- पञ्चनिदानलक्षणम्
- प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम्
- स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् १
- नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात्
- सोपद्र वारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् २
- नानातन्त्रविहीनानां भिषजामल्पमेधसाम्
- सुखं विज्ञातुमातङ्कमयमेव भविष्यति ३
- निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा
- संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ४
- निमित्तहेत्वायतन प्रत्ययोत्थानकारणैः
- निदानमाहुः पर्यायैःप्राग्रूपं येन लक्ष्यते ५
- उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
- लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद्यथातथम् ६
- तदेव व्यक्ततां यातं रूपमित्यभिधीयते
- संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृति ७
- हेतुव्याधिविपर्यस्त विपर्यस्तार्थकारिणाम्
- औषधान्नविहाराणामुपयोगं सुखावहम् ८
- विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः
- विपरीतोऽनुपशयो व्याध्यसात्म्यमिति स्मृतः ९
- यथा दुष्टेन दोषेण यथा चानुविसर्पता
- निर्वृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः १०
- संख्याविकल्पप्राधान्य बलकालविशेषतः
- सा भिद्यते यथाऽत्रैव वक्ष्यतेऽष्टौ ज्वरा इति ११
- दोषाणां समवेतानां विकल्पॐऽशाशकल्पना
- स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत् १२
- हेत्वादिकार्त्स्न्यावयवैर्बलाबल विशेषणम्
- नक्तंदिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् १३
- इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते
- सर्वेषामेव रोगाणां निदानं कुपिता मलाः १४
- तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
- निदानार्थकरो रोगो रोगस्याप्युपजायते १५
- तद्यथा ज्वरसन्तापाद्र क्तपित्तमुदीर्यते
- रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते १६
- प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च
- अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते १७
- दिवास्वापादिदोषैश्च प्रतिश्यायश्च जायते
- प्रतिश्यायादथो कासः कासात् संजायते क्षयः
- क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते १८
- ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः
- कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति १९
- न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च
- एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसंकराः २०
- तस्माद्यत्नेन सद्वैद्यैरिच्छद्भिः सिद्धिमुद्धताम्
- ज्ञातव्यो वक्ष्यते योऽय ज्वरादीनां विनिश्चयः २१
- अथ ज्वरनिदानम्
- दक्षापमानसंक्रुद्धरुद्र निः श्वाससंभवः
- ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः १
- मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
- बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः २
- स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
- युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ३
- श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
- इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ४
- जम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
- अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ५
- सामान्यतो विशेषात्तु जॄम्भाऽत्यर्थं समीरणात्
- पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ६
- रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः
- सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ७
- वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
- निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ८
- शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता
- शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ९
- वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
- कण्ठौष्ठमुखनासानां पाकः स्वदेश्च जायते १०
- प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
- पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ११
- स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता
- शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च १२
- गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्र ता
- स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता
- नात्युष्णगात्रताच्छर्दिर्लालास्रावोऽविपाकता
- प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता १३
- तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
- कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः १४
- पूर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
- स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च १५
- शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्
- सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः १६
- लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
- मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः १७
- क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
- सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने १८
- सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
- तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः १९
- परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्
- ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च २०
- शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
- स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः २१
- कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
- कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् २२
- मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
- चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः २३
- दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
- सन्निपातज्वरोऽसाध्यैः कृच्छ्रसाध्यस्ततोऽन्यथा २४
- सिप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
- पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा १
- सप्तमी द्विगुणा चैव नवम्येकादशी तथा
- एषा त्रिदोषमयार्दा मोक्षाय च वधाय च २
- सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
- शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते २५
- त्रियः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः
- आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रि यमनोगताः १
- जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम्
- श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते २
- न च दृष्टिर्भवेत्तस्य समर्था रूपदर्शने
- न घ्राणं न च संस्पर्शं शब्दं वा नैव बुध्यते ३
- शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति
- कूजति तुद्यते चैव परिवर्तनमीहते ४
- अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते
- प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिद्ध्यति ५
- अभिघाताभिचाराभ्यामभि शापाभिषङ्गतः
- आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् २६
- श्यावास्यता विषकृते तथाऽतीसार एव च
- भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया २७
- ओषधिगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः
- कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम् २८
- हृदये वेदना चास्य गात्रंच परिशुष्यति
- भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
- अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते २९
- भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
- कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः ३०
- भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः
- दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः ३१
- धातुमन्यमतं प्राप्य करोति विषमज्वरम्
- सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ३२
- मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः
- कुर्याच्चतुर्थकं घोरमन्तकं रोगसंकरम्
- सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
- सन्तत्यायोऽविसर्गीस्यात् सन्ततः स निगद्यते ३४
- अहोरात्रे सततको द्वौ कालावनुवर्तते
- अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ३५
- तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
- केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ३६
- कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
- वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ३७
- चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः
- जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसंभवः ३८
- विषमज्वर एवान्यश्चतुर्थकविपर्ययः
- स मध्ये ज्वरयत्यह्नी आदावन्ते च मुञ्चति ३९
- नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति
- स्तब्धाङ्गः श्लेष्मभूयिष्ठा नरो वातबलासकी ४०
- प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
- मन्दज्वरविलेपी च सशातः स्यात् प्रलेपकः ४१
- विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
- तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ४२
- काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः
- तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ४३
- काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
- शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ४४
- त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
- तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ४५
- करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
- तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ४६
- द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ
- दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ४७
- गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
- रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ४८
- रक्तनिष्ठीवनं दाहो मोहच्छदनविभ्रमौ
- प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ४९
- पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
- ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ५०
- भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
- दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ५१
- भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
- विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ५२
- तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
- अन्तर्दाहो महाश्वासौ मर्मच्छेदश्च मञ्जगे ५३
- मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
- शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ५४
- रिसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः
- अस्थिमञ्जगतः कृच्छ्रः शुक्रस्थस्तु न सिध्यति १
- वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
- वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ५५
- वर्षाषु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
- कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ५६
- तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
- कफो वसन्ते तमपि वातपित्तं भवेदनु ५७
- काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा
- निदानोक्तानुपशयो विपरीतोपशायिता ५८
- अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
- सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ५९
- अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्
- सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ६०
- बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च
- लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ६१
- तन्द्रा लस्याविपाकास्यवैरस्यं गुरुगात्रता
- क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः ६२
- आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्
- भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ६३
- शोधनं शमनीयं च करोति विषमज्वरम्
- ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
- मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ६४
- क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्
- दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ६५
- बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः
- हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ६६
- ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः
- ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ६७
- असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः
- गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ६८
- आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
- आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ६९
- क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम्
- विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ७०
- शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः
- यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् ७१
- वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम्
- हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ७२
- सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः
- हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ७३
- गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
- दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसंज्ञता
- कूजनं चास्य वैगन्ध्यमाकृतिर्ज्वरमोक्षणे ७४
- स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
- क्षवथुश्चान्नलिप्सा ज्वरमुक्तस्य लक्षणम् ७५
- अथातीसारनिदानम्
- गुर्वतिस्निग्ध रूक्षोष्णद्र वस्थूलाति शीतलैः
- विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः १
- स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
- शोकाद् दुष्टाम्बुमद्यातिपानैः सात्म्यर्तुपर्ययैः २
- जलाभिरमणैर्वेगविघातैः क्रिमिदोषतः
- नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ३
- संशम्यांपां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाऽध प्रणुन्नः
- सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति
- एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ४
- हृन्नाभिपायूदरकुक्षितोद गात्रावसादानिलसन्निरोधाः
- विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
- अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
- शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ६
- पित्तात्पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकोपपन्नम्
- शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं विस्रं शीतं हृष्टरोमा मनुष्यः ७
- वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम्
- कृच्छ्रसाध्यमतीसारं विद्याद्दोषत्रयोद्भवम् ८
- तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
- कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् ९
- निर्गच्छेद्वै विड्विमिश्रं ह्यविड वा निर्गन्धं वा गन्धवद्वाऽतिसारः
- शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः १०
- अन्नाजीर्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसंघान्मलांश्च
- नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ११
- संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
- पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम् १२
- एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
- लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् १३
- पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
- घृततैलवसामज्जवेशवारपयोदधि १४
- मांसधावनतोयाभं कृष्णं नीलारुणप्रभम्
- मेचकं स्निग्धकर्बूरं चन्द्र कोपगतं घनम् १५
- कुणपं मस्तुलुङ्गाभं सुगन्धि कुथितं बहु
- तृष्णादाहतमःश्वासहिक्कापार्श्वास्थिशूलिनम् १६
- संमूर्च्छारतिसंमोहयुक्तं पक्कवलीगुदम्
- प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् १७
- असंवृतगुदं क्षीणं दूराध्मातमुपद्रुतम्
- गुद पक्वे गतोष्माणमतिसारकिणं त्यजेत् १८
- श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
- विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
- शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम्
- छर्दिं मूर्च्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत्
- पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
- तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्बणः २०
- वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
- प्रवाहतोऽल्प बहुशो मलाक्तंप्रवाहिकां तां प्रवदन्ति तज्ज्ञाः २१
- प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
- सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु
- तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च २२
- यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
- दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः २३
- ज्विरातीसारयोरुक्तं निदानं यत् पृथक् पृथक्
- यत्स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः १
- अथ ग्रहणीरोगनिदानम्
- अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
- भूयं संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १
- एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
- सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति २
- पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
- ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ३
- पूर्वरूपं तु तस्येदं तृष्णाऽलस्यं बलक्षयः
- विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ४
- कटुतिक्तकषायाति रूक्षसंदुष्टभोजनैः
- प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ५
- मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान्
- तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ६
- कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
- पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ७
- हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका
- गृद्धिः सर्वरसानां च मनसः सदनं तथा ८
- जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
- स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ९
- चिराद् दुःखं द्र वं शुष्कं तन्वामं शब्दफेनवत्
- पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १०
- कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्
- आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ११
- सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्र वम्
- पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः १२
- गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्
- भुक्तमात्रस्य च स्नप्नाद्धन्त्यग्निं कुपितः कफः १३
- तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
- आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः १४
- हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु
- दुष्टोमधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १५
- भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्
- अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके १६
- पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे
- त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १७
- अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा
- द्र वं शीतं घनं स्निग्धं सकटीवेदनं शकृत् १७-१
- आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम्
- पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति १७-२
- दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च या
- दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी १७-३
- सा भवेदामवातेन संग्रहग्रहणी मता
- स्विपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः
- तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् १७-४
- दोषं सामं निरामं च विद्यादत्रातिसारवत् १८
- लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत्
- वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नैव निवर्तते च १९
- बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता
- वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम् १९-१
- अथार्शोनिदानम्
- पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च
- अर्शांसि षट्प्रकाराणि विद्याद् गुदवलित्रये १
- दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन्
- मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः २
- कषायकटुतिक्तानि रूक्षशीतलघूनि च
- प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ३
- लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
- शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ४
- कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
- देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ५
- विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्
- पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ६
- मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
- अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः ७
- प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्
- श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् ८
- हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्बणानि च
- सर्वोहेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ९
- गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः
- म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १०
- मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
- बिम्बीखर्जूरकर्कन्धूकार्पासीफलसन्निभाः ११
- केचित् कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः
- शिरःपार्श्वांसकट्यूरुवङ्क्षणाद्यधिकव्यथाः १२
- क्षवथूद्गारविष्टम्भहृद् ग्रहारोचकप्रदाः
- कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १३
- तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
- रुक्फेनपिच्छानुगतं विबुद्धमुपवेश्यते १४
- कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
- गुल्मप्लीहोदराष्ठीलासंभवस्तत एव च १५
- पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
- तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १६
- शुकजिह्वायकृत्खण्डजलौकोवक्त्रसंनिभाः
- दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरुचिमोहदाः १७
- सोष्माणो द्र वनीलोष्णपीतरक्तामवर्चसः
- यवमध्या हरित्पीतहारिद्र त्वङ्नखादयः १८
- श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः
- उत्सन्नोपचित-स्निग्ध-स्तब्ध-वृत्तगुरुस्थिराः १९
- पिच्छिलाः स्तिमिताःश्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
- करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २०
- वङ्क्षणानाहिनः पायुर्वस्तिनाभिविकर्षिणः
- सश्वासकासहृल्लासप्रसेकारुचिपीनसाः २१
- मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
- क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः २२
- वसाभसकफप्रायपुरीषाः सप्रवाहिकाः
- न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः २३
- सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च
- रक्तोल्बणा गुदे कीलाः पित्ताकृतिसमन्विताः २४
- वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः
- तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः २५
- स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः
- भेकाभः पीड्यते दुःखैः शोणितक्षयसंभवै २६
- हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः
- तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च
- विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्तते २७
- तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्
- कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम् २८
- तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्
- शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम् २९
- यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्
- गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
- श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ३०
- विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
- कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ३१
- ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च
- पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ३२
- पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्
- सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ३३
- तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च
- सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ३४
- बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च
- अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३५
- द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च
- कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ३६
- सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
- जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३७
- शेषत्वादायुषस्तानि चतुष्पादसमन्विते
- याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ३८
- हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा
- शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ३९
- हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
- तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ४०
- तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
- शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि ४१
- मेढ्रादिष्वपि वक्ष्यन्ते यथास्वैं नाभिजानि च
- गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४२
- व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
- कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४३
- वातेन तोदपारुष्यं पित्तादसितवक्त्रता
- श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ४४
- अथाग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्
- मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः
- कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः १
- विषमो वातजान् रोगाँ स्तीक्ष्णः पित्तनिमित्तजान्
- करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् २
- समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
- स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ३
- कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते
- मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते
- तीक्ष्णग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ४
- आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
- अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ५
- अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
- वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ६
- अत्यम्बुपानाद्विषमाशनाच्च संधारणात्स्वप्नविपर्ययाच्च
- कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ७
- ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
- प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ८
- मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति
- चिन्ताशोकभयक्रोध दुःखशय्याप्रजागरैः ९
- तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः
- उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते १०
- विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
- उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ११
- विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
- मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् १२
- रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे
- मूर्च्छा प्रलापो वमथुः प्रसेकं सदनं भ्रमः
- उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः १३
- अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
- रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १४
- अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
- विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका १५
- सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
- यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते १६
- न तां परिमिताहारा लभन्ते विदितागमाः
- मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः १७
- मूर्च्छाऽतिसारो वमथुः पिपासा शूलो भ्रमोद्वेष्टनजृम्भदाहाः
- वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः १८
- कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति
- निरुद्धो मारुतश्चैव कुक्षावुपरि धावति १९
- वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
- तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २०
- दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
- विलम्बकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः २१
- यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
- दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च २२
- यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
- क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय २३
- उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
- लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् २४
- निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
- अमी ह्युपद्र वा घोरा विसूच्यां पञ्च दारुणाः २५
- प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
- तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति २६
- ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
- विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् २७
- अथ क्रिमिनिदानम्
- क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः
- बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः १
- नामतो विंशतिविधाः बाह्यास्तत्र मलोद्भवाः
- तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः २
- बहुपादाश्च सूक्ष्माश्चयूका लिक्षाश्च नामतः
- द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ३
- अजीर्णभोजी मधुराम्लनित्यो द्र वप्रियः पिष्टगुडोपभोक्ता
- व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ४
- माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः
- मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ५
- विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
- ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः ६
- भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्
- कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ७
- पृथुब्रघ्ननिभाः केचित् केचिद्गण्डूपदोपमाः
- रूढधान्याङ्कुराकारास्तनु दीर्घास्तथाऽणवः ८
- श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते
- अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ९
- चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते
- हृल्लासमास्यस्रवणमविपाकमरोचकम् १०
- मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्
- रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ११
- अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः
- केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः
- षट् ते कुष्ठैककर्माणः सहसौरसमातरः १२
- पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
- प्रवृद्धा स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखाः १३
- तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
- पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १४
- ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः
- सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि १५
- विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः
- रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः १६
- अथ पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम्
- पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
- चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः १
- व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
- निषेवमाणस्य प्रदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति २
- त्वक्स्फोटनष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः
- विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ३
- त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः
- वातपाण्ड्वामये तोदकम्पानाहभ्रमादयः ४
- पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः
- भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ५
- कफप्रसेकश्वयथु तन्द्रा लस्यातिगौरवैः
- पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ६
- ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
- पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः ७
- मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः
- कषाया मारुतं पित्तमूषरा मधुरा कफम् ८
- कोपयेन्मृद्र सादींश्च रौक्ष्याद् भुक्तं च रूक्षयेत्
- पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि ९
- इन्द्रि याणां बलं हत्वा तेजो वीर्यौजसी तथा
- पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् १०
- शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
- क्रिमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् ११
- पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
- कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति १२
- बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
- दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृडर्दितः १३
- सनास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्
- पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्
- पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति १४
- अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
- गुदे च शेफस्यथ मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्
- विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितं च १५
- पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
- तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते १६
- हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
- रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः १७
- दाहाविपाकदौर्बल्य सदनारुचिकर्षितः
- कामला बहुपित्तौघ कोष्ठशाखाश्रया मता १८
- कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला
- कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः १९
- सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति
- दाहारुचितृडानाहतन्द्रा मोहसमन्वितः २०
- नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते
- छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः २१
- नश्यति श्वासकासार्तो विड्भेदी कुम्भकामली
- यदा तु पाण्डोर्वर्णः स्याद्धरितः श्यावपीतकः २२
- बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः
- स्त्रीष्वहर्षोऽङ्गमर्दश्च दाहस्तृष्णाऽरुचिर्भ्रमः
- हलीमकं तदा तस्य विद्यादनिलपित्ततः २३
- सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता
- पाण्डुता नेत्रयोर्यस्य पानकीलक्षणं भवेत्
- अथ रक्तपित्तनिदानम्
- घर्मंव्यायामशोकाध्वव्यवायैरतिसेवितैः
- तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च १
- पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम्
- ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा २
- ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
- कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ३
- सदनं शीतकामित्वं कण्ठधूमायनं वमिः
- लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ४
- सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
- श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ५
- रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम्
- मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ६
- संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्
- ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम्
- द्विमार्गं कफवाताम्यामुभाभ्यामनुवर्तते ७
- ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
- एकमार्गं बलवतो नातिवेगं नवोत्थितम् ८
- रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र वम्
- एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ९
- यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्
- व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् १०
- दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
- भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
- तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनत्वैं
- भक्तद्वेषाविपाकौ विकृतिरपि भवेद्र क्तपित्तोपसर्गाः ११
- मांसप्रक्षालनाभं कुथितमिव च यत्कर्दमाम्भोनिभं वौ
- मेदंपूयास्रकल्पं यकृदिव यदि वा पक्कजम्बूफलाभम्
- यत्कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा-
- स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १२
- येन चोपहतो रक्तं रक्तपित्तेन मानवः
- पश्येद् दृश्यं वियच्चापि तच्चासाध्यमसंशयम् १३
- लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
- लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः १४
- अथ राजयक्ष्मक्षतक्षीणनिदानम्
- वेगारोधात् क्षयाच्चैव साहसाद्विषमाशनात्
- त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् १
- कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
- अतिव्यवायिनोवाऽपि क्षीणे रेतस्यनन्तराः
- क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः २
- श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्रा ः!
- शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरोरिरंसुः ३
- स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च
- तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छ्रुष्कांस्तरून्पवनधूमदवार्दितांश्च ४
- अंसपार्श्वाभितापश्च सन्तापः करपादयोः
- ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ५
- भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
- स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि
- स्वरभेदोऽनिलाच्छूलं संकोचश्चांसपार्श्वयोः
- ज्वरो दाहो ऽतिसारश्च पित्ताद्र क्तस्य चागमः ६
- शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
- कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ७
- एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
- कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ८
- त्रिभिर्वा पीडितं लिङ्गैः कासश्वासासृगामयैः
- जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः ९
- सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
- युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा १०
- महाशनं क्षीयमाणमतिसारनिपीडितम्
- शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ११
- शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
- कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् १२
- ज्वरानुबन्धरहितं बलवन्तं क्रियासहम्
- उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् १३
- व्यवायशोकवार्धक्यव्यायामाध्वप्रशोषितान्
- व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु १४
- व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
- पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १५
- प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
- जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः १६
- कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः
- ष्ठीवति श्लेष्मणा हीनं गौरवारतिपीडितः १७
- संप्रस्रुतास्यनासाक्षः शुष्करूक्षमलच्छविः
- अध्वशोषी च स्रस्ताङ्गः संभृष्टपरुषच्छविः १८
- प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः
- व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
- लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना १९
- रक्तक्षयाद् वेदनाभिस्तथैवाहारयन्त्रणात्
- व्रणितस्य भवेच्छोषः स चासाध्यतमो मतः २०
- धनुषाऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्
- युध्यमानस्य बलिभिः पततो विषमोच्चतः २१
- वृषं हयं वा धावन्तं दम्यं वाऽन्य निगृह्णतः
- शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् २२
- अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्
- महानदीर्वा तरतो हयैर्वा सह धावतः २३
- सहसोत्पत्ततो दूरं तूर्णं चाऽपि प्रनृत्यतः
- तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा २४
- विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते
- स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः २५
- उरो विभज्यतेऽत्यर्थं भिद्यतेऽथ विरुज्यते
- प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते २६
- क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
- ज्वरो व्यथा मनोदैन्यं विड्भेदाग्निबधावपि २७
- दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
- कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्तते २८
- स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्
- अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् २९
- उरोरुक् शोणितच्छर्दिः कासो वैशेषिकः क्षते
- क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ३०
- अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः
- परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् ३१
- अथ कासनिदानम्
- धूमोपघाताद्र सतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
- विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव १
- प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः
- निरेति वक्त्रात्सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः २
- पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
- क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ३
- पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
- कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ४
- हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
- प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ५
- उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
- पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ६
- प्रलिप्यमानेन मुखेन सीदञ् शिरोरुजार्तः कफपूर्ण देहः
- अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ७
- अतिव्यवायभाराध्व युद्धाश्वगजविग्रहैः
- रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ८
- स पूर्वं कासते शुष्कं ततः ष्ठीवेत्सशोणितम्
- कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ९
- सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना
- दुःखस्पर्शेन शूलेन भेदपीडाभितापिना १०
- पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
- पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ११
- विषमासात्म्यभोज्या तिव्यवायाद्वेगनिग्रहात्
- घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
- कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् १२
- स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
- शुष्यन्विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्
- तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति १३
- इत्येष क्षयजः कासः क्षीणानां देहनाशनः
- साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः १४
- नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ
- स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः
- त्रीन् पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् १५
- अथ हिक्काश्वासनिदानम्
- विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
- शीतपानाशनस्थानरजोधूमातपानिलैः १
- व्यायामकर्मभाराध्व वेगाघातापतर्पणैः
- हिक्काश्वासश्च कासश्च नृणां समुपजायते २
- मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
- स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ३
- अन्नजां यमलां क्षुद्रा ं! गम्भीरां महतीं तथा
- वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ४
- कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता
- हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ५
- पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
- हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ६
- चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते
- कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ७
- प्रकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते
- क्षुद्रि का नाम सा हिक्का जत्रुमूलात्प्रधाविता ८
- नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
- अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ९
- मर्माण्युत्पीडयन्तीव सततं या प्रवर्तते
- महाहिक्केति सा ज्ञेया सर्वगात्रविकम्पिनी १०
- आयम्यते हिक्कतो यस्य देहोऐ! दृष्टिश्चोर्ध्वं नाम्यते यस्य नित्यम्
- क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रैं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कमानौ ११
- अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च
- व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः १२
- आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्
- यमिका च प्रलापार्तिमोहतृष्णासमन्विता १३
- अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रि यश्च यः
- तस्य साधयितुं शक्यायमिकाहन्त्यतोऽन्यथा १४
- महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
- भिद्यते स महाव्याधिः श्वासएको विशेषतः १५
- वाताधिको भवेत् क्षुद्र स्तमकस्तु कफोद्भवः
- कफवाताधिकश्चैव संसृष्टश्छिन्नसंज्ञकः
- श्वासो मारुतसंसृष्टो महानूर्ध्वस्ततो मतः १२
- प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
- आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च १६
- यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
- विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः १७
- उद्धूयमानवातो यः शब्दवद् दुःखितो नरः
- उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् १८
- प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
- विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् १९
- दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्
- महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते २०
- ऊर्ध्वं श्वसिति यो दीर्घ न च प्रत्याहरत्यधः
- श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः २१
- ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
- प्रमुह्यन् वेदनार्तश्च शुक्लास्योऽरतिपीडितः २२
- ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते
- मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् २३
- यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः
- न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः २४
- आनाहस्वेदमूर्च्छार्तो दह्यमानेन वस्तिना
- विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः २५
- विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
- छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् २६
- प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते
- ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च २७
- करोति पीनसं तेन रुद्धो घुर्घुरकं तथा
- अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् २८
- प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
- प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः २९
- श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
- तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ३०
- तथाऽस्योद्ध्वंसतेकण्ठःकृच्छ्राच्छक्नोति भाषितुम्
- न चापि लभते निद्रा ं! शयानः श्वासपीडितः ३१
- पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
- आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ३२
- उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान्
- विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ३३
- मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते
- स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ३४
- ज्वरमूर्च्छापरीतस्य विद्यात्प्रतमकं तु तम्
- उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ३५
- तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति
- मज्जतस्तमसीवास्य विद्यात्संतमकं तु तम् ३६
- रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
- क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ३७
- हिनस्ति न स गात्राणि न च दुःखो यथेतरे
- न च भोजनपानानां निरुणद्ध्युचितांगतिम् ३८
- नेन्द्रि याणां व्यथां नापि कांचिदापादयेद्रुजम्
- स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ३९
- क्षुद्र ः! साध्यो मतस्तेषां तमकः कृच्छ्र उच्यते
- त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ४०
- कामं प्राणहरा रोगा बहवो न तु ते तथा
- यथा श्वासश्च हिक्का च हरतः प्राणमाशु च ४१
- अथ स्वरभेदनिदानम्
- अत्युच्चभाषण विषाध्यय नाभिघात-
- सन्दूषणैः प्रकुपिता पवनादयस्तु
- स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
- हन्युः स्वरं भवति चापि हि षड्विधः सः १
- वातादिभिः पृथक् सर्वैर्मेदसा च क्षयेण च
- वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत् खरं च
- पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद् गलेन स च दाहसमन्वितेन २
- ब्रूयात्कफेन सततं कफरुद्धकण्ठःस्वल्पं शनैर्वदति चापि दिवा विशेषात्
- सर्वात्मकेभवति सर्वविकारसंपत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ३
- धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्चवागेष चापि हतवाक् परिवर्जनीयः
- अन्तर्गतरस्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ४
- क्षीणस्य वृद्धस्य कृशस्य वाऽपि चिरोत्थितो यश्च सहोपजातः
- मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ५
- अथारोचकनिदानम्
- वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
- अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन १
- कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यात् लवणं च वक्त्रम्
- अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात् २
- स्वाभाविकं चास्यमथारुचिश्चत्रिदोषजे नैकरसं भवेत्तु ३
- हृच्छूलपीडनयुतं पवनेनै पित्तात्तृड्दाहचोषबहुलैं सकफप्रसेकम्
- श्लेष्मात्मकैं बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ४
- अथ छर्दिनिदानम्
- दुष्टैर्दोषैः पृथक् सर्वैर्बीभत्सालोचनादिभिः
- छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते १
- अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
- अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः २
- श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः
- नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ३
- बीभत्सैर्हेतुभिश्चान्यैः द्रुतमुत्क्लेशितो बलात्
- छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
- निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ४
- हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः
- द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ५
- हृत्पार्श्वपीडामुखशोषशीर्षनाभ्यर्तिकासस्वरभेदतोदैः
- उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्
- कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम् ६
- मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः
- पीतं भृशोष्णं हरितं सतिक्तंधूम्रं च पित्तेन वमेत्सदाहम् ७
- तन्द्रा ऽस्यमाधुर्यकफप्रसेकसन्तोषनिद्रा ऽरुचिगौरवार्तः
- स्निग्धं घनं स्वादु कफाद्विशुद्धं सरोमहर्षोऽल्परुजं वमेत्तु ८
- शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्
- छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रो ष्णरक्तं वमतां नृणां स्यात् ९
- विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति
- उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् १०
- विण्मूत्रयोस्तत्समगन्धवर्णं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्
- प्रच्छर्दयेद् दुष्टमिहातिवेगात्तयाऽदितश्चाशु विनाशमेति ११
- वीभत्सजा दौहृदजाऽमजा च ह्यसात्म्यजा च क्रिमिजा च या हि
- सा पञ्चमी तां चविभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ १२
- शूलहृल्लासबहुला क्रिमिजा च विशेषतः
- क्रिमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
- क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
- सचन्द्रि कां तां प्रवदेदसाध्यौं साध्यां चिकित्सेन्निरुपद्र वां च १४
- कासश्वासोऽज्वरो हिक्का तृष्णा वैचित्त्यमेव च
- हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः १५
- अथ तृष्णानिदानम्
- भयश्रमाभ्यां बलसंक्षयाद्वा ह्यूर्ध्वं चितं पित्तविवर्धनैश्च
- पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम्
- स्रोतस्स्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः १
- ताल्वोष्ठकण्ठास्यविशेषदाहसंतापमोहभ्रमविप्रलापाः
- पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकाले तु विशेषतो हि
- तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च
- भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
- क्षामास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
- स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ३
- मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
- शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिदूयनं च ४
- वाष्पावरोधात्कफसंवृतेऽग्नौ तृष्णा बलासेन भवेत्तथा तु
- निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ५
- क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
- रसक्षयाद्या क्षयसभवा सा तयाऽभिभूतश्च निशादिनेषु ६
- पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
- रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ७
- त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री
- स्निग्धं तथाऽम्ल लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोति ८
- दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्रगलतालुः
- भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ९
- ज्वरमोहक्षयकासश्वा साद्युपसृष्टदेहानाम्
- सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रयुक्तानाम्
- घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १०
- अथ मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासनिदानम्
- क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
- वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः १
- करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
- निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः २
- संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
- तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ३
- सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
- मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्तिता ४
- वातादिभिः शोणितेन मद्येन च विषेण च
- षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ५
- हृत्पीडा जृम्भणं ग्लानिः संज्ञादौर्बल्यमेव च
- सर्वासां पूर्वरूपाणि यथास्वं ता बिभावयेत् ६
- नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्
- पश्यंस्तमः प्रबिशति शीघ्रं च प्रतिबुध्यते ७
- वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
- कार्श्यं श्यावाऽरुणाच्छाया मूर्च्छाये वातसंभवे ८
- रक्तं हरितवर्णं वा वियत्पीतमथापि वा
- पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ९
- सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
- जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते
- संभिन्नवर्चाः पीताभो मूर्च्छाये पित्तसंभवे १०
- मेघसंकाशमाकाशमावृतं वा तमोघनैः
- पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ११
- गुरुभिः प्रावृतैरङ्गैर्यथैवाद्रे र्ण! चर्मणा
- सप्रसेकः सहृल्लासो मूर्च्छाये कफसंभवे १२
- सर्वाकृतिः सन्निपातादपस्मार इवागतः
- स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः १३
- पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः
- तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः १४
- द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति
- गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः १५
- त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ
- स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः १६
- मद्येन विलपञ्शेते नष्टविभ्रान्तमानसः
- गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १७
- वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
- वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १८
- मूर्च्छा पित्ततमः प्राया रजःपित्तानिलाद् भ्रमः
- तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा १९
- चक्रवद् भ्रमतो गात्रं भूमौ पतति सर्वदा
- भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः १
- इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
- निद्रा र्तस्येव यस्येहा तस्य तन्द्रा ं! विनिर्दिशेत् २०
- दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्
- स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना २१
- वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
- संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः २२
- स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
- प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् २३
- अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानम्
- ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः
- तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः १
- किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्
- अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् २
- प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून्
- विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ३
- विधिना मात्रया काले हितैरन्नैर्यथाबलम्
- प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ४
- स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
- भवेदायुःप्रकर्षाय बलायोपचयाय च ५
- काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च
- विधिवत्सेव्यमाने तु मद्ये संनिहिता गुणाः ६
- बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्धनश्च
- संपाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ७
- अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः
- आलस्यनिद्रा भिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ८
- गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसंज्ञाः
- ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ९
- चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
- कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः १०
- को मदं तादृशं गच्छेदुन्मादमिव चापरम्
- बहुदोषमिवामूढः कान्तारं स्ववशः कृती ११
- निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
- आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् १२
- क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन वुभुक्षितेन
- व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १३
- अत्यम्वुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
- उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् १४
- पानात्ययं परमदं पानाजीर्णमथापि वा
- पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १५
- हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
- विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् १६
- तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
- विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् १७
- छर्द्यरोचकहृल्लास तन्द्रा स्तैमित्यगौरवैः
- विद्याच्छीतपरीतस्य कफप्रायं मदात्यम्
- ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः १८
- श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता चै
- विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
- लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञा
- स्तृष्णा रुजा शिरसि सन्धिषु तापि भेदः १९
- आध्मानमुग्रमथ चोद्गिरणं विदाहः
- पानेऽजरां समुपगच्छति लक्षणानि
- हृद्गात्रतोदकफसंस्रव कण्ठधूमा
- मूर्च्छावमिज्वर शिरोरुजनप्रदाहाः २०
- द्वेपः सुरान्नविकृतेष्वपि तेषु तेषु
- तं पानविभ्रममुशन्त्यखिलेन धीराः
- हीनोत्तरौष्ठमति शीतममन्ददाहं
- तैलप्रभास्यमपि पानहतं त्यजेत्तु २१
- जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं
- पीते च यस्य नयने रुधिरप्रभे वा
- हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः
- कासभ्रमावपि च पानहतं भजन्ते २२
- दाहनिदानम्
- त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
- दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् १
- कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम्
- स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः २
- लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
- पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ३
- तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्
- सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ४
- संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते
- असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुःसहः ५
- धातुक्षयोत्थो यो दाहस्तेन मूर्च्छातृडर्दितः
- क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः ६
- क्षतजोऽनश्नतश्चान्नं शोचतो वाऽप्यनेकधा
- तेनान्तर्दह्यतेत्यर्थं तृष्णा मूर्च्छा प्रलापवान्
- मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः
- सर्व एव च वर्ज्याः स्यु शीतगात्रस्य देहिनः ७
- अथोन्मादनिदानम्
- मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः
- मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः १
- एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
- मानसेन च दुःखेन स च पञ्चविधो मतः २
- विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
- स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ३
- विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
- उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ४
- तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
- स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
- धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
- अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
- रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः
- चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ७
- अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि
- पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ८
- अजीर्ण कट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
- उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ९
- अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्र वणौष्ण्यरोषाः
- प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम् १०
- संपूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रदुष्टः
- वुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् संजनयेद्विकारम् ११
- वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा
- छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मके स्यात् १२
- यः सन्निपातप्रभवोऽतिघोरः सर्बैः समस्तैः स च हेतुभिः स्यात्
- सर्बाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १३
- चोरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
- गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतमो मनसो विकारः १४
- चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो
- गायत्यथो हसति रोदिति चापि मूढः
- रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
- श्यावाननो विषकृतेऽथ भवेद्विसंज्ञः १५
- अवाञ्ची वाप्युदञ्ची वा क्षीणमांसबलो नरः
- जागरूको ह्यसंदेहमुन्मादेन विनश्यति १६
- अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः
- उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम् १७
- संतुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्री रवितथसंस्कृतप्रभाषी
- तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः १८
- संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
- संतुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः १९
- हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
- नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः २०
- ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक् सहिष्णुः
- तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः २१
- प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
- मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः २२
- यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्कण्यौ विलेढि वै जिह्वया तथैव
- क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्ज्ञातव्यो भवति भुजङ्गमेन जुष्टः २३
- मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
- क्रोधालुर्विपुलबलो निशाबिहारी शौचद्विड् भवति सराक्षसैर्गृहीतः २४
- उद्धस्तः कृशपरुषोऽचिरप्रलापीदुर्गन्धो भृशमशुचिस्तथातिलोलः
- बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः २५
- स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रा लुः पतति च कम्पते च यो हि
- यश्चाद्रि द्विरदनगादिविच्युः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे २६
- देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
- गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ २७
- पित्र्! याःकृष्णक्षये हिंस्युः पञ्चम्यामपि चोरगाः
- रक्षांसि रात्रौ पैशाचाश्चतुर्दश्यां विशन्ति हि २८
- दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा
- स्वमणिं भास्करार्चिश्च यथा देहं च देहधृक्
- विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः २९
- प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ३०
- तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम्
- गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ३१
- न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्कचिदाविशन्ति
- ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ३२
- तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
- असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽविशन्ति
- अथापस्मारनिदानम्
- चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
- कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते १
- तमः प्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
- अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः १
- हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
- निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ २
- कम्पते प्रदशेद्दन्तान् फेनोवामी श्वसित्यपि
- परुषारुणकृष्णानि पश्येद्रू पाणि चानिलात् ३
- पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शकः
- सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः ४
- शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः
- पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ५
- सर्वैरेतैः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः
- अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ६
- प्रतिस्फुरन्तं बहुशः क्षीणं प्रचलितभ्रुवम्
- नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ७
- पक्षाद्वा द्वादशाहाद्वा मासाद्वाकुपिता मलाः
- अपस्माराय कुर्वन्ति वेगं किंचिदथान्तरम् ८
- देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित्
- शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ९
- अथ वातव्याधिनिदानम्
- रूक्षशीताल्पलघ्वन्न व्यवायातिप्रजागरैः
- विषमादुपचाराच्च दोषासृक्स्रवणादपि १
- लङ्घनप्लवनात्यध्व व्यायामादिविचेष्टितैः
- धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात् २
- वेगसंधारणादामाद भिघातादभोजनात्
- मर्माबाधाद्गजोष्ट्राश्वशीघ्र यानापतंसनात् ३
- देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
- करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रयान् ४
- अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्
- आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ५
- संकोचः पर्वणां स्तम्भो भङ्गोऽस्थ्ना पर्वणामपि
- रोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः ६
- खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोथोऽङ्गानामनिद्र ता
- गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता ७
- शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्
- भेदस्तोदोऽतिराक्षेपो मुहुश्चायास एव च ८
- एवंविधानि रूपाणि करोति कुपितोऽनिलः
- हेतुस्थानविशेषाच्च भवेद्रो गविशेषकृत् ९
- तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
- ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलं च मारुते १०
- सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम्
- वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ११
- ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
- लङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते १२
- रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः
- कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते १३
- पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
- कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् १४
- श्रोत्रादिष्विन्द्रि यवधं कुर्याद् दुष्टः समीरणः
- त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
- आतन्यते सरागा च पर्वरुक् त्वग्गतेऽनिले १५
- रुजस्तीब्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
- गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले १६
- गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा
- सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले १७
- भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
- अस्वप्नः संतता रुक् च मज्जास्थिकुपितेऽनिले १८
- क्षिप्रं मुञ्चति वध्नातिशुक्रं गर्भमथापि वा
- विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः १९
- कुर्यात्सिरागतः शूलं सिराकुञ्चनपूरणम्
- स बाह्याभ्यन्तरायामं खल्लीं कौब्ज्यमथापि वा २०
- सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः
- हन्ति सन्धिगतः सन्धीञ् शूलाटोपौ करोति च २१
- प्राणोदानौ समानश्च व्यानश्चापान एव च
- स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्
- प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
- दौर्बल्यं सदनं तन्द्रा वैरस्यं च कफावृते २२
- उदाने पित्तयुक्ते तु दाहो मूर्च्छा भ्रमः क्लमः
- अस्वेदहर्षौ मन्दोऽग्नि शीतता च कफावृते २३
- स्वेददाहौष्ण्यमूर्च्छाः स्युः समाने पित्तसंवृते
- कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते २४
- अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता
- अधः काये गुरुत्वं च शीतता च कफावृते २५
- व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
- स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते २६
- यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
- तदाऽक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः २७
- मुहुर्मुहुश्चाक्षेपणादाक्षेपक इति स्मृतः
- क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रवर्तते २८
- पीडयन् हृदयं गत्वा शिरं शङ्खौ च पीडयन्
- धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तदा २९
- स कृच्छ्रादुच्छ्वसेच्चापि स्तब्धाक्षोऽथ निमीलकः
- कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ३०
- दृष्टिं संस्तभ्य संज्ञा च हत्वा कण्ठेन कूजति
- हृदि मुक्ते नरं स्वास्थ्यं याति मोहं वृते पुनः ३१
- वायुना दारुणं प्राहुरेके तदपतानकम्
- कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ३२
- दण्डवत्स्तम्भयेद्देहं स तु दण्डापतानकः
- धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः ३३
- अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः
- स्नायुप्रतानमनिलो यदाऽक्षिपति वेगवान् ३४
- विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन्
- अभ्यन्तरं धनुरिव यदा नमति मानवम् ३५
- तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली
- बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च ३६
- तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम्
- कफपित्तान्वितो वायुर्वायुरेव च केवलः ३७
- कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम्
- गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ३८
- अभिघातनिमित्तश्च न सिद्ध्यत्यपतानकः
- गृहीत्वाऽध तनोर्वायुः सिराः स्नायूर्विशोष्य च ३९
- पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन्
- कृत्स्नोऽधकायस्तस्य स्यादकर्मण्यो विचेतनः ४०
- एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः
- सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ४१
- दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
- शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ४२
- शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
- साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ४३
- गर्भिणी सूतिकाबालवृद्धक्षीणेष्वसृक्स्रुते
- पक्षाघातं परिहरेद् वेदनारहितो यदि
- उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा
- हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ४४
- शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
- अर्दयत्यनिलो वक्त्रमर्दितं जनयत्यतः
- वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते ४५
- शिरश्चलति वाक्सङ्गोनेत्रादीनां च वैकृतम्
- ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना ४६
- यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम्
- वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
- तमर्दितमिति प्राहुर्व्याधिं व्याधिविचक्षणाः
- क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ४७
- न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च
- गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ४८
- जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
- कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनुम् ४९
- करोति विवृतास्यत्वमथवा संवृतास्यताम्
- हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्बणभाषणम् ५०
- दिवास्वप्नासमस्थान विवृतोर्ध्वनिरीक्षणैः
- मन्यास्तम्भ प्रकुरुते स एव श्लेष्मणाऽवृतः ५१
- वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
- जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ५२
- रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः
- रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात्सिराग्रहः ५३
- स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्
- गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ५४
- वाताद्वातकफात्तन्द्रा गौरवारोचकान्विता
- वातजायां भवेत्तोदो देहस्यापि प्रवक्रता
- जानुकट्यूरुसंधीनां स्फुरणं स्तब्धता भृशम् ५५
- वातश्लेष्मोद्भवायां तु निमित्तं वह्निमार्दवम्
- तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ५६
- तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ५७
- बाह्वोः कर्मक्षयकरी विश्वाची चेति सोच्यते
- वातशोणितजः शोथो जानुमध्ये महारुजः ५८
- ज्ञेयक्रोष्टुकशीर्षस्तु स्थूलः कोष्टुकशीर्षवत्
- वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ५९
- खञ्जस्तदा भवेज्जन्तु पङ्गुः सक्थ्नोर्द्वयोर्वधात्
- प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति ६०
- कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्
- रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा ६१
- वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्
- पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ६२
- विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत्
- हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ६३
- पादहर्षः स विज्ञेयः कफवातप्रकोपतः
- अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् ६४
- सिराश्चकुञ्च्य तत्रस्थो जनयेदवबाहुकम्
- आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ६५
- नरान्करोत्यक्रियकान्मूकमिन्मिनगद्गदान्
- अधो या वेदना याति वर्चोमूत्राशयोत्थिता ६६
- भिन्दतीव गुदोपस्थं स तूनी नाम नामतः
- गुदोपस्थोत्थिता या तु प्रतिलोमं प्रधाविता ६७
- वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते
- साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् ६८
- आध्मानमिति तं विद्याद्धोरं वातनिरोधजम्
- विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ६९
- प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम्
- नाभेरधस्तात्संजातः संचारी यदि वाऽचलः ७०
- अष्ठीलावद्धनो ग्रन्थिरूर्ध्वमायत उन्नतः
- वाताष्ठीलां विजानीयाद्वहिर्मार्गावरोधिनीम् ७१
- एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम्
- प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ७२
- मारुतेऽनुगुणे वस्तौ मूत्रं सम्यक् प्रवर्तते
- विकारा विविधाश्चास्य प्रतिलोमे भवन्ति च ७३
- सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसंज्ञकः
- खल्ली तु पादजङ्घोरुकरमूलावमोटनी ७४
- अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा
- करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ७५
- स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
- सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ७६
- हनुस्तम्भार्दिता क्षेपपक्षाघातापतानकाः
- कालेन महता वाता यत्नात्सिध्यन्ति वा न वा ७७
- नरान् बलवतस्त्वेतान् साधयेन्निरुपद्र वान्
- विसर्पदाहरुक्सङ्गमूर्च्छाऽरुच्यग्निमार्दवैः ७८
- क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः
- शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्
- रुजार्तिमन्तं च नरं वातव्याधिर्विनाशयेत् ७९
- अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः
- वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ८०
- अथ वातरक्तनिदानम्
- लवणाम्लकटुक्षारस्निग्धोष्णाजीर्ण भाजनैः
- क्लिन्नशुष्काम्बु जानूपमांसपिण्याकमूलकैः १
- कुलत्थमाष निष्पावशाकादिपललेक्षुभिः
- दध्यारनालसौवीर शुक्ततक्रसुरासवैः २
- विरुद्धाध्यशनक्रोध दिवास्वप्नप्रजागरैः
- प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
- स्थूलानां सुखिनां चापि कूप्यते वातशोणितम् ३
- हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य
- कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु
- तत्संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ४
- स्वेदोऽत्यर्थं नवा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक्
- सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ५
- जानुजङ्घोरुकट्यंस हस्तपादाङ्गसन्धिषु
- निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ६
- कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत्
- वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ७
- वातेऽधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम्
- शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ८
- धमन्यङ्गुलिसन्धीनां संकोचोऽङ्गग्रहोऽतिरुक्
- शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ९
- रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
- स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः १०
- पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदः सतृट्
- स्पर्शासहत्वं रुग्रागः शोथः पाको भृशोष्मता ११
- कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतताः
- कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च संकरात् १२
- पादयोर्मूलमास्थाय कचाचिद्धस्तयोरपि
- आखोर्विषमिव क्रुद्धं तद्देहमुपसर्पति १३
- आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्
- उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः १४
- वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम्
- अस्वप्नारोचकश्वासमांस कोथशिरोग्रहाः १५
- संमूर्च्छामदरुक्तृष्णा ज्वरमोहप्रवेपकाः
- हिक्कापाङ्गुल्य वीसर्पपाकतोदभ्रमक्लमाः १६
- अङ्गुलीवक्रता स्फोटदाहमर्मग्रहार्बुदाः
- एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन वाऽपि यत् १७
- अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम्
- एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
- त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८
- अथोरुस्तम्भनिदाम्
- शीतोष्णद्र वसंशुष्क गुरुस्निग्धैर्निषेवितैः
- जीर्णाजीर्णे तथाऽयाससंक्षोभस्वप्नजागरैः १
- सश्लेष्ममेदः पवनः साममत्यर्थसंचितम्
- अभिभूयेतरं दोषमूरू चेत्प्रतिपद्यते २
- सक्थ्यस्थिनी प्रपूर्यान्तः लेष्मणा स्तिमितेन च
- तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ३
- परकीयाविव गुरू स्यातामतिभृशव्यथौ
- ध्यानाङ्गमर्दस्तैमित्य तन्द्रा च्छर्द्यरुचिज्वरैः ४
- संयुक्तौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः
- तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ५
- प्राग्रूपं तस्य निद्रा ऽतिध्यानं स्तिमितता ज्वरः
- रोमहर्षोऽरुचिच्छर्दिर्जङ्घोर्वोः सदनं तथा ६
- वातशङ्किभिरज्ञानात्तस्य स्यात्स्नेहनात्पुनः
- पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ७
- जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदने
- पादं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ८
- संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
- अन्यस्येव हि संभाग्नावूरू पादौ च मन्यते ९
- यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्
- ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् १०
- अथामवातनिदानम्
- विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च
- स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा १
- वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
- तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते २
- वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः
- स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ३
- जनयत्याशु दौर्बल्यं गौरवं हृदयस्य च
- व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदारुणः ४
- युगपत्कुपितावन्तस्त्रिक सन्धिप्रवेशकौ
- स्तब्धं च कुरुतो गात्रमामवातः स उच्यते ५
- अङ्गमर्दोऽरुचिस्तृष्णा ह्यालस्यं गौरवं ज्वरः
- अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ६
- स कष्टः सर्वरोगणां यदा प्रकुपितो भवेत्
- हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ७
- करोति सरुजं शोथं यत्र दोषः प्रपद्यते
- स देशो रुज्यतेऽत्यर्थं व्याविद्ध इव वृश्चिकैः ८
- जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्
- उत्साहहानिं वैरस्यं दाहं च बहुमूत्रताम् ९
- कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम्
- तृट्छर्दिभ्रममूर्च्छाश्च हृद्ग्रहं विड्विबद्धताम्
- जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्र वान् १०
- पित्तात्सदाहरागं च सशूलं पवनानुगम्
- स्तिमितं गुरुकण्डूं च कफदुष्टं तमादिशेत् ११
- एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
- सर्वदेहचरः शोथः सः कृच्छ्रः सान्निपातिकः १२
- अथ शूलपरिणामशूलान्नद्र वशूलनिदानम्
- दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
- सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः १
- व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
- कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् २
- कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात्
- विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ३
- वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे
- जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ४
- मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः
- संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ५
- क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
- कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ६
- ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम्
- तृण्मोहदाहातिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमचोषयुक्तम् ७
- मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च
- शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ८
- आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
- अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ९
- हृल्लासकाससदनारुचिसंप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
- भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च १०
- सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम्
- सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ११
- आटोपहृल्लासवमी गुरुत्वस्तैमित्यकानाह कफप्रसेकैः
- कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति १२
- बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः
- कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः १३
- दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः
- एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः १४
- सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्र वः
- स्वैर्निदानैः प्रकुपितो वायुः संनिहितस्तदा १५
- कफपित्ते समावृत्य शूलकारी भवेद्वली
- भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् १६
- तस्य लक्षणमप्येतत्समासेनाभिधीयते
- आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः १७
- स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्
- तृष्णादाहारतिस्वेदं कट्वम्लवणोत्तरम् १८
- शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः
- छर्दिहृल्लाससंमोहं स्वल्परुग्दीर्घसन्तति १९
- कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम्
- संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् २०
- त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम्
- जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते २१
- पथ्यापथ्यप्रयोगेण भोजनाभोजनेन च
- न शमं याति नियमात्सोऽन्नद्र व उदाहृतः २२
- अन्नद्र वाख्यशूलेषु न तावत्स्वास्थ्यमश्नुते
- वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति २२-१
- अथोदावर्त्तानाहनिदानम्
- वातविण्मूत्रजृम्भाश्रु क्षवोद्गारवमीन्द्रि यैः
- क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसंभवः १
- वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
- जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् २
- आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
- पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ३
- बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
- विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ४
- मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
- तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ५
- आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि
- शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ६
- मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ
- इन्द्रि याणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ७
- कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः
- उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ८
- कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
- कुष्ठवीसर्पहृल्लासाश्छर्दिनिग्रहजा गदाः ९
- मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
- शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते च शुक्रे १०
- तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाभिघातात्कृशता च दृष्टेः
- कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद्धृदये व्यथा च ११
- श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
- जृम्भाऽङ्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १२
- वायुः कोष्ठानुगो रूक्षः कषायकटुतिक्तकैः
- भोजनैः कुपितः सद्य उदावर्तं करोति हि १३
- वातमूत्रपुरीषासृक्कफ मेदोवहानि वै
- स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् १४
- ततो हृद्बस्तिशूलार्तो हृल्लासारतिपीडितः
- वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः १५
- श्वासकास प्रतिश्याय दाहमोहतृषाज्वरान्
- वमिहिक्काशिरोरोगमनः श्रवणविभ्रमान्
- बहूनन्यांश्च लभते विकारान् वातकोपजान् १६
- आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
- प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति १७
- तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
- आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनं च १८
- स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतश्च छर्दिः
- श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि १९
- तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
- शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् २०
- अथ गुल्मनिदानम्
- दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः
- कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम्
- तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः १
- हृन्नाभ्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
- वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः २
- स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
- पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः ३
- उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
- आटोप आध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्वम् ४
- अरुचिः कृच्छ्रविण्मूत्रवातताऽन्त्रविकूजनम्
- आनाहश्चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत् ५
- रूक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
- शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ६
- यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
- श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च ७
- करोति जीर्णे त्वधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
- वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते ८
- कट्वम्लतीक्ष्णोष्णविदाहि रूक्षक्रोधातिमद्यार्कहुताशसेवा
- आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ९
- ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च
- स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १०
- शीतं गुरु स्निग्धमचेष्टनं च संपूरणं प्रस्वपनं दिवा च
- गुल्मस्य हेतुः कफसंभवस्य सर्वस्तु दुष्टो निचयात्मकस्य ११
- स्तैमित्यशीतज्वरगात्र सादहृल्लासकासारुचिगौरवाणि
- शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य १२
- निमित्तरूपाण्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च
- व्यामिश्रलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् १३
- महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
- मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १४
- नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
- वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम्
- पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध १५
- यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
- स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १६
- संचितः क्रमशो गुल्मो महावास्तुपरिग्रहः
- कृतमूलः सिरानद्धो यदा कूर्म इवोत्थितः १७
- दौर्बल्यारुचिहृल्लास कासच्छर्द्यरतिज्वरैः
- तृष्णातन्द्रा प्रतिश्यायैर्युज्यते स न सिध्यति १८
- गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम्
- हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् १९
- श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
- जायते दुर्बलत्वं च गुल्मिनो मरणाय वै २०
- अथ हृद्रोगनिदानम्
- अत्युष्णगुर्वन्नकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
- संचिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
- दूषयित्वा रसं दोषा विगुणा हृदयं गताः
- हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
- आयम्यते मारुतजे हृद्रो गं तुद्यते तथा
- निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ३
- तृष्णोष्मादाहचोषाः स्युः पैत्तिके हृदयक्लमः
- धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ४
- गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
- माधुर्यमपि चास्यस्य बलासावतते हृदि ५
- विद्यात्त्रिदोषं त्वपि सर्वलिङ्गम् तीव्रार्तितोदं क्रिमिजं सकण्डूम्
- उत्क्लेदः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः
- अरुचिः श्यावनेत्रत्वं शोथश्च क्रिमिजे भवेत् ६
- क्लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
- क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणां च ये मताः ७
- अथ मूत्रकृच्छ्रनिदानम्
- व्यायामतीक्ष्णौषध रूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्
- आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
- पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य वस्तौ
- मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
- तीव्रार्तिरुग्वङ्क्षणवस्तिमेढ्रेस्वल्पं मुहुर्मूत्रयतीह वातात्
- पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ३
- वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे
- सर्वाणि रूपाणि तु सान्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ४
- मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा
- मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ५
- वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत्
- शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ६
- आध्मानं वातशूलं च मूत्रसङ्गं करोति च
- अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहरेत् ७
- शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
- सशुक्रं मूत्रयेत्कृच्छ्राद् वस्तिमेहनशूलवान् ८
- अश्मरी शर्करा चैव तुल्यसंभवलक्षणे
- विशेषणं शर्करायाः शृणु कीर्तयतो मम ९
- पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
- विभुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
- हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
- तथा भवति मूर्च्छा च मूत्रकृच्छ्रं च दारुणम् ११
- मूत्रवेगनिरस्ताभिः प्रशमं याति वेदना
- यावदस्याः पुनर्नैति गुडिका स्रोतसो मुखम् १२
- अथ मूत्राघातनिदानम्
- जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश
- प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः १
- रौक्ष्याद्वेगविघाताद्वा वायुर्वस्तौ सवेदनः
- मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः २
- मूत्रमल्पाल्पमथवा सरुजं स्रंपवर्तते
- वातकुण्डलिकां तां तु व्याधिं विद्यात्सुदारुणाम् ३
- आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
- कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ४
- वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
- निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ५
- मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
- वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ६
- चिरं धारयतो मूत्रं त्वरया न प्रवर्तते
- मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ७
- मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुकः
- अपानःकुपितो वायुरुदरं पूरयेद् भृशम् ८
- नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
- तन्मूत्रजठरं विद्यादधोवस्तिनिरोधनम् ९
- वस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
- मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १०
- स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
- विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ११
- रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
- मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् १२
- अन्तर्वस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
- अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते १३
- मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम्
- स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते १४
- व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलान्वितम् १५
- वस्तिं मेढ्रं गुदं चैव प्रदहेत्स्रावयेदधः
- मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा १६
- कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं ब्रुवन्ति तम्
- पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् १७
- कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत्
- सदाहं रोचनाशङ्खचूर्णवर्णं भवेत्तु तत् १८
- शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम्
- रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा १९
- मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
- विड्गन्धं मूत्रयेत्कृच्छ्राद्विड्विघातं विनिर्दिशेत् २०
- द्रुताध्वलङ्घनायासै रभिघातात्प्रपीडनात्
- स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् २१
- शूलस्पन्दनदाहार्तो विन्दुं बिन्दुं स्रवत्यपि
- पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् २२
- वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
- पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः २३
- तस्मिन्पित्तान्विते दाहः शूलं मूत्रविवर्णता २४
- श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम्
- श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिध्यति
- अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः २५
- स्यादस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च २६
- अथाश्मरीनिदानम्
- वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजाऽपरा
- प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः १
- विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
- यदा तदाश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः २
- नैकदोषाश्रयाः सर्वाः -- अथासां पूर्वलक्षणम्
- बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ३
- मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः
- सामान्यलिङ्गं रुङ्नाभिसेवनीबस्तिमूर्धसु ४
- विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते
- तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम् ५
- तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत्
- तत्र वाताद् भृशं चार्तो दन्तान् खादति वेपते ६
- गृह्णाति मेहनं नाभिं पीडयत्यनिशं क्कणन्
- सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ७
- श्यावारुणाऽश्मरी चास्य स्याच्चिता कण्टकैरिव
- पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् ८
- भल्लातकास्थिसंस्थाना रक्तपीताऽसिताश्मरी
- वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ९
- अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता
- एता भवन्ति बालानां तेषामेव च भूयसा १०
- आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः
- शुक्राश्मरी तु महतां जायते शुक्रधारणात् ११
- स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
- शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी १२
- वस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी
- तस्यामुत्पन्नमात्रायां शुक्रमेति बिलीयते १३
- पीडिते त्ववकाशेऽस्मिन् अश्मर्येब च शर्करा
- अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे १४
- निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
- मूत्रस्रोतः प्रवृत्ता सा सक्ता कुर्यादुपद्र वान् १५
- दौर्वल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिम्
- पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् १६
- प्रशूननाभिवृषणं बद्धमूत्रं रुजातुरम्
- अश्मरी क्षपयत्याशु सिकता शर्करान्विता १७
- इति श्रीमाधवकरविरचिते माधवनिदानेऽश्मरीनिदानं समाप्तम् ३३
- समाप्तं चेदमश्मरीनिदानम्
- अथ प्रमेह निदानम्
- उत्तरार्द्ध
- आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
- न वान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् १
- मेदश्च मासं च शरीरजं च क्लेदं कफो वस्तिगतः प्रदूष्य
- करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि २
- क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान् कुरुतेऽनिलश्च
- साध्याः कफोत्था दशै पित्तजाः षड्याप्या न साध्यः पवनाच्चतुष्कः ३
- समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते
- कफः सपित्तः पवनश्च दोषौ मेदोऽस्रशुक्राम्बुवसालसीकाः
- मज्जारसौजः पिशितं च दूष्यौः प्रमेहिणां विंशतिरेव मेहाः ४
- दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
- दाहश्चिक्कणता देहे तृट् स्वाद्वास्यं च जायते ५
- सामान्यं लक्षणं तेषां प्रभूताबिलमूत्रता
- दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः ६
- मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते
- अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ७
- मेहत्युदकमेहेन किंचिदाविलपिच्छिलम्
- इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ८
- सान्द्री भवेत् पर्युषितं सान्द्र मेहेन मेहति
- सुरामेही सुरातुल्यमुपर्यच्छमधो घनम् ९
- संहृष्टरोमा पिष्टेन विष्टवद्वहुलं सितम्
- शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति १०
- मूर्ताणून्सिकतामेही सिकतारूपिणो मलान्
- शीतमेही सुबहुशो मधुरं भृशशीतलम् ११
- शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
- लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् १२
- गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत्
- नीलमेहेन नीलाभं कालमेही मसीनिभम् १३
- हारिद्र मेही कटुकं हरिद्रा संनिभं दहत्
- विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् १४
- विस्रमुष्णं सलवणं रक्ताभं रक्त मेहतः
- वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः १५
- मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः
- कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः १६
- हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम्
- सलसीकं विबद्धं च हस्तिमेही प्रमेहति १७
- अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः
- उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम् १८
- बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
- दाहस्तृष्णाऽम्लिका मूर्च्छा विड्भेदः पित्तजन्मनाम् १९
- वातजानामुदावर्तः कम्पहृद्ग्रहलोलताः
- शूलमुन्निद्र ता शोषः कासः श्वासश्च जायते २०
- यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
- पिडकापीडितं गाढः प्रमेहो हन्ति मानवम् २१
- जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्
- ये चापि केचित्कुलजा विकारा भवन्ति तांस्तान् प्रवदन्त्यसाध्यान् २२
- सर्व एवप्रमेहास्तु कालेनाप्रतिकारिणः
- मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि २३
- मधुमेह मधुसमं जायते स किल द्विधा
- क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा २४
- आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन्
- क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् २५
- मधुरं यच्च मेहेषु प्रायो मध्विव मेहति
- सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः २६
- शराविका कच्छपिका जालिनी विनताऽलजी
- मसूरिका सर्षपिका पुत्रिणी सविदारिका २७
- विद्र धिश्चेति पिडकाः प्रमेहोपेक्षया दश
- सन्धिमर्मसु जायन्ते मांसलेषु च धामसु २८
- अन्तोन्नता तु तद्रू पा निम्नमध्या शराविका
- गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी २९
- सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
- जालिनी तीव्रदाहा तु मांसजालसमावृता ३०
- अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
- महती पिडका नीला विनता नाम सा स्मृता ३१
- महत्यल्पचिता ज्ञेया पिडका चापि पुत्रिणी
- मसूराकृतिसंस्थाना विज्ञेया तु मसूरिका ३२
- रक्ता सिता स्फोटचिता दारुणात्वलजीभवेत्
- विदारीकन्दवद् वृत्ता कठिना च विदारिका ३३
- विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका तु सा
- ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मया ३४
- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
- तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः ३५
- गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
- सोपद्र वा दुर्वलाग्नेः पिडकाः परिवर्जयेत् ३६
- अथ मेदोरोगनिदानम्
- अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः
- मधुरोऽन्नरसः प्रायः स्नेहान्मेदं प्रवर्धयेत् १
- मेदसाऽवृतमार्गत्वात् पुष्यन्त्यन्ये न धातवः
- मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु २
- क्षुद्र श्वासतृषा मोहस्वप्नक्रथनसादनैः
- युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः ३
- मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम्
- अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ४
- मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
- चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ५
- तस्मात् स शीघ्रं जरयत्याहारमभिकाङ्क्षति
- विकारांश्चाप्नुते घोरान् कांश्चित् कालव्यतिक्रमात् ६
- एतावुपद्र वकरौ विशेषादग्निमारुतौ
- एतौ तु दहतः स्थूलं वनदावो वनं यथा ७
- मेदस्यतीव संवृद्धे सहसैवानिलादयः
- विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ८
- मेदोमांशाति वृद्धत्वाच्चलस्फिगुदरस्तनः
- अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९
- अथोदररोगनिदानम्
- रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
- अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसंचयात् १
- रुद्ध्वा स्वेदाम्वुवाहीनि दोषाः स्रोतांसि संचिताः
- प्राणाग्न्यपानान् संदूष्य जनयन्त्युदरं नृणाम् २
- आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
- शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ३
- दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि
- पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ४
- संभवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु
- तत्र वातोदरे शोथः पाणिपान्ना भिकुक्षिषु ५
- कुक्षिपार्श्वोदरकटी-पृष्ठरुक् पर्वभेदनम्
- शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसंग्रहः ६
- श्यावारुणत्वगादित्वमक स्मादवृद्धिह्रासवत्
- सतोदभेदमुदरं तनुकृष्णसिराततम् ७
- आध्मातदृतिवच्छब्दमाहतं प्रकरोति च
- वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः ८
- पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
- भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ९
- पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते
- धूमायते मृदुस्पर्श क्षिप्रपाकं प्रदूयते १०
- श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्
- निद्रो त्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ११
- उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
- चिराभिवृद्धं कठिनं शीतस्पर्शं गुरु स्थिरम् १२
- स्त्रियोऽन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः
- यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा १३
- तेनाशुरक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
- तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च १४
- स चातुरो मुह्यति हि प्रसक्तं पाण्डुः मुखं शुष्यति तृष्णया च
- दूष्योदरं कीर्तितमेतदेव प्लीहोदरं कीर्तयतो निबोध १५
- विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च
- प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति १६
- तद्वामपार्श्वे परवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
- मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः
- सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव १७
- उदावर्त रुजानाहै र्मोहतृड्दहनज्वरैः
- गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् १८
- यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
- संचीयते तस्य मलः सदोषः शनैः शनैः संकरवच्च नाड्याम् १९
- निरुध्यते यस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्
- हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति २०
- शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
- तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः २१
- नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
- एतत्परिस्राव्युरं प्रदिष्टं दकोदरं कीर्तयतो निबोध २२
- यः स्नेहपीतोऽत्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा विरूढः
- पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि २३
- स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
- स्निग्धं महत्तत्परिवृत्तनाभि समासतं पूर्णमिवाम्बुना च
- यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् २४
- जन्मनैवोदरं सर्वं प्रायः कूच्छ्रतमं मतम्
- बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् २५
- पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
- प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् २६
- शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
- बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् २७
- पार्श्वभङ्गान्नविद्वेषशोथातीसारपीडितम्
- विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् २८
- अथ शोथनिदाम्
- रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः
- नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् १
- उत्सेधं संहतं शोथं तमाहुर्निचयादतः
- सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम् २
- दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि
- तत्पूर्वरूपं दवथुः शिरायामोऽङ्गगौरवम् ३
- शुद्ध्यामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
- दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिवेषणं च ४
- अर्शास्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः
- मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतु श्वयथोः प्रदिष्टः ५
- सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ सिरातनुत्वम्
- सलोमहर्षश्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ६
- चलस्तनु त्वक् परुषोऽरुणोऽसितः सुषुप्तिहर्षातियुतोऽनिमित्ततः
- प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् ७
- मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
- य उष्यते स्पष्टरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् ८
- गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
- स कृच्छ्रजन्मप्रशमो निपीडितो न चेन्नमेद्रा त्रिबली कफात्मकः ९
- निदानाकृतिसंसर्गाच्छ्वयथुः स्याद् द्विदोषजः
- सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः १०
- अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
- हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ११
- रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
- भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः १२
- विषजः सविषप्राणिपरिसर्पणमूत्रणात्
- दंष्ट्रादन्तनखा घातादविष प्राणिनामपि १३
- विण्मूत्रशुक्रो पहतमलवद्वस्त्रसंकरात्
- विषवृक्षानिलस्पर्शाद्गर योगावचूर्णनात् १४
- मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः
- दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः १५
- पक्वाशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः
- कृत्स्नदेहमनुप्राप्ताः कुर्युः सर्वसरं तथा १६
- यो मध्यदेशे श्वयथुः स कष्टः सर्वगश्च यः
- अर्धाङ्गे रिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति १७
- श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
- यस्य चान्ने रुचिर्नास्ति श्वयथुं तं विवर्जयेत् १८
- अनन्योपद्र वकृतः शोथः पादसमुत्थितः
- पुरुषं हन्ति नारीं च मुखजो गुह्यजो द्वयम्
- नवोऽनुपद्र वः शोथः साध्योऽसाध्यः पुरेरितः १९
- विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च
- स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् २०
- अथ वृद्धिनिदानम्
- वृद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरश्चरन्
- मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः १
- प्रपीड्य धमनीबृद्धिं करोति फलकोषयोः
- दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः २
- मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्
- वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ३
- पक्वोदुम्बरसंकाशः पित्तद्दाहोष्मपाकवान्
- कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् ४
- कृष्णस्फोटावृतः पित्तवृद्धिर्लिङ्गश्च रक्तजः
- कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ५
- मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः
- अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ६
- मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः
- वातकोपिभिराहरैः शीततोयावगाहनैः ७
- धारणेरणभाराध्व विषमान्नप्रवर्तनैः
- क्षोभणैः क्षोमितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा ८
- पवनो विगुणीकृत्य स्वनिदेशादधो नयेत्
- कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ९
- उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
- प्रपीडितोऽन्त स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः १०
- अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः
- अथ गलगण्डमालाऽपचीग्रन्थ्यर्बुदनिदानम्
- निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
- महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् १
- वातः कफश्चापि गले प्रदुष्टो मन्ये च संश्रित्य तथैव मेदः
- कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः २
- तोदान्वितः कृष्णसिरावनद्धः श्यावोऽरुणो वा पवनात्मकस्तु
- पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् ३
- वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः
- स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु ४
- चिराभिवृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित्
- माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ५
- स्निग्धो गुरुः पाण्डुरनिष्टगन्धो मेदोभवः कन्डुयुतोऽल्परुक् च
- प्रलम्बतेऽलाबुवदल्पमूलौ देहानुरूपक्षयवृद्धियुक्तः ६
- स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम्
- कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् ७
- क्षीणं च वैद्यो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जयेच्च
- कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु ८
- मेदःकफाभ्यां चिरमन्दपाकैः स्याद् गण्डमालाबहुभिश्चगण्डैः
- ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ९
- कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति तज्ज्ञाः
- साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः १०
- वातादयो मांसमसृक् प्रदुष्टाः संदूष्य मेदश्च तथा सिराश्च
- वृत्तोन्नतं विग्रथितं च शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ११
- आयम्यते वृश्च्यति तुद्यते च प्रत्यस्यते मथ्यति भिद्यते च
- कृष्णो मृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् १२
- दन्दह्यते धूप्यति वृश्च्यते च पापच्यते प्रज्वलतीव चापि
- रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् १३
- शीतोऽविवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत् संहननोपपन्नः
- चिराभिवृद्धश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् १४
- शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
- मेदःकृतो गच्छति चात्र भिन्नपिण्याकसर्पिःप्रतिमं तु मेदः १५
- व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु सिराप्रतानम्
- संकुच्य संपीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् १६
- ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च
- अरुक्स एवाप्य चलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः १७
- गात्रप्रदेशे क्कचिदेव दोषाः संमूर्च्छिता मांसमसृक् प्रदूष्य
- वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् १८
- कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति
- वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा वा १९
- तज्जायते तस्य च लक्षणानि ग्रन्थे समानानि सदा भवन्ति
- दोषः प्रदुष्टो रुधिरं सिराश्च संकुच्य संपिण्ड्य ततस्त्वपाकम् २०
- सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धम्
- करोत्यजस्रं रुधिरप्रवृत्तिमसाध्यमेतद्रुधिरात्मकं तु २१
- रक्तक्षयोपद्र वपीडितत्वात् पाण्डुर्भवेदर्बुदपीडितस्तु
- मुष्ठिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं जनयेद्धि शोथम् २२
- अवेदनं स्निग्धमनन्य वर्णमपाकमश्मोपममप्रचाल्यम्
- प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य २३
- मांसार्बुदं त्वेतदसाध्यमुक्तं साध्येष्वपीमानि तु वर्जयेच्च
- संप्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् २४
- यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
- यद् द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २५
- न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
- दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्वुदान्येव निसर्गतस्तु २६
- अथ श्लीपदनिदानम्
- यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण
- तच्छ्लीपदं स्यात् करकर्णनेत्रशिश्नौष्ठनासास्वपि केचिदाहुः १
- वातजं कृष्णरूक्षं च स्फुटितं तीव्रवेदनम्
- अनिमित्तरुजं तस्य बहुशो ज्वर एव च २
- पित्तजं पीतसङ्काशं दाहज्वरयुतं मृदु
- श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डु गुरु स्थिरम् ३
- वल्मीकमिव संजातं कण्टकैरुपचीयते
- अब्दात्मकं महत्तच्च वर्जनीयं विशेषतः ४
- त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
- गुरुत्वं च महत्वं च यस्मान्नास्ति कफं विना ५
- पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
- ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ६
- यच्छ्लेष्मलाहारविहारजातं पुंसः प्रकृत्याऽपि कफात्मकस्य
- सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम् ७
- अथ विद्रधिनिदानम्
- त्वग्रक्तमांसमेदासि संदूष्यास्थिसमाश्रिताः
- दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् १
- महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽयतम्
- स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः २
- पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
- षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते ३
- कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः
- चित्रोत्थानप्रपाकश्च विद्र धिर्वातसंभवः ४
- पक्वोदुम्बरसंकाशः श्यावो वा ज्वरदाहवान्
- क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसंभवः ५
- शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः
- चिरोत्थानप्रपाकश्च विद्र धिः कफसंभवः ६
- तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः
- नानावर्णरुजास्रावो घाटालो विषमो महान् ७
- विषमं पच्यते चापि विद्र धिः सान्निपातिकः
- तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ८
- क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्
- ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ९
- आगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः
- कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः १०
- पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते
- पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम् ११
- वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
- गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १२
- वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ
- तेषामुक्तानि लिङ्गानि वाह्य विद्र धि लक्षणैः १३
- अधिष्ठानविशेषेण लिङ्गंशृणुविशेषतः
- गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता १४
- नाभ्यां हिक्का तथाऽटोपः कुक्षौ मारुतकोपनम्
- कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ १५
- वृक्कयोः पार्श्वसंकोचः प्लीह्न्युच्छ्वासावरोधनम्
- सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते
- श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः १६
- नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः
- अधः स्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति १७
- हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः
- जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन १८
- साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकः
- आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् १९
- आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम्
- रुजाश्वाससमायुक्तं विद्र धिर्नाशयेन्नरम् २०
- अथ व्रणशोथनिदानम्
- एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम्
- षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः १
- शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः
- विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये २
- विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम्
- कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ३
- मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
- मन्दवेदनता चैतच्छोथानामामलक्षणम् ४
- दह्यते दहनेनेव क्षारेणेव च पच्यते
- पिपीलिकागणेनेव दश्यते छिद्यते तथा ५
- भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
- पीड्यते पाणिनेवान्तः सूचिभिरिव तुद्यते ६
- सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते
- आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ७
- न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत्
- ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ८
- वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः
- प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ९
- उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
- वस्ताविवाम्बुसंचारः स्याच्छोथेऽङ्गुलिपीडिते १०
- पूयस्य पीडयत्येकमन्तमन्ते च पीडिते
- भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ११
- नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः
- तस्माद्धि सर्वान् परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः १२
- कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य
- तथैव पूयो ह्यविनिःसृता हि मांसं सिराः स्नायु च खादतीह १३
- आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक्
- जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः १४
- यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते
- श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ १५
- अथ शारीरव्रणनिदाम्
- द्विधा व्रणः स विज्ञेयः शारीरागन्तुभेदतः
- दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसंभवः १
- स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः
- तद्यते स्फुरति श्यावो व्रणो मारुतसंभवः २
- तृष्णामोहज्वरक्लेद दाहदुष्ट्यवदारणैः
- व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ३
- बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः
- पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ४
- रक्तो रक्तस्रुती रक्तात् द्वित्रिजः स्यत्तदन्वयैः
- त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्र वः ५
- धीमतोऽभिनवः काले सुखे साध्वः सुखं व्रणः
- गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो ब्रणः स्मृतः ६
- सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो भूर्युपद्र वः
- पूतिः पूयातिदुष्टासृक्स्राव्युत्सङ्गो चिरस्थितिः ७
- दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्ययः
- जिह्वातलाभोऽतिमृदुः श्लक्ष्णः स्निग्धोऽल्पवेदनः ८
- सुव्यवस्थो निरास्रावः शुद्धो व्रण इति स्मृतः
- कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ९
- स्थिराश्च पिडकावन्तो रोहतीति तमादिशेत्
- रुढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् १०
- त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्
- कुष्ठिनां विषयुष्टानां शोषिणां मधुमेहिनाम् ११
- व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः
- वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् १२
- आगन्तुजो व्रणः सिद्ध्येन्न सिद्ध्येद्दोषसंभवः
- मद्यागुर्वाज्यसुमनः पद्मचन्दनचम्पकैः १३
- सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः
- ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः १४
- दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः
- दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः १५
- प्राणमांसक्षयश्वासकासा रोचकपीडिताः
- प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु १६
- क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः
- वर्जयेदपि तान् वैद्यः संरक्षन्नात्मनो यशः १७
- अथ सद्योव्रणनिदानम्
- नानाधारमुखैः शस्त्रैर्नानास्थाननिपातितैः
- भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे १
- छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च
- घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् २
- तिर्यक् छिन्न ॠजुर्वाऽपि यो व्रणस्त्वायतो भवेत्
- गात्रस्य पातनं तच्च छिन्नमित्यभिधीयते ३
- शक्तिर्दन्तेषुखड्गाग्रविषाणैराशयो हतः
- यत्किंचित् प्रस्रवेत्तद्धि भिन्नलक्षणमुच्यते ४
- स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च
- हृदुण्डुकः फुफ्फुसश्च कोष्ठ इत्यभिधीयते ५
- तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते
- मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ६
- मूर्च्छाश्वासस्तृषाऽध्मानमभक्तच्छन्द एव च
- विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ७
- लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च
- हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ८
- आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि
- आध्मानमतिमात्रं च शूलं च भृशदारुणम् ९
- पक्वाशयगते चापि रुजा गौरवमेव च
- अधः काये विशेषेण शीतता च भवेदिह १०
- सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना
- उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ११
- नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम्
- विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिधीयते १२
- प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम्
- सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् १३
- घर्षणादभिघाताद्वा यदङ्गं विगतत्वचम्
- उषास्रावान्वितं तच्च घृष्टमित्यभिधीयते १४
- श्यावंसशोथं पिडकाचितं चमुहुर्मुहुः शोणितवाहिनं च
- मृदूद्गतं बुद्वुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति १५
- त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा
- कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्र वान् १६
- तत्रान्तर्लोहितं पाण्डुशीतपादकराननम्
- शीतोच्छासं रक्तनेत्रमानद्धं च विवर्जयेत् १७
- भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च
- स्नस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः १८
- मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रि यार्थोपरमस्तथैव
- दशार्धसंख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् १९
- सुरेन्द्र गोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षतजश्च वायुः
- करोति रोगान्विविधान्यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु २०
- कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च
- चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत् २१
- शोथाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः
- क्षतेषु सन्धिष्वचलाचलेषु स्यात् सर्वकर्मोपरमश्च लिङ्गम् २२
- घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु च नैति शान्तिम्
- भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं वयवस्येत् २३
- यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु
- पाण्डुर्विवर्णः स्पृशति न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् २४
- विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः
- मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः २५
- कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः
- षोडशोपद्र वाः प्रोक्ता व्रणानां व्रणचिन्तकैः २६
- अथ भग्ननिदानम्
- भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धौ च हि तत्र सन्धौ
- उत्पिष्टविश्लिष्टविवर्तितं च तिर्यग्गतं क्षिप्तमधश्च षट् च १
- प्रसारणाकुञ्चनवर्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
- सामान्यतः सन्धिगतस्य लिङ्गम् उत्पिष्टसन्धेः श्वयथुः समन्तात् २
- विशेषतो रात्रिभवा रुजा च विश्लिष्टजे तौ च रुजा च नित्यम्
- विवर्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति ३
- काण्डे त्वतः कर्कटकाश्वकर्णविचूर्णितं पिच्चितमस्थिछल्लिका ४
- काण्डेषु भग्नं ह्यतिपातितं च मज्जागतं च स्फुटितं च वक्रम्
- छिन्नं द्विधा द्वादशधाऽपि काण्डे स्रस्ताङ्गता शोथरुजाऽतिवृद्धिः ५
- सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
- सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ६
- भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम् ७
- अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
- उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिद्ध्यति ८
- भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्
- जघनं प्रतिपिष्टं च वर्जयेद्धि विचक्षणः ९
- असंश्लिष्टकपालं च ललाटे चूर्णितं च यत्
- भग्नं स्तनान्तरे पृष्ठे शङ्खे मूर्ध्नि च वर्जयेत् १०
- सम्यक् सन्धितमप्यस्थि दुर्निक्षेपनिबन्धनात्
- संक्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ११
- तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि च
- कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च १२
- अथ नाडीव्रणनिदानम्
- यः शोथमाम मतिपक्कमुपेक्षतेऽज्ञो
- यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
- अभ्यन्तरं प्रविशति प्रविदार्य तस्य
- स्थानानि पूर्वविहितानि ततः स पूयः १
- तस्यातिमात्र गमनाद्गतिरिष्यते तु
- नाडीव यद्वहति तेन मता तु नाडी
- दोषैस्त्रिभिर्भवति सा पृथगेकशश्च
- संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या २
- तत्रानिलात् परुषसूक्ष्ममुखी सशूला
- फेनानुविद्धमधिकं स्रवति क्षपासु
- पित्तात्तृषाज्वरकरी परिदाहयुक्ता
- पीतं स्रवत्यधिकमुष्णमहःसुचापि ३
- ज्ञेया कफाद्वहुघनार्जुनपिच्छिलास्रा
- स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा
- दाहज्वरश्वसन मूर्च्छनवक्त्रशोषा
- यस्यां भवन्त्यभिहितानि च लक्षणानि ४
- तमादिशेत् पवनपित्तकफप्रकोपाद्-
- घोरामसुक्षयकरीमिव कालरात्रिम्
- नष्टं कथंचिदनु मार्गमुदीरितेषु
- स्थानेषु शल्यमचिरेण गतिं करोति ५
- साफेनिलं मथितमुष्णमसृग्विमिश्रं
- स्रावं करोति सहसा सरुजा च नित्यम्
- नाडी त्रिदोषप्रभवा न सिध्ये-
- च्छेषाश्चतस्रः खलु यत्नसाध्याः ६
- अथ भगन्दरनिदानम्
- गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽतिकृत्
- भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः १
- कषायरूक्षैस्त्वतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
- उपेक्षणात् पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी २
- तत्रागमो मूत्रपुरीषरेतसांव्रणैरनेकैः शतपोनकं वदेत्
- प्रकोपणैः पित्तमतिप्रकोपितंकरोक्ति रक्तां पिडकां गुदाश्रिताम् ३
- तदाऽशुपाकाहिमपूतिवाहिनीं भगन्दरं उष्ट्रशिरोधरं वदेत् ४
- कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
- श्वेतावभासः कफजः परिस्रावी भगन्दरः ५
- बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
- शम्बूकावर्तवन्नाडी शम्बूकावर्तको मतः ६
- क्षताद्गतिः पायुगता विवर्धतेह्यपेक्षणात् स्युः क्रिमयो विदार्य ते
- प्रकुर्वते मार्गमनेकधा मुखैव्रणैस्तदुन्मार्गि भगन्दरं वदेत् ७
- घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
- तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ८
- वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
- भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ९
- अथोपदंशनिदानम्
- हस्ताभिघातान्नखदन्त पातादधा वनाद्र त्यतिसेवनाद्वा
- योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधोपचारैः १
- सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत् पवनोपदंशम्
- पीतैर्वहुक्लेदयुतैः सदाहैः पित्तेन रक्तात् पिशितावभासैः २
- स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्
- सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ३
- नानाविधस्रावरुजोपपन्नम साध्यमाहुस्त्रिमलोपदंशम्
- विशीर्णमांसं कृमिभिः प्रजग्धं मुष्कावशेषं परिवर्जयेच्च ४
- संजातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
- कालेन शोथक्रिमिदाहपाकैर्विशीर्णशिश्नो म्रियते स तेन ५
- अङ्कुरैरिव सङ्घातैरुपर्युपरि संस्थितैः
- क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ६
- कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा
- सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा
- लिङ्गवर्तिरभिख्याता लिङ्गार्श इति चापरे ७
- अथ शूकदोषनिदानम्
- अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
- व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः १
- गौरसर्षपसंस्थाना शूकदुर्भुग्नहेतुका
- पिडका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा २
- कठिना विषमैर्भुग्नैर्वायुनाऽष्ठीलिका भवेत्
- शूकैर्यत् पूरितं शश्वद् ग्रथितं नाम तत् कफात् ३
- कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा
- तुल्यजां त्वलजीं विद्याद्यथाप्रोक्तां विचक्षणः ४
- नृदितं पीडितं यच्च संरब्धं वातकोपतः
- पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत् ५
- दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः
- सोऽधिमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ६
- पिडका पिडकाव्याप्ता पित्तशोणितसंभवा
- पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिका तु सा ७
- स्पर्शहानिं तु जनयेच्छोणितं शूकदूषितम्
- मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा तु या ८
- व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तजा
- छिद्रै रणुमुखैर्लिङ्गं चितं यस्य समन्ततः ९
- वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः
- वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् १०
- कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
- यस्य वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ११
- मांसदोषेण जानीयादर्बुदं मांससंभवम्
- शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः १२
- विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्
- विद्र धिं सन्निपातेन यथोक्तमिति निर्दिशेत् १३
- कृष्णानि चित्राण्यथवा शूकानि सविषाणि वा
- पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १४
- कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
- सन्निपातसमुत्थांस्तु तान् विद्यात्तिलकालकान् १५
- तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः
- विद्र धिश्च न सिद्ध्यन्ति ये च स्युस्तिकालकाः १६
- अथ कुष्ठनिदानम्
- विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
- भजतामागतां छर्दिं वेगाश्चान्यान् प्रतिघ्नताम् १
- व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम्
- घर्मश्रमभयार्तानां युतं शीताम्वु सेविनाम् २
- अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्
- नवान्न दधि मत्स्यातिलवणाम्ल निषेविणाम् ३
- माषमूलकपिष्टान्नतिलक्षीर गुडाशिनाम्
- व्यवायं चाप्यजीर्णेन्ने निद्रा ं! च भजतां दिवा ४
- विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्
- वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ५
- दूषयन्ति स कुष्ठानां सप्तको द्र व्यसंग्रहः
- अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ६
- कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
- सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ७
- अतिश्लक्ष्णखरस्पर्श स्वेदास्वेदविवर्णताः
- दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ८
- व्रणानामधिकं मूलं शीघ्रोत्पत्तिश्चिरस्थितिः
- रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपिकोपनम् ९
- रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्
- कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु १०
- कापालं तोदबहुलं तत् कुष्ठं विषमं स्मृतम्
- रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ११
- उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
- श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् १२
- कृच्छ्रमन्योन्यसंयुक्तं कुष्ठं मण्डलमुच्यते
- कर्कशं रक्तपर्यन्तमन्तःश्याव सवेदनम् १३
- यदृष्यजिह्वसंस्थानमृष्यजिह्वं यदुच्यते
- सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् १४
- सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते
- श्वेतं ताम्रं तनु च यद्र जो घृष्टं विमुञ्चति १५
- प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम्
- यत्काकणन्तिकावर्णं सपाकं तीव्रवेदनम् १६
- त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति
- अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् १७
- यदेककुष्ठं चर्माख्यं बहलं हस्तिचर्मवत्
- श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम् १८
- वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्
- कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् १९
- सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्
- रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि
- तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते २०
- सूक्ष्मा वह्व्यः पिडकः स्राववत्यः
- पामेत्युक्ताः कण्डुमत्यः सदाहाः
- सैव स्फोटैस्ती व्रदाहैरुपेता
- ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च २१
- स्फोटाः श्यावरुणाभासा विस्फोटाः स्युस्तनुत्वचः
- रक्तं श्यावं सदाहार्ति शतारुः स्याद्वहुव्रणम् २२
- सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका
- खरं श्यावारुणं रुक्षं वातात् कुष्ठं सवेदनम् २३
- पित्तात् प्रक्वथितं दाहरागस्रावान्वितं मतम्
- कफात् क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम् २४
- द्विलिङ्गं द्वन्द्वजंकुष्ठं त्रिलिङ्गं सान्निपातिकम्
- त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यं च जायते २५
- त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम्
- कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते २६
- बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
- तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते २७
- कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम्
- भेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च २८
- नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसंभवः
- स्वरोपघातश्च भवेदस्थिमज्जसमाश्रिते २९
- दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
- यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ३०
- साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत्
- मेदसि द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम् ३१
- क्रिमितृड्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम्
- प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् ३२
- पञ्चकर्मगुणातीतं कुष्ठं हन्तीह मानवम्
- वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ३३
- मण्डलाख्यं विचर्ची च ॠष्याख्यं वातपित्तजम्
- चर्मैककुष्ठं किटिभं सिध्मालसविपादिकाः ३४
- वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी
- पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ३५
- सर्वैः स्यात्काकणं पूर्वत्रिकं दद्रु सकाकणम्
- पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु ३६
- कुष्ठैकसम्भवं श्वित्रं किलासं वारुणं भवेत्
- निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ३७
- वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
- सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ३८
- सकण्डुरं क्रमाद्र क्तमांसमेदःसु चादिशेत्
- वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ३९
- अशुक्लरोमाऽबहुलमसंश्लिष्टमथो नवम्
- अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ४०
- गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
- वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ४१
- प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनात्
- एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ४२
- कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च
- औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् ४३
- अथ शीतपित्तोदर्दकोठनिदानम्
- शीतमारुतसंस्पर्शात्प्रदुष्टौ कफमारुतौ
- पित्तेनसह सम्भूय बहिरन्तर्विसर्पतः १
- पिपासाऽरुचिहृल्लासदेहसादाङ्गगौरवम्
- रक्तलोचनता तेषांपूर्वरूपस्य लक्षणम् २
- वरटीदष्टसंस्थानः शोथः संजायते बहिः
- सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवान् ३
- उदर्दमिति तं विद्याच्छीतपित्तमथापरे
- वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ४
- सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
- शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ५
- असम्यग्वमनोदीर्ण पित्तश्लेष्मान्ननिग्रहैः
- मण्डलानि सकण्डूनि रागवन्ति बहूनि च
- उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ६
- अथाम्लपित्तनिदानम्
- विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
- पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः १
- अविपाकक्लमोत्क्ले शतिक्ताम्लोद्गारगौरवैः
- हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक् २
- तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
- हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ३
- वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम्
- मांसोदकाभं त्वतिपिच्छिलाच्छं श्लेष्मानुजातं विविधं रसेन ४
- भुक्ते विदग्धे त्वथवाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
- उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजं च ५
- करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
- जनयति कण्डूमण्डलपिण्डकाशतनिचितगात्ररोगचयम् ६
- रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः
- चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् ७
- सानिलं सानिलकफं सकफं तच्च लक्षयेत्
- दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ८
- कम्पप्रलापमूर्च्छाचिमिगात्रावसादशूलानि
- तमसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपात् ९
- कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपाः
- दहनबलसादकण्डूनिद्रा श्चिह्नं कफानुगते १०
- उभयमिदमेव चिह्नं मारुतकफसंभवे भवत्यम्ले
- तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ११
- भ्रमो मूर्च्छारुचिश्छर्दिरालस्यं च शिरोरुजा
- प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् १२
- अथ विसर्पनिदानम्
- लवणाम्लकटूष्णादि संसेवादोषकोपतः
- विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
- पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः
- वातिकः पैत्तिकश्चैव कफजः सन्निपातिकः २
- चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः
- आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ३
- यस्तु कर्दमको घोरः स पित्तकफसंभवः
- रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ४
- विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः
- तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ५
- शोथस्फुरणनिस्तोद भेदायासार्तिहर्षवान्
- पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
- कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक्
- सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ७
- वातपित्ताज्ज्वरच्छर्दि मूर्च्छातीसारतृड्भ्रमैः
- ग्रन्थिभेदाग्नि सदनतमकारोचकैर्युतः ८
- करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्
- यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ९
- शान्ताङ्गारासितो नीलो रक्तो वाऽशु च चीयते
- अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतं च सः १०
- मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः
- व्यथतेऽङ्ग हरेत्संज्ञां निद्रा ं! च श्वासमीरयेत् ११
- हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना
- क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु १२
- चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान्
- दुस्प्रबोधोऽश्नुते निद्रा ं! सोऽग्निवीसर्प उच्यते १३
- कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्
- रक्तं वा बृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् १४
- दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम्
- ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् १५
- श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
- मोहवैवर्ण्यमूर्च्छाङ्ग भङ्गाग्निसदनैर्युताम् १६
- इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः
- कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा १७
- अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः
- मूर्च्छाग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम् १८
- आमोपवेशनं लेपः स्रोतसां स च सर्पति
- प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् १९
- पिडकैरवकीर्णोऽतिपीत लोहितपाण्डुरैः
- स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः २०
- गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते
- पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः २१
- शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्
- बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् २२
- वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्
- स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
- ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः
- अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
- सिध्मन्ति वातकफपित्तकृता विसर्पाः
- सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
- पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः
- कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५
- अथ विस्फोटनिदानम्
- कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च
- तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु १
- त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च
- घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान् २
- अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः
- क्कचित् सर्वत्र वा देहे विस्फोटा इति ते स्मृताः ३
- शिरोरुक्शूलभूयिष्ठं ज्वरस्तृट् पर्वभेदनम्
- सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ४
- ज्वरदाहरुजास्रावपाक तृष्णाभिरन्वितम्
- पीतलोहितवर्णं च पित्तविस्फोटलक्षणम् ५
- छर्द्यरोचकजाड्यानि कण्डूकाठिन्यपाण्डुताः
- अवेदनश्चिरात् पाकी स विस्फोटः कफात्मकः ६
- वातपित्तकृतो यस्तु कुरुते तीव्रवेदनाम्
- कण्डूस्तैमित्यगुरुभिर्जानीयात् कफवातिकम् ७
- कण्डूर्दाहो ज्वरश्छर्दिरेतैस्तु कफपैत्तिकः
- मध्ये निम्नोन्नतोऽन्ते च कठिनोऽल्पप्रपाकवान् ८
- दाहरागतृषामोहच्छर्दि मूर्च्छारुजाज्वराः
- प्रलापो वेपथुस्तन्द्रा सोऽसाध्यः स्यात् त्रिदोषजः ९
- रक्ता रक्तसमुत्थाना गुञ्जाविद्रुमसन्निभाः
- वेदितव्यास्तु रक्तेन पैत्तिकेन च हेतुना १०
- न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि
- एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
- सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्र वः ११
- अथ मसूरिकानिदानम्
- कट्वम्ललवण क्षारविरुद्धाध्यशनाशनैः
- दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः १
- क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
- जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः २
- मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः
- तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ३
- त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते
- स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ४
- कठिनाश्चिरपाकाश्च भवन्त्यनिलसंभवाः
- सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरति क्लमः ५
- शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता
- रक्ताः पीतसिताः स्फोटाः सदाहास्तीव्रवेदनाः ६
- भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः
- विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ७
- मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः
- रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ८
- कफप्रसेकः स्तैमित्यं शिरोरुगात्रगौरवम्
- हृल्लासः सारुचिर्निद्रा तन्द्रा लस्यसमन्विताः ९
- श्वेताः स्निग्धाः भृशं स्थूलाः कण्डूबरा मन्दवेदनाः
- मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः १०
- नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
- चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ११
- कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
- दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः १२
- रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
- कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः १३
- तोयबुद्वुदसङ्काशास्त्वग्गतास्तु मसूरिकाः
- स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च १४
- रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
- साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च १५
- मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
- गात्रशूलतृषाकण्डू ज्वरारतिसमन्विताः १६
- मेदोजा मण्डलाकारा मृदवः किंचिदुन्नताः
- घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः १७
- संमोहारतिसंतापाः कश्चिदाभ्यो विनिस्तरेत्
- क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किंचिदुन्नताः १८
- मज्जोत्था भृशसंमोहवेदनारतिसंयुताः
- छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि १९
- भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
- पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः २०
- स्तैमित्यारति संमोहदाहोन्माद समन्विताः
- शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि २१
- निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम्
- दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः २२
- त्वग्गता रक्तजाश्चैव पित्तजाः लेष्मजास्तथा
- श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः २३
- वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः
- कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् २४
- असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्
- प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः २५
- लोहजालसमाः काश्चिदतसीफलसन्निभाः
- आसांबहुविधा वर्णा जायन्ते दोषभेदतः २६
- कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
- प्रलापश्चारतिर्मूर्च्छा तृष्णा दाहोऽतिघूर्णता २७
- मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
- कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् २८
- मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः
- लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् २९
- मसूरिकाभिभूता यो भृशं घ्राणेन निःश्वसेत्
- स भृशं त्यजति प्राणाँ स्तृषार्तो वायुदूषितः ३०
- मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके
- तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ३१
- अथ क्षुद्र रोगनिदाम्
- स्निग्धाः सवर्णा ग्रथिता नीरुजो मुद्गसंनिभाः
- कफवातोत्थिता ज्ञेया बालानामजगल्लिकाः १
- यवाकारा सुकठिना ग्रथिता मांससंश्रिता
- पिडका कफवाताभ्यां यवप्रख्येति सोच्यते २
- घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
- अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ३
- विवृतास्यां महादाहां पक्वोदुम्बरसंनिभाम्
- विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ४
- ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोपमाः
- कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः ५
- ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
- ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ६
- मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताग्रैः
- वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ७
- पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम्
- इन्द्र विद्धां तु तां विद्याद् वातपित्तोत्थितां भिषक् ८
- मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्
- रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् ९
- वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
- स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः १०
- कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
- स्थिरां पनसिकां तां तु विद्याद्वातकफोत्थिताम् ११
- विसर्पवत् सर्पति यः शोथस्तनुरपाकवान्
- दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः १२
- पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
- सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् १३
- बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम्
- पित्तप्रकोपसंभूतां कक्षामित्यभिनिर्दिशेत् १४
- एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसंनिभाम्
- त्वग्गतां पित्तकोपेन गन्धमालां प्रचक्षते १५
- कक्षभागेषु ये स्फोटा जायन्ते मांसदारणाः
- अन्तर्दाहज्वरकरा दीप्तपावकसंनिभाः १६
- सप्ताहाद्वा दशाहाद्वा पक्षाद्वा हन्ति मानवम्
- तामग्निरोहिणीं विद्यादसाध्यां सर्वदोषजम् १७
- नखमांसमधिष्ठाय वायुः पित्तं च देहिनाम्
- कुर्वाते दाहपाकौ च तं व्याधिं चिप्पमादिशेत् १८
- तदेवाल्पतरैर्दोषैः पुरुषं कुनखं वदेत् १९
- गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम्
- वादस्यानुशयीं तां तु विद्यादन्तःप्रपाकिनीम् २०
- विदारीकन्दवद् वृत्ताकक्षावङ्क्षणसन्धिषु
- विदारिका भवेद्र क्ता सर्वजा सर्वलक्षणा २१
- प्राप्य मांससिरास्नायुः श्लेष्मा मेदस्तथाऽनिलः
- ग्रन्थिं करोत्यसौ भिन्नो मनुसर्पिर्वसानिभम् २२
- स्रवत्यास्रावमनिलस्तत्र वृद्धिं गतः पुनः
- मांसं संशोष्य ग्रथितां शर्करां जनयेत्ततः २३
- दुर्गन्धि क्लिन्नमत्यर्थं नानावर्णं ततः सिराः
- स्रवन्ति रक्तं सहसा तं विद्याच्छर्करार्बुदम् २४
- परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
- पादयोः कुरुते दारीं पाददारीं तमादिशेत् २५
- शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
- ग्रन्थिः कोलवदुत्सन्नो जायते कदरं हि तत् २६
- क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ
- दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् २७
- रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
- प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः २८
- रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभवः
- तदिन्द्र लुप्तं रवालित्यं रुह्येतिच विभाव्यते २९
- दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते
- कफमारुतकोपेन विद्याद्दारुणकं तु तम् ३०
- अरूंषि बहुवक्त्राणि वहुक्लेदीनि मूर्घ्नि तु
- कफासृक्क्रिमिकोपेन नृणां विद्यादरूंषिकाम् ३१
- क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
- पित्तं च केशान् पचति प्रमितं तेन जायते ३२
- शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
- युवानपिडका यूनां विज्ञेया मुखदूषिकाः ३३
- कण्टकैराचितं वृत्तं मण्डलं पाण्डुकण्डुरम्
- पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ३४
- सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
- सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिस्तु सः ३५
- अवेदनं स्थिरं चैव यस्मिन् गात्रे प्रदृश्यते
- माषवत्कृष्णमुत्सन्नमनिलान्मषकं तु तत् ३६
- कृष्णानि तिलमात्राणि नीरुजानि समानि च
- वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ३७
- महद्वा यदि वा चाल्पं श्याव वा यदि वाऽसितम्
- नीरुजं मण्डलं गात्रे न्यच्छमित्यभिधीयते ३८
- क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
- मुखमागत्य सहसा मण्डलं विसृजत्यतः ३९
- नीरुजं तनुकं श्यावं मुखे व्यंङ्गं तमादिशेत्
- कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः ४०
- मर्दनात् पीडनाद्वाऽति तथैवाप्यभिघाततः
- मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ४१
- तदा वातोपसृष्टत्वात्तच्चर्म परिवर्तते
- मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ४२
- सरुजां वातसंभूतां तां विद्यात् परिवर्तिकाम्
- सकण्डूः कटिना चापि सैव श्लेष्मसमुत्थिता ४३
- अल्पीयःखां यदा हर्षाद्वलाद्गच्छेत् स्त्रियं नरः
- हस्ताभिधातादपि वा चर्मण्युद्वर्तिते बलात् ४४
- यस्यावपाठ्यते चर्म तां विद्यादवपाटिकाम्
- वातोपसृष्टे मेढ्रे वै चर्म संश्रयते मणिम् ४५
- मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
- निरुद्धप्रकशे तस्मिन् मन्दधारमवेदनम् ४६
- मूत्रं प्रवर्तते जन्तोर्मणिविव्रियते न च
- निरुद्धप्रकशं विद्यात् सरुजं वातसंभवम् ४७
- वेगसंधारणाद्वायुर्विहतो गुदसंश्रितः
- निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च ४८
- मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति
- सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदारुणम् ४९
- शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
- स्विन्ने वाऽस्नाप्यमाने वा कण्डू रक्तकफोद्भवा ५०
- कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
- एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ५१
- स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
- यदा प्रक्लिद्यते स्वेदात् कण्डूं जनयते तदा ५२
- कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
- प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ५३
- प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः
- रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् ५४
- सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रवेदनः
- कण्डूमाञ् ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ५५
- अथ मुखरोगनिदानम्
- आनूपपिशित क्षीरदधिमत्स्यातिसेवनात्
- मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः १
- कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
- दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः २
- चीयते पिडकाभिश्च सरुजाभिः समन्ततः
- सदाहपाकपिडकौ पीताभासौ च पित्ततः ३
- सवर्णाभिश्च चीयेते पिडकाभिरवेदनौ
- भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ४
- सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
- सन्निपातेन विज्ञेयावनेकपिडकाचितौ ५
- खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
- रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ६
- गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुद्गतौ
- जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ७
- सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू
- अच्छं स्फटिकसंकाशमास्रावं स्रवतो भृशम् ८
- तयोर्व्रणो न संरोहेन्मृदुत्वं च न गच्छति
- क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः ९
- ग्रथितौ च तथा स्यातामोष्ठौ कण्डूसमन्वितौ
- शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते
- दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदुनि च १०
- दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
- शीतादो नाम स व्याधिः कफशोणितसंभवः ११
- दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान्
- दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः १२
- स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च
- दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः १३
- श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः
- लालास्रावी स विज्ञेयः शैषिरो नाम नामतः १४
- दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
- यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञितः १५
- दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्
- पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः १६
- वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
- यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः १७
- घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्
- चला भवन्ति दन्ताश्च स वैदर्भोऽभिघातजः १८
- मारुतेनाधिको दन्तो जायते तीव्रवेदनः
- खलिवर्धनसंज्ञोऽसौ जाते रुक् च प्रशाम्यति १९
- शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः
- करालान् विकटान् दन्तान् करालो न स सिध्यति २०
- हानव्ये पश्चिमे दन्ते महाञ् शोथो महारुजः
- लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः
- दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः २१
- दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते
- दालनो नाम स व्याधिः सदागतिनिमित्तजः २२
- कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
- अनिमित्तरुजो वाताद्विज्ञेयः क्रिमिदन्तकः २३
- वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते
- कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः २४
- शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
- पित्तमारुतकोपेन दन्तहर्षः स नामतः २५
- मलो दन्तगतो यस्तु पित्तमारुतशोषितः
- शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा २६
- कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा
- कपालिकेति विज्ञेया सदा दन्तविनाशिनी २७
- योऽसृङिमश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
- श्यावतां नीलतां वापि गतः स श्यावदन्तकः २८
- दन्तमांसे मलैः सास्रैर्वाह्यान्तः श्वयथुर्गुरुः
- सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः २९
- जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा
- पित्तेन दह्यत्युपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च
- कफेन गुर्वी बहुलाचिता च मांसोच्छ्रायैः शाल्मलिकण्टकाभैः ३०
- जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः
- जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ३१
- जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नस्य जातः कफरक्तमूलः
- लालाकरः कण्डुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ३२
- श्लेष्मासृग्भ्यां तालमूले प्रवृद्धो दीर्घः शोथो ध्मातबस्तिप्रकाशः
- तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ३३
- शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु
- मृदुः शोथो लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीव्ररुक् च ३४
- कूर्मोन्नतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु
- पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्वुदं प्रोक्तलिङ्गम् ३५
- दुष्टं मांसं नीरुजं तालुमध्ये कफाच्छूनं मांससंघातमाहुः
- नीरुक्स्थायी कोलमात्रःकफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ३६
- शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासश्चोग्रस्तालुशोषोऽनिलाच्च
- पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येवं तालुपाकंवदन्ति ३७
- गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसं च तथैव शोणितम्
- गलोपसंरोधकरैस्तथाऽङकुरैर्निहन्त्यसून् व्याधिरियं हि रोहिणी ३८
- जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठविरोधिनो ये
- सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढयुक्ता ३९
- क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा तु
- स्रोतोविरोधिन्यचलोद्गता च स्थिराङ्कुरा या कफसंभवा सा ४०
- गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोत्थिता च
- स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ४१
- कीलास्थिमात्रः कफसंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः
- खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ४२
- जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादपि रक्तमिश्रात्
- ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ४३
- वलास एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य
- तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं बलयं वदन्ति ४४
- गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
- मर्मच्छिदं सुस्तरमेनमाहुर्बलाशसंज्ञं निपुणा विकारम् ४५
- वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
- नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ४६
- समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
- तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु ४७
- वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः
- अनेकरुक् प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नी च शतघ्निरूपा ४८
- ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिरुग्यः कफरक्तमूर्त्तिः
- संलक्ष्यते सक्तमिवाशनं च सशस्त्रसाध्यस्तु गलायुसंज्ञः ४९
- सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजं सन्ति च यत्र सर्वाः
- स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य ५०
- शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
- कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते तु ५१
- यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
- कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ५२
- प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
- स मांस तानः कथितोऽवलम्वी प्राण प्रणुत् सर्वकृतो विकारः ५३
- सदाहतोदं श्वयथुं सुताम्रमन्तर्गले पूतिविशीर्णमांसम्
- पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ५४
- स्फोटैः सतोदैर्वदनं समन्ताद्यस्यावितं सर्वसरः स वातात्
- रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात्
- अवेदनैः कण्डुयुतैः सवर्णैर्यस्याचितं चापि स वै कफेन ५५
- ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः
- दन्तमूलेषु वर्ज्यौ च त्रिलिङ्गगतिशौषिरौ ५६
- दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
- जिह्वारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ५७
- स्वरघ्नो वलयो वृन्दो बलाशश्च विदारिका
- गलौघो मांसतानश्च शतघ्नी रोहिणी गले ५८
- असाध्याः कीर्तिता ह्येते रोगा नव दशैव तु
- तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ५९
- अथ कर्णरोगनिदानम्
- समीरणः श्रोत्रगतोऽन्यथाचरन् समन्ततः शूलमतीव कर्णयोः
- करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः १
- कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वरान्
- भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते २
- यदा शब्दवहं वायुः स्रोतः आवृत्य तिष्ठति
- शुद्धःश्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ३
- वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम्
- करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ४
- शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
- स्रवेद्धि पूयं श्रवणोऽनिलादितः स कर्णसंस्राव इति प्रकीर्तितः ५
- मारुतः कफसंयुक्तः कर्णकण्डूं करोति च
- पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ६
- स कर्णगूथो द्र वतां गतो यदा विलायितो घ्राणमुखं प्रपद्यते
- तदा स कर्णप्रतिनाहसंदितो भवेद्विकारः शिरसोऽधभेदकृत् ७
- यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
- यद्व्यञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः क्रिमिकर्णको गदः ८
- पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
- अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ९
- कर्णो निस्तुद्यते तस्य तथा फरफरायते
- कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना १०
- क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
- सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ११
- कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत्
- कर्णविद्र धिपाकाद्वा जायते चाम्बुपूरणात् १२
- पूयं स्रवति पूतिं वा स ज्ञेयः पूतिकर्णकः
- कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः १३
- नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्
- शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् १४
- वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफाच्च
- सर्वाणि रूपाणि च सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः १५
- सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रवर्धिते
- कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान्
- कृष्णारुणनिभः स्तव्धः स वातात् परिपोटकः १६
- गुर्वाभरणसंयोगात्ताडनाद् घर्षणादपि
- शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजान्वितः १७
- रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः
- कर्णं बलाद्वर्धयतः पाल्यां वायुः प्रकुप्यति १८
- कफं संगृह्य कुरुते शोफं स्तब्धमवेदनम्
- उन्मन्थकः सकण्डूको विकारः कफवातजः १९
- संवर्ध्यमाने दुर्विद्धे कण्डूपाकरुजान्वितः
- शोथो भवति पाकश्च त्रिदोषो दुःखवर्धनः २०
- कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसर्पिणः
- कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजान्विताः २१
- कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः
- लिहेत् सशष्कुलद्यं पालद्यं परिलेहीति स स्मृतः २२
- अथ नासारोगनिदानम्
- आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा
- न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन
- तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् १
- दोषैर्विदग्धैर्गलतालुमूले संमूर्च्छितो यस्य समीरणस्तु
- निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् २
- घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः
- तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ३
- दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
- नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ४
- घ्राणाश्रिते मर्मणि संप्रदुष्टो यस्यानिलो नासिकया निरेति
- कफानुजातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः ५
- तीक्ष्णोपयोगादभिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा
- सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्य क्षवथुर्निरेति ६
- प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
- प्राक्संचितो मूर्धनि सूर्यतप्तस्तं भ्रंशथुं रोगमुदाहरन्ति ७
- घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
- नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तुतं दीप्तमुदाहरन्ति ८
- उछ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्
- घ्राणाद् घनः पीतसितस्तनुर्वा दोषः स्रवेत् स्रावमुदाहरेत्तम् ९
- घ्राणाश्रिते स्रोतसि मारुतेन गाढं प्रतप्ते परिशोषिते च
- कृच्छ्राच्छ्वसेदूर्ध्वमधश्चजन्तुर्यस्मिन् स नासापरिशोष उक्तः १०
- शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
- क्षामः ष्ठीवत्यथाभीक्ष्णमामपीनसलक्षम् ११
- आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
- स्वरवर्णविशुद्धिं च परिपक्वस्य लक्षणम् १२
- संधारणजीर्णरजोतिभाष्य क्रोधर्तुवैषम्यशिरोभितापैः
- प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः
- संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १३
- चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्
- प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यावकरा भवन्ति हि १४
- क्षवप्रवृत्तिः शिरसोऽतिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
- उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १५
- आनद्धा पिहिता नासा तनुस्रावप्रसेकिनी
- गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा १६
- क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
- भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १७
- उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके
- कृशोऽतिपाण्डुः संतप्तो भवेदुष्णाभिपीडितः १८
- सधूममग्निं सहसा वमतीव स मानवः
- घ्राणात् कफः कफकृतेशीतः पाण्डुः स्रवेद् बहुः
- शुक्लावभासः शुक्लाक्षो भवेद् गुरुशिरा नरः १९
- कण्ठताल्वोष्ठशिरसां कण्डूभिरभिपीडितः
- भूत्वा भूत्वा प्रतिश्यायो यस्याकस्मान्निवर्तते २०
- संपक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः
- प्रक्लिद्यते पुनर्नासा पुनश्च परिशुष्यति २१
- पुनरानह्यते वाऽपि पुनर्विव्रियते तथा
- निश्वासो वाऽतिदुर्गन्धो नरो गन्धान् न वेत्ति च २२
- एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
- रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्तते २३
- ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
- दुर्गन्धोच्छ्वासवदनो गन्धानपि न वेत्ति सः २४
- सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
- दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति हि २५
- मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः
- कृमितो यः शिरोरोगस्तुल्यं तेनास्य लक्षणम् २६
- बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
- शोथाग्निसादकासांश्च क्रुद्धाः कुर्वन्ति पीनसाः २७
- अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चचुर्विधम्
- चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः २८
- अथ नेत्ररोगनिदानम्
- चिक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा
- व्यर्थो लोकोऽय तुल्यरात्रिन्दिवानां पुसामन्धानां विद्यमानेऽपि वित्ते
- उष्णाभितप्तस्य जले प्रवेशाद् दूरेक्षणात् स्वप्नविपर्ययाच्च
- स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् १
- द्र वात्तथाऽन्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च
- प्रसक्तसंरोदनकोप शोकाच्छिरोऽभिघातादतिमद्यपानात् २
- तथा ॠतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च
- बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराज्जनयन्ति दोषाः ३
- वातात् पित्तात् कफाद्र क्तादभिष्यन्दश्चतुर्विधः
- प्रायेण जायते घोरः सर्वनेत्रामयाकरः ४
- निस्तोदनस्तम्भनरोमहर्ष संघर्षपारुष्यशिरोऽभितापाः
- विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ५
- दाहप्रपाकौ शिशिराभिनन्दा धूमायनं वाष्पसमुच्छ्रयश्च
- उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ६
- उष्णाभिनन्दा गुरुताऽभिशोथः कण्डूपदेहावतिशीतता च
- स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ७
- ताम्राश्रुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च
- पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ८
- वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
- तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ९
- उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
- शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः १०
- हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्रादधीमन्थो रक्तजः पञ्चरात्रात्
- यत्षड्रात्राद्वातिको वै निहन्याद् मिथ्याचारात् पैत्तिकः सद्य एव ११
- उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
- घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १२
- मन्दवेदनता कण्डूः संरम्भाश्रुप्रशान्तता
- प्रशस्तवर्णता चाक्ष्णोः संपक्वं दोषमादिशेत् १३
- कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसंनिभः
- संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः
- शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १४
- उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
- रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १५
- वारंवारं च पर्येति भ्रुवौ नेत्रे च मारुतः
- रुजश्च विविधास्तीव्राः स ज्ञेया वातपर्ययः १६
- यत् कूणितं दारुणरूक्षवर्त्म संदह्यते चाविलदर्शनं यत्
- सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १७
- यस्यावटुः कर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
- कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १८
- श्यावं लोहितपर्यन्तं सर्वं चाक्षि प्रपच्यते
- सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १९
- आवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
- मुहुर्विरज्यन्ति च याः स तादृग्व्याधिः सिरोत्पात इति प्रदिष्टः २०
- मोहात्सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
- ताम्राभमस्रंस्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च २१
- निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वत्
- स्रावं स्रवेदुष्णमतीव यच्च तत् सव्रणं शुक्लक्रिमिउ!दाहरन्ति २२
- दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
- अवेदनं वः न च युग्मशुक्लं तत् सिद्धिमायाति कदाचिदेवं २३
- स्यन्दात्मकं कृष्णगतं सचोषं शङ्खेन्दुकुन्दप्रतिमावभासम्
- वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति २४
- गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
- विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृच्च
- द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् २५
- उष्णाश्रपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम्
- तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् २६
- श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डलं च
- तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः २७
- अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः
- विगृह्यकृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्येत् २८
- प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थितः
- अव्यक्तानि स रूपाणि कदाचिदथ पश्यति २९
- दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते
- मक्षिकामशकांश्चापि जालकानि च पश्यति ३०
- मण्डलानि पताकांश्च मरीचीन् कुण्डलानि च
- परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च ३१
- दूरस्थानि च रूपाणि मन्यते स समीपतः
- समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् ३२
- यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति
- ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ३३
- महान्त्यपि च रूपाणि च्छादितानीव चाम्बरैः
- कर्णनासाक्षिहीनानि विकृतानीव पश्यति ३४
- यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि
- अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते ३५
- पार्श्वस्थिते तथा दोषे पार्श्वस्थं नैव पश्यति
- समन्ततः स्थिते दोषे संकुलानीव पश्यति ३६
- दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति
- द्विधा स्थिते द्विधा पश्येद् वहुधा चानवस्थिते ३७
- दोषे दृष्ट्याश्रिते तिर्यक् स एकं मन्यतो द्विधा
- तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ३८
- रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम्
- अस्मिन्नपि तमोभूते नातिरूढे महागदे ३९
- चन्द्रा दित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः
- निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ४०
- स एव लिङ्गनाशस्तु नीलिका काचसंज्ञितः
- वातेन चापि रूपाणि भ्रमन्तीव च पश्यति ४१
- आविलान्यरुणाभानि व्याविद्धानीव मानवः
- पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ४२
- नृत्यतश्चैव शिखिनः सर्वं नीलं च पश्यति
- कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च ४३
- पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रमेवाभ्रसंप्लवम्
- सलिलप्लावितानीव परिजाड्यानि मानवः
- पश्येद्र क्तेन रक्तानि तमांसि विविधानि च ४४
- स सितान्यपि कृष्णानि पीतान्यपि च मानवः
- सन्निपातेन चित्राणि विप्लुतानीव पश्यति ४५
- वहुधा च द्विधा चापि सर्वाण्येव समन्ततः
- हीनाधिकाङ्गान्यपि तु ज्योतींष्यपि च भूयसा ४६
- पित्तं कुर्यात् परिम्लायि मूर्च्छितं पित्ततेजसा
- पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति ४७
- विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव वा
- वक्ष्यामि षड्विधं रागैलिङ्गनाशमतः परम् ४८
- रागोऽरुणो मारुतजः प्रदिप्तो म्लायी च नीलश्च तथैव पित्तात्
- कफात् सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ४९
- अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम्
- परिम्लायिनि रोगे स्यान्म्लायि नीलं च मण्डलम् ५०
- दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम्
- अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ५१
- पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च
- श्लेष्मणा बहुलं पीतं शङ्खकुन्देन्दुपाण्डुरम् ५२
- चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
- भृज्यमाने च नयने मण्डलं तद्विसर्पति ५३
- प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम्
- दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
- यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ५४
- षड् लिङ्गनाशः षडिमे च रोगा दृष्ठ्याश्रयाः षट् च षडेव वाच्याः
- पित्तेन दुष्टेन सदा तु दृष्टिः पीतः भवेद्यस्य नरस्य किञ्चित् ५५
- पीतानि रूपाणि च तेन पश्येत् स वै नरः पित्तविदग्धदृष्टिः
- प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि चेक्षते सः ५६
- रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्
- तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः ५७
- त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
- दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफोल्पभावात् ५८
- शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
- धूम्रांस्तथा पश्यति सर्वभावात् स धूमदर्शीति नरः प्रदिष्टः ५९
- यो ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च तेन पश्येत्
- विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ६०
- चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
- दृष्टिर्विरूपा श्वसनोपसृष्टा संकोचमभ्यन्तरतस्तु याति ६१
- रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
- वाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ६२
- निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः
- सुरर्षिगन्धर्वमहोरगाणां संदर्शनेनापि च भास्करस्य ६३
- हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
- तत्राक्षि विस्पष्टमिवावभाति वैडूर्यवर्णा विमला च दृष्टिः ६४
- प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सिते
- सश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धते चिरात् ६५
- पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते
- पृथु मृद्वधिमांसार्म बहलं च यकृन्निभम्
- स्थिरं प्रस्तारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६६
- श्यावाः स्यु पिशितनिभाश्च बिन्दवो ये
- शुक्त्याभाः सितनियताः स शुक्तिसंज्ञः
- एको यः शशरुधिरोपमश्च बिन्दुः
- शुक्लस्थो भवति तमर्जुनं वदन्ति ६७
- श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम्
- पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ६८
- जालाभः कठिनसिरो महान् सरक्तः
- संतानः स्मृत इह जालसंज्ञितस्तु
- शुक्लस्थाः सितपिडकाः सिरावृता या-
- स्ता ब्रूयादसितसमीपजाः सिराजाः
- कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो
- विज्ञेयो नयनसिते बलाससंज्ञः ६९
- पक्वः शोथः सन्धिजो यः सतोदः स्रवेत पूयं पूति पूयालसाख्यः
- ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजस्तूपनाहः ७०
- गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावाँ ल्लक्षणैः स्वैरुपेतान्
- तं हि स्रावं नेत्रनाडीति चैके तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ७१
- पाकात् सन्धौ संस्रवेद्यस्तु पूयं पूयास्रावोऽसौ गदः सर्वजस्तु
- श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारो मतस्तु ७२
- रक्तश्रावः शोणितोत्थो विकारः स्रवेद् दुष्टं तत्र रक्तं प्रभूतम्
- हरिद्रा भं पीतमुष्णं जलाभं पित्तात्स्रावः संस्रवेत् सन्धिमध्यात् ७३
- ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोथा
- जाता सन्धौ कृष्ण शुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ७४
- क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
- नानारूपा वर्त्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ७५
- अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या
- सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७६
- वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्रवन्ति च
- कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः ७७
- स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसंनिभाः
- रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ७८
- पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता
- वर्त्मस्था शर्करा नाम स रोगो वर्त्मदूषकः ७९
- एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
- श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ८०
- दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
- व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८१
- दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
- मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ८२
- वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
- सवर्णाभिः स्थिराभिश्च विद्याद्बहुलवर्त्म तत् ८३
- कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः
- न सः संछादयेदक्षि यत्रासौ वर्त्मबन्धकः ८४
- मृद्वल्पवेदनं ताम्रं मद्वर्त्म सममेव च
- अकस्माच्च भवेद्र क्तं क्लिष्टवर्मेति तद्विदुः ८५
- क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
- ततः क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८६
- यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
- तदाहुःश्याववर्त्मेति वर्त्मरोगविशारदाः ८७
- अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
- प्रक्लिन्नवर्त्म तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ८८
- यस्य धौतान्यधौतानि संबध्यन्ते पुनः पुनः
- वर्त्मान्यपरिपक्कानि विद्यादक्लिन्नवर्त्म तत् ८९
- विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
- एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ९०
- वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
- आचक्षीतार्बुदमिति सरक्तमविलम्बितम् ९१
- निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः
- प्रचालयति वर्त्मानि निमेषं नाम तद्विदुः ९२
- यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरङ्कुरः
- तद्र क्तजं शोणितार्शश्छिन्नं छिन्नं प्रवर्धते ९३
- अपाकी कठिनाः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
- लगणो नाम स व्याधिर्लिङ्गतः परिकीर्तितः ९४
- त्रयो दोषा बहिःशोथं कुर्युश्छिद्रा णि वर्त्मनोः
- प्रस्रवन्त्यन्तरुदकं बिसवद्विसवर्त्म तत् ९५
- वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
- तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९६
- प्रचलितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
- घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जलयन्ति च ९७
- असिते सितभागे च मूलकोषात् पतन्त्यपि
- पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९८
- वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत्
- कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् ९९
- नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
- शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः १
- सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
- बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ २
- अथ शिरोरोगनिदानम्
- शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
- सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा
- सूर्यावर्तानन्तवातार्धाव भेदकशङ्खकैः १
- यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
- बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन २
- यस्योष्णमङ्गारचितं यथैव भवेच्छिरो धूप्यति चाक्षिनासम्
- शीतेन रात्रौ च भवेच्छमश्च शिरोऽभितापः स तु पित्तकोपात् ३
- शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च
- शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ४
- शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति
- रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ५
- असृग्वसाश्लेष्मसमीरणानां शिरोगतानामिह संक्षयेण
- क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्
- संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ६
- निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुरतीव चान्तः
- घ्राणाच्च गच्छेत् सलिलं सपूयं शिरोभितापः क्रिमिभिः स घोरः ७
- सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढा
- विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च
- सर्वात्मकं कष्टतमं विकारं सूर्यापवर्तं तमुदाहरन्ति ८
- दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम्
- कुर्वन्ति योऽक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ९
- गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान्
- अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् १०
- रूक्षाशनात्यध्यशन प्राग्वातावश्यमैथुनैः
- वेगसंधारणायासव्यायामैः कुपितोऽनिलः ११
- केवलः सकफो वाऽध गृहीत्वा शिरसो बली
- मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम् १२
- शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽधावभेदकः
- नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् १३
- रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
- तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् १४
- स शिरो विषवद्वेगी निरुध्याशु गलं तथा
- त्रिरात्राज्जीवितं हन्ति शङ्खको नामतः परम्
- त्र्! यहाज्जीवति भैषज्यं प्रत्याख्याय समाचरेत् १५
- अथासृद्गरनिदानम्
- विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुनाच्च
- यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च
- तं श्लेष्मपित्तानिलसंनिपातैश्चतुष्प्रकारं प्रदरं वदन्ति १
- असृग्दरं भवेत् सर्वं साङ्गमर्दं सवेदनम्
- तस्यातिवृत्तौ दौर्वल्यं भ्रमो मूर्च्छा मदस्तृषा
- दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः २
- आमं सपिच्छाप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु
- सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात् ३
- रूक्षारुणं फेनिलमल्पमल्पं वातार्तिवातात् पिशितोदकाभम्
- सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् ४
- तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साम्
- शश्वत् स्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
- क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ५
- मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च
- नैवातिबहुलात्यल्पमार्तवं शुद्धमादिशेत् ६
- शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्
- तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ७
- अथ योनिव्यापन्निदानम्
- विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसंग्रहे
- मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च १
- जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्
- सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति २
- वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्
- परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशम् ३
- वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
- चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ४
- सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया
- सवातमुद्गिरेद्वीजं वामिनी रजसा युतम् ५
- प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी
- स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंक्षयात् ६
- अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
- चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ७
- अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति
- कर्णिन्यां कर्णिका योनौश्लेष्मासृग्भ्यां प्रजायते ८
- मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते
- बहुशश्चातिचरणा तयोर्बीजं न विन्दति ९
- श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ताऽतिशीतला
- चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् १०
- अनार्तवाऽस्तनी षण्डी खरस्पर्शा च मैथुने
- अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् ११
- विवृता च महायोनिः सूचीवक्त्राऽतिसंवृता
- सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा १२
- चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रयो भवेत्
- पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः १३
- अथ योनिकन्दनिदानम्
- दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
- क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा १
- पूयशोणितसंकाशं निकुचाकृतिसंनिभम्
- जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः २
- रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
- दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ३
- नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
- सर्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ४
- अथ मूढगर्भनिदाम्
- सिर्वावयवसम्पूर्णो मनोबुद्ध्यादिसंयुतः
- विगुणापानसंमूढो मूढगर्भोऽभिधीयते १
- भयाभिघातात्तीक्ष्णोष्णपानाशननिषेवणात्
- गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् १
- आचतुर्थात्ततो मासात्प्रस्रवेद्गर्भविद्र वः
- ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः २
- गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन
- मूढः करोति पवनः खलु मूढगर्भं शूलं च योनिजठरादिषु मूत्रसङ्गम् ३
- भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम्
- द्वारं निरुध्य शिरसा जठरेणकश्चित् कश्चिच्छरीरपरिवर्तितकुब्जदेहः ४
- एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
- पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियं अपरा चतुर्था ५
- संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनिम्
- सङ्गी च यो भवति कीलकवत् स कीलो दृश्यैः खुरैः प्रतिखुरं स हि कायुसङ्गी
- गच्छेद्भुजद्वयशिराः स च बीजकाख्यो योनौ स्थितः स परिघेण तुल्यः ६
- अपविद्धशिरां या तु शीताङ्गी निरपत्रपा
- नीलोद्गतसिरा हन्ति सा गर्भं स च तां तथा ७
- गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
- भवेदुच्छ्वासपूतित्वं शूनताऽन्तर्मृते शिशौ ८
- मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
- गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च निपीडितः ९
- योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
- हन्युः स्त्रियं मूढगर्भा यथोक्ताश्चाप्युपद्र वाः १०
- वायुः प्रकुपितः कुर्यात् संरुध्य रुधिरं स्रुतम्
- सूताया हृच्छिरोबस्तिशूलं मक्कल्लसंज्ञकम् १
- अथ सूतिकारोगनिदाम्
- अङ्ग मर्दो ज्वरः कम्पः पिपासा गुरुगात्रता
- शोथः शूलातिसारौ च सूतिकारोगलक्षणम् १
- मिथ्योपचारात् संक्लेशाद्विषमाजीर्णभोजनात्
- सूतिकायाश्च ये रोगा जायन्ते दारुणास्तु ते २
- ज्वरातीसारशोथाश्च शूलानाहवलक्षयाः
- तन्द्रा रुचिप्रसेकाद्याः कफवातामयोद्भवाः ३
- कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाग्नितः
- ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः ४
- अथ स्तनरोगनिदानम्
- सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियः
- प्रदुष्य मांसरुधिरं स्तनरोगाय कल्पते १
- पञ्चानामपि तेषां हि रक्तजं विद्र धिं विना
- लक्षणानि समानानि बाह्यविद्र धिलक्षणैः २
- अथ स्तन्यदुष्टिनिदानम्
- विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते
- सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते १
- तदेव चेष्टयुवतेर्दर्शनात्स्मरणादपि
- शब्दसंश्रवणात्स्पर्शात्संहर्षाच्च प्रवर्तते २
- सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते
- आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियः ३
- तदेवापत्यसंस्पर्शाद्दर्शनात्स्मरणादपि
- ग्रहणाच्च शरीरस्य शुक्रवत्संप्रर्वते
- स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते ४
- गुरुभिर्विविधैरन्नैर्दुष्टैर्दोषैः प्रदूषितम्
- क्षीरं मातुः कुमारस्य नानारोगाय कल्पते ५
- कषायं सलिलप्लावि स्तन्यं मारुतदूषितम्
- कट्वम्ललवणं पीतराजीमत् पित्तसंज्ञितम् ६
- कफदुष्टं घनं तोये निमज्जति सपिच्छलम्
- द्विलिङ्गं द्वन्द्वजं विद्यात् सर्वलिङ्गं त्रिदोषजम् ७
- अदुष्टं चाम्बुनिक्षिप्तमेकीभवति पाण्डुरम्
- मधुरं चाविवर्णं च प्रसन्नं तत् प्रशस्यते ८
- अथ बालरोगनिदानम्
- वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः
- क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः १
- स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
- तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् २
- कफदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान्
- निद्रा न्वितो जडः शूनवक्त्राक्षश्छर्दनः शिशुः ३
- द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम्
- शिशोस्तीव्रामतीव्रां च रोदनाल्लक्षयेद्रुजम् ४
- स यं स्पृशेद् भृशं देशं यत्र च स्पर्शनाक्षमः
- तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ५
- कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः
- आध्मानपृष्ठनमनजठरोन्नटनैरपि ६
- बस्तो गुह्ये च विण्मूत्रसंगत्रासदिगीक्षणैः
- स्रोतांस्यङ्गानि सन्धींश्च पश्येद्यत्नान्मुहुर्मुहुः ७
- कुकूणकः क्षीरदोषाच्छिशूनामक्षिवर्त्मनि
- जायते तेन तन्नेत्रं कण्डुरं च स्रवेन्मुहुः ८
- शिशुः कुर्याल्ललाटाक्षिकूटनासावघर्षणम्
- शक्तो नार्कप्रभां द्र ष्टुं न वर्त्मोन्मीलनक्षमः ९
- मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि
- कासाग्निसादवमथु तन्द्रा कार्श्यारुचिभ्रमैः
- युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
- रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम् ११
- तालुमांसे कफः क्रुद्धःकुरुते तालुकण्टकम्
- तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते १२
- तालुपातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्र वम्
- तृडक्षिकण्ठास्यरुजा ग्रीवादुर्धरता वमिः १३
- विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः
- पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः १४
- शङ्खाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत्
- क्षुद्र रोगे च कथिते त्वजगल्ल्यहिपूतने १५
- ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
- बालदेहेऽपि ते तद्वद्विज्ञेयाः कुशलैः सदा १६
- क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
- नखैर्दन्तैर्दारयति धात्रीमात्मानमेव वा १७
- ऊर्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते
- भुवौ क्षिपति दन्तौष्ठं फेनं वमति चासकृत् १८
- क्षामोऽति निशि जागर्ति शूनाक्षो भिन्नविट्स्वरः
- मांसशोणितगन्धिश्च न चाश्नाति यथा पुरा १९
- सामान्यं ग्रहजुष्टानां लक्षणं समुदाहृतम्
- एकनेत्रस्य गात्रस्यस्रावः स्पन्दनकम्पनम् २०
- ऊर्ध्वं दृष्ट्या निरीक्षेत वक्रास्यो रक्तगन्धिकः
- दन्तान् खादति वित्रस्तः स्तन्यं नैवाभिनन्दति २१
- स्कन्दग्रहगृहीतानां रोदनं चाल्पमेव च
- नष्टसंज्ञो वमेत् फेनं संज्ञावानतिरोदिति
- पूयशोणितगन्धित्वं स्कन्दापस्मारलक्षणम् २२
- स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः
- सास्रावव्रणपरिपीडितः समन्तात्
- स्फोटैश्च प्रचिततनुः सदाहपाकै-
- र्विज्ञेयो भवति शिशुः क्षतः शकुन्या २३
- व्रणैः स्फोटैश्चितं गात्रं पङ्कगन्धं स्रवेदसृक्
- भिन्नवर्चा ज्वरी दाही रेवतीग्रहलक्षणम् २४
- अतीसारो ज्वरस्तृष्णा तिर्यक्प्रेक्षणरोदनम्
- नष्टनिद्र स्तथोद्विग्नो ग्रस्तः पूतनया शिशुः २५
- छर्दिः कासो ज्वरस्तृष्णा वसागन्धोऽतिरोदनम्
- स्तन्यद्वेषोऽतिसारश्च अन्धपूतनया भवेत् २६
- वेपते कासते क्षीणो नेत्ररोगो विगन्धिता
- छर्द्यतीसारयुक्तश्च शीतपूतनया शिशुः २७
- प्रसन्नवर्णवदनः सिराभिरभिसंवृतः
- मूत्रगन्धी च बह्वाशी मुखमण्डिकया भवेत् २८
- छर्दिस्पस्यिन्दिनकण्ठास्यशोषमूर्च्छाविगन्धिताः
- ऊर्ध्वं पश्येद्दशेद्दन्तान् नैगमेषग्रहं वदेत् २९
- प्रस्तब्धाक्षः स्तनद्वेषी मुह्यते चानिशं मुहुः
- तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः ३०
- अथ विषरोगनिदानम्
- स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते
- मूलाद्यात्मकमाद्यं स्यात् परं सर्पादिसंभवम् १
- निद्रा ं! तन्द्रा ं! क्लमं दाहमपाकं लोमहर्षणम्
- शोथं चैवातिसारं च जङ्गमं कुरुते विषम् २
- स्थावरं च ज्वरं हिक्कां दन्तहर्षं गलग्रहम्
- फेनच्छर्द्यरुचिश्वासं मूर्च्छा च कुरुते भृशम् ३
- इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
- जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ४
- न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
- अपार्थं बहु संकीर्णं भाषते चापि मूढवत् ५
- हसत्यकस्मात् स्फोटयत्यङ्गुलीर्विलिखेन्महीम्
- वेपथुश्चास्य भवति त्रस्तश्चान्योन्यमीक्षते ६
- विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्त्यपि
- आलभेतासनं दीनः करेण च शिरोरुहम् ७
- वर्तते विपरीतं च विषदाता विचेतनः
- उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ८
- जृम्भणं वेपनं श्वासो मोहः पत्रविषेण तु
- मुष्कशोथः फलविषैर्दाहोऽन्नद्वेष एव च ९
- भवेत् पुष्पविषैश्छर्दिराध्मानं श्वास एव च
- त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि १०
- आस्यदौर्गन्ध्यपा रुष्यशिरोरुक्कफसंस्रवाः
- फेनागमः क्षीरविषैर्विड्भेदो गुरुगात्रता ११
- हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
- प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् १२
- सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम्
- कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते चापि यस्य १३
- तृष्णा मूर्च्छा ज्वरदाहौ च यस्य दिग्धाहतं तं पुरुषं व्यवस्येत्
- लिङ्गान्येतान्येव कुर्यादमित्रैर्व्रणे विषं यस्य दत्तं प्रमादात् १४
- सपीतं गृहधूमाभं पुरीषं योऽतिसार्यते
- फेनमुद्वमते चापि विष पीतं तमादिशेत् १५
- वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
- यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः १६
- दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्
- पीतो मण्डलिजः शोथो मृदुः पित्तविकारवान् १७
- राजिलोत्थो भवेद् दंशः स्थिरशोथश्च पिच्छिलः
- पाण्डुः स्निग्धोऽतिसान्द्रा सृक् सर्वश्लेष्मविकारकृत् १८
- अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
- याम्ये च दष्टाः परिवर्जनीया ऋक्षे सिरामर्मसु ये च दष्टाः १९
- दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति
- अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु २०
- क्षीणक्षते मोहिनि कुष्ठयुक्ते रूक्षेऽबले गर्भवतीषु चापि
- शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति २१
- शीताभिरद्भिश्च न रोम हर्षो विषाभिभूतं परिवर्जयेत्तम्
- जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः २२
- कृष्णः सरक्तःश्वयथुश्च दंशे हन्वोः स्थिरत्वं च विवर्जनीयः
- वर्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य २३
- दंष्ट्रानिपाताश्चतुरश्च यस्य तं चापि वैद्यः परिवर्जयेच्च
- उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् २४
- सारिष्टमत्यर्थमवेगिनं च ज्ञात्वा नरं कर्म न तत्र कुर्यात्
- जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा २५
- स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति
- वीर्याल्पभावान्न निपातयेत्तत् कफान्वितं वर्षगणानुबन्धि २६
- तेनार्दितो भिन्नपुरीषवर्णो वैगन्ध्यवैरस्ययुतः पिपासी
- मूर्च्छा भ्रमं गद्गदवाग्वमिं च विचेष्टमानोऽरतिमाप्नुयाद्वा २७
- आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
- भवेत् समुद्ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः २८
- स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्
- कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् २९
- निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दम्
- ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म ३०
- मांसक्षयं पादकरप्रशोथं मूर्च्छा तथा छर्दिमथातिसारम्
- दूषीविषं श्वासतृषाज्वरांश्च कुर्यात् प्रवृद्धिं जठरस्य चापि ३१
- उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम्
- गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान् ३२
- दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः
- यस्मात् संदूषयेद्धातूँ स्तस्माद् दूषीविषं स्मृतम् ३३
- साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
- दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ३४
- सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाङ्गजान् मलान्
- शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ३५
- तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते
- मर्मप्रधमनाध्मानं हस्तयोः शोथलक्षणम् ३६
- जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः
- एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ३७
- यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
- तस्माल्लूतास्तु भाष्यन्ते संख्यया ताश्च षोडश ३८
- ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
- ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ३९
- पिडका विविधाकारा मण्डलानि महान्ति च
- शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा ४०
- सामान्यं सर्वलूतानामेतद् दंशस्य लक्षणम्
- दंशमध्ये तु यत् कृष्णं श्यावं वा जालकाचितम् ४१
- ऊर्ध्वाकृति भृशं पाकं क्लेदशोथज्वरान्वितम्
- दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ४२
- शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
- प्राणान्तिकाश्च जायन्ते श्वासहिक्काशिरोग्रहाः ४३
- आदंशाच्छोणितं पाण्डुमण्डानि च ज्वरोऽरुचिः
- लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ४४
- मूर्च्छाङ्गशोथवैवर्ण्यक्लेद शब्दाश्रुतिज्वराः
- शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः ४५
- कार्ष्ण्यं श्यावत्वमथवा नानावर्णत्वमेव वा
- मोहोऽथ वर्चसो भेदो दष्टे स्यात् कृकलासकै ४६
- दहत्यग्निरिवादौ च भिनत्तीवोर्ध्वमाशु च
- वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति ४७
- दष्टोऽसाध्यश्च हृद्घ्राणरसनोपहतो नरः
- मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून् ४८
- विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च
- लक्षणं कणभैर्दष्टे दंशश्चैवावसीदति ४९
- हृष्टलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्
- दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ५०
- एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट्
- छर्दिर्निद्रा च सविषैर्मण्डूकैर्दष्टलक्षणम् ५१
- मत्स्यास्तु सविषाः कुर्युदाहं शोथं रुजं तथा
- कण्डूं शोथं ज्वरं मूर्च्छा सविषास्तु जलौकसः ५२
- विदाहं श्वयथुं तोदं स्वेदं च गृहगोधिका
- दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ५३
- कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः
- असाध्यकीटसदृशमसाध्यमशकक्षतम् ५४
- सद्यः प्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
- पिडका मक्षिकांदशे तासां तु स्थगिकाऽसुहृत् ५५
- चतुष्पद्भिर्द्विपद्भिश्च नखदन्तविषं च यत्
- शूयते पच्यते वापि स्रवति ज्वरयत्यपि ५६
- श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः
- श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ५७
- तदा प्रस्रस्तलाङ्गुलहनुस्कन्धोऽतिलालवान्
- अव्यक्तबधिरान्धश्च सोऽन्योन्यमभिधावति ५८
- प्रमूढोऽन्यतमस्त्वेषां खादन्विपरिधावति
- तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु ५९
- सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक्
- दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ६०
- येन चापि भवेद्दष्टतस्य चेष्टां रुतं नरः
- बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति ६१
- दंष्ट्रिणा येन दष्टश्च तद्रू पं यस्तु पश्यति
- अप्सु चादर्शबिम्बे वा तस्य तद्रि ष्टमादिशेत् ६२
- त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम्
- जलत्रासं तु तं विद्याद्रि ष्टं तदपि कीर्तितम् ६३
- अदष्टो वा जलत्रासी न कथंचन सिद्ध्यति
- प्रसुप्तो वोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिद्ध्यति ६४
- प्रशान्तदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्
- प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ६५
- अथ विषयानुक्रमणिका
- ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका
- अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः १
- हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम्
- कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः २
- छर्दिस्तृष्णा च मूर्च्छाद्या रोगाः पानात्ययादयः
- दाहोन्मादावपस्मारः कथितोऽथानिलामयः ३
- वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक्
- पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ४
- हृद्रो गो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी
- प्रमेहो मधुमेहश्च पिडकाश्च प्रमेहजाः ५
- मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः
- गण्डमालाऽपची ग्रन्थिरर्बुदः श्लीपदं तथा ६
- विद्र धिर्व्रणशोथश्च द्वौ व्रणौ भग्ननाडिके
- भगन्दरोपदंशौ च शूकदोषस्त्वगामयः ७
- शीतपित्तमुदर्दश्च कोठश्चैवाम्लपित्तकम्
- विसर्पश्च सविस्फोटः सरोमान्त्यो मसूरिकाः ८
- क्षुद्रा स्यकर्णनासाक्षिशिरःस्त्रीबालकामयाः
- विषं चेत्ययमुद्दिष्टो रुग्विनिश्चियसंग्रहः ९
- सुभाषितं यत्र यदस्ति किञ्चित्तत्सर्वमेकीकृतमत्र यत्नात्
- विनिश्चये सर्वरुजां नराणां श्रीमाधवेनेन्दुकरात्मजेन १०
- यत्कृतं सुकृतं किञ्चित्कृत्वैवं रुग्विनिश्चयम्
- मुञ्चन्तु जन्तवस्तेन नित्यमातङ्कसन्ततिम् ११
- इति श्रीमाधवकरविरचितं माधवनिदानं समाप्तम्
- समाप्तश्चायं ग्रन्थः
- Madhava Nidana, by Madhavacharya,
- edited by Vaidya Yadav ji Trikam ji Ìcharya, 1977 edition.
- Typed by Om Prakash Sharma, B.A., and
- proofread by Maya Nand Sastri, Ved Vyakaranacharya.