महायानविंशिका
नागार्जुनः


न ज्ञानाच्छून्यता नाम काचिदन्या हि विद्यते ।
विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् ॥ १ ॥

द्वयशून्यम् हि विज्ञानम् अन्यथा न प्रसज्यते ।
द्वयासत्त्वान् निवृत्तस्य द्वयात्मत्वप्रसन्गतः ॥ २ ॥

तच्छुरुततथतारूपो भगवान् एव भण्यते ।
वेद्यवेदकसद्भावविकल्पाद्यसमाश्रयः ॥ ३ ॥

चित्तमात्रं निराभासं विहारो बुद्धभूस्तथा ।
एतद्धि भाषितं बुद्धैर्भासन्ते भाषयन्ति च ॥ ४ ॥

चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी ।
द्वे भूमयो विहारो ऽत्र ऽशेषा भूमिर्ममात्मिका ॥ ५ ॥

देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः ।
कायवाक्चित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते ॥ ६ ॥

अष्टम्यां आश्रयस्तस्य स्वप्नो ऽप्यसुखसंभवः ।
- - - - - - - - - - - - - - - - ॥ ७

१। अवाच्यो वाचकैर्धर्मः कृपया येन देशितः ।
नमो ऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये ॥ ८ ॥

२। स्वभावेन न चोत्पन्ना निर्वृताश्च न तत्त्वतः ।
यथाकाशं तथा बुद्धाः सत्त्वाश्चैवैकलक्षणाः ॥ ९ ॥

३। पारावारं न चोत्पन्नाः स्वभावेन प्रतित्यजाः ।
ते ऽपि शून्या हि संस्काराः सर्वज्ञज्ञानगोचराः ॥ १० ॥

४। सर्वभावाः स्वभावेन प्रतिबिम्बसमा मताः ।
शुद्धाः शिवस्वभावाश्च अद्वयास्तथतासमाः ॥ ११ ॥

५। असत्यात्मनि चात्मत्वं कल्पयित्वा पृथग्जनाः ।
सुखदुःखम् अभिज्ञाश्च सर्वम् एषां च तत्त्वतः ॥ १२ ॥

६। षड्गतिर्यश्च संसारः स्वर्गश्च परमं सुखम् ।
नरके च महद्दुःखं जराव्याधिरपी यताम् ॥ १३ ॥

७। अभूतां कल्पनां कृत्वा पच्यन्ते नरकादिषु ।
स्वदोषेनैव दह्यन्ते वेणवो वह्निना यथा ॥ १४ ॥

८। यथा माया तथा सत्त्वा विषयान् परिभुञ्जते ॥
मायामयीं गतिं यान्ति प्रतीत्योत्पादरूपिणीम् ॥ १५ ॥

९। यथा चित्रकरो रूपं यक्षस्यातिभयङ्करं ।
बिभेति स्वयम् आलिख्य संसारे ऽप्य् अबुधस्तथा ॥ १६ ॥

१०। यथा पङ्कं स्वयं कृत्वा कश्चित् पतति बालिशः ।
तथासत्कल्पनापङ्के मग्नाः सत्त्वा दुरुत्तरे ॥ १७ ॥

११। अभावं भवतो दृष्ट्वा दुःखां विन्दति वेदनाम् ।
शङ्काविषेण बाधन्ते विषया वितथास्तथा ॥ १८ ॥

१२। तांस्चैवाशरणान् दृष्ट्वा करुणाधीरमानसाः ।
नियोजयन्ति संबोधौ सत्त्वान् बुद्धा हितंकराः ॥ १९ ॥

१३। ते ऽपि संभृतसंभाराः प्राप्य ज्ञानम् अनुत्तरम् ।
कल्पनाजालनिर्मुक्ता बुद्धा स्युर्लोकबन्धवः ॥ २० ॥

१४। यतो ऽजातम् अनुत्पन्नं सम्यक् सत्त्वार्थदर्शिनः ।
ततः शून्यं जगद् दृष्ट्वा आदिमध्यान्तवर्जितम् ॥ २१ ॥

१५। तेन पश्यन्ति संसारं निर्वाणं च न चात्मनः ।
निर्लेपं निर्विकारं च आदिमध्यान्तभास्वरम् ॥ २२ ॥

१६। स्वप्नानुभूतविषयं प्रतिबुद्धो न पश्यति ।
मोहनिद्राविबुद्धश्च संसारं नैव पश्यति ॥ २३ ॥

१७। मायां विधाय मायवी उपसंहरते यदा ।
तदा न विद्यते किंचिद् धर्माणां सा हि धर्मता ॥ २४ ॥

१८। चित्तमात्रम् इदं सर्वं मायाकारवद् उत्थितम् ।
ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ २५ ॥

१९। कल्पयन्ति यथा लोकं नोत्पन्नाश्च स्वयं जनाः ।
उत्पादो हि विकल्पो ऽयं अर्थो बाह्यो न विद्यते ॥ २६ ॥

२०। अस्वभावेषु भावेषु नित्यात्मसुखसंज्ञिनः ।
भवार्णवे भ्रमन्त्यस्मिन् बाला मोहतमोवृताः ॥ २७ ॥

कल्पनाजलपूर्णस्य संसारसुमहोदधेः ।
अनाक्रम्य महायानं को वा पारं तरिष्यति ॥ २८ ॥

महायानविंशिका कृतिरार्यनागार्जुनपादानां ।

"https://sa.wikisource.org/w/index.php?title=महायानविंशिका&oldid=398187" इत्यस्माद् प्रतिप्राप्तम्