महाभास्करीयम् (परमेश्वरकृतकर्मदीपिकाव्याख्यासहितम्)
- ॥ॐ तत्सद्ब्रह्मणे नमः॥
- परमेश्वरकृतकर्मदीपिकाव्याख्यासहितं महाभास्करीयम्
प्रथमोऽध्यायः
सम्पाद्यताम्
कलां बिभर्ति क्षणदारकस्य यः
प्रकाशिताशां शिरसा गभस्तिभिः।
नमोऽस्तु तस्मै सुरवन्दिताङ्घ्रये
समस्तविद्याप्रभवाय शंभवे॥1॥
जयन्ति भानोः कमलावबोधिनः
करा हिमांशोर्वनिता(हि)तत्विषः।
ससूरितारास्फुटदीर्घरश्मयो
धरासुतज्ञार्तिसितत्विषं पुनः॥2॥
तपोभिराप्तं स्फुटतन्त्रमाश्यकं
चिरं समभ्येतु जगत्सु सद्गुणैः।
चिरं च जीयासुरपेतकल्मषा
भटस्य शिष्या जितरागशत्रवः॥3॥
किरीटहारमकरकुण्डलाद्यैरलंकृतम्।
नमामि तं हरिं चक्रशङ्खपद्मगदाधरम्॥1॥
व्याख्याने भास्करीयस्य भाष्यस्य प्राक् प्रदर्शिता।
ग्रहकर्मोपपत्तिस्तु सगोदा विस्तरान्मया॥2॥
क्रियामात्रप्रसिद्धयर्थधुना मन्दचेतसाम्।
व्याख्याऽल्पा तस्य मूलस्य क्रियते कर्मदीपिका॥3॥
कलां विभर्तीति शंभुस्तुतिः जयन्तीति ग्रहस्ततिः। तपोभिरित्यार्यभटतन्त्रस्य तच्छिष्याणां चाऽऽशीर्वचनम्॥1॥2॥3॥
नवाग्नि(द्रि)रूपाग्नियुतं महीभुजां
शकेन्द्रानाम्नां गतवर्षसंग्रहम्।
द्विषट्कनिघ्नं गतामाससंयुतं
युगाधिमासैर्गुणयेद द्विराशितम्॥4॥
नवाद्रीति। नवाद्रिरुपाग्निभि3179र्युतं शकाब्दसमूहं द्यदर्श(द्वादश)निहि(ह)तं वर्तमानवर्षैश्चैवादिभिरतीर्यौसैर्युतं पृथ्वीग्वन्यस्य युगाधिमासैर्गुणयेन। ते चाङ्गपुष्कररामाग्निरन्ध्रेष्विन्दुमिता 1593336 इति॥4॥
युगार्कमासाप्तगताधिमासकै -
र्युतस्तिथिघ्नं गतवासरान्वितम्॥
युगावमैस्तद्गुणयेद् द्विराशितो
निशाकराहैर्विभजेत नित्यशः॥5॥
तिथिप्रणाशाप्तिरतो विशोध्यते
भवत्यथाह्नां निचयः कलेर्गतः।
भवन्ति वारं तिथिसूनुपूजिता -
त्प्रवृत्तिमप्याहुरुदञ्चतो रवेः॥6॥
पुनर्युगार्कमासैर्विभजेत्। ते चायुतहता अब्धिवस्यवेकशराः 51840000। तत्र लब्धैः पूर्णैरधिमासै(1593336)र्युतं पूर्वं प्रतीराशितं त्रिंशता निहत्य वर्तमानमासे प्रतिपदादिभितीतरितिथिभिर्युक्त्या पृथग्नयिस्य युगावमैर्गुणयेत्। ते च व्योमवस्यक्षिद्व्यष्टखेष्टश्विन (25082280) इति।
पुनर्निशाकराहैर्विभजेत्। ते च-खाष्टव्योमभूम्याभ्राग्निखाष्टय 80301080 इति। तत्र लब्धं पूर्णमेव फलं प्रतिराशिताद्विशोधयेत्। शिष्टं कलेर्द्युगणो भवति। अत्र यदाऽधिमासादुत्तरमासो वर्तमानमासस्तदाधिऽमासोऽपि मासत्वेन ग्राह्यः। अस्मिन्नहर्गणे शुक्रवारादिर्वारो भवति। आरम्भश्चर्कोदयात्॥5-6॥
प्रकान्तरेणापि द्युहगणानयनमाह -
शशाङ्कमासैरभिताडताद्धरे-
दतीतमासानथवाऽर्कसंभवैः।
दिनीकृताद्भूमिदिनाहतान्दिनै-
र्विभज्य लब्धः शशिजैरहर्गणः॥7॥
शशङ्कमासैरिति। कलेरतीतात् सौरमासाद्युगशशिमासैर्निहत्य युगसौरमासैर्विभज्य लब्धं विंशता निहत्य वर्तमानचान्द्रमासे गततिथिभिर्युक्ता युगभूदिनैर्निहत्य युगशशिदिनैर्विभजेत्। तत्र लब्धं द्युगणो भवति। अस्मिन्द्यगणे कदाचिद्रूपमक्षेप्यमिति वक्ष्यति॥7॥
मध्यमानयनमाह -
उदीरि तान्याद्भगणात्क्षमादिनै-
र्लभामहे लान्कलियातवासरैः।
इति प्रलब्धा भगणास्ततः क्रमाहः
ग्रहांशलिप्ता विकलाः सतत्पराः॥8॥
उदीरितान्यादिति। सप्तमाध्याये पठितान् भगणान् क्षमादिनैर्लभामहे। तेषु कान् कलियातपसनैर्लभामह इति त्रैराशिकेन भगणा लभ्यन्ते। स्वस्वैर्भगणैर्द्युहगणान्निहत्यं भूदिनैहृत्वा भगणा लभ्यन्ते। शेषा द्वादशादिगुणाद् भूदिनै राश्यादयश्च भवन्ति॥8॥
कलीकृतं वा(मा)ससमं दिवाकरं
भजेत पक्षैर्युगसंख्ययोदितैः।
स्वगीतिकोक्तैर्भगणैः समाहता
विहंगमानां प्रवदन्ति लिप्तिकाः॥9॥
कलीकृतामिति। अतीतवर्षाख्यैः स्वभगणैः सहितामिष्टादिनाऽऽनीतं दिवाकरं कलीकृत्य स्वैः स्वैर्भगणैर्निहत्य युगवर्षैर्विभजेत्। तत्र लब्धा इष्टग्रहस्य कला भवन्ति॥9॥
निशाकरं वा ग्रह मुच्चमेव वा
कलीकृतं तत्सहयातमण्डलैः।
यथेष्टनक्षत्रगणैर्हतं हरे -
त्तदीयनक्षत्रगणैस्ततः कलाः॥10॥
निशाकरामीति। चन्द्रं वा इष्टाग्रहं वा चन्द्रोच्च वाऽतीतमण्डलैः तह कलीकृत्य इष्टग्रहस्य भगणैर्विभजेत्। तत्र लब्धा इष्टग्रहकला भवन्ति॥10॥
अथ चन्द्रादित्ययोरेव कर्मान्तरमाह -
युगाधिमासैर्द्युगणं हतं हरे -
त्क्षमादिनैर्वा भगणादि लभ्यते।
त्रयोदशघ्ने सवितर्यताक्षिपे -
न्निशीथिनीनां पथिचारसिद्ध्ये॥1॥
युगाधिमासैरित्यादिश्लोकेद्वयेन। युगाधिमासैर्द्युगणं निहत्य भूदिनैर्विभजेत्। तत्र लब्धं भगणादिफलं भवति। तत्फलं तयोर्दशगुणिते सूर्ये क्षिपेत्। तच्चन्द्रो भवति। अथवा तत्फलं चन्द्राद्विशोध्य शिष्टस्य त्रयोदशांशो रविर्भवति॥11॥
अथ द्युगणं विना चन्द्रार्कयोरानयनाय श्लोकसप्तकमाह -
विना द्विराशेरपि चन्द्रभास्करौ
पकुर्वतो वा विधिरेष कथ्यते।
समासु मासीकृतविग्रहासु ये
ह्यतीतमासा विनियोज्य तान्पुनः॥12॥
खरामनिघ्नान्द्रिवसेषु योजये-
द्गतेषु मासस्य ततोधिऽमासकैः।
निहत्य सर्वें विभजेत सर्वदा
युगार्कृमासैर्दिवसत्वमागतैः॥13॥
भवन्ति लब्धास्त्वधिमासकाः पुनः -
स्ततोऽपनीयाऽऽशु च भागहारकम्।
भवेदशेषाः शशिमाससंख्यया
ततांशलिप्ताविकलाः सतत्पराः॥14॥
ततोऽधिमासं प्रणिहत्य खाग्निभिः
सुयोज्य सभ्यग्गतवासरैः क्रमात्।
युगावमघ्नाच्छशिवासरैर्हरे -
त्तमत्र शेषं प्रवदन्ति चाऽऽह्निकम्॥15॥
हत्वाऽधिमासैरप(व)[म]स्य शेषं
छित्त्वा धराया दिवसैः प्रलब्धम्।
संयोज्य नित्यं त्वाधिमासशेषे
कार्यं पुनस्तत्करणैर्यथोक्तम्॥16॥
युगप्रसिद्धर्धरणीदिनैर्हरे -
न्निहत्य षष्ट्याऽ[व]मशेषमाह्निकम्।
कला विलीप्ताः क्रमशः सतत्परा -
स्त्वतीतमासा दिवसा ग्रहांशकाः॥17॥
त्रयोदशाघ्नादपि रूपताडिता -
द्विशोधयेद्यत्त्वधिमासशेषजम्।
निशाकरार्कौ गणकैः प्रकीर्तितौ
भटप्रणीताविति बुद्धिमत्तमैः॥18॥
विना द्युरकशोरिति। अतीतवर्षाणि द्वादशभिर्निहत्य वर्तमानवर्षे गतांश्चन्द्रमासानापि तेषु प्रक्षिप्य त्रिंशता निहत्य वर्तमानमासे गताः सुपूर्णास्तिथिः (थीः) प्रक्षिप्य युगाधिमासौर्निहत्य युगार्कमासौस्त्रिंशद्गुणितैर्विभजेत्। तत्र लब्धा अधिमासा भवन्ति। तानधिमासानधिमासशेषंचैकत्र संस्थाप्य पुनरतीतवर्षाणि मासीकृत्यातीतमासैः संयोज्य त्रिंशता निहत्य वर्तमानमासे गतास्थीश्च संयोज्य तेषु लब्धानधिमासांस्त्रिंशता निहन्ताप्रक्षिप्य युगावमैर्निहत्य युगचन्द्रदिवसैर्विभजेत्। तत्र शिष्टमवमशेषं भवति। तदान्ति(ह्नि)कसंज्ञं च भवति। तदेकत्र संस्थाप्य पुनः पृथग्विन्यस्य युगाधि मासैर्निहत्य युगभूदिनैर्विभज्य लब्धं पूर्वानीताधिमासशेषे प्रक्षिप्य युगचान्द्रमासैर्विभजेत्। तत्र लब्धा अंशा भवन्ति। पुनः शेषात्षष्टिघ्नाद्युगचान्द्रमासैर्लिप्तादशयश्व ग्राह्यः। अत्र यथा प्रथमानीताधिमास शेषो युगाधिकदिनेभ्यो हीनो भवति तदा युगसौरदिवसयुगोऽधिमासशेषो ग्राह्यः। अधिमासाश्च तदा होका भवन्तीति ज्ञेयम्। पुनः पूर्वानीतमवशेषं विन्यस्य षष्ट्या निहत्य युगभूर्दिर्विभजेत्। तत्र लब्धाः कला भवन्ति। शेषात्षष्टिघ्नात्तेनैव हारेण विकलादयश्च ग्रह्याः। पुनरस्यापि लिप्ताया उपरिभागस्थाने वर्तमानमासे गतास्तिथीः संस्थाप्य तस्योपरिराशिस्थाने वर्तमानवर्षे गतान्मासांश्च संस्थापयेत्। एवं राश्यंशकलाद्यात्मकं ग्रहशरीरं भवति। पुनस्तं ग्रहशरीरं त्रयोदशर्भिर्निहस्य तस्मात्पूवर्मधिमासशेषाल्लब्धमंशाधिकं विशोधयेत्। तव शिष्टं चन्द्रो भवति। पुनरेकनिहताद्ग्रह- शरीरादाधिमासशेषजमंशाधिकं विशोधयेत्। तत्र शिष्टं रविर्भवति॥12॥13॥14॥15॥16॥ 17॥18॥
अथ मध्यमानयन उपायान्तरमाह -
अम्बरोरुपरिधिर्बिभाजितो
भूदिनैर्दिवसयोजनानि तैः
संगुणय्य दिवसानथाऽऽहरे -
त्कक्ष्यया भगणराशयः स्वया॥19॥
अम्बरेति। अम्बरोरुपरिधिकाराशकक्ष्या तदानयनं वक्ष्यि-"इन्दोर्गणा यय(म) वियद्रसवुन्दनिघ्ना व्योम्नो भवेयुरिह वृत्तसमानसंख्या" इति। अनूना तत्समा नारी साध्वी सर्वप्रिया इत्याकाशकक्ष्या। तां भूदिनैर्विभज्य लब्धानि दिवसयोजनानि भवन्ति। तैर्दिवसयोजनैः कलिदिवसान्निहत्य ग्रहस्य कक्ष्यया विभजेत्। तत्र लब्धा भगणा भवन्ति। शेषाद्वादशादिगुताद्राश्यादयश्च भवन्ति। "इष्टग्रहस्य भगणैर्गनस्य वृत्तं भङ्कक्त्वाऽथ तस्य परिधिं लभते समन्तात्" इति कक्ष्यासिद्धिः। अत्र दिवसयोजनानयने हवशेषस्तदंशो हारकस्तच्छेदस्तावपवर्त्य संस्थाप्यौ कक्ष्यायोजनानयने च हृतशेषस्तदंशो हारकस्तच्छेदस्तावपर्त्य संस्थाप्यौ दिवसयोजननान्यंशीकृत्य कक्ष्याछेदेन च निहत्य तैरिह गणना कार्या। कक्ष्यायोजनानि चांशीकृत्य दिवसयोजनच्छेदेन च निहत्य तैरिह हरणं च कार्यम्।
अथ मध्यमानयनायोपा[या]न्तरमुपादिद्दिक्षुः प्रथमं तत्स्वरूपं दर्शयति -
अदृष्टमन्यैरिदमास्मकीयैः
कर्म ग्रहाणां लघुतन्त्रसिद्धम्।
संचिन्त्य शास्त्रार्णवमास्मकीय -
मुत्पाठ्य(द्य)ते तन्त्ररहस्यभूतम्॥20॥
अदृष्टमिति। आश्मकीया आर्यभटशिष्या। लघुतन्त्रं गणितविशेषं ग्रहाणां कर्म मध्यमानयनमाहुः॥20॥
अधिमासानयनमाह -
रुद्रैः सहस्रहतषट्च(श)कलैश्च हत्वा
वर्षाणि रन्ध्रवसुवह्सिमानसंख्यैः।
मुक्त्वा सदा प्रविगणय्य खरामभक्ता
मासा भवन्ति दिवसाश्च हृतेऽवशिष्टाः॥21॥
रुद्रैरिति। अतीतवर्षाणि गणयित्वा संस्थाप्य रुद्रैर्हन्यात्। ते अधिकाहा भवन्। पुनरपि वर्षाणि रन्ध्रवसुह्निभि(389)र्हत्वा सहसा(खा)हतैः षड्भिर्हरेत्। तत्रमप्यधिकाहा भवन्ति। तद्द्वयं संयोज्य त्रिंज्या 30 बिभजेत्। तत्र लब्धा अधिमासा भवन्ति। हृतशेषा अधिकदिनानि भवन्ति॥21॥
अवमानयनमाह -
संहत्य रन्धरयमलै रसारामभक्तै -
र्भूयोऽग्निवेदगुणितेषु हरेच्च भागम्।
खव्योमवह्निमुनिभिः प्रलयस्थितीनां
संयोज्य भूतयमरुद्रहृते दिनानि॥22॥
संहत्येति। वर्षाणि रन्ध्रयमलै29र्निहत्य रसरामै36र्विभजेत्। तत्रावमा भवन्ति। तत्र शेषमेकत्र संरक्ष्य पुनर्वर्षाण्यग्निवेदैर्गुणयित्वा तेषु पूर्वस्थापितं हृतशेषं सहस्रद्वितयेन 2000 हतं प्रक्षिप्य खव्योमखद्विमुनिभि72000र्हरेत्। तत्र लब्धा अप्यवमा भवन्ति। एतत्फलद्वययोग इहावम इत्युच्यते। पुनरत्र हृतशेषं भूतमयरुद्रै1125र्हरेत्। तत्र लब्धा अवमयातादतीता दिवसा भवन्ति॥22॥
एषां संका(स्का)रमाह -
तेभ्योऽधिकाहान्प्रविशोध्य शेषं
वातारदातो ह्यवमस्त कालम्।
यदा न शुध्येदपमं प्रगृह्य
दत्त्वा चतुष्षष्टितमो विशोध्यः॥23॥
तेभ्योऽधिकाहानिति। तेभ्योय(ऽव)मपतनोत्तरदिनेभ्यो भूतयमरुद्रसिद्धेभ्यो241125 ऽधिकाहान्प्रविशोधयेत्। यदा ते न शुध्येयुस्तदाऽवमदिनेभ्य एकमवमं गृहीत्वा तं चतुःषष्ट्या 64 निहत्य भूतयमरुद्रसिद्धेषु 241125 तेषु दिनेषु क्षिप्रा(प्त्वाऽ)धिकाहान् विशोधयेत्। तत्र यः शेषः स इह कर्मयोग्यः स्फुटोपमस्य पातादतीतः कालो भवति॥23॥
अब्दाधिपावगमनायाऽऽह -
मासाधिमासकगणा गिरिभागशेषा -
स्रिंशद्गुणादपचयोऽयमुदीर्यतेऽतः।
शैलावशिष्टकलियातमिषुप्रणिघ्नं
संयोज्य हीनदिवसेषु नगावशेषम्॥24॥
एकयुक्तदिवसेषु वर्षपः
कीर्तितः स्थितखगादिताद्यदा।
हीनरात्रिगतयुक्तवासरा -
द्वेदवृन्दविहृतास्तदाऽप(व)माः॥25॥
मासाधिमासकेति। अतीतसौरमासानधिमासयुक्तान् सप्ति7र्विभज्य शिष्टं विंशत्या20 निहत्यैकत्र संस्थाप्य पुनरततिवर्षाणि सप्तभि7र्विभज्य शिष्टं पञ्चभि5र्निहत्य पूर्वानीतावमदिवेषु प्रक्षिप्य सप्तभि7र्विभज्य शिष्टं पूर्वस्थापितात्त्रिंशद्30गुणितदिवसगणाद्विशोध्य शिष्टे सप्तभि7र्हत एकयुक्ते शुक्रवारादिर्वर्षाधिपो भवति। वर्तमानवर्षेऽवमपरिज्ञानायाऽऽह-हीनरात्रेति। वर्तमानवर्षे चैत्रादीतिथिसमूहं तेभ्योऽधिकाहानित्यादिना साधितेष्ववमपातोत्तरदिनेषु प्रक्षिप्त वेदानां घनेन च चतुःषष्ट्या विभज्य लब्धा वर्तमानाब्द् अतीता अवमा भवन्ति॥24॥25॥
अथ वक्ष्यमाणमध्यमानयनसाधनभूतस्य शोध्यराशेरानयनमाह -
वर्षेषु रन्ध्रकृतचन्द्रसमाहतेषु
षट्सप्तपञ्चविहृतेषु दिनादिलाभः।
ते योजिता दशहतासु समाससंज्ञां
संप्राप्नुवन्ति रविजा इति निश्चलो(यो)मे॥26॥
रविजदिवसयोज्याश्चाप(व)मा येऽत्र लब्धाः
सततमधिकमासाञ्शोधयेत्खाग्निघ्नान्।
भवति यदवशिष्टं शोधनीयं समायां
यदि तदधिकशुद्धं क्षेप्यमेवापदिष्टम्॥27॥
वर्षेष्विति 'अतीतवर्षाणि रन्ध्रकृतचन्द्रै 149र्निहत्य षट्सप्तपञ्चभि576र्विभजेत्। तत्र लब्धं दिनं भवति। शेषात्षष्टिघ्नात्तेनैव हारेण नाड्यादयश्च साध्याः। ते दिवसा दशाहतैरतीतवर्षैयोज्यास्मदा रविजदिवसा भवन्ति। तेषु पूर्वानीतानवमदिवसान्प्रक्षिप्त तेभ्यः पूर्वानीतानधिमासांस्त्रिंशद्गुणि तान्विशोधयेत्। तत्र शिष्टं शोधनीयं नाम राशिभर्वति। वक्ष्यमाणावमहीनमधुसितदिवसादिकदिनगणनाच्छो(ध्य)मित्यर्थः। यदि तदधिकशुद्धं क्षेप्यमेवोपदिष्टामिति। यद्यवमरहितविजदिवसेभ्यस्त्रिंशद्गुणिताधिमासानमाधिक्याद्शोध्यत्व भवति। तत्राधिकादल्पं विशोध्य शिष्टं क्षेप्यराशिहिम् (शिर्भ) वति। पूर्वोक्तदिनगणे क्षेप्यं भवतत्यिर्थः॥26॥27॥
अथ मध्यमानयनसाधनभूतं ग्रहतनुस्वरूपमाह-
षष्टिशतत्रयनिघ्नो वर्षगणो ग्रहतनुः सदा कथितः।
तेन समेता विहगा ध्रुवका इति कीर्तिताः सद्धिः॥28॥
षष्टीति। षष्टिशतत्रय् 360निघ्नोऽतीतवर्षगणो ग्रहतनुर्भवति। ग्रहतनोरेकदेश इत्यर्थः। तेन समेता विहगा इति। तेन ग्रहतनुराशिना समेता रविबुधभृग्वाख्या अंशीकृता ध्रुवका भवन्ति। ध्रुवकसंस्थिताश्च भवन्तीत्यर्थः। षष्टिशतत्रय 360 निघ्नवर्षघ्नगणयुतो भागीकृतस्तत्कालरविश्चन्द्रादीनामानयेन ग्रहतनुर्भवति। इत्यु(क्तं) भवति। रविमध्यमानयने तु मधुसु(सि)तदिवसादिको दिनगणोऽयमहीनः शोधनीयो विशुद्धो ग्रहतनुर्भवति॥28॥
दिनाधिपत्यवगमनायाऽऽह-
मधुसितदिवसाद्यो हीनहीनो गणोह्नां
दिविचरहृतशिष्टो वारमासाब्दवा(पा)दिः।
तत इदमपि शोध्यं शोधनीयं समायां
पतितसमतिरिक्तो गृह्यते नापरोऽत्र॥29॥
मधुसितेति। चैत्रशुक्लप्रतिपदाद्यातीतिथिगणेऽवमहीने सप्तर्भिहते शेषाद्वर्षाधिपादिवारो भवति। तत इदमिति। इष्टवारगताद्विसगणादवमहीनादिदं शोधनीयाख्यं दिनादिकं शोधयेत्। अत्र शोधनीय शोधनेऽवमहीनं एव दिनगणो गृह्यते नतु सप्तहृतावशिष्टः॥29॥
+रविमध्यमानयनमाह-
सप्तत्या दिवसाद्याः शरभागा द्विगुणिता विवटकाश्च।
तद्रहितो ग्रहदेहो रविबुधभृगवश्च निर्दिष्टाः॥30॥
सप्तत्येति। शोधनयिविशुद्धादहर्गणाद् ग्रहदेहाख्यात्सप्तत्या दिवसादिफलं भवति। पुनरपि तस्मादहर्गणाद्द्विगुणितात्पञ्चभि5र्विनाड्यो भवन्ति। एतद्द्वयं ग्रहदेहाख्यादहर्गणाद्विशोधयेत्। तत्रशिष्टं रविमध्यमो भवति। अर्कोऽयं नातिसूक्ष्मः। एतस्मिन्वर्षे नातीतान्तं भवतीति भावः। अयमेव - बुधमध्यमो भृगुमध्यमश्च भवति॥30॥
चन्द्रमध्यमानयनमाह-
कुमुदवनसुबन्धो रन्ध्रवर्गो द्वियुक्तः
ग्रहतनुगुणकारी भागहारः प्रदिष्टः।
शरयमयमलाख्यो भागपूर्वोऽत्र लाभो
ह्युण(द्युय)मविशिखनिघ्नो वेन्द्रियाप्ता विलिप्ताः॥31॥
कुमुदवनेति। अतीतभगणः सह भागीकृतं तत्कालमध्यमरविं ग्रहदेहाख्यं[त्र्य]शीत्या निहत्य शरयमयमलै225र्विभजेत्। तत्र भागादिफलं भवति। पुनरपि ग्रहदेहमेकादशभिर्निहत्य पञ्चाशता 50 विभज्य लब्धा विलिप्ताः पूर्वफलाद्विशोध्य त्रयोदश13हतं ग्रुहतनुं प्रक्षिपेत्। स चन्दो भवति। त्रयोदशहततनुप्रक्षेपणं वक्ष्यति॥31॥
चन्द्रपातानमाह-
भागाः खनिधनाशस्त्रिरुद्रगुणित विलिप्तिका ज्ञेयाः।
षड्भिः शतैर्विभक्ते विंशत्यंशो रवेश्च तमः॥32॥
भागाः इति। ग्रहदेशाच्छून्यादियमलेर्भागा भवन्ति। पुनग्रर्हदेहात्रिशशिरूपहतात्षड्भिः शतैर्विलिप्ता भवन्ति। पुनर्ग्रहदेहाद् विंशत्यंशश्च ग्राह्यः एतेषां त्रयाणां योगो राहुर्भवति॥32॥
÷चन्द्रतुङ्गानयनमाह -
अचलहतनवाशा लिप्तिका रुद्रनिघ्ने
गगनसाविभक्तेर्लिप्तिकास्तापि पूर्वाः।
ग्रहतनुखयमांशास्तत्पराः शोधनीया
दशलवसमुपेतश्चन्द्रतुङ्गः स भानोः॥33॥
अचलेति। सप्तघ्नाद्वग्रहदेहान्नवर्भिर्लिप्ता भवन्ति। पुनः कीदृ (एकाद) शहताद्ग्रहदेहात्षष्ट्या विलिप्ता भवन्ति। तद्द्वयमेकीकृत्य तस्माद्ग्रहत विंशत्या विभज्य लब्धास्तत्पराः संशोध्य ग्रहतनुदशांशं प्रक्षिपेत्। स चन्द तुङ्गे भवति॥33॥
शुक्रशीघ्रोच्चानयनमाह -
भूभृद्रामहतां हरेच्छरगुणै रन्ध्रैर्ग्रहाणां तनुं
भागाद्यस्थिजितोऽपि भौरिकागणा भागे शतेनोदधृते।
रामांशेन युतं रवेश्च सकलं द्विघ्नाद्रवेः शोधये -
त्क्षेपः सोमजसोमयोः कृतगुणः सूर्योऽथ विश्वाहतः॥31॥
भूभृदिति। सप्तत्रिंशद्गुणिताद्ग्रदेहान्नवभिः शतैर्भागाद्या भवन्ति पुनर्भागात्मके ग्रहदेहे शतेनोद्धते विलिप्ता भवन्ति। ग्रहदेहत्र्यशं च गृहीत्व तत्सकलं द्विघ्नाद्रवः (वेः) शोधयेत्। शेषं शुक्रस्य शीघोच्चं भवति। क्षेप हतः सूर्यः प्रक्षेप्यः॥34॥
बुधशीघ्रोच्चानयनमाह -
व्योमशून्यनेत्रभाजिते फलं
राशयोऽष्टभाजितेऽथ लिप्तिकां विदुः।
बिन्दुषड्ढते विलिप्तिकाद्विदः
सर्वमेव योज्यते गण्यते बुधः॥35॥
व्योमशून्येति। ग्रहदेहोच्चैतद्द्वयेन राशयो भवन्ति। ग्रहदेहादष्टभिर्लिप्ताश्च भवन्ति। ग्रहदेहात्षष्ट्या विलिप्ताश्च भवन्ति। एतेषां योगे चतुर्गुणः सूर्यः प्रक्षेप्यः। एष बुधशीघ्रोच्चं भवति॥35॥
बिन्दुशून्यं मन्दमध्यमानयनमाह -
अष्टाहृते शरयमाश्विहृते कलाः स्यु -
र्देहे तथा त्रिदशभक्तविलिप्तिकाश्च।
युक्त्वैतदेवमुभयं शनिरत्र गण्या -
स्त्रिंशल्लृवो रविभवो धनमत्र कार्यम्॥36॥
अष्टाहत इति। अष्टाहताद् ग्रहदेहाच्च(च्छ)रयमाश्विभिः22 कला भवन्ति। पुनर्ग्रहदेहाच्च(च्छ)तत्रयेण विलिप्ताश्च भवन्ति। एतत्फलद्वययोगे ग्रहदेहस्य त्रिंशांशः प्रक्षेप्यः स शनिर्भवति। एतत्फलद्वययोगे ग्रहदेहस्य त्रिंशांशः प्रक्षेप्यः स शनिर्भवति॥36॥
- कुजमध्यमानयनमाह -
द्विकनिघ्ने ग्रहदेहे स्वविंशद्भागरहिते च लिप्ताद्याः।
पञ्चाशद्दशविकलाः क्षेप्या भौमो रवेरर्धे॥37॥
द्वकनिघ्न इति। द्विघ्नो ग्रहदेहो लिप्ता भवन्ति। पुनर्द्विघ्नाद्ग्रहदेहाद्विंशत्या लब्धा लिप्तास्ताभ्यो लिप्ताभ्यः शोध्याः। पुनर्ग्रहदेहात्पञ्चाशताऽपि कलाश्च भवन्ति। एतत्फद्वयं ग्रहदेयस्यार्धे क्षेप्यं स भौमो भवति॥37॥
गुरुमध्यमानयमाह-
द्वियमघ्ने ग्रहदेहे शरनगरामोद्धृते तु लिप्ताद्याः।
सुरनाथगुरोर्भोगो रविभोगद्वादशांशयुतः॥38॥
द्वियमघ्न इति। द्वियम22घ्नाट् ग्रहदेहाच्छरनगरामैर्लिप्ता भवन्ति। तस्मिन् ग्रहदेहाद्द्वादशांशं 12 प्रक्षिपेत्। स गुरुर्भवति॥38॥
×चन्द्रोच्चपातयोर्ध्रूवमहर्गणे रूपक्षेपं चाऽऽह -
राशित्रयं क्षिप निशाकरतुङ्गमध्ये
वा तन्निपात्य भगणात्क्षिप राशिषट्कम्।
त्रैराशिकागतदिनेषु च रूपमेकं
व्यावर्णयन्ति गणका भटशास्त्रचित्ताः॥39॥
राशित्रयमिति। तुङ्गे राशित्रयं क्षेप्यं राहुं भगणाद्विशोध्य राशिषट्कं प्रक्षेप्यम्। एतदनयोः सर्वदा कार्यम्। त्रैराशिकानीतेऽहर्गणे कदाचिद्रूपं क्षेप्यम्। राहुं भगणाद्विशोध्य राशिषट्कं प्रक्षेप्यम्। एतदनयोः सर्वदा कार्यम्। त्रैराशिकानीतेऽहृर्गणे कदाचिद्रूपं प्रक्षिप्येष्टवारः साध्यः॥39॥
अथ कुट्टाकाराविधिः। तत्र हारभज्ययोरपवर्तनमाह -
भूदिनेष्टगणान्योन्यभक्तशेषेण भाजितौ।
हारभाज्यौ दृढौ स्यातां कुट्टाकारं तयोर्विदुः॥40॥
क्षमा(भू)दिनेति। युगभूदिनं विन्यस्य तस्योपरीष्टग्रहस्य युगभगणं विन्यस्य परस्परं विभजेत्। प्रथमं भगणेन भूदिनं हरेत्। पुनर्हृतशेषेण भगणं पुनस्तच्छेषेण भूदिनशेषम्। एवं भूयोऽपि परस्परं हरेत्। तत्रान्ते यो राशिरविशिष्यते तेन शेषेणं भूदिनं भगणं च हरेत्। तत्र लब्धौ दृढहारो दृढमाज्यश्च भवतः। एवमुपपत्तीन्त(र्तित)योर्हारभाज्ययोः सतोः कु[ट्टा]कारकर्म क्रियते॥40॥
अथ तत्कर्मक्रममाह -
भाज्यं न्यसेदुपरि हारमध्यश्च तस्य
खण्ड्यात्परस्परमधो विनिधाय वल्ल्यः।
केनाऽऽहतोऽर्धमपनीय यथाऽस्य शेषं
भागं ददाति परिशुद्धमिति प्रचिन्त्य॥41॥
आप्तां मतिं तां विनिधाय वल्ल्या
नित्यं ह्यधोऽधः क्रमशश्च लब्धम्।
मत्याहतं स्यादुपरि स्थितं य -
ल्लब्धेन युक्तं परतश्च तद्वत्॥42॥
हारेण भाज्यो विधिनोपरिस्थो
भाज्येन नित्यं तदधःस्थितश्च।
अहर्गणोऽस्मिन्भगणादयश्च
तष्ट्वा भवेदस्य समीहितं च॥43॥
भाज्यं न्यसेदिति। उपरि स्थाने दृढभाज्यं न्यस्य तस्याधो दृढहारं च विन्यस्य पूर्ववत्परस्परं विभजेत्। तत्र लब्धं फलं चाधोऽधः क्रमेण वल्लीरूपेण स्थापयेत्। यावद्विभक्ते शेषयोरल्पत्वं मतिकल्पना च सुकरा भवति तावदेवं परस्परं विभज्य तत्तत्फलं चाधोऽधः क्रमेण विन्यसेत्। तत्र भाज्यशेषे हारशेषादल्पे सति यत्संख्यया गुणिते भवति तया संख्यया भाज्यशेषं निहत्य भगणादिशेषं तस्माद्विशोध्य हारशेषेण हरेत्। तत्र लब्धं निःशेषं फलं भवति। प्रतिप्रति संख्यया स्वोर्ध्वे गतं स्थानं निहत्य त्तस्मिन्नत्यगतं लब्धं विनिक्षिपेत्। पुनरपि शिष्टपदानामुपान्त्ये स्वोर्ध्वे निहत्य प्रक्षिपेत्। एवं पुनः पुनः कुर्यात्। यावद्द्वावेव राशी भवतः। तत्र तयोरुपरिस्थं राशिं दृढहारेण सहाधःस्थितं दृढभाज्येन हरेत्। उभयत्र शिष्टं ग्राह्यम्। तत्रोपरिस्थो द्युगणो भवति। अवःस्थितं तस्माद्घुणाल्लब्धं भगणादि भवति। भगणशेषः पूर्वं शुद्धश्चेद् भगणो राश्यादिः शेषः शुद्धश्चेद् राश्यादिरित्यर्थः। तदुक्तं-तद्वा भवेद्यस्य समीहितं यदिति। यथाऽहर्गणश्च घटिकारूपः कदाचिदुद्देशकवच नवशाद् भवति॥41॥42॥43॥
रूपं शेषं प्रकल्प्य च कुटाकारकर्म कार्यमित्याह -
रूपमेकमपास्यापि कुट्टाकारः प्रसाध्यते।
गुणकारोऽथ लब्धं च राशी स्यातामुपर्यधः॥44॥
रूपमेकमिति। भगणादिशेषेकमिति प्रकल्प्यैतद्वशाद् मतिं च प्रकल्प्य पूर्ववदहर्गणं भगणादिं चाऽऽनयेत्। पुनस्तेनार्हणेनाभीष्टशेषं निहत्य दृढहारेण हरेत्। तत्र शिष्टमिष्टाहर्गणो भवति। तथा तत्र लब्धं भगणादिसंज्ञितं चाभीष्टाशेषेण निहत्य दृढभाज्येन हरेत्। तत्र लब्धमभीष्टाभगणादिर्भवति॥44॥
उद्दिराश्यादिमानाद्भगणशेषानयनमाह -
इष्टेन शेषमभिहत्य भजेद्दृढाभ्यां
शेषं दिनादि भगणादि च कीर्त्यतेऽत्र।
राश्यादयो निरपवार्जि(र्ति)तवासरघ्ना
राश्यादिमानभजितां प्रवदन्ति शेषम्॥45॥
राश्यादय इति। राशिरुद्दिश्चेतं राशिं दृढवासरेण निहत्य द्वादशभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। राशिभागश्चोद्दिष्टश्चेद्राशिं भागीकृत्य दृढहारेण निहत्य चकांशैर्विभजेत्। तत्र लब्धं भगणशेषो भवति। राश्यो भागा लिप्ताश्चोद्दिष्टाश्चेत्सर्वं लिप्तीकृत्य दृढहारेण निहत्य चक्रलिप्ताभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। एवमन्यत्राप्यूह्यम्। अत्रोद्देशकः--
मध्यं रवेर्मृगपतौ धनुरंशकार्घे
दृष्टं मया दिनकरोदयकालजातम्।
आगण्यतां दिनगणो भटतन्त्रसिद्धो
याताश्च तस्य भगणाः कलियातसिद्धाः॥
अत्र राशयश्चत्वारः। भागा अष्टाविंशतिः 28। लिप्ता विंशतिः 20। एतत्सर्वं कलीकृत्य दृढवासरेण निहत्य चक्रलिप्ताभिर्विभजेत्। तत्र लब्धं भगणशेषो भवति। ते च वस्वष्टरसाङ्गवसवः 86688। एतस्य भगणशेषत्वात्। दृढमगणमुपरि न्यस्य परस्परहरणेन वल्लीमुत्पाद्य भगणशेशवशान्मतिं च प्रकल्पयोक्तिविधिना द्युगणं भगणाख्यं च लब्धं चाऽऽनयेत्। पञ्चवेदत्रिपञ्चाभ्रशशाङ्क 105345 तुल्यो द्युगणः। तत्राऽऽनीतभगणानिव स्पष्टयमलतुल्यानि। अत्र रूपापचयेऽहर्गणदस्त्रखाङ्गाब्धिरन्ध्र94602 तुल्यः। तत्र लब्धं रन्धेषुनेत्र259तुल्यः॥45॥
यत्र राश्यादिमानाभ्यस्तो भाज्यो दृढवासरादिधिको भवति तत्र विशेषमाह-
भाज्योऽधिको यदि भवेत्खलु हारराशे -
स्तत्राधिकं समपनीय तथैव कर्म।
तेनाधिकेन गुणितो गुणकारराशि -
र्युक्तोऽधरेण स भवेत्पृथगत्र लब्धम्॥46॥
भाज्योऽधिक इति। दृढवासराख्याद्धारकाल्लिप्ताद्यात्मके भाज्येऽधिके सति प्रथमं हारेण लिप्तात्मकं भाज्यं हत्वा जातं फलमेकत्र संलक्ष्य पुनर्भाज्यशेषमुपरि न्यस्य तदधो हारं च विन्यस्य पूर्ववत्परस्परहरणं कृत्वा वल्लीं संस्थाप्य मतिं च लब्धं च तदधो विन्यसेत्। पुनरुपान्त्यहननादि कृत्वा राशिद्वयमानीय तयोरुपरि पूर्वमन्यत्र स्थापितं प्रथमफलं विन्यसेत्। तेषु त्रिषु राशिषूपान्त्येन स्वोर्धं(र्घ्वं) निहत्य तस्मिन्नन्त्यं प्रक्षिपेत्। तत्रोर्ध्वगतं लिप्ताद्यात्मकेन भाज्येन हरेत्। तत्र शेषं लिप्ताद्यात्मकं फलं भवति। अधःस्थितं दृढहारेण हरेत्। तत्र शिष्टामहर्गणो भवति। एवं भाज्याधिके विशेषः। उद्देशकः -
नीता रवेर्बलवता मरुता समस्त -
राश्यादयोऽत्र गणिताः सह तत्पराभिः।
शेषो मया परिगतः खलु तत्पराणां
सैकं शतं कथय भानुमहर्गणं च॥
अत्र तत्पराः शेषस्य उद्दिष्टत्वात्तत्परीकृतदृढभगणो भाज्यः। दृढंवासरो हारः। तत्र भाज्यस्याधिकसंख्यत्वात्। प्रथमं भाज्यं दृढहारेण विभज्य तत्र लब्धं फलमेकव निधाय पुनर्भाज्यशेषं दृढहारेयोः परस्परहरेण वल्लीमुत्पाद्य मतिं लब्धं च संपाद्य पुनरुपान्त्यगुणमा(ना) कृत्वा राशिद्वयमुत्पाद्य तयोरुपरि प्रथमहरणेन लब्धं फलं व्योमाद्र्यष्टमयैकयमलैः212870 संकृत्वा (स्कृत्य) राशीनामुपन्त्येन स्वोर्ध्यं निहत्य तस्मिन्नत्यं प्रक्षिपेत्। तत्रोपरिस्थितं तत्परीकृतभाज्यख्यं विन्यस्य तेषां त्रयाणां रा.......न हरेत्। तत्र शेषो भगणः। तत्रैकाब्ध्येकरसव्योमचन्द्र106141तुल्यो द्युगणः। एकरन्ध्रेषुखाष्टानिषनेवषुयमाद्वक 9229480191तुल्यो रविः। एकावाये तु(?)काङ्गद्व्यष्टगाब्ध्यब्धिचन्द्रतुल्यो द्युगणः। एकनवाब्ध्येकागाङ्गद्व्यष्टखाग्नि3082671491तुल्यं फलम्॥46॥
[1]अथ वारकुट्टाकारे विशेषामाह -
अपवर्तितवासरादिशेषा-
त्क्रमशस्तानपनीय रूपपूर्वम्।
कृतकुट्टनलब्धराशिमेषां
गुणकारं समुशन्ति वारहेतोः॥47॥
अपवर्तितेति। दृढवासरं स्य(स)प्तभिर्विभज्य तत्र शिष्टभाज्यं प्रकल्प्य हारसप्तसप्तसंख्यं प्रकल्प्य दृष्टवारसंख्याहीनामिष्टवारसंख्यां शोध्यं प्रकल्प्य पूर्ववत्कुट्टनकर्माणि कृते यो राशिरहर्गणत्वेन सिद्धो भवति तेन गुणितं दृढवासरं भूताहर्गणे प्रक्षिपेत्। स इष्टवारेऽहर्गणो भवति। अत्र वल्लया अभावे मतिरेव द्युगणराशिर्भवति। उद्देशकः -
धन्वन्यंशाः शरकृतिसमाः षट्कृतिर्मौरिकाणां
भानोर्मध्यं दश च विकलासंयुतं वर्णयन्ति।
रात्रिः पातुस्तनुजदिवसे केन कालेन तुल्यो
भावी सूर्यः कथय विशदं जीवशुकज्ञवारे॥
अत्र भानो राश्यदिकं लिप्तीकृत्य दृढवासरेण सावयवं निहत्य चक्रकलाभिर्विभज्य भगणशेषमानीय तेन दृढवासरभाज्यां च कुट्टाकारकर्म कुर्यात्। तत्र लब्धोऽहर्गणः सहस्रसंख्यः। अस्मिन्नहर्गणे बुधवारः। अतो जीवावासरार्थमेकं शोध्यम्। दृढवासरे सप्तिभिर्भक्ते चत्वारो लब्धाः। अतश्चतुःसंख्यो भाज्यः। सप्तसंख्यो हारः। एतैः कुट्टनकर्मणि कृते द्विसंज्ञो राशिर्लभ्यते। तेन द्विसंख्येन गुणितं दृढवासरे पूर्वानकि(त)बुधवासरद्यगुणे प्रक्षिपेत्। तदा जीववारेऽहर्गणो भवति। शुक्रवारविशुध्यं तु द्विसंख्यः शोध्यराशिः। ऊर्ध्वबुधवारसिद्ध्यर्थं सप्तसंख्यः शोध्यराशिः। अन्यत्पूर्ववत॥47॥
÷अथ वेलाकुट्टाकारे विशेषमाह -
छेदभाज्यापवर्तेन यच्छेदस्यातिरिच्यते।
तेन हारं समभ्यस्य वेलाकुट्टस्तु पूर्ववत्॥48॥
प्रक्षिप्य भागहारं कुट्टाहारे पुनः पुनः प्राज्ञैः।
योज्यं च भागलब्धं भाज्ये प्रस्तारयुक्त्यैव॥49॥
छेदेति। उदयादन्यकालजो ग्रहो यदोद्दिष्टो भवति, तत्र वेलाकुट्टाकार्यः। तत्र दिनांशस्य सच्छेद एतावत्यां नाड्यामेवं ग्रह इत्युक्ते नाडिकांशस्य च्छेदः षष्टिसंख्यः। एतावति यामे गत एवमित्युक्ते यामस्य दिनाष्टांशत्वादष्टसंख्यश्छेदः। एवमन्यत्रापि कल्प्यम्। अत्र नाडि कायामुद्दिष्टत्वात्वात्षष्टीसंज्ञो(ष्टिसंख्यो) तं षष्ठी(ष्टि)संज्ञं(ख्यं) दिनांशच्छेदः दृढभाज्यं च परस्परं हृत्वा तत्र शिष्टेन द्वादशसंख्यौ तौ दिनांशच्छेदभाज्यौ हर्तव्यौ। तत्राष्टाचत्वारिंशत्संख्यो भाज्यः। पञ्चसंख्यो भाज्यः। पञ्चसंख्यो दिनांशच्छेदः। सोऽत्र च्छेदातिरिक्त इत्युच्यते। तेन दृढहारं गुणयेत्। सोऽत्र हारः स्यात्। तथा तेन लिप्ताशेषोऽपि हन्तव्यः। सोऽत्र शेषः। अष्टाचत्वारिंशत्संख्यो भाज्यः। अत्र लिप्ताशेषस्योद्दिष्टत्वात्। भाज्योऽपि लिप्तीकृतो ग्राह्यः। तत्र भाज्यहारयोः पुनरप्यपवर्तनसंभवात्। तौ पञ्चभिर्भर्त्त(क्त)व्यौ। तत्र भाज्यः पञ्च5हृतः शून्यरसाग्निसप्तयम 927360संख्यैः। हारो नवाष्टाग्निशून्यकैयम9210389संख्यशेषः। पूर्वगुणेन गुणित उत्तरहारेण हृतश्च प्राग्वदेकसप्तति71संख्य एव। एतैः पूर्ववदहर्गणरवी साध्यौ। न तत्र घटीभूतोऽहर्गणो रामखाक्ष्यग्निसागर 43203तुल्यः। लिप्तीकृतो रविरेकाष्टीष्वक्षिसागर42516112 तुल्यः। अत्र लब्धेऽहर्गणे भगणाद्यात्मके फले च स्वस्वहारं यथेष्टगुणं प्रक्षिप्योद्देशकोक्ताहर्गणभगणाद्याः साध्याः। यावत्प्रक्षिप्यते मया दृष्टोयमित्युद्देशको ब्रवीति तावत्स्वस्वहारं प्रक्षिपेदित्यर्थः। प्रस्तारयुक्त्या यत्संख्यागुणितो हारोऽहर्गणे प्रक्षिप्यते तत्संख्यागुणित एवहारः फले च प्रक्षेप्य इत्यर्थः॥48॥49॥
गन्तव्य उद्दिष्टे तत्र विशेषमाह -
गन्तव्यमिष्टं यदि कस्यचित्स्या -
द्गन्तव्ययोगाद्दिमेव कर्म।
रूपेण वा योऽन्यविधिर्विचिन्त्य
सर्व समानं खलु लक्षणेन॥50॥
गन्तव्यमिति। गन्तव्य उद्दिष्टे सति भगणादेर्गव्यं शेषं प्रकल्प्य पूवर्वद्वल्लीमुत्पाद्य तत्र भाज्यशेषे यत्संख्यया गुणिते गन्तव्यशेषं तस्मिन्प्रक्षिप्य हारशेषेण भक्ते विशेषं फलं भवति तत्संख्यां मतिं प्रकल्प्य तत्राऽऽप्तं लब्धं च प्रकल्प्य पूर्ववत्कुट्टारकारकर्म कृत्वाऽहर्गणं फलं चाऽऽनयेत्। तत्र फलमेकहीनं स्फुटं भवति। अन्यत्सर्वं पूर्ववदेव। उद्देशकः -
गन्तव्यं रविणाऽष्टमस्य भवनस्याऽऽहुः का(क)लानां शतं
संचिन्त्याऽऽशु पदात्मकस्य गणितं ज्ञातं त्वया चेदिह।
यावन्त्यत्र कलेर्गतानि मतिन्सर्वाणि वर्षाणि मे
त्वंहा(त्वह्नां) यश्च गणः स चैव विशदं वाच्यः कलेर्यो गतः॥
अत्र पूर्ववदानीतं मण्डलं गन्तव्यं वेदव्योमशशाङ्कैकाद्रि7111040तुल्यम्। तत्रैकहीनो भगणो गतभगणः स्यात्। अत्रापि पूर्ववद्रूपसंख्यं क्षेप्यं प्रकल्प्य राशिद्वयमानीय पुनरिष्टगन्तव्यशेषेण निहत्य स्वस्वहारेण विभज्य शेषौ वाऽहर्गणभगणौ भवतः। तदुक्तं रूपेण वेति॥50॥
ग्रहयोगे तदन्तरे वोद्दिष्टविशेषमाह -
योगेषु तेषां भगणादियोगैः -
र्विशेषितैर्वाऽपि तथा विशेषे।
अन्योऽन्यशेषादपि चिन्तनीय -
मिष्टग्रहस्पष्टगणैर्विधानम्॥51॥
इति महाभास्करीये कर्मनिबन्धे प्रथमोऽध्यायः॥1॥
योगेषु तेषामिति। यत्र ग्रहयोर्ग्रहाणां वा योग उद्दिष्टस्तत्र तयोर्ग्रहयोस्तेषां वा भगणयोगो भाज्यः। भूदिवसः एव हारः। भगणादिशेषयोगः शेषग्रहाना(न्त)र उद्दिष्टे भग[णा]न्तरं भाज(ज्यं) भूदिवसो हारः कर्तव्यः। योग उद्देशकः -
पञ्चसप्तनवभौमशशङ्कौ राशिपूर्वगणितौ समवेतौ।
उच्यतां दिनगमाशशिभौमौ कीदृशौ च भटतन्त्रविदाशु॥52॥
अत्र राशियोगः पञ्चसंख्यः। भागयोगः सप्तसंख्यः। लिप्तायोगेऽत्र भाज्यः। भूदिवसो हारः। ताभ्यामपवर्तिताभ्यामिह कर्म क्रियते। तत्र जातो द्विगुणशून्यरन्ध्रकृताद्रीषुचन्द्रव्योमेन्दु 1015749032संख्यकः।
विशेष उद्देशकः -
भौमश(शु)क्रगुरुमध्यविशेष पञ्चराशिगणितः परिपूर्णः।
उच्यते दिनगणः कलियातो देवमन्त्रिरुधिरौ च कि(कि)यतौ(न्तौ)।
कुजजीवभगणोर्वि(णवि)शेषोऽत्र भाज्यः। भूदिवसो हारकः। तस्मामपवर्तिताभ्यामत्र कर्म कार्यम्। अत्र जातोऽहर्गणः षध्यो(पञ्चव्यो)मषट्रात्रिरा मेन्दुचन्द्र (1133605)तुल्यः। अन्योन्यशेषादित्यादिना साग्रकुट्टाकार विधानं चिन्तनीयमिति इह सूचितम्। स कुट्टाकारविधिर्गोविन्दस्वामिकृते भाष्ये द्रष्टव्यः। तद्भाष्यस्य व्याख्यायां तत्प्रयोगो मया व्याख्यातश्च॥52॥
इति परमेश्वरकृतायां कर्मदीपिकायां प्रथमोऽध्यायः॥1॥
द्वितीयोऽध्यायः
सम्पाद्यताम्
अथ देशान्तरविधिः। तत्र लङ्कामेर्वन्तरालगतमध्यरेखास्ति(स्थि)तानि कतिचित्यत्तनान्याह-
लङ्कातः खरनगरं सितोरुगेहं
वाणाटो मिसितपुरी तथातपण्णि।
उतुङ्गः सितवरनामधेयशैलो
लक्ष्यमीवत्पुरमपि खात्यगुल्मसंज्ञम्॥1॥
विख्याता वननगरी तथा ह्यवन्तिः
स्थानेशो मुदितजनस्तथा च मेरुः।
निन्द्या(विन्ध्या)ख्य[:] करण विधिस्तु मध्यमाना -
मेतेषु प्रतिवसतां न विद्यते सः॥2॥
लङ्कात इति। एतेषु वसतां जनानां देशान्तराख्यं कर्म न भवति॥1॥2॥
अथ कैश्चिदुदितं देशान्तरयोजनावगमनोपायमक्षांशानित्यादिना प्रदर्श्याध्वानमित्यादिना तन्निराकरोति -
स्वाक्षांशा णि(नि)गदितवित्तनाशहीना -
त्संहन्यान्नवनवपक्षपुस्कराख्यैः -
अष्टाभिः शरकृतिहीनभागसंख्यै -
श्चन्द्रांशैरपहृतयोजनानि कोटिः॥3॥
कर्णाख्यः स्वविहितपत्तनान्तरद्धा
तिर्यक्स्थो जनव(प)दभाषितो जगत्याम्।
तत्कृत्योर्विवरपदं वदन्ति केचि -
दध्वानं गणितस्य वेदितारम्॥4॥
अक्षांशानिति। कस्मिन्समरेखागतपत्तेऽक्षांशन् विदित्वा तदक्षांशस्वदेशाक्षांशयोर्विवरभागा-नानीय तैर्भूपरिधियोजनानि नवनवपक्षपुष्कराख्यतुल्यानि निहत्य चक्रांशैः षष्ट्युत्तरशतत्रयैर्विभज्य लब्धं कोटिर्भवति। कोटियोजनानीत्यर्थः। स्वदेशसमरेखागतपत्तानयोरन्तराले तिर्यग्गतानि जनपदभाषितानि जनपदभाषणसिद्धानि योजनानि कर्णो भवति। एतयोः कोटिकर्णयोर्वर्गान्तरपदं देशान्तरयोजनानि भवन्ति। अत्रोक्तानि ÷भूपरिधियोजनानि योजनतः पञ्चविंशत्युत्तरंशतद्वयांशैरष्टभिर्हीनानीत्याह- अष्टाभिरित्यादिना॥3॥4॥
अस्य पक्षस्य दूषणमाह -
अध्वानं गणितविदो भटस्य शिष्याः
स्थूलत्वाच्छ्र्वणविधेर्न सम्यगाहुः।
अक्षादेरपि च विधेरथापपत्ति -
र्वक्रत्वात्क्षितिपरिधेर्वदन्ति सन्तः॥5॥
अध्वानमित्यादिना। दूषणहेतुमाह- स्थूलत्वादित्यादिना। स्थूलत्वं जनपदभाषणमावसिद्धत्वात्॥5॥
अथ मतान्तरं प्रदर्श्य तदपि निराकरोति -
छायार्थस्फुटदिवसतिग्मरश्म्यो-
रध्वानं विवरकलाग्रमाहुरेके।
नैतत्स्यात्समपरपूर्वदिकस्थितानां
तुल्यत्वात्फलगणितस्य वर्णयन्ति॥6॥
छायाम्ते(र्थे)यादिना। मध्यच्छायया वक्ष्यमाणविधिना मध्याह्नेऽर्कमानीय पुनर्गणितविधिना च मध्याह्ने देशान्तरं विनाऽर्कमानयेत्। तयोर्यद्विवरतलाग्रं विवरकलामानं तत्तद्देशान्तरमित्येकः आहुः। तद्देशान्तरसाधन मित्यर्थः। तन्निराकरोति-नैतदित्यादिना। दूषणहेतुमाह-समपरेत्यादिना॥6॥
अथ स्वमतमाह -
सूर्येन्द्वोरकृतसमाध्वनोर्विधानात्
संप्राप्तः सति दलकाकालदृष्टयोश्च।
विश्लेषः स्फुटतर उच्यतेऽत्र कालो
गोलोक्तैर्विदितभटप्रणीतनेत्रः॥7॥
नित्यं वा शशिनमदेशकालसंख्यं
सूर्यश्च स्फुटमुदयास्तथङ्घ(तद्घ)टीभिः।
कृत्वैव ज्वलविधिना घटीश्च बुद्ध्वा
तत्रस्य(स्थ)द्विपरमुशन्ति देशकालम्॥8॥
सूर्येन्द्वोरिति। अकृतदेशान्तरैसंस्कारयोः सूर्येन्द्वोरन्तरकालेन तदुद्भवैरपक्रमविक्षे पादिसाधनैश्च ग्रहणारम्भकालमानीय पुनर्घटिकया छायया व प्रत्यक्षारम्भकालं चाऽऽनयेत्। तयोर्विवरं +देशान्तरकालो भवति। अथवा नित्यं सर्वस्मिन्नप्यकृतदेशान्तरसंस्काराभ्यां सूर्यशशिभ्यां सूर्यास्त्यमयचन्द्रे सूर्यास्तमयचन्द्रसूर्यस्तमयचन्द्रासतमयर्योऽन्तरकालं वक्ष्यमाणविधिनाऽऽनीयं पुनर्घटिकास्थापनेन च तदन्तरकालमानयेत्। तत्र तयोर्विवरं तन्त्रज्ञा देशान्तरकालमिच्छन्ति। देशान्तरकालस्य साधनमिथ्यर्थः॥7॥8॥
रेखायाः पूर्वपश्चिमविशेषज्ञानायाऽऽह-
ग्रहोदयो यदा पूर्वं स्पर्शश्चैवोपलक्ष्यते।
पूर्वेण समरेखाया भ्रष्टा स्यात्पश्चिमेऽन्यथा॥9॥
ग्रहादयो यदेति। अस्मिञ्श्लोकेऽपपाठश्च दृश्यते। अत एवा(वं)पठितव्यम् -
ग्रहादयो यदा पूर्वं स्पर्शा(र्शः) पश्चाच्च लक्ष्यते।
पूर्वेण समरेखाया द्रष्टा स्यात्पश्चिमेऽन्यथा॥इति।
यदा गणितसिद्धचन्द्रादेयकालात्प्रागेव प्रत्यक्षीकृतचन्द्रोदयो भवति तथा गणितसिद्धस्पर्शकालमतीत्यं प्रत्यक्षीकृतस्पर्शश्च भवति तदा समरेखायाः पूर्वस्मिन्देशे स्थितो द्रष्टा भवति। अन्यथा पश्चिमे स्थितः स्यात्॥9॥
इदानीं देशान्तरकालेन ग्रहणसिद्धेन ग्रहणान्तरसंस्कारमाह-
कालेनाऽऽहत्य भुक्तिं ग्रहरवितामसां देशजातेन नित्यं
षष्ट्या हृत्वाऽथ लब्ध्वा जलवसुरवयोर्दिग्गतानां धनर्णे।
लम्बेनाभ्यस्य भूमेः सकलगुणहृतो वृत्तसंख्याघटीभि -
र्हृत्वा देशान्तराभिर्गगनरसहृतो योजनाग्रं वदन्ति॥10॥
इति महाभास्करीयं द्वितीयोऽध्यायः॥2॥
- - - - -
कालेनाऽऽहत्येति। देशान्तरनाका(डी)भिर्ग्रहभुक्तिं निहत्य षष्ट्या विभज्य लब्धं तत्तद्ग्रहमध्यमे रेखायाः पश्चिमे धनं कुर्यात्। पूर्वस्मिन्देश ऋणं कुर्यात्। लम्बेनाऽऽहत्येत्युत्तरार्धेन स्वदेशभूवृत्तानयनं तद्गदेशान्तरयोजनानयनं चाऽऽह। लम्बेन भूवृत्तं निहत्य त्रिराशिज्यया विभजेत्। तत्र लब्धं स्वदेशभूवृत्तयोजनमानं भवति। तां वृत्तसंख्यां देशान्तरघटिकाभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धं देशान्तरयोजनसंख्या भवति॥10॥
इति परमेश्वरकृतायां कर्मदीपिकायां द्वितीयोऽध्यायः॥2॥
तृतीयोऽध्यायः
सम्पाद्यताम्
अथ त्रिप्रश्नाध्याय उच्यते। तत्र स्थलस्य समीकरणं शङ्कुसापनप्रकारं चाऽऽह -
अद्भिः समत्वमधिगभ्य रसातलस्य
वृत्तं लिखेत्स्फुटतरं खलु कर्कटेन
सूत्रैश्चतुर्भिरवलम्बनतन्निबद्धै -
र्ज्ञातार्जवोरु[समवृत्तः]गुरुर्नरः स्यात्॥1॥
अद्भिरिति। स्थलमध्ये पतितं जलं सर्वदिक्षु समं गच्छति चेत्तस्थलं समं भवति। एवमद्भिः समत्वावगतिः। समे स्थल इष्टव्यासार्धप्रमाणेन कर्कटेन यन्त्रभेदेतेष्टवृत्तमालिखेत्। मन्मध्ये यथोक्तं शङ्कुं स्थापयेत्। शङ्कुलक्षणमाह- सूत्रैरित्यादिना। समवृतो गुरुर्मूलादग्रान्तं चतुर्दिक्षु सम्यक्प्रसारितैश्चतसृभिरेखाभिराङ्कितो रेखास्थानबद्धैश्चतुर्भिरव[ल]म्बकसूत्रैर्ज्ञातार्जवस्थितिः शङ्कुर्भवति। *दिग्विभागार्धे(र्थे) तु तन्मस्तकमध्ये सूक्ष्माग्रा काचिच्छलाका संस्थाप्या। तदग्रहसंभूतच्छायाग्रवशाद्दिग्भवति॥1॥
दिग्विभागामाह-
छायाप्रवेशनिर्गमबिन्दुभ्यामिनमालिखेदव्यक्तम्।
तद्वत्कृ(न्मत्स्य)पुच्छनिःसूतं सूत्रं याम्योत्तरं शङ्कोः॥2॥
छायाप्रवेशेति। प्राक्कपाले वृत्तमध्यस्थापितशङ्कोर्मस्तकमध्यस्थलशलाकासंभूतच्छायाग्रस्य वृत्तपरिधेश्च योगो यत्र दृश्यते तत्र बिन्दुं कृत्वा पुनरपराह्णे च तस्च्छायाग्रवृत्तयोर्योगे बिन्दुं कुर्यात्। पुनस्तद्बिन्दुद्वयंमध्यं कृत्वैकेनैव ×कर्कटेन वृत्तद्वयमालिखेत्। यथा वृत्तत्रययोगेन मत्स्यं भवति। तन्मत्स्यमुखपुच्छनिर्गतं सूत्रं वृत्तपरिवृद्ध्य(ध्य)न्तं कुर्यात्। तत्सूत्रस्याग्रे शङ्कोर्याम्योत्तरे दिशौ भवतः॥2॥
अथ प्रकारान्तरेणाप्याह-
बिन्दुभिस्त्रिभिरतुल्यकालजैः
संलिखेच्छफरिको विधानतः।
सूत्रयोर्मुखसमप्रयान्तयो -
र्योगतः कुजबुधाशयोर्विधिः॥3॥
बिन्दुभिरिति। इष्टकाले शङ्कोश्छायाग्रे बिन्दुं कृत्वा पुनः किंचित्कालमतीत्य तत्कालच्छायाग्रेऽपि बिन्दुं कुर्यात्। तद्भिन्दुत्रयमध्यंकृत्वा वृत्तत्रयमालिख्य *मत्स्यद्वयमुत्पाद्य तन्म्त्स्यद्वयमुखपुच्छनिर्गतसूत्रयोगो यत्र भवति, ततः शङ्कुमस्तकमापि दक्षिणोत्तरं सूत्रं वृत्तपरिध्यन्तं कुर्यात्। तदग्रे शङ्कोर्दक्षिणोत्तरदिशौ भवतः। अत्रोभयत्र शङ्कावुद्धृत एव हि दक्षिणोत्तरसूत्रस्य संचारो भवति॥3॥
अथ च्छायाकर्णाख्यस्य स्ववृत्तविष्कम्भार्धस्याऽऽनयनमाह -
नृच्छायाकृतियोगस्य मूलमाहुर्मनीषिणः।
विष्कम्भार्ध(र्धं)स्ववृत्तस्य च्छायाकर्मणि सर्वदा॥4॥
नृच्छायेति। शङ्कुच्छायावर्गयोर्योगस्य मूलं छायाकर्णौ भवति। स एवं स्ववृत्तविष्कम्भार्धमित्युच्यते। छायाकर्णसाधितवृतस्य विष्कम्भार्धमित्यर्थः। स्ववृत्तपरिकल्पनायः प्रयोजनं गोल विद्भिर्द्वेद्यम्॥4॥
अक्षावलम्बयोरानयनमाह-
छायाहतं त्रिभुवनस्य गुणप्रतानं
हत्वा नरेण च पृथग्विभजेत्पदेन।
अक्षावलम्बकगुणौ विपुवत्प्रसिद्धौ
छायानरौ च विपुलावपरत्र दृष्टौ॥5॥
छायाहतमिति। द्वादशाङ्गुलशङ्कोर्विषुवद्दिनमध्यह्नादन्यत्र यथेष्टाकाले छायाशङ्कुतत्कण्ठैरवं साधि तौ राशी तत्काले महाच्छायामहाशङ्कू भवतः॥5॥
अपक्रमाद्यानयनमाह-
इष्टज्यां मुनिरन्ध्रपुष्करशशिक्षुण्णां सदा संहरेद् -
व्यासार्धेन भवेदपक्रमगुणस्तात्कालिकस्तत्कृतिम्।
विष्कम्भार्धकृतेर्विशोध्य च पदाद्युव्यासखण्डं विदुः
स्वेष्टक्रान्तिहतं फलं प्रविभजेल्लम्बेन जीवा क्षितेः॥6॥
व्यासखण्डगुणिता क्षितेर्गुणं संहरेद्द्युदलजीवया पुनः।
काष्ठिकं च यदवाप्तमत्र तु प्रोच्यते चरदलं सतां वरैः॥7॥
इष्टज्यामिति। सायनस्य स्फुटरवेर्भुजज्यां मुनिरन्ध्रपुस्करशशी(शि)भिर्निहत्य त्रिराशिज्यया विभज्य लब्धमपक्रमज्या भवति। अपक्रमज्याकृतिं व्यासार्धवर्गाद्विशोध्य शिष्टस्य मूलं *स्वाहारोत्रार्धज्या भवति। इष्टक्रान्तिज्याहतां पलज्यां लम्बकेन विभज्य लब्धं क्षितिज्या भवति। क्षितिज्यां व्यासार्धहतां स्वाहोरात्रार्धज्यया विभजेत्। तत्र लब्धंचरदलज्या भवति। सा चापिता चरदलं प्राणीकृतं भवति॥6॥7॥
चरानयने कर्मान्तरमाह -
जिना दशघ्ना कृतरन्ध्रभूमयो
नवादि यस्ते गुणिता वलाङ्गुलैः।
हृताश्चतुर्भिः क्रियगोनरान्तजा
भवन्ति निःश्वासलवा वलोद्भवाः॥8॥
जिना दशघ्ना इति। अत्र शालीशब्देनैकाः संख्योच्यते। अथवा रन्ध्रभूमय इति पाठः। जिनादयस्त्त्रस्(यः)संख्याभेदाः पलाङ्गुलहताश्चतुर्भिर्भक्ता मेषवृषमिथुनानां च[र]दलासवो भवन्ति। एवमानीतचरदलासूनां स्थौल्पं स्यादिति गोलविद आहुः॥8॥
लङ्कोदयप्रमाणानयनमाह-
शशिकृतशशिरामैराहृता राशिजीवाः
स्वधिदिवसगुणर्धैर्भाजिता काष्ठिताश्च।
पतितसमतिरिक्ताः पूर्वचापैरजाद्या
विषुवदुदयराशिप्राणपिण्डा भवन्ति॥9॥
शशिकृतेति। एतद्द्वित्रिराशीनां जीवाः शशिकृतशशिरामैः पृथङ्निहत्य तत्तद्राशिज्यासिद्धस्वोहोरात्रार्धज्यया विभज्य लब्धं चापी कुर्यात्। पुनः प्रथमचापं द्वितीयचापाद्धशोध्य द्वितीयचापं तृतीयचापाद्विशोधयेत्। एवं कृते मेषवृषभमिनानां लङ्कोदयप्राणा भवन्ति॥9॥
एवं सिद्धात्पठति -
खनगरसशशङ्कां पञ्चरन्ध्राश्मिरूपा
विषयशिखिनवैकास्ते च दृष्टा विधिज्ञैः।
चरदलपरिहीना योजिता व्युत्क्रमेण
प्रतिविषम समुत्थास्तूदया मेषपूर्वाः॥10॥
खनगरेति। एतैः स्वदेशराश्युदयप्राणानयनजा(मा)ह-प(च)रदलेति। मेष-वृषमिथुनानां ÷लङ्कोदयासवः प्रथमद्वितीयतृतीयराशीनां चरदलासुभिर्हीनाः स्वदेशासवो भवन्ति। पुनर्व्युत्क्रमेण चरदलयुता मिथुनवृषमेषाणां लङ्कोदयस्तृतीयद्वितीयप्रथमराशीनां चरदलेन युताः कर्कटकसिंहकन्याराशीनां स्वेदेशोदया भवन्ति। व्युत्क्रमेणेत्येतत्पदमुत्तरत्र उदयासवो मीनादीनां षण्णां त्र्युत्क्रमेण भवन्ति॥10॥
मध्याह्नच्छायानयनमाह -
अप(व)गम(त)व(फ)लभागा मेषजूकादिगोले
रहितसहितसंख्या मध्यसूर्यावनामम्।
अवनतिलवहीनः प्रोन्नतिश्चकपाद-
स्त्ववनतिलजीवा सा प्रभा नेतरा स्यात्॥11॥
अवगतफलेति। मेषादिगे सूर्येऽपक्रमचापाक्षचापानामन्तरं मध्याह्ने सूर्यस्यावनतिं तुलादौ तायोर्योगः सूर्यावनतिर्मध्यह्नच्छाया मध्याहनशङ्कुश्चेत्यर्थः॥1॥
प्रकारान्तरेण मध्याह्नशङ्कुमाह -
क्षितिजा(ज्या)द्युदलसमासो विश्लेषो वोत्तरेतरे गोले।
लम्बघ्नस्त्रिज्याप्तः शङ्कुर्दी(र्दि)नमध्यगे सूर्ये॥12॥
क्षितिजे(ज्ये)ति। उत्तरगोलेः क्षितिज्यास्वाहोरात्रार्धज्ययोर्योगः कार्यः। दक्षिणगोले विश्लेषः कार्यः। एवमानीतिः स योगो विश्लेषो वा लम्बगुणितस्त्रिज्याभक्तो मध्याह्नशङ्कुर्भवति॥12॥
मध्याह्नच्छायाक्षाभौमादित्यानयनमाह -
छायया समभिनीतसंगतेः
काष्ठतोऽधिकतरं यदा लवम्।
तद्भिदः स्फुटरवंपरक्रम -
स्तिग्मरश्मिरपि चोत्तरे तदा॥13॥
छाययेति। मध्यदिनच्छायाङ्गुलासाधितदृग्ज्यकाष्ठाद्यदाऽक्षकाष्ठमधिक्तरं तदा नतिकाष्ठोन्मक्षकाष्ठं रवेरपक्रमः। तदा रविरप्युत्तरगोले भवति।
यत्र सर्वदाऽधिकोऽक्षस्तत्र देशोऽ(शेऽ)यं विधिरिति तरद्ग्रह(ग्र)हणेन द्योतितम्। उत्तरगोलेऽपि सममडलादृक्षिण एव यत्र मध्याह्ने रविर्भवतितत्रायं विधिरित्यर्थः॥13॥
सममण्डलादुत्तरस्थेऽर्के विधिमाह -
छायायां याम्यकाष्ठायामक्षयुक्ता नतिः स्फुटा।
जायन्तेऽपक्रमा भागो भास्वतो दक्षिणापथे॥14॥
छायायां याम्यकाष्ठायामिति॥14॥
यथामध्यच्छायादक्षिणगोलेऽपि विधिमाह--
- अक्षतोधिऽकतरा यदा नतिः
प(दृ)श्यते वलमतस्तदा सता।
शिष्यतेऽपमधनुः स्फुटं ततो
भास्करोऽपि खलु याम्यगोलगः॥15॥
अक्षतोऽधिकतरेति। यदाऽऽक्षकाष्ठादधिकतरं नतिकाष्ठं तदाऽक्षकाष्ठहीनं नतिकाष्ठामपक्रमधनुर्भवति। रविरवि(पि) दक्षिणगोले भवति। सर्वदा नतरेधिकत्वं दक्षिणगोल एवं भवति॥15॥
अपक्रमेणाऽऽदित्यानयनमाह -
तद्गुणेन गुणितां त्रिराशिना
ज्यामपक्रमगुणेन संहरेत्
लब्धचापगुणितं स्फुटं ततो
भास्करं त्रिकमषण्णावाधिकः॥16॥
तद्गुणेनेति। अ[प]क्रमधनुषो जप्तं त्रिज्यया निहत्य परमाययुतं सर्वेतृतीयपदे तद्भुज चावं राशिषट्क्रयुतं रकि(किं)चतुर्थपदे तद्भुजायापं राशित्रयाद्वि शोध्य शिष्टं राशिनवकयुतं रविः(विं) सशिषपविशोधनं सपर्पद गतस्य कोटि त्वान्नयायतः सिद्धं भवति॥16॥
अपक्रमनतिभ्यामक्षानयनमाह -
उत्तरे संयुतिः सूर्ये विश्लेषो दक्षिणे स्मृतः।
अपि(प)क्र नतांश नां छायायां च पलं भवेत्॥17॥
उत्तर इति। उदग्गोले मध्याह्नच्छायाङ्गूलसाधितनतिचापस्यापक्रमचापस्य च योगो लपय्यं मध्यच्छाया उत्तरगा चेदेवं दक्षिणगा चेन्नति चापहीनमपक्रमचापमक्षचापं दक्षिणगोले। अपक्रमचापहीनं नतिचापमक्षचापं छायायां चेति दक्षिणस्थायां छायायां च विश्लेषः कार्य इत्यर्थः॥17॥
गतगन्तव्यघटिकाभिः शङ्क्वानयनमाह -
दक्षिणोत्तरगते विवस्वति
प्राणराशिनिचया धनक्षयौ।
साक्षजं चरदलं सदा सतो
जीवयाऽत्र गुणितं दिवागुणम्॥18॥
संहरेत्त्रिभुवनस्य जीवया
तत्र लब्धनिचये क्षितेर्गुणम्।
व्यत्ययं चरदलस्य तत्कुरु
स्वावलम्बकहतं हरेत्पुनः॥19॥
व्यासखण्डनिचयेन लभ्यते
शङ्कुरिष्टघटिकासमुद्भवा।
व्यासतत्कृतिविशेषजापदं
कथ्यते स्फुटता प्रभा हि सा॥20॥
दक्षिणोत्तरोति। दक्षिणगोले गतगन्तव्याप्राणेषु चरदलप्राणाः क्षेप्याः। उत्तरगोले तेभ्यः शोध्याः। एवं कृते गतगन्तव्यप्राणानां जीवामानीय ता स्वाहोरात्रार्धज्यया निहत्य त्रिराशिज्यया विभज्य लब्धे फले ×क्षितिज्या दक्षिणगोले विशोधयेत्। उत्तरगोले प्रक्षिपेत्। एवं कृतं तत्फलं लम्बके निहत्य व्यासार्धेन हरेत्। तत्र लब्धं शङ्कुर्भवति। तद्वर्गव्यासकृत्योर्विशेषमूलं छायां भवति॥18॥19॥20॥
शङ्क्वानयन उपायान्तरमाह -
आदित्यलग्नविवरांशगुणेन हत्वा
तत्कालमध्यपरिनिष्ठितलम्बकाख्यम्।
विष्कम्भभेदरहितः स्फुटशङ्कुरुक्त -
स्तद्गोलभेदकृतिशुद्धपदं प्रभा स्यात्॥21॥
आदित्यलग्नेति। इष्टकाल उदयलग्नमानीयाऽऽदित्यल्लग्नयोर्विवरस्य जीवमानयेत्। तद्विवरं त्रिराश्यधिकं चेत्त्रिराशिभ्यो विशोध्य शिष्टस्य जीवामानयेत्। तथा जीवया तत्कालमध्परिनिष्ठितं लम्बकं वक्ष्यमाण निहत्य त्रिराशिज्यया विभजेत्। तत्र लब्धमिष्टशङ्कुर्भवति। तद्वर्गव्यासार्धकृत्योर्विशेषमूलं प्रभा छाया भवति। वाशब्दः प्रकारान्तर सूचनार्थः। एष शङ्कुः स्थूलो भवति। अतो गोविन्दस्वामिनाऽस्य त्रिःप्रकारं योजना व्याख्याता। पूर्वत्र संतोषाभावाद्धि तथा संभवति। वक्ष्यमाणलम्बकदोषादस्य स्थौल्यमिति गोलविद आहुः॥21॥
तत्कालमध्यम्बकानयनमाह-
इनरविकक्ष्यामध्यज्यत्रिज्याकृत्योर्विशेष्यशेषपदम्।
तत्कालमध्यजातो गोलज्ञैर्लम्बकः कथितः॥22॥
[इन]रविकक्ष्येति। रविकक्ष्यायां मध्यज्यानयनं पञ्चमाध्याये वक्ष्यति। तन्मध्यज्यावर्गव्यासार्धकृत्योर्विशेषपदं तत्काले मध्यज्यातो लम्बको भवति। मध्यलग्नावमचापाक्षचापयोर्योगस्य विश्लेषस्य वा जीवा मध्यज्येत्युच्यते। अत्र सूक्ष्मलम्बकावगतिस्तु भाष्यव्याख्यया सिध्येत्॥22॥
पुनरपि प्रकारान्तरेण शङ्क्वानयनमाह -
प्राणैश्चरैर्युतविहीनघटीगुणेन
तज्ज्याविपर्यकृतेन हतस्य वाऽस्य।
द्युव्यासलम्बकपरस्परताडितस्य
च्छेदोऽर्धविस्तरकृतिः फलमस्य शङ्कुः॥23॥
तज्ज्याविपर्ययकृताद्युज्याभ्यस्तेन शङ्कुना हत्वा।
विषुवत्कर्णाभ्यस्तात्रिज्याछेदः फलं शङ्कुः॥24॥
प्राणैश्चरैरिति। *दक्षिणोत्तरगोलयोः क्रमाच्चरदलप्राणैर्युतानां हीनानां च गतगन्तव्यासूनां जीवामानीय तया चरदलज्याहीनयुतया स्वाहोरात्रार्धे निहत्य पुनर्लम्बकेन च निहत्य व्यासार्धवर्गेण विभजेत्। तत्र लब्धं शङ्कुर्भवति॥23॥24॥
यद्वागतगन्तव्यासभ्यश्चरदलासवो न शोध्याः। तदा विशेषमाह -
इष्टासुभ्यश्चराशुद्धेन व्यत्ययः शेषजीवया प्राग्वत्।
लब्धं क्षितेर्मौर्व्यो हित्वा शङ्कुं स्वकर्मणा॥25॥
इष्टासुभ्य इति। चरासुभ्यो गन्तव्यसून्विशोध्य शिष्टस्य जीवां स्वाहोरात्रार्धेन निहत्य त्रिज्यया विभज्य लब्धं क्षितिज्यातो विशोध्य शिष्टं लम्बकेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धं शङ्कुर्भवति॥25॥
सूर्यग्रहणे कदाचिद्रात्रावपि शङ्कुर्ज्ञेयः। ततस्तदानयनाह -
शवंर्यां शङ्कुरर्कस्य कार्यो व्यस्तेन कर्मणा।
दिनस्य क्षयवृद्धिभ्यां रात्रौ व्यस्ते नते यतः॥26॥
शर्वर्यामिति। रात्रिगन्तव्यासुषु सरदलं दिनव्यत्ययेन कार्यं क्षितिज्या दिनव्यत्यमेत कार्यां। शिष्टं दिनवंदेव॥26॥
इष्टच्छायाया गतगन्तव्यकालानयनमाह -
इष्टच्छायाप्तशङ्कुं सकलगुणहतां संहरेल्लम्बकेन
प्राप्ते मेषादिगेऽर्के क्षितिजगुणकलाः शोधयेद्दक्षिणस्थे।
योज्यन्ते ताः क्रमेण त्रिगृ(ग्र)हगुणहतं संहरेच्छेषराशिं
द्यावासेनाप्तचापे स्वचरदललवव्यत्ययेनासुराशिः॥27॥
अह्नः शेषो गतो वा रसखरसहृतो नाडिकाद्याः प्रदिष्टा -
स्त्रिज्यावर्गाहतं वा समभिमतनरा भाज्येद्घातजेन।
द्युव्यासार्धाभकोट्या स्वचरदलगुणे पूर्ववत्कल्पितस्य
चापे प्राणैश्चराख्यैः पुनरपि विधिना व्यत्ययेनासुराशिः॥28॥
अक्षकर्णहतः शङ्कुर्भूयोव्यासार्धताडितः।
शङ्कुघ्नद्युदलाप्तो वा पूर्ववन्नाडिकाविधिः॥29॥
इष्टच्छायाप्योति। इष्टकाले द्वादशाङ्गुलशङ्कोश्छायया महाङ्कुलमानीय तं त्रिज्यया निहत्य लम्बकेन विभज्य लब्धे क्षितिज्यामुत्तरगोले विशोध्य दक्षिणगोले तु प्रक्षिप्य व्यासार्धेन निहत्य स्वाहोरात्रार्धेन विभज्य चापीकृत्य तस्मिन्नुत्तरगोले चरदलं प्रक्षिपेत्। दक्षिणे विशोधयेत्। ते गतगन्तव्यासवो भवन्ति। पुनः षडभिः षष्ट्या च भक्ते नाडिका भवन्ति। त्रिज्यावर्गाहतं वेति प्रकारान्तरमहं(माह)। शङ्कुं त्रिज्यावर्गेण निहत्य स्वाहोरात्रलम्बज्ययोः संवर्गेण विभज्य लब्धे दक्षिणोत्तरगोलयोश्चरदलज्यां प्रक्षिप्य संयोज्य च चापीकृत्य तच्चापे चरदलं विशोधयेत्प्रक्षिपेच्च। ते गतगन्तव्यासवो भवन्ति। अक्षकर्णेति प्रकारान्तरम्। अक्षकर्णेन शङ्कु निहत्य पुनर्व्यासार्धेन च निहत्य द्वादशघ्नेन स्वाहोरात्रार्धेन विभज्य लब्धे पूर्ववच्चरदलज्यां प्रक्षिप्य संशोध्य वा चापीकृत्य तच्चापे चरदलं विशोधयेत्प्रक्षिपेच्च। ते गतगन्तव्यासवः स्युः॥27॥28॥29॥
- उदयलग्नानयनमाह -
सूर्यागतसमभ्यस्ता तद्रासि(शी)ष्टासवो हृताः
राशिभागैः कलाभिर्वा लब्धारव्यगतासवः॥30॥
इष्टासुभ्यो विशोध्यैता रवौ चान्यगतः क्षिपेत्।
राशिप्राणास्ततोऽपास्य देया भानौ च राशयः॥31॥
शेषं त्रिंशत्समभ्यस्तमिष्टराश्यसुभिर्हृतम्।
लब्धभागादिसंयुक्तमिष्टकालोदयं विदुः॥32॥
सूर्यागतेति। सूर्यस्यागतं गन्तव्यं भागीकृतं लिप्तीकृतं वा स्वोदयासुभिर्निहत्य राशिभागै राशिकलाभिर्वा विभज्य लब्धा अगतासवो भवन्ति। तानिष्टासुभ्यो विशोध्य रवौ राशिशेषं क्षिप्त्वा शेषासुभ्यश्च यथालब्धमुदयासून् विशोध्य सुद्धराशीन् रवौ क्षिप्त्वा शिष्टा विंशदा दिगुणिता वर्तमानोदयासुभिर्लब्धान् भागान् सलिप्तन्प्रक्षिप्तराशौ सूर्ये प्रक्षिपेत् स उदयलग्नं भवति॥30॥31॥32॥
अस्तलग्नमाह -
पूर्वलग्नं संचक्रार्धमस्तलग्नं विधीयते।
उदयस्य वशादस्तमयन्ते राशयो यतः॥33॥
उदयस्य गता भागाः सोदयेन हता हृताः।
त्रिंशता प्राणलब्धिः स्याल्लग्नराश्यसवः पुनः॥34।
आहार्ययावदर्कस्य राशिभिस्तूदयासवः।
ज्ञायन्ते पुनर्स्कस्य गन्तव्यांशासुभिर्युताः॥35॥
प्राणा दिवसशर्वर्योर्विज्ञेयाः षड्विभाजिताः।
षष्टया भूयोऽपि ये लब्ध्वा घटीविघटिकासवः॥36॥
पूर्वलग्नमिति। षड्राशियुतमुदयलग्नमस्तलग्नं भवति। तत्र हेतुमाह-उदयस्येति। लग्नविभ्यां द्युगतकालानयनमाह-उदयस्य गता इति। उदयस्यागतभागैस्त्रैराशिकादसूनानी य तथा सूर्यस्य गन्तव्यभागैश्चासूनानीय तदन्तरालगतराशीनामुदयासूंश्च प्रक्षिपेत्। ते द्युगतासवो भवन्ति॥33॥34॥35॥36॥
राशै तु षड्राशियुतोऽर्को(तेऽर्के)ग्राह्यमर्कामानयनं समण्डलशङ्क्वानयनं चाऽऽह -
स्फुटरविभुजनिघ्नां यां परां कान्तिजीवां
हरतु समवलम्बज्याकलापेन भूयः।
स्फुटदिवसकराग्रा सा यदाऽक्षांशहीना
रविरपि यदि गोले चोनरे लम्बकघ्नाः॥37॥
अक्षज्यया हरद्भूयः शङ्कुज्या सममण्डले।
तदृर्गव्यासकृत्योर्यद्विश्लेषे यत्पदं प्रभा॥38॥
स्फुटरवीति। सायनर्कभुजज्यया निघ्नां परमक्रान्तिज्यां लम्बकज्यया विभजेत्। तत्र लब्धमर्काग्रं× भवति। सा यदाऽक्षांशहीनेति। अत्र येतयनेनार्काग्रासाधनभूतापमज्योप्य(च्य)ने। अक्षांशशब्देन चाक्षज्या, उत्तरगोले यदा क्रान्तिज्याऽक्षज्यातोऽल्पसंख्या रयात्तदा तदद्भूतायर्काग्रां लम्बकेन् निहत्याज्यया विभजेत्। तत्र लब्धं सममण्डलशङ्कुर्भवति। भूय इति वचनं प्रथमत्रैराशिकसूचनार्थम्। तस्य सममण्डलशङ्कोव्यासार्धस्य च वर्गविश्लेषपदं छाया भवति॥37॥38॥
राममण्डलप्रवेशकालमध्याहूनकालयोरन्तरालकालामनयनमाह -
भानोर्भुजामविहतां परमावमेन -
द्युव्यामभेदभजिताप्तहताक्षकोटिः।
अक्षज्ययाऽऽप्तकृतिशुद्धकृतेस्त्रिमौर्व्या
मूलस्य काष्ठमसवो गगनावधेर्वा॥39॥
भानोर्भुजामिति। स्फुटारकभुजज्यां परमापमगुणितां स्वाहोरात्रार्धेय विभजेत्। तत्र लब्धेन लम्बकज्यां निहत्याक्षज्यया विभजेत्। तत्र लब्धस्य वर्गे त्रिज्यावर्गाद्विशोध्य शिष्टस्य मूलं चापीकृतं सममण्डलाद्गगगनावधेः कालस्यासवो भवन्ति॥39॥
व्यासार्धताडितवपुः सममण्डलस्य
दृश्या(ग्ज्या)भवा दिवसविस्तरभेदभक्ता।
लब्धस्य काष्ठकविधेरसुनाडिकास्ता
भास्वत्खमध्यविवरप्रभवा भवन्ति॥40॥
व्यासार्धताडितवपुरिति। सममण्डलस्य दृग्ज्या व्यासार्धहता स्वाहोरार्त्रार्धज्याभक्ता चापिता भास्वत्खमध्यविवरकालः .......त्मको भवति॥40॥
सममण्डलच्छाययाऽऽदित्यानयनमाह -
छायाभिनीतसममण्डलशङ्कुनिघ्न -
मक्षस्य [सं]गुणमुपाहरनित्यमेव।
सर्वापमेन समवाप्ततनुर्विवस्वान्
युज्या(क्त्या)त्रिराशिसहितश्च भटप्रणीतम्॥41॥
छायाभिनीतेति। द्वादशाङ्गुलशङ्कोः समच्छायया साधितसमशङ्कुमाऽक्षज्यां निहत्य परमापक्रमेण विभज्य लब्धं चापीकृतमर्को भवति। युक्त्या त्रिराशिसहित इति। उत्तरायणे तच्चापमेवार्कः दक्षिणायने तु तच्चापं राशित्रयाद्विशोध्य शिष्टे राशित्रये क्षिपेत्। सोऽर्कः स्यात्॥41॥
अथ च्छायाभ्रमणरेखां कर्तुं विदितदिग्विभागे वृत्ते बिन्दुत्रयग्रहणमार्याचतुष्टयेनाऽऽह -
अर्काग्राशङ्क्वग्रे छायां च यथेष्टकालिकाम्।
कृत्वाऽग्रद्वयस्य योगतुल्यांशं नान्यथा विवरः॥42॥
तेन क्षुण्णां छायां भङ्क्त्वा त [द्]द्युगणेन यल्लब्धम्।
कृतदिग्विभागकेन्द्राद्दिग्विगरीतं निधातव्यम्॥॥43॥
तन्मध्यभेदिसूत्रं प्रागपरदिशोः प्रसार्यते दूरम्।
छायाप्रमाणसूत्रं तिर्यक्केन्द्रादिदं ज्ञेयम्॥44॥
अर्काग्रशङ्क्वग्रे इति। इष्टकालेऽर्काग्रां शङ्क्वग्रं महाच्छायां चाऽऽनीयार्काग्रामशङ्क्वग्रयोस्तुल्यदिशोर्योगं कुर्यात्। भिन्नदिशोरन्तरं कुर्यात्। एवमानीतेनार्काग्रशङ्क्वग्रयोर्योगेनान्तरेण वा द्वादशाङ्गुलशङ्कोस्तत्कालच्छायां निहत्य तत्कालमहाच्छायया विभज्य लब्धं कृतदिग्विभागे यथेष्टवृत्ते केन्द्रादग्रदिश्य(शि व्य)त्ययेन दक्षिणोत्तरसूत्रे नीत्वा ततः पूर्वापरं सूत्रं तत्स्थानमध्यमत्स्यानुसारेण कुर्यात्। यथा छायासूत्रं तत्सूत्रे पतति तथा कुर्यात्। पुनस्तत्काले द्वादशाङ्गुलशङ्कोश्छायाप्रमाणसूत्रं वृत्तकेन्द्रात्पूर्वतो पतेश्च तिर्यकृतसूत्रान्तं नीत्वा तत्सूत्रस्य च्छायासूत्राग्रस्य च योगद्वये बिन्दुद्वयं कुर्यात्। पुनः केन्द्रात्तद्दिने मध्यच्छायाङ्गुलप्रमाणं सूत्रं तच्छायादिशि दक्षिणोत्तरसूत्रे नीत्वा तदग्रे तृतीयबिन्दुं कुर्यात्। एवं बिन्दुत्रयं भवति॥42॥43॥44॥
यस्तु दिग्विभागज्ञात्वा छायाभ्रमणरेखां कर्तुमिच्छति तस्य विधिं वक्ष्य इत्याह -
यो वा स्यादभि(विदि)तदिग्विभागकेन्द्रो
दिक्छायाभ्रमणविप्रकर्तुकामः।
तस्याशास्फुटलिखितोरुवृत्तनेमि -
र्यच्छाया त्यजति यथा तथा प्रवक्ष्ये॥45॥
यो वा स्यादिति॥45॥
तद्विधिमाह-इष्टद्युतेरित्यादिनाऽऽर्यापञ्चकेन।
इष्टद्विके[द्युते]स्तु कृत्वा दृग्ज्याशङ्कुं तथा शङ्क्वग्रम।
विश्लेषो वाऽग्रायुतिं प्राहुः कर्णोऽत्र दृग्जीवा॥46॥
....हबिन्दुद्वयं विरच्यं पूर्वापरयोर्दिशोर्यथायोगम्।
मध्यच्छायाशिरसि ज्ञेयो बिन्दुस्तुतियावत्॥47॥
तत्कृतिविश्लेषपदं दृग्ज्याकर्णस्य कथ्यते कोटिः।
छायाघ्ने कोटिभुजे दृग्ज्याभक्ते तयोर्माने॥48॥
शङ्कोस्तत्समवपुषस्त्रिजवो भुजकोटिसंघटिताः।
वंशशलाकास्ताभिः कोणे कृतशङ्कुसंचारम्॥49॥
चतुरश्चं द्वितीयकर्णत्रिभुजं वा कारयेत्स्फुटं यन्त्रम्।
विन्यस्यैतद्भ्रमयेच्छायाकर्णानुगा यावत्॥50॥
आशाभुजकोटिज्यां छायाकर्णाग्रयोरुभौ बिन्दू।
मध्यच्छायाशिरसि ज्ञेयो बिन्दुसूतियोन्यः॥51॥
इष्टकाले द्वादशाङ्गुलशङ्कुच्छायया महाच्छायां महाशङ्कु शङ्क्वग्रं चाऽऽनीयं पूर्ववदग्रद्वयस्य योगं वियोगं वा कुर्यात्। स बाहुर्भवति। महाच्छायाऽत्र कर्णः। तयोर्वर्गविश्लेषपदं कोटिः। पुनस्तत्काले द्वादशाङ्गुलशङ्कोश्छायया ते कोटिभुजे निहत्य महाच्छायया विभजेत्। तत्र लब्धे इष्टाभुजाकोटी भवतः। द्वादशाङ्गुलच्छाया तयोः कर्णः स्यात्। पुनः शङ्कुव्यासतुल्यब्यासास्तिस्रश्चतस्त्रो वा वंशशलाकाः संपाद्याः। तासु मध्ये ऋज्वी दीर्घा, एका रेखा च कार्या। पुनस्ताभिरत्रोदितभुजाकोटि- द्युतिकर्णौर्निष्पन्नत्रिकोणसदृशं त्रिकोणं परस्परघटिताभिः कुर्यात्। यथा परस्परघटितस्य शलाकात्रयस्य मध्यगतरेखात्रययोगेन भुजाकोटिद्युतिकर्णैर्निघ्पन्न त्रिकोणसमं त्रिकोणं भवति तथा कुर्यात्। कोणे कृतशङ्कुसंचारमिति कर्णा वसक्ते कोणे प्रतिष्ठितद्वादशाङ्गुलाशङ्कुंयन्त्रं कुर्यादित्यर्थः। चतुरश्रं यन्त्रं वा कुर्यात्। तत्र कोटिसमे द्वे शलाके भुजासमे द्वे शलाके ताभिः परस्परं घटिताभिश्चतुरश्रं यन्त्रं भवति। तत्राप्येककोणे शङ्कुः स्थाप्यः। तत्र कोण सूत्रं कर्णो भवति। एवं संपादितं यन्त्रं समतले विन्यसेत्। यथा यन्त्रस्यशङ्कोश्छाया यन्त्रकर्णेऽवतिष्ठते तथा विन्यसेत्। पुनश्छायाभ्रण समयन्त्रसमयन्त्रमपि भ्रमयेत्। तत्र यदा यदा यन्त्रस्थशङ्कुच्छाया यन्त्रकर्णः समप्रमाणा भवति तदा यन्त्रभुजा दक्षिणोत्तरायता भवति। यन्त्रकोटिः पूर्वापरायता भवति। एवं कृतयन्त्रस्थभुजाकोटिवशाद् दिशो विज्ञाय शङ्कुमूलाद्दक्षिणोत्तरसूत्रच्छायाग्रात्पूर्वापरायतं सूत्रं च संपाद्य पूर्ववच्छायाग्रयोर्बिन्दुद्वगं मध्यच्छायाग्रे तृतीयबिन्दुं च कुर्यात्॥46॥47॥48॥49॥50॥51॥
छायाभ्रमणलेखनमाह -
बिन्दुत्रयस्य सकलस्य शिरोवगाहि
संलिख्यते शफरिकाद्वितयेन वृत्तम्।
तन्मण्डलाग्रविनिवेशितमस्तके य -
च्छाया प्रयाति फणिजीवहिमन्त्ररुद्धा॥52॥
बिन्दुत्रयस्येति। बिन्दुत्रयं मध्यं कृत्वा वृत्तत्रयमालिख्य तज्जनितमत्स्यद्वयमुखपुच्छ-निर्गतसूत्रयोर्योगमध्यं कृत्वा बिन्दुत्रयस्पृग्वुत्तैकदेशं धनुराकारमालिखेत्। तच्छायावर्त्म भवति॥52॥
अपकमक्षि[ति]ज्याभ्यामक्षानयनमाह -
इष्ट क्रान्तिक्षितिजावर्गसमासस्य मूलमर्काग्रा।
क्षितिजाव्यासार्धहता सूर्याग्रहृतावलस्य गुणः॥53॥
इष्टक्रान्तीति। इष्टापमक्षितिज्ययोर्वर्गयोगपदमर्काग्रा भवति। क्षितिज्यां व्यासार्धेन निहत्यार्काग्रया विभजेत्। तत्र लब्धमक्षज्या भवति॥53॥
शङ्क्वग्रानयनमाह--
इष्टजीवाहतः शङ्कुरिष्टकालसमुद्भवः।
भाजितो लम्बकेनाथ शङ्क्वग्रं नित्यदक्षिणम्॥54॥
अथ(इष्ट)जीवेति। स्पष्टार्थः॥54॥
विषुवच्छायाङ्गुलानयनमाह -
शङ्क्वग्रे द्वादशाभ्यस्ते स्वेष्टशङ्कुहृते फलम्।
छाया वैटपतिज्ञेता विस्तरश्चात्र कथ्यते॥55॥
शङ्क्वग्र इति। इष्टशङ्क्वग्रं द्वादशभिर्निहत्येष्टशङ्कुना विभजेत्। तत्र लब्धं विषुवच्छायाङ्लं भवति॥55॥
विस्तरेणेच्यते। तदाह -
दिवो(ग्रीवा)समां भगणभागविभक्तवृतां
कुर्यात्स्थलीं समतलां कृतदिग्विभागाम्।
तस्या जलेशदिशि मण्डलमध्यदृष्टि -
र्विद्या(ध्ये)द्रविं परिधिलग्नमनाकुलात्मा॥56॥
पूर्वरेखाग्रवेधस्य रविवेधस्य चान्तरम्।
अर्काग्राचापनिर्माणं परितौ(धौ)भागलक्षिते॥57॥
अर्काग्राज्या भवेत्तस्य तन्नतिज्याविशेषजा।
लिप्ताशङ्क्वग्रजीवाया दक्षिणे चोत्तरेऽन्यथा॥58॥
दक्षिणाभिमुखी च्छाया यदा भवति भास्वतः।
नतिज्या रहितार्काग्रा शङ्क्वग्रं कथ्यते तदा॥59॥
ग्रीवासमामिति। युक्तितोऽर्काद्यानयनप्रकारमत्रो(त्रमु)च्यते। उन्नत्याग्रीवासमौ स्थलीं समतलां वृत्तामेकैकभागान्तरेऽङ्कैरङ्कितपरिधिं कृतदिग्विभागा पूर्वापरसूत्रदक्षिणोत्तरसूत्रयुतां संपाद्य तस्याः पश्चिमदिशि स्थित्वा मण्डलमध्यदृष्टिर्मण्डलगे(के)न्द्रावगाहिन्या संपाद्य तस्याः परिधिलग्नर्धोदितं सूर्यं विध्येत् मण्डलमध्यगतया दृष्ट्याऽर्धोदितसूर्यबिम्बस्य मध्यभागः परिधौ यत्र पततीति निरीक्षयेदित्यर्थः। तत्र भागलक्षिते परिधौ यत्र पूर्वापरसूत्राग्रं पतति यत्र रविबिम्बस्य मध्यं च पतति तयोरन्तरालमर्काग्रायाश्चापप्रमाणं भवति। भागलक्षिते परिधाविति। परिधौ कृतभाविभागवशाद् भागाश्च कल्प्या इत्यर्थः तस्य चापभागस्य जीवा अर्काग्रा भवति। तन्नतिज्याविशेषजा। लिप्ताशङ्क्वग्रजीवाया दक्षिणे इति। तद्दिनमध्याह्नद्वादशाङ्गुलशङ्कुच्छायां विज्ञाय तया पूर्ववन्मध्यच्छायामानयेत्। सा नतिज्या भवति। दक्षिणगोले नतिज्यार्काग्रयोर्विश्लेषः शङ्क्वग्रं भवति। उत्तारगोले तु तयोर्योगः शङ्क्वग्रं भवति। तत्रापि दक्षिणाभिमुख्यां छायायां नतिज्याहीनार्काग्रा शङ्क्वग्रं भवति। तेन पूर्ववत्तद्देशसंभवा विषुवच्छाया साध्यां। द्वादशाहताच्छङ्क्वग्राच्छङ्कुना विषुवच्छाया भवतीत्यर्थः। पुनर्विषुवच्छायातच्छङ्कुकर्णैः पूर्वदक्षावलम्बकौ साध्यौ पुन पूर्ववदक्षनतभागैरर्कश्च साध्यः। अक्षनतभागयोर्योगविश्लेष-वशादपमसिद्धिः। तद्वशादर्कसिद्धिरिति क्रमः॥56॥57॥58॥59॥
विदितग्रहवेदितव्यग्रहयोरन्तरकालेन तद्विवरभागानयनमाह -
विद्धि तेन विषुवत्प्रभां सती
पूर्ववच्च चललम्बकौ पुनः।
वेदितव्यविदिग्रहान्तरं
नाडिकाभिरवगम्य तत्परः॥60॥
तद्गुणास्तु घटिकालवास्तु कैः
पूर्वपश्चिमदिशि स्थिते क्षयः।
उच्यते धनमता क्रमेण त -
ज्ज्ञातचारनिचयैः सदा बुधैः॥61॥
वेदितव्येति। रविरन्यो वा यो विदितो ग्रहः, यश्च वेदितव्यस्तयोरन्तरकालमुदयेऽस्तमये मध्याह्ने वा नाडिकाभिरवगम्य तदन्तरनाडिकाः षद्भिर्गुणिता विवरभागा भवन्ति। ते भागा विदितग्रहे पूर्वादिशि स्थिते तस्मिञ्छोध्याः। पश्चिमदिशि स्थिते तस्मिन्क्षेप्याः। एवं भागैर्हीनयुक्तो विदितग्रहो वेदितव्यग्रहः स्फुटो भवति। अत्रोक्ता भागाः स्थूलाः स्युः। अतस्ते भागा राशिलिप्ताभिर्निहता ग्रहस्थितराश्युदयासुभिर्भक्ता ग्राह्यः। मध्याहने तु ग्रहस्थितराशेर्लङ्कोदयासुभिर्हर्तव्याः॥60॥61॥
अश्विन्यादिताराणां स्वावस्थितराशिभागोऽप्येवं वेद्य इत्याह -
एवं नक्षत्रताराणां ग्रहैस्ताराभिरेव च।
साधितं क्षेत्रनिर्माणं युक्त्वा सर्वत्र सर्वदा॥62॥
एवं नक्षत्रताराणामिति। साधितमिति। तच्च पूर्वैः साधितमित्यर्थः॥62॥
तथा साधितस्त(तं त)त्क्षेत्रं प्रदर्शयति -
अष्टौ भानि किये षट् स्युरेकोना विंशतिर्वृषे।
द्वौ दिशौ मिथुने द्वौ च तिथयस्त्व(स्त्र्य)ष्टकं परे॥63॥
अष्टौ सार्धात्रिसप्तैनेवेदाः शैलोनिताः परे।
पञ्चाद्न्येकं तुलाराशौ द्वौ विनाऽष्टादशाः परे॥64॥
एकोऽब्धीन्दुस्त्रिरन्ध्राणि चापे भूतैकषष्ठ्यु(ड्य)माः।
मृगेऽद्रिर्भूर्निताः कुम्भे पञ्चेद्वन्तेऽश्विभादितः॥65॥
अष्टौ भानीत्यादि। नक्षत्राधिष्ठितराशौ तद्भुक्तभोगांश्च क्रमेणात्र दर्शयति। मेषेऽष्टौ भागा अश्विनीनक्षत्रेण भुक्ताः। भरण्या भानि सप्तविंशतिः। एवं परेषु च ज्ञेयम्। शैलोनकन्यका। कन्यायन्त्रयोर्विंशतिभागा इत्यर्थः। त्र्यम्कं चतुर्विंशतिः। अद्र्येकं सप्तदश। अब्धीन्दुश्चतुर्दश। त्रिरन्ध्राणि सप्तविंशतिः। भूतैकाः पञ्चदश। षड्य्माः षडिंशतिः। द्यूनकुम्भे कुम्भेऽष्टाविंशतिरित्यर्थः। पञ्चेन्दुः पञ्चदश। अन्त्ये मीनान्त्ये योगभागा ग्रहयोगे मानां दृष्टा भागा इहोक्ता इत्यर्थः॥63॥64॥65॥
अथ नक्षत्राणां विक्षेपभागानाह -
योगभागक्रमेणैते बोद्धव्याश्चाश्विभादिषु।
उदगाशार्गभूतानि दक्षिणे बोधानयनं च दिग्भवाः॥66॥
उदग्रसास्तथाकाशदक्षिणे पर्वतां वरम्।
उदगर्थाश्चतस्रैका दक्षिणे सप्त याश्विनौ॥67॥
सप्तत्रिंशदुदग्भावा याम्ये सार्धांशकास्त्रयः।
अद्न्यब्धयोऽद्रिभागाश्च स्वरास्ते सत्रिभागकाः॥68॥
उदक्त्रिंशत्कृतिः षण्णां याम्ये लिप्तास्त्रिषट्ककाः।
उदग्जिनाश्विलिप्ते च विहायः कीर्त्यते वरा॥69॥
विक्षेपांशाः क्रमेणोक्ता बोद्धव्यास्तेऽश्विभादिषु।
योगभगसमाः सर्वे दृश्यन्ते योगजा ग्रहाः॥70॥
उदगाशेति। सप्तत्रिंशदुदग्भागे याम्ये सार्धांशकास्त्रय इति पाठः। केषुचित्सार्धाशंकासूयः इति। पाठे स्वरो इत्याप्यस्यते। सत्रिभागता इति विश्वभास्य इति योज्यम्। द्विविश्वे षड्विंशतिरित्यर्थः। रेवत्याः शून्यं सर्वे ग्रहा नक्षत्रयोगमानसमास्तत्संयुक्तां उपदृश्यन्ते। यदि तयोर्विक्षेपो भवति तदा विक्षेपवशात्तयोरन्तरं ज्ञेयमित्याह-योगविभागसमा इति॥66॥67॥68॥69॥70॥
कुत्रचित्क्वचित्क्वचिदिन्दोर्वषम्यदर्शात्तद्वैषम्यमाह -
विक्षिपांसैस्तयोः साध्यमन्तरं ग्रहतारयोः।
उच्यते क्षितिलुताभिर्हन्तीन्दुर्दक्षिणागतः॥71॥
रोगिणपशकटं षष्ट्यास्त्वर्गेण तारकाः।
नवत्या सार्धया चित्रां विंशत्या शक्रतारकम्॥72॥
शतेन सार्धयुक्तेन मैत्रं शतभिषा जिनैः।
नवत्या द्व्यूवयैन्द्राग्रं पौष्णं विक्षिप्तवर्जितः॥73॥
उत्तरेण शतेनाष्टौ बहुलं भेद उच्यते।
दृष्टियुक्तकलास्त्वेता ग्रहैर्नक्षत्रभेदने।
इति महाभास्करीये तृतीयोऽध्यायः॥3॥
- - - - -
उच्यते क्षितिलिप्ताभिरिति। अत्रोच्यत इति योज्यम्। नवत्या सार्धया पञ्चोनशतेन शते षष्टो षष्ट्यधिकशतेनेर्त्यः। दृष्टियुक्ता विक्षेपकला एता उक्ताः॥71॥72॥73॥74॥
इति परमेश्वररचितायां कर्मदीपिकायां तृतीयोऽध्यायः॥3॥
चतुर्थोऽध्यायः
सम्पाद्यताम्
अथ स्फुटाविधिरुच्यते -
कृत्वा देशान्तरं कर्म रवेरुच्चं विशोधयेत्।
शेषं सूर्यस्य यत्केन्द्रं तस्मिनराशित्रयं पदम्॥1॥
कृत्वा देशान्तरमिति। मन्द्रोच्चादीनां संख्या सप्तमेऽध्याये वक्ष्यति॥1॥
जीवाः क्रमोत्क्रमाभ्यां तु ग्राह्यः केन्द्रपदक्रमात्।
जीवा इति। अत्र स्फुटविधौ केन्द्र ओजपदे भुजायां क्रमज्या ग्राह्य। युग्मपदे कोट्या उत्क्रमज्यां ग्राह्या। तत्कथमित्यात्राऽऽह-कथ्यते विस्तरेणेति॥2॥
तत्कर्माऽऽह-
लिप्तीकृत्या हरेन्मख्या जीवा लब्धास्ततः पुनः।
वर्तमानाहतं शेषं मख्या चैव विभाजयेत्॥3॥
लिप्तीकत्येति। स्पष्टार्थः॥3॥
तत्फलानयनमाह -
पुर्वसंकलिते युक्ते ज्याः क्रमेणोत्क्रमेण वा।
स्वपरिध्याहतेऽशीत्या लब्धे क्षयधनं फलम्॥4॥
स्वपरिध्योति। क्रमज्या उत्क्रमज्या वा याऽत्र साधिता तां स्वपरिधिसंख्यया निहत्याशीत्या विभजेत्। तत्र लब्धं जीवाफलं भवति। तत्क्षयात्मकं धनात्मकं च पदवशाद्भवति॥4॥
तत्क्रममाह -
केन्द्रात्पदविभागेन क्षयो धनधनक्षयाः।
देशान्तरीकृते सूर्ये कुर्यात्तन्मध्यमे सदा॥5॥
केन्द्रादिति। प्रथमपदे तत्क्रमफलं देशान्तरसंस्कारयुते मध्यमे ऋणं कुर्यात्। द्वितीयपदे तु प्रथमपदसिद्धं पूर्णफलं प्रक्षिप्य चतुर्थपदसिद्धमुत्क्रमफलं विशोधयेत्। एवं जीवाफलसंस्कृतो मध्यमस्फुटो भवति। चन्द्रमसोऽप्येवं विधिः॥5॥
अथवा सर्वेषु पदेषु बाहुफलमेव कार्यमित्याह -
केन्द्रे क्रियादिके चाथ फलं बाहोर्विशोधयेत्।
तुलादिके तु तन्नित्यं देयं स्फुटदिदृक्षुणा॥6॥
केन्द्र क्रियादिके वा(चा)ऽथेति। केन्द्रे क्रियादिके सति। तत्पदसिद्धं बाहुफलं विशोध्य भवति। एवं बाहुफलसंस्कृतो मध्यमस्फुटो भवति। अत्र पक्षद्वयेऽपि ज्याफलं चापितमेव ग्रहे कार्यम्। कर्णविधौ तु बाहुफलं कोटिफलं च। अत्रा(चा)पितमेव ग्राह्यम्॥6॥
भुजाविवरस्फुटमाह -
क्रमोत्क्रमफलाभ्यस्तां मध्यां बाहुफलेन वा।
भुक्तिश्चक्रकलावाप्ता पूर्वत्तत्प्रकल्पयेत्॥7॥
क्रमोत्क्रमेति। क्रमफलमुत्क्रमफलं वा बाहुफलं वा यद्यद्ग्रहे क्रियते, तत्सर्वं मध्यभुक्त्या निहत्य चक्रत(क)लाभिर्विभज्य लब्धं जीवाफलं ग्रहे कार्यम्। यद्युत्क्रमफलं क्रमफलं च ग्रहे कृतं प(त)दा ताभ्यां द्वाभ्यां प्र(पृ)थङ्मध्यभुक्तिं निहत्य चक्रकलाभिर्विभज्य लब्धं फलद्वयमपि ग्रहज्याफलवत्कार्यम्। मध्यभुक्तेर्गुणकारत्वादिमं संस्कारं मध्यमे कृत्वा पुनस्तं स्फुटी कुर्यात्॥7॥
बाहुकोटिविभागमाह -
बाहुकोटि(टी)क्रमात्केन्द्रे कोटिबाहु गतागते।
तयोर्गुणफले प्राग्वत्कर्णार्थे परिकीर्त्यते॥8॥
बाहुकोटी इति। बाहुफलं कोटिफलं च कर्णार्थं प्राग्वत्साध्यम्॥8॥ कर्णानयनमाह -
- आद्ये पदे चतुर्थे च व्यासार्धे कोटिसाधनम्।
क्षिप्यते शोध्यते चैव शेषयोः कोटिका भवेत्॥9॥
आद्ये पद इति। कोटिसाधनशब्देन कोटिफलमुच्यते। केन्द्र आद्यपदे चतुर्थपदे च कोटिफलं व्यासार्धे प्रक्षिपेत्। द्वितीयतृतीयपादयोः कोटिफलं व्यासार्धाद्विशोधयेत्। एवं कृता सा त्रिज्या कोटिका भवति। कोटिसंज्ञा भवति। तस्याः कोटिकाया बाहुफलस्य च वर्गयोगपदं कर्णो भवति। एवं सर्वत्र कर्णविधिर्ज्ञेयः॥9॥
पुनरस्य कर्णस्याविशेषकरणमाह -
तद्बाहुवर्गसंयोगमूलं कर्णः प्रकीर्तितः।
बाहुकोटिफलाभ्यस्ते कर्णे व्यासार्धभाजिते॥10॥
भुजाकोटिफले स्यातां ताभ्यां कर्णश्च पूर्ववत्।
भूयः पूर्वफलाभ्यस्ते कर्णे त्रिज्याविभाजिते॥11॥
एवं पुनः पुनः कुर्यात्कर्णं पूर्वोक्तकर्मणा।
यावत्तुल्योः भवेत्कर्णः पूर्वाक्तविधिनाऽमुना॥12॥
विष्कम्भार्धहता भुक्तिः सूर्याचन्द्रमसोः सदा।
स्वाविशेषेण कर्णेनः स्फुटभुक्तिरवाप्यते॥13॥
बाहुकोटिफलाभ्यस्त इति। तत्र सिद्धं कर्णं प्रथमानीतबाहुकोटिफलाभ्यां निहत्य त्रिज्यया विभजेत्। तत्र लब्धे बाहुकोटिफले कर्णसाधने भवतः। पुनस्ताभ्यां च कर्णमानयेत्। तमपि कर्णे प्रथमानीतभजाकोटिफलाभ्यां निहत्य त्रिज्यया विभज्य लब्धाभ्यां ताभ्यामपि कर्णः साध्यः। एवं पुनः पुनः कृत्वा कर्णविशेषयेत्॥10॥11॥12॥13॥
स्फुटभुक्त्यानयनं प्रकारान्तरेणाऽऽह-
अन्त्यजीवाऽथवा भुक्त्या गुणिता धनुषा हृता।
स्वपरिध्याहतेऽशीत्या लब्धे हीनाऽधिके स्फुटा॥14॥
अन्त्यजीवाऽथवेति। वर्तमानखण्डज्याऽत्रान्त्यजीवेत्युच्यते। भुजाया वर्तमानखण्डज्यां मध्यभुजा[भु]क्त्या निहत्य मख्या विभज्य लष्बं स्वपरि[धिना]निहत्याशीत्या (80) विभज्य लब्धं मृगादौ मध्यभुक्तेः शोधयेत्। कर्क्यादौ मध्यभुक्तौ प्रक्षिपेत्। सा च स्फुटभुक्तिर्भवति॥14॥
एवमर्कस्य विधिं(धि)[मुक्त्वा] चन्द्रस्य विधिमाह-
अन्त्यजीवाधनुष्खण्डं केन्द्रभा(भो)गद्विशोधयेत्।
तद्विशुद्धमधः शेषं पात्यते विषमे ततः॥15॥
उच्चभक्तिविहीनाया भक्ते शीतांशुभालिनः।
उत्क्रमज्याऽक्रमे ग्राह्या क्रमज्या चेत्क्रमे स्थिते॥16।
आद्यन्त्योः फलं युक्त्वा गुणयोश्चानुपाततः।
तत्फलेन विहीनाप्ता भुक्तिः स्फुटतरा हि सा॥17॥
अन्त्यजीवाधनुरिति। ओजपदे भुजाया वर्तमानधनुष्स्वण्डं केन्द्राभोगादुच्चगतिहीनचन्द्रभोगाद्विशोधयेत्। युग्मपदे तु वर्तमानधनुष्खण्डं मखेर्विशोध्य शेषमुच्चभुक्तिहीनाया मध्यभुक्तेर्विशोध्येत्। उभयत्र शोधितलिप्ताभ्यो वर्तमानखंडज्यनिहताभ्यो संख्या विभज्य लब्धं जीवाफलमेकत्र स्थापयेत्। अत्र क्रम इत्योजपदप्रदर्शकः। उत्क्रम इति युग्मपदप्रदर्शकः। ओजपदे वर्तमानजीवान उत्क्रमेण केन्द्रभुक्तिकलानां जीवा ग्राह्याः। युग्मपदे तु वर्तमानजीवातः क्रमेण केन्द्रभुक्तिकलानां जीवा ग्राह्या इत्युक्तं भवति। अतो धनुष्खण्डहीनकेन्द्रभुक्ति- शेषाद्यावद्वमरं मखिः शोध्या तावद्वारं मखिं विशोध्य वर्तमानखण्डज्यातः पूर्वस्थापितजीवायाः पराधिकास्तावत्यः खण्डज्याः पूर्वस्थापितजीवायां प्रक्षेप्याः। पुनरन्तरखण्डज्यया केन्द्रभुक्तिकलाशेषं निहत्य संख्या विभज्य लब्धजीवकलाः पूर्वगृहीतजीवासु प्रक्षेप्याः। इति वा ग्रहणक्रमः। पुनस्तां जीवां स्वपरिधिहतामशीत्या विभज्य लब्धं पूर्ववन्मृगादौ मध्यभुक्तेर्विशोधयेत्। कर्क्यादौ प्रक्षिपेत्। स्फुटभक्तिर्भवति॥15॥16॥17॥
पूर्वदिनयोग्यस्योत्तरदिनभोगस्य च स्वरूपमाह -
ह्यस्तनाद्यतनयोपि(र्वि)शेषोऽतीतभोगतः।
श्वस्तनाद्यतनयोश्च भाविभोगः प्रकीर्तितः॥18॥
ह्यस्तनेति॥18॥
कोट्याः पदवशाद्धित्वा युक्त्वा वाऽन्त्यफलं पुनः।
तद्वर्गबाहुवर्गस्य योगात्कर्णपदं भवेत्॥19॥
कोट्याः पदवशादिति। अत्र भुजामशीत्या(80) विभज्य यल्लभ्यते तदन्त्यफलमित्युच्यते। आद्यपदे चतुर्थतः स्वपरिधिहता द्वितीयतृतीयपदयोरन्त्यफलं कोटिज्यातः शोधयेत्। एवं सिद्धायाः कोटिज्याया बाहुज्यायाश्च वर्गयोगपदं कर्णो भवति॥19॥
तस्याविशेषकरणमाह -
- कर्णेनान्तयफलं हत्वा विष्कम्भार्धेन लभ्यते।
पूर्वकोट्या धनर्णं स्याद्यावान्कर्णः समो भवेत्॥20॥
कर्णेनान्त्यफलामिति। प्रथमानीतमन्त्यफलं कर्णेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धमन्तयफलं भवति। पुनस्तेनान्त्यफलेन प्रथमसिद्धभुजां कोटिज्यां च प्राग्वतकर्णमानयेत्। पुनस्तेन कर्णेन प्रथमसिद्धमन्त्यफलं निहत्य त्रिज्यया विभज्य लब्धेनान्तयफलेन कर्णेन प्रथमसिद्धमन्त्यफलं निहत्य त्रिज्यया विभज्य लब्धेनान्त्यफलेन कर्णमानयेत्। एवं पुनः पुनः कृत्वा कर्णमविशेषयेत्॥20॥
प्रतिमण्डलस्फुटमाह -
भुजज्याभिहता त्रिज्या कर्णेनाऽऽप्तधनुः क्रमात्।
केन्द्रात्पदविभागेन धनं स्वोच्चे प्रकल्पयेत्॥21॥
भुजज्याभिहतेति। भुजज्यया त्रिज्यां निहत्याविषकर्णेन विभज्य लब्धं चापीकृत्य वक्ष्यमाणविधिना स्वमन्दोच्चे धनं कुर्यात्। स स्फुटरविर्भवति॥21॥
तत्प्रकारमाह -
तदेवं केवलं पूर्वं चक्रार्धं तेन वर्जितम्।
चक्रार्धं तच्च संशुद्धं चक्रोच्चः स स्फुटो रविः॥22॥
तदेव केवलामिति। प्रथमपदे तच्चापमेव स्वोच्चे क्षेप्यम्। द्वितीयपदे तच्चापं चक्रार्धद्विशोध्यं शिष्टे स्वोच्चे क्षेप्यम्। तृतीयपदे चक्रार्धयुतं तच्चापं क्षेप्यम्। चतुर्थपदे तच्चापं चक्राद्विशोध्य शिष्ट क्षेप्यम्। एवं सिद्धं मन्दोच्चं स्फुटरविर्भवति। इह चापीकरणदोषात्कुत्रचिदस्य स्थौल्यं संभवति। स्फुटचापे गृहीते सदा सूक्ष्ममेव भवति॥22॥
कर्क्यादौ यदा कोटिज्याऽन्त्यफलतुल्या भवति तदा प्रथमपदावसानं कल्प्यम्। तथा चतुर्थपादारम्भश्च। एवं प्रतिमण्डलसंसिद्धिः कीर्तितेत्याह -
प्रतिमण्डलसंसिद्धिरेषा सम्यक् प्रकीर्तिता।
स्वान्त्यं फलं च सर्वेषामुच्यते प्रतिमण्डलम्॥23॥
प्रतिमण्डलेति। अन्त्यफलं च सर्वेषामित्यत्यार्थो गोलविवेक एवं निरूप्यः॥23॥
÷स्फुटस्वदेशमध्यार्कविश्लेषान्तरसंगुणा।
भुक्तिश्चक्रकलाप्राप्ता पूर्ववत्तद्भुजान्तरम्॥24॥
स्फुटस्वदेशेति। स्वदेशसाधितस्फुटार्कमध्यमार्कयोरन्तरलिप्ताः स्फुटभक्तिहताश्चक्रकलाभक्ताः स्फुटरवौ पूर्ववन्मेषतुलादावृणधने कुर्यात्। एतद्भुजाविवराख्यं कर्म भवति॥24॥
×चरसंस्कारमाह -
चरप्राणहता भुक्तिरहोरात्रासुभाजिता।
उदयास्तगतोः शुद्धिः क्षेपश्चोत्तरगे रवौ॥26॥
चरप्राणेति। रवेश्चरदलप्राणैः स्फुटभुक्तिर्निहत्याहोरात्रासुभिर्विभज्य लब्धमुत्तरगोले सूर्यस्योदये रवौ शोध्यम्। अस्तमये क्षेप्यम्। दक्षिणउदये क्षेप्यमस्तमये शोध्यम्॥26॥
व्यत्ययो दक्षिणे भानामन्येषामनुपाततः।
फलं भास्वद्वशद्विद्धिः क्षेपः शोधनमेव वा॥27॥
अन्येषामनुपातत इति। अन्येषां ग्रहाणामित एवं चरदलात्त्रैराशिकेन चरदलभोगावाप्तिः। स्वस्वभुक्तहतादर्कचरदलादहोरात्रासुभिर्लब्धं चरदलभोगस्य फलं भवति। तस्याऽऽदित्यस्य कालवशाद्गोलवशाच्च धनशोधने वेद्ये॥27॥
दिनार्थ(र्धं)प्रमाणमाह -
उदक्परार्धसंयुक्तो वादोऽहोरात्रसंभवः।
दिनार्धं दक्षिणे हीनं रात्र्यर्धं तद्विपर्ययात्॥28॥
उदक्परार्धेति॥28॥
चन्द्रस्फुटकर्माऽऽह -
सूर्यबाहुहता भुक्तिर्मध्यचन्द्रकलाहृता।
भास्करस्य वशात्क्षेपः शुद्धिर्वाऽपि निशाकृतः॥29॥
शेषं विवस्वता तुल्यं कर्म चन्द्रस्य कीर्तितम्।
भास्वद्भुजाफलेनैव शेषाणां तु प्रकल्पयेत्॥30॥
सूर्यबाहुहतेति। एष भुजाविवरसंस्कारो धनशोधते तस्य भास्करस्य कालगोलवशाद्देशान्तरसंस्कारयुते मध्यम एष कार्यः। शेषं कर्म भास्वता तुल्यं मन्दोच्चशोधनभुजाफलानयनकर्णानयनादि सूर्यवद्वेद्यम्। शेषाणां ग्रहाणामपि भुजाविवरमर्कवदित्याह- भुजास्वदिति॥29॥30॥
तिथ्यानयनमाह -
स्फुटार्थोनः(र्केण)शशी छेद्यो लिप्ताभिः खद्विभूधरैः।
तिथयस्तत्र लभ्यन्ते शेषं षष्ट्या समभ्यसेत्॥31॥
छिन्द्यादभुक्तिविशेषेण घटी विघटिकासवः।
तिथिः शेषो गतो वाऽपि निदिर्ष्टो भास्करोदयात्॥32॥
स्फुटार्केणेति॥31॥32॥
करणान्याह -
तिर्थ्यहारलब्धानि करणानि *बवादितः।
विरूपाणि मिते पक्षे सरूपाण्यसिते विदुः॥33॥
लिप्तीकृतो ग्रहश्छेद्यः शरैरष्टाभिराप्यते।
ज्योतिषां निचयो यातो भुक्त्या शेषाद्घटीर्विदुः॥34॥
तिथ्यर्धहारेति। असिते पक्षे राशिषट्कमपास्य शेषात्सिद्धकरणानि सरूपाणि स्युः॥33॥34॥
म्यतीपातमाह -
सूर्येन्दुयोगे चक्रार्धे व्यतीपातोऽथ वैधृतः।
चक्रे मैत्रे च पर्यन्ते विज्ञेयः सार्पमस्तकः॥35॥
सूर्येन्दुयोग इति। चक्रार्धे सूर्येन्दुयोगे वैधृतश्चकाराद्व्यतीपातश्च। मैत्रस्योत्तरार्धे सार्पमस्तकाख्यो व्यतीपातः॥35॥
अत्र वक्रार्धव्यतीपातस्य लक्षणविशेषमाह -
नानायने व्यतीपातस्तुल्यापक्रमयोस्तयोः।
उद्देशस्तस्य चक्रार्धं विक्षेपादधिको नतम्॥36॥
नानायन इति। तयोः सूर्येन्द्वोरतुल्यापक्रयोः सतोर्नानायने तयोरयने भिन्ने च सत्येव व्यतीपातः स्यात। तस्य, उद्देशप्रदेशश्चकार्धें सूर्येन्दुयोगे चक्रार्धे त भवतीत्यर्थः। अत्र तुल्याऽपक्रमस्यगोलतः संख्ख्या च। एकगोलतयोस्तुल्यापकमयोः सूर्येन्द्वोः सतोरित्यर्थः॥36॥
कुजादीनां स्फुटविधिमाह-
तिग्मांशकेन्द्रवज्जीवा क्रमशश्चोत्क्रमादपि।
भुजाकोट्यादिसिद्धिश्च विशेषोऽभिधास्यते॥37॥
तिग्मांशुकेन्द्रवादिति। कुजादीनां केन्द्रऽपि तिग्मांशुकेन्द्रवद् भुजायाः कमज्याग्रहणं कोट्या उक्तक्रमज्याग्रहजं च वेद्यम्। भुजाकोट्योर्विभागवनशोधने च तथा यत्पुनस्तेषां सूर्याद्विशेषः इहाभिधास्ते॥37॥
तद्विशेषमाह -
स्ववृत्ता स्वोत्तरगुणा पदयोरोजयुग्मयोः।
कमाकमात्त्मिमौर्वा(र्व्या)प्तं परिधौ परिकल्प्येत्॥38॥
क्षयोऽधिकद्युतीहीने परिधिः स्यात्फुटा मता।
तेनाऽऽहतं ग्रहेन्द्रज्यां छित्वाऽशीत्या फलं विदुः॥39॥
स्ववृत्तेति। ओजवेद भुजायाः कमज्यामानीय, ओजयुग्मपदपटियेर्वृत्तयोरन्तरेण निहत्य व्यासार्धेन विभज्य लब्धमोजपदवृत्ते धनमृणमषा (णं वा) कुर्यात्। अधिक ऋणं कुर्यात्। तदोजपदे स्फुटपदे स्फुटवृत्तं भवति। युग्मपदे तु कोट्या उत्क्रमज्यामानीय वृत्तान्तरेण निहत्य व्यासार्धेन विभज्य लब्धं युग्मपदवृत्ते धनमृणं वा कुर्यात्। युग्मवृत्ते हीने तस्मिन् धनं कुर्यात्। अधिक ऋणं कुर्यात्। तद्युग्मपदे स्फुटवृत्तं भवति। तेनाऽऽहतेति। तेन स्फुटवृत्तेनाऽऽहताभिष्टकेन्द्रजातां क्रमज्यामुत्क्रमज्यां वाऽशीत्या विभजेत्। तत्र लब्धं ज्याफलं भवति॥38॥39॥
स्फुटक्रममाह -
- स्वमन्दकेन्द्रस्थं(सं)प्राप्तं फलं चापार्धमिष्टयते।
पदक्रमाद्यथा भानोः स्वमध्ये तद्विधीयते॥40॥
स्वमन्दकेन्द्रेति। प्रथमं मन्दोच्चं विशोध्य मन्दकेन्द्रमानीय तस्मादाप्तं भुजाफलं चापीकृत्य तच्चापार्धं मध्यम ऋणं धनं वा कुर्यात्। रविवन्मेषादावृणं तुलादौ धनमित्यर्थः। उत्क्रममर्कग्रहणे तदर्धं पूर्ववत्कार्यम्॥40॥
शीघ्रं केन्द्रफलाभ्यस्तं विष्कम्भार्धं विभाजयेत्।
स्वकर्णेनाऽऽप्तचापार्धं कार्यं तस्मिन्विपर्ययात्॥41॥
तस्मिन्मन्दफलं कृत्स्नं कार्यमिष्टं स्वमध्यमे।
एवं भौमार्कजीवानां विज्ञेयाः स्फुटमध्यमाः॥42॥
शीघ्रमिति। मन्दफलार्धसंस्कृतं मध्यमं पृथक शीघ्रोच्चद्विशोध्य बाहोः कर्मज्याफलं कोट्या उत्क्रमज्याफलं च स्फुटवृत्तगुणनादि कृत्वाऽऽनीय शीघ्रकर्णं च मन्दकर्णवत्सकृदानीय पुनर्भुजाफलं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धश्चापीकृत्य तदर्घं तन्दफलार्धसंस्कृते मध्यमे केन्द्रे मेषादिके धनं कुर्यात्। तुलादिक ऋणं कुर्यात्। पुनस्तस्म्ज्ञन्मन्दोच्चं विशोध्य फलमानीय चापीकृत्य तत्स[कलं] केवलमध्यमे कुर्यात्। स्फुटमध्यमसंज्ञं भवति। एवं भौमार्किजीवानां स्फुटमध्यमाः साध्यः॥41॥42॥
स्फुटमध्मस्य स्फुटकरणमाह -
तद्विहीनफलोत्पन्नफलं चापेन संस्कृतः।
स्फुटमध्यस्फुटो ज्ञेयः शेषयोरुच्यते विधिः॥43॥
तद्विहीनच(फ)लोत्पन्नेति। स्फुटमध्यमं शीघ्रोच्चद्विशोध्य शीघ्रफलचापमामयि तत्सकलं स्फुटमध्यमे शीघ्रन्यायेन कुर्यात्। स स्फुटो भवति॥43॥
अथ शेषयोर्बुधशुक्रयोर्विधिरुच्यते -
+शीघ्रस्यावाप्तचापार्धं युक्तहीनो विपर्ययात्।
मन्दोच्चस्फुटमध्यस्य कर्ता शीघ्रस्फुटं पुनः॥44॥
शीघ्रन्याये(स्ये)ति। प्रथमं मध्यमं शीघ्रोच्चद्विशोध्य शीघ्रफलचापमानीय तदर्धें स्वकीयमन्दोच्च ऋणधनव्यत्ययेन कुर्यात्। तन्मन्दोच्चं मध्यमाद्विशोध्यं तस्मान्मन्दफलचापमानीय तत्सकं केवलमध्मे कुर्यात्। स स्फुटमध्यमो भवतीत्यर्थः। तं शीघ्रोच्चद्विशोध्य शीघ्रचापमानीय तत्सकलं स्फुटमध्यमे कुर्यात्। स स्फुटो भवति। तदुक्तं-शीघ्रोच्चात्स्फुटं विदुरिति॥44॥
प्रतिमण्डलस्फुटकरणमपि विपश्चिता ताराग्रहाणामपि कर्तव्यमित्याह -
प्रतिमण्डलेति। तत्प्रकारमाह-मन्दोच्च इत्यादिना। मध्यमान्यन्दोच्चं विशोध्य भुजज्यां कोटिज्यां चाऽऽनीय वृत्तस्फुटं च कृत्वा स्फुटवृत्तनिहत्या...ज्यामशीत्या विभज्य लब्धमत्यन्त(न्त्य)फलं कोटिज्यायां धनमृणं वा पूर्वत्कृत्वा तद्वर्गभुजज्यावर्गयोर्योगात्पदमानयेत्। स प्रतिमण्डलकर्णः। तं पूर्ववदविशेषयेत्। पुनर्भुजज्यां त्रिज्यया निहत्याविशिष्टेन मन्दकर्णेन विभज्य लब्धं चापीकृत्य मन्दोच्चे पूर्ववत्तमेव केवलमिम्यादिना धनं कुर्यात्। स मन्दसिद्धः स्यात्। शीघ्रस्फुटे तु शीघ्रोच्वाद्यथोदितं मध्यमं विशोध्य भुजाभ्यां कोटिज्यां चाऽऽनीय (तेन कोज्याभुजज्याभ्यां च पूर्ववत्प्रतिमण्डलकर्णं) वृत्तं च स्फुटीकृत्य तेन निहता(द्) व्यासार्धदन्त्यलमानीय तेन कोटिज्याभुजज्याभ्यां च पूर्ववत्प्रतिमण्डलकर्णं सकृदानीय पुनर्भुजज्यां त्रिज्यया निहत्य सकृदानीतशीघ्रकर्णेन विभज्य लब्धं चापीकृत्य तच्चापं तदेव केवलमित्यादिना विधिना शीघ्रोच्च् ऋणं कुर्यात्। स शीघ्रसिद्धो भवति॥45।
शोधनप्रकारमाह -
तदेव केवलं योज्यं पदयोः पूर्ववच्चलात्।
चक्रार्धसंयुतश्चापं चक्राच्छोध्यश्च शेषयोः॥46॥
तदेवेति। अस्यायमर्थः-प्रथमपदे तदेव केवलमिति पूर्वोक्तविधिना तच्चाश्मेव शीघ्रोच्चाच्छोध्येते। द्वितीयपदे तु चक्रार्धं तेन वर्जितमिति। पूर्ववत्तच्चावहीनं चक्रार्धं विशोध्यते। एवं पूर्वपदयोः पूर्ववत्कुर्यात्। उत्तरपदयोश्च तद्वदाह॥46॥
चक्रार्धसंयुतमाह -
स्फुटवृत्तगुणं त्रिज्यां हृत्वाऽशीत्या स्वकोटितः।
त्यक्त्वा पदेषु युक्त्या वा कर्णः प्राग्वत्प्रसाध्यते॥47॥
स्फुटवृत्तगुणामिति॥47॥
अथ स्फुटकर्मप्रकारमाह -
मन्दोच्चसिद्धतन्मध्यविश्लेषार्धमन्वितः।
मन्दसिद्धेऽधिके हीने रहितो मध्यमो ग्रहः॥48॥
स शीघ्रोच्चात्पुनः साध्यः सिद्धयोरन्तरा भुजम्।
अर्धीकृत्य सकृत्सिद्धे पूर्ववत्परिकल्पयेत्॥49॥
एवं कृतस्य भूयोऽपि मन्दासिद्धिं समाचरेत्।
मन्दसिद्धस्य तस्यायं विश्लेषोऽतो विधास्यते॥50॥
ततो द्विसिद्धमन्दस्य द्विसिद्धस्य यदन्तरम्।
प्राग्वत्तन्मध्यमे कृत्वा शीघ्रसिद्धः स्फुटो ग्रहः॥51॥
एवमारार्किजीवानामाख्यातं प्रतिमण्डलम्।
शेषयोरप्य[यं] सम्यगुच्यते यो विधिक्रमः॥52॥
मन्दोच्चसिद्धेति। प्रथमं मन्दोच्चं मध्यमाद्विशोध्य प्रतिमण्डलविधिना मन्दस्फुटमानयेत्। पुनस्तन्मन्दस्फुटमध्यमयोर्विश्लेषमन्धी(र्धी)कृत्य मध्यमे धनमृणं वा कुर्यात्। मन्दसिद्धेऽधिके धनं कुर्यात्। मन्दसिद्ध ऊन ऋणं कुर्यात्। स सकृत्सिद्धं इत्युच्यते। पुनस्तमनष्टं कृत्वा शीघ्रोच्चद्विशोध्य शीघ्रन्यायेन शीघ्रस्फुटमानयेत्। शीघ्रसिद्धेऽधिके धनमन्यथा ऋणम्। एवं कृतो द्विसिद्धो भवति। पुनर्द्विसिद्धान्मन्दोच्चं विशोध्यं मन्दन्यायेन मन्दस्फुटमानयेत्। सिद्धिसिद्धस्य च यदन्तरं तत्सकलं केवलमध्यमे यथाविधि कृत्वा तं शीघ्रोच्चाद् विशोध्य शीघ्रन्यायेन शीघ्रस्फुटमानयेत्। स स्फुटग्रहो भवति। एवमारार्किजीवानां प्रतिमण्डलस्फुटविधिरुक्तः॥48॥49॥50॥51॥52॥
अथ शेषयोर्बुधशुक्रयोर्विधक्रम उच्यते -
शीघ्रोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितम्।
मध्यादूनेऽधिके हीनं मन्दोच्चं संस्कृते विदुः॥53॥
बुधभृग्वोः पुनः साध्यं मन्दमेवं तु कर्मणा।
तेन सिद्धौ चलाद्भूयः स्फुटावेतौ प्रकीर्तितौ॥54॥
शीघ्रोच्चसिद्धेति। प्रथमं शीघ्रोच्चानमध्यमं विशोध्य शीघ्रस्फुटमानीय तत्स्फुटमध्यमयोरन्तरार्धं मन्दोच्चे धनमृणं वा कुर्यात्। मध्यान्न्यूने स्फुटे धनमधिक ऋणम्। एवं संस्कृतं मन्दोच्चं मध्यमाद्विशोध्य मन्दरस्फुटमानीय तं शीघ्रोच्चाद्विशोध्य शीघ्रस्फुटानयेत्। स्फुटो भवति॥53॥54॥
अथ कर्णानयने विशेषमाह -
कोटेरन्त्यफलं शोध्यं न शुध्येद्व्यत्ययात्तदाः।
साध्यः कर्णोऽसकृन्मन्दः सकृत्कर्णः स्वशीघ्रराजः॥55॥
कोटेरिति। कोट्यां शोध्यं यदन्त्यफलं तन्महत्त्वादशोध्यं यदा भवति तदाऽन्त्यफलात्कोटिं विशोध्य शिष्टं कोटिं प्रकल्प्य पूर्ववत्कर्णः साध्यः। मन्दकर्णोऽविशेषान्तं कार्यः। शीघ्रकर्णः सकृदेव साध्यः॥55॥
अथ वक्राद्यवगमनाय शीघ्रोच्चमाह संस्कारमाह -
स्फुटमध्यमान्तरदलं मध्यवशादृणं धनं चले कृत्वा।
वक्रातिवक्रगमने विज्ञेये तन्निवृत्तिश्च॥56॥
स्फुटमध्यमान्तरेति। मध्यमस्य स्फुटग्रहस्य चान्तरमन्धी(र्धी)कृत्य शीघ्रोच्चे धनमृणं वा कुर्यात्। मध्यमशोधनकल्पनस्फान्मध्येऽधिके धनं हीने ऋणमित्यर्थः। तद्वशाद्वक्रातिवक्रगमने वेद्ये॥56॥
तत्प्रकारमाह -
शीघ्रोच्चात्स्फुटखेचरो निपतिताच्छेषं यदा राशय -
श्चत्वारो यदि वक्रगत्यभिमुखः षद्भस्तु वक्रे स्थितः॥
अष्टौ चेत्कुटिलं जहाति विहगः पन्थानमाश्वेव स
त्वेष्यातीतविचारिणोर्विवरकं भुक्तिर्भवेदाह्निकी॥57॥
शीघ्रोच्चादिति। उक्तन्यायेन संस्कृताच्छीघ्रोच्चात्स्फुटशेखरे विशोधिते सति चत्वारो राशयो यदा भवन्ति सदा स ग्रहो वक्रगतावभिमुखो भवति।
यदा षड्राशयस्तदाऽतियके तिष्ठति। यदाऽष्टौ राशयस्तदा वक्रं जहाति। एध्यादीतविचारिणोः परदिनपूर्वदिनसाधितयोर्ग्रहयोरन्तरं दिनभुक्तिर्भवति॥57॥
अथ प्रकारान्तरेण स्फुटभुक्त्यानयनमाह -
मन्दान्त्यजीवागुणितां स्वभुक्तिं
भूयः स्ववृत्तेन हतां विभज्य।
राशेः कलाभिर्दशताडिताभि -
र्भुक्तौ धनर्णे वद युक्तितोऽर्धम्॥58॥
मन्दान्त्येति। प्रथमस्फुटे वर्तमानखण्डज्यां बाहुभवां मध्यभुक्त्या निहत्य पुनर्मन्दस्फुटवृत्तेन च निहत्य दशगुणितैकराशिलिप्ताभिर्विज्य लब्धमन्धी(र्धी)कृत्य मध्यभुक्तौ धनर्णं कुर्यात्। पदक्रमेण क्षयधनधनक्षयान् कुर्यादित्यर्थः। एवं कृता सकृत्सिद्धा भुक्तिर्भवति। तां पुनः शीघ्रोस्फुटवृत्तोन च निहत्य दशताडितराशिकलाभिर्विभज्य लब्धं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धस्य चापार्धं सकृत्सिद्धभुक्तौ शीघ्रन्यायेन धनमृणं वा कुर्यात्। केन्द्रपदक्रमेण धनक्षयक्षयधनानि कुर्यादित्यर्थः। पुनस्तां भुक्तिं तृतीयस्फुटे वर्तमानखण्डज्यया निहत्य स्फुटवृत्तेन च निहत्य दश गुणितराशिलिप्ताभिर्विभज्य लब्धं चापीकृतं सकलं मध्यभुक्तौ मन्दन्यायेन धनमृणं वा कुर्यात्। पुनस्तामविनष्टां संस्थाप्य शीघ्रोच्चभुक्तेर्विशोध्य शेषं चतुर्थस्फुटे वर्तमानखण्डज्यया निहत्य स्फुटवृत्तेन च निहत्य दशताडतराशिलिप्ताभिलिभिर्विभज्य लब्धं व्यासार्धेन निहत्य शीघ्रकर्णेन विभज्य लब्धं चापीकृत्य तत्सकलं पूर्वस्थापितसंस्कृतभुक्तौ शीघ्रन्यायेन धनमृणं वा कुर्यात्। सा स्फुटभुक्तिर्भवति यदा शोध्यं फलं महत्त्वादशोध्यं भवति तदा महतोऽल्पं विशोधयेत्। शिष्टं वक्रगतिर्भवति। एवं सुरेकषमन्दकुजानां गतिविधिः॥58॥
शुक्रबुधयोर्विधिरुच्यते -
शीघ्रोच्चभक्तेस्तदपास्य शेषात्
केन्द्रानत्यजीवाविधिना यदाप्तम्।
त्रिज्याहतं कर्णविभक्तभेदं
न्यायेन शीघ्रस्य धनर्णमिष्टम्॥59॥
तन्मन्दमौर्वीफलचापभुक्ता
सर्वस्वभुक्तौ धनशोधने तु।
तस्याविष्टस्य चलोच्चभक्ते -
र्जीवाफलं सर्वमनिष्टराशौ॥60॥
एवं ग्रहाणां स्फुटभुक्तिसंख्या
वक्रग्रहोऽसाविति सद्भिरुक्तः॥61॥
एवं सुरेध्वा(ज्या)र्कधुरासुतानां
भुक्तिः स्फुटाऽतो भृगुसोमसून्वोः।
मन्दोच्चकेन्द्रादपि संस्कृताद्धि
शीघ्राद्यजीवाविधिना च लब्धम्॥62॥
तनैव सर्वेण युते विहीनौ
भोगः स्फुटो यः कथितो विशेषः।
इयं ग्रहाणां व्यवहारिकी स्या
द्भुक्तिः स्फुटाऽऽसन्नतरा च नित्या॥63॥
मन्दोच्चकेन्द्रादावि(दपी)ति। शीघ्रान्त्यज्यया गुणिताद्विधिनाऽवाप्तदलेन संस्कृते भोगे यथाविधि कुर्यात्। स स्फुटभोगो भवति। इयं भुक्तिरासन्नतरास्फुटभुक्तिसमा प्राय इत्यर्थः। व्यवहारिता नित्यं कर्मक्षमेत्यर्थः। आसन्नवरेत्यनेन किंचित्स्थौल्यमति सूचितम्। तस्याः स्थौल्यहेतुस्त्प्रक्रिया च भाष्ये द्रष्टव्या॥59॥60॥61॥62॥63॥
अर्केन्द्वोः समलिप्तीकरणमाह -
गन्तव्ययाततिथिशेषहते रवीन्द्वो -
र्भुक्तिक्रमेण दिनशोभविशेषभक्ते।
लब्धेन युक्तरहितौ शशितिग्मरश्मी
ज्ञेयौ समौ सकललोकविधानहेतुः॥64॥
इति महाभास्करीये चतुर्थोऽध्यायः॥4॥
- - - - -
गन्तव्येत। पर्वणो गन्तव्यकलाभिः प्रतिपदो गतकलाभिर्वा रवीन्द्वोः स्फुटभुक्तिं निहत्य गत्रून्तरेण विभज्य लब्धा लिप्ता गन्त्व्यकलाश्चेत्सूर्येन्द्वोः क्षप्याः। गतकलाश्चेच्छोध्याः। तदा कौ (तौ) समलिप्तौ भवतः॥64॥
इति परमेश्वरकृतायां कर्मदीपिकायां चतुर्थोऽध्यायः॥4॥
पञ्चमोऽध्यायः
सम्पाद्यताम्
अथ ग्रहणाध्याय उच्यते।
भास्वतो ग्रहणं वाच्यमाचार्यार्यभटोदितम्।
तस्य चाऽऽदौ विजानीयादुपायानां विनिश्चयम्॥1॥
तत्रादावुपायानां बिम्बव्यासकर्णादीनां विनिश्चं (श्चितं) स्वरूपं जानीयादित्याह-भास्वत इति॥1॥
तत्र रवीन्द्वोर्मध्ययोजनकर्णमाह -
पञ्चाष्टरन्ध्रभूतेषुवेदाः कर्णो विवस्वतः।
सप्तपर्वतरामाब्धिगुणसंख्या निशाकृतः॥2॥
पञ्चाष्टेति। पञ्चादिवेदान्ता विस्वतो योजनकर्णः। सप्तपर्वताभ्यां निशाकृतः कुर्णः॥2॥
अनयोः स्फुटीकरणमाह -
कलाकर्णहतोवेतौ विष्कम्भार्धविभाजितौ।
स्फुटयोजनकर्णौ तौ सूर्याचन्द्रमसोर्विदुः॥3॥
कलाकर्णेति। कलाकर्णो विशेषकर्णः। विष्म्भार्धं त्रिज्या॥3॥
अर्केन्दुभुवां बिम्बस्य व्यासयोजनान्याह -
दिग्वेदसागरा भानोरिन्दोस्तिथिहुताशनाः।
योजनैरुच्यते सद्भिर्भुवा(र्भूव्याः)सः खेषुपङ्क्तिभिः॥4॥
दिग्वेदेति। योजनैरिति। योजनमानेनात्र बिम्बव्यासा उक्ता इत्यर्थः॥4॥
सूर्येन्द्वोर्बिम्बकलानयनमाह -
विष्कम्भार्धहतौ व्यासौ स्फुटयोजनभाजितौ।
भवतस्तौ कलाव्यासावुष्णाशीतगुतेजसोः॥5॥
विष्कम्भार्धहताविति। एतौ योजनव्यासौ त्रिज्याहतौ स्फुटयोजनकर्णभक्षौ(क्तौ) लिप्तव्यासौ भवेतामिति॥5॥
अथ सूर्येन्द्वोः स्फुटभुक्तिभ्यां तयोर्बिम्बकलानयनं चन्द्रभुक्त्या तमोबिम्बकलानयनमाह -
नवांशाः पञ्च भोगस्य भूतवर्गांश एव च।
स्वतुरीयविलिप्तार्युक्तहीने तनुस्फुटे॥6॥
सूर्याचन्द्रमसोर्विद्धि राहुबिम्बं च कथ्यते।
पङ्क्त्यांशश्चन्द्रभोगस्य षोडशांशोनलिप्तिकाः॥7॥
नवाशाः पञ्चेति। सूर्यस्य स्फुटभुक्तिकलाः पञ्चगुणिता नवभिर्भक्तास्तस्य बिम्बकला भवन्ति। चन्द्रस्फुटभुक्तिकलाः पञ्चविंशतिभक्तास्तस्य बिम्बकला भवन्ति। तत्र रविबिम्बकलाचतुर्थोशतुल्यविलिप्तास्तस्मिन्विम्बे। मुक्तिकलाभ्यां दशाभिर्विभज्य लब्धासतमोबिम्बकला भवन्ति। तद्वि लम्बकलाभ्याः षोडशांशतुल्या विलिप्तास्तद्विम्बे देयाः स्युः॥6॥7॥
अथ मध्यलग्नानयनमाह -
अथातो मध्यलग्नस्य विधानं संप्रवक्ष्यते।
निरक्षासुभिरुत्पत्तिर्बोद्धव्या शास्त्रकोविदैः॥8॥
अथातो मध्यलग्नस्येति। तस्योत्पत्तिं निरक्षासुभिर्भवति। लङ्कोदयासुभिः साध्या....त्यर्थः॥8॥
तत्प्रकारमाह -
पूर्वाह्णे सूर्ययुक्तस्य गतभागासवो हि ये।
गन्तव्यानां चापराह्णे भागानामसवः स्मृताः॥9॥
मध्यं तिथ्यन्तरा...भ्यः शोध्या भागाश्च भास्करे।
शोध्या देयाश्च भूयोऽपि निरक्षासुवशाद्रवौ॥10॥
राशयः कालतत्त्वज्ञैरनुपाताष्तमेव च।
मध्यलग्ना........श्रीमद्भटमुखोदितम्॥11॥
कक्याभेदाच्चची(?)भावो जीवाभेदः प्रकीर्तितः।
ज्ञापनं च स्वदृक्क्षेपौ...त्यादिवचनं प्रभोः॥12॥
पूर्वाह्ण इति। पूर्वाह्णे सूर्यस्य गतभागान् लङ्कोदयासुभिर्निहत्य त्रिंशता विभज्य लब्धानसून् द्युगतदिनार्धयोर्विवरासुभ्यः संशोध्य रवेर्गतभकगान् विशोधयेत्। शिष्टासुभ्यश्च रविस्थितराशेरुत्क्रमेण लङ्कोदयासवो यथासंभवं संशोध्याः। रवौ च तावन्तो राशयः शोध्याः। पुनः शेषासूंस्त्रिंशता निहत्य वर्तमानराश्यसुभिर्विभज्य लब्धान् भागाञ्शोधितराशौ सूर्ये विशोधयेत्। तन्मध्यलग्नं भवति। अपराहणे तु सूर्यस्य गन्त्व्यभागलब्धानसून् द्युगतदिनार्धयोन्तरालगतेभ्यो नतासुभ्यो विशोध्य सूर्ये गन्तव्यं प्रक्षिप्य शेषात्क्रमेण लङ्कोदयासूनूविशोध्य सूर्ये च तावतो राशीन्प्रक्षिप्य राशौ सूर्ये प्रक्षिप्येत्। तन्मध्यलग्नं भवति। सायनसूर्येणैवं लघ्यलग्नमानीय पुनरयनश्वलनं विशोधयेत्। एवं मध्यलग्नमुक्त्वा सूर्येन्द्वोर्विक्षेपकृतः उक्तः। स्वदृक्क्षेप इत्येतदार्यभटस्य वचनं ज्ञापकमेवं जीवाभेदेऽस्ति॥9॥10॥11॥12॥
रवेरुदयज्यानयनमाह -
बाहुज्योदयलग्नस्य परक्रान्तिहता हृता।
लम्बकेनोदयज्याऽऽप्ता कक्ष्यायां भास्वते स्फुटः॥13॥
बाहुज्येति। सायनलग्नस्य परमक्रान्त्या निहत्य लम्बकज्यया विभजेत्। तत्र लब्धं कक्ष्यायामुदयज्या भवति। सूर्यस्योदयज्येत्यर्थः॥13॥
चन्द्रस्योदयज्यामाह -
सैंहिकेयाविहीनस्य जीवा लग्नस्य ताडिता।
तिथिभिश्चन्द्ररन्ध्रैकैर्विक्षेपज्या विलग्नजा॥14॥
विलग्नक्रान्तिपक्षे वा धनुषोस्तुल्यदिक्कयोः।
युक्तिर्वियुक्तिरन्यत्वे शेषकाष्ठगुणा गता॥15॥
सैंहिकेयेति। राहुहीनस्योदयलग्नस्य भुजज्यां तिथिभिर्निहत्य चन्द्ररन्धैकेर्विभज्य लब्धं लग्नविक्षेपज्या भवति। पुनर्ल....दिऽशोन्तरं कृत्वां तस्य जीवाग्रानीय व्यासार्धेन निहत्य लम्बकेन हरेत्। तत्र लब्धं चन्द्रकक्ष्यायामुदयज्या भवति। चन्द्रस्योदयज्येत्यर्थः॥14॥15॥
चन्द्रस्य मध्यज्यानयनार्धं(र्थं) मध्यलग्नाच्च विक्षेपज्या साध्या तदाह -
उदयज्येन्दुकक्ष्यायां व्यासार्धं लम्बकोद्धृतम्।
राहूनमध्यग्नाच्च विक्षेपज्या प्रसाध्यते॥16॥
राहूनेति। लग्नविक्षेपवन्मध्यलग्नविक्षेपः साध्यः॥16॥
मध्यज्यानयनमाह -
मध्यक्रान्तिविषुवज्ज्यातष्टयोरेकदिक्कयोः।
योगो वियोगो वाऽन्यत्वे मध्यजयाशेषदि[ग्व]शात्॥17॥
मध्यक्रान्तीति। मध्यलग्नस्य क्रान्तिज्यामानीय चापीकृत्याक्षज्याश्च चापीकृत्य तयोस्तुल्यदिशोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा तज्जीवामानयेनत्। सा रवेर्मध्यज्या भवति। अक्षज्या नित्यदक्षिणा। तत उत्क्रान्तिर्धशिष्टा चेदुत्तरमध्यज्या। अन्यथा दक्षिणा। इन्दोर्मध्यज्यामाह - इन्द्रोः पलक्रान्तीति। मध्यलग्नस्य क्रान्तिचापविक्षेपचापयोरक्षयापस्य च तुल्यदिक्त्वे योगः। भिन्नदिक्त्वेऽन्तरं कृत्वा तज्जीवामानयेत्। सा चन्द्रस्य मध्यज्या भवति। शिष्टचापवशात्तस्य अपि दिग्भवति॥17॥
दृक्क्षेपज्यानयनमाह -
स्वमध्यो(ध्यज्यो)दयाभ्यासाद्विष्कम्भार्धाप्तवर्गितात्।
मध्यज्यावर्गतोऽपास्य स्वदृक्क्षेपं पदं बिदुः॥18॥
गतगन्तव्यनाडीभिर्भज्यात्पूर्वोक्तकर्मणा।
साध्या भवेच्छशाङ्कस्य विधानमिदमुच्यते॥19॥
स्वमध्यज्येति। स्वमध्यज्यां स्वोदयज्यया निहत्य व्यासार्धेन विभज्य लब्धं वर्गीकृत्य स्वमध्यज्यावर्गतः संशोध्य शिष्टं मूली कुर्यात्। तत्स्वदृग्क्षेपज्या भवति। गतगन्तव्यनाडीभिः पूर्ववच्छङ्कुमानीय दृश्या(ग्क्ष्या)मुत्पादयेत्॥18॥19॥
तत्र चन्द्रस्य विशेषमाह -
समलिप्तेन्दुविक्षेपक्रान्तिज्याचापसंयुतिः।
वियुक्तिर्विदिशोर्जीवाशेषस्येन्द्रोरपक्रमः॥20॥
तेनाहोरात्रविष्कम्भक्षितिजीवाचरासवः।
प्रसाध्यस्तैश्च दृग्जीवा गतगन्तव्यकालतः॥21॥
समलिप्तेति। समलिप्तेन्दोरपक्रमचापं विक्षेपचापं चाऽऽनीयं तुल्यदिशौस्तयोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा जातस्य जीवामानयेत्। सा चन्द्रस्य क्रान्तिज्या भवति। तथा स्वाहोरात्रक्ति ज्याचरदलासूनानीय तैर्गतगन्तव्यासुभिश्च शङ्कुमानीय दृग्ज्यां चाऽऽनयेत्॥20॥21॥
दृग्गतिज्यानयनमाह -
स्वदृग्दृग्क्षेपगुणयोर्वर्गविश्लेषजे पदे।
दृग्गतिज्ये भवेतां ते भास्करामृततेजसोः॥22॥
स्वदृग्क्षेपेति। दृगिति *दृग्ज्यादृग्क्षेपज्यावर्गयोर्विश्लेषमूलं दृग्गतिज्या भवति। एवमर्केन्द्वोर्दृग्गतिज्या पृथक् साध्या॥22॥
लम्बनलिप्तानयनमाह -
स्वदृग्गतिक्षमाव्यासभेदसंवर्गसंभवम्।
पृथग्योजनकर्णाप्तं लिप्ताद्युलम्बनं विदुः॥23॥
स्वदृग्गतिक्षमाव्यासेति। दृग्गतिज्यां भूव्यासार्धेन निहत्य स्वस्वस्फुटयोजनकर्णेन विभजेत्। तत्र लब्धा लम्बनलिप्ता भवति॥23॥
लम्बघटिकानयनं तत्संस्कारप्रकार चाऽऽह -
तद्विश्ले(शे)षो हतः षष्ट्या स्फुटभुक्त्यन्तराहृतः।
घटिकादितिथेः प्राह्णे शुद्धिः क्षेपोऽपरो मतः॥24॥
तद्विशेषो हत इति। तासां विबिम्बलिप्तानां चन्द्रलम्बनलिप्तानां च यो विशेषो विश्लेषोऽर्कलम्बनलिप्ताहीनश्चन्द्रलम्बनलिप्तागण इत्यर्थः। तं षष्ट्या निहत्य भुक्त्यन्तरकलिभिर्विभजेत्। तत्र लब्धं लम्बनघटिका भवन्ति। प्राह्णं लम्बनस्य शुद्धिस्थितिः पर्वणः कार्या। अपराह्णे पर्वणि क्षेपः कार्यः। पूर्वाह्णे लम्बनघटिकाः। पूर्वान्तरनाडीषु ऋणं कुर्यात्। अपराह्णे धनं कुर्यादित्यर्थः॥24॥
मध्याह्नकालनिष्पन्नलम्बनस्य +धनर्णविभागमाह -
दिनार्धकालनिष्पन्नमिति। मध्याह्नेऽपि लम्बनं संभवति। इन्द्रावदुग्गत उदयज्यायां चोदग(ग्ग)तायां तल्लम्बनं शोध्यं भवति। इन्दुशब्दोऽत्र मध्यज्याप्रदर्शकः। अतो मध्यमज्यायामुदयज्यायां च तुल्यदिग्गतायां शोध्यं भवति। भिन्नदिग्गतायां क्षेप्यं भवतीत्यत्रोक्तं भवति। गीयते तत्र दक्षिणे इत्यनेन। एकस्यामुत्तरस्थायामन्यस्यां दक्षिणस्थायां च क्षेप्यमियुक्तं भवति।
लम्बनाविशेषकरणमाह -
एवं पुनः पुनः कर्मेति। लम्बनसंस्कृतपू(प)र्वान्तकाले चन्द्रार्कावानीय उदयलग्नं मध्यलग्नं च तत्काले आनीय दृग्ज्यां च तत्काले आनीय तैर्लम्बनलिप्तास्तद्धटिकाश्च पूर्ववदानीय ता घटिकाः प्रथमनीतपर्वघटिकासु धनमृणं वा कुर्यात्। पुनस्तत्काले रविचन्द्रादीनानीय तसिद्धा लम्बनघटिका अति प्रथमानीतस्वेव पर्वघटिकासु धनमृणं वा कुर्यात्। यावत्कृते मत्र्यज्यादिक सर्वमविशिष्टं तावदेवं कुर्यात्।
अर्केन्द्वोरवनतिलिप्तानयनमाह -
तिथिवच्चन्द्रतीक्ष्णांशू संचार्यावेव पण्डितैः।
दृग्क्षेपज्येऽल्पविश्लेष्टे भूव्यासार्धहते हृते॥25॥
दृग्क्षेपज्ये इति। सूर्येन्द्वोरविशिष्टे ये दृग्पेक्षज्ये ते व्यासार्धहते तयोः स्फुटयोजनकर्णाभ्यां भक्ते कार्ये। तत्र लम्बस्थयोरवनलिप्ता भवन्। स्वस्वमध्यज्यायास्तु या दिग्भवति अननतेश्च सा दिग्भवति॥25॥
तयोर्योगविश्लेषाभ्यां स्फुटावनत्यानयनमाह -
स्फुटयोजनकर्णाभ्यामवाप्ता लिप्तिकादयः।
अभिन्नाशयोर्विश्लेषस्तासां सूर्यनिशाकृतोः॥26॥
अभिन्नशयोरिति। सूर्यनिशाकृतोर्मध्यजययोराभिन्नशयोः सतोस्तासां सूर्यावनतिलिप्तानां चन्द्रावनतिलिप्तानां च विश्लेस्फुटावनतिर्भवति। भिन्नदिशोस्तयोस्तु तासां योगस्फुटावनतिर्भवति॥26॥
मध्यज्ययोरथान्यत्वे योगोपनतिलिप्तिकाः।
दिक् तत्र शशिनो ग्राह्या पातहीनान्निशाकृतः॥27॥
ज्यां खसप्ताश्विभिः क्षुण्णां कलाकर्णेन संहरेत्।
विक्षेपः शशिनः स्पष्टस्तेन युक्ता नतिः स्फुटा॥28॥
दिक् तत्र शशिनो ग्राह्येति। तत्र भिन्नदिशोर्योगकरणे शशिनो मध्यज्याया या दिग्भवति, सैव स्फुटावनतेश्च दिग्भवति। विश्लेषकरणे द्वयोस्तुल्यत्वात्संदेहो न भवति। पातहीनादिति श्लोकशेषेण शशिनो विक्षेपानयनमाह- लम्बनसंस्कृतपर्वान्तद्युगतकाले चन्द्रमानीय तस्मात्स्वपातं विशोध्य भुजज्यामानीय ता खसप्तश्विभिर्निहत्य अविशेषकर्णेन विभजेत्। तत्र लब्धं शशिनः स्फुटा विक्षेपो भवति। मेषादो स उत्तरः स्यात्। तुलादौ दक्षिणः। *तुल्यदिक्त्ये विक्षेपनत्योर्योगः कार्यः। भिन्नदिशोस्तु तयोर्विशे(श्ले)षः कार्यः। विश्लेषे शिष्टस्य दिग्ग्राह्य। एवमानीता चन्द्रस्यावनतिः सूर्यग्रहणे स्फुटा भवति॥27॥28॥
अथ नत्यन्तरानयनमाह -
तातातयोस्तु विश्लेषशेषाः सा गतिरुच्यते।
लम्बनान्तरसंयुक्तं ग्रहमध्याप्तजन्मनोः॥29॥
लम्बनान्तरेति। मध्यलम्बनमिहोक्तं वक्ष्यति च स्पर्शलम्बनम्। तत्र मध्यलम्बनस्पर्शलम्बनयोरन्तरेण संयुक्ताद्ग्रासमध्यात्। लम्बनसंस्कृतपर्वान्तद्युमतासिद्धयोर्दृक्षेपयोः सिद्धावनतिः स्फुटा भवति। अत्र दृग्क्षेपशब्देनावनतिरुच्यते। अवनतिक्षेयोर्योगविश्लेषात् सि(सा)ध्येत्यर्थः। पूर्वोक्तावनतिव्यांबहारिकी कर्मक्षमा भवति। एषा तु न कर्मक्षमा। पारमार्थिकी त्वेषैव इत्येके वदन्ति। अत्र मध्यादित्यनेन बिम्बमध्यादुत्पन्नेत्युक्तं भवति। अन्ये त्वेवं योज्यन्ति। स्पर्शमध्यलम्बनयोन्तरेण संयुक्ताद्ग्रासात्स्पर्शकालात्तथा मोक्षमध्यलम्बनयोरन्तरेण संयुक्ता। मध्यान्मध्यकालाच्चाऽऽप्तयोर्दृक्क्षेपक्षेपद्योः सिद्धाऽवनतिः क्रमात्स्पर्क्षमोक्षे च स्फुटाऽवनतिर्भवति। अत्र मध्यादित्यनेन मध्यकालादन्यत्रेत्युक्तं भवति॥29॥
ग्रहणस्यं सदसद्भावावगमनायाऽऽह -
दृग्क्षेपक्षेयोः सिद्धा मध्या चावनतिः स्फुटा।
सूर्येन्दुबिम्बसंपर्कदलेन सदृशी नतिः॥30॥
सूर्येन्दुबिम्बेति। सूर्येन्द्वोर्बिम्बयोगार्धतुल्यानतिरवनतिश्चेद्भास्वतो ग्रहणं न स्यात्। तदूनायामवनत्यां ग्रहणं भवति॥30॥
*स्थित्यर्धकालानयनमाह -
ग्रहणं भास्वतो न स्याद्धीनायामस्ति संभवः।
विष्कम्भार्धनतीवर्गविश्लेषपदमागतम्॥31॥
संपर्का(विष्कम्भा)र्धनतीति। संपर्कार्धवर्गादवनतिवर्गं विशोध्य शिष्टस्य मूलं षष्ट्या निहत्य गत्यन्तरेण हरेत्। तत्र लब्धाः स्थित्यर्घटिका भवन्ति॥31॥
+अथ स्पर्शमोक्षकालयोर्लम्बनानयनमाह -
षष्ठ्याऽऽहत्यस्तरे(न्त)रेणाऽऽप्ता स्थित्यर्धघटिका स्फुटा।
अविशेषपतिथिस्ताभिर्विहीना सहिता तदा॥32॥
अविशेषतिथिरिति। ताभिः स्थित्यर्धनाडिकाभिर्हीना अविशेषतिथिर्लम्बनसंस्कृतपर्वान्तकालो मोक्षकालः स्पर्शतिथिः स्पर्शकालो भवति। तथा स्थित्यर्धनाडिकाभिर्भुताऽविशेषतिथिर्लम्बनसंस्कृतपर्वान्तकालो भवति। ताभ्यां स्पर्शमोक्षकालाभ्यां पूर्ववन्मध्यलग्नादीनानीय स्पर्शलम्बनमोक्षलम्बनं पूर्ववन्मध्यलग्नादीनानीय स्पर्शलम्बनमोक्षलम्बनं वार्तिके वान्तमानयेनत्। तदिह स्पर्शलम्बनं मोक्षलम्बनं चेत्युच्यते॥32॥
स्फुटस्थित्सधनियनमाह -
ग्रासादिमोक्षकालौ स्तस्ताभ्यां जीवाविधिस्तदा।
ग्रासमध्यविनिष्पन्नलम्बनान्तरनाडिकाः॥33॥
स्थित्यर्धे प्रक्षिपेन्नित्यं वर्धते तिग्मदीधितेः।
मध्यान्तरलम्बनस्थित्या वर्धते मोक्षसंभवः॥34॥
ग्रासमध्येति। स्पर्शकालनिष्पन्नलम्बनस्य मध्यकालनिष्पन्नलम्बनस्य च मदन्तरं तदन्तरं तत्स्थित्यर्धे सदा प्रक्षिपेत्। तत्स्फुटं स्पर्शस्थित्यर्धे भवति। अथ मोक्षकालनिष्पन्नलम्नयोश्चान्तं स्थित्यर्धे प्रक्षिपेत्। तत्स्फुटमोक्षस्थिर्घ्यं(स्थित्यर्घं) भवति। उत्क्षिप्य भुजमुच्यते इति। एवमन्तें स्थित्यर्धमेव स्फुटं भवति। अत्र [न]संदेह इत्यर्थः॥33॥34॥
यदा मध्यकालात्स्पर्शकालो मोक्षकालो वाऽन्यकपाले भवति तत्र विक्षेपमाह -
स्थित्यर्धमित्यस्पष्टमुत्क्षिप्य भुजमुच्यते।
स्पर्शमोक्षौ यदाऽन्यस्मिन् कपाले ग्रहमध्यतः॥35॥
स्पर्शनं लम्बनं देयं सर्वस्थित्यर्धानाडिषु।
मोक्षेऽप्येव सदाऽऽयातं स्थित्यर्धे दीयते सदा॥36॥
स्पर्शमोक्षाविति। यदा मध्यकालात्स्पर्शकालोऽन्यकपाले भवति। पूर्वह्ण एकः पराह्ण अन्य इत्यर्थः । तदा स्पर्शलम्बनं सर्वं स्थित्यर्धे प्रक्षेप्यं भवति। तथा मध्यकलादन्यकपालेमोक्षकपालो यदा भवति तदा मोक्षलम्बनं सर्व स्थित्यर्धे प्रक्षेप्यम्॥35॥36॥
यदा पुनर्मध्याह्ने मध्यकालो भवति तदा स्पर्शलम्बनं मोक्षलम्बनं च स्पर्श स्थित्यर्धे प्रक्षेप्यमित्याह -
दिनार्धे ग्रहमध्ये च कल्प्यतेऽयं विधिः क्रमात्।
ग्राह्यग्राहकबिम्बार्धविश्लेषक्षेपवर्गयोः॥37॥
दिनार्धे ग्रास(ग्रह)मध्ये चेति। विमर्शार्धानयनमाह - ग्राह्यह्यकेति ग्राह्यग्राहकबिम्बार्धं ग्राह्यबिम्बार्धं विशोध्य शेषवर्गाद्विक्षेपवर्ग विशोध्य सिद्धान्त मूलं विमर्दाघलिप्ता भवन्ति। ताः षष्ट्या निहत्य गत्यन्तरेण विभज्य लब्धं विमर्दार्धघटिका भवन्ति॥37॥
सूर्यबिम्बेऽष्टमभागच्छादनस्यादृश्यत्वात्तद्भागच्छादनकालस्पर्शद्युगते क्षेप्य इत्याह -
विक्षेपस्य पदाद्देयं विमर्दार्धस्य नाडिकाः।
तीक्ष्णांशविम्बवस्वंशलिप्तिकाकालसंयुतः॥38॥
कीर्णौ(तीक्ष्णां)शुबिम्बेति। मोक्षुद्युगतेः स कालः शोध्यः॥38॥
- अथाक्षवलनमाह -
स्पर्शकालो भवेत्तस्य भासुरत्वाद्विवस्वतः।
मध्यतिथ्यन्तरासूनामुत्क्रमज्याक्षसंगुणा॥39॥
विष्कम्भार्धेन हर्तव्या लब्धकाष्ठस्य दिग्विधिः।
व्यासार्धदधिकासूनां क्रमज्यात्रिज्यया युताम्॥40॥
मध्यतिथीति। अत्र मध्यमिति दिनार्धमुच्यते। तिथिस्पर्शद्युगतं मध्यद्युगतं मोक्षद्युगतं च दिनार्धस्पर्शद्युगतयोरन्तरालासूनामुत्क्रमज्यामानीयाक्षज्यया निहत्य व्यासार्धेन विभज्य लब्धं स्पर्शार्धज्याः साधनभूत विराशिलिप्ताभ्योऽधि काश्चेत्तत्राधिकासूनां क्रमज्यामानीय त्रिज्यया योजयेत्। तद्वलनसाधनज्या भवति एवं वलनकाला आनीय तासां दिशं च कल्पयेत्। तत्र मध्यवलनस्य स्पर्शवद्विधिः स्पर्शभागोक्तलक्षणेन याम्यसौम्यदिशौ कल्प्येदित्यर्थः॥39॥40॥
तत्र दिग्विधिमाह -
कृत्वैवमेव दिक्कल्प्या मध्ये प्रागासवाद्दिशोः।
उदग्दक्षिणतः प्राह्णे बिम्बप्राक्पश्चिमार्धयोः॥41॥
उदग्दक्षिणत इति। मध्याह्नात्प्राग्बिम्बस्य पूर्वार्ध उदग्वलनं भवति। बिम्बस्य पश्चिमार्धे दक्षिणवलनं भवति। मध्याह्नाप्राग्बिम्बस्य पूर्वार्धे दक्षिणवलनं पश्चिमार्धं उदग्वलनामित्यर्थःसूर्यस्य स्पर्शवलनं मध्यवलनं च पश्चिमार्धदिहितं भवति। मोक्षवलनं पूर्वार्धविहितं भवति। चन्द्रस्य सर्वं प्र(ध्य)त्ययेन भवति॥41॥
+अयनवलनमाह -
नभसः पश्चिमे व्यस्तमक्षस्य वलनं सदा।
त्रिराशिसहितेन्द्वर्कविपरीतगुणापमः॥42॥
त्रिराशिसंस्थितस्ये(सहितेन्द्रर्के)ति। त्रिराशिसहितस्यार्कस्ये न्दोर्वा भुजाया उत्क्रमज्यां परमापयेन निहत्य त्रिज्यया विभजेत्। तत्र लब्धमयनलवलनं भवति। अत्राऽऽनयनच(व)लनयुतावर्केन्दु ग्राह्यौ। तस्य दिग्विभागमाह - अयनादिति॥42॥
ताभ्यां संपर्कार्धमण्डले *स्फुटवलनानयनमाह -
लग्नाद्या दिक् तु पूर्वार्धो बिम्बस्यैवापरेऽन्यथा।
नानाशयोस्तयोर्विद्धि विश्लेषधनुषोस्तयोः॥43॥
नानाशयोरिति। तयोरक्षापमवलनयोश्चापीकृतयोर्भिन्नदिशोन्तरं कृत्वा तुल्यदिवत्वे योगं कृत्वा जीवामानयेत्। तां जीवां संपर्कार्धेन निहत्य व्यासार्धेन विभजेत्। तत्र लब्धं संपर्काद्द्युमण्डले वलनं भवति। तद्वलनस्य नतेश्च तुल्यदिक्त्वे योगं कुर्यात्। भिन्नदिक्त्वेऽन्तरं कुर्यात्। स्फुटवलनं भवति। वलनविष ......चन्द्रग्रहणे विक्षेपस्य दिग्व्यात्ययेन कल्प्यः। तद्वक्ष्यति च मध्यवलनस्य नतिसंस्कारो न क्रियते॥43॥
अथ लेखनप्रकारमाह -
संयोगोऽन्यत्र तज्जीवा(वाऽऽ)सन्व(न्ना)र्कार्धहता हृता।
अन्तिकाङ्गुलतद्भागसमस्निग्धोरुमूर्तिना॥44॥
ग्राह्यऽङ्गुलार्धमानेन कर्कटेनाऽऽलिखेत्क्षितौ।
ग्राह्यग्राहकबिम्बार्धसमवक्त्रेण चापरम्॥45॥
पूर्वाव(प)रे ततः कुर्यान्मीनेनोत्तरदक्षिणे।
दक्षिणोत्तरतः केन्द्रान्नीत्वा वलनमप्यतः॥46॥
उत्पाट्य तत्र मत्स्या(ध्या)न्तं युक्त्या सूत्रं नयेब्दुधः।
ब्राह्यमण्डलतत्सूत्रसंपाते बिन्दुनिश्चयः॥47॥
बिन्दुतः केन्द्रसंप्रापि सूत्रं तस्मात्प्रसाध्यते।
तस्य ग्रा(वा)ह्यपरिधेश्च संपातो यत्र लक्ष्यते॥48॥
तत्र तीक्ष्णांशुबिम्बस्य प्रदेशः स्पर्शमोक्षयोः
मौर्वीकाऽर्धाङ्गुला ज्ञेया यथा वा लक्ष्यते दिवि॥49॥
मुखविन्यस्तेति। कर्कटलक्षणं ग्राहकबिम्बार्धमानेन कर्कटेन ग्राह्यबिम्बमालिख्य तन्मध्यमेव मध्यं कृत्वा ग्राह्यग्राहक बिम्बयोगार्धसमवक्त्रेण कर्कटेनापरं सपकाँख्यं वृत्तं चाऽऽलिख्य पूर्वापररेखां कृत्वा तद्वशादुत्पन्न्मत्स्यानुसारिदक्षिणोत्तररेखां च कुर्यात्। पुनः केन्द्रात्स्पर्शवलनं मोक्षवलनं च दक्षिणोत्तारसूत्रे यथादिशं नीत्वा तत्र बिन्दुं कृत्वा तद्विम्बमध्ये पूर्वापरं मत्स्यमुत्पाद्य तद्वशाद्बाह्यवृत्तान्तं सूत्रा युक्त्या नयेत्। स्पर्शवलनबिन्दुतः स्पर्शादिशि मोक्षवलनबिन्दुतो मोक्ष दितशीत्यर्थः। तत्र स्पर्शशूत्रबाह्यपरिधिसंपाते स्पर्शबिन्दुतः केन्द्रप्रापि सूत्रं कुर्यात्। तत्सूत्रस्य ग्राह्यबिम्बपरिधेश्च योगो यत्र दृश्यते तीक्ष्णांशुबिम्बस्य तत्प्रदेशे स्पर्शो भवति। तथा मोक्षबिन्दुतः केन्द्रशपि सूत्र नयेत्। तत्सूत्रग्राह्यपरिधियोगे मोक्षो भवति।
तत्र बिम्बवलनादिलिप्तानामङ्गुलमानमाह -
मौरि(र्वी)केति -
मौरि(र्वी)का लिप्ता सा अर्धाङ्गुलप्राणां भवति। यथा वा लक्ष्यते दिवि ति। अनेन हरिजसंस्थे ग्रहे लिप्ता, एकाङ्गुलप्रमाणा भवतीत्युक्तं भवति। नत्यसंयुक्तविशिष्टमित्यनेन मध्यलग्नस्य...नतिसंस्कारो न भवतीत्युक्तं भवति॥44॥45॥46॥47॥48॥49॥
अथ मध्यग्रहणपरिलेखनाय तद्वलनाद्यानयनप्रकारमाह -
नत्या संयुक्तिविश्लिष्टं *बलनं ग्रहमध्यजम्।
तन्नत्योस्तुल्यकाष्ठत्वे वलनं पूर्वतो नयेत्॥50॥
भिन्नाशयोस्तयोः केन्द्रात्पश्चिमेन प्रसार्यते
तन्नत्यनुदिशं सूत्रं ततो मत्स्येन नीयते॥51॥
बाह्यमण्डलतः केन्द्रमानी(न)येत्तद्विचक्षणः।
केन्द्रात्तदनुसारेण नतिसूत्रं प्रसार्यते॥52॥
मध्यबिन्दुस्तदग्रे स्याद्बिन्दुतत्स्पर्शमोक्षयोः।
दक्षिणस्यां नतौ भागे याम्ये सौम्ये विपर्ययात्॥53॥
तन्नत्योरित्यादिना। तन्मध्यापालनमध्यनत्योस्तुल्यदिक्त्वे मध्यवलनं केन्द्रात्पूर्वतो नयेत्। भिन्नदिक्त्वे केन्द्रारत्पश्चिमे नयेत्। वलनाग्रे मत्स्यमुत्पाद्य तदनुसारेण मध्यनतिदिशि बा...सूत्रं नयेत्। तत्सूत्रबाह्यपरिधिसंपातात्केन्द्रग्रापि सूत्रं नीत्वा तत्सूत्रे केन्द्रान्मध्यमतितुल्य....वृत्तान्त तदग्रे बिन्दुं कुर्यात्। स मध्यबिन्दुर्भवति। स्पर्शमोक्षयोर्बिन्दू तौ पूर्वोक्तावित्यर्थः। एतत्स्पर्शमध्यमोक्षायं बिन्दुवयं विशेषाज्ज्ञेयमित्यर्थः। दक्षिणस्यां नतौ याम्ये नतिसून्नेयमापवर्यये उत्तरस्यां नतौ केन्द्रात्सौम्ये भागे नतिसूत्रं नेयम्। अत्र न्यायतः प्राप्तस्य वचनं चन्द्रग्रहणे वैपरीत्यसंभवात्॥50॥51॥52॥53॥
तद्वैपरीत्यं प्रदर्शयति -
विधिर्ग्रहणमध्यस्य भानोरिन्दोर्विपर्ययात्।
आलिखेत्तद्ग्रहे व्यक्तं ग्रासमध्यान्तसंभवम्॥54॥
विधिर्ग्रहणमध्यस्य भानोरिन्दोर्विपर्ययादिति। अत्रोक्तो ग्रहणमध्यस्य विधिर्भानोर्भवति। इन्द्रोस्तु तद्विपर्ययादिति। अत्रोक्तो ग्रहणमध्यस्य बिधिर्भानोर्भवति। इन्दोस्तु तद्विपर्ययाज्ज्ञेयः। मध्यवलनस्य नयनप्रकारं विक्षेपस्य नयनप्रकारं च चन्द्रस्यायोकुविपर्भयाद् भवतीत्यर्थः। तद्ग्रहे चन्द्रग्रहणेऽपि ग्रासमध्यान्तसंभवैर्बिन्दुभिर्बिन्दुवशाद्। ग्रासप्रमाणमालिखेदित्यर्थः॥54॥
ग्रहणमध्यमेवमालिखेदित्याह -
मध्ये बिन्दुशिरोन्यस्तग्राहकार्धवपुर्धृता।
खण्डयेत्कर्कटेनाऽऽशु निर्दिष्टस्फुटमानतः॥5॥
ग्राह्यस्य खण्डितायाव....च्छेद्यतेऽथ यत्।
ग्रहमध्ये तथा सर्वा विस्पष्टमुपलक्ष्यते॥56॥
मध्यबिन्दुशिरोन्यस्तेति। अश्विति रेखायाः स्पष्टतासिद्ध्यर्थम्। निर्दिष्टस्पष्टमानत इति। छेद्यत्वे निर्दिष्टेन स्पष्टमानेन परिलेखनविधौ दृष्टेन ग्राहकबिम्बप्रमाणेन ग्राह्यबिम्बस्य यावत्प्रमाणं खण्डितं भवति। अथ यावद्भिम्बलिखितं भवति ग्रहणमध्यकाले तथा व्योम्नि ग्राह्यबिम्बं दृश्यते। लिखितशब्देन समस्तच्छादनमुच्यते। अथवा विक्षेपाभावे ग्राह्यस्य महत्त्वाद्वलयाकारं यद्बिम्बं दृश्यते तल्लिखितामित्युच्यते॥55॥56॥
ग्राहकमार्गपरिलेखनप्रकारमाह -
न्यस्तबिन्दुत्रयप्राप्तिं(पि) मीनाभ्यां वृत्तमालिखेत्।
ग्राहकस्य भवेत्पन्थास्तत्रेष्टग्रासकल्पना॥57॥
न्यस्तबिन्द्विति। स्पर्शबिन्दुमध्यबिन्दुमोक्षबिन्दुत्रयमापि वृत्तखण्डं *मत्स्यद्वयवशादालिखेत्। संपर्कवृत्तान्तर्गतं वृत्तभागमालिखेदित्यर्थः। स ग्राहकस्य पन्था मार्गो भवति। तस्मिन्वर्त्मनि ग्राहकमध्यं प्रकल्प्य इष्टग्रासपरिलेखनं कर्तव्यम्॥57॥
तत्प्रकारमाह -
इष्टहीनेन युक्तेन स्थित्यर्धेन हतां हरेत्।
सूर्येन्द्वोर्भुक्तिविश्लेषं षष्ट्या लब्धस्य वर्गितम्॥58॥
प्रक्षिप्यावनतेर्वर्गे यन्मूलं रविसोमयोः।
इष्टग्रासशलाका स्याच्छे(द्यः शे)षो ग्रास इष्टजः॥59॥
इष्टकालविहि(ही)नेनेति। मध्यकालात्प्रागतीतत्काल इष्टकालः। तत्परत इष्यकालः इष्टाकालः। इष्टाकालं स्थित्यर्धाद्विशोध्य शिष्टनाडिकां गत्यन्तरकलाभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धं वर्गीकृत्य इष्टकालावनतिवर्गे प्रक्षिप्य मूली कुर्यात्। तत्र लब्धं रविसोमयोर्ग्रहण इष्टग्रासशलाका भवति। इष्टग्रासशलाकाया लिप्ता भवन्तीत्यर्थः। ता लिप्ताः संपकर्काद्विशोध्य शिष्टमिष्टग्रासो भवति॥58॥59॥
- इष्टग्रासपरिलेखनमाह -
सुश्लक्ष्णा वैणविंशत्कात्केन्द्रात्तिर्यक् प्रसार्यते।
तस्याग्रेण तथा पन्थाः प्रोच्यते ग्राहकस्य च॥60॥
यत्र ग्राहकमानेन खण्डयेद्ग्राह्यबिम्बकम्।
तावदेव तथाग्रस्तं दृश्यते ग्राह्यमण्डले॥61॥
सुश्लक्ष्णा वैणेति। इष्टग्राससशलाकातुल्यामेकां वेणुशलाकां केन्द्रात्स्पर्शदिति मोक्षदिशि वा तिर्यङ्निदघ्यात्। तदग्रवर्त्यरेखा स एव योगे बिन्दुं कृत्वा तत्र मध्यं कृत्वा ग्राहकबिम्बलिखेत्। तदातद्वृत्तान्तर्गतो यो ग्राह्यस्य भागः स भागश्छन्नो भवति। तत्र शेषभागस्य रूपं यथा दृश्यते तथा रविरपि दृश्यते भागस्य वक्रत्वसंभवाद्यथावक्रामित्युक्तिः॥60॥61॥
निमीलनोन्मीलनकालयोरिष्टग्रासपरिलेखनमाह -
विमर्दार्धकलाहीनं यत्स्थित्यर्धे कलाभितः।
तत्कालच्छेद्यकं तेन भास्वत्खण्डादि खण्डयेत्॥62॥
प्रदेशसूत्रं बिम्बस्य कर्कटेनावगाह्यते।
पश्चार्धे गृह्यते व्यक्तं पूर्वे चासौ प्रमुच्यते॥63॥
विमदौधै कलाहीनामिति। विमर्दार्धधटिका गत्यन्तरलिप्ताभिर्निहत्य षष्ट्या विभजेत्। तत्र लब्धा विमर्दार्धकला इत्युच्यन्ते। स्थित्यर्धशब्देन तन्मूलभूताः संपर्कार्धकला उच्यन्ते। ताभ्यः संपर्कार्धकलाभ्यो मूलीकरणलब्धा विमर्दार्धकलाः शोधयेत्। तत्र शिष्टं तत्कालच्छेद्यसाधनं भवति। तत्समान[श]लाकां स्पर्शबिन्दुतो मोक्षबिन्दुतश्च ग्राहकवर्त्मप्रापि पृथङ्निधायं तद्वर्गवर्त्मसङ्गद्वय-बिन्दुद्वयं कृत्वा तद्विन्दुद्वयं मध्यं कृत्वा ग्राहकमानेन कलामात्रभूतो भास्वतो बिम्बं खण्डयेत्। तदोन्मीलनं निमीलनं च प्रदृश्यते। तत्र स्पर्शभागलिखिग्राहकेण यो भागो ग्राह्यबिम्बस्य खण्डितस्तत्र स्पर्शावसानम्। तदुक्तम् - पश्चाच्च गृह्यते इति। मोक्षभागलिखितग्राहकेण यो भागः खण्डितस्तत्र मोक्षारम्भः। तदुक्तं-'पूर्वे चासौ प्रमुच्यते' इति। स्पर्शावसानं निमीलनं मोक्षारम्भ उन्मीलनम्। अथवा पश्चाद्गृह्यते, पश्चाद्भागे स्पर्शारम्भः। पूर्वे प्रमुच्यते पूर्वभागे मोक्षावसानमित्युक्त भवति। एवं चद्रग्रहणेऽपि मध्यजीवालम्बनादिकं कार्यम्॥62॥63॥
तत्र यो विशेषः स उच्यत इत्याह -
एवमाशामुखादर्शसकलोरुकलाभृतः।
कान्तावदनसंवृत्तो वपुषः शशलक्ष्मणः॥64॥
एवमाशामुखेत्यादिना॥64॥
तत्र विशेषमाह -
अविकार्यो विधेर्ज्यानां विशेषोः यः स कथ्यते।
भूच्छायाया गुणाः कल्प्या रवे कक्ष्यासमुद्भवाः॥65॥
भागहारः शशाङ्कस्य कर्ण एवं प्रकीर्तितः।
शशिवल्लम्बनाल्लब्धं व्यत्ययात्क्षेपशोधने॥66॥
भूच्छायाया इति। तत्र भूच्छायाया मध्यज्यादिकं रविकक्ष्यासमुद्भवं ग्राह्यम्। विक्षेपं विना मध्यज्या कार्या। तथोदयज्या चेत्यर्थः। लिप्तानयने भागहारस्तु चन्द्रकर्ण एव। लम्बनस्य क्षेपशोधने व्यत्ययात्कार्ये। एवं चन्द्रग्रहणेऽपि लम्बनविधिरिहोक्त एतदुयुक्तमेवेति गोलविद आहुः॥65॥66॥
शास्त्रन्तरेषु न दृष्टं च भूच्छायाया *दैर्घ्यानयनमाह -
ताडितो योजनः कर्णो धालि(त्री)व्यासेन भास्वतः।
तयोर्व्याविशेषेण भूच्छायादैर्ध्यमाप्यते॥67॥
ताहितो योजन इति। रवेः स्फुटयोजनकर्णो भूव्यासेन गुणितो भूव्याहरदिव्यासयोरन्तरेण भक्तो भूछायाया दैर्घ्यमानं योजनात्मकं भवति॥67॥
प्रकारान्तरेण च तदाह -
- पञ्चाऽऽहतो रवेः कर्णः षोडशापहृतः फलम्।
भूच्छायादैर्घ्यमाख्यातमिन्दुकर्णस्तः क्षयः॥68॥
भूव्यासगुणिते शेषे छायादैर्घ्यहृते फलम्।
विष्कम्भार्धहतं भक्तं चन्द्रकर्णेन तत्ततः॥69॥
पञ्चाऽऽहत इति। रवेः स्फुटयोजनकर्णे पञ्च(5)गुणिते षोडशभि(16)र्भक्ते भूछायाया दैर्घ्यं भवति। 'इन्दुकर्णस्ततः क्षयः' इति। भूच्छायाया दैर्घ्याच्चन्द्रस्य स्फुटयोजनकर्णं विशोध्य शेषव्यासेन निहत्य छायादैर्य्येण विभज्य लब्धं त्रिज्यया निहत्य चन्द्रस्य स्फुटयोजनकर्णेन विभजेत्। सूत्र लब्धं लिप्तात्मकं तमसो बिम्बं भवति॥68॥69॥
अन्य लम्बनं बिना शशिनो ग्रहणं वदन्तीत्याह -
अन्ये भवन्ति शशिनो ग्रहणोपदेशं
हीनं गुणैर्दशभिरन्यफलान्तरत्वात्।
स्थित्यर्घकालमचलं विदधीत तस्सि-
न्नाद्यन्तयोर्ग्रहणमध्यसमुत्थितं यत्॥70॥
अन्य इति। तत्र स्थित्यर्धकालमविशिष्टं ग्राह्यमित्याह-स्थित्यर्धकालमचलमिति। मध्यत.... विक्षेपस्थित्यर्धकालेन सिद्धं स्थित्यर्धमाद्यन्तयोः स्पर्शमोक्षयोरचलमव(वि)शिष्टं कुर्यात्॥70॥
तत्कर्माऽऽह -
×क्षुण्णा स्थित्यर्धकालेन भुक्तिः षष्ट्या समाहृता।
समलिप्ते क्षयस्पर्शे मोक्षे क्षेपो निगद्यते॥71॥
विक्षेपस्तस्य तस्माच्च स्थित्यर्धं च प्रसाध्यते।
एवं कर्मावशेषोऽयं विमर्दार्धस्य वा पुनः॥72॥
क्षुण्णा स्थित्यर्धोति। स्थित्यर्धकालेन नाडिकात्मकेन चन्द्रस्य स्फुटभुक्तिं निहत्य षष्ट्या विभज्य लब्धं समलिप्तेन्दावृणं कुर्यात्। स स्पर्शेन्दुः। पुनस्तमेव लब्धं समलिप्तेन्दौ धनं कुर्यात्। स मोक्षेन्दुः। ताभ्यां पुनर्विक्षेपमानीय वर्गीकृत्य संपकर्कार्धवर्गाद्विशोध्य शिष्टस्य मूलात्वषष्टिघ्नादग्त्रून्तरेण स्पर्शस्थित्यर्धं चाऽऽनेयत्।पुनस्ताभ्यां पूर्ववद्गतिफलमानीय सप्त 7 लिप्तेन्दावृणं धनं च कृत्वा विक्षेपद्वयमानीय ताभ्यां स्थित्यर्धद्वयमानयेत्। एवं पुनः पुनः कृत्वाविऽशेषयेत्। अव(वि)शिष्टस्थित्यर्धद्वयं स्फुटं भवति। विमर्दार्धेऽप्येवमविशेषकर्म कार्यम्। परिलेखनकर्माणि चन्द्रस्य ग्रहणे विक्षेपस्य दिग्व्यत्ययेन कल्प्या, इति॥71॥72॥
पूर्वोक्तमपि स्पष्टीकर्तुं पुनश्चाऽऽह -
विक्षेपः शशिनः कल्प्यश्छेद्यकाले सतां वरैः।
उत्तरो दक्षिणे नित्यं दक्षिणश्चोत्तरे तथा॥73॥
विक्षेपः शशिन इति॥73॥
प्रोक्तमेतदवधूय मत्सरं
सूयर्चन्द्रतमसां क्रमागतम्।
कर्म येन विदुषा समर्पितं
दैवविद्भवति सर्वतन्त्रवित्॥74॥
इति महाभास्करीये पञ्चमोऽध्यायः॥5॥
- - - - -
इक्तं ग्रहणकर्म स्तूयते प्रोक्तमेतदित्यादिना॥74॥
इति परमेश्वरकृतायां कर्मदीपिकायां पञ्चमोऽध्यायः॥5॥
षष्टोऽध्यायः
सम्पाद्यताम्
अथ स्वस्वविक्षेपेण ग्रहाणां दर्शनसंस्कारद्वयमाह -
स्वेष्टदेशपलजीवया हतां क्षिप्तिमिष्टशशिजां हरेत्पुनः।
लम्बकेन यादवाप्तमुत्तरे शोधयेदुदयगे निशाकरे॥1॥
अस्तगे धनमुशन्ति तारवे दंक्षिणे विधिरयं विपर्ययः।
वर्जितं त्रिभुवनस्य शीतगो रुत्क्रमापमविसंहतिं हरेत्॥2॥
व्यासवर्गनिचयेन शोधये च्चन्द्रतोऽयनविमण्डलाशयोः।
तुल्ययोर्घनमुशन्ति तद्विदो व्यत्ययेन शशिनि तत्फलं सदा॥3॥
स्वेष्टदेशेति। इष्टकालानीतचन्द्रस्य विक्षेपकलां स्वदेशपलज्यया निहत्य लम्बकेन हरेत्। तत्रावाप्तां लिप्तादिकं फलमुत्तरविक्षेपे चन्द्र उदयग उदयविषयं गते शोधयेत्। अस्तगेऽस्तविषयं गते क्षिपेत्। दक्षिणविक्षेपेऽयं विधिव्यऽत्ययेन कार्यः। दक्षिणविक्षेप उदये धनमस्तमय ऋणमित्यर्थः। एतदाक्षं कर्म। *अथाऽऽयनं कर्माऽऽह-वर्जितं त्रिभवनस्येति। चन्द्रस्फुटे राशित्रयं विशोध्य विशिष्टभुजाया उत्क्रमसज्यामानीयं तस्या विक्षेपस्य....परमापक्रमस्य च संहतिं तेषां त्रयाणां परस्परं वधं व्यासवर्गनिचयेन त्रिज्यावर्गेण विभजेत्। तत्र लब्धं लिप्तादिकं विक्षेपायनयोस्तुल्यदिशोः पूर्व्प्फलसंस्कृते चन्द्र शोधयेत्। विक्षेपायनदिशोर्भिन्नयोः क्षिपेत्। एवं सदा। अस्योदयास्तमयवशान्नभेद इत्यर्थः। अत्र मण्डलशब्देन विक्षेपदिगुच्यते। चन्द्रोऽत्र सायनो ग्राह्यः। भयनदिगिह सायनस्य ग्राह्या। न राशित्रयहीनस्य॥1॥2॥3॥
दृश्यचन्द्र इति कथ्यते बुधै -
रेवमालिखितचारसंचयः।
भास्करेन्दुविवरांशकोद्भवः
प्राणराशिघटिकाद्वयैः शशी॥4॥
दृश्यतेऽमलनिरभ्रतारके
भास्करेऽस्तगिरिमूर्धगेऽम्बरे।
चन्द्रभानुविवरोत्क्रमज्यया
चन्द्रबिम्बमभिहत्य भाजयेत्॥5॥
षण्णवाष्टरससंख्ययया सितं
नित्यमेव गणकः प्रजायते।
चन्द्रभानुविवरं वदाधिकं
स्यात्तदा क्रमगुणेन युक्तया॥6॥
ल(त्रि)ज्यया सितविधिर्धीयते
पूर्वमानवर(श)तोऽसितं तथा।
सूर्यचन्द्रविवरांशजीवया
चोत्क्रमक्रमवशात्सितं विदुः॥7॥
दृश्य चन्द्र इति । एवं दृक्कर्मद्वययुतश्चन्द्रो दृश्य इत्युच्यते। दृक्समो भवति। स्वोदयकाले स्वास्तमयकाले च तल्लग्नसमो भवतीत्यर्थः। चन्द्रस्य मौढ्यनिवृत्तिकालमाह-भास्करेन्दुविवरेति। सूर्यास्तमयकाले तत्कालसूर्यदृक्कर्मद्वययुततत्कालचन्द्रयोरन्तरालगताः प्राणा घटिकाद्वयतुल्याश्चेत्तदानीं चन्द्रो दृश्यो भवति। सूर्योदयेऽप्येवं घटिकाद्वयान्तरितश्चेद् दश्यः। अस्तमये षड्राशियुतयोः सूर्येन्द्वज्ञैश्रन्तरालघटिकाः स्वोदयर्ग्राह्यः। *चन्द्रस्य सितमानाद्यानयनमाह-चन्द्रभानु विवरेति। चन्द्रादर्कं विशोध्य शिष्टं राशित्रया, उत्क्रमज्यामानीय तां त्रिज्यया योजयेत्। एकमुक्तजीवातः सितमानयेत्। यदि शेषं षड्राश्यधिकं भवति तदा षड्राशीनपास्य शेषादुक्तवज्जीवामानयेत्। तज्जीवातो सितमानं साध्यम्। यथोक्त्या चन्द्रमभिहत्य षण्नगाष्टरसैर्विभजेत्। तत्र लब्धं सितमानं भवति। षड्राश्यधिकं चेत्तथाऽऽनीतं कृष्णमानं भवति। उत्क्रमक्रमवशात्सितं विदुरिति। सूर्यचन्द्रविवरांशजीवयोत्क्रमक्रमवशात्सिद्धया यथा सितपक्षे सितं विदुस्तथाऽसितपक्षेऽसितं विदुरिति योज्यम्॥4॥5॥6॥7॥
चन्द्रस्यापमाद्यानयनमाह -
चन्द्रमा वद (मोपम)विकाष्ठयोर्युति -
स्तुल्यगोलभवयोरतोऽन्यथा।
काष्ठयोर्विप(व)रजापरो गुण -
स्तेन चन्द्रचरनाडिकाविधिः॥8॥
चन्द्रमोपविकाष्ठयोर्युतिरिति । चन्द्रस्यापमचापं विकाष्ठाख्यं विक्षेपचापं चाऽऽनीय तयोस्तुल्यादिशोर्योगं कृत्वा भिन्नदिशोरन्तरं कृत्वा जातस्य जीवामानयेत्। सा चन्द्रस्यापमजीवा भवति। तेनापमेन चन्द्रस्य स्वाहोरात्रक्षितिव्याचरज्याः पूर्ववत्साध्याः। पूर्वोक्तस्य वचनं विस्पष्टार्थमिति कल्प्यम् ॥8॥
शृङ्गोन्नतिपरिलेखनाय शङ्क्वाद्यानयनमाह -
भानुचन्द्रविवरासुभिः सदा
शङ्कुरुक्तविधिना विधीयते।
अक्षचापगुणसंगुणं हरे -
ल्लम्बकेन शशिकीलकं स्फुटम्॥9॥
कीलकाग्रगुण आप्यते ततो
नित्यदक्षिणगतोऽस्तसूत्रतः।
गोलखण्डगुणितो विभज्यते
लम्बकेन शशिनोऽपमाः स्फुटाः॥10॥
दक्षिणोत्तरदिकोर्निशाकृतो -
लभ्यतेऽग्रगुणसंज्ञितः सदा।
तुल्यकाष्ठगतयोस्तयोर्युतिः
शुद्धिमन्यभवयोस्तयोर्विदुः॥11॥
भास्कराग्रगुणकेन तस्य तु
व्यत्ययेन युतिशोधने कृते।
बाहुकः शशभृतः स्फुटो मतः
कोटिरत्र शशिशङ्कुरिष्यते॥12॥
भानुचन्द्रविवरासुभिरिति । शुक्लपक्षेऽष्टम्याः प्राक्सूर्यास्तप्रये चन्द्रार्कौस्फुटीकृत्य चन्द्रस्य शङ्कुसाधनान्यानीय पुनश्चन्द्रस्य दृक्कर्मद्वयं कृत्वा सूर्येन्द्वोरन्तरासून्गन्तव्यासून्प्रकल्प्य चन्द्रशङ्कुमानयेत्। पुनश्चन्द्रशङ्कुक्षमज्यया निहत्य लम्बकेन विभजेत्। तत्र लब्धं चन्द्रस्य शङ्क्वग्रं भवति। नित्यक्षिणं च तदस्तोदयसूत्रतः पुनश्चन्द्रस्य स्फुटापमं व्यासर्धेन निहत्य लम्बकेन हरेत्। तत्र *लब्धमिन्द्वयं भवति। शङ्क्वग्रेन्द्वयोस्तुल्यदिशोर्योगं कुर्यात्। भिन्नदिशोन्तरं कुर्यात्। तच्छायाभुजो भवति। पुनः सूर्यस्यार्काग्रामानीय सूर्याग्रच्छायाभुजयोस्तुल्यदिशोरन्तरं कुर्यात्। भिन्नदिशोस्तयोर्योगं कुर्यात्। तत्र लब्धं चन्द्रस्य बाहुका भवति। तत्रान्तरितसूर्याग्राया आधिक्ये तद्विपरीना चन्द्रबाहुकाया दिग्भवति। सूर्यग्राया न्यूनत्वे सूर्याग्रावच्चन्द्रबाहुदिग्भवति। योगे तु सर्याग्राव्यत्ययेन चन्द्रबाहुर्दिग्भवति। कोटिरिहचन्द्रशङ्कुर्भवति॥9॥10॥॥11॥12॥
- शृङ्गोन्नतिपरिलेखनप्रकारमाह -
सूर्याद्याम्योत्तरे बाहुः कोटिः पूर्वपरा यतः।
बाहुकोटिशिरःप्रापि सूत्रं कर्णः प्रकीर्तितः॥13॥
कर्णकोट्यग्रसंपाते शशिबिम्बं समालिखेत्।
कर्णसूत्रानुसारेण बिम्बान्तः सितबिन्दुकम्॥14॥
तद्विन्दुत्रयशीर्षस्पृग्वृत्तमालिख्यते सदा।
तत्र शीतांशुबिम्बस्य विवरः शौक्ल्यमुच्यते॥15॥
तत्सर्वं व्योम्नि शीतांशोर्विस्पष्टपलभ्यते॥16॥
सूर्याद्याम्योत्तर इति। समायामवना कुत्रचिदुदर्कं बिन्दुं प्रकल्प्य ततो दक्षिणत उत्तरतो वा बाहुदिशि बाहुसूत्रं दक्षिणोत्तरायतं प्रसार्य तदग्रतश्चन्द्रशङ्कुमितं कोटिसूत्रं पूर्वदिशि प्रसार्य पुनः सूर्यबिन्दुतः कोटिशिरःप्रापिकर्णसूत्रं प्रसारयेत्। एवं बाहुकोट्योरग्रगापि कर्णसूत्रं भवति। पुनः कर्णकोट्यग्रसंपातं केन्द्रं कृत्वा चन्द्रबिम्बस्य पूर्वापरसूत्रं भवति। तद्वशाद्दक्षिणोत्तरसूत्रं च कुर्यात्। दक्षिणोत्तरसूत्राग्रद्वये बिन्दुद्वयं कुर्यात्। पुनः कर्णसूत्रबिम्बापरपरिधियोगाः सितमानं कर्णसूत्रानुसारेण बिम्बान्तः कर्णसूत्रे नीत्वा तत्र सितबिन्दुं कुर्यात्। सूत्रं दक्षिणोत्तरसूत्राग्रगं यद्भिन्दुद्वयं सितबिन्दुश्च यस्तत्त्रितयस्पृग्वृत्तमत्स्यद्वयनिर्गतसूत्रयोर्योगत अखिलेत्। तदवृतस्य बहिर्गतो यश्चन्द्रबिम्बभागः स चन्द्रस्य सितभागो भवति। तत्र शृङ्गस्योन्नतिनती साम्यं वा यथा मानादिष्टच्छेद्यकेऽङ्गुलादिमानेन सिद्धं भवति तथा तदुन्नत्यादि सर्वे व्योन्नि चन्द्रबिम्बस्य दृश्यते। एवमादित्यस्यास्तमयकाले विधिर्ज्ञेयः॥13॥14॥15॥16॥
इष्टकाले त्वस्तलग्नतः शङ्क्वदितत्कालैन्द्वौः साध्यमित्याह -
अस्तारूढे रवावेतदिष्टकालेऽस्तलग्नतः।
तत्कालेन्दोसतु दृग्ज्यादिकर्म सर्वं प्रकीर्तितम्॥17॥
अस्तारूढे रवाविति। इष्टकाले तु तत्कालेन्दुं तत्कालोदयलग्नं चाऽऽनीय चन्दे षड्राशीन्प्रक्षिप्योदयलग्नच्चन्द्रयोन्तरासून्गन्तव्यासून्यप्रकल्प्य तैश्चकेवलचन्द्रस्य स्वाहोरात्रिदिभिश्च शङ्कुः साध्यः। इन्द्वग्रं च केवलचन्द्रासाध्यम्। अयनचलनं सर्वत्र क्षेप्यम्। लग्नाग्रं तु उदयलग्नात्षड्राशियुतात्साभ्यम्। षड्राशियुतमुदयलग्नमर्कं प्रकल्प्य प्राग्वत्सर्वं कार्यमित्यर्थः॥17॥
एवमष्टम्याः पूर्वे विधिः। अष्टम्याः परतश्चेदुदयलग्नमर्कं प्रकल्प्य सर्वंकार्यमित्याह-
अष्टम्याः परः कल्प्यो लग्नमेव दिवाकरः।
शङ्कादिको विधिस्तेन धनमानविवर्जितः॥18॥
अष्टम्याः परत इति। पूर्वपक्षे प्राक्कपालगते चन्द्रे उदयलग्नमर्कं प्रकल्प्य चन्द्रोदयलग्नयोरन्तरालासुभिश्चन्द्रस्य स्वाहोरात्रार्काग्रा इत्यर्थः। सितमानं तु साक्षाइर्कादेव साध्यम्। तत्र सितमानहीनचन्द्रबिम्बं कृष्णमानं भवति। अव भाग्रात्कोटिपराभिमुखं नीयते। कर्णसूत्रबिम्बपरिधियोगात्कृष्णमानमन्तंनीयते। अन्यत्सर्वं पूर्ववत्। कदाचिदेतन्न घटते॥18॥
चन्द्रशङ्क्वानयने गतगन्तव्यग्राणां एवं साध्या इत्याह -
अर्केन्दुविवरप्राणैरुदयस्थे रवेः परैः।
शङ्कून्नतिवशात्कार्यो नावशिष्टे यथेष्टजम्॥19॥
अर्केन्दुविवरप्राणैरिति उदयास्तमयकालयोरर्केन्द्वोर्विवरप्राणैश्चन्द्रशङ्कुः साध्यः। अन्यत्रेष्टकाले चन्द्रोदयलग्नयोरस्तलग्नचन्द्रयोर्वा यथासंभवमन्तरालाभूमिः साध्यः। तत्रान्तरालासवः सकृदानीता एवं ग्राह्याः। न त्वविशिष्टाः। सूत्रपराह्वेऽस्तलग्ने चन्द्रे च षड्र्राशीन्प्रक्षिप्य विवरासवः साध्याः। तथाऽर्के लस्तिग्नशब्देन तत्कालेऽस्तमितो राशिरुच्यते। तस्योदयप्रमाणतुल्यत्वात्षड्राशयः प्रक्षिप्यन्त इति ज्ञेयम्॥19॥
एवमास्तमयि कैस्तेर्भास्करेन्दू तमोमयैः
यावत्पञ्चदशी तावत्कर्मेन्दं शशिनः स्मृतम्॥20॥
एवमास्तमयिकैरिति। पूर्वपक्ष आस्तमयिकैरिष्टकालजैवां भास्करेन्दुतसोभिरुक्तै चन्द्रमसः कर्म भतीत्युक्तं भवति। विक्षेपार्थमत्र राहुर्गुह्यते॥20॥
÷पौर्णमास्यां चन्द्रस्योदयकालमाह -
रविचन्द्रान्तरं नाड्यो दिनमानेन वर्जिताः।
प्राक्पश्चाद्दृश्यते सोमस्तावतीभिरिनेऽस्तगे॥21॥
पक्षाप्तान्तरि[न्तात्परः]तः सोमो हरिजादुपरि स्थितः।
इष्टकालविलग्नोल्पैः प्रमाणैः परिलिख्यते॥22॥
कोटिः पूर्वगता कार्या भुजा याम्योत्तरायता।
पूर्वतः कोटिशिरःस्पर्क्व कर्णसूत्रं प्रसार्यते॥23॥
पूर्वतः कर्णसूत्रेण सितमानं प्रवेशयेत्।
अन्वितं वा पदाद्भागं शीताशोः परिलेखने॥24॥
रविचन्द्रान्तरा नाड्य इति। अस्तमये तत्कालसूर्यतत्कालचन्द्रयोरन्तरालासवो दिनप्रमाणेभ्यो हीना यद्व......विशिष्टा भवन्ति तदा तत्प्रमाणं दिनप्रामणयोरन्तरतुल्यकाले सूर्यास्तमयात्प्रागेव चन्द्रस्योदयः स्यात्। दिनप्रमाणादधिके सूर्येन्दुविवरकाले तदन्तरतुल्यकालेन सूर्यास्तसयात्पश्चाच्चन्द्रस्योदय कालः स्यात्। अपरपक्षे चन्द्रपरिलेखनमेवं कार्यमित्याह - पक्षान्तात्परत इति। अपरपक्षे हरि जादुपरे स्थिते तत्काललग्नमर्गं प्रकल्प्य चन्द्रलग्नान्तरालासुभिश्चन्द्रशङ्कुः साध्यः। लग्नाग्रमेवार्काग्रां प्रकल्प्रयेत। तत्र कोटिः पूर्वतो नीयते। भा तु पूर्ववद्याम्योत्तरायता। कर्णूसत्रं च पूर्वद्भुजाग्रात्कोट्यग्रप्रापि नेयम्। बिम्बस्य पूर्वभागात्सितमानमन्तः कर्णानुसारेण नेयम्। बिम्बापरभागादसितं वा नेयम्। अन्यत्सर्वं पूर्ववत्॥21॥22॥23॥24॥
अर्कोदयकाले वा एतत्कार्यमित्याह -
अथवाऽर्कोदये कार्यं तत्कालेन्द्वर्कसंभवैः।
सितासितस्य पूर्वोक्तं दृश्यकालोऽभिधार्य[धीय]ते॥25॥
अथवाऽर्कोदय इति॥25॥
अथ दृश्यकालोऽभिधास्यते। तत्प्रकारमाह -
षड्राशियुक्तंसूर्येनदुवैपरादोदयामवः।
अविशिष्टाः सिते पक्षे दृश्यकालोऽस्य ते वरम्॥26॥
चक्रार्धयुततीक्ष्णांशोश्चन्द्राच्च करणागतात्।
अविशेषान्तरप्राणैर्निशीये दृश्यते शशी॥27॥
षड्राशियुक्तेति। पूर्वपक्षे षड्राशियुतयोः सूर्यन्द्वोरकार्स्तयमयसिद्धयोरन्तरालासवः साध्याः पुनस्तैरसुभिः सिद्धां स्वां स्वां गतिं सूर्यास्तमयकालजयोस्तयोः सूर्येन्द्वोः प्रक्षिप्यन्तरालासवः साध्याः। पुनस्तत्सिद्धां गतमषि तयोरस्तमयकालजयोरि(रे)व प्रक्षिप्यान्तरालासवः साध्याः। एवमविशिष्टासुभिर्निशि चन्द्रोऽस्तं गच्छति। कृष्णे पक्षे तु षड्राशियुतसूर्यकेवलचन्द्रयोरन्तरालासवः साध्याः। तैरविशिष्टैर्निशि चन्द्र उदयं गच्छति॥26॥27॥
अत्र प्रकारान्तरमाह -
अस्तकालविलग्नेन्द्वोन्तराप्राणजन्मना।
कालेन लग्नशीतांशू कृत्वा भूयोऽन्तरासवः॥28॥
पूर्वकाले न ते योज्याश्चन्द्रे लग्नाधिके रवौ।
विश्लेषां वाऽन्यथा यावत्तुल्यकालोदये नवः॥29॥
इत्थं कर्मक्रमावाप्तकालेनामृततजसः।
रश्मिभिः पूरयन्नाशा निशीये दृश्यते शशी॥30॥
अस्तकालविलग्नेन्द्वोरिति। सूर्यास्तमयकाले उदयलग्न चन्द्रं चाऽऽनीय तयोरन्तरप्राणानेकत्र स्थापयेत्। पुनस्तैरन्तरप्रमा(प्रा)णैस्तत्कालचन्द्रस्तत्काललग्नं चाऽऽनीय तयोरप्यन्तरालासवः साध्याः। ते पूर्वासुषु प्रक्षेप्याः। अत्र चन्द्रादुदयलग्नमधिकं चेत्पूर्वानीतासुषु शोध्या इति चेहोक्तं तन्न संभवति। पुनरपि लग्नचन्द्रयोरन्तरप्राणाः साध्याः। ते च पूर्वासुषु प्रक्षेप्याः। एवमविशिष्टैरसुभिर्निशि चन्द्र उदयं याति॥28॥29॥30॥
अविशेषे प्रकारान्तरमाह -
अस्ताद्रिमस्तकारूढतिग्मांशुगतभागतः।
देशभेदोदयप्राणा ग्राह्या यावन्निशाकृतः॥31॥
तेष्वहर्मानशुद्धेषु रात्रौ व्युष्टेषु चन्द्रमाः।
दृश्यते परिशुद्धेषु तस्मात्तानविशेषयेत्॥32॥
अस्तद्रिमस्तकेति। सूर्यास्तमयकाले सूर्ये चन्द्रं चाऽऽनीय तयोः सूर्येःन्द्वोरन्तरालासवः साध्या। पुनस्तेभ्यो दिनप्रमाणं दिशोध्य शेषकालोत्थगतिं सर्येन्द्वोः प्रक्षिप्यान्तरालासूनानीय दिनमानं विशोध्य शेषगतिं चास्तमयकाल...... जसूर्येन्द्वोः प्रक्षिप्यान्तरालासवः साध्याः। एवमविशिष्टैरसुभिर्दिनप्रमाणदिनैर्निशि चन्द्र उदयं याति। तेष्वसुषु व्युष्टेषु गतेष्वित्यर्थः॥31॥॥32॥
तत्रविशेषे प्रकारमाह -
तद्धटीभोगसंयुक्तः सूर्येन्द्वन्तर्घटीक्रमात्।
ततोऽहर्मानसंशुद्धिः शेषभोगादिकर्मणा॥33॥
अर्केन्दुमध्यनाडीभ्यो दिनमानं विवर्धते।
तद्विशेषघटीशेषदिवा चन्द्रोदयः स्मृतः॥34॥
तन्नाडि कानुपाताप्तभोगहीनार्कचन्द्रयोः।
अन्तरालोदयप्राणैः कल्प्यं तत्राविशेषणम्॥35॥
तद्घटीभोगेति॥33॥34॥35॥35॥
कृष्णपक्षे विशेषमाह -
चन्द्रदौदयिकात्प्राणाद्यावानौदयिको रविः।
ग्राह्यास्ततोऽपि विश्लेषात्कल्प्यते निश्चलक्रिया॥36॥
कृतावशेषनाडीभिर्यान्नोदेति भास्करः।
तावददाशामुखादर्शः प्राणैराक्रमते शशी॥37॥
चन्द्रादौदयिकात्प्राणा इति। उदयकालजाच्चन्द्रादुयकालसूर्यान्तसवो ग्राह्याः। पुनस्तत्सिद्धांशस्य गतिं तयोर्विशोध्यान्तरासवः साध्याः। एवमविशिष्टैरसुभिरर्कोदयात्प्राक्चन्द्र उदयं याति। आक्रमते शशी उदयं यातीत्यर्थः॥36॥37॥
अथ चन्द्रस्य मध्यलग्ने साम्यानयनमाह -
आसन्नौ स्वधिया ह्यत्र मध्यलग्ननिशाकरौ।
कालेन्दुमध्यलग्नानामविशेषं समाचरेत्॥38॥
आसन्नौ स्वधियेति। मध्यलग्नचन्द्रयोः साम्यकालं स्वधिया कल्पयेत्। एतदुक्तं भवति। त्रिराशिसहितचन्द्रेण समं लग्नं यदा भवति तदा द्युगतनाडीरानयेदिति। पुनस्तेन द्युगतेन तत्कालर्केण च मध्यलग्नमानयेत्। तत्काले चन्द्रं चाऽऽनयेत्। पुनर्द्युगकालचन्द्रमध्यलग्नानामविशेषं कुर्यात्॥38॥
तत्प्रकारमाह -
नाड्योऽन्तरालजैः(जाः) साध्या लङ्काराश्युदयैस्तयोः।
ऊनविश्लेष्यनाडीभ्यः शुद्धिक्षेपोऽधिके स्मृतः॥39॥
नाड्योऽन्तरालजाः साध्या इति। ऊहसिद्धद्युगतसाधितमध्यलग्नचन्द्रयोरन्तरालासवो लङ्कोदयासुभिः साध्याः। मध्यलग्नादूने चन्द्रे तेऽन्तरालासवो द्युगताच्छेद्याः (च्छोध्याः)। अधिके प्रक्षेप्याः। पुनस्तेन द्युगतेन मध्यलग्नमिन्दुं चाऽऽनीय तयोरन्तरालासूस्तंस्मिन्द्युगत ऋणं धनं वा कृत्वा तेन च मध्यलग्न मिन्दुं चाऽऽनयेत् यावन्मध्यलग्नसमश्चन्द्रस्तावदेवं कुर्यात्॥39॥
मध्यलग्नसमेन चन्द्रेण मध्यच्छाया साध्यत इत्याह -
मध्यलग्नसमश्चन्द्रो जायतेऽनेन कर्मणा।
तत्क्षिप्त्यक्रमाक्षैस्तु मध्यच्छाया प्रसाध्यते॥40॥
मध्यलग्नसमश्चन्द्र इति। मध्यलग्नसमचन्द्रस्य विशेपापक्रमाभ्यामक्षेण च पूर्ववन्मध्यच्छाया प्रसाध्यते। तेषां त्रयाणां चापयोगस्य तदन्तरस्य वा जीवा मध्यच्छाया भवतीत्यर्थः॥40॥
चन्द्रस्योदये च शृङ्गोन्नतिकल्पनामाह -
अर्धोदितस्य चन्द्रस्य तथाऽर्धास्तभितस्य च।
इन्दूद्यास्तलग्नाग्रे शृङ्गस्योन्नति कल्पना॥41॥
अर्धोदितस्येति। इन्दोरुदयलग्नाग्रवशादिस्तलग्नाग्रवशाच्च शृङ्गोन्नतिरिन्दुस्थाद्यस्मिन् भागे तत्कालरविस्तद्भागे शृङ्गोन्नतिर्भवतीत्यर्थः। तत्परिज्ञानं तु सूर्यस्य रात्रिशङ्कुमानीय तच्छङ्क्वग्रमुत्तराभिमुखमानीयार्काग्रायां संस्कृयतदृशादिन्द्व ग्रवशाच्च भवति। उक्तमिदं शशिनो विशेषकर्म। तस्य सूर्यस्योक्तं सुमशङ्क्वदिकर्म शशिनश्च कुर्यात्॥41॥
अमृ दाताधितरुक्तमिदं दृक्वमदिक ग्रहाणां कुजादीनामपि विधीयतइत्याह -
कर्मेदं शशिनस्तस्य कुर्यादमृतदीधितेः।
ग्रहाणामपि सर्वेषामिदं कर्म विधीयते॥42॥
कर्मेदामिति॥42॥
+अंशैरन्तरितः सूर्यान्नवभिर्दृश्यते भृगुः।
द्व्यधिकैर्द्व्यधिकैर्दृश्या ज्यौज्ञसौरि(जीवज्ञार्कि)धरासुताः॥43॥
अंशरन्तरित इति। भृगुः सूर्यान्नवभिः कालभागैरन्तरितो दृश्यः स्यात्। तैर्द्व्यधि कैरेकादशभिरीज्यो गुरुः। त्रयोदशभिर्बुधः। पञ्चदशरमिन्दः। सप्तदशभिः कुज इति॥43॥
शुक्रे विशेषमाह -
प्रपन्नवकः सद्वत्मां सितो दृर्श्योऽर्धपञ्चमैः।
चतुर्भिर्वांऽशुमालित्वादंशैरंशुमतोऽन्तरैः॥44॥
प्रपन्नवक्रेति। वक्रं प्राप्तः शुक्रः सार्धैश्चतुर्भिरेव वा दृश्यो भवति। सद्वर्त्मा बलान्तरय(यु)त इत्यर्थः॥44॥
उक्तैः कालभागैः कालानयनप्रकारमाह -
कालभागाः क्रमेणैते दिघ्नापि(द्विनिघ्ना)घटिकाः स्मृताः।
ऐन्द्रं तद्राशिजा ज्ञेया वारुण्यां सप्तमं स्मृतम्॥45॥
कालभागाः क्रमेणेति। ग्रहाणामुक्ताः कालभागा दशगुणिता विनाडिका भवन्ति। ग्रहसूर्ययोरन्तरराले तावत्यो विनाडिकाः सन्ति चेद् ग्रहो दृश्यो भवति। ऊनाश्चेददृश्यः। ग्रहः पूर्वदिशि दृश्यते चेद् ग्रहस्य सूर्यस्थितराशिप्रमाणेन विनाडिकाः साध्याः। पश्चिमदिशि ग्रहो दृश्यते चेद् ग्रहस्य सूर्यस्य च सप्तराशिप्रमाणेन विनाडिकाः साध्याः॥45॥
तदानयनप्रमारमाह -
ग्रहसूर्यान्तरांशघ्नं त्रिंशता स्वोदयं हरेत्।
लब्धकालो निरुक्तेन यदा तुल्यस्तयो(दो)दयः॥46॥
ग्रहसूर्यान्तरांशघ्नमिति॥46॥
कुजादीनां विक्षेपानयने ग्रहभूम्यन्तरालगतकर्णस्य हारकत्वात्तदानयनमाह-
मन्दोच्चकर्णगुणितं शीघ्रकर्णं विभाजयेत्।
विष्कम्भार्धेन संलब्धो +भागहारः प्रकीर्तितः॥47॥
ग्रहयोरन्तरं भाज्यं प्रतिलोमानुलोमयोः।
भुक्तियोगेन शेषाणां भुक्तविश्लेषसंख्यया॥48॥
दिनादिर्लभ्यते कालो योगिनां योगकारकः।
भुक्तेरनेकरूपत्वास्थूलः कालोऽत्र गम्यते॥49॥
समलिप्तौ ततो युक्त्या कुर्यात्तन्त्रस्य वेदिता।
स्वोपदेशाद्गुरोर्नित्यमभ्यासेनापि गम्यते॥50॥
मन्दोच्चकर्ण इति। मन्दोच्चकर्णेन मन्दस्फुटसिद्धकर्णेन गुणितं शीघ्र कर्णं त्रिज्यया विभजेत्। तत्र लब्धो विक्षेपानयने हारो भवति। भूताराग्रहयोः रेकस्मिन्वक्रगते च तयोर्भुक्तियोगेन तयोरन्तरकालौ विभजेत्। द्वयोर्वक्रगतयोर्द्वयोः क्रमगतयोर्वा तयोरन्तरकालौ भुक्त्यन्तरेण हरेत्। तत्र लब्धं दिनादियोगकालो भवति। अतो युक्त्या ग्रहौ समलिप्तौ कुर्यात्। सा युक्तिस्तूपदेशयुताद्गुरोः प्रतिदिनाभ्यासाद्वा ज्ञेया। योगकालसंभूतां गतिं प्रक्षिप्य संशोध्य वा समलिप्तौ ग्रहौ कुर्यात्॥47॥48॥49॥50॥
×विक्षेपानयनमाह -
पातभागविहीनस्य समलिप्तस्य निश्चयात्।
हत्वा सभास्वविक्षेप(पान्)भागहारेण भाजयेत्॥51।
जीवभौगाकंपुत्राणामेवं विक्षेपकल्पना।
शीघ्रोच्चाच्छेषयोश्चापि विक्षेपो दक्षिणोत्तरः॥52॥
पातभागविहीनत्येति। समलिप्तग्रहात्स्वपातभागन्विशोध्य तत्रोत्पन्नभुजन्यया स्वपरमविक्षेपं निहत्य हारकेण हरेत्। तत्र लब्धं विक्षेपो भवति। जीवभौमार्कपुत्राणामेवं विक्षेपः साध्यः। शेषयोर्बुधशुक्रयोः स्वशीघ्रोच्चात्स्वपातं विशोध्योक्तवद्विक्षेपः साध्यः। तुलादौ दक्षिणो विक्षेपः। अजादायुत्तरः॥51॥52॥
ग्रहयोर्दक्षिणोत्तरगतान्तरानयनमाह -
×भिन्नदिक्वौ तु विक्षेपौ युक्तावन्तरमिष्टयोः।
तुल्यदिक्वौ विशेषेण विद्याद्विवरलिप्तिकाः॥53॥
भिन्नदिक्काविति। भिन्नदिशयोर्विक्षेपयोर्योगो ग्रहयोरन्तरं भवति। तुल्यदिशोस्तु विवरं ग्रहान्तरं भवति॥53॥
अन्तरलिप्ता अङ्गुलपादसमा अर्धाङ्गुलसमा वा इति प्रकल्प्य ग्रहयोरन्तरं वाचयमित्याह-
पादाङ्गुलकार्धार्धाद्यथा वा दृश्यते रविः।
तदन्तरं तयोर्वाच्यं योगिनां योगकोविदैः॥54॥
पादाङ्गुलकलेति। हरिजासन्नेऽर्धाङ्गुलमन्यत्र पादाङ्गुलमित्यर्थः। अत्र कुजगुरुमन्दानां मन्दस्फुटात्सवपातशोधनमिच्छन्ति केचित्। तदेव युक्तं स्यात्॥54॥
शुक्रादीनां व्यासलिप्तानयनमाह -
द्वात्रिंशत्पञ्चभिर्हृत्वा भूयो भूयस्तदुत्तरैः।
शुक्रज्योक(क्रेज्य)ज्ञार्किभौमानां व्यासलिप्ताक्रमं विदुः॥55॥
द्वात्रिंशदिति। द्वात्रिंशत्संख्यां विन्यस्य तां पञ्चाभिर्दशभिः पञ्चदशभिर्विशत्या पञ्चोत्तरविंशत्या च क्रमाद्विभजेत्। तत्र लब्धाः शुक्रगुरुबुधमन्दभौमानां व्यासलिप्ता भवन्ति॥55॥
शुक्रादीनां लम्बनादिषु हारमाह -
एतैरपहृतः कर्णश्चन्द्रयोजनतः क्रमात्।
लम्बनादिषु हारः स्यान्तमानयोजनमाश्रितः॥56॥
एतैरेव ह(रपहृ)र्ते इति। एतैर्भृग्वादीनां हारयोजनात्मका इ(कैरि)त्यर्थः। यदि स्वस्वयोजनकर्णवशाद्भृग्वादीनां बिम्बलिप्ता आनीयन्ते तदा चन्द्रस्य योजनव्यास एव सर्वेषां योजनव्यासा भवन्ति॥56॥
योजनकर्णाख्यहाराणां बिम्बलिप्तानां च स्फुटीकरणमाह -
विष्कम्भार्धेन हर्तव्या भागहारहताः स्फुटाः।
शेषं शीतांशुवत्कार्यो दश जीवा विनिश्चयः॥57॥
चन्द्रोदयोपदेशै तु शङ्कुः स्यात्स्वचरादिभिः।
स्वहारैर्ग्रहयोगेषु बन्धनवानतिर्विदुः॥58॥
ग्रहोपरागवच्छेषं स्थित्यर्धादिविधक्रमः।
इतिप्रतिदिनाभ्यासविमलीकृतचेतसः॥59॥
गुरुप्रसादसंप्राप्तशास्त्रसद्भावचक्षुषाम्।
रम्यानुरक्तकान्तायाश्चित्तवृत्तिरिवामला।
इति महाभास्करीये षष्ठोऽध्यायः॥6॥
- - - - -
विष्कम्भर्धेनेति। एते भागहारा भूताराग्रहविवराख्येन भागहारेण निहतास्त्रिज्यया विभक्ताः। स्फुटा भवन्ति। बिम्बलिप्तास्तु त्रिज्यानिङ्गाभूताराग्रहविवराख्यभागहारभक्ताः स्फुटा भवन्ति। मध्ययोदयलग्नयोर्वियेपानयनमाह - पातभागेनेति। मध्योदयलग्नयोः स्वपातं लब्धा मध्योदयलग्नर्विक्षेपलिप्ता भवन्ति। मध्यज्यादिकं चन्द्रवत्कुजादीनां च कार्यमित्याह-शेषं शीताषुवदिति। मध्यज्या दृक्क्षेपज्या दृग्गतिज्या दृग्ज्या उदयग्रज्याचेति +जीवापञ्चकं तत्पञ्चकं ग्राह्यग्राहकयोः पृथग्भवति। अतो दशक्क्षेत्युच्यते। चन्द्रवत्स्वचरादिभिः शङ्कुश्च कार्यः। ग्रहयोगे स्वहारेण लम्बनावनती च कार्ये। स्थित्यर्थादि च सूर्येन्दग्रहयोरुपरागवत् कार्यम् इति प्रतिदिनाभ्यासेत्यादिश्लोद्वयेन ग्रहकर्म स्तूयते॥57॥58॥59॥60॥
इति परमेश्वरकृतायां कर्मदीपिकायां षष्ठोऽध्यायः॥6॥
सप्तमोऽध्यायः
सम्पाद्यताम्
अथ युगभगणानाह -
शतमष्टोत्तरं भानोश्चतुर्भिरयुतैर्हतम्4320000।
इन्दोःषट्रत्र्यग्निरामेषुभूभृन्नगलिखा(शिली)मुखाः 5775336॥1॥
सागरं षडिषुषड्रवेदशीतरश्मिसभाःशनेः 146564।
वेदाश्विद्विचतुष्षट्करामसूरेरसृक्तनोः 364224॥2॥
कृतद्व्यष्टर्तुरन्ध्रद्वियमला2296824भास्करस्य ये।
बुधभृग्वोस्तु शेषाणां शीघ्रोच्चभगणाःस्मृताः॥3॥
इन्दूच्चस्य नवैकाश्विवस्वष्टकृत488219संज्ञिताः।
बुधस्य खाश्विखाद्र्यग्निरन्ध्राचलनिशाकराः 17938020॥45॥
भृगोर्वस्वष्टारामाश्विद्विखसप्तसमा गुणाः।
राहोःषड्द्विकनेत्राग्निविष्णुक्रममिताःस्मृताः॥5॥
अङ्गपुष्कररामाग्निरन्ध्रेष्विन्दुमिताधिकाः1593336।
द्वादशघ्नयुतं भानोर्भङ्गिहारोऽधिकाप्तयोः॥6॥
अवमाख्योखवस्याक्षिद्व्यष्टखेष्वश्विनो25082280गुणाः।
खाष्टव्योमखखाभ्राग्निखाष्टयो1603000060हार इष्यते॥7॥
व्योमखाष्टादिशीतांशुरन्ध्रद्व्यद्रिषु चन्द्रकाः 1577917800।
युगस्य+दिवसाःप्रोक्ता विक्षेपांशास्ततःपरम्॥8॥
बुध(धा)स्फुजिभ्रवि(द्रवी)णां च द्वावेको वचसां पतेः।
सार्धाशःक्षितिपुत्रस्य पातभागाःक्रमेण च॥9॥
विंशतिःखरसाश्चापि शतं खाष्टौ खसागराः।
उदगाशाद्विविक्षेपे पातहीनाद्विनिर्दिशेत्॥10॥
आशाश्विनः,खनवती,रसविष्णुक्रमाश्विनः।
स्वाष्टेन्दवोऽष्टरुद्राश्च मन्दोच्चांशा यथाक्रमम्॥11॥
भास्करस्य विजानीयादष्टसप्ततिरंशकाः।
स्वमन्दोच्चं ग्रहाच्छोध्यं शीघ्राच्छोघ्ग(ध्या)ग्रहाःसदा॥12॥
सप्त चत्वारि रन्घ्राणि पर्वता मनवःक्रमात्।
एकत्रिंशन्नवशरा नव चाष्टित्रिकेषवः॥13॥
मन्दशीघ्रोच्चवृत्तानि विद्याविषमयोरपि।
समयोःपदयोश्चापि कथ्यन्ते मन्दशीघ्रयोः॥14॥
शिलीमुखाश्विनोऽग्न्येकवसवोऽष्टिर्दशैव च।
नवाश्विनो नगशरा वसवस्तिथयःक्रमात्॥15॥
एकपञ्चाशकं चैव सूर्यचन्द्रमसोरतः।
विष्णुक्रमःक्षितिधरा जीवा मख्यादयो मताः॥16॥
शतमिति। भानुभगणः। इन्दोरिति। इन्दुभगणाः। सागरेति शनैः। वेदेति गुरोः। कृतेति कुजस्य। बुधभृग्वोर्भगुणाः भास्करभगणा एव। कुजगुरुमन्दानां शीघ्रभगणाश्च त एवा इन्दूच्चस्येति। तद्भगणाः। बुधस्येति। तच्छीघ्रोच्चभगणाः। भृगोरिति। तच्छीघ्रभगणाः। राहोरिति तद्भगणः। विष्णुक्रमास्त्रयः। अङ्गपुष्करेत्यधिमासाः। द्वादर्शघ्ना इति। सौरमासा अपमाव्योमेत्यवमदिनानि। खाष्टेति। चान्द्रदिनानि। व्योमर्दे(खे)ष्विति। भूदिनानि बुधशुक्रन्दानां परमविक्षेपभागौ द्वौ। गुरोरेकः। कुजस्य सार्धौऽशः। उक्तक्रमेण बुधादीनां पातभागा विंशत्यादयः। उदगाशादिविक्षेपाः। एतैर्भागैर्हीनाद्ग्रहादुक्तक्रमान्तमन्दोच्चाशां आशाश्विन इत्यादयः। भास्करस्याष्टसप्ततिः स्वमन्दोच्चमिति। तत्प्रयोगविधिः सप्तेत्यादयः। बुधादीनां पूर्वोक्तक्रमेण विषमपदयोर्मन्दे परिधय एकत्रिंशदादयः। तत्र शीघ्रपरिधयः शिलीमुखाश्विन इति। बुधशुक्रयोः कर्मात् समपदपरिधयः। अग्न्येक इति। मन्दस्य नवाश्विन इत्यादयः। तेषां युग्मपदयोर्विष्णुक्रम इति। सूर्यस्य विषये युग्मे च परिधिः क्षितिधरा इति। तद्वच्चन्द्रस्याऽऽचार्येण गीतिकासूक्ता मन्दादयो जीवा ग्राह्यः॥1॥2॥3॥4॥5॥6॥7॥8॥9॥10॥12॥13॥14॥15॥16॥
+ मख्यादिजीवारहितं कर्माऽऽह -
मख्यादिरहितं कर्म वक्ष्यते तत्समासतः।
चक्रार्धांशकसमूहाद्विशोध्या ये भुजांशकाः॥17॥
तच्छेषगुणिताद्विष्टाशोध्यखाभ्रेषुखाब्धितः।
चतुर्थांशेन शेषस्य वीषुमन्त्यफलं हतम्॥18॥
बाहुकोट्योःफलं कृत्स्नं क्रमोत्क्रमगुणव्यवा।
लभ्यते चन्द्रतीक्ष्णांश्वोस्ताराणां तत्त्वत॥19॥
मख्यादिकर्मरहिमिति। इष्टभुजाचापभाक् षड्राशिभागेभ्यो विशोध्य शिष्टेन भुजाचापभागान् निहत्य पृथक्संस्थाप्य तयोरेकं खाभ्रेषु खाब्धिभ्यो विशोध्य शिष्टाच्चतुर्भिर्भक्तं हारको भवति। पृथक् स्थितिगुण्यो भवति। तं गुण्यराशिं ग्रहस्यान्तयफलेन निहत्य हारकेण हरेत्। तत्र लब्धं ग्रहस्य भुजां कलं भवति। अथवा गुण्यराशिं त्रिज्यया निहत्य हारेण हरेत्। तत्र लब्धं भुजज्या भवति। तथा परिधिस्फुटं कृत्वाऽन्त्यफलं ज्ञेयम्। उत्क्रम उत्क्रमभागान् . . . शिभागेभ्यो विशोध्य शेषेण जीवाफलमानीयान्त्यफलाद्विशोध्येत्। तदुत्क्रमफलं भवति। उत्क्रमज्या च तद्वत्साध्या॥17॥18॥19॥
× आकाशकक्ष्यामाह -
इन्दोर्गणःखखवी(वि)यद्रसवृन्दनिघ्ना
ब्योम्नो भवेयुरथ(रिह)वृत्तसमानसंख्याः।
इष्टग्रहस्य भगणैर्गगनस्य वृत्तं
भङ्क्त्वाऽथ तस्य परिधिर्लभते समन्तात्॥20॥
इन्द्रार्भगणा(दोर्गण) इति। इन्दोर्भगणा दशगुणितचक्रकलाभिर्तिद्वा आकाशकक्ष्या भवन्ति। आकाशकक्ष्यामिष्टग्रहस्य भगणैर्हरेत्। तत्र लब्धंमिष्टाग्रहस्य कक्ष्या भवति॥20॥
एवमौदयिकं विधिमुक्त्वाऽर्धरात्रिकं तन्त्रान्तरमथोच्यत इत्याह -
निबन्धःकर्मणां प्रोक्तो योऽसावौदयिको विधिः।
अर्धरात्रेस्त्वयं सर्वो यो विशेषःस कथ्यते॥21॥
निबन्ध इति॥21॥
तत्रौदयिकविधेर्यो विशेषस्तदाह -
त्रिशती भूदिने क्षेप्याऽप्यवमेभ्यो विशोध्यते।
ज्ञगुर्वोर्भगणेभ्योऽपि विंशतिश्च ततोऽब्धयः॥22॥
त्रिशती भूदिन इत्यादिश्लोकैः। भूदिने शतत्रयं क्षेप्यम्। अवमेभ्यः शतत्रयं विशोध्यम्। ज्ञगुर्वोर्भगणोभ्यो विंशतिश्चत्वारश्च विशोध्याः॥22॥
÷ अष्टिशतगुणो व्यासो योजनानां भुवो रवेः ।
खाष्टाब्ध्यङ्गानि6480शीतांशोःशून्यवस्वब्धयस्तथा480॥23 ॥
वस्विन्द्रिगुणच्छिद्रवस्वङ्गानि विभावसोः।
अङ्गाङ्गेष्वेकभूतानि5566चन्द्रकर्णःप्रकीर्तितः॥24॥
अष्टिरष्ट जिना रुद्राविंशतिद्वर्यधिकाःक्रमात्।
दशघ्ना गुरुशुक्रार्किभौमज्ञांधिस्वमन्दजाः॥25॥
शतगुण इति। शतगुणा अष्टि 1600 भूव्यासः। खाष्टाब्ध्यङ्गानि 6480 रविव्यासः। शून्यवस्वब्धयः 480 शशिव्यास। वस्वीन्द्रियगुणच्छिद्रवस्वङ्गानि 689358 रवेर्जोजनकर्णः। अङ्गाङ्गेष्वेकभूतानि 51566 चन्द्रकर्णः। दशघ्ना अष्टिभागा 160 गुरोर्मन्दोच्चांशाः। दशघ्ना अष्टौ 80 शुक्रस्य। दशघ्ना जिना 240 मन्दस्य। दशघ्ना रुद्रा 110। [भौमस्य] दशघ्ना द्व्यधिका विंशतिबुर्धस्य 220॥23॥24॥25॥
उक्तानां मन्दवृत्तन्याह -
+ मन्दवृत्तानि द्वात्रिंशन्मनवःषष्टिरेव च।
खाद्रयो वुद्रस्राःस्युःशीघ्रवृत्तन्यथाक्रमात्॥26॥
द्व्यद्रयःखाङ्गनेत्राणि खाब्धयोऽब्ध्याग्निदस्रकाः।
द्व्यद्रीन्द्रयो रवेर्मन्दशुक्रवदद्यवृत्तमेव च॥27॥
एकत्रिंशत्क्षपाभर्तुरर्धरात्रे विधीयते।
तेषां भागाश्च विज्ञेयाःपण्डितैःपरिकल्पिताः॥28॥
मन्दशीघ्रोच्चयोःक्षेप्यं चक्रार्धं बुधशुक्रयोः।
रात्रित्रयं तु शेषाणां पात्यते पातसिद्धये॥29॥
कुजार्किदेवपूज्यानां भागौ द्वावेव कीर्तितौ।
मन्दपाताच्च शीघ्रोच्चात्सार्धांशस्तु भृगुज्ञयोः॥30॥
विबुधानां च सर्वेषां शीघ्रपाताःप्रकीर्तिताः।
शोधियित्वा क्रमात्पातात् विक्षेपांशात्प्रसाधयेत्॥31॥
योगविश्लेषनिष्पत्तिरेकानेकस्वदिग्वशात्।
विक्षेपःस स्फुटो ज्ञेयो ग्रहस्यैकस्य कीर्तितः॥32॥
अन्यस्याप्येवमेव स्याच्छेषाःप्रागुक्तकल्पनाः।
एतत्सर्वं समासेन तन्त्रान्तरमुदाहृतम्॥33॥
त्रिंशन्मनवः षष्टिः। खाद्रयो वसुदस्रा इति। अथ शीघ्रवृत्तानि द्व्यद्रयः खाङ्गनेत्राणि खाब्ध्यः अन्यानि(योग्नि)दस्रकाः। द्व्यग्नी(द्री)न्दव इति। रवेरर्केन्द्वो[रु]च्चं। वृत्तं च शुक्रवत्। चन्द्रस्य वृत्तमेकत्रिंशत्। बुधशुक्रयोः पातार्धं चक्रार्थं(र्घं) मन्दोच्चधीघ्रोच्चयोः क्षेप्यम्। तत्र बुधस्य मन्दोच्चे एव। शेषाणां चक्रपाद (त): शोध्यः। शुक्रार्किदेवपूज्यानां मन्दपातश्च भागद्वयसंयुतः स्यात्। कुंजज्ञेयोर्मन्दपातः सार्धांशयुक्तः। बुधस्य शीघ्रवातो नास्ति। एवं पातद्वयमुक्तं तत्र पृथक्पृथक्पातं विशोध्य विक्षेपं साधयेत्। पुनस्तयोर्योगें वियोगे वा दिग्वशात्कृते स्फुटविक्षेपो भवति। तदुक्तं शोधयित्वा कमात्पातानिति॥26॥27॥28॥29॥30॥31॥32॥33॥
स्फुटे विशेषमाह -
शीघ्रमन्दोच्चचापार्धं संस्कृतात्स्वीयमन्दतः।
स्फुटमध्यग्रहाःसर्वे विश्लेषःपरिकीर्तितः॥34॥
शीघ्रमन्दोच्चेति। तत्र शीघ्रफलार्धं मन्दोच्चे क्रियतुलाद्योर्ऋणधने कृत्वा तत्रैव मन्दफलार्धं धनर्णं कुर्यात्। क्रियतुलाद्योरिति क्रमः। एवं फलद्वयसंस्कृतान्मन्दोच्चादेवास्तं सकलं मन्दन्यायेन मध्यमे कुर्यात्। स स्फुटमध्यमः। एतदिह सर्वेषां समानं स्यात्॥34॥
× आकाशकक्ष्यामाह -
वेदाश्विरामगुणितान्ययुताहतानि
चन्द्रस्य शून्यरहितान्यथ मण्डलानि।
स्वैःस्वैर्हृतानि भगणैःक्रमशो ग्रहाणां
कक्ष्या भवन्ति खलु योजनमानदृष्ट्या॥35॥
इति महाभास्करीये सप्तमोऽध्याय॥7॥
- - - - -
वेदाश्विरामगुणितानिति। ग्रहकक्ष्यामाह - स्वैः स्वैर्हतानीति। शून्यरवि(हि)ता ऐक.....न्यस्थानवार्जितानि॥35॥
इति परमेश्वरकृतायां कर्मदीपिकायां सप्तमोऽध्यायः॥7॥
अष्टमोऽध्यायः
सम्पाद्यताम्
अथ चन्द्रार्कौ बिना तिथ्यानयनमाह -
शशिवत्सरताहिते गणेऽह्नां
युगभूवासरभाजिते तथा।
अधिकाब्धगुणे तथैव विद्या-
दुभयोरन्तरमर्कवर्षपूर्वम्॥1॥
रविवर्षगणेन नास्ति कृत्वा
परिशेषीकृतराशितोऽथ मासौ।
धृतिसंमितवासरान्दिनेभ्यः
परिशोध्यैव तदा भुजादिकार्यम्॥2॥
रविसंहृतमर्ककाललब्धं
विपरीतं तु धनर्णमिन्द्वहेषु।
शशिकेन्द्रजमप्यथाऽऽशु चैवं
शशिवत्तन्निशि वासरेषु कार्यम्॥3॥
परिनिष्ठितनाडिकाऽप्यतीता
शशिनो यादिवसविहीनस्त्यषष्टिनिघ्नाः।
स्फुटभागविशेषसूर्यभागैः
र्भजितास्ताःस्फुटनाडिकास्तदाप्ताः॥4॥
शशिवत्सरेति। शशिवत्सरेण द्युगणं निहत्य युगभूदिवसैर्विभजेत्। तत्र वर्षादिफलं भवति। तच्चान्द्रं च भवति। पुन(र)धिकाब्धगुणिताद्द्युगगणाद्भूदिनैश्च वर्षादिफलं भवति। अधिकवर्षादिकं चान्द्रवर्षादिकाद्विशोध्य शिष्टं सौरवर्षादिकं भवति। तत्र वर्षान्विशोध्य शिष्टान्मासद्वयमष्टादशदिनानि च विशोध्येत्। राशिद्वयमष्टादश भागाश्चेत्यर्थः। शेषभुजायाः सूर्यभुजाफलमानीय तल्लिप्ताभ्यो द्वादशांशसमानघटिकां चान्द्राद्वर्षादिकात÷द्भुजफलस्य धनत्वे विशोधयेत्। तस्य ऋणत्वे प्रक्षिपेत्। पुनरुपायविशेषेण चन्द्रकेन्द्रं विदित्वाऽस्मादसिद्धबाहुफलाद्द्वादशांशमणि तद्भुजावच्चान्द्रघटिकायाः कुर्यात्। तदा तस्मिन्दिवसाः शुक्र(क्ल)प्रतिपदाद्यास्तिथयो......तत्र वर्तमानदिवसस्य या अतीता.... कास्तष्ष....निहत्य सूर्येन्द्वोर्गत्यन्तरकलाभ्यो द्वादशांशेन विभज्य लब्धा स्फुटा नाडिका भवति। चान्द्रदिनाच्छशिकेन्द्रं स्वराङ्ककुहारैः खखाब्धिनिहतान्(त्)स्यात् 'शोध्या गोक्षी(क्षि)त्यङ्कक्ष्माभिर्भागयुते तथैर्कोऽशः' इत्यनेन शशिकेन्द्रं ज्ञेयम्॥1॥2॥3॥4॥
स्फुटार्कान्मध्यमार्कानयनमाह -
दिनमध्यच्छायार्कादुच्चविशुद्धभुजाफलं यत्स्यात्।
तत्क्षयधनविपरीतादपि शेषविधेरवेर्मध्यम्॥5॥
दिनमध्यच्छायेति। मध्यदिनच्छायासिद्धो हि स्फुटः स्यात्। तस्मात् स्फुटार्कात्स्वोच्चं वि शोध्य तत्संख्यया मखिं 225 धनुर्भागं निहत्य एकत्र स्थाप्य पुनर्ज्याशेषं मख्या निहत्य वर्तमानखण्डज्यया विभज्य लब्धं पूर्वस्थापिते प्रक्षिपेत्। तदिष्टजीवाया धनुर्भवति। मखेः शेषमित्यनेन तत्साधनूतजीवाशेषमेवोच्यते॥6॥
सार्धांशकोऽक्षाष्टकलाविहीन-
श्छायादिनार्धे समभूमिभागे।
पञ्चाङ्गुलं द्वादशकस्य शङ्को-
राप्ता तस्मिन्दिनमध्ययातः॥7॥
अष्टौ लवाःषोडशलिप्तिकोना
वल(लव)प्रवा(मा)णं प्रवदन्ति यस्मिन्।
छायादिनार्धेऽर्धचतुर्थसंख्या
तत्राऽऽशु वाच्यःसविता नभस्थः॥8॥
पञ्चाधिका विंशतिरक्षभागा
त्रिंशच्च यस्मिन्विहिता फलस्य।
छाया तयोः शङ्कुसमा दिनार्धे
क्षिप्रं समाचक्ष्व तयोः स्फुटार्कान्॥9॥
अक्षांशकाः पञ्चदशैव यस्मिन्
छाया रवेः पञ्चभागयुक्ता
सार्धाङ्गुला स्यात्सममण्डलोत्था
वाच्यो वितस्वान्खलु तत्र कीदृक्॥10॥
सप्तत्रिंशच्छाया समण्डलजा पलाङ्गुलस्त्रिंशत्।
वाच्यो जगत्प्रदीपः सममण्डलसंस्थितः सविता॥11॥
छाया षोडशदृष्टा प्रागपरसमायता समदेशे।
सार्धाः सप्त पलांशास्तत्र विवस्वान्कियान्वाच्यः॥12॥
नीता रवेर्बलवता मरुता समस्ता
रास्यादयोऽत्र गणिताः सहतत्पराभिः।
शेषो मया परिगतः खलु तत्पराणां
सैकं शतं कथय भानुमहर्गणं च॥13॥
राशिभागसहिताः शशिलिप्ता
बालहस्तपरिमृष्टविनष्टाः।
पञ्चवर्गविकलाः खलु दृष्टा-
स्ताभिरार्थदिनराशिशशाङ्कौ॥14॥
रात्र्यंशका हृता वात्या भागशेषत्रिसप्तभिः।
वाच्यो भौमः कियांस्तत्र कीदृशो वाऽप्यहर्गणः॥15॥
राशित्रयं पञ्चदशांशयुक्तं
लिप्ता निशानाथसुतस्य पञ्च
एतत्समीक्ष्याक्षगतान्यहानि
यातानि तस्यैव च मण्डलानि॥16॥
मघवद्गुरुराशिभागलिप्ताः
शिशुना चपलेन नाशितास्ताम्।
नव तत्र लिप्तिकास्तु दृष्टा
दिनराशिं गुरुमध्यमाक्षताभिः॥17॥
मण्डलादि भृगुजस्य सलिप्तौ
नष्ठमत्र विकला दश दृष्टाः।
सूर्यजस्य दश सप्तसमेता
ब्रूहि तौ दि[न]गणावथ शीघ्रम्॥18॥
एवं ग्रहविषयं गणितकर्म बहुधा पूर्वप्रदर्शितकदा(कुट्टा)कारा....बृदाहरणान्युद्देशकस्य प्रश्नद्वारेण बहुधा प्रदर्शयति। तत्र सार्धांशकोऽक्ष इत्यादयः प्रश्नाः। मर्ध्यदिनच्छायाभ्यामर्कानयनेऽक्षार्चा(क्षांशाः) पञ्चेत्यदयः। सममण्डलच्छायाक्षाभ्यामर्कानयनेऽक्षार्चा नीता रवेरित्यादयः॥7॥8॥9॥10॥11॥12॥13॥14॥15॥16॥17॥18॥
कुट्टकारेणाऽऽह -
पञ्च सप्त नव भौमशशाङ्कौ
राशिपूर्वगणितौ समवेती।
उच्यतां दिनगणः कलियातो
कीदृशौ च भटतन्त्रविदाशु॥19॥
भौमशुक्रगुरुमध्यविशेषः
पञ्चराशिगणितं परिपूर्णः।
उच्यतां दिनगणःकलियातो
देवमन्त्रिररुधिरौ च कियन्तौ॥20॥
सूर्याचन्द्रमसौ तुलाधारगतौ दृष्टौ मया तत्त्वतो
भागैर्द्वादशभिर्द्वयेन च युतौ सूर्यस्य वारोदये।
लिप्ताभिः शशिशून्यसागरयुतौ जीवस्य वारे पुनः
शुक्रस्याथ शनैश्चरस्य दिवसे तुल्यौ दिन(किय)द्भिर्दिनैः॥21।
विलिप्ताभिरधिकोऽर्को विज्ञेयो भूधरेन्दुभिः।
शोधयेच्च निशानाथाद्विलिप्ता धृतिसंमताः॥22॥
नाडीभिरभ्युपगतादहनां गणा भागतस्तीक्ष्णां
शुभगणादिकेऽत्र निचिते नीतेऽधुना वात्यया।
दृष्टः सप्ततिरेकरूपसहिताः शेषां कलानां मया
वक्तव्यो द्युगणो गतश्च सवितुः स्पष्टाश्च ये(या)नाडिकाः॥23॥
अर्काङ्गारकवासरैरपहृतः कश्चिद्दिनानां गणो
लब्धौ तत्र न वेद नैव च तयोः शेषौ मया लक्षितौ।
यौ तौ मण्डलताडितावथ पुनर्भक्ते स्वौर्दृढो पृथक्
तत्राऽऽप्तं मधुनाऽपनीतमधुना चाग्रे तयोस्तिष्ठतः॥24॥
भास्करे मिथुनपर्यवसाने
शर्वरी त्रिगुणसप्तघटी स्यात्।
अक्षचापगुण(णि)ता वद् तस्मिन्
लम्बकेन सहितं विगणय्य॥25॥
...णाद्यानयने पञ्च सप्तेत्ययं भौमशशाङ्कयोर्योगविषयः। भौमशुक्रगुर्वित्ययं भौमजीवयोर्विशेषविषयः। सूर्याचन्द्रमसावित्ययं वारकुट्टारविषयः। भास्करे मिथुनेत्यक्षविषयः॥19॥20॥21॥22॥23॥24॥25॥
भास्करेण परिचिन्त्य कृतोऽयं
मन्दबुद्धिपरिबोधसमर्थः।
सम्यगार्थभटकर्मनिबद्धः
स्पष्टवाक्यकरणैः समवेतः॥26॥
भास्करेण परिचिन्त्य कृतोऽयमित्यनेनास्य तन्त्रस्य प्रयोजनमागपूर्वकता च प्रदर्श्यते॥26॥
स्पष्टा(सर्वा)र्थानककरणैश्छेद्यकेन्द्रगणे रवेः।
यदिहास्ति तदन्यत्र यन्नेहास्त....तत्॥27॥
इति महाभास्करीयेऽष्टमोऽध्यायः॥8॥
इति महाभास्करीयं समाप्तम्॥
सर्वार्थेति। सर्वार्थानामहर्गणमध्यच्छायाकर्मादीनामनेकधा[क]रणं यस्मिंस्तन्त्रे तथाविधेऽस्मिंस्तन्त्रे यद्ग्राहकमस्ति तदेवान्यतन्त्रेषु विधीयते। रवेर्ग्रहणे छेद्यके चात्र यत्स्थित्यर्धादेः स्वरूपं प्रदर्शितं तदेव तन्त्रान्तरेषु प्रदर्श्यते। अस्मिंस्तन्त्रे यद्ग्रहकर्म नास्ति, तत्क्वचिदपि तन्त्रे न स्यात्। एवमनेन श्लोकेन तन्त्रं स्तूयते॥27॥
अधिकारो न येषां स्यादस्य भाष्यनिरीक्षणे।
कर्ममात्रप्रबोधार्थं तेषां व्याख्येयमीरिता॥
मुहूर्ताष्टकासिद्धान्तवाक्यमान्यायकर्मणाम्।
दीपिकां गोलभटयोश्चकरोस्परमेश्वरः॥
इति परमेश्वकृतायां कर्मदीपिकायामष्टमोऽध्यायः॥8॥
स्रोतः
सम्पाद्यताम्उपरोक्त सामग्री यहाँ से ली गयी है - महाभास्करीयम् (सम्पादकः सङ्गणकसहकृतसम्पादकश्च प्रो० सर्वनारायणझा)