। अत्राप्यतो दीर्घो यञ्ञीति दीर्घत्वं प्राप्नोति । स यथैवेयादेशो
दीर्घत्वं बाधते एवं लोपमपि बाधेत । तस्मात्सार्वधातुकग्रहणमनुर्वत्यम् ।। ( अतो येयः ) ।।
-7-2-82- आने मुक्
।। मुकि स्वरे दोषः(3) ।। मुकि सति स्वरे दोषो भवति---पचमानः यजमानः । मुका व्यवहितत्वादनुदात्तत्वं न प्राप्नोति ।। ननु चायं मुगदुपदेशभक्तोऽदुपदेशग्रहणेन ग्राहिष्यते ।। न सिध्द्यति--अङ्गस्य मुगुच्यते, विकारणान्तं चाऽङ्गम् । सोऽयं(1) सङ्घातभक्तोऽशक्योऽदुपदेशग्रहणेन ग्रहीतुम् ।। एवं तर्ह्यभक्तः करिष्यते । ।। अभक्ते च (2)।। किम् ? ।। स्वरे दोषो भवति पचमानो यजमानः । मुका व्यवहितत्वादनुदात्त्वं न प्राप्नोति ।। एवं तर्हि परादिः करिष्यते ।। परादौ दीर्घप्रसङ्गः ।। यदि परादिः क्रियते, अतो दीर्घो यञ्ञीति दीर्घत्वं प्राप्नोति ।। नैषः दोषः। तिङीत्येवं तत्। सिध्यति। सूत्रं तर्हि भिद्यते।। यथान्यासमेवाऽस्तु ।। ननु चोक्तं मुकि स्वरे दोष ःथ्द्य;ति ।। परिहृतमेतत्--अदुपदेशभक्तोऽदुपदेशग्रहणेन ग्राहिष्यते ।। ननु चोक्तम्अङ्गस्य मुगुच्यते विकरणान्तं चाङ्गं सोऽयं सङ्घातभक्तोऽशक्योऽदुपदेशग्रहणेन(5)ग्रहीतु मिति । अथा(3)ऽयमद्भक्तः(4) स्याद्गृह्येताऽदुपदेशग्रहणेन(5) ? ।। बाढं गृह्येत ।। अद्भक्तस्तर्हि भविष्यति ।। तत्कथम् ? ।। अतो येय(6) ःथ्द्य;त्यत्र अकारग्रहणं पञ्ञ्चमीनिर्दिष्टं, अङ्गस्येति च षष्ठीनिर्दिष्टं, तत्राऽशक्यं विविभक्तित्वादत ःथ्द्य;ति पञ्ञ्चम्या अङ्गं विशेषयितुं, तत्प्रकृतमिहाऽनुवर्तिष्यते ।। एवमपि षष्ठ्यभावान्न प्राप्नोति ।। आने ःथ्द्य;त्येषा सप्तम्यत ःथ्द्य;ति पञ्ञ्चम्याः षष्ठी प्रकल्पयिष्यति--तस्मिन्निति निर्दिष्टे पूर्वस्यति ।। ( आने मुक् ) ।।
-7-2-84- अष्टन आ विभक्तौ
।। अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकप्रसङ्गः ।। अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकः प्राप्नोति । अष्टाभिः अष्टाभ्यः । जातः जातवान् । पन्थाः मन्थाः ।। 8 ।। सिद्धमनण्त्वात् ।। सिद्धमेतत् ।। कथम् ? ।। अनण्त्वात् ।। कथमनण्त्वम् ? ।। अण्सवर्णान्गृह्णातीत्युच्यते न चाऽऽकारोऽण् । ।। उच्चारणसार्मथ्याद्वा ।। अथ वा शुद्ध उच्चारमसार्मथ्याद्भविष्यति ।। नैतौ स्तः परिहारौ । यत्तावदुच्यते---अनण्त्वादिति । न ब्रूमोऽण्सर्वान्गृह्णातीति ।। कथं तर्हि ? ।। तपरस्तत्कालस्येति । यदप्युच्यते उच्चारणसार्मथ्याद्वेति । अस्त्यन्यदुच्चारणे प्रयोजनम् ।। किम् ? ।। उत्तरार्थं रायो हलीति ।। एवं तर्हि नेमौ पृथक् परिहारौ । (। ।। एकपरिहारः ।।) ।। एकः(1) परिहारोऽयं --सिद्धमनण्त्वादुच्चारणसार्मत्याद्वेति ।। ःथ्द्य;ह तावदष्टाभिः अष्टाभ्य ःथ्द्य;ति --- अनण्त्वात्सिद्धम् । जातः जातवान् । पन्थाः मन्थाः,--उच्चारणसार्मथ्यात्सिद्धम्।। यद्येवं पृथक्परिहारयोरपि न दोषो यो यत्र परिहारः स तत्र भविष्यति।। (अष्टन आ विभक्तौ)।।
-7-2-86- युष्मदस्मदोरनादेशे
अनादेशग्रहणं(2) शक्यमकर्तुम् ।। कथम् ? ।। हलीत्यनुवर्तते(3) । न चादेशो हलादिरस्ति ।। तदेतदनादेशग्रहणं तिष्ठतु तावत्सांन्यासिकम् ।। ( युष्मद ) ।
-7-2-89 योऽचि
अज्ग्रहणं शक्यमकर्तुम्(1) ।। कथम् ? ।। अविशेषेण यत्वमुत्सर्गस्तस्य हलादावात्वमपवादः । ( योऽचि ) ।।
-7-2-90- शेषे लोपः
शेषग्रहणं शक्यमकर्तुम्(1) ।। कथम् ?।। अविशेषेण लोप उत्सर्गस्तस्याऽजादौ(2) यत्वमपवादो हलादावात्वमपवादः(3) ।। (शेषे लोपः ) ।।
-7-2-91- मपर्यन्तस्य
परिग्रहणं शक्यमकर्तुं(1), मान्तस्येत्येव सिद्धम् ।। न सिध्यति ।। किं कारणम् ? ।। अन्तशब्दस्योभयार्थत्वात् ।। कथम् ? ।। अयमन्तशब्दोऽस्त्येव सह तेन वर्तते । तद्यथा--मर्यादान्तं देवदत्तस्य क्षेत्रम्। सह मर्यादयेति गम्यते । अस्ति प्राक्तस्माद्वर्तते । तद्यथा--नद्यन्तं देवदत्तस्य क्षेत्रमिति । प्राङ्नद्या ःथ्द्य;ति गम्यते ।। तद्यः सह तेन वर्तते तस्येदं ग्रहणं यथा विज्ञायेत(1) ।। नैतदस्ति प्रयोजनम् ।
सर्वत्रैवाऽन्तशब्दः सह तेन वर्तते ।। अथ कथं नद्यन्तं देवदत्तस्य क्षेत्रमिति ।। नद्याः(2) क्षेत्रत्वे संभवो
नास्तीति कृत्वा प्राङ्नद्या ःथ्द्य;ति गम्यते ।। ( । ।। अवधिद्योतनार्थं तु परिग्रहणम् ।। ) ।। अवधिद्योतनार्थं तर्हि परिग्रहणं कर्तव्यम् । मान्तस्येत्युच्यमाने यत्रैव मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः ।। क्व च मान्ते युष्मदस्मदी ?।। युष्मानाचष्टे अस्मानाचष्टे ःथ्द्य;ति (णिचि--युष्मयति अस्मयति(1) ।) युष्मयतेरस्मयतेश्चाषप्रत्ययः(2) ।। ( मपर्यन्तस्य ) ।।
-7-2-98- प्रत्ययोत्तरपदयोश्च
किमर्थमिदमुच्यते न त्वमावेकवचन ःथ्द्य;त्येव सिद्धम् ? ।। न सिध्यति ।। किं कारणम् ? ।। एकवचनाऽभावात् । एकवचन ःथ्द्य;त्युच्यते न चात्रैकवचनं पश्यामः ।। प्रत्ययलक्षणेन ।। न लुमताङ्गस्येति प्रत्ययलक्षणस्य प्रतिषेधः ।। एवं तर्हि ःथ्द्य;दमिह संप्रधार्यं--लुक्क्रियतामादेशाविति(1), किमत्र कर्तव्यम् ? ।। परत्वादादेशौ(2) ।। नित्यो लुक् । कृतयोरप्यादेशयोः(2) प्राप्नोत्यकृत्योरपि ।। ---अन्तरङ्गावादेशौ ।। एवं तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ञापयत्याचार्योऽन्तरङ्गानपि विधीन्बाधित्वा बहिरङ्गो लुग्भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। गोमान् प्रियो यस्य गोमत्प्रियः यवमत्प्रियः गोमानिवाचरति गोमत्यते यवमत्यते । अन्तरङ्गानपि नुमादीन्बहिरङ्गो लुग्बाधत ःथ्द्य;ति ।। नैतदस्ति ज्ञापकम्, अस्त्यन्यदेतस्य वचने प्रयोजनम् ।। किम् ? ।। येऽन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थमेतत्स्यात् । तद्यथा--तव पुत्रः त्वत्प्रुत्रः, मम पुत्रो मत्पुत्रः । तुभ्यं हितं त्वद्धितं, मह्यं हितं मद्धितमिति ।। यत्तर्हि मपर्यन्तग्रहणमनुवर्तयति ।। यद्यत्राऽन्ये एकवचनादेशाः स्युर्मपर्यन्तानुवृत्तिरनर्थिका स्यात् ।। त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणम्(1) ।। त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणं द्रष्टव्यम् ।
त्रिचतुरोः स्त्रियां तिसृचतसृ(2) ।। यद्यपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियां वर्तेते, भवत्येव तिसृचतसृभावः, प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य,--प्रियतिसा प्रियतिस्रौ प्रियतिस्रः । प्रियचतसा प्रियचतस्रौ प्रियचतस्रः ।। प्रियास्तिस्रो ब्राह्मण्योऽस्थ ब्राह्मणकुलस्य--प्रियतिसृ प्रियतिसृणी प्रियतिसॄणि । प्रियचतसृ प्रियचतसृणी प्रियचतसॄणि ।। यदा हि समासः स्त्रियां वर्तते त्रिचतुरौ च(1) पुंसि नपुंसके वा तदा मा भूतामिति, प्रियास्त्रियो ब्राह्मणा अस्या ब्राह्मण्याः प्रियत्रि ब्राह्मणी(2) प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियाणि त्रीणि ब्राह्मणकुलानि अस्या ब्राह्मण्याः-प्रियत्रिः प्रियत्री प्रियत्रयः । प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः ।।
युवावौ द्विवचने । यद्यपि च(1) समास एकार्थो वा भवति बह्वर्थो वा भवति, द्व्यर्थे च युष्मदस्मदी, भवत एव युवावौ ।। किमविशेषेण ? ।। नेत्याह । यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि ःथ्द्य;त्येतान्विधीन्वर्जयित्वा(4) । अतिक्रान्तो युवामतित्वम्, अत्यहम् । अतिक्रान्तौ युवाम् अतियुवाम् अत्यावाम् । अतिक्रान्ता युवाम् अतियूयम् अतिवयम् । अतिक्रान्तं युवाम् अतियुवाम् अत्यावाम् । अतिक्रान्तौ युवाम् अतियुवाम् अत्यावाम् । अतिक्रान्तान्युवाम्(5) अतियुवान् अत्यावान् । अतियुवयाऽत्यावया । अतियुवाभ्याम्--अत्यावाभ्याम् । अतियुवाभिः. अत्यावाभिः । अतितुभ्यम् अतिमह्यम् ।। अतियुवाभ्याम् अत्यावा भ्याम् । अतियुवभ्यम् अत्यावभ्यम् । अतियुवत् अत्यावत् । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवत् अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः अतियुवाकम्---अत्यावाकम । अतियुवयि अत्यावयि । अतियुवयोः, अत्यावयोः,। अतियुवासु अत्यावासु ।
त्वमावेकवचने--यद्यपि समासो व्यर्थो भवति बह्वर्थो वा, एकार्थे च युष्मदस्मदी, भवत एव त्वमौ ।। किम् विशेषेण ? ।। नेत्याह। तानेव विधीन्वर्जयित्वा । अतिक्रान्तस्त्वाम् अतित्वम् अत्यहम् । अतिक्रान्तौ त्वामतित्वाम् अतिमाम् । अतिक्रान्तास्त्वाम् अतियूयम् अतिवयम् । अतिक्रान्तं त्वाम् अतित्वाम् अतिमाम् । अतिक्रान्तौ त्वाम् अतित्वाम् अतिमाम् । अतिक्रान्तान् त्वाम्--अतित्वान् अतिमान् । अतित्वयाऽतिमया । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वाभिः, अतिमाभिः । अतितुभ्यम्, अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् अतिमभ्यम्(1) । अतित्वत् । अतिमत् । अतित्वाभ्याम् अतिमाभ्यम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः । अतित्वाकम् अतिमाकम् । अतित्वयि अतिमयि । अतित्वयोः अतिमयोः । अतित्वासु अतिमासु ।।
यद्येवं यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतेभ्यो विधिभ्यः
परत्वात्त्वमावेकवचन ःथ्द्य;ति प्राप्नोति, सावकाशा ह्येते विधय ःथ्द्य;दानीं भवन्ति ।। कोऽवकाशः ? ।। अनेकार्थे युष्मदस्मदी(2) ।। त्वमावेकवचन ःथ्द्य;त्यस्यावकाशः-अन्यानि वचनानि । एकार्थयोर्युष्मदस्मदोरेतेषु वचनेषूभयं प्राप्नोति । परत्वात्त्वमावेकवचन ःथ्द्य;ति प्राप्नोति ।। नैषः दोषः । शेष ःथ्द्य;ति वर्तते ।। कश्च शेषः ? ।। जसादिभिरव्याप्तं यदेकवचनं, तस्मिन् शेषे । अशेषत्वान्न(3) भविष्यति ।। अथ वा(4)
त्वमावेकवचनःथ्द्य;त्यत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसीत्येतदनुवर्तिष्यते ।।
-7-2-99- त्रिचतुरोः स्त्रियां तिसृचतसृ
।। तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्(1) ।। तिसृभावे संज्ञायां कन्युपसङ्ख्यानं कर्तव्यम् । तिसृका नाम ग्रामः ।। चतसर्याद्युदात्तनिपातनं च ।। चतसर्याद्युदात्तनिपातनं कर्तव्यम् ।। त्रिचतुरोः स्त्रियां तिसृ चतसृ ।। किं प्रयोजनम् ? ।। चतस्रः पश्य । शसि स्वरो मा भूतिदि ।। किं चान्यत् ? ।। उपदेशिवद्वचनं च ।। उपदेशिवद्भावश्च वक्तव्यः ।। किं प्रयोजनम् ? ।। स्वरसिध्द्यर्थम् ।। उपदेशावस्थायामेवाद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनं यथा स्यात्--चतसृणामिति(2) ।। स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ।। न वक्तव्यः । ।। उक्तं वा(3) ।। किमुक्तम् ? ।। विभक्तिस्वरभावश्च हलादिग्रहणात् । आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् ।। ःथ्द्य;ति । (त्रिचतुरोः स्त्रियाम्) ।।
-7-2-100- अचि र ऋतः
।। अचि रादेशे जस्युपसङ्ख्यानं गुणपरत्वात् ।। अचिरादेशे जस्युपसङ्ख्यानं कर्तव्यम् । तिस्रस्तिष्ठन्ति चतस्रस्तिष्ठन्ति ।। किं पुनः कारणं न सिध्यति ? ।। गुणपरत्वात् । परत्वाद्गुणः प्राप्नोति ।। तत्तर्हि वक्तव्यम्(1) ? ।। न वाऽनवकाशत्वाद्रस्य ।। न वा वक्तव्यम्(2) ।। किं कारणम् ? ।। अनवकाशत्वाद्रस्य अनवाकाशो रादेशो गुणं बाधिष्यते ।। सावकाशो रादेशः ।। कोऽवकाशः ? ।। तिस्रः पश्य चतस्रः पश्य ।। नैषोऽस्त्यवकाशः, अत्रापि पूर्वसवर्णदीर्घः प्राप्नोति । स यथैव पूर्वसवर्णं बाधते एवं गुणमपि बाधिष्यते ।। गुणोऽप्यनवकाशः ।। सावकाशो गुणः ।। कोऽवकाशः ? ।। हे कर्तः नैष सर्वनामस्थाने गुणः ।। कस्तर्हि ? ।। संबुद्धिगुणः ।। अयं तर्हि--हे मातः ! ।। एषोऽपि संबुद्धिगुण एव ।। नाऽत्र संबुद्धिगुणः प्राप्नोति ।। किं कारणम् ? ।। अम्बार्थनद्योर्ह्रस्व ःथ्द्य;ति ह्रस्वत्वेन भवितव्यम् ।। भवेदीर्घाणां ह्रस्ववचनसार्मथ्यान्न स्यात्, ह्रस्वानां तु खलु(1) ह्रस्वत्वं क्रियतां संबुद्धिगुण ःथ्द्य;ति परत्वात्संबुद्धिगुणेन भवितव्यम् ।। अथापि कथं चित्सावकाशो गुणः स्यादेवमपि न(1) दोषः, पुरस्तादपवादा अनन्तरान्विधीन्बाधन्त ःथ्द्य;त्येवमयं रादेशो जसि गुणं बाधते सर्वनामस्थानगुणं न बाधिष्यते । तस्मात्सुष्ठूच्यते-- अचि रादेशे जस्युपसङ्ख्यानं गुणपरत्वादिति ।। (अचि र ऋतः ) ।।
-7-2-101- जराया जरसन्यतरस्याम्
(।। नुमोऽनङ्जरसौ (2)।।) नुमोऽनङ्जरसौ भवतो विप्रतिषेधेन । नुमोऽवकाशः-त्रपुणी जतुनी तुम्बुरुणी । अनङोऽवकाशः--प्रियसक्थ्ना ब्राह्मणेन । ःथ्द्य;होभयं प्राप्नोति--दध्ना(1) सक्थ्ना(2) । जरसोऽवकाशः --- जरसा जरसे । नुमोऽवकाशः--कुण्डानि वनानि ।। ःथ्द्य;होभयं प्राप्नोति--अतिजरांसि ब्राह्मणकुलानि ।। अनङ्जरसौ नुमो भवतो विप्रतिषेधेन ।।
अथेह लुक्कस्मान्न भवति--अतिजरसं पश्येति ?।। किं पुनः कारणं द्वितीयैकवचनमेवोदाह्रियते न पुनः प्रथमैकवचनमपि---अतिजरसं तिष्ठतीति ? ।। अस्त्यत्र विशेषो--नाऽत्राऽकृतेऽम्भावे जरस्भावः प्राप्नोति ।। किं कारणम् ? ।। अचीत्युच्यते । यदा( 3) च जरस्भावः कृतस्तदा लुङ्न भविष्यति सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति यद्येवमतिजरसमतिजरसैरित्यत्र न प्राप्नोति, अतिजरमतिजरैरिति भवितव्यम् ।। गोनर्दीय आह-- ःथ्द्य;ष्टमेवैतत्सङ्गृहीतं भवति । अतिजरमतिजरैरिति भवितव्यं सत्यामेतस्यां(1) परिभाषायां--सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ।। (जरायाजरस्) ।।
-7-2-102- त्यदादीनामः
।। त्यदादीनां द्विपर्यन्तानामकारवचनम् ।। त्यदादीनां द्विपर्यन्तानामत्वं वक्तव्यम् ।। किं
प्रयोजनम् ? ।। युष्मदस्मदन्तानां भवदन्तानां वा मा भूदिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् ।।
।। त्यदादीनामकारेण(1) सिद्धत्वाद्युष्मदस्मदोः ।
शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ।।
यदयं त्यदादीनामत्वेन(2) सिद्धे युष्मदस्मदोः शेषे लोपं शास्ति(3) तज्ज्ञापयत्याचार्यः--प्राक्ततोऽत्वं भवतीति, न सर्वेषामिति ।
।। अपि वोपसमस्तार्थमत्वाऽभावात्कृतं भवेत् ।।
नैतदस्ति ज्ञापकम्, उपसमस्तार्थमेतत्स्यात्--अतियूयम् अतिवयम् । उपसमस्तानां हि त्यदादीनामत्वं नेष्यते, ---अतितत् अतितदौ अतितदः ।।
।। टिलोपष्टाबभावाऽर्थः कर्तव्य ःथ्द्य;ति तत्स्मृतम् ।।
यस्तु शेषे लोपष्टिलोपः स वक्तव्यः किं प्रयोजनम् ? ।। टाप्प्रतिषेधार्थम् । टाम्मा भूदिति ।। स तर्हि टिलोपो वक्तव्यः ? ।। न वक्तव्यः ।
।। अथ वा शेषसप्तम्या शेषे लोपो विधीयते ।।
ःथ्द्य;ह युष्मदस्मदोर्लोप ःथ्द्य;तीयताऽन्त्यस्य लोपः सिद्धः, सोऽयमेवं सिद्धे सतियच्छेषग्रहणं करोति तस्यैतत्प्रयोजनम्--अवशिष्टस्य लोपो यथा स्यादिति ।
।। लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ।।
एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति--न सर्वेषां त्यदादीनामत्त्वं भवतीति यदयं--किमः कः ःथ्द्य;ति कादेशं शास्ति । ःथ्द्य;तरथा हि किमोऽद्भवतीत्येव ब्रूयात् ।। सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति, न च किमोऽत्वेन सिध्यति । अत्वे हि सत्यन्त्यस्य प्रसज्येत ।। सिद्धमन्त्यस्य पूर्वेणैव, तत्रारम्भसार्मथ्यादिकारस्य भविष्यति ।। कुतो नु खल्वेतत्--अनन्त्यार्थ आरम्भे सतीकारस्य भविष्यति न पुनः ककारस्य स्यात् ? ।। यत्तर्हि किमो ग्रहणं करोति । ःथ्द्य;तरथा हि कादद्भवतीत्येव ब्रूयात् ।। एवमपि ककारमात्रात्परस्य प्राप्नोति ।। त्यदादीनामिति वर्तते, न चाऽन्यत्किमस्त्यदादिषु ककारवदस्ति ।। एवमप्यनैकान्तिकं ज्ञापकम् । एतावन्नु(1) ज्ञाप्यते--न सर्वेषां त्यदादीनामत्वं भवतीति ; तत्र कुत एतद्--द्विपर्यन्तानां भविष्यति न पुनर्युष्मदस्मददन्तानां वा स्याद्भवदन्तानां वा ! ।। किञ्ञ्चाऽवश्यं खल्वप्युत्तरार्थं किमो ग्रहणं कर्तव्यं--कु तिहोः क्वातीति ।। कादेशः खल्वप्यवश्यं साकच्कार्थो वक्तव्यः --कः कौ के ःथ्द्य;त्येवमर्थम् । तस्माद्विपर्यन्तानामत्त्वं(2) वक्तव्यम् ।।
।। त्यदादीनामकारेण सिद्धत्वाद्युष्मदस्मदोः ।
शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ।। 1 ।।
अपि वोपसमस्तार्थमत्वाऽभावात्कृतं(3) भवेत् ।
टिलोपष्टाबभावार्थः कर्तव्य ःथ्द्य;ति तत्स्मृतम् ।। 2 ।।
अथ वा शेषसप्तम्या शेषे लोपो विधीयते ।।
लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ।। 3 ।।
-7-2-105- क्वाऽति
किमर्थं क्वादेश उच्यते न कुतिहात्स्वित्येवोच्येत ।। का रूपसिद्धिः क्व ? ।। यणादेशेन सिद्धम् ।। न सिध्यति--ओर्गुणः प्रसज्येत ।। (क्वाति) ।।
-7-2-106- तदोः सः सावनन्त्ययोः
किमर्थमनन्त्ययोरित्युच्यते ? ।। अन्त्ययोर्मा(2) भूदिति ।। नैतदस्ति प्रयोजनम्, अत्वमन्त्ययोर्बाधकं भविष्यति ।। अनवकाशा विधयो बाधका भवन्ति, सावकाशं चाऽत्वम् ।। कोऽवकाशः ? ।। द्विशब्दः ।।
सत्वमपि सावकाशम् ।। कोऽवकाशः ? ।। अनन्त्यः(3) ।
कथं पुनः सत्यन्त्येऽनन्त्यस्य(1) सत्वं स्यात् ? ।। भवेद्यस्तकारदकाराभ्यामङ्गं विशेषयेत्तस्याऽनन्त्ययोर्न स्याद्वयं तु खल्वङ्गेन तकारदकारौ विशेषयिष्यामः(2) ।। एवमप्युभयोः सावकाशयोः परत्वात्सत्वं प्राप्नोति ।। किं च स्याद्यद्यन्तयोः(3) सत्वं स्यात् ? ।। ःथ्द्य;ह हे स ःथ्द्य;ति; एङ्ह्रस्वादिति संबुद्धिलोपो न स्यात् । ःथ्द्य;ह

या सा ; अत ःथ्द्य;ति डाब्न स्यात् । तस्मादनन्त्ययोरिति वक्तव्यम् ।। न वक्तव्यम् ।। एवं वक्ष्यामि(4)--तदोः सः सौ । ततो ऽदसः । अदसश्च दकारस्य सो भवतीति ।। ःथ्द्य;दमिदानीं किमर्थम् ? ।। नियमार्थम्--अदस एव दकारस्य नान्यस्य दकारस्येति ।। यदि नियमः क्रियते--द्वीयतेरप्रत्ययो(5) द्व ःथ्द्य;ति प्राप्नोति स्व ःथ्द्य;ति चेष्यते ।। यथालक्षणमप्रयुक्ते ।। (तदोः स सौ) ।
-7-2-107- अदस औ सुलोपश्च
अदसः(1) सोर्भवेदौत्वं किं सुलोपो विधीयते ? ।। अदस एव सोर्भवेदौत्वं, किमर्थं सुलोपो विधीयते ? ।। ह्रस्वाल्लुप्येत(1) संबुद्धिः ।। ःथ्द्य;ह हे असा विति एङ्ह्रस्वात्संबुद्धेरिति लोपः प्रसज्येत ।। न हलः(1) ।। हलो लोपः संबुद्धिलोपः ।। तद्धल्ग्रहणं कर्तव्यम् ।। न कर्तव्यम् ? ।। प्रकृतं(1) हि तत् ।। प्रकृतं हल्ग्रहणम् ।। क्व प्रकृतम् ? ।। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हलिति ।। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ।। ह्रस्वादित्येषा पञ्ञ्चमी हलिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति--तस्मादित्युत्तरस्येति ।। आप एत्वं(1) भवेत्तस्मिन् ।। ःथ्द्य;ह हे असौ ब्राह्मणि ! । आङि चापः -- संबुद्धौ चेत्येत्वं प्रसज्येत ।। न झलीत्यनुवर्त्तनात् ।। (नैष दोषः(2)) । झलीति तत्रानुवर्त्तते ।।क्व प्रकृतम् ? ।। सुपि च बहुवचने झल्येदिति । ।। प्रत्ययस्थाच्च(1) कादित्त्वम् ।। ःथ्द्य;र्ह च असकौ ब्राह्मणीति प्रत्ययस्थात्कात्पूर्वस्येतीत्त्वं प्रसज्येत ।। नैष दोषः । प्रश्लिष्टनिर्देशोऽयम् --- आ-आप्--आबिति ।। ःथ्द्य;हापि तर्हि न प्राप्नोति--कारिके हारिके(3) ःथ्द्य;ति ।।
।। शीभावश्च प्रसज्यते(1) ।। ःथ्द्य;ह च शीभावः प्राप्नोति--असौ ब्राह्मणी ।। आप उत्तरस्यौङः शी भवतीति शीभावः प्राप्नोति । तस्मात्सोर्लोपो वक्तव्यः ।। सावौत्वप्रतिषेधः(3) साकच्काद्वा सादुत्वं च ।। सावौत्वप्रतिषेधः साकच्काद्वा वक्तव्यः । साच्च परस्य उत्वं वक्तव्यम् । असकौ असुकः । ।। उत्तरपदभूतानामादेश उपदेशिवद्वचनम् (अनादिष्टार्थम्) ।। उत्तरपदभूतानांत्यदादीनामादेश उपदेशिवद्भावो वक्तव्यः । परमाहं परमायं परमानेन ।। किं प्रयोजनम् ? ।। अनादिष्टार्थम् । अकृते एकादेशे आदेशा यथा स्युरिति । किं पुनः कारणम्--एकादेशस्तावद्भवति न पुनरादेशाः ?, न परत्वादादेशैर्भवितव्यम् ? ।। बहिरङ्गलक्षणत्वात् ।। बहिरङ्गा आदेशाः, अन्तरङ्ग एकादेशः--असिद्धं बहिरङ्गमन्तरङ्गे ।। स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ।। न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति--पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश ःथ्द्य;ति,--यदयं नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ।। कथं कृत्वा ज्ञापकम् ? ।। ःथ्द्य;न्द्रे द्वावचौ, तत्रैको यस्येति लोपेनापह्रियतेऽपर एकादेशेन, अनच्क ःथ्द्य;न्द्रः संवृत्तस्तत्र(4) को वृद्धेः प्रसङ्गः(5) ? । पश्यति त्वाचार्यः-पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशःथ्द्य;ति,--ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ।।
।। अदसः(6) सोर्भवेदौत्वं कि सुलोपो विधीयते ? ।।
ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ।।
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् ।
प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते ।।
-7-2-114- मृजेर्वृद्धिः
।। मृजेर्वृद्धिविधौ क्विप्रतिषेधः(1) ।। मृजेर्वृद्धिविधौ क्व्यन्तस्य प्रतिषेधो वक्तव्यः । कंशपरिमृड्भ्यां कंशपरिमृडि्भः । ।। धातौः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम् ।। अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धम् । धातुप्रत्यये कार्यं भवतीत्येषा परिभाषा कर्तव्या ।।
कान्येतस्याः परिभाषायाः प्रयोजनानि ? ।। प्रयोजनं(3) सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ।। सृजि-रज्जुसृड्भ्याम् रज्जुसृडि्भः । सृजि ।। दृशिदेवदृग्भ्याम् देवदृग्भिः । दृशि ।। मस्जि ---उदकमग्भ्याम् । उदकमग्भिः । मस्जि ।। नशि-प्रणड्भ्यां(4) प्रणडि्भः । नशि ।। हन्ति--वार्त्रघ्नः । भ्रौणघ्नः । हन्ति ।। गिरति(5)--देवगिरौ देवगिरः । (गिरति) ।। यदि स्वरूपग्रहण ःथ्द्य;त्युच्यते--प्रसृग्भ्यां( 6) प्रसृग्भिः । अनुदात्तस्य चर्दुपधस्यान्यतरस्यामित्यम् प्राप्नोति । एवं तर्हीयं परिभाषा कर्तव्या--धातोः कार्यमुच्यमानं तत्प्रत्यये भवती(7)ति ।। सा तर्ह्येषा परिभाषा कर्तव्या ? ।। न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति--भवत्येषा परिभाषा
यदयं भ्रौणहत्ये तत्वं शास्ति ।। ( मृजेर्वृद्धिः ) ।।
-7-2-115- अचो ञ्ञ्णिति
अज्ग्रहणं किमर्थम् ? ।। वृद्धावज्ग्रहणं गोऽर्थम् ।। वृद्धावज्ग्रहणं क्रियते (किं प्रयोजनम्(1) ? ।। गोऽर्थम् ।) गोतो वृद्धिर्यथा स्यात्--गौरिति ।।
नैतदस्ति प्रयोजनं, णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ।।
(अस्त्यन्यण्णित्करणस्य(1) प्रयोजनम् ।। किम् ? ।। गावौ गाव ःथ्द्य;त्यत्राऽत उपधाया ःथ्द्य;ति वृद्धिर्यथा स्यात् ।।) ।।
अथ योगविभागः किमर्थो न ञ्ञ्णित्यत उपधाया ःथ्द्य;त्येवोच्येत ।। का रूपसिद्धिः-चायको लावकः कारकः हारकः(2) ? ।। गुणे कृतेऽयवो रपरत्वे चाऽत उपधाया ःथ्द्य;त्येव सिद्धम् ।। (न सिद्ध्यति) । ।। योगविभागः सखिव्यञ्ञ्जनाद्यर्थः ।। योगविभागः क्रियते ।। (किमर्थः ? ।। सखिव्यञ्ञ्जनार्थः ।) सख्यर्थो व्यञ्ञ्जनाद्यर्थश्च । सख्यर्थस्तावत्--सखायौ सखायः । व्यञ्ञ्जनाद्यर्थः--जैत्रं यौत्रं च्यौत्रम् ।।
योगविभागे चेदानीं सखिव्यञ्ञ्जनाद्यर्थे क्रियमाणेऽज्ग्रहणमपि कर्तव्यं भवति ।। किं प्रयोजनम् ? ।। गोर्थम् ।। ननु चोक्तं णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ।। अस्त्यन्यण्णित्करणे प्रयोजनम् ।। किम् ? ।। गावौ गावः । अवादेशे कृतेऽत उपधाया ःथ्द्य;ति वृद्धिर्यथा स्यात् ।। यत्तु(3) सौ णित्करणं तदनवकाशं, तस्याऽनवकाशत्वादेव वृद्धिर्भविष्यति ।। यथैव खल्वपि णित्करणसार्मथ्यादनिकोऽपि वृद्धिः प्रार्थ्यते एवं तत्वमपि प्राप्नोति । तत्वमपि हि ञ्ञ्णितीत्युच्यते । तस्मादज्ग्रहणं कर्तव्यम्(1) ।। (अचो ञ्ञ्णिति) ।।
-7-2-117- तद्धितेष्वचामादेः
अज्ग्रहणं कर्तव्यम् ।। ननु च क्रियत एव(2) ।। द्वितीयं कर्तव्यं,--यथाऽचामादिग्रहणमज्विशेषणं विज्ञायेत--अचामादेरचःथ्द्य;ति ।। अथाऽक्रियमाणेऽज्ग्रहणे कस्याऽचामादिग्रहणं विशेषणं स्यात् ? ।। ःथ्द्य;ग्विशेषणमित्याह, ---अचामादेरिक ःथ्द्य;ति ।। तत्र को दोषः ? ।। ःथ्द्य;हैव स्यात्--ऐतिकायनः औपगवः । ःथ्द्य;ह न स्यात् --गार्ग्यो वात्स्य ःथ्द्य;ति ।। तत्तर्ह्यज्ग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । प्रकृतमनुववर्तते ।। क्व प्रकृतम् ? ।। अचो ञ्ञ्णितीति ।। यदि तदनुवर्ततेऽत उपधाया अचश्चेति अज्मात्रस्य उपधाया वृद्धिः प्रसज्येत--भेदकः(3) छेदक ःथ्द्य;ति ।। अकारेण तपरेणाऽचं विशेषयिष्यामः --अचोऽतःथ्द्य;ति ।। ःथ्द्य;हेदानीमच ःथ्द्य;त्यनुवर्तते अतःथ्द्य;ति निवृत्तम् । अथवा--।। मण्डूकगतयोऽधिकाराः(4) ।। तद्यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।। अथ वैकयोगः करिष्यते अचो ञ्ञ्णित्यत उपधायाः (ःथ्द्य;ति(1)) । ततः--तद्धितेष्वचामादेरिति । न चैकयोगेऽनुवृत्तिर्भवति ।। तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणप्रतिषेधः ।। तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणाया वृद्धेः प्रतिषेधो वक्तव्यः । क्रौष्ट्रः । जागत ःथ्द्य;ति ।। ननु चाऽचामादिवृद्धिरन्त्योपधालक्षणां वृद्धिं बाधिष्यते ।। कथमन्यस्योच्यमानाऽन्यस्य बाधिका स्यात् ? ।। असति खल्वपि संभवे बाधनं भवति,अस्ति च संभवो यदुभयं स्यात् ।। लोकविज्ञानात्सिद्धम् ।। सत्यपि संभवे बाधनं भवति । तद्यथा- दधि ब्राह्मणेभ्यो(3) दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति, एवमिहापि सत्यपि संभवेऽचामादिवृद्धिरन्त्योपधलक्षणां(2) वृद्धिं बाधिष्यते ।। विषम उपन्यासः । नाप्राप्ते दधिदाने तक्रदानमारभ्यते तत्प्राप्ते आरभ्यमाणं बाधकं भविष्यति, ःथ्द्य;ह पुनरप्राप्तायामन्त्योपधालक्षणायां(2) वृद्धावचामादिवृद्धिराभ्यते--सुश्रुत्सौश्रुत ःथ्द्य;ति ।। पुष्करसद्ग्रहणाद्वा ।। अथ वा यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति तज्ज्ञापयत्याचार्योऽचामादिवृद्धावन्त्योपधालक्षणा वृद्धिर्न भवतीति ।। ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभष्ये सप्तमाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।।
-9-9-999-