महार्थमञ्जरी
महेश्वरनन्दः
१९१८

महार्थमञ्जरी

श्रीमन्महेश्वरानन्दनाथविरचिता।

  जयत्या मूलमन्थानमौत्तरं तत्त्वपव्ययम् ।
  स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् ॥ १॥

स्वप्नसमयोपलब्धा
 सा मुमुखी सिद्धयोगिनी देवी ।
गाथाभिः सप्तत्या
 स्वोचितभाषाभिरस्तु संप्रीता ॥२॥


  वर्धतां देशिकः श्रीमान्संविन्मार्गश्च वर्धताम् ।
  माहेश्वराश्च वर्धन्तां वर्धतां च कुलेश्वरः ॥३॥

अथ यदेतत् आत्मस्वरूपाविभिन्नपरमेश्वरप रामर्शोपायप्रतिपादने प्रवृत्तम् अभ्युपगमसिद्धा-


न्तस्थित्यात्म सर्वतन्त्रावयवपञ्चात्मकं महार्थमञ्जर्याह्वयं महत् तत्त्वं, तत् तन्त्रामृतसूत्रायमाणगाथाभिः सप्तत्या भवति । तत्र च

१ आद्यायां मङ्गलाचारानुशासनम् ।
२ द्वितीयस्यां तन्त्रप्रतिपाद्यमानस्य वस्तुनो निर्देशः ।
३-४-५ ततस्तिसृषु स्वात्मतत्त्वप्रमाणानुपयोगप्रपञ्चनम्।
६ षष्ट्याम् अधिकारिविभागव्यामोहः ।
७ सप्तम्यां विधिनिषेधनिर्देशः ।
८ अष्टम्यां संसारस्वरूपनिरूपणम् ।
९ नवम्यां स्वात्मनः स्फुटस्यापि अस्फुटत्वौचित्यानुशासनम् ।
१० दशम्यां विम्रष्टव्यस्वरूपविमर्शस्य पुरुषार्थत्वावस्थापनम्।
११-१२ ततो द्वयोः विमर्शस्वरूपविमर्शः।
१३-२५ ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः । २६ षड्विंश्यामुक्तार्थं प्रति परमार्थपर्यालोचनम् ।
२७ सप्तविंश्यां विश्वस्य प्रकाशविमर्शद्वयान्तर्भा वोद्भावनम् ।
२८ अष्टाविंश्याम् एकत्र वस्तुनि शिवशक्तिवि भागाध्यवसानम् ।
२९ एकोनत्रिंश्यां परमेश्वरस्य विश्वशरीरतया शक्त्युत्कर्षोपपादनम् ।
३० त्रिंश्यां विश्ववैचित्र्यस्य स्वात्मनि अवैक ल्येन अवस्थानप्रदर्शनम् ।
३१ एकत्रिंश्यां प्रमात्रादित्रिकस्य द्वैतपर्यवसा यित्वोन्मीलनम्।
३२-३३ ततो द्वयोः सत्यासत्यविभागव्युदासः।
३४-३५ ततोऽपि द्वयोः पारमेश्वर्या सपर्यया वैशिष्ट्यावभासनम्।
३६-४१ ततः षट्सु पूज्यतया श्रीयन्त्रार्थक्रमा- वमर्शः।
४२-४६ ततश्च पञ्चसु सपर्यायाः स्वरूपनि- ष्कर्षः। ४७-४८ ततोऽपि द्वयोर्देवतास्वभावनिर्णयः।
४९ एकोनपञ्चाश्यां मन्त्रतन्त्रोद्धारः ।
५० पञ्चाश्यां वाग्वृत्तिविचारः।
५१ एकपञ्चाश्यां मुद्रातत्त्वोन्मुद्रणम्
। ५२ द्विपञ्चाश्यां विमर्शशक्तेर्भोगापवर्गप्रदत्वोल्ल ङ्घनम्।
५३ त्रिपञ्चाश्यां जीवन्मुक्त्युपपत्तिः ।
५४ चतुःपञ्चाश्यां स्वात्मस्वरूपस्य आनन्दस्य न्दितानुवर्णनम् ।
५५-५६-५७ ततस्तिसृषु तत्त्वावबोधनम् ।
५८-६३ ततश्च षट्सु विमर्शानुप्रवेशिता ।
६४-६५ ततो द्वयोर्नैश्चिन्त्यनिर्णयः।
६६ षट्षष्टितम्यां स्वात्मविमर्शस्य सद्यःसिद्धित्व प्रत्यायनम्।
६७ सप्तषष्टितम्यां विमर्शलक्षणगुरुकटाक्षाधीन- त्वप्रस्थापनम् ।
६८ अष्टषष्टितम्यामुक्तार्थस्य सर्वदर्शनसारत्वप्र- तिपादनम् ।
६९ एकोनसप्ततितम्यां तन्त्रवित्तस्य संग्रहणो पन्यासः ।
७० सप्ततितम्यां व्यासादियोगिनाम् अमुत्र श्र द्धैकशरणत्वप्रकाशनम् ।
७१ अन्त्यायां तन्त्रकृतः तन्त्रोपदेशहेतुः प्रयोगः, इति तन्त्रार्थतत्त्वतात्पर्यार्थः ।

 अथ ग्रन्थार्थो व्याख्यायते।

 श्रीमदनुत्तराद्वैतसिद्धिहेतोः द्वैतप्रयाससतत्त्व प्रत्यूहव्यपोहदक्षो दैशिकेन्द्रभट्टारकः स्वातन्त्र्य मनुसन्दधानः तन्त्रकृत् तन्त्रोपन्यासं प्रति उपो द्घातम् उद्घाटयति

णामि गुणा णिंचसुध
 गुरुणो चनेणे महापआसस ।
गन्थै महत्थमञ्जरि
 मिमिणं सुरहिं महेसराणन्दः॥१॥

नत्वा नित्यविशुद्धौ
 गुरोश्चरणौ महाप्रकाशस्य ।
ग्रथ्नाति महार्थमञ्जरी
 मिमां सुरभिं महेश्वरानन्दः ॥१॥

 इह खलु सर्वस्यापि जनस्य उपास्यतया का चित् देवता अस्त्येव, इति एतावति तावत् न विप्रतिपत्तिः, केवल तस्या नामरूपादिव्यपदेश मात्रवैषम्यं यावद्युक्तिपर्यालोचनायां स्वात्मसंवि त्स्फुरत्तामात्रस्वभावा इति 'प्रकाश एव विश्वस्य उपास्यदेवता' इति आपतितम् तस्य महत्त्वं 'सा स्फुरत्ता' इत्यादिप्रत्यभिज्ञोक्तनीत्या सर्व संकल्पोल्लङ्घितया स्फुरत्तैकस्वरूपत्वम् । स च गुरुः-- गृणाति प्रकाशयति विश्वव्यवहारमिति गुरुः इति निरुक्त्या सर्वानुग्राहकः, तादृक्प्र काशव्यतिरेके विश्वस्य अन्धबधिरत्वादिप्रायत्वा पत्तेः, स च पर्यन्ततः परशिवभट्टारकापरपर्यायत्वात् आत्मरूपो महान्प्रमाता । यदाह शिव सूत्रेषु

गुरुरुपायः' (२-६)

इति । तस्य चरणौ ज्ञानक्रियालक्षणं स्वातन्त्र्यं, चर्यते गम्यते प्राप्यते बुद्धयते भक्ष्यते च आभ्यां विश्वम् इति हि चरणावित्युच्यते, तौ नत्वा उत्कर्षकस्य आरूढतया विमृश्य, वाङ्मनः कायानां, तदेकविषयीकरणलक्षणप्रह्वीभावो हि नमनं महाप्रकाशत्वं च परमेश्वरस्य महान् उ त्कर्षः, तं प्रति तदुपासकस्य. प्रह्वीभावश्च इति द्वितयमपि चोक्तम् । अत एव नत्वा इति परमे श्वरप्रणामिकयोत्तरकालं 'महेश्वरानन्द' इत्यु क्तम् । स च महेश्वरानन्दो महार्थमञ्जरी ग्रथ्ना ति-ग्रन्थसंदर्भद्वारा लोकम् अनुभावयतीत्यर्थः । मञ्जर्यपि हि पृथक् पुष्पभेदप्रतिभासेऽपि एका कारेण अनुभूयते, ग्रथनं च पुष्पादेरपि अनाया सग्रहणोपायतया प्रसिद्धं, सा च सुरभिः-सर्वाभिलषणीयप्रकर्षरूपसौरभ्यरसस्पृहत्वात्, अनेन च विश्वस्य भोगमोक्षदतया अवस्थापनात् वक्ष्यमा णस्य विमर्शोपायस्य औचित्यम् उन्मील्यते॥१॥

 अथ तन्त्रप्रतिपाद्यमर्थं तत्परिज्ञानस्य प्रयोज नतया अन्वेष्यतां च अभिदधानः तन्त्रकृत् तत्रैव आवृत्त्या तत्प्रयोजनम् आत्मविमर्शस्वरूपम् अ भ्युपेयतया उपपादयति

वट्टण्डु महापआसो
 विमरिसवित्सुरिबंह्म णिंचलंजोऊ।
संणाविद्योस णिंअमेल
 पअत्ताइ जंथ संथाइ ॥२॥


वर्धतां महाप्रकाशो
 विमर्शविस्फुरितनिश्चलोद्योतः ।
संज्ञाविशेषनिर्णयमात्र
 प्रत्तानि यत्र शास्त्राणि ॥२॥

 अत्र योऽयं महाप्रकाशस्तत्तत्प्रमातृप्रकाशवि

शेषाधीनतया प्रकाशमानतायाः स्वभावमात्राद्वा विशेषात् स्वरूपनिष्कर्षे क्रियमाणे, तत्

'तदुपायतया ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ।।
न हि ज्ञानादृते भावाः केनचिद्विषयीकृताः।
ज्ञानं तदात्मतायातमेतस्मादवसीयते ।।'

इति श्रीदेविकाक्रमस्थित्या प्रकाशैकस्वभावः षट्त्रिं शत्तत्त्वसपिण्डात्मा प्रत्येकतत्त्वपर्यालोचनेऽपि अ नन्तप्रकारो विश्वविलासः, स वर्धताम् उपर्युपरि स्फुरत्ताम् अनुभवतु । अयमेव महान् उपायो विमर्शस्य इति यावत् । ननु शून्यमात्रस्वभा वेन मिथ्यात्वमात्रानुप्राणितव्यवहारेण वा विश्व वैचित्र्येण उपायभूतेन अपरमार्थभूतेन परमा र्थभूतस्वात्मरूपविमर्शलाभ इत्येतदनालोचितोत्क र्षकाष्ठातत्प्राप्तिरिति माध्यमिकानिर्वचनीयत्वादि वादमर्यादामाशङ्क्याह 'निश्चलोद्योत' इति, स्फुट प्रकाशात्मनि प्रपञ्चोद्योते न कस्यचित् मिथ्यात्वोपपादकादेश्चावकाश इत्यर्थः । अस्तु एवं, तथापि अवघातस्वेदादिवत् अन्यथासिद्धसांनि ध्येन लोकव्यवहारेण कथम् आत्मविमर्शोत्प त्तिरित्याशंक्याह 'विमर्शविच्छुरित' इति, न खलु स्वसत्तामात्रेण विश्वस्य आत्मविमर्शं प्रति उपायत्वमनेन तथा विमृश्यमानावस्थायामेव, तत्र विश्वस्वरूपस्यैव तन्मिथ्यात्वादेः तद्विपर्यये च विम्रष्टव्यतोद्भावनाय निश्चलोद्योत इत्यस्य विमर्शविच्छुरित इत्यनेन सह ऐकपद्यम् । ननु यदि विश्वव्यवहारस्य किंचित् नैयत्यं तदुपपद्ये तापि नाम तस्य उपायत्वं, तच्च न संभवति अद्यापि सिद्धान्तिभिर्द्रव्यगुणादयः षट् इत्यादि पृथक् पृथक् विकल्प्यमानत्वात् , इत्याशंक्याह 'संज्ञाविशेषेत्यादि' यत्र हि विश्वविलासात्मनि अर्थे कणभक्षादिशास्त्राणि तत्परिभाषानुगुण्येन संज्ञा लक्षणा ये व्यपदेशविशेषास्तन्मात्रोपक्षीणव्यापा राणि, न पुनः प्रत्यक्षादिप्रमाणोपगृह्यमाणपृथि- व्यादिपरम्परापरिस्पन्दापलापप्रगल्भानि इति आद्यो वाक्यार्थः। द्वितीये तु योऽयं महाप्र काश उक्तलक्षणः, अनवच्छिन्नप्रमाता यद्विमर्शः पुरुषार्थतया अवस्थापयिष्यते, स वर्धतां-मा यीयमलोपलेपसंस्कारो छेदपर्यन्तमुल्लसतु, सा च वृद्धिः न कैवल्येन, किं तर्हि एवमहं लौकिकः कश्चित् प्रमाता इति प्रत्यभिज्ञानात्मा यो विमर्शः तेन यत् विच्छुरणं विशेषतोऽन्यप्रकाश वैलक्षण्येन लौकिकसंबन्धस्वभावातिक्रान्त्या ता दात्म्यपर्यवसायित्वद्योतकोऽप्रश्लेषः तद्वत्तया नि श्चलो निर्गतोपाधिकलङ्कः, .उद्योतः स्फुरत्ता यस्य, तादृशतया वर्धताम् इत्यर्थः । ननु विम्रष्टः व्यस्य आत्मस्वरूपस्य व्यपदेशनैयत्याभावात् तद्विमर्शं प्रति असद्भावपर्यवसायी कश्चित् हृदयं गमीभावः स्यात्, इत्याशंक्याह-'संज्ञाविशेषे त्यादि' यत्र परप्रमातृविषये व्यवह्रियमाणानि सर्वाण्यपि शास्त्राणि शिव-विष्णु-ब्रह्म-इत्यादिव्य पदेशमात्रव्यापृतानि, न पुनः स्वस्वभावात्यन्तमे दोपपादनप्रवीणानि भवन्ति । अत्रायमाशयःग्राह्यग्रहणवेलायामिन्द्रियादिप्रणालिकया विश्वप्र तिष्ठाभूमिः 'अकृत्रिमः प्रमाता कश्चित् विम्रष्टा इति पारम्पर्यात आपतितम् , तद्द्वारेणैव पारमा र्थिकप्रमातृलाभ इह उपदिश्यते ॥ २ ॥

 ननु उक्तयुक्त्या विम्रष्टव्यः कश्चित् कर्तृत्व विशेषः कुलालादिवत् न कुत्रचित् अपरोक्ष उप लभ्यते, अनुमेयत्वादौ तु तत्तत्प्रमाणाधीना वस्तु स्थितिरितिस्थित्या तादृक् किञ्चित् प्रमाणं वक्तव्यम्, तदनुक्तौ तु तस्य असत्कल्पत्वापत्तिः इत्याशंक्याह

अंणा खु बीसमूलं
 तत्थ प्रमाणं ण कोबि अथेई।
कःस व होइ पिबासा
 गंगामुत्तै णिमग्नस्स ॥३॥


आत्मा खलु विश्वमूलं
 तत्र प्रमाणं न कोऽपि अर्थयते।

कस्य वा भवति पिपासा
 गंगास्रोतसि निमग्नस्य ॥३॥

 इह आत्मैव प्रकाशस्वभावत्वात् विश्वव्यवहारे निबन्धनं 'मम अवभासते, मया अवलोक्यते' इति प्रमातृप्रकाशोपश्लेषेणैव स्तम्भकुम्भादीनां प्रकाशमानत्वात् , तद्व्यतिरेके च तेषां स्तम्भ एव कुम्भः, कुम्भ एव स्तम्भ इति तयोरन्योन्यं स्वलक्षणापहारोपक्रमेण कस्यचित् विनियन्तृत्वम् इति स्तम्भस्वरूपेण किं भवतु, अस्तम्भो वा इति सन्देहो वा, तस्यापि असंभवो वा इति सर्वथा तूष्णींभाव एव स्वभावः स्यात्, यदि च स्तम्भादिरूपतैव तेषां प्रकाशमानत्वं न पुनः प्रमातृ- प्रकाशानुग्रहात्मा कश्चित् अतिशयः, तर्हि सर्वेषामपि तथा प्रकाशेरन् न वा कस्यचिदपि इति प्रमातॄणां व्यवहारोच्छेदप्रसंगः । किं च स्तम्भकुम्भाद्यात्मनो विश्वस्य स्वात्मनैव प्रकाशमयता- ङ्गीकारे सर्वस्यापि प्रमातृवर्गस्य सार्वज्ञ्यम् अत्यन्ताज्ञत्वं वा प्रसज्येत नियामकाभावात् , तस्मा दात्मनो जगद्व्यवहारप्रयोजनमनिच्छतापि अङ्गी कार्यम्, प्रयोज्यप्रयोजकभावश्च पर्यन्ततोऽनयो स्तादात्म्यमेव पर्यवसायिष्यति, इति - आत्मप्र काशमयोऽयं विश्वत्र वेद्यवर्गोल्लास इत्यापतितम् । यदुक्तं श्रीप्रत्यभिज्ञायां

'प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥

इति । खलु अविप्रतिपत्तौ, एवंस्थिते तत्रैव आ त्मनि इदमेतादृक् इति वस्तुव्यवस्थापकत्वलक्ष प्पस्वभावविशेषं प्रमाणं प्रति पण्डितस्य पामरस्य वा न कस्यचित् अपेक्षा उत्पद्यते-प्रमातृप्रका शादिव्यतिरेकात्, प्रत्युत तेनैव व्यवस्थाप्यमान वाच प्रमाणस्य, प्रमाणं हि नाम अभिनवोदयः स्वभावविशेषः, सोऽपि स्वभावोऽभिनवोदय इत्यु क्तत्वात्, नवनवोदयश्च तस्य तत्तद्देशकालोप श्लेषावच्छिद्यमानान्योन्यविलक्षणप्रमेयद्वारोपारूढः कश्चित् विशेषः, न पुनः स्वाभाविको धर्म इति अवधारिताखिलविकल्पविक्षोभक्षुभिताब्धि कल्पम् एकस्वभावमात्मतत्वं प्रति प्रत्यक्षस्य व्यापार एव न उपपद्यते इत्यर्थः, न कोऽप्यर्थ यते इति आत्मनि प्रमाणमिच्छन् आत्मा स्यात् न वा, यदि अनात्मा जडवर्गः तत्प्रमाणापेक्षैव नोपपद्यते । आत्मैव चेत् तर्हि स्वस्मिन् स्वय मेव प्रमाणम् अपेक्षते इति आपतेत । उक्तमर्थं तद्दृष्ट्वा प्रतिपादयति 'कस्य वेत्यादि' गाङ्गो हि प्रवाहः शैत्यप्रसादाद्यनेकगुणोत्कर्षात् अन्तर्बहि स्तापापहारे प्रवीणो भवति ॥ ३॥

 ननु स्तम्भकुम्भादिवत् आत्मनः प्रकाशो न कदाचिदपि स्फुटतया उपलभ्यते, अस्फुटे च अर्थे प्रमाणव्यापारेणैव अवतारितव्यम् ?, इत्या शंक्याह


जं जाणन्ति जना अभि
 जनहारीअमि जं विजाणन्ति ।
जंसं चिअ जोक्कारो
 सो कःस पुटो न होइ कुलनाहो॥४॥


यं जानन्ति जडा अपि
 जलहार्योऽपि यं विजानन्ति ।
यस्यैव नमस्कारः
 सकस्य स्फुटो न भवतिकुलनाथः

 यं जडा आभीरादयोऽपि जानन्ति, जलहा रीप्रभृतयोऽपि अवबुद्ध्यन्ते, सर्वेषामपि 'स्थूलोऽहं, संपन्नोऽहम् ' इत्यादेः स्वात्मस्फुरणस्य स्फुटमेव उपलभ्यमानत्वात् । यच्छ्रुतिः

उतैनं गोपा अदृशन्नुतैनसुदहार्यः ।

इति, विमर्शप्राधान्यात् जलहारीज्ञानं प्रति वैशिष्ट्यमुक्तम् । ज्ञानशक्त्येव प्रमातॄणां क्रियाशक्त्या प्ययं क्रोडीक्रियते इत्याह ‘यस्यैव नमस्कार' इति, जडजलहार्यादयोऽपि जीववर्गः तत्तत्फल कामनया तत्र तत्र नमस्कुर्वाणो दृश्यते, स सर्वो ऽपि नमस्कारो यत्संबन्धेनैव भवति । यच्छुतिः

'यस्मै नमस्तच्छिरः'

इति । सर्वस्यापि स्वात्मैव देवता इति अग्रतो भविष्यति, उक्तरूपश्च परमेश्वरः कुलस्य देहाक्षसु वनादेः विश्वविलासस्य तादात्म्यपर्यवसायितया सृष्ट्यादिभासको भवन् कस्य पदार्थस्य स्फुटो न भवति, यदि कश्चित् उच्येत स एव स्वभावतो न स्यात् इत्यर्थः, तस्मात् सर्वाहंभावस्वभावं परमेश्वरं प्रति अस्फुटत्वशंकायां न कश्चित् अव काश इति ॥४॥

 एवं सामान्यतः प्रमाणानुपयोगम् आत्मनि उपपाद्य विशेषतोऽपि उपपादयन् आगमे कंचि-

दनुग्रहं दर्शयति

ओमिणं पञ्चखं
 ओमिणं हंमुहं च अणुमाणं ।
आअमदीबालोयोऊ
 तस्स पआसेद किं माहंपम्॥५॥

अवच्छिन्नं प्रत्यक्षं
 अवच्छिन्नं तन्मुखं च अनुमानम् ।
आगमदीपालोकः
 तस्य प्रकाशयति किमपि माहात्म्यम् ॥५॥

 ग्राह्यार्थसंनिकर्ष एव प्रत्यक्षस्य प्रामाण्यात् अत्यन्तम् एतत् संकुचितम् , अनुमानं च व्या- प्त्युपलम्भसापेक्षत्वात् व्याप्त्युपलम्भस्य च प्रत्य- क्षमूलत्वात् अवच्छिन्नमेव, एवं च अवच्छि- न्नानां प्रमाणानाम् अनवच्छिन्ने प्रवृत्तिरिति महतीमनौचित्यकक्ष्याम् अवतरति इति प्रागपि उक्तम् । आगमस्तु यदि आप्तमात्रवाक्यत्वात् प्रामाण्यमर्हति, तर्हि तस्याप्तिः कीदृक् ? इति चि न्तायाम् - अन्यस्मात् आप्तात्, तस्यापि अन्य स्मात् इति मूलक्षतिकारिण्यनवस्था, इति अप्रा माण्यमेव माणिक्यपरीक्षावत्, त्रिचतुरकक्ष्यावि श्रान्तौ तु सैव संकोचाय कल्पते, यदि पुनर् 'अनवच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थ इति आचार्याभिनवगुप्तोक्तस्थित्या परप्रमातृवि मर्शशक्तिमयतया अयम् अङ्गीक्रियते, तदानीम् असौ तस्य स्वभावभूते प्रकाशे दीपोल्लेख इव तमः स्थगितस्तम्भकुम्भादौ अभिव्यञ्जकतया कंचित् चमत्कारम् उपजनयति, तत्र यथा दीपालोके ध्वान्तगर्भवर्तिनां स्तम्भादीनाम् आरोहपरिणा हादिस्वभाव उन्मील्यते, तद्वत् अस्यापि स्वा त्मनो यन्माहात्म्यम् - अनवच्छिन्नप्रकाशस्वभा वत्वं स्वव्यतिरिक्ताशेषभुवनाक्षाद्यनुप्राणनक्षमत्वं


तत् किमपि अलौकिकं तत्त्वम् आगमेन उन्मी

ल्यते ॥५॥

 ननु प्रमाणपथातिक्रान्तं चेत् इदमात्मतत्त्वं, तत्सर्वोऽपि जनः तद्विमर्शं प्रति अधिकारी, न कश्चित् वा स्यात् - अप्रमितत्वाविशेषात् ?, इत्या- शंक्य, नात्र कश्चिदधिकारिविभागक्लेश इत्याह

आणं निरूपणिंजो
 वइरिंको कोबि अंपणो भावो।
अंपविमुहाणं ताणं
 अहिहारिविवहबिंबमो होउ॥६॥


येषां निरूपणीयो
 व्यतिरिक्तः कोऽपि आत्मनोभावः।
आत्मविमुखानां तेषाम्
 अधिकारिविभागविभ्रमो भवतु ॥६॥

 येषां पुंसां स्वात्मरूपात् परमेश्वरात् व्यतिरि

क्तो ज्योतिष्टोमादिः पदार्थो निरूपणीयो विभा वनीयो भवति, तेषाम् अन्यपदार्थौन्मुख्याविना भूतात् आत्मवैमुख्यादेव हेतोः अयम् अत्र अधिकारी न तु अयम् - इति विभ्रमो विशिष्टो भ्रमः विलासरूपत्वाच्चाप्रामाणिको व्यवहारः सं भवतु, 'अतिसर्गे लोट्' ततश्च तेषाम् उपालम्भः कियताम् ऊह्यते । तदुक्तमाचार्याभिनवगुप्तपादैः

आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति ।
तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति ॥

येषां पुनः स्वात्मन एव भावः स्वातन्त्र्यस्वभावः कश्चित् अतिशयितो धर्मो विमृष्टतया अवतिष्ठं ते तेषामात्मौन्मुख्यशालिनां न कदाचिदपि अयमधिकारिविभागः ॥६॥

 ननु प्रमाणाधिकारिविभागाद्यनुपयोगेऽपि विधिनिषेधयोरेव वैयर्थ्यं स्यात् विषयाद्यभावात् ? इत्याशंक्य तयोः स्वरूपम् उन्मीलयति


जंथ रुई तंथ विही
 जंथ ईमा णंथि तंथ अ णियेहो ।
इमयं ह्माणं च्छिवओ
 हिअइक्ष्य मात्रि साथाणं ॥७॥

यत्र रुचिस्तत्र विधि-
 र्यत्र च नास्ति तत्र च निषेधः ।
इत्यस्माकं विवेको
 हृदयपरिस्पन्दमात्रशास्त्राणाम्॥७॥

 यदेतत् अस्ति इति ज्ञानलक्षणो विधिः नास्ति इति ज्ञानस्वभावो निषेधश्चोदनार्थः, तत्र सन्ध्योपासनादौ विधिः कलञ्जभक्षणादौ निषेधश्च इति उच्यते। तत्र इदम् आलोचनी यम् , - अनुष्ठातुः प्रवृत्तिनिवृत्तिप्रयोजनतया वि धिनिषेधयोर्व्यापारः, 'अज्ञातज्ञापकत्वे सति अप्र वृत्तप्रवर्तको विधिः' इत्युक्तत्वात् । तत्र किं तज्ज्ञानमात्रेण प्रवर्तते उत स्वेच्छानुगुण्यात् , यदि ज्ञानमात्रेण सन्ध्यानुपासकः कलाञ्जभक्षको वा न कश्चित् आलोकेत, यदि तु स्वेच्छानुगु ण्यात् तदनुमातॄणां रुचिमेव विधिनिषेधौ अनु वर्तेते इति अर्थो भवति ततश्च तेषां सन्ध्यो पासनादौ यत्र रुचिस्तत्र विधिः यत्र वा कल ञ्जभक्षणादौ न रुचिस्तत्र निषेधः इति अनया भङ्ग्या सन्ध्योपासनादावेव अरुचिश्चेत् तत्र निषेधः कलञ्जभक्षणदावेव चेत् रुचिस्तत्र च विधिः, इति अर्थतत्वनिश्चयः स्यात् इत्यक्र मेण अस्माकं परमेश्वरविमर्शपर्यायपूर्णाहंभावभू षितानां विवेको विधिनिषेधयोस्तात्पर्यतो नि ष्कर्षः। एतादृशे च तत्त्वनिश्चये तदेव नः शास्त्रं- यत् सर्वसंवित्संघट्टात्मनः स्वहृदयस्य प रितः पृथिव्यादितत्त्वपरंपराक्रोडीकारप्रावीण्येन स्पन्दः परामर्शात्मा चमत्कारः, पारमेश्वरः परा-


मर्श एव हि आगम इति प्रागपि अवोचाम ।

तदनुमातॄणाम् इच्छाशक्तिरेव प्रवृत्तिनिवृत्त्यौ न्मुख्यात् विधिनिषेध इति व्यपदेशभेदम् अनु भवति इति यावत् । यदुक्तं संवित्प्रकाशे

'त्यागः शक्यक्रियो यस्य स हेय इति निश्चयः ।
त्यक्तुं न शक्यते यच्च तदुपादेयमित्यपि ॥'

इति । मया च उक्तं संविदुल्लासे

'प्रामाणिकी विधिनिषेधकथा यदि स्यात्
 पर्यन्ततः परम एव शिवः प्रमाणम् ।
सर्वान्तरः स खलु तत्र विधिं निषेधे
 कर्तुं क्षमेत विहिते च विभुर्निषेधम् ॥'

इति । श्रीकालिकामतेऽपि

'पतन्ति जन्तवो येन कर्मणा नरके ध्रुवम् ।
उत्पतन्ति च तेनैव त्रिकालज्ञा भवन्ति च ॥'

इति । एतदाशयेनैव श्रीज्ञानेन्दुकौमुद्याम्

'मनो यत्रैव विश्रान्त्या पूर्णभावमुपाश्नुते ।
अतः परं हि किं नाम शुभं क्षेत्रं भविष्यति ॥'


इति । एतेन

अमबुद्धमतीनां हि एता बालविभीषिकाः ।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् ॥'

 इति विज्ञानभैरवांशो व्याख्यातः ॥ ७ ॥

 ननु विधिनिषेधाधीना हि लोकयात्रा तयोश्च स्वेच्छामात्रजीवितत्वे तस्यां न किंचित् रूपम् इत्युक्तं स्यात् सैव संसार इत्युच्यते, तदुल्लङ्घने च न पुरुषार्थः, तत्प्रयोजनतया प्रवृत्तं च एतत्तन्त्रं काकदन्तपरीक्षाप्रायताम् उपपद्यते इत्याशंक्याह

पंजालोअणविमुहे
 वंथसहावंसअंपणो हिअए।
संकाविसवेएणे वि
 सारभयेण मुह्यहे लोओ ॥८॥


पर्यालोचनविमुखे
 वस्तुस्वभावस्यात्मनो हृदये।
शंङ्कारविषवेगेन इव
 संसारभयेन मुह्यते लोकः ॥८

 योऽयं लोको दृश्यवर्गविलक्षणो द्रष्टृत्वधर्मा तत एव परमेश्वरवत् आत्मनो विश्वशरीरत्वपञ्च कृत्यकारित्वाद्यैश्वर्ययोगेऽपि पशुत्वाभिमानी मा तृवर्गः, स्वस्य यत् हृदयम् इच्छाज्ञानक्रियात्म कशक्तित्रयमेलापरूपम् अन्तस्तत्त्वं तत् परामर्शं प्रति औदासीन्यम् .अवलम्बते, अत एव संसा रात् जननमरणरूपात् लोकयात्राव्यवहारात् बिभ्यति ।


द्वितीयात् वै भयं भवति

इति उपनिषत्प्रक्रियया भेदप्रथोपारूढं चाकित्यम् उद्वहन् मुह्यति, आत्मनः पारमैश्वर्यावस्थामनादृत्य तत्प्रमोषात् अन्तः संक्लिश्यते, यथा सर्पदंशाभावे ऽपि विषावेशशंकाशाली स्वस्य मनसि सर्पभ्रमदा यिनो रज्ज्वादेः पदार्थस्य वस्तुभूतस्वभावपर्यालो चनानपेक्षायां तात्त्विकसर्पदंशवत् मूर्छामरणादि जनितव्यथाम् उपगच्छते तद्वत् , यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभावं पर्यालोचयि तुम् उन्मुखीभवति तदा न कश्चित्संसारशब्दः सार्थतया उपलभ्यते - स्वविजृम्भात्मतयैव अस्य विमृश्यमानत्वात् । तथा च उक्तम् आचार्याभि नवगुप्तपादैः

स्वतः स्वच्छात्मा स्फुरति सततं चेतसि शिवः
पराशक्तिश्चेयं करणसरणिप्रान्तमुदिता ।


तदा भोगैकात्म स्फुरति च समस्तं जगदिदं
 न जाने कुत्रायं ध्वनिरनुपतेत्संस्मृतिरिति ॥'

इति ॥८॥

 ननु स्वात्मनो विमर्शमयः कश्चित् विशेषः संसाराद्यशेषक्लेशोपशमनसामार्थ्यशालितया उ न्मीलितः, स च तस्य स्फुरणस्वभावस्य स्फुटी करणमेव अवधार्यते न च तत्र अस्फुटत्वशंकापि अवतरितुम् अर्हति-अत्यन्तस्फुटतया उपपादि तत्वात् , यतः प्रमाणप्रमेयव्यवहारविकल्पस्य अनुपयोगः प्रवितत्य व्याख्यात इत्याशंक्याह

माणिक्कपवेऊ वि
 णिऊलिऊं णियमऊहलेहाए ।


पडिहाइ लोइआण्णं
 अह्यन्तफुडोबि अफुडो अंपा॥९॥

माणिक्यप्रवेक इव
 निचोलितो निजमयूखलेखया।
प्रतिभाति लौकिकाना-
 मत्यन्तस्फुटोपि अस्फुट आत्मा ॥९

 आत्मरूपो हि परमेश्वरः प्रकाशोत्कर्षत्वात् अशेषभुवनव्यापनक्षमत्वाच्च विश्वविकल्पकल्पना मयीमर्चिःप्ररोहपरम्पराम् उपर्युपरि उन्मीलयन्

'तत्सृष्ट्वा तदेव अनुप्राविशत्'

इति उपनिषत्प्रक्रियया तयैव च निचोलितः कञ्चु कितप्रायो नित्यम् आस्ते । तत्र लौकिकानां प्रमेयतयालोक्यमाने विश्वस्मिन् व्यवहर्तॄणां प्रमा-

तॄणाम्

अत्यन्तस्वच्छता यावत्स्वीकृत्यानवभासनम् ।

इति तन्त्रालोकस्थित्या प्राकट्योद्रेककक्ष्यारूढतया विम्रष्टव्योऽपि असौ मध्याह्नमार्तण्डमण्डलन्या येन तत्तद्रश्मिपरम्परास्फुरणप्राचुर्येण रश्मिवत् गुणसाधर्म्यात् अप्राकट्यावस्थाम् अधितिष्ठति, यथा त्रासादिराहित्यात् अत्यन्तस्वच्छो माणि- क्योपलखण्डः स्फुरदुरुमरीचिमञ्जरीपर्यन्ततयैव माणिक्यवत् उत्कृष्टम् इति न अध्यवसितुं शक्यते, तद्वत् आत्मनोऽपि स्वशक्तितिरोहित- त्वादेव अस्फुटत्वशंका, एवम् उभयस्वभावताया- मेव अस्य विश्वव्यवहारौचित्यम् ॥९॥

 ननु स्फुटत्वमस्फुटत्वं च एतत् अन्योन्यं विरुद्धम् एतद्धर्मद्वयं कथं नाम संगच्छते इत्या- शंक्य तादृशः कश्चिद्विमर्श आम्नायते यद्वत्तया च अस्य परामर्शः पुरुषार्थतया पर्यवस्यति इति उपपादयति

उद्यो जलई पआसो
 लोआलोअस्स मङ्गलपडीवो ।

विमरिसदसामुहाण
तद्दह्य मलालितल्लनिच्छथो॥१०॥

ऊर्ध्वो ज्वलति प्रकाशो
 लोकालोकस्य मङ्गलप्रदीपः।
विमर्शदशामुखेन
 दह्यते मलालितैलनिष्यन्दः ॥१०॥

 यो ‘ममेदं, जानामि, मम स्फुरति' इति अशेषव्यवहारानुस्यूतः प्रकाशरूपोऽर्थः स खलु लोक्यमानस्य भावराशेरलोक्यमानस्य खपुष्पादे रभावजातस्य च प्रदीपवत् प्रकाशतया अनुभूयते, स तादृक्प्रकाशाभावेन विश्वस्य अन्धतमसत्वाप त्तिरिति प्रागपि अवोचाम, अत एव हि असो मङ्गलतया उपन्यस्तः, इदमेव हि तन्महन्मङ्गलं यत् स्तम्भकुम्भादीनाम् अन्योन्यस्वभावपरिहा-


रशंकां निःस्वभावत्वसंभावनां व्यपोह्य तेषां तथा- भावत्वेन अवस्थापनम् । स च ऊर्ध्वः-स्वयंप्रका शतया प्रकाश्यवर्गोत्तीर्णो भवन् ज्वलति संप्र तिपत्त्या स्फुरति, तथा विमर्शाख्य इति यः कश्चित् स्वभावतया स्वीकर्तव्यः, अन्यथा दर्प णादिप्रकाशवत् अस्य जाड्यकश्यानुप्रवेशप्रसंगः। उक्तं च प्रत्यभिज्ञायाम्

'प्रकाशोऽर्थोपरक्त्तोऽपि स्फटिकादिजडोपमः।'

इति । तस्य च विमर्शस्य या दशा- स्फुरत्ताव स्था, तस्या मुखेन-औन्मुख्ययोगेन, मला नाम्-आणवकार्ममायीयानाम् , आलिः - पार म्पर्यात्मा संचयः, प्रकाशेन कर्तृभूतेन, दह्यते स्वात्मानुप्रवेशितया स्वीक्रियते, दीपोऽपि एव मेव ॥ १०॥


संमो हिअयपआसो
 भवणस किआअ होइ कंतारो।
सोचि अ किआविमस्रो
 स्वंथा खुहिआ अ विंसविंथारो
॥ ११॥

सन्नेव हृदयप्रकाशो
 भवनक्रियाया भवति कर्ता।
सैव च क्रियाविमर्शः
 स्वस्था क्षुभिता च विश्वविस्तारः ॥११॥

 हृदयप्रकाशो हि सर्वस्य अस्ति इति वक्तव्यः,

असत्त्वे स्वव्याघातप्रसंगात् । यथा उपनिषत्


असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः।।

इति । तस्मात् स्वात्मरूपो हृदयप्रकाशः सन्नेव, सन्नित्येतत् प्रकृतितः प्रत्ययतश्च पर्यालोचनीयः, अस्तेर्धातोः शतरि खलु एवमुपपद्यते, तत्र शक्यार्थो भवनाख्यक्रियाप्रत्ययांशस्य कर्ता इति स्वीकार्यः। ततश्च सन्नित्यस्य भवनलक्षणायाः क्रियायाः कर्ता इत्यर्थो भवति, सैव भवनक्रिया कर्तृतामयी विमर्श इत्युच्यते, यदा स्वस्मिन् हृदयप्रकाशस्वरूप एव आत्मनि तिष्ठति, तदा विमर्शः शुद्धो विमर्श एव इत्येव व्यवह्रियते,


६ तिष्ठतीति, यदुक्तं तन्त्रालोके

'अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ।
क्षोभोतदिच्छतत्वेच्छामासनं क्षोभणां विदुः ।।

इति ।

'ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमृच्छति ।
विश्वबीजादतः सर्वं बाह्यं विम्बं विवर्त्स्यति ।।'

इति च ।


पं. ४ ग० पु० प्रकृतेरर्थो भवनेति पाठः । यदा-तु विकल्पोपश्लेषलक्षणं क्षोभम् अनुभवति, तदा विश्वविस्तारः प्रपञ्चस्फुरणवैचित्र्यात्मा वि मर्श इति, तत्र अधिको विशेषणांशः कश्चित् उत्पद्यते। एवं च प्रकाशस्य विमर्शः स्वभाव इत्थं स्वीकार्यः ॥ ११ ॥

 ननु विश्वव्यवहारो हि बहिर्ग्राह्यार्थतया क र्तुम् उच्यमानः कथम् आत्मस्वभावो विमर्शः स्यात् इत्याशंक्याह

पुहवीपरमशिवाणं
 पश्चाहारे पआसपरमत्थे।
जो अअंणोणविसेसो
 सोचिअ हिअंअस्स विमरिसंमेसो
॥ १२॥


७ विकल्पोपश्लेषलक्षणं - स एवाहमित्येवं रूपम् , क्षोभम् - इद मित्येवंरूपम् ।

८ विशेषणांशः-समनाशिवरूपः ।

पृथिवीपरमशिवयोः
 प्रत्याहारे प्रकाशपरमार्थे ।
योऽन्योन्यविशेषः
 स एव हृदयस्य विमर्शोन्मेषः
॥ १२॥

 परमशिवात् उपरि न कर्त्रन्तरस्फुरणं, पृथ्व्या उपरि न कार्यान्तरोत्पत्तिश्च, यो मध्यवर्ती तत्त्व संघातरूपोऽर्थः तस्य प्रत्यक्षादिप्रमाणोपगृह्यमा णस्य पर्यन्ततः प्रकाश एव अनुप्राणनतया स्व भाव इति अन्वयव्यतिरेकाभ्याम् अवधार्यते, ततश्च अन्तः स्वात्मा प्रकाश एव बहिः प्रकाश्य प्रपञ्चतया स्फुरति, इत्येतावत् अभ्युपगन्तव्यम्।


९ विमर्शोन्मेष:- इदमित्येवंरूपः ।

१० प्रकाश एवेति, पृथिव्यादितत्त्वसंघातो हि प्रकाशरूप एवास्ति न तु विमर्शरूपः इत्यत उक्तं प्रकाश एवेति । अत्र श्लोकद्वयेऽयमाशयः हृदयं ताम प्रतिष्ठास्थानत्वमुच्यते, तच्च जडानां चेतनं, तस्यापि प्रकाशा त्मत्वमित्युक्तं-प्रकाश एवातुप्राणेति, तस्यापि प्रकाशस्य विमर्शशक्ति रित्युक्तं स च विशेष इति, परमे पदे विश्रान्तस्य विश्वस्य हृदयं विमर्श रूपं मन्त्रात्मकमित्युक्तं द्वितीयसूत्रश्लोके - पृथिवीपरमेति । ततश्च षट्त्रिंशतोऽपि तत्त्वानां प्रकाशस्वभावत्वा विशेषात् पृथिवी आप इत्यादिरन्योन्यविशेषतो व्यवहारो न संभवति, व्यवह्रियते च विशेषः प्रत्यक्षमेव लोकेन, अन्यथा जलस्थलविभागादे रर्थक्रियाप्रत्यायनानुपपत्तेः, स च विशेषः स्वहृद यगतया विमर्शयुक्त्यैव उत्पद्यते, उत्पत्तिश्च ता दात्म्ये पर्यवस्यति यद्यत् अजडं तत् तदेव हि इति उक्तत्वात् । उन्मेषपदेन एतदाह, स्वात्मविमर्श द्रुमस्य पल्लवपुष्पादिप्रायम् एतद्विश्ववैचित्र्यस्फुर- णमिति ॥१२॥


१६ प्रकाशस्वभावत्वादिति । तथा चोक्तं प्रत्यभिज्ञायां

'तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं परम् ॥'

इति ! तथा

'तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्फुटम् ॥
स एव विमृशत्वेन नियतेन महेश्वरः ।
विमर्श एवं देवस्य शुद्ध ज्ञानक्रिये यतः।।

इति।

१२ पुष्पेति, समनारूपेदन्ताविमर्शरूपं पुष्पम् ।  अथैनं विमर्शमेव द्रढयितुं षट्त्रिंशत्तत्त्वानाम् अन्योन्यतो विशेषसृष्टिक्रमानुक्रमानुगुण्येन उप पादयन् आदौ शिवतत्त्वम् आलोचयति

तह तह दीसंवाणं
 संत्ति सहसाण एकसंघट्टो।
णिअ हिअय-दुमरुवो
 हुइ शिवो णाम परमसंत्स्पन्दो ॥१३॥


तथा तथा दृश्यमानानां
 शक्तिसहस्राणामेकसंघट्टः।
निजहृदयोद्यमरूपो
 भवति शिवो नाम परमस्वच्छन्दः ॥१३॥


१३ अनुक्रमानुगुण्येनेत्ति, आवरणक्रमानुकारेण विशेषस्फुटीकारः, इति भावः।

१४ संघट्टः-तत्तदनुत्तराद्यसंख्यशक्तीनां संघातरूपः ।  तेन प्रकारेण अनुभूयमानानां शक्तिसहस्राणाम् एकसंघट्ट ऐक्यम् अनुभवन्नेव सृष्टिसंहाराद्यन्यो न्यविरुद्ध क्रियायोगपद्यभूमिर्भवति, यश्च उद्यमो भैरवः' (१-५) इति शिवसूत्रस्थित्या स्वहृदयोद्यो गस्वभावतया अनुभूयते, यश्च परमस्वच्छन्द इति प्राग्वत् विश्वोत्तीर्ण एव उच्यते, अन्यस्तु विश्वो त्तीर्णविश्वमयः परमशिवभट्टारकः पश्चात् प्रकटयि ष्यते, एवंविधः शिवो नाम भवति, अयंभावः उन्मेषनिमेषात्मनां तत्त्वान्तरदुर्लभेन स्वातन्त्र्येण चिदाह्लादलक्षणशक्तिद्वितयसामरस्यमात्रक्रोडीकृ


 १५ योऽयं नत्वा नित्यविशुद्धौ' इत्यनेन लोकानुग्रहार्थे मङ्गला- चरणपूर्वकं विश्वोत्तीर्ण-विश्वमय-प्रथमपरिस्पन्दात्मप्रकाशस्वभावनिर्देशः कृतः तस्य रूपावतारापेक्षया अत्र विशेषार्थोऽपि यथा

यदयमनुत्तरमूर्ति-
 निजेच्छया निखिलमपि जगत्स्रष्टुम् ।
पस्पन्दे स स्पन्दः
 प्रथमा शिवतत्त्वमुच्यते तज्ज्ञैः ।।

इति । तदनुसारेण संघट्टपदेन त्रिकोणरूपत्तापि धोतिता । तदुस्तै

 'व्यापिनी बिन्दुविलसत्रिकोणाकारतां गता।

इति । एतदेवानिमश्लोके सूचितम् ' हृदयत्रिकोण' इत्यादिना ।

 १६ परशिवभट्टारकस्त्वन समनारूढोऽनाश्रितसंज्ञकः । यच्च अग्रे

वक्ष्यते ' स्थूलेष्वपि ' इत्यत्र श्लोके । तेच्छाज्ञानाद्युत्तरोत्तरशक्तिपरम्परापरिग्रहौन्मु ख्यात् 'स्वशक्तिप्रचयोऽस्य विश्वम्' (३-३०) इति शिवसूत्रस्थित्या विश्वविक्षोभात्मकम् अन्त र्बहिःशक्तिविचित्रवैचित्र्यविजृम्भणोद्भूतोद्भावन प्रागल्भ्यस्वात्मचैतन्योद्यन्तृतापरिस्पन्दसारः प्र मातृविशेषः परमशिवभट्टारक इति ॥ १३ ॥

अथ क्रमप्राप्तं शक्तितत्त्वं परामृशति

सोचिअ वीसंमिहतं
 णाउं चुं उमुहो होतो।

॥१४॥

स एव विश्वमीक्षितुं
 स्थातुं कर्तुं च उन्मुखो भवन्।


शक्तिस्वभावः कथितो
 हृदयत्रिकोणमधुमांसलोल्लासः॥ १४॥

 य उक्तस्वभावः शिवः स एव शक्तिस्वभावः कथितः, तस्यैव किञ्चिदुच्छूनतायाम् या अवस्था तया शक्तिशब्दव्यपदेश्य इत्यर्थः, तस्य चायं स्व भावः- यद्धृदयरूपेण इच्छाज्ञानक्रियात्मकविश्व विकल्पपर्यायकाध्वत्रयसामरस्यलक्षणेन नित्यप्रवृ त्तचर्वणोत्सवत्वात् अन्तर्मग्नसंविदानन्दस्पन्दसंधु क्षणरूपेण मधुना मांसलम् अत्यन्तवृंहितं परि चारक्रियार्हं महातडाकाम्भः संसारकल्पं 'बहु स्यां प्रजायेय' इत्याम्नायस्थित्या स्वयमेव स्वह्ला दयोद्यमवमनोपक्रमम् आत्मानमुल्लासमानाला दातिशयम् अनुभवति इति ॥ १४ ॥

अथ सदाशिवेश्वरौ पर्यालोचयति

णाणं किअति दोयवि
 पहंमुमेसंमि सलुसिवो देवो।
6

वीयाए उल्लाहे
 वील सो होइ ईसोरो णाम्
॥१५॥


ज्ञानं क्रियेति द्वयोरपि
 प्रथमोन्मेषः सदाशिवो देवः ।
द्वितीयाया उल्लेखे
 द्वितीयः स भवति ईश्वरो नाम ॥१५॥

 ज्ञानं हि नाम अहंभावावभासनात्मा सर्वप्रा णिनां स्वयं वेदनसिद्धस्वभावः, क्रिया च कर चरणानुबन्धिनी सर्वसाक्षात्कारयोग्या परिस्फु रति, तत्र जानामि करोमि इत्यादिवत् जानामि इत्यादावपि आदर्शावलोकनादिन्यायात् अस्म च्छब्दार्थ एव युष्मदाद्यर्थतया अवभासते इति

अहन्तैव सर्वत्र आत्मतत्त्वम् । यदुक्तं

'अस्तिशेषाः क्रियाः सर्वाः कार्यशेषं च कारकम् ।
एकशेषं च वचनं पुरुषोत्तमावधिः ।।'

इति । अहन्तोल्लेखश्च ज्ञानशब्दार्थः । एवं करो षि करोमि इत्यस्यैव च परमार्थक्रियाविज्ञाने यत् अहंभावानुष्ठा इत्यवधार्यते केवलम् अस्याः इदंभावे प्राचुर्येण अनुभूयमानतया भेदव्यवहारः। एवं ज्ञानं क्रिया इति यौ भावो तयोर्मध्ये प्रथ मस्य ज्ञानस्य उद्रेके द्वितीयायाश्च अर्थात् अस्फु रणत्वरूपेण न्यग्भावे सति 'सदाशिवाख्यतत्त्वम्' इत्याख्यायते,-यदधिष्ठातृतया सदाशिव इत्येव नाम्ना कश्चित् विष्णुरुद्रादिसाधारण्येन उपपद्यते ।


 १८ अस्फुरणल्वरूपेणेति, बाक्कमानुसारेण पश्यन्त्यां क्रियाप्रारम्भस्य ज्ञानप्राधान्यात् क्रियाया अस्फुरणस्वम् , ततश्च नादप्रारम्भज्ञानावसानत्वं सदाशिवः -- ज्ञानोद्रेकात् , अतश्चेदमप्यायातं -- मध्यमायां ज्ञानप्रारम्भस्य क्रियाप्राधान्यात् ज्ञानास्फुरणत्वं, ततश्च ज्ञानप्रारम्भक्रियावसानत्वमीश्वर: क्रियापरिभोगोद्रेकात् । तदुक्कं शिवदृष्टौ

'कदाचिज्ज्ञानशक्तितः।
सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं स्थितिम् ॥
क्रियाशक्तिसमाभोगात् ।'

इति । एतदेव प्रकाशितं मालिनीनिर्णये परात्रिंशिकायाम् । स च देवः ईदृशक्यौत्कर्ष्यात् क्रियायाश्च अत्य न्तापकर्षभावात् क्रीडाव्यवहाराद्यनेकार्थानुसं धाने समर्थः, या च तत्र द्वितीया तस्या उल्लेख: स्फुरणापरपर्याये प्राचुर्ये ज्ञानस्य स्तैमित्ये सति ईश्वरो नाम इति भावः, “ईश्वराख्यं तत्त्वम् इत्याम्नायते, तदधिष्ठाता च कश्चित् ईश्वर एव प्रमाता । एतदुक्तं भवति-अहन्तेदन्तालक्षणयो र्ज्ञानक्रिययोराद्योद्रेकात् उन्मीलितचित्रन्यायेन व्यक्ताव्यक्तविश्वमातृतास्वभावं सदाशिवाख्यं तत्त्वम् । एतद्विपर्ययेण क्रियाशक्त्यौज्ज्वल्ये व्य क्ताकारविश्वानुसंधातृरूपम् ईश्वरतत्त्वमिति॥१५॥

अथ शुद्धविद्यामुद्योतयति

णायधरामो अंपा
 णेअसहावो यं लोअववहारो।
एकेरसं सियाडी
 जरु गसा सा खु णिंथुसां विजा ॥१६॥


पं० १ क० ग० पु० इक्छन्त्युत्कर्षादित्ति पाठः ।

ज्ञातृत्वधर्मा आत्मा
 ज्ञेयस्वभावश्च लोकव्यवहारः।
एकरसां संसृष्टिं
 यत्र गतौ सा खलु निस्तुषा विद्या ॥१६॥

 ज्ञातृत्वधर्माविभिन्नोऽहंभाव आत्मा परमेश्वरः, तत्रैव चिच्छक्तिक्रोडीकार्यात्मीयसद्भावा लोक व्यवहारस्फुरत्ता परामर्शप्राणस्य प्रपञ्चप्रसरस्य हानोपादानादिरर्थक्रिया च इत्येतौ द्वावपि अन्यो न्यप्रतीतिसामरस्यलक्षणं प्राप्ताविति योऽर्थः सा निस्तुषा शुद्धा विद्या, सा खलु इति प्रसिद्ध्यु त्कर्षोपपादनम् ॥ १६॥


१९ निस्तुषेत्यत्र अयं भावः

'शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् ।'

इत्यत्र भावप्रत्ययेन प्रकृत्यर्थप्रत्ययेन च मायोत्तीर्णमायान्तर्वर्तिविभागद्वयं बोधितं, तथा च सति

'तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः ।
पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ।।'

इत्येवं रूपं यदावरणं तत् तुषशब्देनोक्तं तद्रहिता निस्तुषेति । अथ मायाम् उन्मीलयति

एकरसंमि सहीवं
 उंभावंत्तीं विअंवसिंपाई।
मायेति लोअवलणो
 परमसुअतस मोहिणी संत्ती ॥१७॥


एकरसे स्वभावे
 उद्भावयन्ती विकल्पशिल्पानि ।
मायेति लोकपतेः
 परमस्वतन्त्रस्य मोहिनी शक्तिः ॥१७॥


 परमेश्वरस्य हि असाधारणो भावो विश्वस्फु रत्तात्ममहासत्वोल्लासरूपो युक्तिपर्यालोचनात् एकरसः-स्वसंविदानन्दपरिस्पन्दसौन्दर्यमात्रसा रतया, तेन पुनः विकल्पनोल्लंघनौचित्येन भेदवा दस्य अपवदिष्यमानत्वात् , एवंस्थितेऽपि तत्रैव चैत्र-मैत्र-स्तम्भ इत्यादयो ये विकल्पाः कट कमुकुटाद्याकल्पशिल्पवत् भेदावभासबाहुल्येऽपि वारुत्वचमत्कारितया हृदयंगमाः सन्तो वेद्यवि लासाः तानि उपर्युपरि उन्मीलयन्ती, तत एव मपि बन्धविभीषिकया बद्धमिव मुक्त्यभिमानेन व्यत्यासयन्ती शक्तिर्माया इत्युच्यते, यतोऽयम् ईश्वरः परमस्वतन्त्रः, इयमेव हि तस्य स्वातन्त्र्यो स्कर्षकाष्ठा यत् स्वात्मावभासैकात्मजीवितजाति भेदप्रभेदवैचित्र्योत्पादनप्रावीण्यम्-येन अतिदु र्घटकारी परमेश्वर इत्याद्युद्धोष्यते, अत एव असौ लोकपतिः देहाक्षभुवनादेः प्रपञ्चस्य ईश्वरः । मा याव्यतिरेकेण भेदप्रथापारमार्थ्यस्य प्रपञ्चस्य अ भावः, तदभावे च तत्प्रतियोगिकस्य परमेश्वरस्य ऐश्वर्यानुपपत्तिरिति न किंचिदपि उह्येत, तदिदं माया नाम, तस्य उत्कृष्टं स्वातन्त्र्यम् । यदुक्तम स्मद्गुरुभिर्मनोऽनुशासनस्तोत्रे


पं० ५ क० ग० पु. एकं मुक्तमपि इति पाठः ।

स्वातन्त्र्यापरपर्यायमायाजाड्यविलोपनात् ।
विलीय तद्रसीभूतं विश्वानन्दमुपास्महे ।।

इति ॥ १७॥

अथ मायाविभूत्यात्मकं कलादिपञ्चकम् अर्थ द्वारा परीक्षते

संबअरो संवंणू
 पुंणो निचो असंकुअ।
विपरीदं व महेसो
 जाही ता होप्तत्तिं पंचसतीला


सर्वकरः सर्वज्ञः
 पूर्णो नित्य असंकुचितश्च ।
विपरीत इव महेशो
 याभिस्ता भवन्ति पञ्चशक्तयः

 परमेश्वरो हि विश्वस्य कर्ता, ज्ञाता च । तत

एव स्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च प्रार्थनीया भावात् । स्वव्यतिरिक्तस्य अवच्छेदकस्य कस्यचि द्भावस्य असद्भावात् नित्यः-प्राक्प्रध्वंसाभाव लङ्घी । तत एव संकोचलक्षणनियन्त्रणाशून्यः । तादृशोऽपि सन् असौ याभिः शक्तिभिः निबन्ध नीभूताभिः विपरीत इव किंचित्कर्तृत्वादिधर्म युक्त इत्यवभासते, ताः पञ्च शक्तयो भवन्ति । तदुक्तं श्रीक्रमोदये

'रागो माया कला विद्या नियतिः काल एव च।
पञ्चकृत्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः ।।

इति । कला तस्य किंचित्कर्तृत्वहेतुः, विद्या किंचिज्ज्ञातृत्वकारणं, रागो विषयेषु अभिष्वङ्गः, कालो भावाभावानां भासनाभासनक्रमः, नियतिः मम इदं न मम इदम् इत्यादिनियमहेतुः, एतत्प ञ्चकं च आगमेषु स्वरूपावरकत्वात् कञ्चुकम्


इत्युच्यते । एतदभावे हि पुरुषः परमेश्वरवत् अति

प्रकटबोधशक्तिः, अन्यथा पाषाणवत् अत्यन्त निमग्नेश्वर्यो भवेत् ॥ १८॥

अथ पुरुषस्वभावम् उन्मीलयति

जो एस वीसांणांध‌अ
 सेलसो सुधसंविलसंभू।
वण्णअ परिगमई
 तंस दसा काबि पूरुसो होई॥ १९॥


य एष विश्वनाटक
 शैलूपः शुद्धसंविच्छम्भुः ।
वर्णकपरिग्रहमयी
 तस्य दशा कापि पुरुषो भवति।।१९।।

 परमेश्वरो हि अहमेव सर्वम् इति वैश्वात्म्यप्र

थानुभूतिसारचमत्कारोत्तरतया शुद्धां संकोचकल ङ्कशंकाशून्यां संविदं स्वातन्त्र्यस्वभावविद्यामयीम् अनुभवन् अनेनैव हेतुना नर्तक आत्मा' (३-९) इति शिवसूत्रस्थित्या विश्वनाटकस्य शैलूषो नट इति व्यपदिश्यते । विश्वं च पृथिव्यादिशिवान्तं तत्त्वसन्दोहात्मकं, स च शंभुः शृङ्गारकरुणादिर सास्वादनीयशब्दस्पर्शाद्यनुभवात्मकं शं सुखं प्रे क्षकाणामिन्द्रियाणां भवति अस्मात् इति कृत्वा, तस्य च विश्वनाट्याद्यभिनयोन्मुखस्य भूमिकाव लम्बनलक्षणेन अर्थेन या अवस्था सा पुरुषो भवति 'पुरुष' इति व्यपदेशौचित्यम् अनुभवति॥१९॥

अथ प्रकृति प्रकटयति

णाण-किआ-माआणं
गुणाण सभरअह पहवाणं।

अविहाआ पंथाय
 तत्तपआडिडत्ति संभवी सत्ती
॥ २० ॥

ज्ञानक्रियामायानां
 गुणानां सत्त्वरजस्तमःस्वभावानाम्।
अविभागावस्थायां
 तत्त्वं प्रकृतिरिति शांभवी शक्तिः॥२०॥


 ज्ञानं नाम प्रकाशः, क्रिया विमर्शः, माया तु अहमिदम् इदमहम् इति किंचिद्भेदप्ररोहेऽपि सदाशिवेश्वरावस्थापदाहन्तापर्यवसायिनी शक्तिः, तासां परमेश्वरशक्तिभूतानामपि व्यामोह्यमानप शुजनापेक्षया गुणत्वं, याभिः सुखदुःखमोहात्म कोऽयं लोकव्यवहारः, तन्मयीनां च तासां या विभागशून्या तुलाधारणवत् अत्यन्तावैषम्यशा लिन्यवस्था, तस्यां पर्यालोच्यमानायां प्रकृति रिति तत्वं भवति ॥ २०॥

 अथ अहंकारबुद्धिमनांसि तत्त्वद्वारेण उपद र्शयति

त्यंल्लोलंताल सह
 हिअअंबुणिहिमि तिणिं कलपाणं ।
आअढंतिल दंतं
 तथ अहंथं व एवथ ऊवति ॥२१॥


कल्लोलायमानानि सदा
 हृदयाम्बुनिधौ त्रीणि करणानि ।
आकर्षन्तीदन्तां
 तथा अहन्तां च अत्र अर्पयन्ति २१

 इति व्याख्यातरूपं स्वहृदयं चैतन्यं सर्वस त्वास्पदत्वादिना धर्मेण


पं० ३ ग० पु. बुद्धिमनसा तत्वमर्थद्वारेणेति पाठः।

पं० १२ क. पुर तद्वदहन्तामिति पाठः । 'नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ।'

इति स्थित्या समुद्रतया अध्यवसीयते । तत्र कालविशेषावच्छेदात् महातरङ्गवत् आचरन्ति त्रीणि करणानि प्रमातृरूपस्य कर्तुः साधकत मानि इन्द्रियाणि विद्यन्ते, तानि च यथा इद न्तानुप्राणितां विषयवैचित्र्यसम्पदं हृदयान्तराक र्षयन्ति हठात् अनुप्रवेशयन्ति, तद्वत् अहन्ता सारां स्वहृदयचिच्छक्तिमपि अत्र वेद्यभूमौ अर्प यन्ति, अनैसर्गिकत्वेऽपि नैसर्गिकतया अनुभा वयन्ति । तानि च अहंकारो बुद्धिर्मन इति व्यव ह्रिपन्ते, तत्र मम इंदम्, न ममेदम् इति आत्म नोऽभिमानसाधनम् अहंकारः, अध्यवसायनि मित्तं बुद्धिः, संकल्पविकल्पहेतुः मनः । अय मर्थः- अहंकारादीनि आत्मनोऽन्तःकरणानि न केवलं बहिरवलोकितान् विषयान् अनुभावयन्ति किं तर्हि स्वयम् आक्रान्तया प्रमाचिच्छक्त्या अन्तर्वर्तिनमखिलमपि वेद्यवर्गं विषयीभावयोग्य तानुप्रवेशार्थे प्रकाशस्वभावतापादनात्मकपावनीकरणयुक्त्या अनुगृह्णन्ति, इति कल्लोलायमा नानि । एतानि हृदयमहाम्बुराशौ महातरङ्गा इव, ज्ञानेन्द्रियाणि तुं तरङ्गानुतरङ्गन्यायम् अनु

वर्तन्त इत्यर्थः॥ २१ ॥

अथ ज्ञानेन्द्रियाणि उन्मुद्रयति

 हिअअंविअंस वि गुणो
बिसआलोऊ तिसिंखलो होइ ।
 णाणंदिअदीपेस
णिअंस-णिअंस-गोलंगणिवत्तुंगेऊ॥२२॥


हृदयस्थितस्य हि विभो
 विषयालोको विशृंखलो भवति ।
ज्ञानेन्द्रियदीपेषु
 निजनिजगोलाग्रनित्यलग्नेषु॥२२॥

 विभोः परमेष्टिनः परमस्वातन्त्र्यशालिनः स्व

शक्त्यवच्छिन्नाशेषदेशकालस्वभावस्य महाप्रका शस्य तदुचितं किंचित् सर्वोत्कृष्टं स्थानमस्ति यध्हृदयं नाम । तत्र अवस्थितस्य चास्य बा ह्यानां शब्दस्पर्शादीनां विषयाणामालोकः आ समन्तात् लोकनं साकल्यं तत्स्वान्तश्चर्वणचातु र्यात् विशृंखलो भवति । बहिर्भावस्वभावनियन्त्र णातिक्रान्तो भवतीत्यर्थः । तत्र तत्र च एत देव निबन्धनं- यत् ज्ञानप्रधानानाम् इन्द्रियाणां प्रदीपप्रायाणां ये निजनिजास्तत्तदसाधारणा गोलाः श्रवणशुष्कुल्यादयः तदग्रेषु बहिर्विषयौ न्मुख्यानुगुणेषु प्रदेशेषु सार्वकालिकं लग्नं स्फुर त्तया अवस्थानम्, तानि च-श्रोत्रं त्वक् चक्षु र्जिह्वा प्राणम् इति पञ्चधा भिद्यन्ते, शब्दस्पर्श रूपरसगन्धानां ग्राह्यानां क्रमेण ग्रहणोपकरण त्वादेषां कारणत्वं लक्षणम् ॥ २२ ॥


अथ कर्मेन्द्रियाणि उन्मीलयति

होन्ति कलणाई पर्वहं
 कंयपहीणाइ लोअणाहंस।
कन्दल-सेरं जहिं
 जनो जडादेविलषणो हातो॥२३॥


भवन्ति करणानि पञ्च
 कर्मप्रधानानि लोकनाथस्य ।
स्पन्दते स्वैरं यै-
 र्जनो जडाद्विलक्षणो भवन् ॥२३॥

 यो लोकनाथः सृष्ट्यादिनिर्वाहकतया स्वामी, तस्य कर्मप्रधानानि 'ज्ञानेन्द्रियाणां क्रियास्पर्शे ऽपि ज्ञानप्राचुर्यवत्' ज्ञानानुषङ्गेऽपि क्रियाश क्त्युद्भटानि पञ्चेन्द्रियाणि भवन्ति । खलु प्रसिद्धौ, यैर्निमित्तभूतैर्जनो जननमरणाद्युपहतोऽपि जीव वर्गः जडात् स्तम्भकुम्भादेः परिच्छिन्नप्रकाशात् 8 अर्थात् व्यतिरेकतामश्नुवानः स्पन्दते ईषच्चलति। स्वैरमिति-स्वस्य उन्मीलनस्य उपकरणस्य प्रेरणं यथा भवति तथेत्यर्थः, तादृक् स्वातन्त्र्यमेव अस्य अपरिच्छिन्नप्रकाशत्वं, तानि च वाक्पाणिपाद पायूपस्थाः इति, भिद्यन्ते ॥ २३॥

अथ शब्दादिपञ्चकं विविनक्ति

वीसंकोणविरूढे
 गंथप्रमह अन्धिर पुंके।
पञ्च वि षंद्याअको
 कीलभे ल्लोङ्क-धुंऊंदैवे ॥२४॥


विश्वोद्यानविरूदानि
 गन्धप्रमुखानि सुगन्धीनि पुष्पाणि।
पश्चापि आजिघ्रन्
 क्रीडति त्रैलोक्यधूर्तो देवः ॥२४॥

 त्रैलोक्ये मानमेयमातृरूपे विश्वस्मिन्नपि यो

धूर्तः वैदग्ध्यावधारितव्यवहारकलापः सद्योतन स्वभावत्वात् महाप्रमाता भवन् विश्वलक्षणादुद्या नादुत्पन्नानि पृथिव्याद्यसाधारणगुणवर्गम् अङ्गी कृत्य प्रवृत्तानि सुगन्धीनि प्रकाशपरिमलपरि स्फुरणोद्भटानि पञ्चापि प्रसूनानि आजिघ्रन् ग्रहणं प्रति किंचित्कौटिल्यद्वारेऽपि आर्जवेन अनुसंदधानः क्रीडति-हर्षानुसारेण स्पन्दते स्वातन्त्र्यक्रियामुपदर्शयति इति यावत् । ज्ञानवि षयाः-शब्दस्पर्शौ रूपं रसो गन्ध इति । एषां च क्रमादाकाशादिगुणत्वं श्रोत्रादिग्राह्यत्वं वा प्रातिस्विकं लक्षणमूह्यम् । यदुक्तम् अभियुक्तैः इन्द्रियद्वारसंग्राह्यैर्गन्धाद्यैरात्मदेवताः।

स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः ।।'
इति । गन्धप्रमुखानि गन्धप्रधानानि, इति


संहारक्रमण उक्तिः ॥२४॥ अथ भूतपञ्चकम् उद्भावयति

थिणंसं कामसच्छादो
 लंखु-रसंसव शिवपआसस ।
गुरुपिण्डा इव पञ्चवि
 भूतालं मदुरण मुचयत्ति ॥२५॥


स्त्यानस्य क्रियावशात्
 इक्षुरसस्येव शिवप्रकाशस्य।
गुडपिण्डा इव पञ्चापि
 भूतानि मधुरतां न मुञ्चन्ति

॥ २५॥


 शिवात्मा खलु प्रकाशः शक्तिसदाशिवादिप रिपाट्यनुसारेण प्रस्तुतभूतपञ्चकपर्यन्तं स्त्यानी भवति-वेदितृस्वभावन्यग्भावात् वेद्यतोत्कर्षात्मकं काठिन्यमनुभवति, तादृशस्य च अस्य मधुरतां सर्वप्रमातृस्वभावेन अनुभाव्य परमशिवप्रकाशो ल्लासात्मकमहाह्लादोपभोगलक्षणं सामरस्य पञ्चापि भूतानि आकाशप्रभृतीनि न परित्यजन्ति, किंतु स्वान्तरखिलं गर्भीकृत्य प्रवर्तते केवलं शिवात् स्वच्छस्वभावात् स्त्यानताधिक्यम् एतेषां भेदः, यद्वत इक्षुरसस्य स्वपाकयुक्तिक्रमात् स्त्यानीभू तस्य माधुर्य गुडपिण्डेन न परित्यज्यते, ततश्च पृथिव्याद्यनाश्रितशिवप्रभृतीनि पञ्चत्रिंशदपि तत्त्वानि कारणवासनानुवृत्तिद्वारा परिस्फुरन्ति, इत्यनया भङ्गया तत्र शिवतत्त्वे पृथिव्यादीनि सर्वाण्यपि सत्कार्यवादमर्यादया अवतिष्ठन्ते । एवं प्रकृतिपुरुषादिषु मध्यवर्तिष्वपि उक्तोभयप्रक्रि यया सर्वाणि उपरितनानि अधस्तनानि च तत्त्वानि संमिलन्ति इति सर्वे सर्वात्मकम् इत्यर्थ निष्कर्षः ॥ २५॥

उक्तरूपस्य तत्त्वप्रपञ्चस्य पिण्डीभूतमर्थसत त्वम् आह

संवंस भुवण विंमम
यंतुलोसेसि तोत्तवल्लिं वे।

विमरिससंरम्भमयी
उजिंमल सभुणो महता सत्ती॥२६॥


सर्वस्य भुवनविभ्रम
 यन्त्रोल्लासस्य तन्तुवल्लीव ।


१ भुवनविभ्रम एव यन्त्रोल्लासस्तस्य तन्तुवल्लीव, यथैव तन्तुप्रोताः श्रीयन्नादयो यन्त्राः कण्ठभुजादिस्थाने निबध्यन्ते तथैव यत्प्रोतो भुवन विभ्रमः परमशिवनिबद्धो भवति । यदुक्तं श्रीभगवद्गीतासु

मत्तः परतरं नान्यरिकचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७-७ ॥
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥

इति । विमर्शसंरम्भः - अन्तःस्फुरत्तानुत्तरस्वातन्त्र्यात्मिका शुद्धविधा । तथा चोक्तम्

'मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ।
अष्टत्रिंशरकलायुक्तपञ्चाशद्वर्णविग्रहा ।
विद्या कुण्डलिनीरूपा मण्डलन्नयभेदिनी ।
तडित्कोटिनिभा प्रख्या विसतन्तुनिभाकृतिः ।
व्योमेन्दुमण्डलासक्ता सुधास्रोतःस्वरूपिणी।
यया व्याप्तं जगत्कृत्स्नं पराद्वयस्वरूपकम् ।
एषा स्वास्मेति बुद्धिस्तु रहस्यार्थो महेश्वर ।

विमर्शसंरम्भमयी
उज्जृम्भते शंभोर्महाशक्तिः॥२६॥

 येयं भुवनानां तत्त्वात्मनां विभ्रमो विलासः प्रसरद्रूपता सैव दार्वादिसंघटनात्मानं प्रति पुत्रि कादेः यन्त्रस्य उल्लासः, सोऽयं-संयोजनवियो जनवैदग्ध्यशालिनः परमशिवभट्टारकस्य शक्तिः स्वातन्यलक्षणा महती तत्त्वानामन्योन्ययोज्ययो जकभावेन पर्यन्ततः सामान्यप्रयोजकत्वे प्रगल्मा वृत्तिः उज्जृम्भते-पृथिव्यादिभाववर्गमिव अना श्रितशिवभट्टारकमपि क्रोडीकृत्य अभिवर्धते तत्त द्रूपतया परिस्फुरति इत्यर्थः। सा च विमर्शसंरम्भ मयी-विमर्शाख्यो यः संरम्भः स्वान्तः स्फुरन् क्रियाशक्तिस्पर्शरूपः तेन प्रकृतेत्यर्थः, या चि दानन्देच्छाज्ञानक्रियारूपशक्तिपञ्चकसामरस्यस्व भावा व्याख्यायते । ततश्च परमेश्वरपरामर्शप्रस रपरिपाटीपाटवपरमार्थमेतत् अखिलतत्त्वपरं पर म्परापरिस्फुरणप्राचुर्योज्ज्वलं विश्वविजृम्भावैचि त्र्यम् इति तात्पर्यार्थः । शंभुरत्र अनुत्तरात्मा, तस्य तादृशी शक्तिश्च तदभिन्नस्वभावा स्वरस मुदायमयी विसर्गापरपर्याया इति वर्णक्रमानुगु ण्येन व्याख्या ॥ २६ ॥

 ननु अध्वानो हि षट् इति आगमेषु प्रसिद्धाः, तत्र तत्त्वमाला कश्चिदेव अंशः, अत्र तु कथम् उक्तार्थोपपत्तिरिति आकांक्षा क्षपयन् प्रकृतगा थातात्पर्यमाह

जंअन्धानअं षकं
 तंथ पआसंथलंरवणंअंथ ।
विमरिससन्दसहावं
 अधंति सिवसत्ति जामलंलोसो


यदध्वनां च षट्कं
 तत्र प्रकाशार्थलक्षणमर्थम् ।

विमर्शशब्दस्वभाव-
मिति शिवस्य यामलोल्लासः

 अध्वानो हि षट् इति आगमेषु प्रसिद्धाः, ते च-वर्णाः पदानि मन्त्राः कला तत्त्वानि भुव नानि इति आभण्यन्ते । तत्र वर्णाः पञ्चाशत् लोकप्रसिद्धाः। पदानि आनन्त्येऽपि व्योमव्या प्यादिमन्त्रमर्यादया एकाशीतिः, । मन्त्राश्च तद्वत् आनन्त्येऽपि ब्रह्मपञ्चकम् अंशषट्कं च इति संको चदृष्टया एकादश । कला निवृत्त्यादयः पञ्च। त वानि उक्तरूपाणि षट्विंशत् । भुवनानि च का लाग्निरुद्रादीनि अनाश्रितान्तानि चतुर्विंशत्यधि कशतद्वयम्, इत्येतदखिलमपि कलापञ्चकेन क्रो डीक्रियते । तथा हि-निवृत्ती कलायां क्षकार एको वर्णः अष्टाविंशतिपदानि हृदयसद्योजातो मन्त्रौ पृथिवीतत्त्वमेकं कालाग्निरुद्रादीनि भद्रका ल्यन्तानि अष्टोत्तरशतं भुवनानि । प्रतिष्ठायां हादयष्टान्ता वर्णाः त्रयोविंशतिः एकविंशतिप दानि शिरोवामदेवौ मन्त्रौ अप्तत्त्वादिप्रकृत्यन्ता नि त्रयोविंशतितत्त्वानि अमरेशादीनि श्रीकण्ठा न्तानि षट्पंचाशढुवनानि । विद्यायां आदिधा न्ताः सप्त वर्णाः विंशतिः पदानि शिवोऽघोरश्च इति मन्त्रद्वयम् पुरुषप्रमृतीनि मायापर्यन्तानि सप्ततत्त्वानि, भीमादीनि अंगुष्ठमात्रान्तानि च सप्तविंशतिर्भुवनानि । शान्तौ तु गखकाः त्रयो वर्णाः पदानि एकादश कवचतत्पुरुषमन्त्रौ शुद्ध विद्येश्वरंसदाशिवास्त्रीणि तत्त्वानि कलादिसदा शिवान्ता अष्टादश भुवनानि । शान्त्यतीतायां च वर्णाः षोडश स्वराः पदमेकं शिव-ईशान अस्त्रम् इति मन्नत्रयं शिवतत्त्वमेकं यः शक्तिस्व भाव इति आम्नायते निवृत्त्यादीनि अनाश्रिता न्तानि पंच भुवनानि इति विवेकः । एवं सति यदेतद्ध्वनामुक्तस्वरूपाणां षट्वं तत्र यदेतदर्थ भुवनतत्त्वकलास्वभावम् अन्यत्तु वर्णमन्त्रपदा त्मकं प्रत्येकं च स्थूलसूक्ष्मपरप्रक्रियया त्रैविध्यं, तत्र.. भुवनादि प्रथममभिधेयभूतं वर्णमन्त्रादि द्वितीयमभिधानमिति विवेकः । तथा च सति वाच्यवर्गः सर्वोऽपि प्रकाशपरमार्थः, वाचकोल्ले खस्तु विमर्शवपुरिति शिवस्य प्रकाशविमर्शा त्मनः परमेश्वरस्य यामलमुभयसंसर्गारणिस्व भाव उल्लासः-उन्मेषनिमेषशक्तिद्वितययौगप द्यानुभूतिचमत्कार इत्यर्थः। तथैव श्रीविज्ञानभै रवेऽपि

भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावदन्वे मनोलयः ॥' (५६)

इति ॥ २७॥

 एवमुक्तरीत्या विश्ववैचित्र्यस्य सर्वस्यापि प्र काशविमर्शान्तर्भावम् उपपाद्य तयोरपि भावः पर्यन्तत औपचारिक इत्याह

आलंसंविथेसुमि व
 गयपुंमहाणीवसुवेणि पडिहासं।

एकसिश्चिअअंथे
 सिवसत्तिविहाअंपणं कुडिमौ॥२८॥


आलेख्यविशेष इव
 गजवृषभयोईयोरपि प्रतिभासः।
एकस्मिन्नप्यर्थे
 शिवशक्तिविभागकल्पनां कुर्मः॥ २८॥


 चित्रकृतोऽपि हि स्ववैदग्ध्यप्रकटनाय गजवृ षभादीनां भिन्नस्वभावानामपि भावानामेकतरसं निवेशयुक्त्या ऐक्यावभासः, अन्यतरसंनिवेशयु क्त्या न ऐक्यावभासश्च । एवं स्थिते यथा चित्र विशेषे गजवृषभयोः द्वयोरपि पर्यालोचकप्रमातृ ज्ञानानुसंधानधाराधिरोहवैशिष्टयेन कुम्भमण्डल

शुण्डामण्डलीभावादियोगात् ककुदकूटादिक्रमाच्च

तिलमात्रेऽपि शरीरे
 प्रेक्षध्वं कीटस्यैतावती शक्तिः।
सा स्वच्छन्दश्रियो
 विश्वशरीरस्य कियती भवतु॥ २९॥

 परमेश्वरो हि विश्वशरीर इति आगमेषु आख्या- यते, यः पुनर्मषकादिः कीटविशेषः तस्य शरीरं तावत् तिलसदृशसंनिवेशनम् तावत्यपि तत्र तस्य शक्तिः कियती?- इति प्रेक्षध्वं, परिस्फुरणपरिभ्र- मणादिभेदात् अनेकरूपा अनुभूयते 'लोट् प्रत्ययो बहुवचनं च' तत्रार्थे प्रामाण्यम् उद्घाटयितुम् - तस्य विश्वशरीरस्य सा कियती भवतु एतावती एतादृशी भवतीत्यर्थः॥ २९ ॥

 ननु विश्वशरीरतया परमेश्वरस्य शक्त्युच्छ्राय- कल्पनम् इति चेत् क्रियते तर्हि विश्वसंहारे तस्य

शक्तिन्यूनताप्रसंगः? -- इत्याशंक्याह

वीसुमेस-दसार
 देसहसणाहस जंतिले पसरो।
कललावत्थायेटिल
 बीसणिअसेवि तिलहोलो॥३०॥


विश्वोन्मेषदशायां
 दैशिकनाथस्य यावान्प्रसरः।
कललावस्थायां
 विश्वनिमेषेऽपि तावान्भवति

 विश्वस्य उन्मेषलक्षणायामवस्थायां यावान् प्रसरः षडवोल्लासप्रथासतत्त्वो भवति, तथा वि श्वस्य निमेषे कललावस्थायां तावान् उन्मेषदशा समस्वभावो भवति, यथा शिखण्ड्यण्डे सर्वशि


यदुक्तम्

 शक्तितत्त्वं तु षट्चक्रं शिवतत्त्वं तथैव च ।

इत्यादिना । ख्यवयवानुप्रविष्टवर्हपरिवर्हादिपूर्णरेखादिवैचित्र्य शिल्पकल्पनाकौशलमपि एतत्सूक्ष्मेक्षिकावधार्य मङ्गीक्रियते । एवमत्रापि ॥ ३०॥

 ननु उन्मेष एव निमेषो निमेष एव उन्मेषो विश्वमयस्य विश्वोत्तीर्णस्य च,- इत्येषा महती व्याहतिरित्याशंक्याह

तिबुडिमसंखुसमत्थं
 तंथ णेअंसि अणइये असमम्।
दिढंगण्णाण्डीणकला
 कलेइ तेलोङ्कमेककलम्॥३१॥


त्रिपुटीमयं समस्तं
 तत्र च ज्ञेये च ज्ञातरि च समम्


त्रिपुटीमयमिति, अनेनैवाभिप्रायेणान्यत्राप्युक्तम् ।

'ज्ञातार मां ज्ञानं शक्तिरिव त्रितयवज्ञेयम् ।
अविभक्तं भावयतः सोऽहं सा तनयं तच्च ॥
वेधं स्वकमसिद्धां वित्तिमनुप्रविशदङ्गविषयायम् ।
वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति ॥

इत्यादि।

2

दृढग्रन्थिर्ज्ञानकला
 कलयति त्रैलोक्यमेककलम्॥ ३१॥

 विश्वव्यवहारे सर्वोऽपि प्रपञ्चो 'ज्ञाता ज्ञेयं ज्ञानम्' इत्येवंरूपपुटत्रयसमाहारात्मनि अर्थतत्त्वे पर्यवस्यति, पुटत्वं च एषाम् अशेषविश्वक्रोडीका- रसामर्थ्यात् , तत्र च त्रिपुड्यन्तरालवर्तिनी या ज्ञानकला चिच्छक्तिः, सा खलु

'वेद्यमेतदखिलं स ईश्वरो
 वेदिता यदनयोश्च लक्षणम् ।
त्वामृते सुमुखि वृत्तिमन्तरा
 को नु उद्धटयितुं प्रगल्भते ॥

इति श्रीकोमलवल्लीस्थित्या विषयतयावरोध्यं वेद्यवर्गं भोक्तृतया स्फुरन्तं वेदितारं च प्रति समं विशेषशंकाशून्यं यथा भवति तथा, दृढग्रन्थिः कोटिद्वयावगाहनेन तादात्म्येनोपश्लेषाद्वज्रलेपव-


२१ ज्ञातरि अन्त्यकोटौ लग्ना सदाशिववत् ज्ञेये चादिकोटौ ईश्वरवत्, इति कोटिद्वितयं मिलितमेव । 10 दकम्प्यसंबन्धा भवन्ती त्रैलोक्यमेककलम् - एक स्वभावं कलयति ॥ ३१॥  ननु सर्वेकरसवादस्वीकारोऽयं न सत्यासत्ययोः भेदः१ इत्याशंक्याह

की संभावविसेसो
 कसुमादो होओ गगणकुसुमंस ।
जंपुरणाणंपाणो
 लोलो फुरणं असोर्वं सामंणं

॥३२॥

कः सद्भावविशेषः
 कुसुमाद्भवति गगनकुसुमस्य।
यत्स्फुरणानुप्राणो
 लोकः स्फुरणं च सर्वसामान्यम्
॥ ३२॥

प्रसिद्धकुसुमात् गगनकुसुमस्य सद्भावे को विशेषः १ इति चेन्न कश्चित्,- इति वाक्यार्थोप संहारः । यदिति-यतो लोको हि विश्वव्यवहारे संविदेव भगवती विषयसत्त्वोपगमे शरणम्' इति गुरुमतमर्यादया स्फुरणं प्रकाशमेव अनुप्राणतया बीजभूततया परिगृह्य वर्तते-इति असकृत् अवो चाम । तच्च स्फुरणं विप्रतिपन्ने खपुष्पादौ संप्र तिपन्ने चम्पकादौ च सामान्यं-समपातेन प्रस रति. यदि च तस्य विप्रतिपातेन प्रवृत्तिः तत् खपुष्पमपि न स्फुरेत् । अत एव उक्तम् आचा र्याभिनवगुप्तपादैः

'सा स्फुरत्ता महासत्ता....।'

इति कारिकाया व्याख्यावसरे-सा हि खपुष्पा दिकमपि व्यामोति इति, यथा शिवदृष्टौ

'शशशृंगादिकेनापि स्याद्विभक्त्या समन्वयः'

इति, पदसंगतौ च तस्मात् तत्रापि विभक्तियो गेन कारकत्वे सति सत्तैव शिवताख्या इति॥३२॥

ननु आसतामेते व्योमकुसुमादयः यत्र मूकीभावो दूषणं भूषणं वा इति न अत्यन्तमुपयोगः, यत्र पुनर्यौ भावाभावौ लोकव्यवहारसिद्धौ तत्र कथम् इदम् अभेदवादवैदग्ध्यम् ? इत्याशंक्याह

माणिकमरअआण
 भेदाभेदयोर्भेदपडिहासम् ।
एकरसोणोणंदोणंवि
 दुःपुमफरणसंभेला ॥ ३३॥


माणिक्यमरकतयोरिव
 भावाभावयोर्भेदप्रतिभासम् ।
एकरसोऽन्योन्यमपि
 द्वयोः प्रमार्ष्टि स्फुरणसंभेदः

 भेदाभेदप्रतिभासं स्तम्भकुम्भादेः स्फुरणसंभेद एव प्रमार्ष्टि- युक्त्या तिरस्करोति, प्रकाशमानता


हि स्फुरणतैव, संभेदः संबन्धः, स च एकरसः

पदार्थद्वयं प्रति एकस्वभावः,तयोर्द्वयोरपि 'प्रका शते' इति प्रतीतिं प्रति वैषम्याभावात् । ततश्च चिदग्निसात्कृतयोरनयोः किं नाम बैलक्षण्यम् इति भावः । यथा माणिक्यमरकतयोः रक्तश्यामयोर न्योन्यविरुद्धयोरपि किंचित्सनिकर्षेण व स्था पितयोः परस्परप्रभापटलकर्बुरीभावात् एकरसो भवन् प्रकाशमानतासंभेदो भेदप्रतिभासं प्रमार्ष्टि -उभयोरपि स्वरूपपरित्यागात् एकतानुप्रवे शात्, यतो माणिक्यमपि अरुणश्यामलं मरकत मपि श्यामलारुणम् इति वैचित्र्यशालिनी प्रती तिरत्र उत्पद्यते ॥ ३३॥

 ननु पौनःपुन्येन प्रसाधितमपि एतदर्थतत्त्वं तडिद्विलसितवत् केवलं परिस्फुरति न पुनः हृद यंगमीभवति, हृदयंगमीभावे च कश्चित् उपायो वक्तव्यः? इत्याकांक्षायां पारमेश्वर्या सपर्यया तत्

संपाद्यम् , इति तावत् देवतां पर्यालोचयति

अण्डमे णिअपिण्ड-
 पीडेमि फुरन्ति कलणदेवील
पंफुरव परसिवो
 णाणणिंती तासं त्यआणमी


अण्डमये निजपिण्ड-
 पीठे स्फुरन्ति करणदेव्यः।
प्रस्फुरति च परमशिवो
 ज्ञाननिधिश्च तासां मध्ये॥३४॥

 स्वशरिमयो हि पिण्डः-पृथिव्यादिभूतपंच कारब्धत्वात् , अशेषविचित्रलक्षणमण्डम् इति अ ध्यवसीयते । अण्डपिण्डयोश्च एकरूपत्वमाम्नायेषु प्रसिद्धम् । तत्र च पीठीभूते करणदेव्य इन्द्रिय लक्षणाः शक्तयः स्फुरन्ति, आवाहनसंनिधापना दिव्यतिरेकेऽपि स्वयमेव स्फुटं प्रकाशन्ते, तासां


मध्ये च परमशिवो महाप्रमावस्वभावः प्रस्फु

रति, ततश्च

'सर्वाः शक्तीर्दर्शनस्पर्शनाद्याः
 स्वे स्वे वेद्ये यौगपद्येन विश्वक् ।
क्षित्वा मध्ये हाटकस्तम्भभूत-
 स्तिष्ठन्विश्वाकार एकोऽवभाति ॥'

इति श्रीकक्ष्यास्तोत्रस्थित्या स्वात्मरूपः परमेश्वर एव अन्तश्चक्रदेवताबाह्याभ्यन्तरभिन्नाः करणश क्तयश्च तदावरणदेवतास्थानीयाः, तदर्चनं च स्वशरीरात्मनि महापीठे एव उपपद्यते, तत्र यथा प्रतिमापुत्रिकादयो भावाः स्वांत्मरूपभूतां मुख्यां देवतां प्रति प्रतिनिधिभावेन अध्यवसीयन्ते, तद्वत् स्वदेहस्यैव मुख्यतया पीठत्वम् । अनुक ल्पोपकल्पनया तु स्थण्डिलमण्डलादीनामङ्गी कारः, इति तात्पर्यार्थः ॥ ३४॥

 यश्च अलौकिकः परमेश्वरः स कीदृश्या प्रक्रि

यया उपास्य ? इत्याकांक्षायाम् सानुग्रहम् आह

सो तंथ सन्तणिंजो
 विमरिसपुष्पाहिवाससुरहीति।
चिन्तचसकाअपहिंज
 सुहावीरपाणवंथूहि ॥ ३५॥

स तत्रार्चनीयो
 विमर्शपुष्पाधिवाससुरभिभिः।
चित्तचषकार्पितै-
 र्वैद्यसुधावीरपानवस्तुभिः॥३५॥

 स वेदागमप्रसिद्धस्वभावः परमेश्वरः, तत्र पि ण्डात्मनि पीठे पूजनीयः, पूजायां च वेद्यमयी या सुधा-सर्वेन्द्रियाह्लादकत्वादत्यन्तस्वीकार्या, या स्वभावत एकापि सती भयशोकहर्षायवस्थावै चित्र्यात् अम्लतिक्तमधुरादिप्रायानेकरसविशेषो पश्लेषणी वीरस्य परभैरवस्य वीरायाश्च स्वात न्त्र्यमय्याः तन्मध्यशक्तेः पीयते-स्वात्मसात् क्रियते- इति व्युत्पत्त्या पानं सैव अङ्गत्वेन उप युज्यते, स्वचित्तात्मकचषकोपग्रहणयुक्त्या कया चित् अर्पणीयानि, चित्तस्य चषकता च तत्र बहुप्रवाहं सपर्यतां वेद्यवस्तूनां स्वान्तर्भैरवस्य एकहेलया ग्रहणसौकर्योपायत्वात् । विश्ववर्तिनो हि भावा बहिर्भिन्नप्रकारस्फुरणतत्तदिन्द्रियपरि स्पन्दोपगृह्यमाणस्वभावाः क्षणं विश्रम्य पश्चात् तत्तदिन्द्रियप्रणालिकया भैरवात्मनि अनुप्रवि शन्ति - इति सुभगा इयं सरणिः । विमर्शोऽत्र परमेश्वरं प्रति स्वात्मतया विमर्शः प्रत्यभिज्ञा नात्मा, स एव पुष्पं - पोषणकर्तृकत्वात् ॥३५॥


 अथ अर्चारहस्ये एवमियता प्रपञ्चेन पूज्य देवताचक्रस्वरूपं प्रतिपाद्य पूजामुपपादयितुमाह

अबलणिवालन अक
 वरिवासा सा अ दुलहा लोये।
सुलहा अ वीसलणो
 आसवतम्बुलगन्धपुंफाल ॥३६॥

निजबलनिभालनमेव
 वरिवस्या सा च दुर्लभा लोके।
सुलभानि च विश्वपते
 रासवताम्बूलगन्धपुष्पाणि ॥३६॥

 स्वहृदयपरिस्फुरत्तारूपः परमेश्वर एव देवता इत्युक्तं वक्ष्यते च । तन्त्र यत् निजस्य स्वात्मनो ऽतादात्म्यानुप्रविष्टं बलं-विश्वविक्षोभसहिष्णुत्व लक्षणं विम्रष्टुत्वं, तत्पर्यालोचनमेव वरिवस्या, अन्या पूजा तस्य अत्यन्तसुलभतया अध्यवसी यते-यतोऽयं विश्वपतिः ॥ ३६ ॥


२२ लोकः ज्ञातृज्ञेयस्वभावः, विश्वस्य सदाशिवादेः क्षित्यन्तस्य पतिः, आसवः वेद्यजातम्, तञ्चमत्काररूपं ताम्बूलम् , पञ्च तन्मात्राणि गन्धः, गुणत्रयी पुष्पाणि । २३ मालिनीविशान्तिरूपमध्यवसायलक्षणं विनष्टत्वम्, तदुक्तं 'ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं ब्यनक्ति।'

इति ।

एवं सपर्यास्वभावं सामान्यतः परामृश्य तद्विशेषानपि तथा योजयिष्यमाणः प्रथमं प्राणाया मस्य परमार्थ प्रस्थापयति

विमरितं णिअसन्तं
 विभवेकंजंमुहमि थिमिएविं।
बाहिरवुत्तांपाणं
 भङ्गो पाण संज्जमे णोऊ॥३७॥


विम्रष्टुं निजसत्त्वं
 विभवे कार्योन्मुखे स्तिमितेऽपि ।
बाह्यवृत्तान्तानां
 भङ्गः प्राणस्य संयमो ज्ञेयः
                  ॥ ३७॥


२४ निजमात्मीयं चिद्रूपं सत्वं पर्यालोचनात्मकमानन्दस्वभावस्वम् । तदुक्तम्

'..........व्याप्तिस्तत्रानन्दो विराजते ।
यत्रानन्दो भवेदावे तत्र चित्सत्वयोः स्थितिः ॥'

इति । विम्रष्टुमावेशेन आदातुं, बाह्यवृत्तान्तानां सर्वेन्द्रियग्राह्याणां विष वेद्यतापहारोन्मुख्यशालिनि स्वसामर्थ्यरूपे विभवे, विश्वमयस्य कललावस्थानात्मकं स्तैमि त्यमनुभवत्यपि, विश्वोत्तीर्णस्य स्वात्मपरिस्पन्दम यो विमर्शः- दर्पणमण्डलान्त प्रविष्टगन्धगजेन्द्रा द्यनुकृतिस्थानीयं पर्यालोचन, तदुपपादकतया बहिर्भावानां वेद्योल्लासस्वलक्षणानां सर्वेन्द्रियग्रा ह्याणां वृत्तान्तानां भङ्ग:- भञ्जनं स्तम्भनं प्राणा यामः, इत्युक्तं भवति ॥ ३७॥


याणां भङ्गस्तेभ्यो निवृत्तिः, स एव प्राणायाम इति, तदुक्तं श्रीभगव द्गीतास्वपि

"यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।'

इति ।

 प्राणायामप्रसंगात् तदनन्तरोपकल्पितशोष णदाहनाप्लावानां तत्त्वमुत्तेजयति

सोसो मलसु णाणं
 दाहो एअंस वासुणंहोल।

अंबालनं आणं
 णाणं सुहासेअणिमिआ सुधिः


शोषो मलस्य नाशो
 दाह एतस्य वासनोच्छेदः ।
आप्लावनं तनूनां
 ज्ञानमुधासेकनिर्मिता शुद्धिः।।६८।।

स्पष्टम् ॥ ३८ ॥


 २५ बुध्यहङ्कारमनोरूपाणवमायीयकार्मस्वभावमलत्रयस्य नाशः वासना च शून्यावस्थारूपा तस्या दाहः तनुशुद्धिश्चतत्सर्व ज्ञानेनैव भवति, तदुक्तम् श्रीगीतासु

ज्ञानाशिः सर्वकमौणि भस्मसात्कुरुतेऽर्जुन ।'

इति । यदा चोर्ध्वपक्षाश्रयणं क्रियते तदा चेत्थं बोध्यम्

'अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ।
ईश्वरः ग्राणमाता तु विद्या देहप्रमातृणी ॥'

इति । पुष्पादिस्वभावमुपन्यस्यति

अविअपदाए विमसां
 विअणवगेस अङ्गसंणाहो।
अर्घ्यं व्येजविलासो
 पुफालं सभावपोसअ भाव॥३९॥


अविकल्पतया विमर्शो
 विकल्पवर्गस्याङ्गसन्नाहः।
अध्ये वेद्यविलासः
 पुष्पाणि स्वभावपोषकाः भावाः


२६ पुष्पाणि इच्छाशक्तिमयाः सोमभट्टारकांशरूपा नीलपीतादयः, त एव च परावस्थायां स्वभावपरिपोषका भवन्तीति । यदुक्तम्

यद्यप्य र्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते। जीवे निरूद्धा तत्रापि परमात्मनि सा स्थिता ॥

इति तेषामेवाधराक....वात्मनि स्थिता सा वेधं तदेवार्ध्यं, तदुपरिव र्तिज्ञानक्रियामयो विकल्पवर्गः अङ्गन्यासः, तदेतदेव सूचितं - स तत्रार्च

नीय इत्यत्र ।  करचरणाद्युपलक्षितस्य विकल्पविक्षोभप्रप- ञ्चस्य पूर्णाहंभावभावनास्वभावया कयाचित् अविकल्पतया विमर्शनमङ्गन्यासः, वेद्यस्य विकल्पप्रसरलक्षणस्य यो विलासः-संकोचाव स्थायामपि स्वभावानतिक्रान्तो व्यवहारः तदेव अय॑म् , स्वस्य यो भावः पूज्यदेवतास्वभावतया निरूपितचमत्कारः तस्य ताहापरामर्शप्रतिष्ठाप नलक्षणपोषणप्रयोजनानि पुष्पाणि --स्वभावं पोषयन्ति इति व्युत्पत्त्या पुष्पाणि इति तात्प र्यार्थः॥ ३९ ॥

 एवं लौकिकालौकिकसाधारण्येन उपात्तेषु द्रव्येषु सर्वेन्द्रियपक्षपातविषयद्रव्यविशेषं पृथक्कृत्य संस्कारयोगाभ्यां परीक्षितुमाह

पुण्याहन्ता मुहे
 वंसविअपंकुराणा यंशोवम् ।

मन्तुलेहविशुद्धं
 पुणां कुलबिन्दुतंपणं पणिमो


पूर्णाहन्ताया मुखे
 विश्वविकल्पाङ्कुवराणां विक्षेपम् ।
मन्त्रोल्लेखविशुद्धं
 पुण्यं कुलविन्दुतर्पण भणामः

 कुलं हि नाम वेद्यवर्गोल्लासतया स्वस्वभावतया भगवान अर्घ्यभट्टारक इत्यास्यायते, तत्र तदी या ये बिन्दवः- क्रमाक्रममंशांशतया परिस्फु


 २७ पूर्णाहन्ताया अनुत्तरस्वातन्त्र्यरूपशुद्धविद्याया मुखे मन्त्राणामुलेखै श्चित्रेर्विशेषेण शुद्धमास्वादितं कृतम् अत एव लोकत्रयपावकम् , यदुक्तम्

'न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः ।

 इति । कुलस्त्र परशक्त्यात्मकमहाकुलस्य यत् परमशिवात्मकं स्वरूप तदेव बिन्दुस्तस्य तर्पणसिति। रन्तः शक्तिप्रसरस्पन्दाः तैः क्रियमाणं देवता- तर्पण भणामः-परामृशाम इति यावत्,..... ................... ......."लितत्त्वात् क्रमेण अर्घ्यदेवताचक्ररह- स्यम् उद्भावयितुम् आदौ उद्देशत उपन्यस्यति

सिरिपीढपंचवाअ
 णेतुतंवीद्रचकीए।
तरह तरह गुरुणं
 पन्ती पंचअसत्ती अ सिंठिपमुहाल॥४१॥


श्रीपीठपंचवाहो
 नेत्रत्रयवृन्दचक्राणि।
स्मरत स्मरत गुरूणां
 पंक्तिं पंचशक्तीश्च सृष्टिप्रमुखाः



पं०२ यावत् ' इत्यतोऽनन्तरं सर्वेषु प्राचीननच्यपुस्तकेषु बह्वी श्रुटिर्चतते। 12  श्रीपीठपंचवाहो नेत्रत्रयं वृन्दचक्रम् - इति यानि चक्राणि तानि स्मरत, परामृशत । श्रीगुरु नाथानां च पंक्तिं स्मरत, गुरुमण्डलद्योतनाय पुनरपि स्मरत इत्युक्तम् , सृष्टिप्रमुखाश्च पंचश क्तीश्च स्मरत याः सृष्टिस्थितिसंहारानाख्यामा सेति भिद्यन्ते ॥ ४१॥

 अथ श्रीचक्रं क्रमेण उन्मुद्रयिष्यन् आदौ पीठनिकेतनादिनेत्रत्रितयतां विभागद्वारा पर्या लोचयति


पीठे नव कलाः
 पञ्चैव पञ्चवाहपदव्याम् ।
सप्तदश भालनेत्रे
 द्वादश षोडश चान्यनेत्रयोः॥४२॥


२८ श्रीचक्रमिति, उक्तं च

'तच्छक्तिपञ्चकं सृष्टया लयेनाग्निचतुष्टयम् । पजशक्तिचतुर्वह्निसंयोगाञ्चक्रसंभवः ॥'

इति ।

 सर्वेषु संगृहीतमूलादर्शपुस्तकेषु 'पीठे नत्र' इत्यस्य ४२ पधस्य मूल- प्राकृतपद्यं न दृश्यते, तसात् संस्कृतछायापद्यमाश्रमेवोपन्यस्तं ज्ञेयम् ।  पीठं हि नाम स्वशरीरभट्टारकम् इत्युक्तम् , यदुक्तं महानयप्रकाशे

'शिवशक्त्युभयोन्मेषसामरस्योद्भवं महत् ।
वीर्यं तस्माद्देह एव महापीठं समुद्गतम् ॥'

इति । तत्र च कलाः शक्तयो नव, ताश्च पर्या लोच्यमानाः-प्रमात्रंशमयः कश्चित् आद्यस्प न्दः, तदनु तस्यैव उपरि प्रसरणौन्मुख्यरूपा शक्तिः काचित्, अथ तस्य प्रमाणस्फुरणरूपः कश्चिदिन्द्रियपरिस्पन्दः, ततश्च वस्तुव्यवस्थाप नामिका तत्र स्फुरत्ता, पश्चात् प्रमेयोल्लासः, प्रमेयवर्गश्च सूक्ष्मेक्षिकया परीक्ष्यमाणो भूतप ञ्चकमेव अन्तर्भवति, भूतानि च अत्र-आकाशो वायुस्तेज आपो भूमिरिति क्रमात् उत्पद्यन्ते । तत्र च प्रारम्भ एव स्वात्मनश्चिद्रूपतापरामर्शः, तदनु तस्य स्थैर्योपपादनम्, तदनु तद्योगरूपस्य स्पन्दानुवृत्तिः, तदनु तस्यैव उज्वलीकरण, ततश्च स्वविश्रान्तिलक्षणमाप्यायकत्वं च- इति क्रम


पं० १५ ख० पु० तदनु उद्योगेति, ग. पु० तद्योग्येति पाठः । विवक्षा । एवं च प्रमाता प्रमाणं पञ्चविघं प्रमेय पीठनिकेतनम् इत्यर्थो भवति । अन्ये पुनरेतत्पी ठक्षेत्रश्मशानक्षेत्रेशमेलापयजनभेदात् पञ्चप्रकार तया उपासते, पञ्चैव पञ्चवाहपदव्यां वाहाः पर मेश्वरस्य स्फुरणधाराः, ताश्च पञ्च,-व्योमवामे श्वरी खेचरी दिक्चरी गोचरी भूचरीति भवन्ति । तत्र व्योम्नाम् ओमात्मकप्रणवरूपताविमर्शवैशि


२९ ...."पर्यालोचनात्मकं शाकं पर्व तत्प्राप्तिं प्रति ईश्वरी सामर्थ्यशालिनीति व्योमव्योमेश्वरी स्वातन्त्र्यापरपर्याया मायाशक्तिरिति उच्यते । तदुक्तम्

'प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे
ततस्तत्त्वे चाष्टध्वनिवपुरुपाधिन्युपरते।
श्रिते शाक्त पर्वण्यनुकलितचिन्मात्रगहनां
स्वसंवित्ति योगी रसयति शिवाख्यां परतनुम् ॥

इति । तथा

'स्वातन्त्र्यापरपर्यायमायाजाड्यविलोपनात् ।
विलीय चिदसीभूतं विधामन्दमुपास्महे ॥'

इति । सैव च परिणामिनी पुरुषस्य भोक्तृत्वमापादयन्ती तद्भोगार्थमेव प्रकृतिरिति उच्यते, न तु प्रकृतेर्निजं प्रयोजनमस्तीति । तदुक्तं पातञ्जले

'तदर्थ एव दृश्यस्यात्मा'

श्यस्य प्रकृतेस्तदर्थं पुरुषभोगार्थमेवेति । ष्टयानुप्राणनानां वक्ष्यमाणपञ्चपर्वकाणां वामधा मानं प्रति ईश्वरी सामर्थ्यशालिनीति व्योमवामे श्वरी, सा च- परमेश्वरस्य अविकल्प्यभूम्यनुप्र विष्टा चिच्छक्तिश्च बोधरूपे प्रमातरि स्फुरन्ती, तदनु तदन्तःकरणानुप्रविष्टा पश्चात् तस्यैव बाह्ये न्द्रियानुबन्धिनी भूत्वा बहिर्वेद्यलक्षणं विषयोल्ला सम् अखिलम् उपयुक्ते इति, खे चरणात् खेचरी, दिक्षु अन्तःकरणेषु चरति इति दिक्चरी, गोषु बहिरिन्द्रियेषु संचरणात् गोचरी, भूमिरूपविष यौचित्याचरणात् भूचरीति । अथैवं पञ्चंधा वहतः परमेश्वरस्य प्रमातृप्रमाणप्रमेयतया त्रैविध्येनाऽपि प्रकार सूचयन् मूर्तिचक्रं तावदाह 'सप्तदश भाल नेत्र' इति, -भालो ललाटः तद्गतनेत्रे सप्तदश शक्तयः, तच्च मूर्तिचक्रम्' इत्याम्नायते-मूर्छ नात् मोहनरूपात् समुच्छ्रयणरूपाद्वा मूर्तिचक्रं,


३० मूर्तिचक्रमिति भोग्यरूपायाः प्रकृतेर्भोक्तृरूप आत्मेति उच्यते, अस्यैव च प्रमाता आत्मा भोक्ता शिव इति पर्यायाः । तदुक्तम् 'प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कवलयन् । तच्च अन्तर्बहिरहन्तेदन्ताद्वितयस्फुरणानुगुण्यात् । तत्र यदा अहन्तायाः समुच्छ्रायः तदा इदन्ताया न्यग्भावरूपो मोहो भवति, यदा पुनरिदन्तायाः समुच्छायः तदा अहन्ताया उक्तरूपो मोह, इति द्वयमपि एकार्थमेव, रूपं च प्रमातृवह्निरूपस्य परमप्रकाशस्य परभैरवसंविदैक्यपर्यन्तोत्कर्षः पा षाणादिजडसंवित्पर्यन्तो न्यूनीभावश्च इति महती स्वातन्त्र्यशक्तिर्मूर्तिशब्देन उच्यते । तत्र


प्रविश्यो नादं लयदहनभस्मीकृतकुल:
प्रसादात्ते जन्तुः शिवमकुलमम्ब प्रविशति ॥'

इति, वामधामेति मूर्तिचक्रेत्यनेन 'यस्योन्मेषनिमेषाभ्याम् ' इति सूत्रे यस्येति उन्मेषनिमेषेति पदद्वयं निर्वाहितम्, निकार्थाभिप्रायेण तु एतत् नरशिवात्मक रूपद्वयं, शत्यात्मकं तु रूपं प्रकृतेरेवापरिणामित्वे चित्ता स्मकं तृतीयं शक्तिरूपं भवतीति । तदुक्तम्

'परशिवरविफरनिकरे प्रतिफलति विमर्शदर्पणे विशदे ।
प्रतिरुचि रूचिरे कुड्ये चित्तमये निविशते महाविन्दुः ॥'

इति । अनेन च शक्तरेव जगत्प्रादुर्भावात् जगत इत्येतन्निर्वाहितमिति । तदुक्तमभिनवगुप्तपादैः

'भैरवरूपस्य विश्वस्य नररूपापरभट्टारिकास्वभावः शाक्तस्तत्सहित- स्थात्मनः शिवात्मकं तृतीयं ब्रह्म हृदयम्

इत्यनुत्तरविचारे । शाक्तमेव च रूपं वृन्दचक्ररूपम् । कलाः सप्तदश अग्नेर्बाह्याभ्यन्तरकलनेन 'कला दशकं, शिखासप्तकं' च इत्याम्नायेषु प्रसिद्ध तत्सं ख्यया मूर्तिचक्रशक्तयस्तावत्य इति। ताश्च पर्या लोच्यमानाः चैतन्यं प्राधान्यम् अभिमानकर्तृ त्वम् अध्यवसायो वचनम् आदानम् गमनम् उत्सर्जनम् आनन्दत्वं ज्ञानं निश्चयः संकल्पनं श्रवणं स्पर्शनं दर्शनम् आस्वादनम् आघ्राणनं च इति प्रमातृस्फुरणप्रकारा एव भवन्ति, तेषाम् अन्तःकरणवहिष्करणादीनि उपायतया अवति ष्ठन्ते, एतास्तु मूर्तिशक्तयः संकुचितस्य प्रमातुः तत्तद्विषयसाधनभेदोपश्लेषात् पशुत्वम् उपजन यन्ति, असंकुचितस्य स्वस्वातन्त्र्यशक्तिविजृम्भसं रम्भकतया प्रवर्तमानाः परमशिवीभावलक्षणं मा ङ्गल्यम् उन्मीलयन्ति इति । अथ प्रकाशानन्द चक्रद्वितयमाह 'द्वादशषोडश चान्यनेत्रयोरिति' अन्ययोः दक्षिणवामरूपयोः नेत्रयोर्यथासंख्यं द्वा दश-षोडश शक्तय इत्यर्थः । तत्र च दक्षिणं नेत्रं प्रकाशचक्रं-प्रकाश्यते अनेन प्रमेयतत्त्वम् इति व्युत्पत्त्या प्रकाशः प्रमाणम् इत्यर्थों भवति । तत्र च शक्तयो द्वादश, ताश्च तत्त्वदृष्ट्या यथाक्रमं प्राणप्रधानानि वाक्पाणिपादपायूपस्थरूपाणि 'कर्मेन्द्रियाणि' मनःश्रेष्ठानि श्रोत्रत्वक्चक्षुरस नाघ्राणात्मकानि ज्ञानेन्द्रियाणि'। वामनेत्रमान न्दचक्रम् -आनन्दो नाम स्वात्मपरमेश्वर इद न्तया स्फुरन् समन्तात् समृद्धिस्वभावः प्रमेयव र्गोल्लासः, स च सोमांशः, तत्र च कलाः षोडश वस्तुवृत्त्या,ताः षोडशविकारस्वभावाः, विकाराश्च कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकम् आकाशादि भूतपञ्चकम् मनश्च ॥ ४२ ॥

 एवं स्थूलदेहे पीठतया उपास्यतामुपपाद्य सूक्ष्ममप्येवं विम्रष्टव्यमित्येवमुन्मीलयितुं वृन्द चक्रं पर्यालोचयति

आपडिअं पञ्चसन्धे
वोसोटीतिंदं किमि।



णखलु मण्डले गुरुणां
 णिअमो णिअआइलं घि मां मुत्त


प्रकटितपञ्चस्कन्धं
 चतुष्पष्टिर्भवति इन्दचक्रम् ।
न खलु मण्डले गुरूणां
 नियमो नियमानलं विना युक्तः॥४३॥

 वृन्दचक्र वृन्दसंदोहात्मा, ताइक्वं च तस्य स्वतः पुर्यष्टकमयतया ज्ञानसिद्यादिपञ्चकसमाष्टि स्वभावत्वाच्च, प्रकटितपञ्चस्कन्धज्ञानसिद्धाः षो डेश, मन्त्रसिद्धाश्चतुर्विंशतिः, मेलापकसिद्धा द्वा


 ३२ षोडश स्वरा ज्ञानसिद्धरूपाः । कादिभान्ताश्चतुर्विंशतिर्मनसिद्धाः स्वरहीनेन मकारेण शिरसि मिलिताः । मेलापसिद्धा द्वादश,- यथा 'व्यानमस्वरं परं वर्ष नयेत्' 'समानः सवर्णे दीर्घाभवति परश्च लोपम्' २ 'यवर्णो यमसवणे न च परलोप' इत्यायेवं रूपः ३ 'ओदन्ता अ इ उ आ निपाताः स्वरे प्रकृत्या' इत्याद्येवंरूपः ४ ‘क का कि की'. 13 दश, शाक्तसिद्धा अष्टौ, शांभवसिद्धाश्चत्वारः इति मङ्गया चतुष्षष्टिर्वृन्दचक्रम् । अयं भावः परमेश्वरो हि प्रकाशः प्रकृत्या प्रसन्नगम्भीरमनुत्त रतरङ्गमम्बुराशिमनुकुर्वन् अविकल्पात्मैव अन्तः स्वातन्त्र्यमयीमानन्दशक्तिमनुभवति, तस्य च ता दृक्स्वभावानुप्रविष्टाः शक्तयः शाम्भव्यः, स एव यदा किंचित्कल्लोलनक्रियौन्मुख्यम् अवलम्बते तदा शाक्तोल्लासः, तस्यैव किंचिल्लोलीभावे मे लापपरिस्फुरणम्, उपर्युद्रिक्तकल्लोलकल्पनायां


इत्यादि द्वादशमात्रायोजनरूपः ५ 'क्क क्र क' इत्येवंरूपः ६ तथा स्वराणां व्यञ्जनानां चास्वराकारेणान्तर्व्यापकरूपमेलापः ७ ' यवर्णोऽयम सवर्णे इत्यनेन संपन्नानां चतुर्णा 'सपरस्वरायाः संप्रसारणम्' इत्या दिना इ उ ऌ रूपेण पुनः परिणामः ८ आद्यकलाचतुषकस्य निरावर णीभावः ९ द्वादशमरीचीनां युगपत् त्रयोदशे प्रवेशलक्षणः संहारः १० एषामेव निजविषयान् प्रति मेलापः ११ इति त्रितयात्मकः संविन्मेलापः। शक्तेरनलपवनवलनया मध्यमार्गोदिताया मायाख्यपाशवब्रह्मविष्णुरुद्रे श्वरसदाशिव-इन्धिकादीपिकाबैन्दवनादाख्यशक्तिरूपग्रन्थिद्वादशकेन सह स्पर्शभेदसंख्यातेन धाममेलापो द्वादशः १२ । एष च त्रिविधसंविद्रूपाष्ट विधवर्णरूपैकविधधामसंख्यातो द्वादशविध उन्मनारूपसमवायात्मा मे लापः १३ यादि-हान्ता अष्टौ शाक्तसिद्धाः । आद्यक्षरचतुष्कलारूपाः क्षकारचतुष्कलारूपा अष्टौ शांभवसिद्धाः । मान्त्रोन्मेषः, चन्द्रोदयादब्धेरिव कुत्रचित्प्रवृद्धिहे तूल्लङ्घनादिरुत्कटक्षोभको ज्ञानसिद्धोदयः, ततश्च ज्ञानसिद्धाः प्रमेयांशात्मकतया शाक्तसिद्धाः, तद वच्छेदव्यपोहनया शुद्धप्रमातामापन्नाः शाम्भव सिद्धाः, स्वपूर्णसंविस्वातन्त्र्यमयपरमशिवभट्टारक तयेति । तथा च श्रीचक्रक्रमसद्भावे

'ज्ञानं सृष्टिं विजानीयात्स्थितिर्मन्त्रः प्रकीर्तितः ।
संहारं च महाशाक्तं
........
...............

 [ इतोऽनन्तरं सर्वेष्वादर्शपुस्तकेषु त्रुटिर्वर्तते, या वर्तमानपद्यस्य भागारमा, अग्रिमपद्यानां च पूर्णतया टीका अस्तीत्यनुमीयते ]

सृष्टौ तु दश कलाः
 स्थितौ तु द्वात्रिंशद्भवन्ति शक्तयः।
एकादश संहारे
 त्रयोदश तास्तुरीयपर्वाणि ॥४४॥


 ३३ अत्रैव च पञ्च शक्तीः सृष्टिप्रमुखा इत्यस्यान्त...............

स्तदेव द्योतयितुमुक्तं तथा च श्रीचक्रेति

भासायां न विकल्पाः
 स्फुरन्ति स्फुरदेकनिष्कलश्रियाम्।
यदि प्रतिविम्बगत्या
 स्फुरति परं षोडशाधिका देवी


सृष्टः पञ्चकलाभासे
 जनो गणयति व्यवधानम्।
सृष्टेर्मूलस्कन्धे
 भासायां पल्लवः सृष्टिः॥४६॥

[सृष्टावित्यादि इदं पद्यत्रयं पुस्तकान्तरेष्वविद्यमानं केवलमेकस्मिन्नेव संदृश्यमानतया पश्चात् प्रक्षितं प्रतिभाति । ]

चित्तं ण रिहलि चित्तं
 चित्तअरो पसलिरिहलि तचित्तं ।
ताहि भणह कत्थ जोगो
 कालं दोणंवि देवधावधाः।।४७‌।।

चित्रं न लिखति चित्रं
 चित्रकरः पश्यति लिखति तच्चित्रम्।
तद्भणत कुत्र योग्या
 कर्तुं द्वयोरिति देवताबुद्धिः॥४७॥

 जडमजडं वा वस्तु 'देवता' इति संदिहानो जन एवं प्रतिबोध्यः, यदुत आलेख्यार्पितवपुषं पुरुषमचेतनं प्रति तज्जातीयस्य अन्यस्य कस्य चिदपि तादृग्विलेखनक्रियायां सामर्थ्यं नालो क्यते प्रत्युत तद्विजातीयस्य तच्छिलानिर्माण रूपकौशलोत्कर्षशालिनः चेतनस्यैव तत्संभवति इत्यापतितम् । उक्तमर्थं हृदयंगमीकर्तुं ‘पश्यति' इत्युक्तम् , चेतनाचेतनयोः सामर्थ्यमसामर्थ्यं च प्रख्यापयितुं पुनः पुनश्चित्रशब्दप्रयोगः। तदिति यतोऽन्वयव्यतिरेकाभ्यां चेतनस्यैवोक्तक्रियाकर्तृ त्वम् न पुनस्तद्व्यतिरिक्तस्य कस्यचित्ततो हेतो र्भणत परामृशत-तयोश्चित्रस्य चित्रकरस्य चो भयोर्मध्ये कस्य देवताबुद्धिः कर्तुमुचिता, इति ॥४४-४५-४६-४७

 ननु 'स्वात्मैव देवता' इति निर्बन्धः तत्कि मस्य मन्त्रतन्त्रादिना प्रपञ्चेनोपक्रियते, स खलु स्वव्यतिरिक्तदेवाभिमुखप्रयोजनतया स्वीक्रियते ? इत्याशंक्य मन्त्रस्तावदुक्तरूपदेवतानुगुण्येन नि र्णीयते, इत्याह

मणणमणी णियविमवे
 णियसंकोचभअंमित्रानई।
कवलीयअविस्रविअपा
 क्षणभुवि कावि मन्तसन्दथो
॥४८॥


मननमयी निजविभवे
 निजसंकोचभये त्राणमयी।

कवलितविश्वविकल्पा
अनुभूतिः कापि मन्त्रशब्दार्थः॥४८॥

 मननत्राणधर्माणो मन्त्रा' इति ह्याम्नायः, तत्र मन्त्रानुसंधातुः स्वेच्छामात्रेणोपाधिना 'वि भवः, संकोच' इति उपाधिद्वयमस्ति, तयोर्वि भवो नाम विश्वतदुत्तरोभयसामरस्ययुक्त्या अह भावभावनात्मा विकासः - यत्पारमैश्वर्यमुच्यते, संकोचश्च तद्विपर्ययादपूर्णत्वाभिमननं तत् 'पाश वम्' इत्याख्यायते । एवं स्थिते तादृगात्मनि विकासे समुल्लसति तस्य च यन्मननम् --उपर्युप रि यथापरामर्शानुस्यूतिस्वभावश्चमत्कारः, तत्प्रकृतं यस्याः, तद्वदुक्तरूपे संकोचे प्रस्तुते त्राणं 'संको चोऽपि विचार्यमाणश्चिदात्मैक्येन प्रथमानत्वा चिन्मय एवं अन्यथा तु न किंचित्' इति श्रीप्र त्यभिज्ञाहृदयमर्यादया तस्यापि संकोचस्य वैश्वा त्म्यप्रथानुप्रविष्टतानुसंधानोत्पादनद्वारा स्वस्वभा वभङ्गप्रसंगरूपचाकित्यव्यपोहनलक्षणं रक्षणं त न्मयी, हेतुद्वयेन वेद्यविक्षोभसर्वग्रासविशृङ्खलो ल्लासायानुभूतिः स्वहृदयैकसंवेद्या विमर्शशक्तिः सैव मन्त्रः। यथा च श्रीराजभट्टारके

वर्णात्मको न मन्त्रो
 दशभुजदेहो न पञ्चवदनोऽपि ।
संकल्पपूर्वकोटौ
 नादोल्लासो भवेन्मत्रः
इति ॥४८॥

 ननु मंत्राणामेव अलौकिकानुभूत्यात्मकत्वं प्रसाधनम् - एतत्सर्वे निर्विवादं, श्रोत्रेन्द्रियग्र ह्यस्य शब्दराशेः कीदृशम् ? इत्याशंक्य, वाक्तत्त्व स्यैव तत्त्वमुन्मुद्रयितुमाह

वेहरिआ णाम किआ
 णाणमई होल मलमा वाआ।
इच्छा उण पंखन्ती
 सक्षम समरशा वत्ती॥४९॥

 वैखरी नाम क्रिया
ज्ञानमयी भवति मध्यमा वाक् ।
 इच्छा पुनः पश्यन्ती
सूक्ष्मा समरसा वृत्तिः॥४९॥

 वाक्तत्त्वं तावत्क्रमात् - सूक्ष्मा पश्यन्ती मध्यमा वैखरी, इति चतुर्धा भिद्यते । तत्र वैखरीति ता ल्वादिकरणव्यापारे प्रसिद्धा, या- क्रियाशक्ति रित्यध्यवसीयते, मध्यमा च बुद्धिवृत्तिमात्रं प्रव र्त्यमानत्वात् ज्ञानशक्तिः, पश्यन्ती पुनरिच्छा शक्तिः-बहिःप्रसरणाभ्युपगमरूपत्वात्तस्याः, यतः पश्यन्तीति व्युत्पत्तिः, सूक्ष्मा तु शिखण्ड्यण्डरस न्यायात् उक्तवाक्रयशवली[कृत स्वभावा प्रत्य ग्दृशः परमेश्वरस्योद्योगलक्षणा वृत्तिराख्यायते, परा वाक् पुनः तस्यैव परमेश्वरस्य स्वरूपमनुप्र विशन्ती परिस्फुरति ।। ४९ ॥  अथ मन्त्रसाहचर्यान्मुद्राप्यलौकिकी काविद नुसंधेया, इत्याह

आनन्दुल्लासिनी
 फुलंइअंमहसिथिसोहङ्गा।
दीसइ जंथ दसाए
 सौश्चि अ देवंस मंवमुदामी


आनन्दोल्लासश्रीः
 क्षुल्लकिताष्टमहासिद्धिसौभाग्या।
दृश्यते यत्र दशायां
 सैव च देवस्य महामुद्रा ॥१०॥

 यस्यामवस्थायां देवस्य -क्रीडाविजिगीषाद्य नेकप्रकारस्वातन्त्र्यसारत्वात् पूज्यपूंजकत्वोभयस्व भावसामरस्यशालिनः परमेश्वरस्य, स्वविश्रान्ति लक्षणं आनन्दं प्रति य उल्लासः, तथा परामृश्य  इत्थं महता प्रपञ्चेनोपपादितस्य विमर्शस्वरू पस्य प्रयोजनमुपपादयितुमाह

हिअठोणपरूढो
 विमर्सकम्पडमो महासाहे।
पुंपई भोअसिरी
 पल्लवइ अणिकव सुकसुमालोअ


हृदयस्थानप्ररूढो
 विमर्शकल्पद्रुमो महाशाखः।
पुष्प्यति भोगश्रियं
 फलति च निष्कलं सुखोत्सवालो॥५१॥
कम्

 हृदयं हि नाम विश्वप्रतिष्ठाभूमित्वादतिमह स्थानम् , यदुक्तं आचार्याभिनवगुप्तपादैः


पं०१० पु. स्वभावस्यति पाठः ।

पं० ९ख० पु० पुंसां भोगनिया इति पाठः । 'हृदयं हि नाम विषप्रतिष्ठास्थानमित्युच्यते'

तत्र प्रकर्षण रूढः -- चर्व्यमाणतामापन्नो, विम र्शः- बाह्याभ्यन्तरपथसहस्रसर्वस्वनिर्वाहकतया तत्तदभिलषितपदार्थदानपाण्डित्यशालिकल्पशा खी इत्यध्यवसीयमानो विमर्शलक्षणः स्वात्मपरा मर्शात्मा चमत्कारः, स्वस्वरूपवेदिनां पुंसां, पु रुप्यति भोगश्रियं-पुष्पस्थानीयां भोगलक्ष्मी मुद्भावयति इति, भोगोऽप्यभिमतोऽङ्गनालिङ्ग नादिबहिर्भूत्यनुभवः, तस्येयमेव श्रीः, यद्विधिनि षेधोल्लङ्घिना संविदद्वैतास्वादसौभाग्येन ग्राह्यग्न हणकौतूहलोपलम्भ एवं स्वात्मविजृम्भाभावकेध साधनप्रगल्भः संपत्स्वभावत्वेन अनुभूयते । कि च विमाख्यः कल्पशाखी निष्कलमहन्तेदन्ता विभागविच्छेदावच्छेदलक्षणकलाकलङ्कशून्यं य त्सुखं - स्वविश्रान्तिस्वभावः स्वहृदयाह्लादः, स एवोत्सवः


'शचीकुचतटे शको नरके विलुठन्क्रिमिः
उभौ समसमाधानौ विचित्रो भावनाभ्रमः ।"

इत्याद्यनुभवितृजनविशेषहदयसंकल्पमात्रोपक ल्पितसौख्यारोपणतव्द्युदासेन बहुभिः श्रीशिवान न्द-महाप्रकाश-महेश्वरानन्दप्रभृतिभिः योगीन्द्रैः संभूय संवादेनोपभुज्यमानत्वात् तादृगुत्सवरूप मालोकं प्रत्यक्प्रकाशं च प्रसूते ॥ ११ ॥

 ननु जीवन्मुक्तिलक्षणं माहेश्वर्यं खल्वस्य फल तया प्रतिपादितं, तत्तु न संभवति यतो-देहाद्य वच्छेदव्यतिरिक्त एव काले पुंसामपवर्गोत्पत्तिः इत्यन्येषामाग्रहः । इत्याशंक्याह

किमिओ होइ ण देवो
 तंस कहं कालकमसंपंसो।
णिश्चाणिरायइणंस वि
 कोवि जीवमसोखप्रेफेहो ॥५२॥


पं० ख० पु० तामालोकं प्रत्यक्प्रकाशं च प्रश्नुते इत्येतादृशः पाठः।

पं० ख० पु० लक्षणमाहेश्चर्यामति पाठः !

क्रमिको भवति न देव
 स्तस्य कथं कालकल्मषस्पर्शः
नित्यनिरावरणस्यापि
 कोऽपि जीवन्मुक्तिप्रत्यूहः

 देवो हि नाम देशकालादिविश्वविलासं प्रति स्वस्वभावसंविद्दर्पणोपकल्पतया द्योतनाद्यनेका र्थोपपादनवैशारद्याद्विश्वात्मकः परमेश्वर इत्यव धार्यते, अतश्चायं क्रमिको न भवति-पौर्वाप र्यादिविकल्पनामयेन क्रमेण नांक्रम्यते, वैश्वाल्यै क्यविजृम्भणसंरम्भोत्तरे भगवति


३५ नित्यनिराकरणस्यापीति । यदुक्तम्

'यन्त्र स्थितमिदं सर्व कार्य यस्साच निर्गतम् ।
तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुन्नचित् ॥' (१०२)

इति । तथा

अक्रमता मे ऋमिकं ज्ञानाय सक्रमामा तु चितिः।।

इति च।


पं०६ क० पु० उपकरिपतया इति, ख. पु० उपकल्पनया इति पार चलित्वा यास्यते कुत्र सर्व शिवमयं यतः ।

इति-स्थित्या कस्य कस्मात्पृथक्त्वम् , तद्धेतुकः क्रमश्च -- इति युक्तिपर्यालोचनायां मूकीभाव एवोत्तरं प्रत्यर्थिनो जनस्य, अस्य कालाख्येन कलङ्केन संपर्कः केनचिदपि प्रकारेण न संभ वति-कालस्य क्रमतयैव पर्यवसानात्, एवं नित्यनिरावरणस्य' इत्यादि । एतदुक्तं भवति

'चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि
चिदैकात्म्यदाय जीवन्मुक्तिः।' (सू० १६)

इति श्रीप्रत्यभिज्ञाहृदयमर्यादया भोगमोक्षसा कारलक्षणो जीवन्मोक्षः

'सर्वो ममायं विभवः

इति स्ववैश्वात्म्यानुसंधानसंधुक्षितेश्वर्याणां प्रमा

तॄणां स्वभाव एव, न खाहार्यः कश्चिदतिशयः

 ननु जीवन्मुक्तिर्नामात्मनो जननमरणाद्यनु

स्यूतस्य सर्वावस्थानिर्विशेषस्वानन्दोत्सवानुभूति सामरस्यं, स्थैर्याभावपक्षे कथं संगच्छेत? इत्या शंक्य, क्षणभङ्गमेव वक्तुमाह

 यकिबि जेण केण वि
रूपेण जहिं कहिं वि किं णंथ ।
 तां अंपा णिवि
अविरो खणभङ्गो च्छेअ अंविरो होत


 यत्किमपि येन केनापि
रूपेण यत्र कुत्रापि किं नास्ति ।
 तस्मादात्मा नित्यः
स्थिरः क्षणभङ्ग एव स्थिरो भवति


 ३५ अन्न चायमाशयः - व्यवहारकाले क्रियाशक्तियोगलक्षणसर्वाका रनिराकारस्वभावस्थात्मनः नानाजातिव्यक्तयः प्रादुर्भवन्ति, तत्रैवं स्थिते सति कस्सिश्चिस्सामान्य कस्यांचित् व्यक्तौ च ध्वंसोन्मुखायां संपन्नायामपि तदात्मकत्वेन क्षणभङ्गुरत्वेऽभ्युपगतेऽपि अपरसामान्यव्यक्तयः स्थिता एवेति नित्यत्वस्थिरत्वेऽपि अभ्युपगते आत्मनि - इति व्यवहारकालविष यमेव नित्यत्वानित्यत्वं न परमार्थसत्ताविषयमिति ।  अत्रायमाशयः-यत्किमपि कामं भावरूपम भावरूपं वा वस्तु, यस्मिन्कस्मिंश्चिद्वर्तमाने भवि ष्यदादौ वा काले, तथा पुरो-वर्तिनि अनासन्ने वा देशे, येन केनापि सभागात्मना विभागस्व भावेन वा वपुषा, विद्यते वा न वा इति ? न वि द्यते इति तावन्न शक्येत वक्तुं-शून्यत्वप्रसङ्गात्, प्रपञ्चस्य शून्यत्वपक्षश्च पूर्वमेवाधिक्षिप्तः, तत्र यत्किंचिद्वस्तु विद्यते एव- इति वक्तव्यम् , तदा च सत्स्वभावतया 'अयमात्मा परिस्फुरति' इति कथमस्य स्थैर्यमुच्छिद्येत, आत्मनो विश्वाकार त्वाङ्गीकारे विश्ववर्तिनां क्षणभङ्गाभ्युपगमेऽपि योऽयं क्षणभङ्गो नाम कश्चिदर्थः तस्य तावदन पह्नव एव, इति-तावन्मात्रेणापि तन्मयस्याप्या त्मनः स्थैर्यमव्याकुलम् किमुत विश्वस्यैव स्थैर्ये समर्थ्यमाने इति, अनुभवविकल्पस्मरणलक्षणाने कसंघद्यानुसंधानसाध्या हि लोकयात्रा-स्तम्भं पश्य कुम्भमानय इत्यादी तत्तच्छब्दार्थसंकेतानु-


पं १७ ख० पु० संकेतानुभूत्यनुस्मरणेति पाठः । स्मरगादेवश्यंभावात् । संविदां च तासामन्यो न्यानुसंधानसामर्थ्यं न संभवति-स्वयं प्रकाश त्वात, तथा-भावे चान्यपरामर्शानौचित्यात्, तदन्यवार्तानभिज्ञानामासामनुसंधानक्षमः कश्चि त्स्थैर्यशाली विद्यते- इत्यनिवार्येयं मर्यादा ।

'नित्यश्चात्मावगन्तव्यः कालक्रमविवर्जनात् ।
सर्वलोकयसिद्धेयं तत्तद्युक्तिरुदीर्यते ॥
प्रसवानन्तरं बालो जनन्याः स्तनमापिबन् ।
स्तनाद्यर्थक्रियां चैव स्मर्ता चेति विकल्प्यते ।।
स्मृतिश्चानुभवायत्ता सा च नानास्ति जन्मनि ।
ततः प्राचीनया माव्यमनुभूत्या कदाचन ॥
सामानाधिकरण्यं च प्रायो विद्वद्भिरिष्यते ।
अत आत्मा सदा स्थैर्यानित्योऽसाविति बुद्ध्यताम्।।'

इत्याद्युक्तनयेन ॥ ५३॥


३६ अन्योन्यानुसंधानेति, तदुक्तम् श्रीप्रत्यभिज्ञायाम्

'एक्मन्योन्यभिमानामपरस्परवेदिनाम् ।
झानानामधुसंधानजन्मा नश्यजनस्थितिः ।
न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः ।
स्थादेकश्चिद्वपुज्ञानस्मृत्यपोहनशक्तिमान् ॥

इति । ग  नन्वस्तु जीवन्मुक्तिरूपः पुरुषार्थः स्थैर्यवत एवात्मनः, तस्य च पुनरानन्दस्वभावत्वं विप्रति पन्नम् -- पाषाणप्रायतया मुक्त्यवस्थायाः कैश्चि दङ्गीकृतत्वात् ? इत्याशंक्याह

णणो अपणो पियंथ
 सर्वस पिअंउणं भणाई सई।
ता आनन्दसहाऊ
 अंपा मुत्तो अमुत्तो वा ॥५४॥


नन्वात्मनः प्रियार्थं
 सर्वस्य प्रियत्वं भणति श्रुतिः ।
तस्मादानन्दस्वभाव
 आत्मा मुक्त अमुक्तो वा॥५४॥

नन्वात्मन इति


३७ आनन्दस्वभाव इति । यदुक्तम्

'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयत्युल्लासितानन्दमहिमा परमेश्वरः ।।'

इति । तथा आत्मनः प्रियाय सर्वं प्रियं भवति

इति श्रुतिः, सा परमेश्वरे परामृश्यतया प्रवृत्ता, नन्विति पराभ्युपगमार्थः

सुहृदयस्फुरणलक्षणस्य आत्मनः
पूर्णत्वादहमित्येतज्ज्ञानमानन्द उच्यते'

इति स्थित्या पूर्णाहन्तानुसंधानात्मकस्वविश्रा न्तिसतत्त्वो य आनन्द स एव असाधारणं रूपं, तादृस्वभावले च तस्य मुक्तत्वममुक्तत्वमित्यव स्थाद्वयमपि न किंचित् भयम्, यदि च तस्य आत्मनो न आनन्दः स्यात्स्वभावः तदपत्यक लत्रादयः शमदमादयो भावाः कस्य प्रीणानाः स्युः, नद्यपत्यादयः सहस्रमपि चैतन्यशून्यं किंचि


त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदश्यते ।
स बिन्दुर्थस्य तं वन्दे देवमानन्दसागरम् ॥

, इति ।


 आनन्दो ब्रह्मणो रूपम्

इति च । तथा च

 चैतन्यमात्मनो रूपं निलगानन्दसुन्दरम्'

इत्यादिना बहुशोऽनुशिष्टमस्ति । दाम्रष्टुं प्रगल्भन्ते, चैतन्यस्य च स्वविश्रान्तिरेव 'आनन्द' इत्युक्तम्, यदा पुनरस्य स्वविश्रान्ति परामर्श प्रत्यौदासीन्यं तदानीं देहच्छेदादिदुःखा नुभूतिव्यपदेशः, वास्तव्या तु दृष्टया तादृशपरा मर्शशून्यत्वेऽपि न कदाचिदस्य स्वविश्रान्त्यभावः इति सर्वदा सुखानुभूतिव्यतिरेकेण न किंचि दुःखम् - इत्यालोच्यते । ननु आनन्दात्मकत्वे कथं क्रोधादौ पुंसां शस्त्रप्रहारादिश्लेषानुभूत्यौ न्मुख्यम् ? इति चेत्, न - क्षेत्रकलत्रायनुरागावे शवैवश्यादेवमुद्योग इति कश्चिदानन्दाध्यवसाय एवं तेषामेताहरव्यवहारोपक्रमे निबन्धनम् इति दुःखानामपि सौख्यकक्ष्यानुप्रवेशासिद्धमस्यान न्दस्वभावत्वम् । यदुक्तं श्रीमत्स्तोत्रावल्याम् ।

'दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शांकरः।।"

इति । इत्थं च आत्मनः स्वस्य कामः इच्छौत्सु

क्यस्पृहादिपर्यायो भावत्वेन वर्तते तमेवोन्मील-


३८ इच्छेत्यादि, यदुक्तम् यितुमपत्याङ्गनादिप्रमृतिरखिलो वेद्यप्रपञ्चः प्री णानो भवति - इति श्रुत्यर्थो व्याख्यातः, प्रियार्थ इति प्रीत्यर्थस्य प्रियशब्देनोपन्यासादात्मनः स्वभावभूतः यः प्रीतिरूप एव भावः स कर्तृकर णादिवैचित्र्येण बहुप्रकारोऽनुभूयते, न पुनरेतद्वय तिरिक्तः कश्चित्प्रीणनादिः पदार्थः- इत्यासूच्यते। मुक्त अमुक्तो वेति-न खलु नैयायिकादिमर्या दया मुक्त्यवस्थायां पाषाणप्रायत्वादात्मनो निरा नन्दत्वम् यतो मुक्त्यभावेऽपि तस्य एवंस्वभाव


'वास्तवेऽपि चिदेकत्वे न स्यादामासभिन्नयोः ।
चिकीर्षालक्षणैकलपरामर्श विना किया ।
इत्थं तथा धटपटाद्याभासजगदात्मनः।
तिष्ठासोरेवमिच्छेत्र हेतुता कर्तृता क्रिया ।।

इति ।

 'पुष्पाणि स्वभावपरिपोषका भाषाः ॥

इति च पूर्वमुक्तम् । तथा च

'यल्लोहितं तदग्निर्यद्वीय सूर्येन्दुलक्षणम् ।
अ इति ब्रह्म परमं तसंघहोदयात्मकम् ॥
तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् ।
भोग्यरवेनानरूपं च शब्दस्पर्शरसात्मकम् ॥'

इत्यादिना निर्णीतम् । त्वमपरिहार्यम्, किमुत तदनुभवः-इति द्योतनार्थ मेवमनादरेणोपन्यासः । किं च स्वस्यानन्दरूपा वश्यंभावे बन्धमोक्षादिविकल्पविक्षोभोऽत्र न कश्चिदुपपद्यते-आनन्दस्य चित्तसत्वसामरस्या नुभूत्यात्मकत्वात् । यदाहुः

यत्र चित्सवयोाप्तिस्तत्रानन्दो विगजते ।
यत्रानन्दो अवेद्भाने तत्र चित्सवयोः स्थितिः ॥'

इति । एनमेव ह्यानन्दमुद्दीपयितुमाम्नायेषु प्रथ मद्वितीयादिव्यस्वीकारनिर्बन्धोऽनुबंध्यत इत्यु पनिषत् ॥ ५४॥

 अथैवमुपपादितमात्मस्फुरत्तापरामर्श प्रत्युपा यानाणवादीनुपदिदिक्षुः प्रथमं त्रीनपि एकयैव गाथयोद्घाटयति

अइ निअहिअउल्लासं
 णिण्णेतुं णिचणिकूलंइच्छा।
मलतुइपुटीअंवा
 अर्थगत्ताण सोमसुजाणताइ॥५५॥

यदि निजहृदयोल्लासं
 निर्णतुं नित्यनिष्कलमिच्छा।
मध्यर्तुटिस्युटितव्या
 अस्तङ्गतयोः सोमसूर्ययोस्तर्हि

 यदि निजं यत्स्वसाक्षात्कारोल्लेखयोग्यं हृदयं व्याख्यातस्वभावं तस्योल्लासश्च - इत्यचेतयितृ त्वादिवैचित्र्येण स्फुरणं, स प्रकृत्या कालविभाग व्युदासेन निष्कलो-हेयोपादेयत्वाद्यशेषविकल्प कल्पनाकलङ्कशून्यो भवति, तमेवंविधमत्यन्त


३८ मध्चतुटिरिति । तदुक्तम्

'ज्ञातारं मां ज्ञानं शक्तिरिव नितयवज्ज्ञेयम् ।
अविभकं भावयतः सोऽहं सा तवयं तच्च ॥
वेद्यं स्वक्रमसिद्धां वित्तिमनुप्रविशदङ्गविषयाद्यम् ।
वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति ॥'

इति । अन्न च टीकाकाराशयानुसारेण सोऽहम् इति - अहं सः, सोऽहम् , हंस इत्येतत्पदत्रयच्छेदम् अविच्छिन्नविच्छिन्नविच्छिन्नविच्छिन्नविमर्शा- स्मक बोध्यम् । 16 स्पष्टतया प्रत्यक्षीकारचमत्कारनिश्चयास्पदं कर्तुं

यदीच्छा युष्माकमुपासकानाम्

 'श्रद्धामयोऽयं पुरुषो यो यच्छूद्धः स एव सः ।'

इति श्रीमद्भगवद्गीतास्थित्या काचिद्वाञ्छा विजृ म्भते चेत्तर्हि अयमुपाय इति वक्ष्यमाणसर्वा र्थसाधारणोऽयमन्वयप्रकारः, तत्र यावेतौ सोम सूर्ययोर्वेद्यवर्गानुप्राणनत्वात् वेदितृत्वस्वभावत्वाच्च सकारहकारात्मानौ वर्णविशेषो तयोरस्तं-विस र्जनीयसुहृदयसंपुटीकारलक्षणमनुस्वारं च गतयो रश्नुवानयोर्या मध्यमा तुटिः-विभज्यावस्थान लक्षणः कालखण्डः स त्रुटितव्यः- माणिक्यमा लिन्यादिवदुद्धर्तव्यः, तदानीं 'ह-अं-स' इति विमर्श उत्पद्यते । अयं भावः -- यद्यपि मातृका पीठादौ ह इति स इति चान्यवर्णसाधारण्येन अनयोर्ग्रहणमस्ति तथापि तद्द्वयहृदयवर्तिना है स' इति स्वात्मप्रत्यभिज्ञानोपायत्वेन 'हंस'


पं०२ख० पु. उपसनानामिति पाठः । श्लेषवशान्महामन्त्रात्मना विनष्टव्यम् - इति वैप रीत्येनोद्धारो मत्रस्य लोकान्प्रति गोप्यत्वात्, गोपनीयत्वद्योतनार्थम् ‘सोऽहम्' इति मन्त्रान्त रप्रत्यायनार्थं च । अयं च मन्त्रात्मकवर्णविशेषप रामर्शरूपत्वादाणवः कश्चिदुपायः । यदुक्तं श्रीमा लिनीविजये

'उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ।।

इति । एवमुच्चारादाबपि ऊह्यम् । किं च सोम ईषणीयज्ञेयकार्यस्वभावः प्रमेयोल्लासः, सूर्यः इ च्छाज्ञानक्रियात्मकः प्रमाणस्फुरणम्, अनयो रस्तं -स्वसामर्थ्य क्रियां गतयोः प्राप्तवतोः सतीः, 'इति भावलक्षणे सप्तमी' तथाभवतोश्चानयोर्म ध्यस्यात्मनः प्रमातृभूतस्य तुटिः-संदेहलक्षणो दोष उत्रुटितव्यः-स्वात्मानं प्रत्युन्मिपन संशयः संच्छेच इत्यर्थः। एतदुक्तं भवति- एषणीयता धनुप्राणनः स्थूलोऽयं प्रपञ्चोल्लासः इच्छादित्रि तयप्रवृत्तिं विना न क्वचिदपि संपद्यते, इत्येषितृत्वादिरूपस्यात्मनः स्पष्टापरोक्षीकारविपर्यया त्मानं संशयातङ्कं तिरस्करोति, तत उक्तरूपस्व हृदयपरामर्शलाम, इति शाक्तश्चायमुपायः --उ चारादिव्यतिरेकेण स्वसंविद्विकल्पमात्राकार त्वात् । यदुक्तम्

'उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।
यं समावेशमामोति शाक्तः सोऽत्राभिधीयते ।।'

इति। अथ सोमोऽपानः, प्राणः सूर्य :- इति प्रसि द्धम् , तयोर्द्वादशान्तावृदयान्तं हृदयावादशान्तं चास्तम्-इति भावे निष्ठा' असनं क्षेपनं स्फुरणं गतयोर्या मध्यावस्थातुटिः- बाह्याभ्यन्तरभावो पलक्ष्यमाणताहक्परामर्शक्रियात्मचमत्कारलक्षणा, सा त्रुटितव्या-हृदयंगमीभावपर्यन्तमात्मनो निर्णेतव्यमिति यावत् । अयमाशयः-अशेषशरी रसाधारण्येन नित्योदितस्वभावयोः स्वात्मपरि स्पन्दपरमार्थयोः प्राणापानयोर्युगपदुभयविसर्गा रणीरूपतापरामर्शः स्वतः सिद्धोऽपि स्वहृदया ह्लादचमत्कारस्थैर्योत्पादनार्थमात्मन्यनुसंधेयः युस्याननुसंधानेऽप्येवंरूपताया न काचित् क्षति रिति । अयं पुनरुपायः सर्वविकल्पविक्षोभव्युदा सेन स्वस्वभावमात्रोपपादनप्रवृत्ततया शाम्भव इत्यवगन्तव्यः । यच्चोक्तम्

अकिंचिञ्चिन्तकस्यैव शुरुणा प्रतिबोधतः ।
उत्पयते य आवेशः शाम्भवोऽसाबुदाहृतः ।।

इत्यादिना ॥ ५५ ॥

 एवं योगपद्याइपायत्रयं प्रतिपाद्य विनेग्रज नहृदयादिरोपणहेतोः पृथक प्रपञ्चयिष्यन्नादावा णवमालोचयति

थोरअरेमुवि पेखंह
 भूदेस पस णिकलावथं ।
छत्तीआदलङ्घी
 किविस होई सोमनाहोसा ॥५६

स्थूलेष्वपि प्रेक्षध्वं
 भूतेषु खस्य निष्कलावस्थाम् ।
षष्टुिंशकातिलड्डी
 कीदृशो भवति सोमैनाथः॥५६

 व्याख्यातरूपाणां तत्त्वानां मध्ये परमशिव भट्टारकः सर्वोपायप्रतिपाद्य इति परत्वेनावतिष्ठते, तेषु च स्थूलेष्वपि पृथिव्यादेः सकाशात् स्वस्य आकाशरूपस्य निष्कलां परिच्छिन्नत्वलक्षणक लाविलासंशून्यां स्वभावभूतामवस्थामालोचयध्व म् यया खेचर्याद्यधिकरणप्रसिद्धिः, अत्यन्तस्थूल


३९ सोम आनन्दरूपा समना, तस्या नाथस्तदाढूढः शिवः कीदृश? इति । यदुक्तं

चिदानन्दस्वरूपा तु परा शक्तिस्तदूर्ध्वतः ।
सममा नाम सा शक्तिः सर्वकारणकारणम् ।।
सर्वाण्डानि बिभीयं शिवेन लमधिष्ठिना ।
अनारूढः स भगवान् शिवः परमकारणम् ॥
शिवः सर्वस्य कर्तेयं शक्तिः कारणमिष्यते ॥

इति। स्याप्युस्य निष्कलत्वेऽभ्युपगम्यमाने षट्रिंशत्त त्वान्यतिकामन्परमेश्वरो निष्कलः कीदृक् इत्यव धार्यताम् । तदिदै दण्डापूपन्यायोऽप्युत्पन्न इति

अथ शाक्तमभिव्यनक्ति

जे कुलंकुरमुहासव
 पानमहमहूसवे पअट्टंति।
ते षु विपंकुरे
 रसिआ उपदंसियुं पगभन्ति५७॥


ये कुलकुम्भसुधासव
 पानमहामखोत्सवे प्रवर्तन्ते ।
ते खलु विकल्पाङ्कुर
 रसिका उपदेष्टुं प्रगल्भन्ते ॥१७॥


पं० ११ ख० पु. पानमहोत्सवसुखे इति पाठः ।

पं० १३ ख. पु० रसिकानुपदेष्टुम् इति पाउः ।  ये दैशिककटाक्षपूतचेतसो महापुरुषाः, कुल स्य षडध्वरूपस्यात्मनो वेद्योल्लासस्य, यः कुम्भः स्वानन्दस्वभावतया प्रतिष्ठाहेतुराधारविशेषः, त त्रत्यो यो लौकिकालौकिकमाधुर्यसामरस्यास्पद त्वादमृतशब्दवाच्य आसवो- भैरवीयं द्रव्यम्, तस्य यत्पानं-स्वात्मैश्वर्यप्रसाधनपरामर्शपूर्वको निर्वेशस्वीकारः, स एव महान्मखरूपोऽध्वरात्मा चोत्सवः --स्वाहादसाक्षात्कारसम्पत्सौभाग्य, त स्मिन्विषये प्रवर्तन्ते--वेद्यवेदकभावादिविकल्प विगलनप्रकर्षपूर्वकां व्याप्रियन्ते, तत एव हेतोः पाशव-शैवादिचित्रकल्पनामयान्सस्कारमात्रशेष तानुप्राणनात् भेदप्रथाविलासानुपदेशम् - अत्य न्तसामीप्यरूपस्वात्मतादात्म्यापादनयुक्त्या पुन रुत्पत्तिशून्यौचित्येन चर्वयितुं प्रगल्भन्ते -प्रकृष्ट स्थैर्यमनुभवन्ति । अयमेव हि मुख्यया वृत्या रस उच्यते, यदुपचारेण माधुर्यप्रतीतयः शृङ्गा- रादयोऽप्येवं व्यपदिश्यन्ते, यत्तात्पर्येण स एव वा आधपुरुषोऽन्नरसमयः

इत्युपनिषदि समाम्नातमस्ति ॥ ५७ ॥

 अथ शांभवमुपदिशति

हन्त मुहं पडिबिम्बतह
 पडिबिम्बतं तह तंपि अदाओ।
अदाओ उण जसिं
 पडिबिम्बतइ सोति णाअवो॥५८॥


हन्त मुखं प्रतिविम्वति
 प्रतिबिम्बतु तथा तदपि दर्पणः।
दर्पणः पुनर्यस्मिन्
 प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥५८ ॥


 ४० हन्त मुखमिति, हन्तेति खेदे सुखस्य मालिन्यप्रदर्शनार्थ, यस्मात् तन्मुखं नयनजलभूताकाशादौ स्वयं मलिनत्वात् तेषु स्वच्छेषु प्रति- बिम्बति, तथा मालिन्यादेव तदपि सर्व मुखनयनजलभूताकाशादि दर्पणः प्रतिबिम्बयतु - स्वाभिमुख्येनोलसन् स्वच्छतयैव न तु चेतनतया 17  लोके हि दर्पणादौ स्वच्छे वस्तुनि स्वाभि मुख्येनोल्लसन् आननादिः पदार्थः प्रतिफलन युक्त्या परिस्फुरति-इति प्रसिद्धोऽयं अर्थः, तत्र दर्पणवदाननादीनां वास्तवं वपुरत्रैवानन्तर मुपपादयिष्यते । स्थूलया दृष्टया मुखतयाभिमतो भावः प्रतिबिम्बनक्रियामनुभवति, आदर्शात्मकश्च तदाधारतया तत्प्रयोजको भवति- इत्यस्तु ना मैतत्, यः पुनरयमादर्शः स्वच्छतावशादानना दिप्रतिबिम्बनस्थलतयानुभूयते स एव यत्रात्यन्त स्वच्छे स्वात्मनि तादृग्रूपतया प्रतिबिम्बति सोऽ पि ज्ञातव्यः- यन्मयोऽयमशेषः प्रतिबिम्बनप्रग ल्भोन्मेषः ज्ञातव्यः - ज्ञानार्हः, शक्यज्ञानो वा, अवश्यं ज्ञातव्य इति वा ॥ ५८ ॥


मुखादिपदार्थसार्थप्रतिबिम्बं धारयतु, पुनः पक्षान्तरे स तादृक् स्वच्छो दर्पणो यस्मिन् प्रतिबिम्बति परमाकाशे स एव ज्ञातव्यः, अथ वा अधर- भूमिकाग्रहेण चिदाकाशे सोऽपि ज्ञातव्य एव, यतः 'न शिवः शक्तिरहितो न शक्तिः शिववर्जिता। यासलं प्रसरं सर्व ........................ 11 इति न्यायात् ।  अथेत्थमुपदिष्टोपायप्राबल्यप्रतिलवात्मस्वरू पपरामर्शमांसलोल्लासयोगिनामतिशयमाख्यास्य न् आदावेषामन्तर्बहिः स्वभावदेशकालावच्छेद व्युदासेन नैश्चिन्त्यं निश्चेतुमाह

अविआरोहअपासे
चासपेडन सअ अन्थे।
अन्तोतंतो जोई
बाहिर-तंतो त्ति कंपणा कुन्तो॥


अविकारोभयपार्श्वे
चाषपिच्छसदृशेऽर्थे ।
अन्तर्मुखो योगी
बहिर्मुख इति कल्पना कुतः ॥

 अर्थ्यते सर्वैः प्राप्यते इति अर्थः स्वात्मरूपं

किंचिदलौकिकं, तत्स्वच्छमयूरपिच्छविलक्षणचा षपक्षवद्वयोरपि भागयोः--अहन्तेदन्तयोरविकारे, तस्मिन्नर्थे प्रमावस्वात्मनिष्ठतारूपमन्तर्मुखत्वं वे द्यव्यपेक्षलक्षणा बहिःप्रवृत्तिश्च- इति या क ल्पना-कृत्रिमा प्रक्रिया, सा कुतो हेतोरस्तु न कुतश्चिदपि संगच्छते ॥ ५९ ॥

 अथ देशाध्वना कालाध्वना बाप्यस्य न कश्चित्संकोचकलकोपलेप इत्युन्मीलयितुमाह

जोई आअरशिविणि
 असुमोसंसतरीपंव परिपाडी।
चिंता विअ मणिमालं
 विमरिसस्वंतंकगुतहई ॥६०॥


योगी जागरस्वग्न-
 सुषुझ्यवस्थात्रयस्य परिपाटीम्।


पं० १४ ख० पु० जागरस्वमं, सुषुप्ततुर्यपरिपाटीमिति पाठः ।

चित्रामिव मणिमालां
 विमर्शसूत्रैकगुम्फितामुद्दहति

 यान्येतानि जागरप्रमृतीनि पर्वाणि - अव स्था विशेषाः, एषां पर्वाणां या परिपाटिस्तां योगी मौक्तिकमाणिक्याउनेकरत्नशालिनी हास्य ष्टिमिव विमर्शाख्येन सर्वानुवेशप्रगल्भेन एकेन तन्तुना संकलितां कुर्वन् उद्वहति -लौकिका स्थानोल्लविना केनचिदुत्कर्षेण स्वात्मन्यवस्था पयति । तत्र च लौकिकालौकिकसाधारणमव स्थात्रयमतिक्रम्य परमग्रमातरूपतुर्यातीतस्वभा वतया अवधार्यमाणं तुर्यमेवात्र विमर्शः ॥६॥

 ननु व्यावर्णितमेतद्देशकालादिसकलवैधुर्योद्धुरं शुद्धसंविकलाकैवल्यभावं योगिनः स्वाच्छन्द्यं, तच्च न संभवति-यस्य कस्यचिद्विकल्पोपले-

षस्य नित्यमवर्जनीयत्वात् ? इत्याशंक्याह ।।

उल्लोआनन्दसुहा
 सीहरसूवेईएणा हिअएण।
अहिलंसइ लोअजंता
 तिन्तिणीचौमणरसंतरं जोई


उल्लोकानन्दसुधा-
 शीधुरसोदेजितेन हृदयेन ।
अभिलपति लोकयात्रां
 तिन्तिणीचर्वणरसान्तरं योगी॥६१॥


 योऽयम् उल्लोकः स एको ब्रह्मण आनन्द' इत्युपनिषत्प्रक्रियया मनुष्यगन्धर्वाद्यवच्छिन्नप्र मावहृदयानन्दातिशायी पूर्णाहंभावभावनाचम् कारसारस्वान्तर्विश्रान्तिसंपत्सौन्दर्यमानस्वपरि स्पन्दः कश्चिदाह्लादोत्कर्षः, स खल्वमृतासवस्तूभावरसद्वयव्यतिकरकल्पनीयार्थक्रियाकरितया प्रकाशविमर्शस्वरूपमाधुर्यातिशयानुभवनप्रावी ण्यात् योगिनो हृदयमुटेजयति- उत्कृष्य अन्य त्र स्वप्रतियोगिनि पदार्थे प्रवर्तयति, तादृशश्चा यं हृदयेन उपकरणभूतेन लोकस्य देहाक्षभुवना देर्या यात्रा-प्रवाहनीत्या प्रवृत्तिः, सा चिञ्चा स्वादनवत्प्रागनुभूतमाधुर्योत्कर्षापेक्षया रसान्त रम् - अम्लादिसादृश्यादन्यो रसः संपद्यते, यत्र उद्वेजितहृदयस्य योगिनः इच्छाशक्तिरुज्जृम्भते, योगीच्छायाश्च फलप्राप्तिपर्यन्तत्वमविप्रतिपन्नम्। यदुक्तं शिवसूत्रेषु

'चित्तस्थितिवच्छरीरकरणबाह्येषु (३-१९)

इति । क्षीरशर्कराद्यत्यन्तमधुरोपयोगोद्वेजितचे तसां च पुंसां तिन्तिण्याचम्लद्रव्यपदार्थान्तरा भिलाषो लोकप्रसिद्धः । अयं भावः-शरीरोन्द्रि यादिवेद्यविक्षोभव्युदासेन स्वात्ममात्र साक्षात्कार लक्षणं सौख्यमवलम्ब्य उल्लासे बहिर्विभीषिका विक्लवात्मनः परिमितस्य योगिनश्चाकित्यप्रकारः, अपरिमितस्य तु पूर्णाहन्तात्मकानवच्छिनान न्दपरिस्पन्दास्वादसंप्रतीतात्मनः स्वात्मपक्षनि क्षिप्ताशेषबाह्यप्रपञ्चत्वादिदन्तानुभूत्यवश्यंभावः, ततश्च विकल्पविक्षोभानुभूतिवैचित्र्योत्तरमिदन्ता वरोहणमप्यनवच्छिन्नाहंभावभास्वरे महति प्रमा तृपर्वण्येव पर्यवस्यति ॥ ६१ ॥

 ननु इदन्ताया मायीयावश्यंभावत्वादुद्भावितो ऽयम् अहन्तेदन्तयोरविशेषः कथं संगच्छताम् ? इत्याशङ्क्यह

जंही गृहइ जोई
 कलनपणालीहि विसअसौख्याई ।
णिअहिअयोवमणजरीहि
 ताहि फुरणमयं क्वणइ तेलोक्क ॥६२

याभिर्गृह्णाति योगी
 करणप्रणालीभिर्विषयसौख्यानि ।
निजहृदयोहमनशीलाभि
 स्ताभिः स्फुरणमयं करोति त्रैलो
क्यम् ॥ ६२॥

 प्रकृत्या परमप्रभातृपदाधिरूढोऽपि स्वेच्छा मात्रोपाधिना परिमितप्रमाताभावमवतरन् अत एव प्रकाशानन्दसामरस्यामृतमहाहदायमानो योगी याभिरन्तर्बहिरिन्द्रियशक्तिलक्षणाभिः श ब्दस्पर्शादिविषयवपूंषि सौख्यानि गृह्णाति-आ त्मसात्करोति, ताभिरेव व्याख्यातरूपमात्महृदय मनवरतमुद्वहन्तीभिः प्रमाप्रमाणप्रमेयपरमार्थ मेतत्रैलोक्यं स्वहृदयलक्षणस्फुरणात्मकं विधत्ते ।। ६२॥

 नन्विदं योगिनां नैश्चिन्त्यमाणवाद्युपायसव्य- 18 पेक्षया विकल्पकक्ष्योलङ्घनाक्षमत्वात् कथमनैश्चि न्त्यपक्षमनुप्रविशति ? इत्याशंक्याह

जह तुहं टीइ तहं संसु
 निचित्तो तिहु पहिंदिऊँ अथो।
तंवदि अंथि वियेआ
 एवं उवदिसइ कंस कोअंणो॥६३॥


यथा तव स्थितिस्तथास्स्व
 निश्चिन्त इति प्रतिष्ठितोऽर्थः ।
तत्राप्यस्ति विवेक
 एवमुपदिशति कस्य कोऽन्यः॥६३॥

 यद्यपि आणवाद्युपायानां भेदानुप्राणनतया विकल्पकक्ष्यानुप्रवेशः तथापि आणवं विकल्पो ल्लुण्यं शाक्ते, तस्य स्फुरत्तामात्रं शाम्भवं निर्वि कल्पत्वमित्युत्तरोत्तरपर्वानुशीलनादुक्तरूपमेषां नैश्चिन्त्यमव्याहतम् , तवोपदेश्यस्य येन प्रकारेण स्थितिर्वृत्तिर्भवति तेनैव प्रकारेण विकल्पलक्षणां चिन्तामतिक्रामन् अव्याकुलं वर्तस्व - इति योऽ यमुपायलक्षणोऽर्थः स खलु आणवादिक्रमोल्लङ्घ नेन प्रतिष्ठितः शाम्भवत्वात्मना पार्यन्तिक इत्या ख्यायते, तत्रापि कश्चिद्विवेकोऽस्ति-- पर्यालोच नया कयाचिद्भाव्यम्, यदुत एवं सति उपपादि तया भङ्गया,योऽयमुपदेशो-रहस्यार्थप्रख्यापन, स खलु आस्वादे विध्यर्थस्य स्वान्यविभागरूप भेदजीवितत्वात् किं कर्मकः किं कर्तृको वा स्या दित्युद्भावयितुं नार्हति-तं प्रति कर्मकर्तृभूतयोः उपदेश्योपदेशकयोर्वस्तुवृत्त्या भावात् ॥ ६३ ॥

 इत्थमत्याश्चर्यनश्चिन्त्यशालिनां योगिनां स्व भावमनुसंदधानस्तत्रकृत् स्वात्मनोऽपि तेभ्यो लक्षण्याभावात् तादृक्स्वभावतापरामर्शमांसला ह्लादातिशयमनुभवन् एतदाशयावेशवैवश्योद्रिक्त स्वसंविदाटोपगौरवोच्चलचित्तवृत्तिचमत्कारोत्तर-

माह

ऊँ संसारसुहेली
 ऊँ सुलब मोखमंग सौहंगम् ।
तुडिअअतसकलंक
 ॐ सिविजोईण जामली सिद्धिः॥६४॥


अहो संसारमुखकेली
 अहो सुलभं मोक्षमार्गे सौभाग्यम्।
त्रुटितान्तककलङ्का
 अहो शिवयोगिनां यामली सिद्धि':॥६४॥


 आश्चर्यं खलु-अयं संसारलक्षणः सुखाति शयो यो जननमरणादिरूपतया बाह्यजनं प्रति क्लेशात्मकः, अत एव हेयतया निश्चीयमानोऽपि


 ४१ सिद्धिरिति, अयमर्थः- इदन्तालक्षणः सारः, पूर्णाहन्तालक्षणं मोक्षसौभाग्यम् , अहन्तेदन्तोभयमिता शिवयोगिनां यामली सिद्धिः- प्रकाशविमर्शरूपेति। मोक्षप्रायतया अस्माभिरास्वाद्यते । यदुक्तं श्री स्तोत्रावल्याम्

'दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥'

इति । आश्चर्यं चेदं मोक्षलक्षणस्य सर्वजनमृग्य माणस्य परमेश्वरानुग्रहैकलभ्यस्य अर्थस्य सौभाग्यं सर्वहृदयहारित्वम् । त्रुटितान्तकेति शिवयोगिनो नाम

 न ध्यायतो न जपतः

इत्यादिश्रीस्तोत्रावलीस्थित्या प्राणधारणाद्युपरो धव्यतिरेकेण, प्रकाशात्मना शिवेन सह, विमर्शा स्मना शत्त्या च सम्बन्धमभुवाना महात्मानः, तेषां या सिद्धिः- स्वस्वभावचमत्काराकारा स्फु रत्ता, यामली-न कदाचिद्वेधवेदकत्वद्वितयसृ ष्टिस्वरूपतामतिकामति ॥ ६४ ॥

 श्रूयमाणतामात्रसौलभ्यमेतदर्थोन्मीलनं, न पुनः स्वहृदयानुभूतिपर्यवसायि - इत्याख्यापयि- तुमाह

क्षणमेकं सुष्टणवि
 अमअसहावेण णोणभावेण ।
संवोतिणो संवो
 संव इरं लहइ संवसौहंग ॥६५॥


क्षणमात्रस्पृष्टेनापि
 अमृतस्वभावेन ज्ञानभावेन ।
सर्वोत्तीर्णः सर्वः
 सर्वं चिरं लभते सर्वसौभाग्यम्

 [क्षणमात्र इति ६५ तमपद्यादारभ्य पधत्रयस्य व्याख्या

सर्वेषु लब्धपुस्तकेषु न वर्तते, त्रुटिता समस्ति ]

गूढादगूढरय दो होई
 फुडअतो फुडरइ एसो।
देशक कडंखपादे
 पखो पडमो ण होइ धंणाणाम् ।।


गूढाबूढतरो यो भवति
 स्फुटादपि स्फुटतर एषः।
दैशिककटाक्षपाते
 पक्षः प्रथमो न भवति धन्यानाम्


अंचतु ड्यंण विज्या
 चतुसोन्ताणवि साअराणं च।
एण्णंचि अमआमअं
 मथति मन्थानहेरवो दैवो॥ ६७॥

आस्तामन्या विद्या
 श्चतुःस्रोतसामपि सागराणामिव ।
एवमेवामृतमयं
 मथ्नाति मन्थानभैरवो देवः॥६७॥

 मथ्नाति-तत्तत्स्रोतःप्रतिपाद्यार्थान्तरानाद- रोत्तरं स्वात्मशक्त्या पृथक्पिण्डीकृत्य उत्थाप- यति ॥ ७॥

हन्तं. रहसं भणमो
 मूढा मा भमद गंभगोलेसु।
अंबासंणं हिअअं
 पआयलोएह तंस व उजोअं


हन्त रहस्यं भणामो
 मूढा मा भ्रमत गर्भगोलेषु ।

एणं चिअ महंथं
 युधारभंमि पाण्डुपुत्तंस।
छोलहसहंससत्ती
 देवः उबदिसइ माहऊ॥ ६९ ॥


एनमेव महार्थं
 युद्धारम्भे पाण्डुपुत्रस्य ।
षोडशसहस्रशक्ति
 र्देव उपदिशति स्म माधवः।।६९


इत्थं पाइसुंत्त सत्तइसमुल्लासेकइंधायिनी
 जागत्तखणणि विसेसशिविणोत्तीणं पावीणोत्तरम् ।
लोउलङ्घनजोगसिद्धिपअवीपंथाणबंधोजयं
 कन्याशुलकपालमत्तविहवं वेदीमि तं जोइणम् ॥ ७० ॥


इत् माकृतसूत्रसप्ततिसमुल्लासैकसंधायिनी,
 जाग्रत्तत्क्षणनिर्विशेषस्वपनोत्तीर्णी प्रतिज्ञोत्तराम् ।
लोकोल्लसनयोग्यसिद्धपदवीमस्थानबन्धोद्यमां
 कन्थाशूलकपालमात्रविभवां वन्देत तां योगिनीम् ।।७।।

 योगिनीम् - अलौकिकैश्वर्यात्मकयोगशक्तिसं

पन्नां परमेश्वरीं, कन्था नाम-भेदप्रमेदवैचित्र्य वत्तायामपि पर्यन्तत ऐक्यानुसंधानसाध्यो विश्व व्यवहारः, कपालं च-शरीराहन्ताधिवासितात्मा प्रमाता 'चित्तमयो मायाप्रमाता' इत्युच्यते, इति शिवम् ॥ ७॥

इति श्रीमन्महेश्वरानन्दविरचिता महार्थपञ्जरी समाता ॥

 महेश्वरानन्दकृतः परिमलः।'

 गोरक्षापरपर्यायः महेश्वरानन्दः प्रसिद्धः ।।

सद्विद्यानां संश्रये ग्रन्थविद्व
 व्यूहे हार्स कालवृत्त्योपयाते ।
तत्तत्सद्धमोंदिधीर्षैकतान
 सत्प्रेक्षौज शालिना कर्मवृत्त्यै ॥१॥


श्रीमत्कश्मीराधिराजेन मुख्यै
 र्धर्मोद्युक्तैर्मचिभिः स्वविवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ-
 ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥२॥

"https://sa.wikisource.org/w/index.php?title=महार्थमञ्जरी&oldid=309260" इत्यस्माद् प्रतिप्राप्तम्