महावीरस्वामिस्तोत्रम्-१ (हेमचन्द्राचार्यविरचितम्)

महावीरस्वामिस्तोत्रम्-१
हेमचन्द्राचार्यः
१९२६

श्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरखामिस्तोत्रम् । अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ।। १ ।। अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालरेव । विगाह्तां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशन् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्ती सत्यम् ॥ ३ ॥ खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः खलन्ति ॥ ४ ॥ आदीपमाव्योम समस्खभावं स्याद्वादमुद्रानतिमेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ ५॥ कर्तास्ति कश्चिजगतः स चैकः स सर्वगः स खवशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ ६ ॥ न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥ ७ ॥ सतामपि स्यात्कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥ ८ ॥ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९॥ खयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात्परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥ १० ॥ १. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एक कर्तृनामरहितटीकासमेतं नाति- शुद्ध पुस्तकमग्निमायाश्चायोगव्यवच्छेदिकाद्वात्रिंशिकाया मूलमानमेकमरमभ्यं श्रीशान्ति. विजयमुनिवरैरर्पितम्. श्रीमहावीरखामिस्तोत्रम् । न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । खपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ।। ११॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ माया सती चेह्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तकि माता च वन्ध्या च भवत्परेषाम् ॥ १३ ॥ अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लप्तावतावकानां प्रतिभाप्रमादः ॥ १४ ॥ चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति क्रियजडैन अथितं विरोधि ॥ १५॥ न तुल्यकालः फलहेतुभावो हेतौ बिलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्विलूनशीर्णं सुगतेन्द्रजालम् ॥ १६ ॥ विना प्रमाणं परवन्न शून्यः खपक्षसिद्धेः पदमश्नुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूपिदृष्टम् ॥ १७॥ कृतप्रणाशाकृतकर्मभोगमवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसंततिश्च नाभेदभेदानुभयैर्घटेते । ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ विनानुमानेन परामिसंधिमसंविदानस्य तु नास्तिकस्य । न सांप्रतं वक्तुमपि के चेष्टा क दृष्टमात्रं च हहा प्रमादः ॥ २० ॥ प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१ ॥ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः ॥ २२ ॥ अपर्ययं वस्तु समस्यमानमद्रव्यमेतच विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥ उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । १०४ काव्यमाला। इत्यप्रबुध्यैव विरोधमीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥ २५ ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समारत एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं स्मरशासनं ते ॥ २६ ॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥ सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः ॥ २८ ॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षट्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः ॥ २९ ॥ अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥ ३० ॥ वाग्वैभवं ते निखिलं विवेत्तुमाशास्महे चेन्महनीयमुख्य । लङ्घेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैहीं विनिहितम् । तदुद्धतुं शक्तो नियतमविसंवादिवचन- स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ इति श्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् ।