माधवीयधातुवृत्तिः/भ्वादिप्रकरणम्
माधवीयधातुवृत्तिः भ्वादिप्रकरणम् [[लेखकः :|]] |
ॐ
।। श्रीगणेशाय नम: ।।
माधवीयधातुवृत्तौभ्वादि: ।
____*____
वागीशाद्या: सुमनस: सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्या: स्युस्तं नमामि गजाननम् ।। 1 ।।
जीयाद्धस्तिमुखो यस्य लीलयोर्ध्वण्डखण्डने ।
कन्दाङ्कुरवाभाति दन्ताग्रं तद्वहिर्गतम् ।। 2 ।।
चिदानन्दकलां वाणीं वन्दे चन्द्रकलाधराम् ।
नैर्मल्यतारतम्येन बिम्बितां चित्तभित्तिषु ।। 3 ।।
अस्ति श्रीसङ्गमक्ष्माप: पृथ्वीतलपुरन्दर: ।
यत्कीर्तिर्मौक्तिकादर्शे त्रिलोक्यां प्रतिबिम्बयते ।। 4 ।।
यश: क्षीराहुतीकृत्य यत्पतापहुताशने( 1 ) । ( 1 ) धनञ्जये इति पाठान्तरम् ।
परे यान्ति पदं दिव्यं राजानो रणदीक्षिता: ।। 5 ।।
तूर्णं कर्णान्तिकं प्राप्ते यत्प्रतापधनञ्जये ।
पुरो निधाय गाङ्गेयं स्वात्मा संरक्ष्यते परे: ।। 6 ।।
कुर्वन् शत्रुयशांसि धूमपटलीं कृलङ्कषाज्यास्पद:
काष्ठासङ्गविवर्द्धित: प्रकटयन् भूतिं नवां भूयसीम् ।
आतन्वन्न्तिरप्रापदहनं स्फर्जत्स्फलिङ्गाकृतिं
प्रायो यच्छति यत्प्रतापदहन: कस्मै न विस्मेरताम् ।। 7 ।।
तस्य मन्त्रिशिखारत्नमस्ति मायणसायण: ।
य: ख्यातिं रत्नगर्भेति यथार्थयति पार्थिवीम् ।। 8 ।।
नित्योन्मीलितदानवारिरधिकं निर्धृतपङ्कोदयो
दूरापास्तहरीशलङ्घनविधिर्भङ्गप्रसङ्गोज्ज्ञित: ।
क्ष्माभृत्क्षोभकृतिक्षम: क्षणिययन् दोषाकरात्पोषणामान्न्दाय
चकास्ति यस्त्रिजगतामाश्चर्यरत्नाकर: ।। 9 ।।
यत्की?र्तौ जाह्नवीस्फूर्तौ कीर्त्त्या विद्विषतामपि ।
कलिन्दनन्दिनीकान्ति: स्पर्द्धयेव प्रपद्यते ।। 10 ।।
येन निर्मीयते नित्यं धनैरायो( 2 ) धनैरपि । ( 2 ) सुधातुवृत्तिर्विहिता बुधानां श्रीवत्सचिन्हेन कृते हि नाके ।
सुधातुवृत्तिर्विहिता बुधानां श्रीकुण्डिनार्येणकलावपीह ।।
अयमधिक: श्लोक उपलभ्यते ""जी संज्ञकपुस्तक इति म्हैसूरस्थमुद्रितपुस्तकतो ज्ञायते ।
श्रेयसे यशसे दानं विदुषां विद्विषामपि ।। 11 ।।
न ध्यानं न व्रतं नार्चा न समाधिर्न वा जप: ।
मन्त्रसिद्धा बलं यस्य मतिरेव महीयसी ।। 12 ।।
तेन मायणपुत्र्त्रेण सायणेन मनीषिणा ।
आख्यया माधवीयेयं धातुवृत्तिर्विरच्यते ।। 13 ।।
अल्या: पूर्वनिबन्धेभ्यो गुणवत्ता न कथ्यते ।
एर्व एव स्ववाक्येषु यदाहुर्गणगौरवम् ।। 14 ।।
सर्व एव संत्यक्तमात्सयंर्गुणगृह्मैर्मनीषिभि: ।
सूत्रवार्त्तिकभाषष्याणामीक्ष्यतां पारदृश्वभि: ।। 15 ।।
कल्पयन्तु खला दोषं किं तैर्यदयमुद्यम: ।
मुनित्रयगिरामर्थमतत्त्वविदुष: प्रति ।। 16 ।।
भू सत्तायाम् ।।
वर्त्तत इति शेष:। सत्तेहात्मभरणम् ( 1--2 ) । ( 1 )आत्मावधारणमिति पुस्तकान्तरे । ( 2 ) धारणमिति पाठान्तरम् ।
यदाह हरि:आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । इति
हेलाराजश्च--"अस्ति आत्मानं बिभत्तिं सत्तां भावयतीति यावत्' इति । कैयटकारोपि"आत्मभरणवचनो भवति' इति । नैरुक्ताश्च "अस्तत्युत्पन्नस्यात्मधारणमाचष्टे' इति ।।
उदात्त: ।।
नानुदात्त इत्यर्थ: । तेन ""एकाच उपदेशे ऽनुदात्तात् इतीणिनषेधो न भवति । एवमुत्तस्त्रापि ।।
परस्मैभाषा ।।
परस्मैपदीत्यर्थ: । उपलक्ष्णमर्थनिर्देश: । हिमवतो गङ्गा प्रभवति, मल्लो मल्लाय प्रभवति, यामस्य प्रभवति, प्रकाशनङ्गनि:सरणप( 3 ) ( 3 ) सीमर्थ्येति पाठान्तरम् । र्याप्त्यैश्वर्याभिभवोत्प्रेक्षान्तभांवनसंवेदनादीनामवगमात् । न च मन्तव्यं प्रभूप्रभृतयस्समुदाया एवैतेष्वर्थेषु वर्त्तन्त इति । एवं हीह भुव: क्रियावाचित्वाभावात्समुदायस्य च भूवादावपाठान्नेह धातुत्वमिति तन्निबन्धनप्रत्ययाभावात् प्रभवतीत्यादि रूपं न स्यात् । किं चोपसर्गसंबन्धमन्तरेण "भूतिवाम: पुत्रो भवति""बहुर्वै भवतो भ्रातृव्य:' इत्यादावेश्वर्योत्पत्तिलिप्सादयोऽवगम्यन्ते । न चोत्पत्ति: सत्ता, उत्पन्नस्यात्मधारणलक्षणमित्युक्तत्वात् । तथ च नैरुक्त:---"जायतेऽस्तिवि?परिणमते वर्द्धते ऽपक्षीयते विनश्यति' इति क्रमेण षड् भावविकारानाहु:( 4 )। ( 4 ) क्रमेणेत्यधिकमेकस्मिन्पुस्तके ।
लोकेऽपिसत्ताजन्मनोभिन्नत्वादेव घट: किमुत्पद्यत इति पृष्टो न कश्चिदप्यस्तीति प्रतिवक्ति । तथाचार्येणापि ""तत्र जात: ""तत्र भव: इति भेदेन( 5 )( 5 ) निर्देश: कृत इति पुस्तकान्तरे ।
निर्दिश्यते, तस्माद्धातुरेवानेकार्थाभिधायी, प्रादयस्तु प्रकरणादिवद्विशेषस्मृतिहेतवो द्योतका: । द्योतकापेक्ष च शब्दशक्तिस्वाभाव्यात् क्कचिदेव, यथा हरिशब्दो भेकादावेव । एवमुत्तरत्राप्यर्थनिर्देशोऽतत्रन्त्रम् । यथा बीजसंताने वपि: पठित: केशान्वपतीत्यादौ छेदनेपि वर्त्तते, तथा करोतिर्भूतप्रादुर्भावे पठितो ऽस्मानभित:कुरु, पादौ कुरु, य: प्रथम: परापतेत्स स्वरु: कार्यं:, चोरंकारमाक्रोशतीत्यादौ स्थापननिर्मलीकरणोपादानेच्चारणादौ वर्त्तते, चोरंकारमित्यत्र चोरशब्दमुच्वायंति( 1 ) ( 1 ) समुच्चार्येति पुस्तकान्तरे ।
ह्मर्थ: न त्वचोरचोर: क्रियते । । अर्थनिर्देशस्योपलक्षणत्व एव'कुर्द खुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येवकारोपपत्ति:( 2 ) ।( 2 ) अवधारणोपपत्तिरिति पाठान्तरम् ।
"गाधृप्रतिष्ठालिप्सयो:' इत्यादौ त्वनेकार्थाभिधानं प्रपञ्चार्थम् । तदेवं सत्स्वपि बुहुष्वर्थेषु माङृगनिकत्वात् सुपसिद्धत्वार्त्सपदार्थव्यापित्वाच्च सत्तानिर्देश: कृत: । उक्तं च भाष्ये( 3 ) ( 3 ) भाष्यकृतेति पुस्तकान्तरे ।
"न सत्तां पदार्था व्यभिचरति'इति । हरिणाप्युक्तम् ।
सं?बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिता: ।।
तां प्रातिपदिकाथ्रं च धात्वर्थं च प्रचक्षते । इति ।
माङ्गलिकत्वमपि प्रसङ्गात् सत्ताख्यस्य परब्रह्मण: स्मरणेन । आदौ भुवो निर्देशो भूशब्दस्य महाव्याहृतिस्मरणेन माङ्गलिकत्वात् सर्वजात्यर्थव्याप्यर्थाभिधायित्वात् ""भूवादयो धातव इति प्रसङ्गात् भूवादिशब्दस्य साधुत्वलाभहेतुत्वाच्च । कृभ्वस्तयो हि क्रियासामान्यवचना: । सामान्यं च विशेषेषु प्रत्येकं परिसमाप्यते । आत्मभरणं च पाकादिष्वप्यस्तीति भ्वस्त्यो: क्रियासामान्यवाचित्वम् । उक्तं च कैयटे
"तद्धयात्मभरणं विरुद्धार्थसमवायै: पाकादिभिरविरुद्धैकार्थसमवायम्' इति । तेन यथा "ब्राह्मणो गार्ग्यं इत्यत्र ब्राह्मण्यं सामान्यं गार्ग्यत्वं विशेषस्तद्वदिहाप्यात्मभरणं सामान्यं पाकादिकं तु विशेष: । करोतेरपि क्रियासामान्यमर्थ:, ब्राह्मणो गार्ग्यं इतिवत् किं केरोति पचतीति क्रियासमाधिकरण्यदर्शनात्, इत्थं च करोत्यर्थ: प्रश्न: पचत्यादिभिर्व्याकृते भवति । अत्यन्तभेदे तु करोत्यर्थो न व्याकृतो भवेत्, यथा किं करोति देवदत्ते ? घट इति । कथं तर्हि करोत्यर्थविशेषत्वे सर्वधात्वर्थानामासनमपि करणमिति किं करोतीति प्रश्ने न करोत्यास्त
इति करोत्यर्थविशेषेणोत्तरं संगच्छते । उच्यते । नात्र क्रियासामान्यं पृच्छ्यते किं तु लोकप्रसिद्धो
गमनागमनादिर्विशेषस्तत्रैव लौकिकानां क्रियात्वाभिमानात्, तेन तन्निषेधवूर्वकमास्त( 4 ) ( 4 ) इत्युत्तरं युज्यते इति पुस्तकान्तरे ।
इत्यत्र युज्यते ।यद्वा क्रयासामान्यावश्यं भावात् विशेषविषय एव प्रश्न इति तन्निराकरणेन प्रतिवचनं बोद्धव्यम् । क्रिया च यद्वस्तु सिद्धमसिद्धं वा शब्देन साध्यत्वेनाभिधीयमानमाश्रिक्रमं तदिति वैयाकरणानां मतम् । तदुक्तम् ।
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्क्रियेति व्यपदिश्यते ।। इति ।
नन्वेवं सति वितता बहव: क्षणा धातुवाच्या इत्युक्तं भवति, यथा पवतीत्यत्राधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादि:, ततश्चैषां बहुत्वेनैकत्वाभावात् कथमेकक्रियात्वेनैकधातुवाच्यत्वं, न चास्ति समुदायभाव:, क्षाणानां क्षणिकत्वेन युगपदसंनिधानात् । नैष दोष:।
क्रमवतामेषां क्षणानामेकलोद्देशे न्रवृत्तानां सकलानां बुद्धया समापांदितैक्यानां क्रियात्वव्यवहारात् । न च यदनन्तरं फलं निष्पद्यते तस्यैव फलसाधनत्वम्, एवं ह्मधिश्रयणादिवैयर्थ्यं स्यादिति तैरपि समोहितफलानुगुणैर्यथास्वं विशेष आधीयत एवेत्यवश्यं फलसाधनत्वमङगीकर्त्तव्यम् एवं च काल्पनिक: समुदायो धातुवाच्य इत्युक्तं भवति । तत्रावयवक्षणा: समुदाये गुणभावमापत्रा इति न ते शब्दभेदं प्रयुञ्जते । तदुक्तम् ।
गुणभूतैरवयवै: समूह: क्रमजन्मनाम् ।
बुद्धया प्रकल्पिताभेद: क्रियेति व्यपदिश्यते ।। इति ।
क्रमजन्मनामेषां क्षणानामभेद एकत्वे बुद्ध्या संकलनात्मिकया प्रकल्पित:, स च समूह: स्वभावतो गुणभूतैरवयवैर्युक्त इत्यर्थ: । गुणभूतैरवयवैरिति वचनमवयवानां शब्दभेदं प्रति प्रयोजकत्वं नेति प्रतिपादनार्थम् । एवं समूहरूपाया: क्रियाया एकत्वादपूर्वापरीभावाद क्रमत्वे ऽप्यवयवक्रमाश्रयेण क्रमित्वव्यवहार:। उक्तं च ।
स चापूर्वापरीभूत एकत्वाद्यक्रमात्कै: ।
पू र्वापराणां धमेण तदर्थेनानुगम्यते ।। इति ।
कथं तर्ह्मेकैकस्मिन् क्षणे धातो: प्रयोग: पचतीत्यधिश्चयितर्यपि वक्तारो भवन्ति । उच्यते,अधिश्रयणारम्भ एव फलाभिसन्धेस्तत्रेवं समुदायस्यारोपात् । अथं च समाश्रितपूर्वापरीभावएवारोप्यत इत्येकोऽपि क्षण: क्रमिको भवति । अत एव क्षणान्तरेऽनुष्ठीयमाने ऽनुष्ठाप्यमाने चाध्यारोपितविरूपस्य क्षणस्यारोपादतीतत्वादपाक्षीदिति भूतकालता, तथा तस्य क्षणस्य भावित्वादितरेष्वभाविष्वपि पक्ष्यतीति भविष्यत्कालता, तथा चैकस्य क्षणस्य वर्त्तमानत्वादन्येष्सवत्तेमानेष्वपि पचतीति वर्त्तमानकालता चेति कालत्रययोग उपपद्यते । यथोक्तम्---
समूह: स तथाभूत: प्रतिभेदं समूहिषु: ।
समाप्यते ततो भेदे कालभेदस्य संभव: ।। इति ।
तथाभूत:क्रमिक: सन् प्रतिभेदं प्रत्येकं समुह आरोप्यते । ततो विषविषयिणोरभेदएकत्वे कालभेद:संभवतीत्यर्थ: । तदेवं शब्देन साध्यतया प्रतीयमान: समाश्रितक्रमोर्थ: क्रियेति स्थिते पटो भवतीत्यात्मभरणलक्षणा सत्ता तथैवाभिधीयत इति क्रियात्वेन विचिकित्सा । तथाच
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।
इति क्रियाभेदहेतुना कलिनाभूदस्ति भविष्यतीति प्रयोगा: ।। नह्मक्रियस्य कालेन विभागोस्ति । उक्तं च--
कालानुपीति यद्रपं तदस्तीति प्रतीवते । इति ।
एवं च "भूतं भव्यायोपदिश्यत' इति न्यायेन देवदत्त: पचतीत्यादिवत् घटो भवतीति क्रियाकारकभावेन समन्वय उपपद्यते । किं करोतीति प्रश्ने पचतीत्यादिवदस्तीति प्रतिवचनाभावे निर्ज्ञातसत्तस्यानिर्ज्ञातो व्यापारभेद: पृच्छते, न तु निर्ज्ञाता सवैवेति, तद्विषयस्य प्रश्नस्यैवानुदयात् ( 1 ) । ( 1 ) अनाश्रितत्वादिति पुस्तकान्तरे ।
यदा तु सत्ताविषय: प्रश्नो विनाशशङ्कया किं करोति देवदत्त इति, तदास्ति तावदिति प्रतिवचनमपि भवत्येव । ननु क्रियाया: क्रमिकत्वमध्यारोपेणेत्युक्तं, गौणता तु प्राप्नोति । अत्र परिहरन्ति ।
व्यवहारस्य सिद्धत्वान्नवेयं गुणकल्पना ।
उपचारो हि मुख्यस्यासंभवादपदिश्यते ।। इति ।
यथा गोशब्दस्यासंभवात्सास्नादिमर्थस्य वाहीकादिवृत्तित्वम्, एवं स्थिते सर्वपार्षदत्वाद्वयाकरणस्य तत्ततैथिकानुरोधेन हरिणा क्रियामतभेदा: प्रदर्शिता: तेपीह संक्षेपेणे प्रदर्श्यन्ते । यथा यदनन्तरं फलं निष्यद्यते सा क्रिया । यथौदनं पचतीरत्यत्र विक्लेदनं, तदनन्तरं फलनिष्पादत् तदेव कारकं, नहि साक्षादजनयत्कारकं नाम । अधिश्रयणादीनां विक्लेदनोपयोगित्वाव्र वैयर्थ्य, तेषु तु पच्यादिप्रयोगस्तदर्थत्वेन विक्लेदनरूपाध्यारोपात् । पौर्वापर्यतु पूर्वापरक्षणापेक्षया । उक्तं च--
अनन्तरं फलं यस्या: कल्प्यते तां क्रियां विदु: ।
प्रधानभूता तादर्थ्यादन्यासं तु तदाख्यता ।। इति ।
अथ वा चैत्र: पचति, मैत्र: पचति, क्षीरं पचति, ओदनं पचति, इत्यादिषु कर्तृकर्मभेदेन भिन्नेषु पाकादिषु पच्यादिप्रत्ययानुवृत्तेर्घटादिषु घत्वादिवदस्तिपचित्वादिकं नाम ज्जाति: सा क्रिया । ननु युगपदवस्थितैरवयवैरारब्धेषु सत्सू घटादिषु समवायाद्धत्वादीनामभिव्यक्तिर्युज्यत, इह तु क्रमजन्मभिरयुगपद्भाविभि: क्षणैरवयव्यन्तरमारब्धुं न शक्यते तत्समवायात् पचित्वाद्यभिव्यक्ति: स्यात् । नैष दोष: । क्रमजन्मभिरयुगपद्भाविभिरनाब्धावयविभिरुत्क्षेपणादिक्षणैरुत्क्षेपणत्वादीनामिवाभिव्यक्तुपपत्ते: । यथैव चोत्क्षेपणाद्यघयवकर्माणि इदमहमुत्क्षिपामीत्यामीत्यादिबुद्धीनां विशिष्टप्रयत्नजन्यतया मिथ: स्वतो भिन्नान्युत्क्षेपणत्वादीनामाधारत्वमपि प्रतिपद्यमानानि दुरवधारत्वाद्विशिष्टजातिविषयां बुद्धिं न प्रकल्पयन्ति, एव्मिहाप्येकैकक्षणदर्शनेन पचित्वादीनामप्रत्यय: । अत्र च साध्यत्वक्रमिकत्वे व्यञ्जक्षणद्वारेण । उक्तं च
जातिमन्ये क्रियामादुरनेकव्यक्तिवर्तिनीम् ।
असाध्यव्यक्तिरूपेण सा साध्येवोपकल्प्यते( 1 ) ।। ( 1 ) उपलक्ष्येते इति पाठान्तरम् ।
एकैक?स्मिन्क्षणेपि पचित्वादेर्वस्तुतो विद्यमानत्वात्तत्रतत्र शब्दप्रयोग उपपद्यते । अथ वा कारकभेदभिन्न्?ाविघटनादिरूपाया यस्या: क्रियाव्यक्तेरनन्तरं फलं निष्पद्यते तत्र समवेता विघटनत्वादिका पच्याश्च साध्यत्वादिकमाश्रयद्वारकम् । यादह
अन्ते या वा क्रिया भावो जाति: सैव क्रिया स्मृता ।
सा व्यक्तरेनुनिष्पादे जायमानेव गम्यते ।। इति । अत्रापि मते व्यक्तिदर्शनवत्तादर्थ्यादन्यत्र पच्यादिप्रयोग: । अथ वाधिश्रयणादिव्यापार?विशिष्टेषु कारकेष्वधिश्रयणादिव्यारेष्वत्य एव व्यापारे समवेतोपहितभेदा सत्ता क्रिया । तदुक्तम्---
स्वव्यापारविशिष्टानां सत्ता वा कर्तृकर्मणाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ।।
अन्ते वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।
भाव एव हि धात्वर्थ इत्यवच्छिन्न आगम: ।। इति ।
भाव एव हि इत्यादिना "षट् भावविकारा इति हस्माह भगवान् वार्ष्यायणि:' इति भाष्यकारानुमतं
निरुक्तकारवाक्यमस्य संवादकत्वेन दर्शयति । जातिसमुद्देशेप्युक्तम्---
प्राप्तकमविशेषा तु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते :।।
व्यापारविशेषाणां साध्यत्वात्क्रभिकत्वाच्च तदुप?हितायाश्च ते भवत: । अथ वा शब्दोच्चारणसमनन्तरं योर्थ: प्रतिभासते बुद्धयाकारत्वेन स शब्दार्थ: । यदुक्तं, "बुद्धिप्रतिभास: शब्दार्थइति । यदि हि बहि: सत्तासमाविष्टार्थोर्थ: स्यात् तदा पटोस्ति नास्तीत्यादौ पौनरुक्त्यविरोधौ स्यातां, तथा ऽसतो जन्मायोगाद् पटो जायत इत्यादिप्रयोगोऽनुपपन्न: स्यात् । किं च बहिरत्यन्तासत्सु शशविषाणादिषु तत्तच्छब्दप्रयोगो न स्यात्, बुद्धयुपारूढे तु शब्दार्थत्वे दोषा नावतरन्ति । बुद्धिसत्तासमाविष्टस्य बहिस्सत्ताऽसत्ताजननप्रतिपादनायास्ति नास्तिजायत इति प्रयोगस्योपपन्नत्वात् । अर्थक्रियाकारित्वं तु दृश्यविकल्पयोरभेदाध्यवसायादुपपद्यते शशविषाणदिष्वप्यस्तिप्रयोगो नास्तिप्रयोगश्च बुद्धिसत्तयैवास्ति न तु बाह्मसत्तयेत्येर्व प्रतिपादनाय, तस्माद्धातूनामपि बुद्धिसिद्धा: क्षणास्तद्गता जाति: सत्ता वार्थ: सैव क्रिया । साध्यतादिकं वा भेदेनाध्यवसितं दृश्यक्षणद्वारेण । उक्तं हि--
बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे ।
प्रत्यस्तरूपां भावेषु क्रियोति प्रतिजानते ।। इति ।।
बुद्धिशब्देन बुद्धिप्रतिभास्याकारोऽत्र विवक्षित: । तदेवं भुव: क्रियावाचित्वाल्पाठाच्च ""भूवादयो धातव इति धातुत्वे *वर्त्तमाने लट्* इति वर्तमानत्वोपाधिकार्थाद्धातोर्लट् *प्रत्य:*। *परश्च* इतिप्रत्ययसंज्ञक: परस्तात् । ननु बहव: क्षणा धातुवाच्यास्तत्र केचन भूता भविष्यन्त इति तेषामविद्यमानत्वात् कथं वर्त्तमानत्वं धात्वर्थविशेषणम् । उच्यते । नेह विद्यमानत्वं वर्त्तमानत्वं किं तर्हि प्रारब्धापरिसमाप्त्वं, तच्च यावत: क्षणसमूहस्य फलाविधप्रवृत्ति: तावत: प्राक् फलजननादभेदेनाध्यवसितस्यास्त्येव । एवं च काल्पनिकसमूहाकारेण विद्यमानत्वं वर्त्तमानत्वमित्युक्तं भवति ।
कार्योत्पत्तौ समर्थ वा स्वेन धर्मेण तत्तथा ।
आत्मतत्त्वेन गृह्मेत सा खस्मिन्वर्त्तमानता ।। इति ।।
अस्यार्थ:, वाशब्दो वक्ष्यमाणपक्षापेक्ष:, एकैकक्षणानन्तरं फलनिष्पत्तेरदर्शनादितरक्षणवैयर्थ्यप्रसङ्गात्सर्वक्ष्?ाणानन्तरदर्शनाच्चेकफलसाधनत्वेन क्षणानां कल्पितमेकं समुदारूपं कार्योत्पत्तौ समर्थमित्युच्यते, तत्स्वेन धर्मेण क्रमवत्त्वेन तथा युक्तमात्मत्त्वेनात्मीयेन विद्यमानत्वेन गृह्मते सेयमस्मिन्समुदाये वर्त्तमानतेति । वाशब्दसूचित: पक्ष उच्यते, विप्रसृतावयव: क्रियाकलाप: प्रयोक्तु: संकलनबुद्धययारूढ: प्रतिपत्तृबुद्धौ संक्रान्तस्तस्या एकत्वाद्वर्त्त्मानत्वाच्च तदभेदेनैको वर्त्तमानश्च व्यपदिश्यत इति । उक्तं च
क्रियाप्रबन्धरूपं यत् बुद्धयात्मा विनिगृह्मते ।
संक्रान्तबिम्बमेकत्र तामाहुर्वर्तमानताम् ।। इति ।।
अयमर्थ: । प्रयोक्तु: संकलनबुद्धेरात्मा क्रियाप्रबन्धरूपं वस्तु एकत्र प्रतिपत्तुर्ज्ञाने संक्रान्?तबिम्बं संक्रातस्वरूपं यद्विनिगृह्मते ऽवधायेते तस्मात्तस्य ज्ञानस्य वर्त्तमानतामेव तद्भेदात्क्रियाया वर्त्तमानतामाहुरिति । ननु यथोपलब्धि: स्मरणमुपलबिधश्च क्रमेणेति प्रयोक्तु: कथं संकलनात्मिकैका बुद्धिर्यदुपारोहेणासौ प्रतिपत्तु: क्रियाकलापं शब्देन युगपपदवगमयेत्, ततश्चैकबुद्युपारोहाभावात्कथमेकत्ववर्त्तुमानत्वे स्याताम्, नैष दोष: ।अनुभववासनाया: प्रत्त्यासन्नत्वात्क्रमेणानुभवतामपि संकलनायोगात् । अनुभपूर्वत्वं हि स्मरणस्य नियतं न तु क्रमिकत्वमपि, अन्यथा समुच्चयशतादिप्रत्ययाभावप्रसङ्गात् । नन्वेवमस्त्वस्यैवबौद्धस्य ( 1 ) ( 1 ) अस्त्वेवं बौद्धस्योति पाठ: । वर्त्तमानत्वं कथं बाह्मस्येति चेन्न । दृश्यविकल्पयोरभेदाध्यवसायात् । अन्ये तु काल एव क्रियाया उत्पन्नध्वस्तत्वेन साधनसंपत्त्या संभाव्यमानोदयत्वेन प्रारब्धापरिसमाप्तत्वेन चोपहित: सन् क्रमेण भूतादिभेदं प्रतिपद्यते, तत्कालयोगात्क्रियाया अपि तत्तद्व्यपदेश इति । उक्तं च
क्रियोपाधिश्च सन् भूतभविष्यद्वर्त्तमानता ।
एकादशभिराकारैर्विभक्ता प्रतिपद्यते ।। इति ।
काल इति शेष:। एकादशत्वमप्युक्तम् ।
भूत: पञ्चविधस्तत्र भविष्यच्च चतुर्विध: ।
वर्त्तमानो द्विधा ख्यात इत्येकादशकल्पना । इति ।।
तत्र तावदद्यतनानद्यतनव्यभिश्रसामान्यरूपाश्चत्वारो मुख्यभूतभेदा: । सामान्यमपि विशेषेभ्यो व्यावृत्तेर्भेद: । उक्तं च ""अनेकमन्यपदार्थ इत्यत्र सामान्यमपि यथा विशेषस्तद्वदिति । परोक्षस्त्वनद्यतनभूतभेदो न तु भूतभेद इति न पृथग्गण्यते । ""आशंसायां भूतवच्च इत्यतिदिष्टभूतकार्यो भवष्यित्तथैको गौणो भूत इति भूत: पञ्चविध: । भविष्यत्तुगौणाभावादद्यतनादिभेदेन चतुविध: ।""वर्तमानसामीप्य इत्यतिदिष्टवर्त्तमानकार्यौ भूतभविष्यन्यन्तौ गौणौ, तदेवमेकादशभेदा कालस्य, यद्यप्यन्येऽप्यौपाधिका भेदा: सन्ति तथापि शस्त्रप्रक्रियायामियन्त एवोपयुज्यन्त इत्येवमुक्तंगतमद: । लटोऽकारटकारयो: ""उपदेशेऽजनुनासिकइत् ""हलन्त्यम्इतीत्संज्ञा । उपदेशो धातुसूत्रप्रातिपदिकप्रत्ययागमादेशलक्षण: । प्रतिज्ञानुनासिक्या: पाणिनीया: । ""तस्य लोप: *अदर्शनं लोप:* अदर्धानं चेह प्रसक्तस्य शब्दस्य लोप: प्रयोजनं लडित्यनुवादष्टिद्वयपदेशश्चैषामन्येषामप्यबनुन्धानाम् । ननु""इल्इत्यत्रलकारस्येत्त्वे तेन""आदिरन्त्येन सहेताइति प्रत्याहार:, सति च तस्मिन्""लण् इत्यत्रललकारस्य हल्त्वात्तस्यैव ""शषसर् ""इल् इत्यत्रान्ते, निर्देशादित्संज्ञा, तदाश्रयश्च हलिति प्रत्याहार:, तीतीतराश्रयत्वादयमेव तावत् प्रत्याहारो ऽनुपपन्नस्तत: सर्वेषामेव णकारादीनामित्त्वं न स्यादिति सर्वप्रत्याहारव्यवहारो ऽनुपपन्न इति कथमत्राच्त्वेन इल्त्वेन हलत्वेन चाकारटकारयोरित्त्वे, एवं चादिरन्त्येनेति ग्राहकसूत्रमपि व्यर्थ स्यादिति चेत् । नैष दौष: । हलितिसूत्रे( 1 ) ( 1 ) हलिति सूत्रं लृकारान्तमिति पाठान्तरम् ।
इकारात्पर लृकार:, लरत्वं तु तस्यैकादेशनक्षणकृतम् । तेन तस्याच्त्वादित्त्वं भविष्य?ति, स एव च""हलन्यम् इत्यत्राप्येकादेशेन लपरेण निदिष्ट इति । एवमपीतरैतराश्रयमेव लृकारस्य । सत्यामित्संज्ञायां हलितिप्रत्याहार:, सत्यस्मिनैऔजिति चकारस्येत्त्वं, तर्स्मिश्च सत्यजितिप्रत्याहार:, सत्यस्मिन्नैऔजिति चकारस्यैत्त्चं, तस्मिश्च सत्यजितिप्रत्याहार:, अस्मिंमश्च प्रत्याहारे सति लृकारस्येत्संज्ञया भाव्यमिति । एवं तर्हि हल् च ल् चेति समाहारद्वन्द्वेन द्वितीयस्यापि लकारस्य निर्देशात् प्रत्याहारमन्तरेण तस्येत्संज्ञासिद्धि:, अश्रवणन्तु संयोगान्तलोपेन । अथ वा श्वेतो धावतीत्यदाविव द्वितीयमप्यत्र हल्ग्रहणं तन्त्रेणोपादीयते, तत्रैकेन हस्य लिति हकारसमीवस्य लकारस्य विनैव प्रत्याहारादित्संज्ञा भविष्यति । यद्वा हस्य ल् हलिति तत्पुरुषस्य प्रत्याहारस्य च इलशब्दस्यैकशेषे ऽर्थद्वयं लप्स्यत इति न संकटं किं चित् । तत्पूरुष: पुल्लिङृग: प्रत्याहारस्तभयलिङ्गोप्यन्तमित्यनेन साहचर्य्यादिह नपुंसकलिङ्ग । ""नपुंसकमनपुसकेन इतितस्यैकशेष एकत्वं च ।।
*कर्मणि च भावे चाकम्रकेभ्य:* ।। उत्सृष्टानुबन्धश्चायं लकार:, लकार: सकर्मकेभ्यो धातुभ्य: कर्मणि कर्त्तरि च भवन्ति, अकर्मकेभ्यस्तु भावे कर्त्तरि चेति यथायोगं कर्त्रादौ भवन्ति ।।
*स्वतन्त्र: कर्त्ता* ।। क्रियाप्रसिद्धौ यत्कारकं प्रधानभूतं वि?वक्षितं तत् कर्तृसंज्ञं भवति । ननु च सामग्रीसाध्यायां क्रियायां स्वस्वव्यापारे सर्वेषां स्वातन्त्र्यात् कथमेकस्य तत् । उच्यते । करणादिप्रवृत्ते: प्रागेव परस्मादर्थितादेरेव निमित्तात्कर्त्तु: प्रवृत्ति:, क?रणादि तु तदधीनप्रवृत्ति । तथाहि । अर्थी हि कर्त्ता तत्प्रयुङ्क्ते न तदेनम् । किं च तस्य प्रतिनिधिर्दृश्यते, व्रीह्मपचारे नीवारेरिज्यते, कर्तृ: स नास्ति तद्भेदे क्रियान्तरमेवेति प्रसिद्धि: । किं च कारकान्तरानुपादानेप्यसौ दृश्यते भवत्यादिषु, तस्माद्युक्तं स्वातन्त्र्यम् । तथा चोक्तम्---
प्रागन्यत: शक्तिलाभान्यग्भावापादनापि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात् ।।
अदृष्टत्वात्प्रतिनिधे: प्रविवेके च दर्शनात् ।
आरादप्युपकारित्वात्स्वातन्त्र्यं कर्तृरुच्यते ।। इति
प्रागन्यत: शक्तिलाभादीनां शब्देन प्रतीतिमात्रस्य विवक्षणादचेतनेष्वपि तदनपायात् कर्तृतोपपत्ति: उक्तं च---
सवैरभ्युदितै: शब्दैर्नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात् कर्त्ता प्रतीयते ।। इति
वृत्तौ तु स्वातन्त्र्येणागुणभावो विवक्ष्यत इति तस्य च सार्वत्रिकत्वात्सर्वत्र कर्तृतोपपत्ति: ।
कर्त्ता च त्रिविधो ज्ञेय: कारकाणां प्रवर्त्तक: ।
केवलो, हेतुर्क्ता च कम्रकर्त्ता तथापर: ।। इति
- कर्तुरीप्सिततमं कर्म* ।। कर्त्रा क्रियया यदाप्तुमिष्टतमं तत्कर्म ।। *तथा युक्तं चानीप्सितम्* । येनैव प्रकारेणेप्सिततमं क्रियया युज्ये तेनैव प्रकारेण तथा युज्यमानमनीप्सितमपि कर्म ।। *अकथितं च* दिव: साधकतमं करणं तत्कर्मेत्यादि चतुर्विधं कर्मेप्सिततमनीप्सिततमाथितसंज्ञान्तरपूर्वभेदेन । तत्राद्यं त्रिधा, निर्वत्यं विकार्य प्राप्यमिति । द्वितीयमपि द्वेधा, द्वेष्यमितरदिति । तदुक्तम्--
निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम् ।
तत्रैप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ।।
औदासीन्येन यत्प्राप्यं यच्च कर्तृरनीप्सितम् ।
संज्ञान्तरैरनाख्यातं तद्यच्चाप्यन्यपूर्वकम् ।। इति
तत्र निर्वर्त्यं यस्योपादानकारणं नास्ति सदपि वा तत्परिणामित्वेन नाश्रीयते, यथा संयोगं करोति, पटं करोति, मृदा घटं करोतीति । विकार्यमपि द्वेधा । प्रकृत्युच्छेदसंभूतमेकं, प्रकृत्यनुवृत्तौ गुणान्तरोत्पत्त्योपलक्षितमपरम्, यथा काष्ठानि भस्म करोति, हिरण्यं कुण्डलं करोतीति । व्रीहीन्प्रोक्षतीत्यादौ प्रोक्षणादिजन्यादृष्टरूपेण विक्रियमाणा व्रह्मादयोपि विकार्यं कर्म । प्राप्यं पुनरेकमेव, यत्र क्रियाकृतो विशेषो न गम्यते यथा वेदमधीत इत्यादौ देदादि । तथाचोक्तम्---
सती या ऽविद्यमाना वा प्रकृति: परिणामिनी ।
यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ।।
तन्निर्वर्त्य विकार्यं तु द्विधा कर्म व्यवस्थितम् ।
प्रकृत्त्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत् ।।
किं चित् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। इति ।।
भावस्तु केवलो धात्वर्थ: ।। *लस्य* ।। *तिप्तस् ज्ञि सिप् थस्य मिब्वस्मप्ताताज्ञथासाथां ध्वमिद्वहिमहिड्* ।। तिबादयोऽष्टादश*षष्ठीस्यानेयोग* इति तस्य स्थाने स्यु: । स्थानं प्रसङ्गो, योग: संबन्ध: । इह शास्त्रेऽनियतसंबन्धविशेषा षष्ठी स्थानेयोगेत्यर्थ: । तत्र तिबादिष्वविशेषेण प्राप्तेषु *शेषात्कर्त्तारि परस्मैपदम्* इति आत्मनेपदविषयादन्यत्वेन शेषादन्यस्मातृपरस्मैपदमेव तच्च कर्त्तर्स्येव । आत्मनेपदविषयश्च स येषां ""अनुदात्तडित इत्यादिनाऽऽत्मनेपदं विहितम् ।। *ल: परस्मैपदम्* ।। *तडानावात्मनेपदम्* ।। तङितितिवा।दसूत्रेणापात्तास्तादयो नव प्रत्याहारेणोच्यन्ते । आनहति शानचृकानचौ, अत्र यद्यपि ""ल: परस्मैपदम्इतिलादेशानां सामान्येन परस्मैपदसंज्ञोच्यते तथापि *आकडारादेकासंज्ञा* इत्यत: परेषां ""कडारा: कर्मधारय इत्यत: प्राचामेकस्यैकै व संज्ञेतिनियमात् तडानयोरात्मनेपदसंज्ञयाऽनवकाशया बाधिता सा तद्व्यतिरिक्तविषया ऽवतिष्ठते ।। *युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यम:* ।। युष्मदि समानाधिकरणे व्यवहिते वाव्यवहिते वा प्रयुज्यमानेवा लान्ताथस्य युष्मदर्थविशेष्यत्वे एव मध्यम: ।। *अस्मद्युत्तम:* ।। पूर्ववद्व्याख्या ।।*शेषेप्रथम:* ।। यत्र युष्मदस्मदी समानाधिकरणेन सशेषस्तत्रैव प्रथम: ।। *तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमा:* ।। तिड: परस्मैपदान्यात्मनेपदानि च प्रत्येकं त्रीणित्रीणि पदानि भूत्वा यथासंख्यं प्रथमादिसंज्ञानि ।। *यथासंख्यमनुदेश: समानाम्* ।। संख्या क्रम:, अनुदेश: पश्चादुच्चार्यमाणो
विधीयमान:, अनुदेशशब्दस्य संबनिधशबदत्वादाक्षिप्ता उद्देशिन:, तेषामनुदेशिनां च संख्यात: पाठतश्च समानानां यो य: क्रमस्तेन तेन क्रमेण संबन्ध इत्यर्थ: । तत्राप्येवं व्यवस्था ।। *बहुषु बहुवचनम्* ।। *द्व्येकयोर्द्विवचनैकवचने* । बहुत्वादिषु यथासंध्यं बहुवचनादीनि ।। *तान्येकवचनद्विवचनबहुवचनान्येकश:* ।। तानि लब्धप्रथमादिव्यपदेशानित्रीणित्रीणि प्रत्येकं यथासंख्यमेकवचनादिसंज्ञानि । एवं तिबादिषु ।।*कर्त्तरि शप्* । कर्तृवाचिनि सार्वधातुके धातो: ।। शप्स्यात् ।। *आर्द्धधातुकं शेष:* ।। तिङ्शिद्भोन्योधातुसंशब्दनेन विहित: प्रत्य आर्द्धंधातुकम् ।। *अणुदित्सवर्णस्य चाप्रत्यय:* ।। अण् चोदिच्च गृह्ममाण: सवर्णग्राहको भवति विधीयमानमणं वर्जयित्वा, उदिच्छब्देन क्कादय: पञ्चोच्यन्ते ।।*तुल्यास्यप्रयत्नं सवर्णम्* ।। आस्यं ताल्वादि, तत्स्थ: प्रयत्नो यस्य वर्णस्य येन तुल्य: स तं प्रति सवर्ण: । अकुहविसर्जनीयानां कण्ठ: । स्पृष्टं( 1 ) ( 1 ) प्रयत्नामिति पाठान्तरम् ।
करणं स्पर्शानामिति स्थानप्रयत्नसाम्यम् । कादयो मावसाना: स्पर्शा: ।। *तपरस्तत्कालस्य* ।। त: परो यस्मत्स स तात्परश्च तपर:, स दात्तादिभिन्नं सवर्णमात्मना तुल्यकालं स्वं च ग्राहयतीति भिन्नकालाग्रह: ।गुणविधौ च ""इको गुणवृद्धी इत्यनेन गुणवृद्ध्यो: स्वसंज्ञया विधाने इक इत्युपस्यथाप्यते । ""अङ्गस्य इति चाधिकृतम् ।। *यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्* ।। यस्मात्प्रत्ययविधिस्तदादि तच्च तस्मिन्नेव प्रत्येऽङ्गं, तत्रानयो: सामानाधिकरण्येनान्वयस्य न्यायत्वादिकोङ्गस्य विशेषणता । *येनविधिस्तदन्तस्य* ।। यद्विशेषणमुपादाय किं चिद्विधीयते तदात्मान्तस्य स्वस्य च ग्राहकमिति तदन्तत्वलाभ: ।। *अलोन्त्यस्य* ।। आदेश: षष्ठीनिर्देष्टस्यान्त्यस्य भवति । अन्त्यस्यैवेति स्यानषष्ठी स्थानित्वं प्रतिपादयतीत्यन्त्यस्य स्थानित्वादिगन्ताङ्गान्त्युक्तार्थलाभ: । स चेह गुण: *स्थानेऽन्तरतम:* ।। अनेकादेशप्रसङ्गेसदृशतम: स्यात्, स सदृश: गुणादिसदृशात् तस्थानसदृश इति नियमादुकारल्योपूपध्मानीयानामोष्ठा इत्योष्ठयल्यौदौतो: कण्ठोष्ठमिति ओष्ठय ओकार: । तस्य""एचोऽयवायाव इति यथासंख्येनावादेशे सिद्धं ( भवति इति ) । अस्य चसुप्तिङन्तं पदं इति पदत्वे *युष्मदस्मदो: षष्ठीचतुर्थाद्वितीयास्यथोवाव्रावौ* इति पदात्परयोरपादादौ वर्त्तमानयो: समानवाक्यस्थयो: श्रूयमाणषष्ठयादिद्विवचनान्तयोरनयोर्यथासंख्यं वान्नावादेशौ भवत: । *बुहवचनस्य वस्नसौ*।। *तेमयावेकवचनस्य* ।। इमावादेशौन द्वितीयैकवचनान्तयो:, *त्वातौ द्वितीयाया* इति त्वामोर्विधानात् । एषामपि पूर्ववद्व्याख्या, ( भवति वाम्, भवति नौ, भवति व:, भवति न:, भवति ते, भवति मे, भवति त्वा, भवति मे, भवति त्वा, भवति मा ) यथायोगं स्वं, देयं, प्राप्तमिति शेष: । एते चानेकाल्त्वात्""अनेकाल्शित्सर्वस्य इति सर्वादेशा: । एषां च *स्थानिवदादेशोनल्चिधौ*इति स्थान्यलाश्रयकार्यं वर्जयित्वा स्थानिकार्यविधानात् पदत्वे तन्निबन्धनानि रुत्वादीनि यथायोगंज्ञेयानि। ( भवत: )अत्र तस: सकारस्य प्रयोजनाभावादित्त्वाभाव: । न च लोप एव प्रयोजनम्, एवं हि नोपदिश्येत, ""सिति च इति पदत्वं यकाराजाद्यसर्वनामस्थानविषयमिति न प्रयोजनम् । यदा *विभक्तिश्च* इति सुप: तिङश्चैकवचनादिसंज्ञा: सन्तो विभक्तय इति । *न विभक्तौ तुस्मा* इतीत्त्वाभावेन ।। *ससजुषो रु:* सान्तस्यपदस्य सजुषश्च रुरिति रुत्वे ""खरवसानयोर्विसर्जतीय इति विसर्जनीय: ।।* विरामो ऽवसानम्* तत्र वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिकृतं पौर्वापर्यमित्यभावरूपेऽवसोनेऽपि तत्संभवात् परसप्तमीत्वोवपत्तिर्भंवति । ( भवन्ति ) *ज्ञोन्त:* ।।प्रत्ययादेरिति शेष:, अन्त्योकार उच्चारणार्थ:, न तु तकारस्यानन्त्यत्वेनेत्त्वनिवृत्तये । तस्य ग्रयोजनाभावादेव सिद्धे: । न च ""तित्स्वरितम् इति स्वरितत्वं प्रयोजनं, तित: प्रत्ययस्येति तत्र स्थिते: । न च स्थानिवत्त्वात्प्रत्यय: । तदेकेदशत्वादस्य । अत्रशबन्त्यकारयो: *अतो गुणे* । इत्यपदान्ताकाराबगुणे परे तयो पूर्वषस्यो पररूपमेकादेश इत्येकादेशं वर्णमात्राश्रयत्वेनान्तरङ्गं प्रकृतिप्रत्ययापेक्षत्वाद्वहिरङ्गोपि गुणो "वर्णादाङ्गं बलोय' इति बावते, अस्ति च समानाश्रयत्वमनयोरुभयोर्विकरणापेक्षत्वात् पूर्वं त्वेकादेशे *अन्तादिवच्च* इत्येकादेश आश्रीयमाणं पूर्वं प्रत्यन्तवत्परं प्रत्यादिवदिति ""सार्वधातुकमपित् इत्यत्राश्रीयमाणस्य पितो ऽस्य सार्वधातुकर्स्यैकादेशस्यादिवद्भाच्छपोपित्सार्वधातुकग्रहणात् ङित्त्वात् ""ह्किति च इति ङ्किन्निमित्तयोरिग्लक्षणयोर्गुणवृद्धयोर्निषेधात् गुणो न स्यात् । भवतु वा पूर्वमेकादेशस्तदाप्यदोष: । *अच: परस्मिन् नूर्वविधौ* इति परनिमित्तोदेशोऽच: पूर्वसंबन्धिनि कार्यमात्रे कर्त्तव्ये स्थानिना तुल्य: स्यादिति
स्थानिबुद्धया व्यवधानेन निषेधस्याप्रसङ्गात् । र्कि च तत्रापिदित्यस्य प्रसज्यप्रतिषेधत्वेन सिद्धान्तितत्वात् "पितृसार्वधातुकं डिन्न' इत्याश्रीयमाणं पितं प्रत्येकादेशस्यान्तान्तवत्त्वात् । ङित्त्वस्याप्रसङ्गात्, अस्तु गुणैकादेशयो: प्रवृत्तौ कामचार: । ( भवसि । भवथ: । भवय । भवामि । भवाव: भाम:) । *अतो दीर्घो य?ञि* इति यञादौ सार्वधातुके ऽकारान्ताङ्गान्त्यस्य दीर्घ:, स च स्थानितुल्य इति तादृशा आकार: "यस्मिन्विधिस्तदादावल्ग्रहण' इति यञादीति लाभ: । *ऊकालोज्ज्ञ्रस्वदीर्धप्लुत* इत्यचो मात्रिकद्विमात्रिकत्रिमात्रा: क्रमेण ह्रस्वादिसंज्ञा: ।।
*परोक्षे लिट्*मूतानद्यतनपरोक्षतोपाधिकार्थवृत्तेर्धातोर्लिट् । धातुवाच्याया: क्रियायाइन्द्रियेणासंन्निकर्षात्परोक्षत्वे? सिद्धे परोक्षग्रहणं साधनपरोक्षतार्थम् । पूर्ववत्तिबादय: । ते च ""लिट् च इति लिडादेशत्वादार्द्धधातुक: । अत्र च""लङ: शाकटायनस्यैव इत्यत एवकारानुवृत्त्या न सार्वधातुका इति विकरणाभाव: । एषां च लिडादेशानां नवानां तिबादीनां *परस्मैपदानां णलतुसुस्थलथुसणल्वमा:* इति यथासंख्यं णलादय: स्यु: । ते च स्थानिवत्त्वेनार्द्धधातुका: प्रत्ययाश्च । ण्लो णकरस्य प्रत्ययादित्वाच्च इत्संज्ञायां लोप:, प्रयोजनं वृद्धयादि । नन्वत्र णकारो लुप्यत इत्यनेकाल्त्वाभाव: ""अनेकालशित्सर्वस्य इति सर्वादेशत्वं न स्यात् । नैतत् । आदेशोत्तरकालं प्रत्ययत्वातदादित्वेन णकारस्येत्त्वे लोप इत्यादेशदशायामनेकालत्वात्, एवं भू अ इति स्थिते *अचो ?ञ्णिति* इतिञित्णित्प्रत्यययपरस्याजन्तस्याङ्गस्य वृद्धि: प्राप्नोति । वृद्धिरित्यादैवां तद्भावितानामतद्भावितानां ""वृद्धिरादैच् इतिसंज्ञा, तपरकरणादैचौ द्विमात्रिकौ गृह्मेते तादपि परस्तपर इति । ""भुवो वुग्लुङ्लिटो: हुत्यजादौ लुङि लिटि च विधीयमानो वुक् कृताकृतप्रसङ्गित्वेन नित्यो वृद्धिं बाधते । अत्र वृद्धौ कृतायामौकारान्तस्य प्राप्नोतृयन्यत्र तूकारान्तस्येति शब्ददान्तरप्राप्त्या वुगनित्य इति चेन्न । एकदेशविकृतस्यानन्यत्वात्र शब्ददान्तरप्राप्तिरिति ।। ""अद्यान्तौ टकितौ टकितौ यथासंख्यं षष्ठीनिर्दिष्टस्येति वुगयं भुवोन्त्य: ।। *लिटि धातीरनभ्यासस्य* ।। धातोरवयवस्य प्रथमस्यैकाचो द्विवचनमजादेस्तु द्वितीयस्येति भुव आदिर्द्विरुच्यते ।। *पूर्वोभ्यास:* अत्र प्रकरणे, द्विरुक्तस्येति शेष: ।। *भवतेर:* इति लिटि परेऽभ्यासान्तस्याकारन्तादेश: *अभ्यासं चर्च* इति अभ्यासज्ञलां चरो जशश्च । तत्र वर्गाणां प्रयमद्वितीया: शषसा वसजंनीयजिह्वामूलीयेपध्मानीया अघोषा विवृकण्ठा: श्वासानुप्रदाना: । तृतीयचतुर्थपञ्चमहकाराघोषवन्त: संवृतंकण्ठा नादानुप्रदाना इत्योष्ठयस्य घोषवत: संवृतकण्ठस्य नादानुप्रदानस्य भकारस्य तादृशो बकार: ( बभूव ) ननु *अचि श्नुधातुभ्रुवां य्वोरियडुवडौ* । इत्यजादौ प्रत्यये श्नुभ्रुवोरन्त्यस्य धात्वन्तयोरिवर्णांवर्णीयोरियडुवडोर्विधानात् । अत्रावङि कर्त्तच्ये अस्तु, पुनर्वृग् भविष्यति । ततश्च *उपधायां च* । धातोरुपधाभूतौ हल्परौ यौ रेफवकारौ ताभ्यां पूवंस्येणो दीर्घ:स्यादिति दीर्धत्वं । *उपधायां च* । धातोरुपधाभूतौ हल्परौ यौ रेफवकारौ ताभ्यां पूवंस्येणो दीर्घ: स्यादिति दीर्घत्वं । लोपोव्योर्वलि* इति पूर्वयकारवकायोर्वलिपरे लोपइति पूर्वस्य वकारस्य लोपे सेत्स्यति । बभूवेति न सिद्धति ।। *पूर्वात्रासिद्धम्* ।। अस्माद्योगात् पूर्वत्रासिद्धसिद्धा: परे च मिथ: पूर्वत्र पूर्वत्रासिद्धा इति""उपधायां चइत्यस्य वलि लोपं प्रत्यसिद्धत्वात्पूर्वलोपं हल्पर उपधावकारो नेति दीर्घाप्रसङ्गात् । अथ वा दीर्घलोपयोरन्तरङृगयो: कर्त्तव्ययो: "असिद्ध बहिरङ्ग' इति बहिरङ्गस्य वुकोसिद्धत्वादत्रैव दीर्घत्वंद्धतृवादुवङ्न भविष्यति । ""श्नसोरल्लोप इति तपरकारणाल्लिङ्गादाभीयस्यांसिद्धत्वस्यानित्यत्याद्वात्र वुक: सिद्धत्वं भवति ।
( बभूवतु:। बभूहु: । बभूविथ ) *आर्द्धधातुकस्येड्वलादे:*टित्त्वेन विभक्तित्वान्न सकारस्येत्त्वम् ।( यूयं बभूव ) । नन्वत्राकारो ""अलोन्त्यस्य इति थशब्दाकारस्यादेश: प्राप्नोति फलं च यथायंख्यं स्यात् । मैवम् । अत्र धातोरित्यनुवर्तते । तस्मात्परस्य विधीयमानोऽकार ""आदे: परस्य इति थकारस्य । ततो द्वयोरकारयो: पररूपम् । ( अहं बभूव । बभूविव । बभूविम ) उत्तमविषये चित्तव्या क्षेपात् परोक्षतासंभव: । अत्र *असंयोगाल्लिट् कित्* ।। असंयोगान्ताद्धातो: परोऽपिल्लिट् किदिति वमयो: कित्त्वे *श्र्युक: किति* इति श्रिञ उगन्ताच्च धातो: परस्य कितो नेडिति प्राप्तस्य निषेधस्य *कृसृवृस्तुद्रुस्त्रुवोलिटि* क्रादय एव लिद्निट:, ततोन्ये लिट सेट इति नियमात्सेद्त्वम् । अत्र के चिदेवमाहु: । वुग्विधावोरित्यनुवृर्गुतेर्गुणयो: कृतयोरुवर्णान्तत्वाभावात्तल्लक्षणस्य हुकोऽप्राप्तेस्तस्याप्यनित्यत्वोत्परत्वात्प्राप्तयोणवृध्यो *इन्धिभवतिभ्यां च* ।
आभ्यां परो लिट् किदिति कित्त्वेन बाधस्ततो वुक् । अत्रङिद्ग्रहणानुग्रहणानुवृत्तेडितृमप्यतिदिश्यते इत्युभयानिदेशसामर्थ्याद्निग्लक्षणाया अपिव वृद्धेर्नि षेध: । तेन यङ्लुकि भवतीति निर्देशात्कित्त्वाभावात् वृद्धिगुणयो: कृतयोरनुवर्णान्तत्वाद्बुगभावात् ( बोभाव, बोभविथ, बोभव ) इति सिद्धमिति । सर्वमेतद्वार्त्तिकविरुद्धं, यदाह---
[ ""इन्धेशछन्दोविषयत्वात् भुवो वुको नित्यत्वात्ताभ्यां लिट: किद्वचनार्थक्यम् ] इति ।।
*अनद्यतने लुछ्* ।। अह्न उभयतोर्द्धरात्रमद्यतन: काल: । अविद्यमानाद्यतनभविष्यत्युपाधिकार्थाद्धातोर्लुट् स्यातृ, लस्य तिबादिषु *स्यतासी लृलुटो:* ।। लृ इति लृङ्लृटोरुत्सृष्टानुबन्धयो:सामान्येन ग्रहणम्, लृलुटारादेशेषु परेषु धातोयथासंख्यं स्यतासी स्याताम् । अत्र केचित्तासेरिकारमुच्चारणार्थमाहु: । परमते त्वनुनासिकं सलोपप्रतिषेधार्थम् । इह तु प्रयोजनाभावान्न प्रपञ्चयते । *लुट:प्रथमस्य डारौरस:* ।। लुडादेशस्यात्मनेपदप्रथमस्य परमस्मैपदप्रथमस्य च यथासंख्यं डारौरस:स्यु: *टे: इति भस्याङ्गस्य टेर्डिति विधीयमानो लोपोत्राभत्वेपि डित्वसामर्थ्याद्भवति।*अचोन्त्यादि टि* ।।एकत्र सन्निविष्टानामचामन्त्याजादिष्टि: । इड्गुणावादेशा: । ( भविता ) । अत्रेट: *युगन्तलघूपधस्य च* पुगन्तस्याङ्गस्य लघूपधस्य चेको गुणइति प्राप्तो ""दीघीवेवीटाम् इतिनिषिध्यते।।*इस्वं लघु*।।*अलोन्त्यात्नपूर्वडपधा*।।धात्वादौ वर्णसमुदायेऽन्त्यादल: पूर्व उपधा । ( भवितारौ । भवितार:) । *रि च*इति । रेफादौ प्रत्यये प्रत्ययो तासस्त्यो: सकारस्य लोप: । ( भवितासि ) । *तास्त्योर्लोप:* ।। सकारस्य सकारादौ प्रत्ययइति शेष: । अत्र ""नाज्ञलौ इत्यज्ज्ञलोमिथ: सावर्ण्यनिषेधे ऽपवादे प्रवृत्ते पश्चात्तद्विषयपरिहारेण सवर्णसंज्ञाप्रवृत्तौ तदुपजीव्यप्रवर्त्तमानस्य ग्रहणकशास्त्रस्य ""नाज्ज्ञलौ' इत्यज्ज्ञलोमिथ: सावर्ण्यनिषेधे ऽपवादे प्रवृत्ते पश्चात्त द्विषयपरिहारेण सवर्णसंज्ञाप्रवृत्तौ तदुपजीव्यप्रवर्त्तमानस्य ग्रहणकशास्त्रस्य ""नाज्ज्ञलौ इत्यत्रानिष्पन्नत्वादज्ज्ञग्रहणेन पठितानामेवाचां ग्रहणादन्येषां इल्भि: सवर्णसंज्ञाया अनिषेधादाकारस्य सवर्णेन हकारेण यहणादिण्त्वात्*आदेशप्रत्यययो:*इतीण्कोश्च परस्यादेशरूपस्य प्रत्ययावयवस्य च सकारस्य विधीयमानं षत्वं कस्मान्नेति चेत्, न, हकारो विवृत:, आकरो विवृततर: एवं हि पठन्ति । "ए औ विवृततरो ताभ्यामप्याकार:' इति । ""वयस्यासुमूर्ध्नवो इत्यादिनिर्देषात् । यद्वा विवृतमूष्मणां स्वराणां च इत्यत्र इषत्स्पृष्टमन्तस्थानामित्यत: ईषदित्युवर्त्तते, तच्च पृथग्विभक्तिनिर्दिष्टै: प्राथमैकैरूष्मभिरेव संबध्यतेक न स्वरैरिति नैव सावर्ण्यप्रसङ्ग: । अत एव भाष्यवार्त्तिकेया: सूत्रं प्रत्याख्यातम् । ( भवितास्थ:। भवितास्थ । भवितास्मि । भवितास्व: । भवितास्म: ) ।।
*लृट् शेषे च* ।। क्रियार्थक्रियोपपदादन्यो भविष्यत्काल: शेषस्तत्र शेषे चात्क्रियार्थक्रियावपपदे विधि: । "अनद्यतन' इति बहुव्रीहिनिर्दि शाद्वयामिश्रेप्ययमेव । लस्य तिबादिषु ""स्यतासी इति स्य: । इडागम: । (भविष्यति । भविष्यसि ) । भविष्यामि । क्रियायां क्रियार्थायामुपपदे । धनी भविष्यामीति राजानं सेवते । ""आदेशप्रत्यययो: इति सर्वत्र षत्वम् ।।
*लोट् च* ।। विध्यादिष्वर्थेषुधातोर्लोट् स्यात् । ते च वक्ष्यन्ते । लस्य तिबादिषु *एरु:* इति । लोडादेशेकारस्योकार: । ( भवन्तु । भव ) *सेह्मंपिच* इति । लोट:सेर्हिरादेश: । अपिदिति वचनात् स्थानिवत्त्वेन पिन्न भवति: अस्य प्रयोजनं तत्र तत्र दर्शयिष्यते । *अतोहे:* इत्यकारान्तात् परत्वेन लुक् । *प्रत्ययस्य लुकृश्लुलुप:* इति । प्रत्ययादर्शनस्यैता: संज्ञा:, अनेकसंज्ञाविधानेन तद्भावितप्रहणविज्ञानात् तत्तच्छब्दभावितस्य प्रत्ययादर्शनस्य सा सा संज्ञेति संज्ञानामसङ्करो भवति । विधिप्रदेशेषु भाविसंज्ञानान्नेतराश्रयत्वम् । यथास्य सूत्रस्य शाटकं वयेति । अत्र यसदि शाटको न वातव्य:, अथ वातव्य:, अथ वातव्योन न शाटक इति विप्रतिषेधात् स वातव्यो यस्योतस्य शाटक इति व्यपदेशो भवति इत्यर्थ: ।
( भवतम् । भवति ) लङ्वद्भावात्तंत्तौ । तांतमोर्ककारस्य *न विभक्तौ तुस्मा:* इतीत्त्वनिषेध: । ( भवानि )। *मेर्नि:* । इतिलोछादेशस्य मेर्निरादेश:, अयं चापादत्वाल्लवद्भावप्राप्तमादेशं बाधते, मर्नुरिस्तयवचनादेरुर्न भवति । ( 1 ) ( 1 ) तथा *इतश्चे*ति ङिल्लादेशपरस्मैपदेकारस्य विधीयमानो लोपो लड्वद्भावान्न भवति । मेर्न इत्यवचनादित्यधिकं 2 पुस्तकान्तरे ।
( भवाव । भवाम ) लङ्वद्भावात्*नित्यंङित* इति ङित्त्वाल्लादेशोत्तमसकारस्य विधीयमानो लोपोत्रापि भवति । *आडुत्तेमस्य पिच* इति लोडादेशोत्तसस्याडागम: टित्त्वावदादि: । तस्य सवर्णदीर्घ: । पिच्चत्युत्तमस्य पित्वातिदेश:, प्रयोजनं तत्रतत्र भविष्यति । अडागममन्तरेण ""अतो दीर्घो यञि इति दीर्घेणापि रूपे सिद्धे तत्प्रवृत्ति: पर्जन्यवल्लक्षणप्रवृत्त्या । ननु तामादयो ङिल्लादेशानामुच्यन्ते न त्वात्य लडादेशानामिति कथं ते लङ्वद्भावेन प्राप्यन्ते । उच्यते । विशेषानिदेशे सामान्यस्याप्यतिदेशात । तथा हि वसिष्ठवदयमित्युक्ते वसिष्ठत्वप्रयुक्तं ब्राह्मणत्वप्रयुक्तमप्यतिदिश्यते । कथं तर्हि लुङ्लङ्लृङ्क्ष्वडुदात्त* इति वाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा भविष्यतीति । अत एव तामादय: सलोपश्चेति तेन परिगणितं, यद्वा लोट इत्युपमेये पष्ठीदर्शनादुपमानं विज्ञायते, लङ् इव कार्य्यं तल्लोटो भविष्यतीति न तु लङि यत्कार्यं तल्लोटीति अडाडौ न भवत: । यदायं लोट् ""अशिषि लिङ्लोटौ इत्याशिषि विधयते, आशीरिष्टस्य प्राप्तिस्तदा *तुह्मोस्तातङाशिष्यन्यतरस्याम्* इति तुह्मोर्वा तातडादेश: । ( भवतात्स: । भवतात्वं ) ननु तातङयं""अनेकाल्शित्सर्वस्य इत्यस्यापवादेन ""डिच्च इत्यनेनान्तयस्य कस्मान्न भवति ।उच्यते ।किमिदं डित्त्वं ? ब्रूतादित्यदित्यादौ गुणवृद्धिप्रतिषेधार्थमुतान्त्यादेशार्थमिति संदिग्धप्रयोजनम् , न चात्यादेशार्थत्वे गुणवृद्धिप्रतिषेधार्थत्वसंभवोऽप्रत्यत्वात्, अनेकाल्त्वं तु निशिचतं, ""ङिच्च इत्येतच्चनडादिष्वनन्यप्रयोजनेषु ङित्त्वेषु सावकाशमितीहासंदिग्धपर ""अनेकाल्शित्सर्वस्य इत्येतत्प्रवर्त्तते । भवत्त्वभित्यत्र तातडा परेण पूर्वबाधितस्य हेर्लुक: स्थानिवद्भावन पुन: प्रवृत्ति: सकृद्ग्रतपरिभाषया न भवति । यद्वा---*हुज्ञल्भ्यो हे र्धि:* इत्यतो हेरित्युवरर्य ""अतो हे: इत्यत्र हिग्रहणमन्तरेण लुकि विधतव्ये ""पुर्नग्रिहणस्य हेरिति विशेषणेन मुख्यहिपरिग्रहार्थत्वात्, इदमपि तातङ: सर्वादेशत्वे प्रमाणम् ।।
*अनद्यतने लड्* ।। अविद्यमानाद्यतनभूतोपाध्यर्थाद्धातोर्लङ् स्यात् । लस्य तिबादिषु ""इतश्च इतीकारलोप: । *ज्ञलांजशोन्ते* ।। पदान्ते ज्ञलां जश इत्यत्रान्तरतम्यात्तकारस्य दकारे ऽवसाने ज्ञलां वा चरित्यान्तरतम्यात्तकार: । ( अभवताम् ) । *तस्थस्थमिपां तान्तन्ताम:* इति तसस्ताम् । ( अभवन् ) अन्तादेशे इकारलोपे *संयोगान्तस्य लोप:* । संयोगान्तस्य पदान्तय लोप इति तलोप:। *हलोनन्तरा: संयोग:* ।। अजव्यहित एव श्लिष्टोच्चारितहल्समुदाय: संयोग:। (अभव:) । इकारलोपं रुत्वविसर्जनीयौ । ( अभवतम् । भवत । अभवम् । अभवाव । अभावाम ) । ""तस्थस्थमपां तान्तन्ताम: ""नित्यं ङित इति तामादय: सलोपश्च ।।
*विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिड्* ।। विधि: प्रेरणं भृत्यादे: कस्यां चित् क्रियायां नियोजनम् । निमन्त्रणं नित्यनैमित्तिकर्मविषया प्रवर्त्तना । आमन्त्रणं काम्यकर्मविषया सा, अधीष्ट: सत्कारपूर्विका सर्वकर्मविषया । एषु चतुर्ष्वपि प्रवर्त्तना नाम वर्त्तते सैव लिङर्थ: । भेदेन तूपादानं प्रपञ्चार्थं, प्रवर्त्तना च प्रवृत्तिहेतुर्धर्म:, ।
प्रवृत्तिहेतुं धर्म व प्रवदन्ति प्रवर्त्तनाम् ।
इत्याचार्या: । सयंप्रश्न:संप्रधारणं, तद्वदिदं वा कर्त्त व्यमिति । प्रार्थनं याचनम् । एषु प्रत्ययार्थविशेषणेषु धातोलिङ् स्यात् ।। *यासुद् परस्मैपदेषूदात्तो डिच्च* ।। लिङ: परस्मैपदेषु तेषामेव यासुद् ङित्त्वादादि:, उदात्तश्च । सीयुटीपवाद: । इदमेव ङिद्वचनं ज्ञापकं डिल्लादेशानां स्थानिवत्त्वेन ङित्वाभावस्य, यदि हि स्यात् अचिनवममार्जमित्यादौ गुणवृद्धी न स्याताम् । इयं च ज्ञापकापेक्षा ""सार्वधातुकमपित् इत्यस्य पर्युदासत्त्वपक्षे, प्रसज्यप्रतिषेधत्वे तु पिन्नेति निषेधेन स्थानिवत्त्वेन ""सार्वधातुकमपिद् इत्यतिदेशेन प्राप्तस्य निवारणात्, चिनुयादित्यादिसिद्घ्यर्थन्तु वक्तव्यम् । भवयास्ति इति स्थिते । ""सुछ् तियो: । लिङ्गसम्बन्धिनोस्तकारथकारयो: सुट् स्यादिति सुद् टित्वादादि: । अयं तकारथकारभक्त:, यासुछ् तु लिङृगभक्त इति विषयेभेदादनयोर्न बाध्यबाधकभाव:। *लिङ्ग: सलोपोनन्त्यस्य* । सर्वाधातुकलिङ:संबन्धिनोनत्यस्य सस्य लोप इति यासुट्सुट्सकारयोर्लोप:, सुटृ पर्जन्यवल्लक्षणप्रवृत्त्या तु कृतो न त्वस्मिन् कृते वा ऽकृते विशेषो ऽस्ति लोपनात् । श्रवणं त्वाशीर्लिङ्गासत्मनेपदे । *अतो येय* इत्यदन्तादङ्गात्पस्य या इत्यस्येयादेश: । *आद्गुण:* इत्यवर्णान्तादवि पूर्वपरयोरेको गुणो भवन्
कण्ठ्यस्याकारस्य "इचुयशानां तालु' इति तालव्यस्येकारस्य "एदैतो: कण्ठतालु' इति कण्ठतालव्य एकार: । यकारस्य वलि लोप: ( भवेत् । भवेतां, भवेयु: ) । ""ज्ञेर्जुस् इति लिङ्गादेशजुसादेशजकारो ""जुसि च इति विशेषणार्थ:। *उस्यपदान्तात्* । अपदान्तादवर्णादुसि परे पूर्ववरयो: पररूपमित्येतद्वाधित्वा ""अतो येय:परत्वान्न्त्यित्वाच्?च प्रवर्त्तते । यद्यप्यन्तरङ्गत्वात् पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् भवतीति विप्रतिषेधसूत्रे भाष्यकारैर्व्याख्यातत्वात् ""लिङृग: सलोप इत्यस्यापवाद इय् ""अतो येय इत्यत्र त्वाद्गुणे कर्तव्ये यलोपस्य सिद्धत्वमार्षं, या इय इति वा पठनीयमिति बोध्यम् । ( भवे:। भवेतम् । भवेत । आशिषि लिङ्लोटौ इति लिङ् । ""लिङ्गाशिषि इत्यार्द्धधातुकत्वान्न लिड:सलोप: । ""किदाशिषि इत्यार्द्धधातुकत्वान्न लिड:सलोप: । ""किदाशिषि इति कित्त्वान्न गुण: । *स्को: संयोगाद्योरन्ते च* । ज्ञलि परे य: संयोग: पदान्ते च य: संयोस्तदाद्यो: स्कोर्लोप इति ज्ञल्परसंयोगादित्त्वेन यासुट: सस्य लोप:, पदान्ते तु संयोगे तदादित्वेन सुटो सकारो सकारो लुप्यते । ( भूयात् । भूयास्ताम् । भूयासु: । भूया: । भूयास्तम् । भूयास्त । भूयासं, भूयास्व । भूयास्म ) । सलोपस्य पूर्वत्रासिद्धत्वेन तिस्यो: संयोगान्तलोपो न भवति पदान्तसंयोगादिलोपस्यानवकाशत्वात् । ननु *हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्* इति हलन्ताद् दीर्घाद् ङयाबन्ताच्च परस्य सुतिस्यपृक्तस्य लोपविधाने स्कोरिति सलोपस्य पूर्ववदसिद्धत्वाद्धलन्तात्परो ऽपृक्तत्वेन लोप: कस्मान्न भवति सुतिस्यपृक्तमिति प्रत्ययनिर्देशेन प्रकृतेराक्षेपात्तत: परस्यापृक्तस्य लोपविधानात् । न चेह सकारान्तस्य प्रकृतित्वं, यद्वा ऽसिद्धत्वे भूयादित्यत्र यासुट् तस्य लोपोप्यसिद्ध इति तस्य तकारभक्तत्वाद्पृक्तस्यैवाभाव: ""अपृक्त एकाल् प्रत्यय: ।
*लुङ्* ।। भूतोपाधिकार्थाद्धातोर्लुङ् स्यात् । भूत: पञ्चविध इत्युक्तं, तत्रानद्यतने लङ्विधानात्ततोन्य: सर्वां भूतोत्र गृह्मते । अनद्यतन इति बहुव्रीहिनिर्देशाव्र व्यामिश्रे: लङ: प्रसङ्ग: । लस्य तिबादिषु ""च्छि लुडि इति च्छि: । तस्य ""च्छे: सिच् इति सिजोदेश: । स्थानिन्यादेशे च चकारानुबन्धनस्य प्रयोजनं वक्ष्यते । तस्य ""गातिस्थाघुपाभूभ्य: सिच: परस्मैपदेषु इति लुक् । स च नित्यत्वादिट: पूर्वं *दाधा ध्वदाप्* इति दाधारूपा धातावोघुसंज्ञा: । अडागम: । ( अभूत् )। अत्र सिचो लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् *सिचि वृद्धि: परस्मैपदेषु* इति परस्मैपदे परे सिचि विधीयमाना वृद्धिर्न भवति । तथा गुणोपि न भवति ""भूसुवोस्तिङि इति तिङि सार्वधातुके निषेधात् । अत एव वा निषेधाद्वृर्द्धेरप्यलाभो भविष्यति । स्याद् अपवादेन बाधितत्वादप्रसङ्गात् कथमसौ निषिध्येत । ननु *अस्तिसिचोपृक्ते* इत्यस्तिसिच्भ्यां परस्य सार्वधातुकापृक्तस्य विधीयमान ईट् प्रत्ययलक्षणेनात्रकस्मान्न्? भवति । अत्र केचिदेवमाहु: । अस्तीति द्विसकारकनिर्देशादेकेन सिचो विशेषणाच्छ्रूयमाणात्सिच: परस्येड्विधिरितीह न भवतीति । इदमविचारितरमणीयम् । अस्तीति पदान्तभूतस्यास्य सकारस्य पदान्तरेणान्वयायोगात् पृथक्पदत्वे तु न तस्य धातुत्वं नापितत्सहितस्य समुदायस्येति धातुविषयश्तिब्निर्देश एव नोपपद्यते । अन्ये वर्णयन्ति ""आहिभुवोरीट्प्रतिषेध इत्यत्र न केवलमस्त्यादेशस्य भुव: स्थानिवत्त्वेन प्राप्त हण् निषिध्यते किं त्वनादेशस्यापीति, स्थानिवत्वदूषणपरे च तत्र वार्त्तिके कथमनादेशो भूर्गृह्मत इति त एवप्रष्टव्या:। न चानादेशस्याग्रहणे निषेधस्य वैयर्य्यं प्रमाणम् । अर्थभेदेन रूपद्वयार्थत्वात्तस्य । वयं तु परिहवयं तु परिहराम: । सिचोऽल्पाच्कत्वात् बहुविषयत्वेनाभ्यर्हितत्वाच्च पूर्वनिपाते कर्त्तव्ये ""अस्तिसिच इति वचनात्तन्त्रादिना विद्यमानसिच इत्यस्याप्यर्थस्य लाभादिति । किं च अर्थद्वयपरिग्रहे शिबप्युपपद्यते ऽन्यथा सिजस्भ्यामित्येव ब्रूयात्, न चास्तीत्यस्यातिनिवृत्त्यर्थ:, विकरणे व्यवधानात् ताभ्यां परस्य सर्वाधातुकापृकापृक्तस्यासंभवात् ।
( अभूताम् । अभूवन् ) । अजादरौ ""भुवो वुक् इति वुक् । अत्र ज्ञे: प्रत्ययलक्षणेन सिच: परत्वेनपि सिच: परत्वेपि सित्र भ्यस्तविदिभ्य: परस्य ङिल्लादेशस्य ज्ञेर्विधीयमानो जुस्भावो न भवति । ""आत इति नियमात्, सिजुलुगन्ताद्यदि भवत्यात उवेति, अभ्यस्तं ""उभे अभ्यस्तं ""जक्षित्यादय: षट् इति वक्ष्यते । ( अभू: । अभूतम् । अभूत । अभ्यस्तं "" उभे अभ्यस्तं ""जक्षित्यादय: षट् इति वक्ष्येत । ( अभू: । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ) ।
*लिङ्गिमित्ते लृङ् क्रियातिपत्तौ* । लिडो निमितृतं हेतुहेतुमद्भावादि, कुतश्चिद्वैगुण्यात्?िक्रयाया
अनभिनिर्वृत्ति: क्रियातिपत्ति:, अत्र धातोर्लृङ् स्यात्, लस्य तिबादिषु स्यतासी इतिस्य: । इडागम:, ""इतश्च इत्यादि । ( यदि सेवापरोऽभविष्यत् आढ्य: अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्य: । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम )।।क्रियातिपत्तिर्न सेवापरो नाप्याढ्य इति ।
अथात्मनेपदं प्रदर्श्यते ।। *कर्त्तरि कर्मव्यतिहारे* । कर्म क्रिया । अन्यस्यान्येन करणंपरस्परकरणं च कर्मव्यतिहार: । अस्मिन् गम्यमाने आत्मनेपदं स्यात् इति लस्य तिबादिषु विकरणादिसाधारणं पूर्ववदेव, ""टित आत्मनेपदानां टेरे इति टिल्लादेशानामात्मनेपदानां टेरेत्वं स्यात् । इदं चैत्वमाद्यन्तप्रयुक्तकार्यातिदेशात्केवलस्याप्यषष्टिसंज्ञाविधानाभ्दवति । ( व्यतिभवते । व्यतिभवेते )। ""आतो डित इत्यदन्तादङ्गात्परस्य डिदवयवस्याकारस्येयादेशे वलि लोप: । "नानर्थके ऽलोन्त्यविधि:' इति टेरेत्वमत्रान्त्यस्य न भवति, *ईदूदेद्विवचनं ग्रगृह्मम्* इति ईदाद्यन्तस्य द्विवचनस्य प्रगृह्मत्वात् ""प्लुतप्रगृह्मा अचि इति प्रकृतिभावाद् व्यतिभवेते एतावित्यादावयादि न भवति । इह प्रकृतिभाव: परभूतनिमित्तविकाराभावस्तेन स्वरो भवत्येव । ( व्यतिभवन्ते ) अत्र त्रीणि कार्याणि प्राप्नुवन्त्यन्तादेशोद्भाव: शबिति । अत्र विशेषविहितत्वेनान्तादेशापवादाऽभ्दावान्नित्यत्वाच्छप्, तत्र कृतेङ्गस्यादन्तत्वादभ्दावस्य न प्राप्तिरिति सामान्यविहित एवान्तदोश: प्रवर्तते । ( व्यतिभवसे )। *थास: सं* इति टिल्लादेशस्य थास: सेभाव: । ( व्यत्रिभवेथे ) भवेते इतिवत् । ( व्यतिभवध्वे । व्यतिभवे । व्यतिभवावहे । व्यतिभवामहे ) । एत्वात्परत्वात्. ""आदगुण: कृते वा तस्मिन् ""अतो गुणे इति पररूपम् । व्यतिशब्द: कर्म्मव्यतिहारद्योतनार्थ: । तस्य *ते प्राग्धातो:* । ते गत्युपसर्गसंज्ञा धातो: प्राक् प्रयोक्तव्या इति नियमात् पूर्वप्रयोग: । *उपसर्गा क्रियायोगे* । गतिश्च* इति प्रादयो यत्क्रियायुकृतास्तं प्रत्युपसर्गसंज्ञा: सन्तो गतय: । ( इतरेतरस्य व्यतिभवन्ति, अन्योन्यस्य व्यतिभवन्ति ) इत्यत्र ""इतरेतरान्योपपदाच्च इति कर्मव्यतिहारलक्षण्?ामात्मनेपदं निषिध्यते। ""अन्योन्योपपदाच्चइतिचकारेण परस्परोपपदादपि न भवति ( परस्परं व्यतिभवन्ति । व्यतिबभूवे । व्यतिभूवाते । व्यतिबभूविरे । व्यतिबभूविषे । व्यतिबभूवाथे । व्यतिबभूविद्रवे । व्यतिबभूविघ्वे । व्यतिबभूवे । व्यतिबभूविवहे । व्यतिवभूविमहे ) । *लिटस्तज्ञयोरेशिरेच्* । लिटस्तज्ञयोरेशिरेचावादेशौ स्त: । एश: शकरो ""अनेकाल्शित् इति सर्वादेशार्थ:, *विभाषेट:* इति इण: परो य इट् तत: परेषां षीध्वंलुङ्लिटां धकारस्य मूर्धन्य इति तद्विकल्प: । टेरेत्वमजादौ वुक् । वलादौ क्रादिनियमादिट् । ""भवतेर: इत्यभ्यासस्यात्वम् । ( व्यति?भविता । व्य?तिभवितासे ) । ""थास: से इति सेभावे ""तासस्त्यो: इति सलोप: । ( व्यतिभविताध्वे ) । अत्र सकारस्य धकरादिप्रत्ययपरत्वात् ""धि च इति लोपे धकारस्य *अनचिच* इति अच उत्तरस्य यरो द्वित्वमचि नेति द्वित्वे ""ज्ञलां जश् ज्ञशि इति धकारान्तरतम्याहकार: । येषां ""धि च"" इति सिचो लोष अकम पक्षस्तेषामप्यत्र सकारस्यान्तरतम्याज्जशि दकारे नाद्ध रूपभेद: । ( व्यतिभविताहे ) । इट एत्वे ""ह एति इति सकारस्य हकार:, ( व्यतिभवितास्वहे । व्यतिभविष्यते ) इत्यादिपूर्ववत् । (व्यतिभवताम् । व्यतिभवेताम् । व्यतिभवन्ताम् । व्यतिभवस्व । व्यतिभवेथाम् । व्यतिभवध्वम् । व्यतिभवै । व्यतिभवाहै । व्यतिभवामहे ) टेरेत्वं ""आतो डित इत्यादि पूर्ववत् । ""आमेत इति लोछादेशानामेकारस्यामोदश: । सेध्वेशब्दयोस्तु ""सवाभ्यां वामौइति यथासंख्यं वामादेशावपवादौ । उत्तमेकारस्यैत्वे ""एत ऐ इत्यैकार:। अयमप्यामादेशापवाद: । अत्राडागमे कृते तस्य तत्परस्य चैकारस्य *आटश्च* आटोति परे पूर्वपरयोरेका वृद्धिरैकार: । तस्य शबकारस्य च ""वृद्धिरेचि । अवर्णादेचि परे पूवैपरायोकरेका वृद्धिरित्यैकार: । ( व्यत्यभवत । व्यत्यभवेताम् । व्यत्यभवन्त । व्यत्यभवेत । व्यतिभवेथाम् । व्यत्यभवध्वम् । व्यत्यभवे । व्यत्यभावाहि । व्यत्यभवामहि / व्यतिभवेत । व्यतिभवेयाताम् । व्यभिवेरन्त । व्यतिभवेथा: । व्यतिभवेयाथाम् । व्यतिभवेध्वम् । व्यतिभवेय । व्यत्यभवावाहि । व्यत्यभवामहि । व्यतिभवेत । व्यतिभवेयाताम् । व्यतिभवेमहि ) । ""लिङ: सीयुट् इति लिङ्गादेशस्य सीयुट्टित्त्वादादि: । ""सुट्ति?थो ।लिड: सलोप: । ""आद्गुण: । वलि लोप: । ""ज्ञस्य रन् इति लिङो ज्ञस्य रन्नित्यादेश:, ""न विभक्तौ इति नेन्नकार: । *इदमस्थमु: इति थमुप्रत्ययस्य *प्राग्दिशो विभक्ति:* इत्यत: परे दिक्शब्देभ्य इत्यत: पूर्वे प्रत्यया विभक्तय इति विभक्तित्वे तत्स्थत्वेन
मकारस्येत्संज्ञानिषेधे सिद्धे तत्परित्राणायोकारासीञ्जनेन ""न विभक्तौ इत्यस्यानित्यत्वज्ञापनादित्वं लभ्यते । आशिषि । ( व्यतिमविषीष्ट । व्यतिभविषीयास्ताम् । व्यतिभविषीयास्ताम् । व्यतिभवीषिरनम् । व्यतिभविषीष्टा: । व्यतिभविषीयास्थाम् । व्यतिभविषीद्वम् । व्यतिभविषीरध्वम् । व्यतिभविषीय । व्यतिभविषीवहि । व्यतिभविषीमहि ) । आर्द्धचातुकतृवादेषु:लिड: सलोपाभाव: । अत्र सीयुट् "यदागमास्तद्ग्रहणेन गृह्मन्ते' इति प्रत्ययग्रहणेन गृह्मते, तथा तदवयवभक्त सुडपि यथा हि ""शीडो रुट्इति प्रत्ययावयवज्ञकारादेशस्यातोपि रुट् समुदायभक्तत्वेन सार्वधातुकग्रहणेन गृह्मत इति शेरत इत्यत्र ""शीङ: सार्वधातुक इति गुण: प्रवर्त्तते । *ष्टुना ष्टु:* । षकारटवर्गाभ्यां युक्तयो: सकारतवर्गयोर्यथासंख्यं ष्टुरिति तकारथकारयो: षकारटवर्गाभ्यां युक्तयो: सकारतवर्गयोर्यथासंख्यं ष्टुरिति त?कारथकारयो: षकारटकारौ । निमित्तिनिमित्तयोयंथसंख्यां *तो: षि* इति षकारे परे तवर्गस्य ष्टुत्वनिषेधान्नभवति ""विभाषेट: इति मूर्द्ध न्यविकल्प: । ( व्यत्यभविष्ट । व्यत्यभविषाताम् । व्यत्यभविष्ट । व्यत्यभ्?ाविषाताम् । व्यत्यभविषि । व्यत्यभविष्वहि । व्यत्यभविष्महि । सिवीडगुणावादेशाषत्वानि यथायोगं ष्टुत्वं च । ""आत्मनेवदेष्वनत इति ज्ञस्याद्भाव: । तकारस्य प्रयोजनाभावान्नेत्त्वम्, ध्वमि षत्वस्य पूर्वत्रासिद्धत्वात् हार्य: । ( व्यत्यभविष्यत ) । इत्यादि लङ्वत् ।
अथ भावकर्मणोर्लकारा: प्रदर्श्यन्ते ।। तत्र *भावकमणो:* इति मूर्द्धन्यविकल्प उदाहार्य: । ( व्यत्यभविष्यत ) । इत्या?दि लङ्वत् ।
अथ भावकर्मणोर्लकारा: प्रदर्श्यन्ते ।। तत्र *भावकमणो:* इत्यनयोर्लस्यात्मनेपदमेव*सर्वधातुके यक्* इति भावकर्मवाचिनि सार्वधातुके लटि लोटि लङि विध्यादिलिङि च यक् । अन्यत्र सार्वधातुके स्यादिभिरस्य बाध:, लिङाशीर्लिङोस्त्वार्द्धग्धातुकत्वान्न प्रसङ्ग: । यक: कित्त्वान्न गुण: । ( भूयते । भूयताम् । अभूयत भूयेत भवता ) । अत्र प्रत्ययेन कर्त्तुरनभिधानात्तृतीया । *कर्तृकरणयेस्तृतीया* इति तिङ्कृत्तद्धितसमासैरनभिहतयोरनयोस्तृतीयोच्यते । तत्र भावस्य युष्मदस्मदर्थविशेष्यत्वात्प्रथमपुरुष एवात्र व्याख्याने, स्वत: क्रियायानिवृत्तभेदाया अभिधानादेकवचनमेव भवति, ( भवद्भ्यां भवद्भि:, त्वया युवाभ्यां युष्मभि:, मया आवाभ्यामस्मा?भिर्भूयते ) "कालभावाध्वगन्तब्या: कर्मसंज्ञा ह्मकर्मणां देशश्चाकर्मणां' मया आवाभ्यामस्माभिर्भूयते । ) इति । भवन्तीत्यादौ तु प्रत्ययेन कर्त्तुरभिधानाततत्कृतं बहुत्वम् । ( भूयते मास: ) "कालभावाध्वगन्तब्या: कर्मसंज्ञा ह्मकर्मणां देशश्चाकर्म णां इति मासादयो ऽक?र्मकाणां कर्माणि । तत्र कर्मणोऽभिधानात् कर्मणि द्वितीया न भवति, सा च तिडासदिभिरनभिहिते विधीयते । ( भूयते मासम् )इत्यत्र भावे लचिधानात् कर्मणो ऽनभिधानाद् द्वितीया । नुन सकर्मकत्वात्कथं भावे लकार: ? । उच्यते । कालादिभिर्न कश्चिदप्यकर्मक इति तद्वयतिरिक्तेन कर्मणा ऽकर्मकाणां भावे लविज्ञानात्, कथंतर्हि मासे लो, ऽकर्मकाणां भावकत्रोर्लविधे: । उच्यते, एवंविधानां भावकर्मकर्तृषु लत्रिज्ञानात् । तथोक्तं ""कालाध्वनो: इत्यत्र मासादौ कर्मणि भावे च लकारं प्रस्तुत्य "प्राकृतमेवैतत्कर्म यथा कटं करोति' इति' पुनश्च तत्र "यदि प्राकृतमेवैतत्कर्म अकर्मकाणां भावे लो भवतीति भावे लोन प्राप्नोति' इति चोदयित्वा "अकर्मकारणामित्युच्यते, न च के चित्कालभावादिभिरकर्मकास्तत एवं विज्ञास्याम: क्क चिद्येऽकर्मका इति । अथ वा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणां न चैतेन कर्मणा कश्?िचदप्यकर्मक: । अथ वा यत्कर्मभवति न च भवति तेनाकर्मकाणां न चैतत्कर्म क्क चिदुपि न भवति' इति। ( अनुभूयते सुखम् )इत्यादौ संदेदनाद्यर्थत्वाद् भुव: संवेद्यादिभिरिपि सकर्मकत्वाकर्मण्येव ल: । ( भूयेते भूयन्ते ) इत्याद्युदाहार्यम् । तथा, ( भूयताम् । भाविता ) *स्यसिचसीयुट्तासिषु भावकर्मणोरुपदेशेज्ज्ञनग्रहदृशां वा चिण्वदिट् च* इत्यजन्तानां हनादीनां च धातूनामार्द्धधातुकेषु भावकर्मविषयेषु स्यादिषु वा चिणीव कार्यमिट् चेत्यभिधानात् चिण्वत्पक्षे वृद्धि: । इहेड्विधानमनिडर्थं ण्यन्तार्थं च । स्यसिजादीनामार्द्धधातुकत्वस्याव्यभिचारेपि तेन विशेषणं सीषुडर्थम् । तेन सार्वधातुके विध्यादिलिङि सीयुटि चिण्वत्त्वस्याभाव: । एवं स्यसिच्सीयुहविषये द्वैरूपयमुदाहार्यम् । ( भविष्यते । भाविष्यते । अभविष्यत । अभाविष्यत । अभावि । अभाविषाताम् । भविषीष्ट ) इत्यादि । लु?ङ्लिडोर्ध्वमे चिण्वत्पक्षे ""विभाषेट: इति मूर्द्धन्यविकल्पानाच्चातूरूप्यं नेयम् । लुङि तशब्दे चिण् भावकर्मणो: इति चिण् विधानात् च्लेश्चिण् तत: ""चिणो लुक्चिणो लुक् इति तशब्दस्य लुक् ।।
अथ कर्मकर्त्तोच्यते ।। *कर्मवर्त्मणा तुल्य्रक्रिय:* ।। ""कर्त्तरि शप् इत्यत: कर्तृग्रहणमनुवृत्तं प्रथमान्तमिहि विपरिणम्यते । इह कर्म न पारिभाषिकं तेनात्यन्तविलक्षणेन क्रियाया: सादृश्यायोगात् । नापि क्रियामात्रं ( 1 ) ( 1 ) यथा कथाचन ।
यथा कथं वन क्रियया क्रियाया: सादृश्याव्यभिचारात् । अत: कर्मेह तत्स्यात्क्रिया, अनया तुल्यक्रिय: कर्ता कर्मणा तुल्यस्तत्कार्याणि लभत इत्यर्थ: । तानि च यगात्मनेपदचिण्चिण्वद्भावा: । एकस्मिंश्च प्रयोगे कर्मणा तुल्यक्रियस्य कर्तृरसंभवात् कर्मत्कर्तृत्वे प्रयोगभेदेन ज्ञेये । यद्येवं पटं भावयतीत्यत्र कर्मस्था क्रियोत्पत्तिरस्ति तया तुल्यक्रियत्वं पटो भवतीत्यत्र कर्तृरिति यगादि कस्मान्न भवति । अर्थस्वभावादेवास्य योगस्य धातुविषयत्वे सिद्धे धातोरित्यनुवृत्तिसामर्थ्याद्वि?भक्तिविपरिणामेन सप्तम्यन्तं विवक्षितैक्तत्वं विज्ञायत इत्येकस्मिन् धातौ कर्मणा तुल्यक्रियस्य कर्तु: कर्मवद्भावाद् इह तु धातुर्भिद्यते । एवं च कर्मव्यापारार्थो धातुर्यत्र सौकर्यातिंशयप्रतिपादनाय कर्मव्यापारमात्रे वर्तते सोस्य विषय: संपन्न: । ततश्च शत्रुमभिभवतीत्यत्र न्यग्भवनोपसर्जने न्यग्भावने वृत्तो भवतिर्यदा न्याग्भवनमात्रे वर्त्तते तदाभिभूयते शत्रु: स्वयमेवेति यगात्मनेपदे भवत: । नन्वत्र कर्मस्था क्रिया न्?याग्भवनं सैव कर्तस्थापीति क्रियाभेदाभावात् कथं भेदनिबन्धनं सादृश्यमिति चेन्न । कर्मकर्त्रव्स्थाभेदेन भिन्नकारकत्वेन भेदोपपत्ते: । नन्वत्रातिदेशेन यगादिवद्द्वितीया कस्मान्न भवति । न च ""अनभिहिते इति निषेधोऽस्य कार्यातिदेशत्वाद् अत्र च तदधिकाराभावात् । उच्यते ।""व्यत्यो बहुलं ""लिङयाशिष्यङ् इति संहितया सूत्रपाठाद् ( 2 ) ( 2 ) ल्लिङिति ।
द्विलकारको निर्देश:, तत्रैकं लग्रहणमनुवर्त्तते तच्चेह षष्टयन्तं सत् तदन्तत्वं प्रयोजयहज,( 3 ) ( 3 )कार्यप्रतीति श्चात्राध्या ।
कार्यप्रतीतिश्चाध्याहियत इति लान्तकार्यविषत्वादतिदेशस्य द्वितीयायास्तथाभावादप्रसङ्ग: । एवं च कर्माश्रया: कृत्यादयोपि न भवन्ति । नन्वभिभूयमानो देवदत्तो यज्ञदत्तमभिभवतीत्यत्रापि( 4 ) ( 4 )सकमर्कत्वात् ।
कर्मवद्भाव: प्राप्नोति, अत्र हि यज्ञदत्ते कर्मणि( 5 ) ( 5 ) दृष्टं न्यग्भवनं न्यग्भावयितरि देवदत्ते ।
दृष्टो न्यग्भाव इतर स्मिन् देववत्तं च कर्तरि दृश्यते यदसौ न्याग् भवन् न्यग् भावयति । नैष दोष: । इह कर्मणा तुल्यक्रिय इति कम्रस्थया क्रियया तुल्याया: ( 6 ) ( 6 )क्रियाया: ।
प्रसङ्गात्कर्तुश्च क्रियापेक्षत्वात् प्रत्यासत्त्या तदपेक्षयैव कर्तु: कर्मवद्भावविज्ञानात् । इह च न्याग्भवनं न कर्तृत्व उपयुज्यते किं तु न्यग्भावनमेव, अन्यगृभवतोपि न्याग्भावने कर्तृत्वसंभावात् । वत्करण ( 7 ) ( 7 ) स्वाश्रयणेन कर्मकर्तृंत्व ।
त्स्वाश्रयाकमकत्वनिबन्धनो भावे लकारोपि भवति । अभिभूयते शत्रुणास्वेनैवेति, तेन शत्रो( 8 ) ( 8 ) द्विर्ताया न भवति ।
स्तृतीया भवति ।सर्वत्र कर्मवदुदाहरणानि । लुङि तशब्दे तु ""अच: कर्मकर्तरि इति चिणादेशविकल्पनात् पक्षे सिच्, तस्य पूर्ववच्चिण्वदिट् तत्पक्षे वृद्धौ ( अभ्यभावि ) ( अभ्यभाविष्ट ) । ( अभ्यभविष्ट ) इति त्रैरूप्यम् । स्वाश्रयभावे लकारे ""चिण् भावकर्मणो: इति चिणेव । ( अभ्यभावि शत्रुण स्वेनैवेति ) ।
अथ पुरुषविषये किं चिद् विचार्यते ।। युष्मदस्मदन्येषु सहविवक्षितेषु त्यदादीनि सर्वैर्नित्यम् । अन्यैस्सहवचने त्यदादीनि शिष्यन्ते मिथस्तु पराणीति शिष्यमाणाभ्यां युष्मदस्मद्भ्यामशिष्यमाणार्थाभिधानेपि स्वाथांपवेक्षौ मध्यमोत्तमावेव भवत: । न तु ?शिष्यमाणाशिष्यमाणरूपस्यार्थस्य युष्?मदस्मदर्थान्यत्वेन शेषत्वात्प्रथम:, यत्र युष्मदस्मदी समानाधिकरणे न स्त: स शेष इतृयुक्तत्वात् । ( देवदत्तश्चाहं च आवां भवाव:) ( देवदत्तश्च स चाहं च वयं भवाम: ) इति । युष्मदस्मदो: सहविवक्षाया( 1 ) ( 1 ) परत्वात् ।
मस्मदा शिष्यमाणेन युष्मदस्मदर्थाभिधानेपि परत्वादस्मदर्थापेक्ष उत्तमो भवति । ( त्वं चाहं च आवां भवाव ) इति । भवतापि युष्मदस्मदो: सहवचने तस्य पर्वपाठाश्रयेण तयोरेव श्?ोषे ( भवांश्च त्वं च युवां भवथ: ) ।
( भवांश्चाहं च आवां भवाव ) इति । सहविवक्षा चानेकस्यार्थस्यैकगुणाक्रियाभिनिवेशार्थ बुद्धया निरूप्यमाणस्य क्रियागुणद्वारेणान्योन्यापेक्षया समुदायभावामापन्नस्य सहभावेन वक्तुमिच्छा,उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने । असहविवक्षायां द्वैतम् । एक एव लकारो ऽनेकलारकार्थंभिधायी प्रतिकारकमावर्त्तते वेति ।
तत्राद्ये पक्षे युष्मदस्मदन्यानामशेषत्वाद्यथायोगं मध्योत्तमौ भवत:। ( स च त्वं च भवथ: ) तथा मध्यमोत्तमयोर्युगपत्प्रसङ्गे परत्वादुत्तम:,( त्वं चाहं च भवाव ) इति । पक्षान्तरे तु ( 2 ) ( 2 )लाभिधेये । अभिधेये तत्तत्कारकापेक्षया प्रथमादयो यथायोगं भवन्तीति न विवाद: । ( भवान् भवति, ) ( त्वं भवसि, ) ( अहं भवामीति ) अलिङ्गसंबोधनैकविषयश्च युष्मदर्थो भवदर्थस्त्वन्य इति तद्योगे प्रथमोक्त: । यदा त्वस्मात्सम्बोधनविभक्ति: तदा युष्मदर्थयोगात् मध्यमो भवति ( हे भवन् भवसि इति । अतित्वं भवति अत्यहं भवति इत्यादौ त्वामतिक्रान्तो मामतिक्रान्त इति ""अत्यादय:क्रान्ताद्यर्थे द्वितीयया इति तत्पुरुषे त्वमतिक्रान्तो येनाहमतिक्रान्तो येनेति ""अनेकमन्यपदार्थ: इत्यनेकं सुबन्तमन्यस्य पदस्यार्थे वर्त्तमानं समर्थं समस्यत इति बहुब्रीहौ वा ऽतिक्रमितु: प्राधान्यात्तस्यैव लान्तार्थविशेषणत्वान्न मध्यमोत्तमौ । यदा त्वतिशब्द: पूजितवचन: तदा ""स्वती पूजायाम् इति तत्पुरुषे युस्मदस्मदीरर्थस्य प्रधान्यात्तेन विशेष्यत्वाद् ( अतित्वं भवसि अत्यहं भवामि) इति भवत: । त्वद्भवति मद्भवतीत्यत्र च्चयन्तयोरेतयोस्त्वमिवाहमिवार्थेस्वार्थारोपेण वर्त्तमानत्वादमुख्यार्थत्वचात् "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय'इति न्यायेन मध्यमोत्तमौ न स्त: । तथाहि । ""अभूततद्वावे कृभ्वस्तियोगे संपद्यकर्त्तरि च्यव: इति कार्यात्मना ऽभतस्यकारणस्य कार्यात्मना भावे विवक्षिते संपद्यमाने कार्यात्मना भवतिकर्त्तरि वृत्तात्प्रातिपदिकात्कृभ्वस्तियोगे च्?िवर्विधीयते । एतदुक्तं भवति । अभेदविवक्षया भवतिकर्त्तरि वृत्तात्प्रातिपदिकात्कृभ्वस्तियोगे च्विर्विधीयते । एतदुक्तं भवति । अभे?दविवक्षया कारणवृत्ते:कार्यशब्दात् प्रत्यय इति । त्वत्कल्पो भवति मत्कल्पो मत्कल्पो भवतीत्यादावपि गौणार्थत्वाच्च न मध्यमोत्तमौ । तत्र *ईषदसमाप्तौ कल्पब्देश्यदेशीयर:* संपूर्णता पदार्थानां समाप्ति:, किं चिन्नयूनतेषदसमाप्ति:, एतद्विशिष्टेर्थे वर्त्तमानात्प्रतिपदिका *त्तिडश्चे* इति तिडन्ताच्च स्वार्थे क्कल्पबादया इति प्रकृत्यर्थसदृशार्थान्तरवृत्तिभ्यो विधानात् । यथा तु कालान्तरदृष्टगुणेषदसमाप्तिविशिष्टस्वार्थवृत्ते: प्रत्यया: तदा न गौणार्थत्वमिति त्वत्कल्पो भवसि मत्कल्पो भवामीति भवत: । त्वमेवेदानीं किं चिन्नयूनगुणो भवसीत्यर्थ: । पूर्वत्र तु त्वत्सदृशोन्यो भवतीत्यर्थ: ।।
अथ तिङन्तात्प्रत्यया: प्रदर्श्यन्ते ।। *अतिशायने तमबिष्टनौद्ध ।। अतिशायनं प्रकर्षोभिभव: । एतदुपाधिकार्थवृत्तेर्ड्याप्प्रातिपिदिकादेतौ स्याताम् । तथा ""तिङश्चइति तिङन्ताच्च । *बहूनामेकस्य निर्धारेणे वृत्तौ द्विवचनभिज्योपपदे तरबीयसुनौ*द्वयोरर्थंयोर्वचने विभज्ये? विभक्तव्ये चोपपदे तरबीयसुनोर्विधानात् । तौ अजादी गुणवचनादेवेतीष्टनीयसुनोर्गुणवचनादेव नियमात्तिङन्तात्तरप्तमपावेव, एतदन्तात्*किमेत्तिङव्ययघादाम्वद्गव्यप्रकर्षे* किमादिभ्यो यो घस्तदन्ताद्द्रव्यप्रक्रर्षे गम्यमाने आमुरित्यासमु: । उकारोमकारस्यानन्त्यत्वेर्नेत्वनिवृत्तये हल्लुप्यते तत्र ""स्वरादिनिपातमव्ययम् तथा*तद्धितश्चासर्वविभक्ति:*इत्यसर्वविभक्तियुक्तं तद्धितान्तं, तथा ""कृन्मेजन्त इति ( 1 ) ( 1 ) मकारैजन्तम् ।
मेजन्तं, तथा ""त्त्कातोसुन्कसुनइति ( 2 ) ( 2 ) त्वदन्तम् ।
तदन्तं, ""अव्ययीभावश्च इत्यव्ययीभावश्च, ""तरप्तमपौ घ: । तत्राणि ( 3 ) ( 3 ) अपि परे ।
परे, ""यचि भम्, यकारादावजादौ च स्वादावसर्वनामस्थाने परत: पूर्वं भमिति घान्तस्य भसंज्ञा । इह स्वादय: स्वौजसमौडित्यारभ्य कप्पर्यन्ता: । घान्तस्य *यस्येति च* । इवर्णोवर्णयोरीति भसंज्ञानिमित्ते तद्धिते च परे लोप इति लोप:, ( भवतितरां भवतितमां, ) तद्धिताश्च ""तद्धिता इत आरभ्य आपञ्चमाध्यायसमाप्तेर्वक्ष्यमाणा: प्रत्यया:, आमन्तं कृत्तद्धितसमासाश्च कृदन्तं तद्धितान्तं समासश्च प्रातिपदिकमिति प्रातिपदकिं, कृत: समासाश्च वक्ष्यन्ते । प्रातिपदिकाक्च ""ड्याप्प्रातिपदिकात् ""स्वौजसमौट्छष्टाभ्यांभिस्ङ्भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङयोस्सुप् इति विधीयमानेषु स्यादिषु एकत्वार्थमेकवचनं सु:। तम्य च *अव्ययादाप्सुप:* अव्ययाद्विहितस्याप: सुपश्च लुगिति लुक् । स्वरादिष्वामितिपाठादयव्यत्वम्, आबिति डाप्डाप्चाप: *प्रशंसायां रूपम्*प्रशंसा स्तुति: । एतदुपाधिकार्थान् ङाप्प्रातिपदिकात तिङन्ताच्चरूपप् स्यात् ।स्वभावादेतदन्तान्नपुंसक ( 4 ) ( 4 ) प्रथमेति बहुषु पुस्तकेषु नास्ति।
प्रथमैकवचनमेव । तस्य ""स्वमोर्नपुंसकात् इति नपुंसकलिङ्गात्परत्वेन लुकिप्राप्ते ""अतोम्इत्यम्भावे *अमि पूर्व:* अकोमि परे पूर्वपरयो3 पूर्वरूपमेकादेश इति पूर्वरूपत्वम्, तेन (भवतिरूप)इत्यादि भवति । एवं
कल्पबाद्यन्तादपि स्वभावान्नपुंसकात्स्वादिका र्यम् ""अव्ययसर्वनाम्नामकमच् प्राक् टे:रित्यकच् । तत्र ""तिङश्च इत्यनुवृत्तेरस्यापि टे: प्रागज्ञातादिषु प्रागिवीयेष्वर्थेषु भवति । अकार उच्चरणार्थ:, चकार:""चित इति स्वरार्थ: । तत्र हि "चित: सप्रकृते:' इत्युच्यते । ( भवतकि ) ।
अथ तिङो ऽन्ये लादेशा उच्यन्ते ।। *लट: शतृशानचाप्रथमासमानाधिकरणे* ।। लट: शतृशानचावादेशौ स्यातामप्रथमान्तेन चेत्सामानाधिकरण्यं भवति । तत्र शेषत्वादस्य लट: शता, तस्य शित्त्वात्सार्वधातुकत्वे पूव्रवच्छबादय: । शत्रन्तस्य ""कृदतिङ् इति तृतीयधात्वधिकारविहितस्य प्रत्ययस्य कृत्संज्ञाविधानात् कृदन्तत्वेन प्रातिपदिकत्वादविशेषेण स्वादिप्रसङ्गे कर्मत्वादविशेषेण स्वादिप्रसङ्गे कर्मत्वस्य विवक्षितत्वात् ""कर्मणि द्वितीया इति द्वितीया । द्वितीयादिशब्दौ: सुपं त्रिका: पूर्वाचार्यप्रसिध्द्योच्यन्ते । तत्रापि सुपस्त्रीणित्राणि पदानि त्वैकशो भूय थासंख्यमेकवचनादिसंज्ञानीति तिङ्वदेकत्वादौ क्रमेणैकवचनादि भवति । तत्रमौटौ: ।। सुडनपुंसकस्य सु?डिति प्रत्याहारेणादिति: पञ्च वचनानि गृह्मन्ते । तन्यनपुंसकस्य संबन्धीनि सर्वनामस्थानत्वे *उगिदचां सर्वनामस्थाने धातो:*इति नुम् । उगितामङ्गानां लुप्तनकारस्याञ्चते: पूर्वमधातोरुगित: पश्चाद्धातोस्तस्मिन्नुम् । अञ्चतिग्रहणादुगितो धातोर्यदिभवति अञ्चतेरेवेति नियमार्थकाद् अग्धातुग्रहणमधातुर्भूतपूर्वार्थ, नुमो सित्त्वात्*मिदचोन्त्यात्पर:*इत्येकत्र संनिविष्टानामचामन्त्यादच: पर: ।। *नश्चापदान्तस्य ज्ञलि* अपदान्तयोर्नकारमकारयोर्ज्ञल्युनस्वार इति नस्यानुस्वार: ।। ""अनुस्वारस्य ययि परसवर्ण ।। स च ""स्थानेन्तरतम: इति नासिक्यानुस्वारस्य तादृशो नकार:। ( भवन्तं पश्य ) ( 5 ) ( 5 ) भक्तो पश्यति ।
भवतस्तानित्यत्वात् ""स्वादिष्वसर्वनामस्थाने इति पूर्वस्य प्राप्ताया: ""यचि भम् इति भसंज्ञया परया ऽनवकाशया बाधात् ""ज्ञलां जशोन्ते इति जश्त्वं न भवति । कर्तृकरणविवक्षायां, ""कर्तृकरणयोस्तृतीया उक्त: कत्तां ।। *साधकतमं करणम्* क्रियाप्रसिद्धौ यत्कारकं कारकान्तरापेक्षया प्रकृष्टं विवक्ष्यते यद्व्यापारान्तरं क्रियानिष्पत्तिर्विक्ष्यते ततृकरणम् । तदुक्तम्----
क्रियाया: परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ।।
वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यत: ।।
क्रियते येन येनैव तत्तत्करणमिष्?यते ।
तेनाश्वेन रयेनेति सिद्धं दीपिकयेति च ।।
इति । टाटकारष्टाङसीति विशेषणार्थ: ।अन्यथा । ""सुपां सुलुग् इति विहितस्यापि ग्रहणमापद्येत
( भवता तेन । भवद्भ्यां ताभ्यां, भवद्भिस्तै: ) हलादौ पदत्वाज्जाश्त्वम् । संप्रदानविवक्षायां ""चतुर्थी संप्रदाने कृदाद्यनभिहित इति शेष:।। *कर्मणा मयभिप्रैति स संप्रदानम्* ददातिर्म्मणा करणभूतेन कर्ता यमभिप्रेति तदनिराकर्तृत्वे प्रेरयित्रनुमन्तकारकं सम्प्रदानम् । उक्तच्च ।
अनिराकरणात्कत्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते संप्रदानता ।।
इति । दानं च पुनरग्रहणाय किं चिदुद्दिश्य स्वीयत्याग: ( भवते तस्मै ददाति । भवद्रभ्यां ताभ्यं ददाति । भवद्भ्यस्तेभ्यो ददाति ) अपादानविक्षायाम् ""अपादाने पञ्चमी ""ध्रुवमपाये ऽपादानम् सावधिकं गमनमपाय: । तदुक्तम् ।
संयोगभेदाद् भिन्नात्मा गतिरेव भ्रमिर्थथा ।
ध्रुवावधिरपायोपि समवेतस्तथा ध्रुव: ।।
इति । अस्मिन् साध्ये यद् ध्रुवमेतदनाविष्टं यतृकारकं तदापादानम् । तथाहि ।
अपाये युदासीनं चलं वा यदि वा ऽचलम् ।
ध्रुवमेवातदावेशातृतदपादानमुच्यते ।।
इति । त्रिविधं चैतत् । यथाह ।
निर्दिष्टविषयं किं चिदुपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधा ऽपादानमुच्यते ।।
इति । तत्र प्रथमं धातुना ऽभिहितापायविषयं । द्वितीयं ( 1 ) ( 1 ) धात्वर्थाङ्गार्थत्वेन ।
धात्वन्तरार्थत्वेनाभिहितापायविषयम् । तृतीयं तु सामर्थ्यादिना प्रतीयमानापायविषयम् ( भवतस्तस्मादागच्छति । भवतो मेघाद्विद्योतते विद्यत् ) अत्र नि:सरणाङ्गे विद्योतने विद्युतिर्वर्त्तते ( भवतस्तस्मादाढ्यतर: ) अत्र प्रकर्षप्रत्ययसार्थ्याद्विभागकारणतया प्रकर्षलक्षणा क्रिया प्रतीयते, अत्रावधिविभक्तयोरेकीकारो विभागस्तद्धेतु रपकर्षणं च बौद्धम् । तथा चाह ।
बुद्धया समीहितैकत्वान् पञ्चालान् कुरुभिर्यदा ।
पुनर्विभजते वक्ता तदापाय: प्रतीयते ।।
इति । तत्रतत्र ङसीत्यनुवादार्थो ङकारेकारौ । विभागोपाय:, अस्मिन् साध्ये सद् ध्रुवमेतद्धेतुभूक्रियानाविष्टं तदपादानमिति सूत्रार्थ:। शेषविवक्षायाम्।। *षष्ठी शेष* अनभिहितइति शेष: । कर्मादिभ्यो ऽन्य: प्रातिपदिकार्थव्यतिरेकहेतु: स्वस्वामिसंबन्धादि: शेष: द्विष्ठोप्यसौ संबन्धो गुणभूतेन शब्देन प्रतिपाद्यत इति तस्मादेव षष्ठी न तु प्रधानात् ।
द्विष्ठोप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
इति । तथा वार्त्तिकमपि ( उक्तं पूर्वेण ) इति । अस्यार्थ: प्रातिपदिकार्थसूत्रे यद ( 1 ) ( 1 ) पदसामा ।
सामानाधिकरण्ये उपसंख्यातमधिकत्वादिति चोद्यस्य न वाक्यार्थत्वादिति सामानाधिकरण्यप्रतीतेर्वाक्यार्थत्वेन पदसंस्कारवेलायामभावात् प्रातिपदिकार्थनिबन्धना प्रथमा यथा भवत्येवमत्रापिप्रधानगतसंबन्धप्रतीतेर्वाक्यार्थत्वेन पदसंस्कारवेलायामभावान्न प्रसङ्ग: षष्टया इति, परिहारभाष्यं चार्थरूपमेवैतदेवंजतीयकमिति ( भवतो ऽस्य स्वं, भवतोरनयो:, भवतामेषाम् । )अधिकरणविवक्षायाम् ।। ""सतम्यधिकरणे च चकाराद् दूरान्तिकार्थेभ्यश्च ।। *आधारोधिकरणम्* ।। कर्तृकर्मणो: क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आश्चारस्तत्कारकमधिकरणम् । त्रिविधं चैतत् । यदाह,
कर्तकर्मव्यविहितामसाक्षाद् धारयत क्रियाम् ।
उपकुर्वन् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ।
औपश्लेषिकमेकं स्यात्तथा वैषयिकं परम् ।
अभिव्यापकमित्येतत्?ित्रधाधिकरणं मतम् ।।
आस्ते कटे शकुन्त: खे तिले तैलं व्यवस्थितम् ।।
क्रणेणाधारभेदानामुदाहरणदर्शनम् ।।
इति ( भवति कटे शेते । मेघच्छन्ने भवति खेबलाका । भवति तिलं तैले, भवतोरनय:, भवत्स्वेषु ) प्रथासामानाधिकरण्ये प्रथमासामानाधिकरण्याभावे च ""नन्वोर्विभाषा इत्यतो विभाषनुवृत्तेर्विकल्पेन भवत: ।। ""प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।। भवत्रयम् । ""हल्ड्याब्भ्य इति सुलोप: । तकारस्य संयोगान्तलोप: । तस्यासिद्धत्वात् ""न लोप: प्रातिपदिकान्तस्य इति विधीयमानो नलोपो न भवति । ( भवन्तौ ( 2 ) ( 2 ) न्तौ । भवन्तस्ते ।
। भवन्त: ) जसो जकारो ऽसन्देहेन विभक्तिस्वरूपप्रतिपत्त्यर्थ: । ( भवत्तर: । भवत्तम: भवद्रूप:: । भवत्कल्प:)
इत्यादौ तरबादिविधिवत् । ( भवत्क: ) । ""प्रागिवात्क: । ""इवे प्रतिकृतौ इत्यत: प्रागित: परेष्वजातादिष्वर्थेषु द्योत्येषु क: प्रातिपदिकादिति ( क्क )तद्धितत्वान्न ककारस्येत्त्वम् । शत्रभावे भवतीत्यादि पूर्वमुक्तमेव । अत्र तिड:स्थानिवत्त्वेन लत्वाच्छत्रादेशो न भवति, वाग्रहणस्य व्यवस्थितविभाषाविज्ञानात् । यदि हि स्यात्स्यानिवद्भावेन तिडन्तादस्माच्च तरप् किमेत्तिङठ्य इत्याम्स्यात् । ततश्च भवत्तरामिति तृतीयं रूपं स्यात् । असामानाधिकरण्ये खलवपि भवत इदं ( भावतम् ) *तस्येदम्* षष्ठीसमर्थाद् ड्यापप्रातिपदिकात्संबन्धिन्यथेऽणिति अण् । *तद्धिते ष्वचामादे:*इति वृद्भि: ?ञिति णिति तद्धिते
परेऽङ्गस्याचामदेरचो वृद्धिरिति । इयं च *अत उपधाया* उपधाया* इति ?ञिति णिति प्रत्ययमात्रे परे ऽङ्गस्योपधाया अतो विधीयमानां वृद्धिमपवादत्वाद्वाधते । न च भवत इत्यस्य देवदत्तादिविशेषापेक्षत्वादस्तीहापि सामानाधिकरण्यमिति वाच्यम् । तर्हि सापेक्षत्वादस्मात्प्रत्यय एव न स्यात् । *समर्थपदविधि:*इतीह शास्त्रे पदविधि: समर्थपदाश्रय इत्युक्तत्वात् । इदमप्युदाहरणं, ( भवतो भक्तिर्भवद्भक्तिरिति )। *षष्टह* षष्टयन्तं समर्थेन सुबन्तेन वा समस्यत इति समास: । *सुपो धातुप्रातिपदिकयो:* इति तद्धितान्तसमासप्रातिपदिकयोरन्तर्भृ तस्य सुपो लुक् । अत्र के चिल्लडिति वर्त्तमाने ""लट: शतृशानचौ इति पुनर्लहग्रहणाद् ""नन्वोर्विभाषा इति भूते विहितस्यापि लटोप्येतावादेशौ भवत इति । एतद्भाष्यवार्तियोर्नोक्तं वृत्तिकारस्य च नेष्टम् । यदाह लडितिवर्त्तमाने पुनर्लइग्रहणात् क्कचित् प्रथमासामानाधिकरण्येपि भवतीति ।। *संबोधने* च शतृशानचाविशि शेष: । आभिमुख्यकरणं संबोधनम्, तच्च स्वभावात्कचित् कार्येविलियोगार्थम् । यदाह ।
सिद्धस्याभिमुखीभावमात्रं संबोधनं विदु: ।
प्राप्ताभिमुख्ज्ञृयो ह्मर्थाऽत्मा क्रियायां विनियुज्यते ।।
इति । हे सुखमनुभवन्नर्थस्य *लक्षहेत्वो: क्रियाया:* लक्षणं चिन्हं, हेतु: कारणं. क्रियाया लक्षणहेत्वोर्वर्तमानाद्धातोर्लट: शतृशानचौस्याताम्, ( शयनमुनभवन् यवनो भुङ्क्ते ) अत्र शयननुभवनं यवनभोजनस्योपलक्षणं, शुरूषुर्भवन्विद्यामधिगच्छति, अत्रापि शुश्रुषाभवनं विद्याधिगमस्य हेतु: । योगद्वयमिदं प्रथमासमानाधिकरेणे नित्यार्थम् । प्रथमा च ""संबोधने च इति संबोधनाधिकप्रातिपदिकार्थे विहिता *माङ्याक्रोशे* आक्रोश: शपनम् । अस्मिन् गम्यमाने माङ्युपपदे शतृशानचौ भवत: ( मा भवन् )""माङि लुङ इति प्राप्ते अस्मादेवादेशवचनाल्लडनुमीयते । सुखमनुभवन्नित्यादौ ""कर्तृकर्मयो: कृति इत्यनयो: कृद्योगे विधीयमाना षष्ठी न भवति, *न लोकाव्ययनिष्ठाखलर्थतृनाम्* इति लादियोगे प्रतिषेधात् । ल इति शतृशानचौ कानच् क्कसुकिकिनौ चोच्यन्ते । उ इत्युवर्णान्ता:, उ:, इच्छु:,उक: प्रत्यय एव । अव्यय इति ""कृन्मेजन्त: । ""क्त्वातोसुन्कसुन इति उक्ता अव्ययकृत: ।""क्तक्तवतू निष्ठा । खलर्थ: खल् युच् तृन्निति ""पूङ्यजो: शानन् इति शानन्नादय ""तृन् इति तृन्पर्यन्ता: प्रत्याहारेणोक्ता: । प्रत्याहारश्च ""जट: शतृ इति तृशब्दस्य तृनो नकारेण । सुखस्यानुभवन्निति प्रयोग: शेषलक्षणषष्ट्या, अत्र पष्ठीसमास: *पूरणगुणसहितार्थसदव्ययतव्यसमानाधिकरणेन* इति पूरणादिभि: षष्ठीसमासो न भवति तत्र पूरणा इति पूरणप्रत्ययान्ता: । गुण इति गुणद्वारेण गुणिनि वर्त्तितुं शक्ता गुणुणिनिष्ठाशुक्लादय:, ये तु गुणं स्वनिष्ठतयैवाभिदधति ते रसादयस्तत्स्थैश्च गुणै: षष्ठी समास्यत इति तै: समास उक्त: । सुहितार्थास्त्यर्था: । सदिति *तौ सत्* इति सत्संज्ञो शतृशानचौ । अव्यया उक्ता: । तव्यो न सानुबन्धक: । निरनुबन्धकग्रहणेन सानुबन्धकस्येति । समानाधिकरणमेकविभक्त्यन्तं विशेषणं विशेष्यं च ।
अथ शत्रन्तात्स्रीप्रत्यया इह प्रदर्श्यन्ते । *उगितश्च* । यत्प्रातिपदिकमवयवद्वारेण साक्षाद्वोगित् ""येन विधिस्तदन्तस्य इति तदन्तात्, व्यपदेशिवद्भावेव केवलाच्च प्रातिपदिकात् स्त्रियां तदन्तविधिर्न' "व्यपदेशिवद्भावो ऽप्रातिपदिकेन' इति परिभाषे प्रातिपदिकस्य स्वरूपग्रहणेन प्रत्ययविधिविषये इति नेह स्त: । ङीबन्तस्य *यु स्त्र्याख्यौ नदी* । अन्?यानपेक्षया स्त्रियां वृत्तमीवदूदन्तं नदी, नदीत्वे *शप्श्यनोर्नित्यम्* शप्श्योर्निमित्तत्वेन सबन्धिन:शतुर्नित्यं नुम् शीनद्यो: परयो:, नुम् मित्त्वादन्त्यादच: पर: । इह नदीशब्दो नद्यवयवे वत्ततं इति शतुर्नदीपरत्वम् । ( भवन्ती । अतिभवन्ती ) ङयन्तत्वातस्वादिषु सोर्हल्ङयादि लोप: ।
( भवन्त्यौ । भवन्त्य: ) अजादौ ""इको यणचि इति संहितायां यण् भवति । *प्रथमयो: *इत्यक: प्रथमाद्वितीययोरजादौ विभक्तौ परत: पूर्वपरयो:पूर्वसवर्णदीर्घ: । एकहत्येतदत्र न भवति, ""दीर्घाज्जसि च"' इति निषेधाच् चकारादिज् गृह्मते । ( हे भवन्ति ) । *अम्बार्थनद्योर्हस्व:* इति हस्व: । अम्बार्थां ""एङ्ह्रस्वात्संबुद्धे: इति संबुद्धेर्हलो लोप: ।। *एकवचनं संबुद्धि:* संबोधने प्रथमाया इति शेष: । ( भवन्तीम् )
( 1 ) ( 1 ) भवन्ती ।
अत्र ""अमि पूर्व: पूर्वसवर्णदीर्घश्च यणं बाधेते । ङिद्वचेनषु *आण् नद्या:* इति टित्त्वादादौगमे ""आटश्च
इति ययायोगमैकार औकारश्च वृद्धि: । ( भवन्त्यौ, भवन्त्य: ) । आमि ""हस्वनद्यापो नुट् इति नुट् टित्त्वादौ, ( भवन्तीनाम् ) सप्तम्येकवचनस्य ""डेराम्नद्याम्नीभ्य: इत्यामादेशे । ( भवन्त्याम् )। नीशब्देन तदन्तो ग्रामण्यादिरुच्यतते । ( भवन्तितरा भवन्तीतरा ) पूर्दवत्तरप् । *अत्र घरूपकल्पेचलङ्ब्रुवगोत्रमतहतेषु उ.योनेकाचो ह्रस्व:* इति घ्रूदिषु परेषु ङयन्तस्यानेकाचो विधीयमानो नित्यो हस्व: *उगितश्च* इत्युगित: परस्या नद्या उच्यमानेन हस्वविकल्पेन बाध्ये, अत्र घादय: प्रत्ययाश्चेलडादीनि प्रातिपदिकानि । अत्र हरदत्त: । चेलडादीनां वृत्तिविषये कुत्सनवचनत्त्वात् तै: ""कुत्सितानि कुत्सनै: इति समास इति । न्यासकारस्तु चेलङ्ब्रुवगोत्राणामेवं समासमुक्त्वा मतहताभ्यां तु ""विशेषणं विशष्येण इत्याह । एदं तमबादिष्वप्युदाहार्यम्।।
अथ नपुंसकप्रक्रिया ।। ( भवत् ब्राह्मणकुलं तिष्टति पश्येति वा ) ""स्वमोर्नपुं सकात् इति इति लुक् । ( भवन्तो कुले ) ""नपुंसकाच्च त्त्यौड: शीभाव: । औङिति प्रयमाद्वितीययोर्द्विवचनस्य पूर्वाचार्यसंज्ञा । शकार: ""शीनद्यो: इति निर्देशार्था: । ""शप्श्यनो: इति नित्यं नुमागम: । ( भवन्ति कुलानि )। *जश्शसो: शि:*जश्शसो: शि:* इति नपुंसकाङ्गात्परत्वे जश्शसो: शिरादेश: । शकार: शीति तत्रानुवादार्थ: । ""शि सर्वनावस्थानम् इति शे: सर्वनामस्थानत्वे । *नपुंसकस्य ज्ञलच:* इति ज्ञलन्तस्याजन्तस्य नपुंसकाङ्गस्य सर्वनामस्थाने नुमिति नुम् । भवतेत्यादि पुंल्लिङ्गचत् ।
अथ शानच् ।। ( व्यतिभावमान: ) ""आने मुक्""आने मुक् इत्यदन्तस्यानपरत्वेन मुक्कित्त्वादत्य: ।
( व्यतिभवमानौ ) ""प्रयमयो: पूर्वसवर्णदीर्धस्य ""नादिचि इति निषेधे ""वृद्धिरेचि इति वृद्धि:, (व्यतिभवमानात् )
। *तस्माच्छसो न: पुंसि* इति तस्मात्प्रथमयो: पूर्वसवर्णदीर्घात् परस्य शस: सकारस्य न इति नकारादेश: ( व्यतिभवमानेन )।। *टाङसिङसामिनात्स्या:* ।। अदन्तादङ्गात्परेषां टादीनां यथासंख्यमिनादय इति इनादेशे गुण: ( व्यतिभवमानाभ्यम् ) *सुपि च* इत्यदन्ताङगस्य दीर्घं इति सुप्परत्वाहीर्घ: । ( व्यतिभवमानै: ) *अतो भिस ऐस्* इत्यदन्ताङ्गात्परत्वेन भिस ऐसादेश: । ( व्यतिभवमानाय )*ङेर्य:* इत्यदन्तादङ्गात्परत्वेन यादेश: । ""कष्टय इति निर्देशात्सन्निपातपरिभाषाया अनित्यत्वात् ""सुपि दीर्ध: ( व्यतिभवमानेभ्य: ) । अत्र ज्ञलदिबहुवचनसुप्परादन्ताङ्गत्वेन"" बहुवचने ज्ञल्येत्इति दोर्घश्च प्राप्नोति, तत्र *विप्रतिषेधे परे कार्यम्* द्वयोस्तुल्यबलविरोधे परस्य प्राप्यमाणत्वात्परमेत्वं प्रवर्त्तते । ( व्यतिभवमानात् । व्यतिभवमानस्य ) ""टाङसि इत्यादिना ङसिसोरात्स्यौ । ( व्यभिवमानयो: ) *ओसि च*इत्यदन्तस्याङ्गस्यौस्परत्वेनैकारे ऽयादेश: । ( व्यतिभवमानाम् )""हस्वनद्यापो नुट् इति हस्वान्तस्याङ्गस्य नाम्परत्वेन ""नामि इति दीर्घ: । ""सुपि च इत्येव वा, ( व्यतिभवमाने ) । ""आद्गुण: । ( व्यतिभवमानेषु ) एत्वे षत्वं, व्यतिभमानस्येदं ( व्यतिभवमानम्) । अत्रासामानधिकरण्ये शानच् *तस्येदं* इत्यण्यादिवृद्धि: । *न य्वाभ्यं पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्* इति पदान्ताभ्यां यकारवकाराभ्यां परस्याचामादेरचो वृद्धिर्न भवति किं तु ताभ्यं पूवमैत् ( 1 ) ( 1 ) यथासंख्यमैजागमो ।
भवति तद्धिते ञ्णिति किति वा पर इत्येतस्य ""न कर्मव्यतिहारे इति निषेध: ।
अथ स्त्रियाम् ।। ( व्यतिभवमाना ) ।। *अजाद्यतष्टाप्* ।। अजादिगणपठितादकारान्ताच्च प्रातिपदिकात् स्त्रियां टाबिति टाप् । पकार: समान्यग्रहणार्थ:, टकारस्तदविघातार्थ: अत्र शानच: स्थानिवत्त्वेन टित्त्वात् *टिङ्ढाणञ्द्वयसज्दघ्रञ्मात्रचतयप्ठक्ठञ्कञ्क्करप् ( 2 ) ( 2 ) ख्युनामिति क्वचिनास्ति ।
ख्युनाम्* इति यथा कथं चित् टित: प्रातिपदिकाङ्ढाद्यन्ताच्चानुपसर्जनात् स्त्रियां विधीयमानोङीप्, ट एव इद् यस्य स टिदित्यवधारणस्याश्रयणाल्लटश्च द्व्यनुबन्धकत्वान्न भवति, सामगीत्यादौ टको ऽनेकानुबन्धकत्वेऽपि टित्त्वसामथर्यात् ङीप्, लटस्तु टित्त्वमेत्वाद्यर्थतया सावलाशम् । हल्ङ्यादिना सुलोप: । ( व्यतिभवमाने ) ""औङ आप: इत्याप: परत्वेनौङ: शीभावे गुण: । ईकारप्रत्ययपरत्वेन ""यस्य इति लोपो न भवति । ["औङ: श्यां परे प्रतिषेध: ] इति निषेधात् । ( व्यतिभवमाना: ) । ""ओसि च ( व्यतिभवमानायै ) । *यादाप:* इति आप: परस्य ङिद्वचनस्य याडागम?ष्टित्त्वादादि: । ""वृद्धिरेचि इति वृद्धि: । ( व्यतिभवमानाया: ) । ""जश्शसो: शि: ।। ""नपुंसकस्य ज्ञलच: इति नुम् । *सर्वनामस्थाने चासंबुद्धौ* इति नान्तस्याङ्गस्योपधाया दीर्घ: । हे व्यतिभवमानेत्यत्र ""इत्यम् भावेऽमि पूर्वत्वे ""एङ्हृ स्वात् इति संबुद्धेर्हलो मकारस्य लोप: ।
तृतीयादि पुंलिङ्गवत् । *लृट: सद्वा* इति लट इव लृटोपि शतृशानचोर्विधानाद्भविष्यन्नित्यादिलड्वत् सर्वमुदाहार्यम् । तत्र स्त्रियां नपुंसके द्विवचने च*आच्छीनद्योर्नुम्* इति नुम्विकल्पो विशेष: । अत्रानुवृत्तं शतृग्रहणं स्वावयवे वर्त्तते । तेनावर्णान्तादङ्गात् परो य: शत्रवयवस्तदन्तस्याङ्गस्य शीनद्यो: परयोर्वा नुमिति सूत्रार्थ:, अथ वाऽवर्णान्तादङ्गात् शीनद्यो: परयो: शत्रन्तस्य वा नुमिति । तत्र येन नाव्यवधानमितितकारेण व्यवधानमाश्रयिष्यते, अवर्णान्ताङ्गात्परो य: शता तदन्तस्याङ्गस्येति सूत्रार्थो नोक्त: । अङ्गान्तस्य शत्रवयवस्य चान्तरङ्गत्वान्नुम: पूर्वमेकादेशे व्यपवर्गाभावादवर्णान्ताङ्गात्परस्य शतुरसंभावात् । न चान्तादिवब्भाव: "उभयत आश्रये नान्तादिवत्' इति निषेधात् ,भूतपूर्वगत्याश्रयणे तु लुग्विकरणादावदीयी घ्रतीत्यादावपा स्यात् । ( व्यतिभविष्यमाण ) इत्यादौ *अट्कुप्वाङ्नुम्व्यवायेऽपि* इति णत्वम् । अडादिभिव्य्रवायेपि रषाभ्यां परस्य समानपदस्थस्य नो ण इति सूत्रार्थ: । भविष्यन्नित्यतु""पदान्ततस्य इति निषेधान्न भवति ।।
अथ सनादय: प्रर्श्यन्ते ।। *धातो: कर्मण: समानकर्तृकादिच्छायां वा* ।। यो धातुरीषिकर्म समानकर्तृकश्चार्थद्वारेण तस्मादिच्छायां वा सन् स्यात्, नकारो निर्देशाद्यर्थ: ।। *सनि ग्रहगुहोश्च* ।। ग्रहिगुहिभ्यामुगन्तादेकाचश्च परस्य यनो नेडितीड्निषेध:। *इको ज्ञल्* इति उगन्ताद्धातो: परस्य ज्ञलादे: सन: कित्वान्न गुण: सन्यङो एतदन्तस्य प्रथमैकाचो द्वे भवतोऽजादेस्तु द्वितीयस्येति द्वित्वेऽभ्यासकार्यम् । *सनाद्यन्ता धातव* इति सनादिणिङ्पर्यंन्तानां प्रत्ययन्तानां धातुत्वात्पूर्ववलादिषु तिबादय: । बुभूषतीत्यादि । लिटिं कासप्रत्ययान्ताच्च धातोर्लिटिपर आम्प्रत्यय इत्याम् । अकारो मकारपरित्राणाय । सूत्रे त्वत एव निर्देशात्परस्पम् । ""अतोलोप:आर्द्ध धातुक इति सनो1़कारस्य लोप:।""आम इत्याम: परस्य लेर्लुक्। प्रत्ययलक्षणत्वेन कृदन्तात्वादुत्पन्नस्य सुप: स्वारदिष्वामिति पाठदव्ययतृवाल्लुक् । तत्र यद्यामा साहचर्यादमपि तद्धित एवेतृयुच्यते तह्रि ""आमइत्येव लुग्भाविष्यति । लिङ्ग्रहणं तुलत्र ?निवर्त्तिष्यते । अत्रामन्तस्याव्यक्तपदार्थक्त्वात्पदत्वाय प्रथमातिक्रमे कारणाभावात्सुरेवोत्पद्यते तस्य हल्ङ्यादिलोप:। सिद्ध इति किं लुको विधानेतेति । यदा तु प्रयोगवशाद् द्वित्वाद्यभिव्यक्तौ द्विवचनाद्युत्पद्यते तदर्थं लुगेषितव्य: ।। *कृञ् चानुप्रसयुज्यते लिटि* ।। आमन्तस्य पश्चादेवाव्यवहिता एव कृभ्वस्तय एव लिट्परा: प्रयोक्तव्या: बत्र "" अभूततद्भावे कृभ्वस्ति: इतिकृशब्दस्य कृञा द्वितीयेति ञकारेण प्रत्याहारनिर्देशात् कृञिति कृभ्वस्तय उच्यन्ते । ( बुभुषां चकार )बुभूषां बभूव अत्र *मोनुस्वार:* । परसवर्णविकल्पो भ्?ावति । अनस्वार: पक्ष उदाहार्य: । ""आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य इत्यत्र पूर्ववदित्यनुवृत्त्या पूर्ववत् कृञोऽनुप्रयोगस्येति द्वितीयोऽपि योग: संपद्यते । तत्राद्य आम्प्रत्ययप्रकृतेरिवाकर्त्रभिप्रायेप्युनुप्रयुज्यमानस्य कृञ आत्मनेपदं प्रकरणिकं विधत्तं । द्वितीये त्वर्थात् पूर्वस्येव कर्त्रस्येव कर्त्रभिप्राये परस्मैपदमित्यत्र आम्प्रकृते: शेषत्वेन नित्यपरस्मैपदित्वात् कुञोऽपि परस्मैपदमेव । इदमेव कृञ् ग्रहणमनुयोगे कृञिति प्रत्याहारण्ह?णमिति ज्ञापयति । अन्?यथाऽनुप्रयोगस्येत्त्येव ब्रूयात् । ( बुभुषामास ) अत्र ""अस्तेर्भू: इत्यार्द्धधातुके विषये विधीयमानो भूभावोऽनुप्रयोगे प्रत्याहारग्रहणसामर्थ्यादत्र भवति अन्यथा प्रतिपत्तिलाघवाय कृभ्वित्येव ब्रूयात् । ( बुभषिता )इट्यतो लोपो गुणं परत्वाद् वार्णादाङ्गमिति वा बाधते । ( बुभूष्यति ) बुभूषतु । अवुभृषत् । बुभूषेत् । आशिषि ( बुभूष्यात् ) ""अतो येय: न भवति, आर्द्धधातुकत्वात् । अत्र अकृत्सार्वधातुकयोदीर्ध:*इति अकृद्यकारेऽसार्वधातुके च परेऽजन्तस्याङ्गस्य विधीयमानो दीर्घो [ सिज्लोप एकादेशे सिद्धो वक्तव्य: ] इति सिज्लोपस्य पूर्वत्रासिद्धत्वाभावात्सवर्णदीर्घ: । ( अबुभूषिषु: )। ""सिजभ्यस्त
अथात्मनेपदम् ।। ( व्यतिबुभूषां चक्रे ) । ""आम्प्रत्ययवत् इति नित्यस्तङ् कृञ: । ( व्यतिबुभूषां बभूव । आसेति वा । व्यतिबुभूषिष्यते । व्यतिबुभूषिषीष्ट व्यत्यबुभूषिष्यत ) सर्वत्र *पूर्ववत्सन:* इति तङ् । सन: पूर्वो धातुर्येन निमित्तेनात्मनेपदी सन्नन्तमपि तेनेव तथेत्यर्थ: ।।
अथ भावकर्मणो: ।। ( बुभूष्यते त्वया अनुबुभूष्यते सुखम् ) । बुभूषां चक्रे भवता । अनुबुभूषां चक्रे सुखम् । बुभूषामास इति वा ) इहानुप्रयुज्यमानस्थामन्तार्थाभिव्यक्तिमात्रकरत्वात् करोतेर्श्रावे, इतराभ्यामर्ककत्वाद् भाव उपपद्यते । प्रयुज्यते चैवं "रोमन्थमन्?थरचलद्गुरुसास्नमासां चक्रे?
निमीलदलसेक्षणमौक्षेण' । "प्रकाशेनाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्न रेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षां बभूव' इति । *ह एति* इत्यस्तेर्हत्वं तासिसाहचर्यात्सार्वधातुकोत्तमैकवचने एवेतीह ""लिटस्तज्ञयो इति तशद्वस्यैशीटश्चैत्वे न भवतीति । के चित्तु तासेरुमत्तमैकवचनमेकार: संभवतीत्येतावन्मात्रसाहचर्याश्रयेण लिहुत्तमैकवचनेपि इत्वमिच्छन्ति । तत्र साहचर्यसंकोचे कारणं न विज्ञ: । लृङ्लृटोराशीर्लिङि लुङि च कर्तृवदेव रूपम् । न च चिण्वदिटि वृद्धौ च *जतो युक् चिण्कृतो:* इत्याकारान्तस्य चिणि ञ्णिति कृति च परे युको विधानाद्रपभेदप्रसङ्ग:, "ण्यल्लोपो' इत्यादिना वृद्धेरतो लोपेन बाधस्योक्तत्वात् । लुङेकवचने तु चिणो विधानात् तत्राबुभूषीति विशेष: । तथा लोटि लङि विध्यादिलिङि कर्तृवत् प्रक्रिया । यक् तु विशेष: कर्मकर्त्तरि [ भूषाकर्मकिरादिसनां चोपसंख्यानमन्यत्रात्मनेपदात् ] इति यक्चिणोर्निषेधात्सर्वत्र कर्तृवद्रपम् । वत्करणात्स्वाश्रये भावे लकारे यक्चिणोविंषये कर्मवद्रपम् , कर्त्तरि तृतीया विशेष: । ( अभिबुभूष्यते शत्रुणा स्वयमेवेत्यादि ) । इच्छाया: कर्तृस्थत्वेन कर्मस्थत्वाभावेऽपीष्यमाणस्य प्राधान्यात्तस्य च कर्मस्थत्वादस्ति कर्मवद्भाव: । अत एव ""भूषाकर्म इति यकचिणौ निषिध्येते ।।
अथ यङ् ।। *धातोरेकाचो हलादे: क्रियासमभिहारे यङ्* ।। पौन: पुन्यं भूशार्थां वा क्रियायां समभिहारस्तत्र द्योत्ये एवं विधाद्धातोर्यङ् स्यात् ।' द्विर्वचनादि पूर्ववत् ।। *गुणो यङ्लुको:* ।। यङ्लुकि चाभ्यासस्येको गुण इति गुण: । ( बोभूयते ) । ""अनुदात्तङित इत्यादिना ऽऽत्मनेपदम् । यङो ङकारस्य गुणप्रतिषेधार्थत्वेनावयवे चरितार्थत्वान्न समुदायार्थत्वमिति यङन्तस्य धातोरङित्त्वात्कथमात्मनेपदमिति नाशङ्कयम्, तत्र धातुग्रहणाभावात् ङिन्मात्रात्परस्य तस्य तद्विधे: । अनुदात्तेतो ये धातवो ङितश्चेति प्रायिकाभिप्रायं वृत्तिकारवचनम् । अथ वा ""ङितश्च इत्यत्र शब्दादित्यध्याहार्यम् । अत एवानुदात्तेतो ङितश्च ये धातव इति नोक्तम् । चङ्दिष्वतिप्रसङ्गपरिहारस्तत्र तत्र वक्ष्यते ( बोभूय्यते त्वया । अनुबोभूय्यते सुखमित्यादि )सनन्तवत्प्रक्रिया । कर्मवत्कर्मकतां । लुङि तशब्दे ""अच:कर्मकर्तरि इति चिणो विकल्पनात्पक्षे सिजपि भवति । तेन ( अभ्यबोभूयि शत्रु: स्वयमेव, अभ्यभूष्ट इति च ) वत्करणाद्भावे लकारे नित्यं चिणेव । अभ्यबोभूयि शत्रुणा स्वयमेवेति ।।
अथ यङ्लुक् ।। *यङोऽचि* च ।। यङोचि प्रत्यये नित्यं लुक् । चकारेण बहुलग्रहणानुकर्षणादयं विकल्पेनानैमित्तिकोऽपि । प्रत्ययलक्षणेन यङन्तत्वाद्धातुत्वे लडादि । द्विर्वंचनम् । आत्मनेपदं तु ङिन्मात्रात्तद्विधे: प्रत्ययलक्षणत्वाभावान्न भवति। [ चर्करीतं परस्मैपदि अदादिवच्च ] इति वच नाद् *अदिप्रभृतिभ्य: शप:* । इत्यदादिभ्य उत्तरस्य शपो विधीयमानो लुग्यङ्गन्तेऽपि भवति । चर्करीतमिति यङ्लुगन्तस्य पूर्वाचार्यव्यपदेश: । अत्र परस्मैपदीयानुवादोन विधिरित्याहु: ।। *यङोवा* इति यङ्लुगन्तात्परस्य हलादे: पित: सार्वधातुकस्य वा ईडागम: ( बोभवीति । बोभोति ) । ""भूसुवोस्तिङि इति गुणनिषेधोत्र न भवति ""दाधार्त्ति सूत्रे बोभू त्विति ( 1 ) छन्दसि ।
गुणाभावार्थान्निपातनाज् ज्ञापकात् । इदमेव "प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्'इत्यत्रज्ञापकम् । ( बोभूत: । बोभुवति ) ।। *अदभ्यस्तात्* ।। अभ्यस्तादङ्गात्परस्य प्रत्ययादेर्ज्ञकारस्यादित्यदादेशे उवङादेश: ।। *उभे अभ्यस्तम्* ।। अस्मिन्प्रकरणे ये द्वे विहिते ते उभे अपि समुदिते अभ्यस्तम् । तथा *जक्षित्यादय:षड्* इति । जक्ष एतदादयो जागृ दरिद्रा शास दीङ् वेवीङ् चकास् । ( बोभवां चकार ) पूर्ववत् कृञोनुप्रयोगस्येति कृञो नित्यं परस्मैपदम् । ( बोभविता । बोभविष्यति । बोभवोतु । बोभोतु ) ( बोभूतात् ) इत्यत्र च ङिदित्यादित्यनुवृत्तेस्तस्य च श्रूयमाणस्य पितश्चोद्देश्योपादेयत्व्ययेन पिन्न ङित् ?ङिन्न पिदित्यर्थद्वयस्य भाष्ये समाश्रयणात्तातड: स्थानिवत्त्वप्राप्तं पित्त्वं ङित्त्वेनानवकाशेन निवार्यत इति ईडभाव: ( बोभूहि ) ""सेर्ह्मपिच्च इति पित्त्वनिषेधादीङ्गुणौ न भवत: । ( बोभूवानि । बोभवाव ) । आहुतृतमस्य पित्त्वात् उवङ् बाधित्वा परत्वाद्गुणो भवति । अहलादित्वादीडभाव: । ( अबोभवीतत् । अबोभोत् । अबोभूताम् । अबोभवु: ) ""सिजभ्यस्त इति जुसि ""जुसि च इतीगन्तस्य गुण: । ( बोभूयात् ) यासुटो ङित्त्वेन पित्त्वस्य निवर्त्तनादीटोभाव: । आशिषि त्वसार्वधातुक्वेन लिङ: सलोपभावो विशेष: । बोभूयुरित्यत्र जुस्भावे ""उस्यपदान्तात् इति पररूपत्वम् । यासुटो जुस्भक्तत्वेन ""जुसि इतिगुणोत्र न भवति, येन नाप्राप्तिन्यायेन
""सार्वधातुकमपित् इत्यदिष्टङित्त्वाश्रस्य निषेधस्यैव तेन बाधात्, तत्र ""क्सस्याचि इत्यतोचीत्यधिकारादजादौ जुसि तद्विधाद्वा ( अबोभोत् । अबोभूवीत् । अबोभूताम् । अबोभूवन् )। ""गातिस्थ इति सिचो लुक्""यडो वा इतीटो विकल्प: । सिच: प्रत्ययलक्षणेन ""अस्तिसिचो इति नित्यस्तु न भवतिश्रूयमाणे सिचीत्युक्तत्वात् । ईट्पक्षे ""भुवो वुग् इत्यजादिलक्षणो वुङ्नित्यत्वाद्गुणं बाधते । अबोभूवन्नित्यत्र सिच: प्रत्ययलक्षणेन ""सिजभ्यस्त इति जुसभाव: ""आत इति नियमान्न भवति । अभ्यस्ताश्रयस्तु विदिसाहचर्याल्लङ्विषयोपि स्यादिति वाच्यम् । ""विप्रतिषेधे परम् इति परसाहचर्यस्य बलीयस्त्वात् । अबोभविष्यदित्यादि ।।
अ थात्मनेपदम् ।। ( व्यतिबोभूते । व्यतिबोभुवाते ) । अजादावुवङ् । ( व्यतिबोभवांचक्रे । व्यतिबोभवां बभूव । ) ""आम्प्रत्ययवत् इति कृञो नित्यं तङ्। ( व्यतिबोभवितासे । व्यतिबोभवां बभूव । ) ""आम्प्रत्ययवत् इति कृञो नित्यं तङ् । ( व्यतिबोभवितासे । व्यतिबोभविष्यते । व्यतिबोभूताम् । व्यतिबोभुवाताम् ) अजादावुवङ् । उत्तमे पित्वाद् गुण: । ( व्यतिबोभुवीत । व्यतिबोभुवीयाताम् । व्य?तिबोभुवीय ) । पूर्ववदजादावुवङ् । आशिषि ( व्यतिबोभिविषीष्ट । आर्द्धधातुकत्वादिङ्गुणौ । ध्वमि ""विभाषेट: इति मूर्द्धन्यविकल्पो द्रष्टव्य: । व्यत्यबोभविष्ट । ध्वमि पूर्ववन्मूर्द्धन्यविकल्प:। ( व्यत्यबोविष्यत )भावकर्मणो: कर्मकर्त्तरि च ( बोभूयते त्वयेत्यादि ) सर्वं प्रकृतिवन्नेयम्,अभ्यास एको विशेष: ।।
अथ सत् । ( बोभुवद् ब्राह्मण: ) उगिल्ल्क्षणो नुम् ""नाभ्यस्तात् इति निषिध्यते ( बोभुवती स्त्री । बोभुवती ( 1 ) ( 1 ) ब्राह्मण ।
कुले ) स्त्रियां नपुंसकद्विचनयोश्च नित्यत्वादन्तरङ्गत्वाच्च नुम: पूर्वं शपो लुवयङ्गस्यानवर्णान्तत्वात् ""आच्छीनद्यो: इति विकल्पितो नुम् भवति । नापि ""शप्श्यनो: इति नित्यस्तस्यावर्णात्परशतृविषत्वात् । न च प्रत्यलक्षणेनात्परत्वं, तस्याप्रत्ययलक्षणत्वात् । ( बोभुवति कुलानि बोभुवन्ति कुलानि ) इत्यत्र तु शौ ""नाभ्यस्तात् इति निषेधस्य ""वा नपुंसकस्य इति विकल्पनात् पक्षे नुम् भवति । ( व्यतिबोभुवान: ) लृडादेशस्य तु स्येन व्यवधानादभ्यस्तात्परत्वाभावात् ""नाभ्यस्तात् इति निषेधो न भवति । नापि ""नपुंसकस्य इति, सर्वं प्रकृतिवत् ।।
अथ णिच् ।। *हेतुमति च* ।। स्वतन्त्रस्य कर्तृ: प्रयोजको हेतु: तद्व्यापार:प्रेषणादिर्हेतुणिडो: सामान्यग्रहणाविघातार्थ:। सनाद्यन्तत्त्वाद्धातुत्वे लडादय: । तेषां *णिचश्च* इति क्रियाफलस्य कर्तृगामितृवे तङ् । अन्यथा तु परस्मैपदम् ( भावयते सस्यम्। भावयति सस्यम् । ) यदा तु फलस्य कर्तृगामित्वमुपपदेन प्रतीयते तदा ""विभाषोपपदेन प्रतीयमाने इति परस्मैपदमपि भवति,( स्वस्य सस्यं भावयतीति )। यदा चित्तवंत्कर्तृकादकर्मकादस्माण्णिच् तदा क्रियाफलस्य कर्तृगामित्वेपि ""अणावकर्मकाच्चित्तवत्कर्तृकात् इति परस्मैपदम् । ( पुत्रं भावयतीति ) विभाषोपपदादप्ययमेवविप्रतिषेधेन ( स्वं पुत्?त्रंभावयतीति ) *गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ* इत्यणौ कर्ता णौ कर्म । ( भांवयोचक्रे, चकार, बभूव, आस ) ""अयामन्ताल्वाय्येत्त्विणुषु' इति आ मादिषु विधीयमानो णरेयादेशो *णेरनिटि* इत्यनिडादावार्द्धधातुके विधीयमानं णिलोपमपवादृत्वाद्वधते । यदायं ण्यन्त: चित्तवत्कर्तृकत्वेन नित्यं परस्मैपदी तदा तु प्रयुक्त: करोतिरपि पूर्ववत् कृञोनुप्रयोगस्येति निन्नेन कल्पितेन योगेन परस्मैपद्येव । ( भावयिता ) इत्यादि प्रकृतिवत् । अगशीर्लिङि ""णेरनिटि इति णिलोप:, स च ""अकृत्सार्वधातुकयो: इति दीर्घं ण्यल्लोपावित्यादिना बाधत इति भाव्यादित्यादि भवति । आत्मनेपदे त्विडादित्वाण्णिलोपो नेति गुणायादेशयोर्भावयिषीष्टेत्यादि । ध्वमि ""विभाषेट: इति मूर्द्धन्यविकल्प: । लुङि ""णिश्रिद्रुस्त्रुभ्य:कर्तरि चङ् इति सिजपवादश्चङ्। चकारडकारौ विशेषणार्थौ, णिलोप: । *णौ चङयुपधाया हस्व:* इति चङ् परे णावङ्गस्योपधाया हस्व: । *चङि* इत्यनभ्यासस्य धातो: प्रथमस्यैकाचो ऽजादेस्तु द्वितीयस्येति द्विर्वचने कर्त्तव्ये णौ कृतं स्थानिवदिति रूपस्थानिवत्त्वे भूषब्दो भौशब्दो वा द्विरुच्यते । तत्र भौशब्दस्य द्विर्वचनपक्षेऽपि ""हस्व: इति भौशब्दस्य हस्वो भवत्येव । ""एचइग्ध्रस्वादेशे इति नियमादिग्भावान्नान्तरतम्यादुककार: । तस्य च *ओ: पुयण्ज्यपरे* इतीकार: । उवर्णान्तस्याभ्यासस्यावर्णपरे पवर्गे यणिजकारे च परत इकार इति सूत्रार्थ: । तस्य *दीर्घो लघो:* इति दीर्घ: । चङपरे णौ यदङ्गं तदभ्यासस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति
अनग्लेप इति सूत्रार्थ: । इदमेवेत्ववचनं णौ कृतस्य स्थानिवत्त्वे । अन्यथोवर्णान्ताभ्यासो न कश्चिदपि स्यात् । नन्वत्र *सन्वल्लघुनि चङ्परे ऽनग्लोप* इति चङ्परे णौ यदङ्ग तदभ्यासस्य लघुनि परेऽनग्लेपे सन्वत्कार्यातिदेशादित्वं सिद्धम्, सन्वत्कार्यं चेत्वमेव । *सन्यत:* इति सनि परेऽभ्यासाकारस्येत्वविधानात्किं णौ कृतस्य स्थानिवत्त्वेन येन पुयण्जीति वक्तव्यं स्यात्सत्यम्, अत्र सन्वद्भावेनापि सिद्धति, जुहावयिषतीत्यादावप्येवं स्यात् । ( अबीभवत् ) । नन्वत्र यङ इव चङो ङित्त्वेन तङ स्यादिति चेत्, न । विकरणात्पूर्व नियमाप्रवृत्ते: । अत्र च ज्ञापकं ""वृद्द्भ: स्यसनो: इति स्यसनोस्तङो विकल्पनम् । पूर्वं तु विकरणे तेन व्यवधानान्नानुदात्तेनानन्तरस्तङस्ति।नापि शेषादित्यात्मनेपदपरस्मैपदनियमयोरत्राप्रसङ्गादेवात्मनेपदपरस्मैपदयोर्लस्य इति सामान्येन लसिद्धे: किमनेन विकल्पवचेनन ।।
अथ कर्मणि ।। ण्यन्तस्य सकर्मकत्वाद्भावासंभव: । तत्र लट्लोलङविध्यादिलिडश्चु यकि विकरणे णिलोपे (?B भाव्यते । भाव्यताम् । अभाव्यत । भाव्येत इत्यादि )। अतो ऽन्येषु लुङ्व्यतिरिक्तेषु कर्तृवद्रपूम् । ुलङि तु र्करि चङो विधानात्सिजेव । तशब्दे तु चिणि ( अभावि । अभावयिषातामित्यादि )। तत्र चिणि णिलोप: । अन्यत्र गुणयादेशौ, घ्वमि ""विभाषेट इति मूर्द्धंन्यविकल्प: । स्यादिषु चिण्वदिट्पक्षे ""असिद्धवदत्राभात् इति चिण्वदिटो ऽसिद्धत्वाण्णिलोपे ( भाविष्यते । अभाविष्यत । अभाविषाताम्। भाविषीष्ट । भाविता ) इत्याद्यपिद्रष्टव्यम् । अत्रापि षीध्वंलुङोर्धकारस्य पूर्ववद्वा मूर्द्धन्य: । कर्मकर्त्तरि तु यक्चिणो: प्रतिषेधे [ णिश्रन्थिग्रन्धिब्रुञात्मनेपदाकर्मकाणामुपसङ्ख्यानम् ] इति यक्चिणोर्निषेधाद्यथायोगं सर्वत्रकर्तृवद्रपं स्यादिषु तु कर्मवत् । वतृकरणाद्भावे तु ( 1 )( 1 ) लकारे ।
कर्मवदुदाहार्यं, कर्त्तरि तृतीया विशेष: । णिश्रन्थाति यक्चिणोर्निषेध: कर्मकर्त्तरीति लस्य ( 2 ) एव ।। ( 2 )
इहस्त एव इति कचित्पाठ: ।
अथ कृत: प्रदर्श्यन्ते ।। भव्यं भवता । अनुभव्यो घट: । ""अचोयत् इति यत् । अयं ""कर्त्तरि कृत् इति कर्त्तरि प्राप्तोऽपि *कृत्या: प्राङ् ण्वुल:* ।। इति तव्यादीनां ण्वुल: प्राचांकृत्यसंज्ञाविधानात् ""तयोरेव कृत्यक्तखलर्या: इति भावकर्मणोर्नियम्यते । ""भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा इतिनिपातनात् कर्तरि अपि भवति । अत्र वाग्रहणात् ""तयोरेव इति सामान्यस्य बाधां विज्ञापयति । उदाहरणेषु गुणे ""वान्तो यि प्रत्ययेइत्यवादेश: । अत्र वान्त इति पूर्वसूत्रनिर्द्दिष्टाववावुच्येते, तौ च तत्र यथासंख्यादोदौतोरितीहापि तथैव । अनेन विशेषविहितेन यता सामान्यविहितानां तव्यत्तव्यानीयरां न बाध: *वाऽसरूपो ऽस्त्रियाम्* इत्यस्त्रयधिकारविहितस्यासरूयप्रत्ययस्य पक्षे बाधकत्वावचनात् । तव्यतव्यतो: स्वरे षष्ठीसमासनिषेधे च विशेष:। ( भवितव्यं, भवनीयम् ) अनीयरो रेफ ""उपोत्तमंरितिइत्युपोत्तमस्योदात्तार्थ: । अवश्यभाव्यम् । पूर्ववदनेनापि तव्यादीनां न बाध: । यत्तु सरूपत्वाद्वाध्यते "नानुबन्धकृतमसाप्युक्तम् । अवश्यमो मकारस्य "लुम्पेदवश्यम: कृत्ये तुंकाममनसोरपिइति समासे लोप: । समास्तु ""मयूरव्यंसकादयश्च इति तत्पुरुष:। मयूरव्यंसकादिराकृतिगण: । देवभूयं गत: । देवत्वं गत इत्यर्थ: । ""भुवो भाव इत्यनुपसर्गे सुबन्त उपपदे भुव क्यप् । कित्त्वान्न गुण: । देवत्वं गत इत्यर्थ: । ""भुवो । *उपपदमतिङ्*इति तत्पुरुषो नित्यं समास: । उपपदं सुबन्तं समर्थेन नित्यं समस्यते समासोतिङन्तश्चेतिसूत्रार्थ: । इदमेवातिङ्ग्रहणमत्र सुपेत्यस्यासम्बन्धे ज्ञापकम्, तथा योगविभागेन ""कुगतिप्रादय: इत्यत्रापि सम्बध्यत इति तत्रापि सुपेत्यस्यासम्बन्धं ज्ञापयति । "तेन गतिकारकोपपदानां कृद्भि: सह समासवचनं प्राक् सुबुत्पत्ते:' इति पूर्वाचार्यपरिभाषार्थ: संगृहीतो भव्ति । अस्य प्रयोजनमुत्तरत्र दर्शयिष्यते । *तत्रोपपदं सप्तमीस्थम्* इति तृतीये धात्वधिकारे सप्तम्या निर्हिष्टस्योपपदसंज्ञा । धात्वधिकारादेव तृतीये धात्वधिकार इति सिद्धे तत्रग्रहणं योगविभागेनाधिकृतेन प्रत्ययपदेन सम्बध्यते । तेनायमर्थस्तत्रोपपदे सत्येव प्रत्यय इति । ( अभिभावी ) । अभिभूतवानित्यर्थ:। ( अभिभावीभूत इति )ग्रहादौ णिन्यन्तो निपातित: ।। ( परिभवी । परिभावी ) अत्रैव निपातनाण्णिनौ पक्षे वृद्धयभाव: ( अभावी ) ""अचामचित्तकर्तृकाणाम् इति ग्रहादिपाठाण्णनि: । अत्र प्रतिषिपद्धानामित्यनुवृत्तेरयं प्रत्ययो नञ् पूर्वादेव ।। *नञ्* ।। नञ् समर्थेन सुबन्तेन समस्यत इति
तत्पुरुसमास: । "" लोपो नञ: इति उत्तरपदे नलोप: । ""सर्वनामस्थाने चासम्बुद्धौ इति नान्ताङ्गात्वादुपधादीर्घ: सर्वत्र, ""इन्हपूषार्यम्णां शौ । सौ च इति उपधालक्षणदीर्घमात्रस्य शौ सावेवेति नियमादभिभाविनावित्यादौ न भवति । पदान्ते ""न लोप: प्रातिपदिकान्तस्य इति नलोप: । संबुद्धौ तु ""न ङिसंबुद्धयो: इति निषेधान्न भवति । परिपूर्वत्वे *प्रातिपदिकान्तनुम्विभक्तिषु च* इति समासप्रातिपदिकान्तस्य नकारस्य नुम्विभक्तिस्थस्य पूर्वपदस्थान्निमित्तादुत्तरस्य वा णत्वविधानात् पक्षे परिभाविणाविति णकार उदाहार्य: । सम्बुद्धौ तु ""पदान्तस्य इति निषेध: । ननु च विल्पमपवादत्वाद्वाधित्वा ""कृत्यच: इति उपसर्गस्थान्निमित्तात्परस्य कृत्स्थस्याच: परस्य नकारस्य नित्यं विधीयमानं णत्वं स्यात् तच्च "सन्मानाऽनीयानीन्निष्टादेशा' इति प्रतिपदं परिगण्यते । न चापवादेषु पूर्वत्रासिद्धत्वप्रसङ्ग: । नैष दोष: । ""कृत्यच: इत्यस्य ""न भाभूपूकमिगमिप्यायीषेपाम्इतिनिषेधात् । स्त्रियाम्""ऋन्नेभ्योडीप् (अभिभाविनीत्यादि)
। नपुंसके स्वमोर्लुकि नलोप:। संबुद्धौ तु ""वा नपुंसकानाम्इति नलोप: । ( अभिभाविन्नित्यादि ) शौतु ""इन्हन्पूषार्यम्यां शौ इति दीर्घे ( अभिभावीनीति ) । वासरूपविधिना सर्वत्रात्र ""ण्वुल्तृचौ अपि भवत: । ( अभिभावक: अभिभवितेत्यादि ) तत्र ( 1 ) ( 1 ) ण्वुल: ।
""युवोरनाकौ इत्यकादेश: । यु वु इत्युत्सृष्टानुबन्धयो: प्रतिज्ञातानुनासिकयणो: प्रत्यययोर्ग्रहणम् । तृचि तु *ऋदुशनस्पुरुदंसोनेहसां च* इति असंबुद्धौ सावृकारान्तानामुशनसादीनां चाङ्गानां विधीयमानोऽनङित्त्वादन्त्यादेश: *अप्तृन्तृच्स्वसृनप्तृनेष्ष्टृत्वष्टृक्षत्रुहोतृपोतृप्रशास्तॄणाम्* इत्यबादीनामङ्गानामुपधाया: सम्बुद्धिवर्जिते सर्वनामस्थाने दीर्घविधानाद्दीर्घे नलोप: । अत्र चासम्बुद्धौ ""नोपधाया इति नान्तलक्षणो वा दीर्घ: । द्विवचनादौ ससर्वनामस्थाने संबुद्धयेकवचने च ""ऋतो ङ सर्वनामस्थानयो: इति गुण: । स च *उरण् रपर:* ।। ऋर्वणस्य स्थाने ऽण् प्रसज्यमान एव रपर इति रपर: । तत्र सम्बुद्धौ ""रात्सस्य इति हल्ङ्यादिना वा सुलोपे ( हे अभिभविन् )अन्यत्र सर्वनामस्थानेऽपि""अपतृन्"" इतिदीर्धे ( आभिभवितारावित्यादि ) अभिभवितृनित्यत्र पूर्ववर्णदीर्धे ""तस्माच्छसोन: इति नत्वे ""पदान्तस्यइति णत्वनिषेध: ( अभिभवित्रा ) ( अभिभवितृभ्यामित्यादि ) अजादौ यग् । ङसिङसोस्तु तयोरकारस्य ऋकारस्य च""ऋत उत् इति उकार उभयो:स्थाने भवन्नप्यसावृकारस्थानिकोऽपीति पूर्ववद्रपरत्वे सलोप: । अभिभवितॄणामिति ""क्षुभ्नादिषु च इति णत्वनिषेधे नृनमनतृप्नोतिग्रहणाद्ऋवर्णगतोऽपि रेफोणत्वनिमित्तमिति"" इति णत्वे ""नामि इति दीर्घ: । अभिभवितरि । ""ऋतोङिति गुण: । स्त्रियाम् ""ऋन्नेभ्यो ङीब् इति ङीप् । अभिभवित्रीत्यादि । नपुंसके पूर्ववत्स्वमोर्लुक् । अभिभवित । औड: शीभावे ""इकोचि विभक्तौ इति नुम् । अभिभवितृणी । शौ ""नपुंसकस्य ज्ञलच: इति नुमि ""सर्वनामस्थाने चासंबुद्धौ इति दीर्घे अभिभिवितॄणि । अथं नुम् [ वृद्ध्यौत्वतुज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन ] इति ""ऋतो ङि इति गुणं बाधते । तृतीयाजादौ *तृतीयादिषु भाषितपुंस्कं पुंवद्भालवस्य*इति समानायामाकृतौ भाषितपुंस्कस्येगन्तस्य नपुंसकस्य पुंवद्भावविधानात् पुं सीव पक्षे नुमभावात् ( अभिभवित्रा अभिभवितृणा, इत्याद्युभयमपि )। आमि [नुंम?चिरतृज्वद्भावेभ्यो नुटृ पूर्वविप्रतिषेधेन] इति नुटि ""नामिइति दीर्घ:। भवतीति ( भाव:। भवतेश्च] इति वक्तव्यात्पक्षेण: । तस्याभावेऽज्विधि: सर्वधातुभ्य इत्य?पि । ( भव: । आशितो भवत्यनेनेति आशितंभव: । ओदन: । आशितस्य भवनमाशितंभव: ) ""आशिते भुव: करणभावयो: इति खच, उपपदसमास: । *अरुर्द्वषदजन्तस्य मुम्* इति खिदन्त उत्तरपदे ऽजन्?तस्य पूर्वस्यान्तृयादच: परो मुमागम: ( आढ्यमविष्णु: आढ्यंभावुक: ) अनाढ्य आढ्यो भवतीत्यर्थे ""आढ्यसुभगस्थूलपलितनग्नान्ध?प्रिये इति च्वयर्थेष्वच्च्यन्तेषूपपदेषु ""कर्तरि भुव: खिष्णुच्खुकञौ इति कर्त्तरि कारके खिष्णुच्खुकञौ । उभयत्र खित्त्वात् पूर्ववद् मुम् । खुकञो ञित्त्वाद्वृद्धि: । सुभगादिष्वप्येवमुदाहार्यम् । भविष्णु: । *भुवश्च* इति तच्छीलतद्धर्मततृसाधुकारिष्विष्णुच् । अस्य भाषाविषयत्वं चान्द्रा इच्छन्ति । भाष्यादौ छान्दसत्वमेव स्पष्टम् । तच्छीलादौ तच्छब्देन धात्वर्थ उच्यते । तत्र फलनिरपेक्षप्रवृत्ति: तच्छील: धात्वर्थ: कुलक्रमागतो धार्मो यस्य स तद्धनां । धात्वर्थं सकृ?दपि य: साधु करोति स तत्साधुकारी । अत एव ""श्र्युक: किति इतीटो निषेध: ( भावुक: ) । ""लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् इति तच्छीलादावुकञ् । ?ञित्त्वाद्वृद्धि: । ( परिभवी ) ।
""जिदृक्षिविश्रीण्वमाव्यथभ्यमपरिभूप्रसूभ्यश्च इति तच्छीलादाविनि: । इकारो नकारपरित्राणाय वासरूपविधिना परिपूर्वादप्युकञ् भवति । ( परिभावुक इति । विभूर्नाम कश्चित् ) । प्रतिभूर्धनिकाधमर्णयोर्मध्यस्थ: । ""भुवु: संज्ञान्तरयो: इत्यनयोर्गम्यमानयो: क्किप् । अन्?तरशब्देन धनिकाधमर्णयोर्मध्यस्य उच्यते । संज्ञान्तरे स्वभावादुपसर्गनियम:, कित्त्वान्न गुण: । इकारो ""वेइति सामान्यग्रहणार्थ: । पकारस्तदाविघातार्थ: । वकास्य ""वेरपृक्तस्य इति लोप: । ( विभुवौ )इत्यादौ *ओ: सुपि* इति धातोरवयव: संयोगो यस्मादुवर्णात्पूर्वो नास्तितदन्तस्यानेकार्चोऽङ्गस्याजादौ सुपि यणिति प्राप्तस्य यणो ""न भूसुधियो: इति निषेधादुवङ् । वर्षासु भवतीति ( वर्षाभू: वर्षाभ्वौ वर्षाभ्व: ) पूर्ववत् क्किप् । *संज्ञायाम्*अस्यां सप्तम्यन्तं समस्यत इति तत्पुरुष: । ""क्किप् च इति सोपपदनिरूपपदसाधारणे सर्वधातुविषये क्किप्युपपदसमासो वा । ""वषांभ्वश्च इत्यजादौ यण् । चशब्दो दृन्कारपुन: पूर्वम्य च भुवो यणर्थ: । दृन्भूशब्दो दृनभू इति निपातित: । अत्र तु भूषब्दस्यानर्थकत्वात् ""नभूसुधियो: इत्यत्र ग्रहणाभाव: सिद्ध इति कैयटे । ते न ""ओ: सुपि इत्स्याप्रवृत्तौ ""इको यणचि इत्येव यण् सिद्ध इत्यर्थ: । दृम्भू इति मान्तमेके पठन्ति । अनुस्मृतौ कारशब्दस्य स्थाने करशब्द:( 1 ) ( 1 ) प्रयुज्यते ।
पठ्यते । दृन्पुन: करवषांसु भुव इति कारशब्दस्यैकदेशविकृतस्यानन्यत्वात् सिद्धमिति तद्विवृत्तौ । अत्र क्षीरस्वामिसुभूतिचन्द्रप्रभृतयो भेके वर्षाभूशब्दं हस्वान्तं प्रतिपद्यन्ते । अत एव स्त्रियां "शिली गणडूपदी भेकी वर्षाभ्वी कमठी डूलि:'इति""भुवश्च इति उकान्तलक्षणं ङीषं पठन्ति । ""वर्षाभ्वश्च इति अत्र वर्षासु भवतीति वर्षा वा भवति प्राप्नोतीति वर्षाभूरोषधिविशेष इत्यर्थविशेषमभिदधानस्य कैयटस्याप्ययमेवाशयोलक्ष्यते । तथा भागुरिरपि हस्वान्तं मन्यते । यथाह च ।
भार्या भेकस्य वर्षाभ्वी शृङ्गी स्यान्मद्गुरस्य तु ।
श्यिली गणडूपदस्यापि कच्छपस्य दुलि: स्मृता ।।
इ?ति । यादवप्रकाशस्तु भके ऽप्युकारान्तमाह । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे( 2 ) ( 2 ) ""नषाण् इति क्वचित् ।
षणीति । तथा सुबोधनीकारोपि । भुवश्चेत्युदन्तान् ङीष्विधानात् वर्षाभ्वीति पाठो न युक्त: । युक्तस्तु पाठो वर्षाभूकमठी डुलिरिति । एवमेवोक्तं प्रक्रियारत्नेपि । वर्षासु प्रावृषिभवतीति वर्षाभूर्मण्डूक: पुंस्त्री, तेनास्त्र्यख्यत्वादत्र इस्वादय इति नदीसंज्ञायामाख्याग्रहणं नियतस्त्रीलिङ्गपरिग्रहार्थमिति तन्मतम् । कैयटेऽप्येवसमुक्तम् । आरख्याग्रहणसामर्थ्यान्नियम आश्रीयते स्त्रियमेव यावाच्क्षाते न तु लिङ्गान्तरयुकृतमपीत्यर्थ इति । उक्तं च तत्र इष्वशनिप्रभूतीनामुभ्यलिङ्गानां पदृवादीनां च गुणवचत्वात्सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रियां वृत्तौ नदीसंज्ञा न प्राप्नोति, एवं तहि ""ङिति हस्वश्च इत्यत्रैवेविधो नियमो नाश्रीयत केवलस्य स्त्रीशब्दस्यानुवर्त्तनादित्यदोष इति । हरदत्तस्तु पदान्तरमनपेक्ष्य स्त्रीवचनानां ग्रहणार्थमाख्याग्रहणं न तु नियतस्त्रीवचनानामित्याह । यद्वा पदान्तरमनपेक्ष्य स्वयमेव यौ स्त्रियमाचक्षाते इतृयाश्रीयते । इष्वशनिप्रभृतीनामुभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति संज्ञा भवति । एवं पटुशब्दप्रभृतीनां गुणवचनानामपि शब्दार्थ एव स्त्रीत्वम् । तथा व पदुरानीयतामित्युक्ते स्त्रियमप्यानीय कृती भवतीति । पुनश्चैवमाह नियतस्त्रीवचचनानां ग्राहणाथेमाख्याग्रहणमिति वदतां मते आङ्पूर्वाद्धायते: क्किपि संप्रसारणे आध्यै ब्राह्मण्यै अत्रापि भाष्कारोदाहृते न स्यात् तस्मात्पूर्वं एव प्रकार आश्रयणीय:। कथं तर्हि प्रत्युदाहरणं ग्रामण्ये स्त्रियै खलप्वे स्त्रियै इति, उच्यते । क्रियाशब्दत्वेप्यनयो: पुंसि मुख्या वृत्ति:, पुंसामेव खल्विदमुचितं यत् ग्रामनयनं नाम । एवं खलपवनमपि । एवं खलपवनमपि । आध्यानं तु स्त्रीपुंससाधारणमिति विशेष इति । न्यासे उद्योतादाप्येवमुक्तम् । वृत्तिकारस्याप्ययमेव पक्षोभिमत:। यदाह । आख्याग्रहणं शब्दार्थे स्त्रीत्वे यथा स्यात्पदान्तरद्योत्ये मा भूदिति । प्रक्रियारत्ने त्वाधीशब्दो नित्यस्त्रीवचन इति नदीसंज्ञासिद्धिरुक्ता । एवं च हरदत्तादिमते वर्षाभृशब्दस्य भेकाभिधानेपि नदीसंज्ञया भाव्यमिति तन्निबन्धनानि हस्वादीनि भवन्ति । कैयटसुभूतिचन्द्रादीनां मते नदीसंज्ञायां न विवाद:, ऊकारान्तस्यौषाधिविशेषवाचित्वेन नियतस्त्रीविषयत्वात् । एवं च प्रक्रियारत्नेनोक्तो नदीसंज्ञाभाव: "त्यजेदेके कुलस्यार्थे' इति न्यायेन त्याज्य: ।
षष्ठीबहुवचने तु परत्वा?न्नित्यत्वाच्च नुटि कृते तस्य विभक्तिस्थत्वात् *एकाजुत्तरपदेण*:, इति णत्वम् । एकाज्
उत्तरपदं यस्य तस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य पूर्वपदस्थान्निमित्तस्य णत्वमिति सूत्रार्थ: ( ?विभु: प्रभु: संभु: ) *विप्रसंभ्यो ङ्वसंज्ञायाम्* इति व्यादिभ्य: परस्माद्भुवो डुप्रत्यय:, डित्त्वाट्टिलोप: ( शंभु: ) [ मितद्रूवादिभ्य उपसंख्यानम् ] इति डु: । मुखरूपो भवतीत्यर्थ: । यद्वान्तर्भावितण्यर्थो भवति: । तेन सर्वेषां सूत्रं भावयतीत्यर्थ: । यद्वा शमेर्ण्यन्तात् ""अन्येभ्योऽपि दृश्यत इति विचि (शंशमयिता रोगाणां भवतीति शंभु:) श्रूयते च "भिषक्तमं त्वा भिषजां शृणोमि त्वादत्तेमी रुद्र शंतमेभि: । शतं हि मा त्र्यशीय भेषजेभि: । अध्यवोचदिध वक्ता प्रथमो दैव्यो भिषगिति' । शंभवत्यस्मादिति व्युत्पत्तिरपादाने डुप्रत्ययाभावाच्चिन्त्या ( विभ्वी प्रभ्वी संभ्वी ) ""भुवश्च इति भवतेरुदन्तस्यानुपसर्जनस्य स्त्रियां ङीष्। उपसर्जनत्वे त्वतिविभुब्रांणीति ङीष् न भवति । भविष्यतीति ( भावी ) ""भुवश्च इत्यौणादिक हनिर्णिठ्ठद्वा । तेन वृद्धि: । अथं च ""भविष्यति गम्यादय इति गम्यादिषु पाठाद् भविष्यत्कालविषय: । भावं, ""श्रिणीभुवोनुपसर्गे इति अकर्त्तरि च कारके भावे धञ् । उपसृष्टात्तु ""ऋदोरप् इत्यप् ( प्रभव इति ) ऋदिति दकारो मुखमुखार्थ इत्योरिव्युकार ऊकारमपि गृह्णाति । प्रभाव इतृयत्र तु प्रकृष्टो भाव: प्रभाव इति प्रत्ययार्थ एव प्रशब्देन विशेष्यते न प्रकृत्यर्थ इ?ित क्रियायोगाभावावदनुपसर्गत्वाद् घञ्सिद्धि: । विभावानुभावशब्दौ विभावयतीति ण्यन्तादिचि व्युत्पाद्यौ ( परिभाव: )""परौ भुवोवज्ञज्ञने इति पक्षे घञपौ । *उपसर्गस्य घञ्यमनुष्ये बहुलम्* इति घञन्त उत्तरपदे पूर्वोपसर्गस्य वा दीर्घोऽमनुष्ये विषये । भूति: *स्त्रियां क्तिन्* इत्यकर्त्तरि च कारके भावे च सर्वधातुभ्य: क्तिन् । ""मन्त्रे वृष इत्यादिना भुव: क्तिन्, उदात्तवचनमस्य नित्त्वात् ""ञ्नित्यादिर्नित्यम् इत्याद्युदात्तत्वव्युदासार्थम्, न तु भाषायां प्रयोगनिवृत्त्यर्थम् । प्रयुज्यते च भाष्ये "सर्व इमे स्वभूत्यर्थे प्रवर्त्तन्त' इति ( भू: ) [ संपदादिभ्य: क्किब्वक्तव्य: ] इति क्किप् । क्किप: सर्वस्य लोप: । भवत्यस्मिन्ननेनेति वा भाव: । *पुंसि संज्ञायां घ: प्रायेण* इति पुंल्लिङ्गन्यो: करणाधिकरणयोर्घ:। प्रायग्रहणं क्क चिदसंज्ञायामपि यथा स्यादिति । ( अनाढ्येना ( 1 )
( 1 ) दु:खेन ।
नायासेनाढ्येन भूयते ईषदाढ्यंभवं भवता, स्वाढ्यंभवं भवता । अनाढ्येनाढ्येन भूयते दराढ्यंभवं भवता ) *कर्तृकर्मणोश्च भूकृञो:* । चव्वर्थविषयकर्तृकर्मणोरीषादादिषु चोपपदेषु भूकृञो: खलिति खल् । तत्र भुवोऽकर्मकत्वात्कर्त्तरि भावे प्रत्यय: करोतेश्च कर्मणि । स्वभावात् कृच्छ्रग्रहणं दुरो विशेषणम् । अकृच्छ्रग्रहणं त्वितरयो: । खित्त्वान्मुम् । नन्वत्र धात्वर्थमात्रं वि?शिंषित ईषतो गत्योरपि सुदुरोश्च कथं व्यवहितप्रयोग: । न च मुमर्थात् खित्करणादिति वाच्यम् । ""खित्यनव्ययस्य इत्यत्र कृद्ग्रहणपरिभाषाया उपस्थानात्सगतिके खिदन्त उत्तरपदे मुमथ्रतृवस्य संभावात् । न चैवं वाच्यं ""हृदयस्य हृल्लेख इत्यत्राण्ग्रहणादेवाणन्तस्य ग्रहणे सिद्धे पुनर्लेखग्रहादाधिकारेपीह प्रत्ययग्रहणपरिभाषाया अप्रवृत्तेज्ञांपनात्तदभावात्तद्विषया कृद्ग्रहणपरिभाष कथं वर्त्तत इति । यते मुम्यव्ययात्परस्य खितोऽसंभवात्तदन्तस्य च संभवादनव्ययस्येति निषेधसामथ्यांदुत्तरपदाधिकारेपीह प्रत्ययग्रहणवरिभाषया अवश्यमुपस्थातव्यं ततश्च तद्विषया कृद्ग्रहणपरिभाषाऽप्युपस्?थास्ते । एवं तर्हि भाष्ये ईषदाढ्यंभवमित्यादेरुदाहृतत्वात् प्रयोगनियम: । अवत्सरयादौ प्रधानभूतच्छप्रत्ययार्थेनान्वीयमानस्य नञ् शब्दान्तेन समासवत् खिदन्तर्थोनान्वीयमानस्यापीषदादे: खिदन्तान्तेनापि( 1 ) ( 1 ) समास इति क्वचित् पाठ: ।
स: । कैयटे तु खित्करणादेव कर्तृ कर्मणो: पूर्वप्रयोग उक्त: । तस्यायं भाव: । अनव्ययस्येति निषेधसामर्थ्यादेव तदन्तत्वलाभ: । नन्वस्मादेव प्रतिषेधादिहोत्तरपदाधिकारेपि ज्ञापितया प्रत्ययग्रहणपरिभाषया यतस्तद्विषया कृद्ग्रहणपरिभाष्या प्रवर्त्तेतेति । ( मुखतोभूत्वा, मुखतोभूय, मुखतोभावम् ) । *स्वाङ्गे तम्प्रत्यये कृभ्यो:*इति तस्प्रत्ययान्ते स्वाङ्ग उपपदं क्त्वाणमुलौ, तत्र ""तृतीयाप्रभृतीन्यन्यतरस्याम् इति ""उपदंशस्तृतीयायाम् इत्येतदारभ्योपपदानाममैव तेन चान्येन च तुल्यविधानानाममन्तेन समासतविकल्पनान्मुखतोभावमित्येके पदं द्वे वा पदे । क्त्वान्तेनापि तृतीयाप्रभृतीनामुपपदानां ""कत्वा च इति इति समासविकल्पनात्तत्पक्षे ""समासेऽनञ् पूर्वं क्त्वो ल्यप् इति ल्यबादेश: । अत्रानञिति नञ् सदृशमव्ययं परिगृह्मते । * कृन्मेजन्त:* ""क्त्वातोसुन्कसुन:इति णमुल्कत्वान्तयेरव्यत्वात्सुपो लुक् । स्थानिवत्त्वेन
ल्यबन्तमव्ययम् । ( विलाभूय, विनाभूत्वा, विनाभावं, नानाभूय, नानाभूत्वा, नानाभावम् । एकधाभूय एकधाभूत्वा, एकधाभावम् ) । *नाधार्थप्रत्यये च्वयर्थे* इति नाधार्थप्रत्ययान्ते च्वयर्थविषये उपपदे कृभुवो:कत्वाणमुलाविति तौ । नाशब्देन ""विचञ् भ्यां नानाञौ नसह इति विहितौ नानाञावुच्येते । धाशब्देन ""संख्याया विधार्थे धा ""अधिकरणविचाले च इति विहितो धाप्रत्यय उच्यते । तत्र विधा नाम प्रकार:, सामान्यस्य भेदाको विशेष: । अधिकरणविचालोप्यधिकरणं द्रव्यं तस्य विचाल:( 2 )' ( 2 ) संख्यान्तरापादनम्।
एकस्यानेकीकरणे द्विधाभूयेत्यादो द्रष्टव्यम् । ये तु धाप्रत्ययस्यादेशा *एकाद्धो ध्यमुञन्यतरस्यान्* *द्वित्र्योश्च ध्मुञ्* *एधाच्च*इतिविहिता ध्यमुञादयस्तेषामपि स्थानिवत्त्वेन धाग्रहणेनग्रहणात्तदन्ते वोपपदे भुव: क्त्वाणमुलौ भवत इत्यमुञन्तात्स्वार्थे डदर्शनमिति यदा डप्रत्यय: स्यात् । तदर्थं, सहि स्वार्थिकत्वात् धार्थ: । यथा नाञर्थमपि । अन्यथा सानुबन्धकत्वादपि नानाशब्दो न गृह्मेत । ( तूषर्णीभूय, तूर्ष्णी भूत्वा तूर्ष्णीभावम् । ) ""तूष्णीमि भुव: इति क्त्वाणमुलौ । ( अन्वग्भृत्वा, अन्वग्भावम् ) । ""अन्वच्यानुलोम्ये इति कत्वाणमुलौ । आनुलोम्यमनकृलता । नाधेत्यादियोगत्रयविषयेपि ""तृतीयाप्रभृतीनि इति समासविकल्पो द्रष्टव्य: । ( भूतो घट: । भूतं घटेन ) । अत्र ""निष्ठा इति भूते विहितस्य क्तस्य गत्यर्थादिपरत्वे *गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुजीर्यतिभ्यश्च* इति कर्त्तरि चकाराद्भावकर्मणोश्च विधानाद् भुवश्चाकर्मकत्वात्कर्तृ भावावर्थौ, अयं च ""नपुंसके भावे क्त: ""ल्युट् च इति क्तल्युटौ न बाधते, यतस्तयोर्धात्वर्थस्य सिद्धता विषय: । अस्य तु धात्वर्थमात्रम् इति विषयभेदस्तेन घटस्य भूतं भवनमिति भवत: क्तयोगे कर्त्तरि षष्ठ्या ""न लोकाव्यय इति निषेधो न भवति ( नपुंसके भावे क्त उपसंख्यानम् ) इति तद्विधानात् शेषविधानाद्वा ?तत्सिद्धि: । इदमेषां भूतं ""क्तक्तवतू निष्ठा ""निष्ठा इति ध्रौव्यादिभ्ये विहितस्य क्तस्य ""कीधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य:इत्यत्राधिकरणमर्थ:। चकारो यथाप्राप्तस्यानुज्ञानार्थ: । तेन ध्रौव्यार्थिभ्य: कर्तृभावाधिकरणेषु गत्यर्थेभ्य: कर्मकत्त्त्रधिकरणेषु कर्मविवक्षायां भावे च प्रत्यवसानार्थेभ्य: समासनिषेध: । भवत्यनेनात्रेति वा भवन् । ""करणाधिकरणयोश्च इति सामान्यविहितो ल्युट् । अस्य कालसामान्यविषयत्वाद् भूतविषयेणाधिकरणोक्तेन न बाध: । परिभवनमित्यत्र *कृत्यच* इति
उपसर्गस्थामित्तादुत्तरस्य कृत्स्थस्याच उत्तरस्य नस्य विधीयमानं णत्वं ""न भाभूपूकमिगमिप्यायीवेषाम् इति निषिध्यते । अत्र ( ण्यन्तानां च भादीनामुपसंख्यानम् ] इति वचनात्परिभावनमित्यत्रापि णत्वं न भवति ।
अथोणादय: ।। ( दृन्भू: । तर:,) सर्वजातिभेद इति पुरुषकारे । ""अन्धूदृम्भूभूजम्भूकफेलृकर्कन्धूदिधिषृ: इति दृढशब्द उपपदे कृप्रत्ययान्तो निपातित: । उपपदस्य च दृंभावोऽस्मादेव निपातनात् । ?के चिदुपपदं नान्तं पठन्ति । अजादावस्य यणिति वर्षाभूप्रस्तावेऽवोचाम । क्क चिदुणादिवृत्तौ दृभी ग्रन्थ इत्यस्मात्कृप्रत्यये निपातनमित्युक्तम् । तत्राप्ययमूकारो न धातोरित्युवङोऽप्रसङ्गाद्यणेवेति न रूपभेद: । भवनं गृहम् । ""बहुलमन्रूत्रापि इति युच् । भुवनम् । ""भूसूधूम्रसृजिभ्यश्छन्दसि इति क्युन्, भाषायां बहुलवचनात्साधुरिति वा भुवनमित्यत्र हरदत्त: । ( भूमि:)""भुव: कित् इति मिन्प्रत्यय: । कृष्णभूम: । उदग्भूम: । पाण्डुभृम: ""अच् प्रत्यन्ववपूर्वात्सामलोम्न: इत्यत्राजिति योगविभागादच् समासान्त: । तथा च श्लोकवार्त्तिके । [ कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्यय: स्मृत ] इति । ( भूरि: ) । ""अदिश दिभृशुमिभ्य: क्रिन् इति क्रिन् । ( भूव:। अन्तरिक्षलोको महाव्याहृतिश्च । ) ""भूर?ञ्जिभ्यां कित् इत्यसुन् कित्त्वान्न गुण: । ( अद्भुत: ) । ""अदि भुवो हुतच् इति हुतच् । ये प्रसिद्धयोगा उणादिप्रत्ययान्ता: प्रदर्शिता:, अत: परमप्येवं वक्ष्यन्ते ।
सूत्रवार्तिकभाष्येषु छान्दसावेव केवलम् ।
कानच्कमू प्रतीयेते तेन नात्र प्रपञ्चितौ ।।
?B के चिदाहु: क्कसो: कित्त्वाज् ज्ञापकादनुमीयते ।
अस्ति प्रयोगो भाषायामित्येवं प्राज्ञमानिन: ।।
तथा हि छान्दसत्वे ऽस्य छन्दस्युभयथेत्यत: ।
सार्वधातुकसंत्वान्ङित्त्वे सिद्धेऽतिदेशत: ।।
अनुनासिकलोप: स्यात् संयोगान्तेषु धातुष ।
अन्यत्रापि लिट: कित्त्वे संयोगाल्लिट्किदित्यत: ।।
सिद्धे हुत: ककारो ऽसौ भाषायामर्थवानिति ।
तदसत्तेरुरित्यादौ यथा लिटि गुण: किति ।।
ऋच्छत्यॄतामितीहापि तितीवति गुणो भवेत् ।
स मा भूदिति कित्त्वस्य भाष्ये फलसमर्थनात् ।। 1 ।।
एध वृद्धौ ।। ( 1 ) ( 1 ) त्थन्ता । त्थान्ता इति वा पाठ: ।
कत्थ्यन्ता उदात्ता अनुदात्तेत: । ( एधते । एधसे । एषं । एधमान: । एषां चक्रे । एधां बभूव । एधामास ) । ""हजादेश्च गुरुमतोऽनृच्छ: इत्याम् प्रत्यय: । ""दीर्घं च इति ( 2 ) ( 2 ) दीर्घंस्य गुरुसंज्ञा ।
दीर्घं गुरुसंज्ञम् । करोते: ""आम्प्रत्सययवत् इति नित्यं तङ् । ( एधिता । एधितासे । एधिताहे । एधिष्यते । एधिष्यसे । एधिष्ये । एधिष्यमाण: । ) ""लृट: सद्वा । ( एधताम् । एधस्व । एधै ) । ""सवाभ्यां वामौ ।। ""एते ऐ । ( ऐधता । ऐधथा: । ऐधे ) । *आढजादीनाम्*इति अजादेरङ्गस्य लुङ्लङ्लृङ्क्षु आडागमइत्याट् । टित्त्वादौ ""आटश्च इति वृद्धि: । ( ऐधेत ) आशिषि ( एधिषीष्टा: । एधिषीय । ऐधिष्ठ । एधिष्ठा: । ऐधिध्वम् । ऐधिषि ) । ""धि चधि च इति सलोप: । इणन्नमङ्गमिति ""हण: षीध्वंलुङ्लिटां धोङ्गात् इति धकारस्य मूर्धन्य: । अत्र हरदत्त: एवं मूर्द्धन्यमुक्त्योपायान्तरमाह । अन्येत्विटो विभाषाया वक्ष्यमाणत्वाद् गोबलीवर्दन्यायेन तद्व्यतिरिक्तमिणन्तमिह गृह्मत इति ऐधिन्वमित्यादौ ढत्वं नेच्छन्ति । ( ऐधिष्यते । ऐधिष्यथा: । ऐधिष्ये ) । भावे लट्लोद्लङ्विध्यादिलिङ्क्षु यगुदाहार्य: । ( एध्यते भवता ) इत्यादि । लुङि ""चिणो लुक् इति तशब्दस्य लुकि ( ऐधि भवतेति ) । शेषे तु कर्तृद्रुपम् । सन्यजादित्वाद् द्वितीयस्यैकाचोद्विर्वचने ऽभ्यासकार्यम् । ""पूर्ववत्सन: इति तङ् । ( एदिधिषते )इत्यादि सर्वत्र प्रकृतिवत् । ( एदिधिष्यत )इत्यादि कर्तृवत् । न च स्यादिषु चिण्वदिट्पक्षे वृद्धौ पुकि रूपान्तरमपि स्यादित्याशङ्कयम् । ण्यल्लोपेत्यादिना ऽतो लोपेन वृद्धेर्बाधस्योक्तत्वात् । ( एधयते सस्यम् । )""णिचश्च इति कर्त्रभिप्राये तङ् । अस्मिन्नुपपदेन प्रतीश्यमाने ""विभाषोपपदेन प्रत्यमाने इति परस्मैपदमपि भवति । स्वं सस्यमेध्यतीति । चित्तवत्कर्तृकेतु ""अणावकर्मकाच्चित्तवत्कर्तृकात् इति परस्मैपदमेव ( पुत्रमेधयतीति ) । विभाषोपपदादपि परत्वादिदमेव भवति, तेन स्वपुत्रमेधयतीत्येव । ""गतिबुद्धि इति सर्वत्र प्रयोज्यकर्मत्वम् । ( एघयां चक्रे । चकार । बभूव । आस ) । ""अयामन्त इति णेरयादेश: । अत्र यदा प्रकृते: चित्तवत्कर्तृकत्वेन नित्यं परस्मैपदं तदा कृञोऽनुप्रयोगस्येति कल्पितेन योगेन तथैव । ( एधयितासि । एधयितासे । एधयिष्यति । एधयिष्यते । एधयतु । एधयताम् । ऐधयत । ऐधयत । एधयेत् । एधयेत । आशिषि एध्यात् । एधयिष्ट ) यासुट्यनिडाद्यार्धधातुकत्वाण्णिलोप: ""अकृत्सार्वधातुकयो: इति मूर्द्धन्यविकल्प: । ( ऐदिधत् । ऐदिधत ) । ""णि श्रि इति द्विर्वचननिमित्ते ऽचि योजादेश: । स द्विर्वचने कर्त्तव्ये स्थानित्वं ?प्रतिपद्यत इति ""चङि इति द्विर्वचने स्थानिवत्त्वात् ""अजार्देर्द्वतीयस्य इतिधिशब्दो द्विरुच्यते । इदं च ""णौ चडि इत्युपधाहस्वाद्बहिरङ्गाप्युत्तरकालं द्रष्टव्यम् । तत्र च लिङ्गमोणेर्द्धदित्करणं तद्धि मा भावनोणिणदित्यत्र ""नाग्नोपि इति चङि हस्वस्य निषेधार्थं, पूर्वंतु द्विर्वचने हस्वभाव्युपधा नेति किं निषेधेन । तेन मा भवानिदिधदिति भवति ""न माड्योगे इत्याटो निषेध: । कर्मणि लुड्ये कवचने चिण् । अन्यत्र सिचीट्गुणायादेशा: ( ऐधि । ऐधयिषातामित्यादि ) । ध्वमि ""धि च इति सलोपे गुणायादेश्यायोरिण: परत्वादिटो ""विभाषेट: इति वा मुर्द्धन्य: । अन्येषु लेषु कर्तृवद्रपम् । लिट्यनुप्रयोगे नित्यं तङ उदाहार्य: । स्यादिषु पक्षे चिण्वदिटि तस्यासिद्धवदत्रेत्यसिद्धत्वाण्णिलोपे ( एधिष्यत ) इत्यादि प्रकृतिवत् रूपाण्यपि पक्षे द्रष्टव्यानि । न व ध्वमि णेरिण: पर इडिति तल्लोपात्पूर्वे ""विभाषेट: इति रूपभेदस्य प्रसङ्ग: । नित्यत्वादन्तरङ्गत्वात्पूर्वत्रासिद्धत्वाच्च पूर्वमेव णेर्लोणात् कर्मकर्तरि यक्चिणेर्विषये तयो: ""णिश्रन्थि इति निषेधाच्छप्सिचो: कर्तवद्रपम् । स्यादिषुकर्मवत् । वत्करणात्स्वाश्रये भावे लकारे सर्वत्र कर्मवतृ । कर्त्तरि तृतीया विशेष: । (एधयते स्वेनैवेत्यादि । प्रैधते । ) *एत्येधत्यूठ्सु* इति वृद्धि: । एजादाविणि धातावेधतौ
ऊठि चावर्णात् पूर्वपरयोरेकादेशो वृद्धिरिति सूत्रार्थ: । इयं च वृद्धिरेत्येधत्योरेङि पररूपस्यापवादइत्यवर्णान्तोपसर्गलाभ: । ऊठि त्वाद्गुणस्य । अत्र वृत्तौ एज्ग्रहणमेतेरेव विशेषणं नैधतेरव्यभिचारादिति( 1 ) अत्र प्रदीपकृत् प्रेदिधदित्यत्र व्यभिवचारासम्भवान्नैतत्सारमित्याह । इदमेव त्वसारं, ण्यन्तस्य शब्दान्तरतृवादेधतिग्रहणेनाग्रहणात् । अत एव हि ""न भाभूपूकमि इत्यत्र [ ण्यन्तानां च भादीनामुपसंख्यानम् ]इत्युक्तम् । वक्ष्यन्प्ति च तत्र न्यासकारादय: शद्गान्तरत्वात् ण्यन्तेनां न प्राप्नोति तस्मादुपसंख्यानमिति । स्वयं च तत्रैवं व्क्ष्यतीति पूर्वापरविरोधं स एव प्रष्टव्य: । किं च ण्यधिकस्यापि ग्रहणे ""उपसर्गात्सुनोति इत्यत्राभिसुषावयिषतीत्यत्र ण्यन्तेनाभेर्योगात्सुनोतिं प्रत्यनुपसर्गत्वात् षत्वं न स्यादिति चोदयित्वा प्रेषणादिरिहाभिषवे इति सुनोर्ति प्रति उपसर्गत्वात् षत्वं सिद्धमिति भाष्यकारादीनां समाधानमुननन्नं स्यात् । अत एव हि वृद्धिविधो हरदत्त: । एज्ग्रहणमेतेरेव विशेषणंन पुनरेधतेरिति वृत्तिमुपादाय बाहुल्याभिप्रायेणैतदुकं मा प्रेदिधदित्यत्र व्यभिचारसम्भवादित्याहुरिति मतान्तरेणाह । ( एधित: । एधितमनेन । इदमेषामेधितम् ) । ""क्तोधिकरणे च इति क्त: । ( एध: ) । ""असुन् इत्यसुन् ।। 2 ।।
स्पर्द्धं सङ्धर्षे ।। पराभिभवेच्छा । पराभिभवस्य धात्वर्थेनोपसंग्रहात् अकर्म त्वम् । उक्तम् च ।
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षात: कम्रणोऽकर्मिका क्रिया ।।
इति । ( स्पर्द्धते । स्पर्द्धसे । स्पर्द्धमान: । पस्पर्द्धे । पस्पर्द्धिंषे । पस्पर्द्धे । पस्पर्द्धे ।। ) *शरपूर्वा: खय:* अभ्यासस्य शर्पूर्वा: खय: शिष्यन्ते अन्ये हलो निवर्तन्त इति पकारशेष: । ( स्पर्द्धिता । स्पर्द्धितासे । स्पर्द्धिंताहे । स्पर्द्धिष्यते । स्पद्धिष्यसे । स्पर्द्धिष्ये । स्पर्द्धताम् । स्पर्द्धस्व । स्पर्द्धे । अस्पर्द्धत । अस्पर्द्धथा:। अस्पर्द्धे । स्पर्द्धेत । स्पर्द्धेथा:। स्पर्द्धेय । आशिषि। स्पर्द्धिंषीष्ट । स्पर्द्धिषीष्ठा: । स्पर्द्धिषीय । अस्पर्द्धिष्ट । अस्पर्द्धिष्ठा: । अस्पर्द्धषि । अस्पर्द्धिष्यत । अस्पर्द्धिष्यथा: । अस्पर्द्धिंष्ये ) । भावे लट्लोट्ङ्विध्यादिलिङक्षु यकि ( स्पर्द्ध्यते । स्पर्द्ध्यताम् । अस्पर्द्ध्यत। स्पर्द्ध्येतेत्यादि ) लुङि तशब्दे चिणि ( अस्पर्द्धीति ) आशीरादिषु कर्तृवत् । ( पिस्पर्द्धिषते । पिस्पर्द्धिषां चक्रे । पिस्पर्द्धिषितेत्यादि ) । ""सन्यत: इतीत्वमभ्यासस्य पूर्ववत् ""पूर्ववत्सन: इति तङ् । आर्थधातुकेऽतो लोप: । विध्यादिलिङ्यतो लोपाभावाल्लिङ: सलोपे गुणविललोपयो: । ( पिस्पर्द्धिषेत ) । भावे यकचिणोर्विषोष: । ( पिस्पर्द्धिष्यत इत्यादि पास्पर्द्ध्यते ) *दीर्घोकित* इत्यभ्यासस्याकारस्यदीर्धे यङि तल्लुकि च । (पास्पर्द्धां चक्रे, पास्पर्द्धितेतृयादि ) तत्रार्द्धधातुके * यस्य हल:* इति हल उत्तरस्य यस्य लोप:। स चादे: परस्येति यकारस्य । आकारस्य अतो लोप: । भावे तादिषु यक्यप्यतो लोपयलोपयो: कर्तृवत्सर्वत्र रूपम् ( पास्पर्द्धत इत्यादि ) लुङि तु चिणि ( अपास्पर्द्धीति ) भवति । सन्यङास्तास्यादिषु चिण्वदिटि न विशेष:, अतो लोपेन वृद्धेर्बाधादित्युक्तम् । यङो लुक्यादादिवच्चेति शपो लुकि *ज्ञषस्तयथोधोध:* । ज्ञष उत्तरयोस्तकारयकारयोर्दधातिं वर्जयित्वा धकार इति धत्वे ""ज्ञलां जश् ज्ञशि इतिजश्त्वम् । आन्तरतम्याद्दकार: । पास्पर्द्धिं, एवं वचनान्तरेषु । परस्पर्द्धं: । पास्पर्द्धति । ""अदभ्यत् इत्यद्भाव: । ( पास्पत्सिं ) । *खरि च* । खरि परे ज्ञलां चर इति चर्त्वे । ( पास्पर्द्ध: ) । सर्वत्र हलादे: पित: सार्वधातुकस्य ""यङो वा इति ईडुदाहार्य: । ( पास्पर्द्धीतीत्यादि । पास्पर्द्धां चकार ) । पूर्ववत् ""कृञोनुप्रयोगस्यइति नित्यं परस्मैपदम् । ( पास्पर्द्धिता । पास्पर्द्धिष्यति । पास्पर्द्धु । पास्पर्द्धात् ) तातङि ङिच्च पिन्नेति स्थानिवत्त्वप्राप्तस्य पित्त्वस्य निषेधादीडभाव: । ( पास्पर्द्धाम् । पास्पर्द्धतु । पास्पर्द्धिं ) सेर्ह्मादेशे ""हुज्ञलभ्यो हेद्धिं: इति धिभाव: । हेरवित्त्ववचनादिडभाव: । ( अपार्स्यत् ) । इतश्च लोपे हल्ड्यादिलोपे च ""ज्ञलां जशोन्ते इति जश्त्वे ""वावसाने इति चर्त्वे तकार: । तदभवे अपास्पर्द् । ""रात्सस्य इति नियमान्न संयोगान्तलोप: ( अपास्पर्द्धाम् । अपास्पर्धु: ) ""सिजभ्यस्त इति जुस् । ( अपास्यर्त् । अपास्पर्दू । अपास्या: ) सिपि हलङ्यादिलोपे पूर्ववज्जश्त्वे चर्त्वे वा च तदभावे ""दश्च इति सिपि परे वा रु:। ""रोरि इति पूर्वस्य रेफस्य लोप: । ""ढ्रलोपे पूर्वस्य दीर्घोण: इति पूर्वस्याणो दीर्घ: । द्रलोप इति ढकाररेफयोर्लोपनिमित्तो ढकाररेफा वुच्येते । ( अपास्पर्द् । अपास्पर्त् । पास्पद्धर्यात् । पास्पद्धर्याताम् । पास्पद्धर्यु: ) यायुटो ङित्त्वेनापित्त्वादीडभाव: । आशिषि ( पास्पद्धर्यात् पास्पद्धर्यास्ताम् । ) असार्वधातुकत्वादीडभाव: । (
अपास्पर्द्धीत् । अपास्पिर्द्धष्टाम् । अपास्पर्द्धिषु:। आस्पर्द्धी: अपास्पर्द्धिषम् )""अस्तिसिच् इति पितो नित्यमीट् । ""इट ईटि इति सिचो लोपे [ सिज्लोप एकादेश सिद्ध: ] इति सवर्णदीर्घ: , ""वदव्रजहलन्तस्याच: इति परस्मैपदपरे सिचि विहिता वृद्धि: ""नेटि इति निषिध्यते । ( अपास्पर्द्धिष्यद् इत्यादि । ) भावे सर्वत्र यङन्तवद्रूपम् । ( पास्यर्द्ध्यते ) इत्यादि, णौ ( स्पर्धयतीत्यादि ) एधतिवददुदाहार्यम् । लुङ्यनजादित्वात्प्रथमस्यैकाचो द्विर्वचनम् । *संयोगे गुरु:* इति संयोगपरस्य हस्वस्य गुरुसंज्ञाविधानात् ""सन्वल्लघुनि इति इत्वम्, ""दीर्घो लघो: इति दीर्घश्च न भवति गुरुसंज्ञया आकडारीयतयानवकाशया लघुसंज्ञा बाध्यते, कर्मणि यक्चिणोर्विषये णिलोपे ( स्पर्ध्यते ) इत्यादि, प्रकृतौ भाववद्रूपाणि उदाहार्याणि । अन्यत्र ( स्पर्धयां चक्रें ) इत्यादि कर्तृवत् । लुङि चिण् । विचनादौ सिच् । ( अस्पद्धिं अस्पर्द्धयिषातामित्याद्युदाहार्यम् ) ध्वमि ""विभाषेट: इति मूर्द्धन्यविकल्प: । स्यादिषु चिण्वदिटि तस्यासिद्धवदत्रेत्यसिद्धत्वाण्णिलोपे ( स्पर्द्धिष्यते ) इत्यादि प्रकृतिवद्रूपम् । कर्मकर्तरि यक्चिणोर्निषेधात् शपि स्पर्धयत इत्यादि कर्तृवन्नेयम् । अत्रापि स्यादिषु चिण्वतृपक्षे कर्मवत् । वत्करणात् स्वाश्रये भावे लकारे सर्वकर्मवत् । कर्तरि तृतीया विशेष: । ( स्पर्धन: ) । ""अनुदात्तेतश्च हलादे: इति तच्छीलादौ युच् । स्पर्द्धा । *गुरोश्च हल:* इति गुरुमतो हलन्तात् स्त्रियामकारप्रत्यय:। वासरूपेणक्तिचस्त्रियामिति निषेधान्न भवति । ( इदमेषां स्पर्द्धितम् । स्पर्द्धितमनेन । स्पर्द्धित: ) । ""क्तोधिकरणे च इति कर्तृभावाधिकरणेषु क्त: । स्पर्धालुप्रयोगश्चिन्त्य: ।। 3 ।।
गाधृ प्रतिष्ठालिप्सयोर्ग्रन्ये च ।। स्थापना तत्स्थापनं वा प्रतिष्ठा । लब्धुमिच्छा लिप्सा । एकत्र स्थापनं संदर्भो वा ग्रन्ध: । तत्राद्ये ऽकर्मक:, इतरयो: सकर्मक:, ( गाधते । गाधसे । गाधे । गाधमान: । जागाधं । गाधिता । गाधितासे । गाधिताहे । गाधिष्यते गाधिष्यमाण: । गाधताम् । गाधस्व । गाधै । अगाधत । अगाधथा: । गाधेय । आशिषि गाधिषीष्ट । गाधिष्ट । अगाधिष्ठा: । अगाधिषि । अगाधिष्यतेत्यादि ) भावकर्मकर्तृषु लट्लोट्लङ्विध्यादिलिङ्क्षु यक् । (गाध्यते । गाध्यसे । गाध्यताम् । अगाध्यत । गाध्येतेत्यादि)
(अन्येषु लेषु कर्तृवत्, लुङयेकवचने तु चिणि (अगाधीति । ) लिप्यायामप्यार्थेन न्यायेनेष्यमाणप्रधानत्वात्तस्य च कर्मस्थत्वात्सनन्तवत् कर्मकर्तृत्वोवपत्ति: ( जिगाधिषते । जिगाधिषां चक्रे । जिगाधिषिता । जिगाधिषिष्यते । जिगाधिषाताम् । अजिगाधिषत । जिगाधिषेत ) आशिषि ( जिगाधिषिषीष्ट । अजिगाधि?षिष्ट । अजिगाधिषिष्यतेत्यादि ) सर्वत्राभ्यासकार्यम् । आर्धधातुकेऽतो लोप:, भावकर्मणोर्यक्चिण्विषये ( जिगाधिष्यते ) अजिगाधिषीत्यादि । कर्मकर्त्तरि यक्चिणोर्निषेधात् कर्तृवदेच ( जागाध्यते ) जागाधां चक्रे । जागाधिता । जागाधिष्यते । जागाध्यताम् । अजागाध्यत । जागाध्येत ) आशिषि ( जागाधिषीष्ट । अजागाधिष्ठ । अजागाधिष्यत )सर्वत्राभ्यासस्य दीर्घोऽकित: । आर्धधातुके ""अतो लोप: ""यस्य हल इति यलोपाल्लोपौ । भावादिषु यक्यप्यल्लोपयलोपयो: सर्वत्र कर्तृवद्रूपम् । लुङयेकवचने त्वजागाधीतिचिण्विशेष: । सन्यङोश्चिण्वदिव्यतोलोपेन वृद्धिबाधाद्न विशेष इत्युक्तम् । यङलुकि ""ज्ञषस्तथोर्धो ऽध: । ""ज्ञलां जश् ज्ञशि ( जागद्धीत्येवं )? सिपि *एकाचो बशो भष् ज्ञषन्तस्य स्ध्वो:* इति धातोररवयवस्य ज्ञषन्तस्यैकाचो बश: स्थाने भषादेश: सकारादौ प्रत्यये ध्वे च परे पदान्ते च विषये इतयान्तरम्यात् गकारस्य घकारे ""खरि च इति धकारस्य तकारे ( जाधात्सीति । जगाधां चकार ) । ""पूर्वतत्कृञ इति परस्मैपदम् । ( जागाधिता । जागाधिष्यति । जागाद्धु । जगाद्धात् । जागाधानि । अजाघात् । अजाघाद् ) हलङ्यादिलोपे पदान्ते चेति बशो भषादेशे जश्त्वे च चर्त्वम् । सिपि तु ""दश्चइ?ति वा रुत्वे ( अजाघा इत्यपि । जागाध्यात् । जागाध्याताम् । आशिषि जागाध्यात् । जागाध्यास्ताम् । अजागाधीत् । अजाधिष्टाम् । अजागाधिष्यदित्यादि) सर्वत्र यङ्लुगन्तात्परस्य हलादे: पित: सार्वधातुकस्य पक्षे ईडुदाहाये: । लुङितु ""अस्तिसिचो इति नित्य: । भावादौ यङन्तवत् ( गाधयति । गाधायां चकार । गाधयिता । गा?धयिष्यति । गाधयतु । आधयत् । गाधयेत् )
आशिष्यनिडाद्यार्धधातुकत्वाण्णिलोपे ( गाध्यात् । अजगाधत् ) अत्रास्य ऋदित्त्वात् ""नाग्लोपिशास्वृदिताम् इति णै चङि हस्वे निषिद्धेभ्यासस्यालघुपरत.वात्सन्वदित्वलघुदीर्घंत्वेन भवत: (गाधयत) इत्याद्युदाहार्यम्, प्रतिष्ठायाम् ""अणावकर्मकात् इति चित्तवत्कर्त्तृ कत्वे परस्मैपदमेव । भावकर्मणोर्यक्चिणोर्विषये? णिलोपे
गाधतिवद्रपम् । स्यादिषु तु ण्यन्ते कर्तृ वत् । चिण्वदिटि तु णिलोपे गाधितेत्यादि प्रकृतिवदेव । कर्मकर्तरि यक्चिणोनिषेधान्रवसु लकारेषु कर्तृ वत् । (गाधन:) । ""अनुदात्तेत इति युच् । (गाधा । ) ""गुरोश्च हल: इत्यकार:, प्रतिष्ठायां स्पर्द्धिवत्, भावकर्त्रधिकरणेषु क्त उदाहार्य:, इतरयोस्तु ""तयोरेव नियमात्कर्मणि ।।4।।
बाधृ लोडने ।। लोडनं प्रतिघात: गाधिवत् । बाहु: । ""गर्जिदृदशिकम्पमिपंसिबाधामृजिपशितुग्धुग्दीर्घहकाराश्च इति कुप्रत्यये धातोर्हकार: ( भद्रबाहू: ) चतुष्पाद्विशेष: । ""बाह्वन्तात्संज्ञायाम् इति स्त्रियामूङ् प्रत्यय: । सुबाहुनांम कश्चित् तस्यापत्यं ( सौबाहवि: )
""बाह्वादिभ्यश्च इति षष्ठयन्तादपत्य इञ् । *ओर्गुण:* । उवर्णान्तभस्याङृगस्य तद्धिते गुण इति गुणेऽवादेश:, यद्यपि बाह्वादिषु केवलो बाहुशब्द: पठ्यते, [ समासप्रत्ययविधौ तदन्तविधे: प्रतिषेध: ] इति तदन्तविधिश्च प्रतिषिष्यते, तथापि केवलस्यापत्येनायोगात्तदन्तत्वलाभ:, संज्ञात्वेन विनियुक्ताद् बाहोस्तु प्रत्यो नेष्यते । यदाह ।।
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुता: ।
शास्त्रार्थस्तेषु कर्त्तव्य: शब्देषु न तदुक्तिषु ।।
इति । ""राजश्वशुराद्यद् इत्यत्र भाष्यादौ चोक्तं "संज्ञायां श्वशुराद्यन्न'इति । ( उभाबाहु, उभयाबाहु प्रहरति । ) ""द्विदण्डयादिभ्यश्च इतीच् समासान्त: । तस्य च द्विदण्डयादिष्वेव पाठाल्लोप:, प्रत्ययलक्षेणन तदन्तत्वात् तिष्ठद्गुप्रभृतिष्विच: पाठात्तदन्तस्याव्ययीभाव्त्वविधानात् ""अव्ययीभावश्च इत्यव्ययत्वे सुपो लुक् । उभयबाहित्यत्र ""उभादुदात्तो नित्यम् इत्यत्रास्वरितत्वादेव वाग्रहणाननुवृतेर्नित्यमयचि सिद्धे नित्यग्रहणं योगभेदेन वृत्तौ नित्यमजन्तस्य प्रयोगार्थमित्युभशब्दस्योभयादेश:, अयमर्थ: सर्वादिसूत्रे कैयटादौ स्फोरित: । तथा च तत्र वार्त्तिकमपि [उभस्य सर्वनामत्वेऽकजर्थ: पाठ: । अन्याभावो द्विवचनटाब्विषयत्वाद् उभयोन्यत्रेति।]
उभाबवाह्वित्त्यत्र तु द्विदण्ड्यादिपाठाद् उभयाभाव: ।। 5 ।।
नाधृ नाथृ याच्चोपतापैश्वर्याशी:षु ।। उपतापो रोग इति वृत्तौ । उपघात इति तरङ्गिण्याम् । आद्यो धान्त:, अपरस्थान्त: । अस्य थान्तस्य धान्तकाण्ड पाठोऽर्थसाम्यात् । उभवपि दन्त्यादी । सर्वं गाधतिवत् । द्वितीयस्य तु विशेष: । ""आशिषि: नाथ: इत्याशिष्येवात्मपेपदं, कर्मणि शेषत्वेन विवक्षिते षष्ठी च । ( सपिषो नाथत इत्यादि) । ""षष्ठी शेष इत्येवात्र षष्ठीसिद्धौ वचनमिदं सर्पिषो नाथनमित्यादौ समासनिवृत्त्यर्थं षष्ठी श्रूयत एव न लुप्यत इति, स ( 1 ) ( 1 ) "षष्ठीलोपश्च समासे' इति क्वाचित्पाठ: ।
लोपश्च समासे । उक्तं च ।
साधनैव्र्यपदिष्टे च श्रुयमाणक्रिये पुन: ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ।।
इति । न तर्हींदानीमिदं सम्भवति सर्पिनांथनमिति । भवति यदा कृद्योगलक्षणा षष्ठी । तथा च वार्तिकं, [ प्रतिपदविधाना च षष्ठी न समस्यते कृद्योगा च षष्ठी समस्य इति ] न चैवं सति समासनिषेधस्य वैयर्थ्यमिति वाच्यम् । यत: शेषषष्ठ्या: समासे ""समासस्य इत्यन्तोदात्तत्वेन भाव्यम्, अन्यस्यास्तु *गतिकरकोपपदात् कृत्* गत्यादिभ्य: पंर कृदन्तमुत्तरपदं प्रकृतिस्वरमित्युत्तरपदप्रकृतिस्वरेण भाव्यं, स च लिति प्रत्यये पूर्वमुदात्तत्वम् । अनाशिषि परस्मैपदं द्रष्टव्यम् ( नाथति । ननाथ । नाथिता । नाथिष्यति । नाथतु । अनाथद् । नाथेत् । नाथ्यात् । अनाथीत् । अनाथिष्यत् । निनाथिषतीत्यादि ) यङ्लुक्यज्ञषन्तत्वात् ""ज्ञषस्तथोर्धो ध: इति धत्वाभावे ""खरि च इति चर्त्त्वे ( नानात्ति । नानात्त: । नानात्थ इत्यादि) विशेष: । अत्र मैत्रेयामभरणकारावाद्यं णोपदेशं पठन्तौ ""णो न: इति धात्वादित्वाण्णकारस्य नकारं विधाय ""उपसर्गादसमासेपि णोपदेशस्य इति उपसर्गस्थान्निमितात्परस्य णोपदेशनकारस्य समासासमासयोर्णत्वविधानात् (प्रणाधत) इत्यादौ णत्वप्रयोजनमाहतु: । सर्वे नादयो णेपदेशा इत्यस्य पर्युदासे नृति?नन्दिनर्दिनर्दिनर्दिनक्किनटिनाधृनाथवर्जमित्यत्र च नपेठतु: । अत्र काश्यप: । नाधतेर्णोपदेशत्वमयुक्तं, गणकारवृत्तिकारादीनामनिष्टत्वादिति । नृतिनन्दीतृयादिवाक्ये नाधृनृवर्जं नृत्यादीन् पठित्वैतान्सप्त वर्जयित्वेति वदन् श्रीकरोप्यत्रैवानुकृल: । तथापर्युदावाक्ये नर्दतिवर्जं सर्वानेतान् पठत: शाकटायनन्यासकृतोप्ययमेव
पक्षोभिमत: । उभयोस्थान्तपाठस्तु धान्तप्रकरणविरोधान्नाशक्य:। इमौ याञ्चायामकथितेप्सिततमाभ्यां द्विकर्मकौ?।
दुहियाविरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुतिवशासिगुणेन च यत्सचते तदकीर्त्तितमाचरितं कविना ।।
इतृयत्र भिक्षेरर्थपरत्वात् । उक्तं च कैयटे । दुह्मादीनां चार्थोपलक्षायोपादानात् पर्यायप्रयोगेपि कर्मसंज्ञा भवतीति । अथांश्रय चेयं संज्ञा न दुह्मादिवत्स्वरूपाश्रयेति भिक्षि प्रस्तुत्य वदतो हरदत्तस्यापि मते ।़त्र न विवाद: । श्लोकार्थस्तु उपयुज्यत इत्युपयोग:, वय:प्रभृतिप्रधानं कर्म, तस्य निमित्तं गवादि तच्च यच्च ब्रुविशास्योर्गुणेन प्रधानकर्मणा धर्मादिना क्रियां प्रति साधनत्वेन गुणत्वात् लब्धगुणव्यपदेशेन सवते सम्बन्धमुपैति माणवकादि, तदुभयं कारकं पूर्वविधौ विशेषेणाविवक्षितत्वादनादनादिसंज्ञाभावे कविना क्रान्तदर्शिना सूत्रकारेणाकथितं कर्मोक्तमिति । याचिरिहानुनयार्थ: । याचनार्थस्य तु भिक्षिणैव सिद्धम् । अथान्येपि द्विकर्मका: प्रसङ्गात् प्रदर्श्यन्ते । यदाह ।
नीवह्मोर्हरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं कत्तव्यमिति निश्चय: ।।
गत्यर्थग्रहणं गत्यादिसूत्रोपात्तानामुपलक्षणम्,
जयते: कर्षतेर्मन्येर्मुषेर्दण्डयते: पचे: ।
तारेर्ग्रा हेस्तथा मोवेस्त्याजेर्दीपेश्च संग्रह: ।।
कारिकायां चशब्देन सुधाकरमुखै: कृत: ।
ग्राहेरिह ग्रहो नैव हरदत्तस्य संमत: ।।
यदसौ ""गतिबुद्धि इत्यत्राथ कथम् "याचितारं नहि देवेवमद्रि: सुतां ग्राहयितुं शशाक' इति स्वतन्त्रा: कवय: । यद्वा सुतां प्रति नकिंचिदुद्वाहविषयं ग्राहयितुं बोधयितुं शशाकेत्येवं व्याख्येयम् । अत्र बुद्धयर्थत्वात् द्विकर्मकत्वं सिद्धमिति समर्थयते इतीयं च निर्व्वाहणा दिक् । प्रतिग्रहणस्य ममेदमिति बुद्धिविशेषनिरूप्यत्वात् सुतां ग्राहयितुं ममेयमिति बोधयितुं न शशाक इत्येवं व्याख्यातुमुचितत्वात् । इदानीं नकिंचिदुद्वाहविषयमित्याद्यध्याहर्त्तव्यं भवति । तथा श्रीकराचार्यस्याप्यभिमतमुपादानर्थस्य द्विकर्मकत्वम् ।
अजिग्रहत्तं जनको धनुस्तद्येनार्दिदद्दैत्यपुर: पिनाकी ।
जिज्ञासमानो बलमस्य बाह्वोहॅंसन्नताक्षीद्रघुनन्दनस्तत् ।।
इति भट्टिश्लोकं विवृण्वन्यदाह तद्धनुस्तं रामं जनकोऽजिग्रहत् बोधितवान् अनेन धनुषा त्रिपुरं दग्धमिति, ग्रहेश्च बुद्धयर्थत्वात् ""गतिबुद्धि इत्यादिना रामस्य कर्मसंज्ञा, धनुषस्तु ""कर्तुरीप्सिततमम् इति ग्रहहिद्विकर्मक: । उपानार्थत्वे तु ग्रहिग्रत्यादिष्वेकोऽपि न भवतीति कथं तमितीति । अत एव ।
तमादौ कुलविद्यानार्थमर्थविदां वर: ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत पिता ।।
इत्यर्थमबोधयदित्यर्थ:। बुध्यर्थत्वाद् द्विकर्मकत्वमुक्ता पाणिमग्राहयदित्यत्र तेनेत्यध्याहारेण व्याख्यानात् प्रकृत्युपश्लेषेण बुद्धयपादानयोर्ग्रहणं, किं चास्य द्विकर्मकत्वे अथ प्रजानामधिप: प्रभाते जायाप्रतिग्राहितगन्धमाल्यामित्यत्र "ण्यन्ते कर्तुश्च कर्मण' इति प्रयोज्यायाधेनोरभिध्णानेन भाव्यं, ततश्च जायया गन्धमाल्ये या धेनु: प्रतिग्राहितेति विग्रहीतव्यम्, अत्र च प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु
बहुव्रीहिरित्युक्तत्वात्मसमासो न स्यात्, सत्यपिसमासे समानाधिकरणोत्तरपदाभावत् ""स्त्रिया: पुंवत् इति पुंवद्भावो न स्यात् । पक्षान्तरे तु गन्धमाल्ययोरेव कर्मत्वात्वात्तयोरेव क्तस्तेनाभिधानात् जाया प्रतिग्राहिते गन्धमाल्ये यया धेन्वेतृयूडरथादिवत् तृतीयार्थेन समास: सिध्यती गतमद: । इतिषशकी च द्विकर्मकौ भाष्यउक्तौ । एवं चायाचितारं नहि देवदेवमित्यत्रापि देव: शक्यपेक्षया कर्म सुता प्रहिग्रहापेक्षयेति न संकटं किं चित् ।।
अथ द्विकर्मकसाधारणमिदं विचार्यते ।। किमेते तादय: प्रधाने कर्मणि भवन्ति अथाप्रधाने । न चानयोर्युगपदभिधानसंभवो भिन्नकक्षत्वात् । अत्राह ।
प्रधानर्मण्याख्येये लादीनाहुद्विकर्मणाम् ।
अप्रधाने दुहादीनां ण्यन्ते कर्तृश्च कर्मण: ।।
इति । अभिधान इति शेष: । अत्र द्विकर्मणामित्यनेन "नीवह्मोर्हरतेश्च' इति च शब्दसमुच्चित: कृषि: नयत्यादयश्च त्रय उच्यन्ते । अन्येषां विशेषस्य वक्ष्यमाणत्वात् । तथा दुह्मादीनामित्यनेन कारिकोपात्ताश्चशब्दसमुच्चितेष्वहेतुमण्ण्यन्तादज्णयादयश्चोच्यन्ते, ण्यन्त इत्यनेन तु गत्यादिसूत्रोपाताश्चशब्दसमुच्चितास्तार्यादयश्च । अक्ष बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु प्राकृते वा कमणि प्रयोज्ये वा लादय: । यदाह ।
कथितेभिहिते त्वविधिस्त्वमतिगुणकर्मणि लादिविधि: सपरे
ध्रुवचेष्टितयुक्तिषु चाप्यगुणे तदनल्पमतेर्वचनं स्मरति ।।
अस्यार्थ: । तत्र प्रथम: प्रधानकर्मणि लादिभिरमिहिते गुणकर्मणि षष्ठीत्येकीयमतदुषणपर इति इहानुपयोगात् न व्याख्यायते । सपरे गत्यादिसूत्रोपात्तसहिते दुह्मादौ गुणकमेणि लादय: । गुणकर्मति पुरुषप्रवृत्ते: पय: प्रभूत्यर्थत्वात् दुह्मादावप्रधानं गवाद्यच्युते । ण्यन्ते तु शब्दत: प्रयोजकव्यापारस्य प्राधान्यं प्रयीज्यव्यापारस्य त्वप्राधान्यमिति तदाप्यधर्माद्युच्यते । ध्रुव्युक्तयोऽकर्मका:, चेष्टितयुक्तयो गत्यर्था: एष्वगुणे प्रयोज्ये, तदेतदनल्पमतेर्मेधाविन आचार्यस्य वचनमिति । अत्र स्मरतोत्यनेनागमस्याविच्छेदं दर्शयति । एवं चात्रापि याचनस्य धनाद्यर्थत्वात्तस्यैव प्राधान्यादन्यद्राजादि कर्माप्रधानमिति तत्रैव लादयो भवन्तीति ( नाथ्यते राजा धनं नाथ्य: नाथित: सुनाथ ) इत्यादि भवति । नाथिता धनस्य राज्ञ इतयत्र च कर्मणि षष्ठयुभयत्र भवति । गुणकर्मण्युभयथा ( गोणिकायुत्र ) इति भाष्ये उक्तत्वात् द्वितीयापि द्रष्टव्या । ( नाथिता धनस्य राजानमिति ) भाष्ये नयतेरुदाहरणं प्रदर्शनमात्रं, स्पष्टं चैतत पदमञ्जर्यादिषु । ( नाथितव्यो राजा धनं देवदत्तेनेत्यत्र कर्तृकर्मणा ) प्राप्ता कृद्योगलक्षणा षष्ठी *कृत्यानां कर्त्तरि वा* इतृयत्र कृत्यानामिति योगं विभजृय प्राप्तौ नेति चानुवर्त्त्य उभयप्राप्तौ नेति चानुवर्त्त्य उभयप्राप्तौ कृत्ये षष्टयाभावस्य भाष्ये प्रतिपादितत्वाच्च भवति । स्पष्टं चैतत्कैयटादौ । यत्तु "कृत्वार्ना' इत्यत्रोभयप्राप्तौ कृत्ये षष्ठीपतिषेध इति वृत्तिमुपादाय प्रतिषेधो ऽयं कर्त्तरि षष्ठया: कर्मणि षष्ठी तु प्रधानस्य कर्मण: कृत्वेनाभिधानादन्यस्याप्राधान्?यादप्रसङ्ग इति न्यासे ऽर्थसत्वमुक्तं उभयप्राप्तिव्यतिरिक्तकृत्यविषय: । ( नाथितव्यं सर्पिर्देवदत्तेन देवदत्तस्येति वा ) 6---7 ।।
दध धारणे ।। दान इति के चित् पठन्ति, दद दान इत्यत्र धारण इति । तदयुक्तम् ।
तद्वेषोसदृशोन्याभिस्त्रीभिर्मधुरताभृत: ।
दधते सुलभां शोभां तदीया विभ्रमा इव ।।
पिबति च पाति च यासकौ रहस्त्वाम् ।
ब्रज विटपमुंददस्व तस्यै ।
दाददो दुद्दुद्दादी दाददादो दूददीददो: ।
दुदादं दददे दुद्दे ददाददददो ऽदद: ।।
इत्यादौ दधो धारणार्थत्वस्यान्यस्य दानार्थत्वस्य च व्यवस्थितत्वात् ( दधते । दधेते । दधन्ते । दधसे । दधावहे । दधामहे । देधे । देधाते । देधिरे । देधे । देधिवहे) *अत एकहलमध्येनादेशादेर्लिटि* । किति लिटि परत्रावस्थिते यस्यादिरादेशो नास्ति तस्यासहाय योर्हलोर्मध्यगतस्याकारस्यैकारो । ऽभ्यासस्य लोप इत्येत्वाभ्यासलोपौ । अथ शिदिति सर्वादेश: । नन्वभ्यासादेर्दकारस्य जश्तृवेन प्रकृतिजशां प्रकृतिजश इति दत्वे कथमनादेशादित्वम् । न च पूर्वत्रासिद्धत्वम् । ""तृफलभजत्रपश्च इति फलभजिग्रहणात् । असिद्धत्वे ह्मनादेशादित्वेनैवेत्वाभ्यासलोपयो: सिद्धत्वान्न तत्कुर्यात् । एवं तर्हि *न शशददवादिगुणानाम्* इति शसदयोरेत्वाभ्यासलोपनिषेधाद्रपाभेदे आदेशादित्वं नाश्रयिष्यते । तथा च वार्तिकम् ।
[ प्रथमतृतीयादीनामादेशादित्वादेशादित्वादेत्वाभाव इति चेच्छसिददिप्रतिषेधो ज्ञापको रूपाभेदे एत्वविज्ञानस्येति]
( दधिता । दधितासे । दधिताहे । दधिष्यते । दधिष्यमाण: । दधताम् । दधस्व । दधै । अदधत । अदधेताम् । अदधन्त । अदधथा: । अदधे । अदधावहि । दधेत । दधेयाताम् । दधेथा: । दधेय । आशिषि । दधिषीष्ट
। अदधथा:। अदधे । अदधावहि । दधेत । दधेयाताम् । दधेथा: । दधेय । आशिषि । दधिषीष्ट । अदधिष्ट । अदधिषाताम् । अदधिष्ठा: । अदधिषि । अदधीषताम् । अदिदधिषत । दिदधियेत ) आशिषि ( दिदधिषिषीष्ट । अदिदधिषिष्ट । अदिदधिषिष्यत ) इत्यादि । कर्मणि यक्चिण्विषये दिदधिष्यतइत्यादि ) अन्यत्र कर्तृवत् । कर्मकर्त्तरि तु यक्चिणोर्निषेधात्सर्वत्र कर्तृवत्। अतो लोप आर्द्धधातुके ( दादध्यते । दादधां वक्रे । दादधिता । दादधिष्यते । दादधिष्यते । दादध्यताम् । अदादध्यत । दादध्येन । आशिषि । दादधिषीष्ट । अदादधिष्ट । अदादधिष्यत ) ""दीर्घोकित: इत्यभ्यासदीर्घं: । सर्वत्रार्धधातुके ""यस्य हल: ""अतो लोप: इति यलोपाल्लोपौ । कर्मकर्त्रोर्यडन्तेऽपि विशषे नेति गाधतावेवोपपादितम् । ( दादद्धि । दादद्ध: । दाधत्सि । दादध्मि )""दधस्तथोश्च इत्यत्र कृतद्विर्वचनस्य दधातेयर्ग्रहणात् तकारथकारादो चकारात् सकारादौध्वे पदान्ते बशो विधीयमानो भष्भावोऽस्य न भवति ""एकाच: इति सदौ ध्वे पदान्ते च विधीयमारन: सामान्य एव भवति ( दादधां चकार । दादधिता । दादाधिष्यति । दादद्धात् दादद्धि । दादधानि । अदाधत् । अदादधद् । अदादाद्धाम् । अदादधु: । अदादाधा: । अदादधत् । अदादधद् । अदादद्ध । अदादधम् ) अत्र ""हल्ङ्याब्भ्य इति तिप्सिपोर्लोपे पदान्तत्वात् ""एकाच इति भषभावे जश्त्व वा चर्त्वम् । सिपि तु ""दश्च इति वा रुत्वं च । जशादौ ""ज्ञलां जश् ज्ञशि इति धकरस्य दकार: ( दादध्यात् । दादध्याताम् । आशिषि दादध्यात्, दादध्यास्तामित्यादि । अदादधीत् । अदादाधीत् ) *अतो हलदेर्लघो:* इति हलादेर्हलन्तस्य लघोरत: स्थाते वा वृद्धिरिडादौ परस्मैपदापरे सिचि एवं ( अदादादधिष्टाम् । अदादाधिष्टामित्यादि । अदादधिष्यदित्यादि) सर्वत्र यङलुक: परस्यहलादे: पित: सार्वधातुकस्य पक्ष ईडुदादहार्थ: । कर्मणि यडन्तवदिति बाधतावुपपादितम् । दाधायतीत्यादि बाधयतिवत् । णौ चङि तु ""णौ चङ्यु इति हस्वत्वे सन्वदित्वदीर्धत्वे विशेष: । अदीदधदित्यादि ( दधन: ।) "अनुदात्तेतश्च इति युच् ।।8।।
स्कुदि आप्रवणे ।। आप्रवणमुत्प्लवनमुत्प्लुतृय गमनं वेति तरङ्गिणी । उद्धरणमिति भोज: । अत्र सकर्मक: । ""इदितो नुम् धातो: इतृयन्तेदित्त्वान्नुमागम उपदेशिवद्वचनादुपदेशावस्थायाम् ( स्कुन्दते । स्कुन्दसे । स्कुन्दे । चुस्कुन्दिषे । चुस्कुन्दिवहे ""शर्पूर्वा: इति खय: शेष: । *कुहोश्चु:* । अभ्यासकवर्गहकारयोश्चवर्ग इत्यान्तर्यात् ककारस्य चकार: ( स्कुन्दिता । स्कुन्दिष्यते । स्कुन्दताम् । अस्कुन्दत । स्कुन्देत । आशिषि । स्कुन्दिषीष्ट । अस्कुन्दिष्ट । अस्कुन्दिष्यत ) भावादिषु यक्चिणौ । ( स्कुन्द्यते । स्कुन्द्यताम् । अस्कुन्द्यत । स्कुन्द्येत । अस्कुन्दीत्यादि । चुस्कुन्दिषते । चुस्कुन्दिषाञ्चक्रे । चुस्कुन्दिषिता । चुस्कुन्दिषिष्यते । चुस्कुन्दिषताम् । अचुस्कुन्दिषत । चुस्कुन्दिषेत । आशिषि । चस्कुन्दिषिषीष्ट । अचुस्कुन्दिषिष्ट । अचुस्कुन्दिषिष्यत । चोस्कुन्द्यते । चोस्कुन्दाञ्चक्रे । चोस्कुन्दिता । चोस्कुन्दिष्यते । चोस्कुन्द्यताम् । अचोस्कुन्द्यत । चोस्कुन्द्येत । चोस्कुन्दिषीष्ट । अचोस्कुन्दिष्ट । अचोस्कुन्दिष्यत ) भावादौ न विशेष इति गाधतौ प्रतिपादितम् । ( चोस्कुन्दीति । चोस्कुन्ति । चोस्कुन्दाञ्चकारेत्यादि ) लङि तिप्सिपोर्हल्ङ्यादिसंयोगान्तलोपयो: अचोस्कुन् ।) भावादौ यङन्तवदित्युक्तम् ( स्कुन्दयति । स्कुन्दयतइतृयादि । स्कुन्दन:। युच स्कुन्दा) उपदेशावस्थायां नुमो विधानाद् धातोर्गुरुत्त्वाद् ""गुरोश्च हल: इति स्त्रियामकारो लघूपधगुणाभावश्च ।। 9 ।।
श्विदि श्वैत्ये ।। अकर्मक: । श्वेतस्य गुणस्यापि धातुना साध्यतया क्रमिकतया वाभिधानात् क्रियात्वम् । यदाह ।
श्वेतते: श्वेत इत्येतत् श्वेतत्वेन प्रकाश्यते ।
आश्रितक्रमरूपत्वादभिधानं प्रवर्त्तते ।।
इति । पूर्ववन्नुमागम: ( श्विन्दते ) इत्यादि स्कुन्दिवत् ।। 10 ।।
वदि अभिवादयतेप्यावार्य श्वशुरं राजा?नमिति । ( वन्दते । ववन्दे । ?वन्दितेत्यादि ) पूर्ववन्नुमि कृते ऽकारस्यासहायहल्मध्यगतत्वाभावान्नैत्वाभ्यासलोपौ । ""न शसददवादिगुणानं इतिनिषेधाद्वा । गुण इति तद्भावितोकार उच्यते ( वन्दारु: ) ""शॄवन्द्योरारु: इति तच्छीलादिकर्तृष्वारुप्रत्यय:( वन्दना ) ""घट्ि वन्दिविदिभ्यश्च इति स्त्रियां युच् । वन्दा वृक्षरुहा । बाहुलकात् स्त्रियां संज्ञायामुकार:। वन्दा वृक्षादनी
"वृक्षरुहाजीवन्तिकेत्यपि' इत्यमर: । ( वन्दीति । ) स्तोतर्यावश्यकणिन्यन्त: । "हठहूतमहिलायां त्विन्' इति सर्वधातुविषयेन्नन्तात् ( सर्वतोऽक्तिर्थादित्येके इति ङीषि । अयं बशादिरपभ्रंश: । यदाह राजानक: संदिग्धस्योदाहरणे ।
आलिङ्गितस्तत्रभावान्संपराये जयश्रिया ।
आशी: परंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ।।
अत्र वन्द्यामिति किं हठहूतमहिलायामुत नमस्यामिति सन्देह इति ( वन्द्र: ) पूजक: । ""स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्नद्युन्दिश्वितिवृत्यजिनी पदिमदिसुदिखिदिच्दिदिभिदिमन्दिवचिन्दिदहिदसिदम्भिवाशिशीङ्हसिसिधिशुभिभ्यो रक् इति रक् प्रत्यय:
।। 11 ।।
भदि कल्याणे सुखे च ।। कल्याणं मङ्गनं सुखमात्मगुण: । ( भन्दते । बभन्दे । भन्दिते त्यादि स्कुन्दिवत् । ?देवदत्ताय भद्रं भूयाद्देवदत्तस्येति वा) । ""ऋज्ज्रेन्द्रायवज्विप्रकुब्रचुब्रक्षुरखुरभद्रोग्रमद्रभेरभेलशुक्रशुक्लवत्रेरामाना इति रक्यनुनासिकलोपे भद्रशब्दो निपातित: । तद्युक्तात् *चतुर्थि चाशिष्यायुष्मद्रभद्रकुशलसुखार्थहिर्तै:* इत्याशिषि गम्यमानग्यां चतुर्थीषष्ठयौ । अत्रायुष्यादयोऽर्थपरा:। ( भद्राकरोति मुण्डयतात्यर्थ: । ) [ भद्राच्चेति वक्तव्यम् ] इति परिवापणे मुण्डने कृञो योगे डाच्? प्रत्यय: । अस्य ""ऊर्यादिच्विर्डाचश्च इति गतित्वात्वूर्वे प्रयोग: । अत एव निपातत्वेनाव्यात्वात्सोर्लुक् ।। 12 ।।
मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु ।। कान्तिगतिष्वित्येके । मोदो हर्ष: । मदो गर्व: । स्वप्न आलस्यम् । चन्द्रस्तु मदि जय इत्यपि पपाठ । स्तुतिगतिभ्यामन्यत्राकर्मक: ( मन्दते । ममन्दे । मन्दितेत्यादि पूर्ववत् । मन्दुरा) ""मन्दिवाशिमथिचतिवह्कयङ्किभ्य उरच्(मन्दिरम्) ""हषिमदिमुदि-खिदिच्छिदिभिदिमन्दिचन्दितिमिमुहिमिहिमुचिरुचिरुधिशुषिबन्धिभ्य: किरच् इति किरच् ।
( मन्द्रम् ) ""स्फायितञ्चीति आदिना रक् ( मन्दार:)""अगिमदिमन्दिभ्य आरन् इत्यारन् । मन्दर: । बाहुलकादर: । यद्वा मन्दं रातीति मन्दर: । अयं मदी हर्षे दिवादौ । मद हर्षग्लेपनयोघटादौ । मद् तृप्तियोग इति चुरादौ ।। 13 ।।
स्यदि क्लिदि परिदेवने ।। परिदेवनं शोचनम् । सकर्मक: ( क्लिन्दते देवदत्तम् । चिक्लिन्दे । क्लिन्दितेत्यादि पूर्ववत् । क्लेदा) "क्लेदौषधिशशाङ्कयो:' इति यादवप्रकाश: । ""श्वन्नुक्षन्पूषन्प्लीहन्क्लेमन्स्नेहन्मूर्द्धन्ज्यन्नर्यमन्विश्वप्सन्परिज्मन्मघवन् इति कनिनि गुणनुमभावयोर्निपातित: । ""सर्वनामस्थाने चासंबुद्धौ इति नान्तत्त्वादुपधाया दीर्घ: । संबुद्धौ हल्ङ्यादिलोपे प्रत्ययलक्षणेन सुबन्तत्वात्पदत्वाच्चलोप: ""प्रातिपदिकात् इति प्राप्तो नलोपो ""न ङिसंबुद्धो: इति निषिध्यते, भसंज्ञायामलोपे ( क्लेद ) इत्यादि, सप्तम्येकवचने ""विभाषा ङिश्यो: इत्यल्लोपस्य विकल्पनात् ( क्लद्नि क्लेदनि इत्यपि भवति । हलादौ पदत्वान्नलो पेक्लेदभ्यामित्यादि । नलोपस्य पूर्वत्रासिद्धत्वात् ""सुपि च ""अतो भिसे ऐस् ""बदुवचने ज्ञल्येत् इत्येते विधयो न भवन्ति । स्कुन्द्यादय एतदन्ता: सप्त इदित: । अयं परस्मैपदादिप्वपि पठिष्यते । ऊदिदार्द्रीभावे दिवादौ ।। 15 ।।
मुद हर्षे ( मोदते । मोदते । मोदे । लघूपघत्वाद्गुण: । मुमुदे । मुमुदाते । मुमुदिषे । मुमुदिवेह ""असंयोगाल्लिट्कित् इति कित्त्वान्न गुण: ( मोदिता । मोदिष्यते । मोदताम् । अमोदत । मोदेत आशिषि । मोदिषीष्ट । अमोदिष्ट । अमोदिष्यत ) इत्यादि । भावे ( मुद्यते । अमुद्यत । मुद्यते । अमोदि । शेषं कर्तृवत् । मुमुदिषते, मुमोदिषते ) ""रलो व्युपधाद्धलादे: संश्च संश्च रलन्ताद्धलादेरुकारेपधात् परौ सेटौ त्क्कासमौ वा कितौ भवत इति कित्त्पक्षे न गुण: । (मुमुदिषां चक्रे इत्युदाहार्यम् । मोमुद्यते । मोमुदां चक्रे । मोमुदितेत्यादि ) अजार्धधातुके यलोपाल्लोपयोर्लधूपधगुणो न भवति । ""न धातुलोप आर्धधातुके इति धातृवेकदेशलोपनिमित्तार्धधातुकनिमित्तयोणवृद्योर्निषेधाद् ""अच: परस्मिन् पूर्वविधौ इत्यल्लोपस्य स्थानिवत्त्वादूठा ( मोमोत्ति । मोमुत्त: । मोमुदति । मोमोत्सि । मोमुदोषि । मोमोद्धि । मोमुदीमि । मोमुद्व:)
यङ्लुकोऽनैमित्तिकत्वात् ""नधातुलांपइति निषेधो न भवति । र्हटि तु ""नाभ्यास्तस्याचि पिति सार्वधातुके इति निषेध:। ( मोमोदां चकार । मोमोदिता । मोमोदिष्यति । मोमोत्तु । मोमुत्तात् । मोमुदीतु । मोमुद्धि ) । हेरपित्त्वान्न गुण: । ( मोमुदानि । मोमुदाव ) आठ्यजादिपित्सार्वधातुकत्वात् ""नाभ्यस्त इति गुणनिषेध: । लङीडभाववक्षे तिप्सिपोर्हल्ङ्यादिलोपं ""वावसाने इति पक्षे चत्वर्म् । सिपि तु ""दश्च इति वा रुत्वमपि । (अमोमोत् । अमोमोद् । आमोमोद् ""वावसाने इति पक्षे चर्त्वम् । सिपि तु ""दश्च इति वा रुत्वमपि । ( अमोमोत् । अमोमोद् । आमोमुत्ताम् । अमोमोत् । अमो ( मोमुद्यस्ताम् ) यासुटो ङित्त्वकित्त्वाभ्यान्न गुण: ।
( अमोमोदीत् । ) सिज्लोपस्यासिद्धत्त्वाद्वा प्रत्ययलणेन वा गुण: । ( अमोमोदिष्टाम् ) । हलन्तलक्षणा वृद्धि:""नेटि इति निषिध्यते । ( अमोमोदिष्यदित्यादि । मोदयति । मोदयां चकार इत्यादि पूर्ववत् । लुङि(अमूमुदत् । ""दीर्घो लघो: इति दीर्घ: ( मुदित्वा मोदि?त्वा ) उक्त: कित्त्वविकल्प:। ( मुदिमनेन । मोदितमनेन ) । ""निष्ठा इति भूते य: क्त: स ""तयोरेव कृत्य इत्युक्तनियमादकर्मकादस्माद् भावे, ( प्रमुदितमनेन । प्रमोदितमनेन प्रमुदित: प्रमोदित: ) अत्रादिक्रियालक्षणस्य भूतत्वाश्रये ""निष्ठा इति क्त: । स च ""आदिकम्रणि क्त: कर्त्तरि च इति भावकत्रोर्द्वयोरपि भवति ( प्रमुदितवान् । प्रमोदितवान् ) ""उदुपधद्भावादिकर्मणोरन्यतरस्याम् इति सेटो निष्ठाया: पक्षे कित्त्वनिषेधाद्गुण: । भावादिकर्मभ्यामन्यत्र (मुदिते देवदत्त:मुदितवानित्येव ।) धौव्यार्थत्वात्कर्त्तरि क्त: । मुदितवानित्यत्र *अत्वसन्तस्य चाधतो:* इत्यात्वं तस्याधातोरासन्तस्य चोपधाया: सम्बुद्धिवर्जिते सौ विहिताद्वीर्धादनन्तरं क्तवतोरुदित्त्वेन नुमि हल्ङ्यादिसंयोगान्तलोपौ । पूर्वं नुमि न दीर्घस्य प्रसङ्ग: उपधाभावात् । न च संयोगान्लोपादनन्तरमुपधात्वे भूतपूर्वगत्याऽत्वन्ताश्रयस्य दीर्धस्य प्रसङ्गा । नापि नान्तत्वेन ""सर्वनामस्थाने इति दीर्घस्य । यतस्तयो: संयोगान्तलोपोऽसिद्ध ( मोदन: ) युच् । ( मुत् । )
[ संपदादिभ्य: क्किप् ] इति स्त्रियां क्किप् । (मुदिर:) "इषिमदि' त्यादिना किरच् ( मुद्ग: ) ""मुदिग्रोर्गग्गाक् इति गक् । कित्त्वान्न गुण: । मुद्गेन संसृष्टं मौद्गम् । *मुद्गादण्* इति तृतीयान्तादस्मात्संसृष्टेष्टेऽण् प्रत्यय: । मुद्गा । ""स्फायितञ्चिइत्यादिना रक् । संसर्गार्थोयं चुरादौ ।।16।।
दद दाने ।। किं चिदुद्दिश्यापुनर्ग्रहणाय स्वीयत्यागो दानम् । ( ददते । ददसे । ददे । दददे । ददाते । दाविषे । दददे ) ""न शसदद इत्येत्वाभ्यासलोपनिषेध: ( ददिता । ददिष्यते । ददताम् । अददत । ददेत । आशिषि । ददिषीष्ट । अददिष्ट । अददिष्यत । कर्मादो दद्यते । दद्यताम् । अदद्यत । अद्येते । अदादि ) शेषं कर्तृवत् । ( दिददिषते । दादद्यते । दादशीति । दादत्ति । दादयते ) शेषं मुदिवन्नेयम् ।। 17 ।।
ष्वद स्वर्द आस्वादने ।। संवरण इति क्षीरस्वामी । आस्वादनमनुभव:। अत्रायं सकर्मक: स्वदन्ति देवा उपा निहव्येति दर्शनात् । छान्दसं परस्मैपदम् । तथा स्वादनइति ण्यन्तेनार्थनिर्द्देशाच्च सकर्मकोऽयम् । यद्वक्ष्यति चुरादावास्वादने सकर्मक इति । अस्यार्थस्यत्र प्रपत्र्चयिष्यते । यदायमनेकायां धावत इति रुचौ वर्त्तते तदाऽकर्मक: । आद्य: षोपदेश:।तदुक्तं भाष्ये । "अज्दन्त्यपरा: सादय: षोपदेशा: स्मिङ्स्विदिस्वदिस्वञ्जिस्वपयश्च'इति । प्रायेणायमाङ्पूर्व:। ) ( आस्वदतेरसम्। )इत्यादि ददिवत् । रुच्यर्थत्वे खल्वपि । ( दधि स्वदते देवदत्ताय । ) *रुच्यर्यानां प्रीयमाण:* इति तर्प्यमाणस्यैषां प्रयोगे संप्रदानत्वाद्देवत्ताच्चतुर्थी । अन्यकर्तृकोऽभिलाषो रुचिरिति वृत्ति: । अत्र हरदत्त: । योभिलाषास्याश्रय: प्रीयमाण: ततोऽन्यकर्तृक इत्यर्थ: । कथं पुनरन्याश्रयस्याभिलाषस्यान्य: कर्ता भावति, यावता यदाश्रयव्यापारं धातु: प्राधन्येनाष्टे स कर्त्ता । नेदं कर्तृलक्षणं किं तर्हि स्वातन्त्रयमेव, तच्च क्कचिद्वास्तवं क्क चिद्वैवक्षिकम् । तत्र माधुयांतिशयेन ह्मविषयं देवदत्ताश्रयमभिलाषं जनद् दधि तत्र कर्त्तेति गीयत इति । अत्र *सात्पदाद्यो:* इति सातिप्रत्ययपदाद्यो: सकारस्य षत्वनिषेधादिण: परत्वेपि न षत्वम् । कर्मादौ स्वद्य इत्यादि, सिस्वदिषते ।
- स्तौतिण्योरेव षण्यभ्यात्* इति षत्वं, कृतषत्वे सति यदि भावति स्तौतिण्यन्तानामेवेति सूत्रार्थ: ( सास्वद्यते । सास्वदीति । सास्वत्ति । स्वादयति । स्वादयते । असिष्वदत् ) शेषं पूर्ववत् । ण्यन्तात्सनि "स्तौतिण्योरेव' इति नियमात् षत्वे प्राप्ते तदपवाद: ""स: स्विदिस्वदिसहीनां च इति सकारो विधीयत इति ( सिस्वादयिषतीति भवति )ये त्वमुं दन्त्यार्दि पठन्ति, तेषामिदं सत्ववचनं कधमर्थवदिति त्र एव प्रष्टव्या:
( स्वर्दते । सस्वर्दे ) सस्वर्दे ) इत्यादि स्वदिवत् । अर्जदन्त्येति षोपदेशलक्षणं केवलदन्त्यविषयमिति दन्त्योष्ठयपरोयं न षोपदेश: । अत एव दन्त्योष्ठयपरा: ष्विद्यादय: स्वदीत्यादिना पुन: पठान्ते । ( स्वादु: । ) ""कृवापाजिस्वदिसाध्यशूभ्य उण् इत्युण्प्रत्यय:। स्वाद आस्वादन इत्यत्रैवाग्रे ।। 19 ।।
उर्द माने क्रीडायां स ।। क्रीडायामकर्मक: । चकारादावदने । इह मानं सुखमित संमतायाम् ( ऊर्दंते । ऊर्दाचक्रे । ऊर्दिता । ऊर्दिष्यते । ऊर्दताम् और्दत । ऊर्देत । आशिषि । ऊर्दिषीष्ट । और्दिष्ट । और्दिष्यत )। ""उपधायां च इति धातोरुनधाभूतरेफात् पूर्वत्वादिको दार्घ: सर्वत्र । यथायोगं भावकर्मकर्मकर्तृपूर्घत इत्यादि । ( ऊर्दिदिषते ) *न न्द्रा: संयोगादय:* इति द्वितीयस्यैकाचो नदराणां संयोगादीनां द्विर्वचननिषेधाद्दकारादिर्द्विरुच्यते । ( ऊर्दयति । औदिदत् ) ।। 20 ।।
कुर्द खुर्द गुर्द गुद क्रीडायामेव ।। अत्र कैयटपुरुकारमैत्रेयादिषु तृतीयो न पठयते । संमतामोधाविस्तारचान्द्रेषु तु त्रयोपि पठान्ते । गुदुक्रीडा गुदविहार इति चरके । मैत्रेयकाश्यपौगुद इत्यपि पृथक् धातुरिति । अत्रैवकारो धातूनामनेकार्थत्वे ज्ञापक इत्युक्तम् । स्फूर्जेर्दीघोपदेशात् ""उपधायां च इति दीर्घ एषां न इति चन्द्र: । मैत्रेयसंमतामोघाविस्तारकारादयस्तुदीर्घत्वमिच्छन्ति । ( कृर्दते । चुकूर्दे । कूर्दिता । कूर्दिष्यते । कृर्दताम् । अकूर्दत । कूर्देत । आशिषि । कृर्दिषीष्ट । अकृर्दिष्ट ) । भावे । ( कृर्द्यते ) इत्यादि । ( चुकूर्दिषते । चोकूर्द्यते । चोकूर्त्ति । चोकूर्दीत । चोकूर्त्त:। चोकृर्दीं चकार । चोकूर्दितेत्यादि ) । ?लङि तिप्सिपोर्हल्डयादिलोपे ""वाऽसाने इति चर्त्त्वविकल्प: । ( अचोकृर्दीत् । अचोकृर्त् । अचोकूर्द् ) । सिपितु ""दश्च इति वा रुत्वमपि । (अचोकू:) चान्द्रेपि मते रो रि लोपे ""ढ्रलोपे इति दीर्घस्यविद्यमानत्वादत्रन विशेष: । ( कूर्दयति । अचुकृर्दत् ) । एवमितरयोरप्युदाहार्यम् । गुदे: । ( गोदते । जुगुदे । गोदितेत्यादि । जुगुदिषते । जुगोदिषते । गुदित्वा, गोदित्व ) इत्यादि मुदिवन्नेयम् । ( गुदम् ) । इगुपधलक्षण: क: । गोद इति पचाद्यजिति मैत्रेय: ।। 24 ।।
षूद क्षरणे ।। क्षरणं नि:सारणम् । अत्रायमकर्मक:, हिंसायामपि वर्त्तते, (मधुसूदन: इति । अत्रायं सकर्मक: । ण्यन्तोयं संस्कारेपि वर्त्तते । "अग्रिर्हव्यं शमिता मूदयति' इति । हव्यं हवनार्हंपशोर्हृदयादि शमिता शमित्रोग्रि: सुदयति संस्करोतीति । क्षरणस्वादुकरणनार्थत्वमहे रात्राणि मरुतो विलिसं सूदन्त्वित्यत्राह भष्टभास्कर: । तथा हि अहोरात्राणि मरुतश्च तद्विलिष्टं विनाशितं विष्टयं वा सूदयन्तु क्षारयन्तु यद्विलिष्अं स्वादुकुर्वन्तु वा । यद्वा यद्विलिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्त्विति । क्षरे तु तत्र विलिष्टं न्यूनं पूरयन्त्विति पूरणार्थत्वं दृश्यते । ( सूदते । सुष्टूदे । सूदिता ) इत्यादि । भावादौ ( सूद्यते ) इत्यादि । ( सुसूदिषते )। ""स्तौतिण्योरेव इति नियमान्न षत्वम् । ( सोसूद्यते । सोसूत्ति। सूदयति।सूदयते । असूषुदत् )।
""णौ चङि इति सामान्यस्ताच्छीलिकस्तृन् । ( मधुसूदन: )। ""नन्दियहिपचादिभ्यो ल्युणिन्यच: इति ल्यु: । क्षरति क्षारयति रसानिति च, सूद: पक्क: पाचकश्च । ""हगुपधज्ञाप्रीकिर: क: इति इगुपधत्वात् कर्त्तरि क: । अयं चुरादावपि ।। 25 ।।
हाद अव्यक्ते शब्दे ।। अव्यकृतशब्दो वाद्यादिघोष: । ( हादते । जहादे )। ""कुहोश्चु: इत्यभ्यासहकारस्यान्तरतम्यात् ज्ञकारश्चुत्वं, तस्य ""अभ्यासे चर्य इति जश्त्वं जकार: । ( हादितेत्यादि ) । भावे ( हाद्यत इत्यादि । अहादि । जिहादिषते । जाहाद्यते । जाहादीति । जाहात्तीत्यादि, हादयति । हादयते । अजिहदत् ) ""अत्स्मृद्दृत्परप्रथम्रदस्तॄस्पशाम् इति स्मरत्यादीनां चङ्परे णौ लघुनि धात्वक्षरे पर इत्वापवादात्वविधानाज् ज्ञापकादित्वविधौ येन नाव्यवधानं तेन व्यवहितेपि भवतीति त्वियमनाश्रयणादभ्यासस्येत्वम् । दीर्घस्तु न भवति संयोगपरत्वेनालघुत्वात् हद: । पचाद्यचि पृषोदरादित्वात् हस्व: । महिकिहदो नाम वाहीकग्रामविशेष:, तत्र भवादिर्महिकिहदीय: ""कन्थापलदनगरग्रामहदोत्तरपदात् इति शेषेर्थे ""छो वाहिकग्रामेभ्यश्चइति प्राप्तयो: ठ?ञ्चिठयोरपवाद:, *आयनेयीनीयिय: फढखच्छघां प्रत्ययादीनाम्* इति प्रत्ययादीनां फादीनां यथासंख्यमायन्नदिविधानात् छस्येयादेश: । छविधौ निपातनाद्वा हस्व: ।। 26 ।।
ह्लादीसुखे च ।। चकारादव्यक्तशब्दे च । ह्लादत इत्यादि हादिवत् । विशेषस्त्वीदित्यात् ""श्वीदितो
निष्ठायाम् इतीडभावो ""ह्लादो निष्ठायाम् इत्युपधाहस्वश्च । तथा *रदाभ्यां निष्टातो न: पूर्वस्य च दह:* इति निष्टातकारस्य पूर्वकारस्य च नकार:, आह्लन्न: । आह्लन्नदवान् ।। 27 ।।
स्वाद आस्वदने ।। स्वादत इत्यादि स्वदिवत् । अषोपदेशत्वादसिस्वदद् इत्यादौ न षतृवम् । स्वदिना सामानार्थोप्ययमाकारोपधसाभ्यादिह पठित: । अज्दन्त्येति षोपदेशलक्षणे दत्यग्रहणेन केवलो दन्त्यो गृह्मते न तु दन्त्योष्ठयोपीत्ययमषोपदेश: स्वर्दिवत् ।। 28 ।।
पर्द कुत्सिते शब्दे ।। रेफवद्दान्त: । संयोगान्तेषूर्दादिष्वयं न पठित: । शब्दविशेषार्थेन द्राघादिनापि साम्यात् । स्वादिस्त्वाकारवत्संयोगादित्वेन हाद्यनुरोधेन मध्ये पठित: । इह कुत्सित: शब्दो गुदरव: । तदाह केशवस्वामी कौक्षे कर्दति पर्दते गुदरव इति । ( पर्दते । पपर्दे । पर्दिता । पदिष्यते । पर्दताम् । अपर्दत । पर्देत । पर्दिषीष्ट । अपर्दिष्ट । भावे पर्ह्मतइत्यादि । पिपर्दिषते । पापर्द्यते । पापर्द्येते । पापर्दीति । पापर्त्ती त्यादि )। लङि तिप्सिपोर्हलङयादिलोपे वा चर्त्वम् । सिपि तु पक्षे ""दश्च इति रुत्वं चोदाह्मार्यम् । ( पृदाकु: । ) ""पर्देर्नित् संप्रसारणमल्लोपश्च इति काकुप्रत्ययो लोप: प्रसारणं च ।। 29 ।।
यती प्रयत्ने ।। ( यतते । येते । येतिष ) । एत्वाभ्यासलोपौ । ( यतिता । यतिष्यते । यतताम् । अयतत । यतेत् । आशिषि यतीषीष्ट । अयतिष्ट । अयतिष्यत् )। भावे । ( यत्यते ) इत्यादि । ( यियतिषते । यायत्यते । यायतीति । यायत्तीत्यादि ) । लङि तिप्सिपोर्हल्ङयादिलोपे जश्त्वे वा चर्त्त्वम् । सिपि तु ""दश्चइति वा रुत्वमपि । ( यातयति । अयीयतत् । यत्यम् । [ तकिशसियतिजनीनामुपसंख्यानम् ] इति भावे यत् । ( आयत्त: । आयत्तवान्, ) ईदित्वात् ""श्वीदितो निष्ठायाम् इतीडभाव: । यत्न: । ""यजयाचयतविच्छप्रच्छरक्षो नङ्' इति भावादो नङ् । ( यति: ) ""इन् सर्वधातुभ्य: इतीन् । यत् निकारोपस्कारयोरिति चुरादौ ।। 30 ।।
युतृ जुतृ भासने ।। ( योतते । युयुते । योतितेत्यादि )। भावे ( युत्ये ) इत्यादि । ( युयुतिषते । युयोतिषते । "रलो व्युपधात् इति वा कित्त्वम् । ( योयुयते । योयुतीति । योयोत्तीत्यादि ) । ईट्पक्षे ""नाभ्यस्य इति गुणनिषेध:। ( योतयति । अयुयोतत् ) । ऋदित्वात् ""नाग्लोपि इत्यापघाहस्वनिषेध: ।
( युतित्वा । योतित्वा ) । सन्वत्कित्त्वविकल्प: । ""उदुपधाद्भावादिकर्मणोरन्यतरस्याम् इति निष्ठायां मुदिवत् कित्त्वविकल्प उदाहार्य: । (युतितमनेन योतितमनेनेत्यादि । जोतत इत्यादि ) युतिवत् ।। 32 ।।
विथृ वेथृ याचने ।। द्वितीयान्तौ । आद्यो धान्त इति कौशिक: । क्षीरस्वामिना त्वयं पक्षो दूषित: । ( वेथते । विविथे ) । ""असंयोगाल्लिट् कित् इति कित्त्वान्न गुण: । वेथिता । वेथिष्यते । वेथताम् । अवेथत । वेथेत । आशिषि । वेथिषीष्ट । अवेथिष्ट । अवेथिष्यत । विविथिषते । विवेथिषते । वेवेथ्यते । वविथीति )। ""नाभ्यस्तस्य इति गुणनिषेध: । ( वेवेत्ति । वेथयति । अविवेथत् ) । ऋदित्त्वात् ""नाग्लोपि इत्युपधाहस्वनिषेध: । द्वितीसयस्य विशेषो ( विवेथे, वेथ्यते । विवेथिषते । वेवेथ्यते । ववेथीति । वेवेत्ते ) इत्यादावगुणविषय एकारश्रवणम् । अस्य ऋदित्करणमुपधाहस्वनिवृत्त्यर्थम् । इमौ द्विकर्मकौ । दुह्मादित्वादप्रधाने कर्मणि लादय: । षष्ठी तु द्वितीयावदुभयत्र । गुणकर्मणि तु विकल्पेन, अप्रधाने कृत्येनाभिहिते कर्तृकर्मणोर्नैव षष्ठी । सर्वमेतन्नाथतावुपपादितं तत एवावगन्तव्यम् ।। 34 ।।
श्रथि शैथिल्ये ।। शैथिल्यं विश्लिष्टता गाधता च । इदित्त्वं नुमर्थम् । अत एव किति नलोपाभाव: । ( श्रन्थते । शश्रन्थे । श्रन्थिष्यते । श्रन्थिता । अश्रन्थत । श्रन्येत् । आशिषि । श्रन्थिषीष्ट । अश्रन्थिष्ट। अश्रन्थिष्यत)
। भावे । ( श्रन्थ्यते ) इत्यादि । ( शिश्रन्थिषते । शाश्रन्थ्यते । शाश्रन्थीति । शाश्रन्थि ) । ""खरि च इति चर्त्वं लङि तिप्सिपोर्हल्ङयादिलोपे संयोगान्तलोपे च ( अशाश्रन्श्रन्थयति । श्रन्थयते । अशश्रन्थत् । श्रन्था )।""गुरोश्च हल: इत्यकार:, ""ण्यासश्रन्थो युच् इत्यत्र लाक्षणिकत्वान्नास्य ग्रह: । ( प्रश्रथ: । हिमश्रथ: ) । ""अवोदैधोह्मप्रश्रथहिमश्रथा: इति घञि नलोपवृद्धयभावयोर्निपातनम् । गणान्तरपठितस्य वा निपातनम् । श्रन्थ विमोचनप्रतिहर्षयोरिति क्रयादि: श्रान्थ ग्रन्थ सन्दर्भ इति च, इमावाघृषीयावपि, श्राथ प्रयत्न इति चुरादि: । दौर्बल्ये कथादिराघृषीयो मोक्षणे।। 35 ।।
ग्रथि कौटिल्ये ।। कौटिल्यं शठयं वक्रता वा । ( ग्रन्थते ) इत्यादि श्रन्थिवत् । अभ्यासकार्यविशेष: ।
के चिदिमावनिदितौ सानुषङ्गौ षठन्त:, किति नलोपमिच्छन्ति । अत्र तरङ्गिणी इदित्त्वादनुनासिकलोपाभावात् श्रेथे ग्रेथे इत्युदाहरन् वृत्तिकारो भ्रान्त इति, अत्र वृत्तिकार इति धातुवृत्तिकुदुच्यते । तथा सानुषङ्गापाठ: कशिकावृत्तिकारस्याऽप्यनभिमत: । यत: ।
[श्रन्थिग्रन्थिदम्भिस्वञ्जीनाम् ] इति लिट: कित्त्वविधौ श्रथतुर्ग्राथतुरिति परस्मैपदिनावेवोदाजहार । ग्रन्य संदर्भ इति क्रयादौ युजादौ च । ग्रन्थ यन्धन इति च युजादौ ।। 36 ।।
कथ श्लाघायाम् कत्थते । चकत्थे । कत्थितेत्यादि । कर्मणि (कत्थ्यत इत्यादि, चिकत्थिषते चाकत्थयते । चाकत्थ्यते । चाकत्थीतीत्यादि पूर्ववत् । विकत्थी । ) *वौ कषलसकत्थस्रम्भ:* इतिवावुपपदे तच्छीलादिषु धिनुण् । वासरूपेण युच्, ( विकत्थन: ) ।। 37 ।। एधादय उदात्ता अनुदात्तेत: ।।
अथ तवर्गीयान्ता: परस्मैपदिन: ।।
अत सातत्यगमने ।। सातत्यगमनं सन्ततगमतम् । ग्राममतति । ग्रामादायाति । अतसि । अतामि । अतन्ति । *गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि* इति कर्मणिद्वितीयाचतुर्थ्यौ । चेष्टायामिति वचनान्मनसातति ग्राममित्यत्र द्वितीयैव । अध्वन्यर्थग्रहणान्मार्गमततीत्यादावपि द्वितीयैव ( आत । आततु: । आतिथ । आतिव ) ""अत आदे:इत्यभ्यासादेर्दीर्घो लिटि । ( अतिता । अतिष्यति । अतुत । आतत् । आटि वृद्धि: । अतेत् । आशिषि । अत्यात् । मा भवानतीन् ) ""वदव्रजह?लन्तस्य इति वृद्धे: ""नेटि इति निषेध:
( आतिष्यत् । कर्मणि अत्यते । आते अतिता । अतिष्यते । अत्यताम् । आत्यत । अत्येत । आशिषि । अतिषीष्ट । आतिष्ट । आतिषाताम् । आतिषत् ) गत्यर्थानां कर्तृस्थक्रियत्वान्न कर्मकर्त्तास्त । कर्मव्यतिहार तडस्य नास्ति, ""न गतिर्हिंसार्थेभ्य: इति निषेधात् ( व्यतयततीत्यादि । अतितिषति आतयादि वेवदत्तं ग्रामम् ) ""गतिबुद्धि इति प्रयोज्यस्य कर्मत्वम् ( अतितो ग्रामम् । अतितो ग्राम: । अतितं देवदत्तेन, इदमेषामतितम् ) ""गत्यर्थाकर्मक इति ""क्तोधिकरणे च इति योगद्वयेन कर्तृकर्मभावाधिकरणेषु क्त: । (अक्त आसत्त: । ""इण्भीकापाशल्यकिमर्चिभ्य: कन्इति कन् । आति: गन्तापक्षिविशेषश्च । ""अज्यतिभ्यां च इतीण्प्रत्यय: । पादाभ्यामततीति पदाति:। * पादस्य पदाज्यातिगोप हतेषु*इत्याज्यादिषूत्तरपदेषु पदादेश:। शोभनमततीति ( स्वाति: नक्षत्रं, स्वाती। ) ""सर्वतोक्तिन्नर्था इति वा ङीष् । स्वात्यां जातो माणवक: स्वाति: । अत्र ""संधिवेलाद्यृतुनक्षत्रेभ्योण् इति शैषिकोण् । यदा जातार्थे तदा तस्य ""श्रविष्ठाफलगुन्यनुराधास्वातितिष्यिपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् इति लुकि ""लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्य लुक् । स्वातीति ङीषन्तस्य ग्रहणादङीषन्तादणो लुङ्गास्ति, तेन *न य्वाभ्यां पादान्ताभ्यां पूर्वौतु ताभ्यामैव्* इति यथासंख्यादिह वकारात्पूर्वमौकारे वृद्धिनिषेधे च सौवात इति भवति । द्धिनिषेधस्य प्रयोजनमन्यत्र, अस्तु चेहापि ""टिङ्ढाणञ् इत्यादिना स्त्रियां ङीपि ""यस्येति च इत्यकारलोपे सौवाती भार्या यस्येति बहुव्रीहौ ""स्त्रिया: पुंवद्भाषितपुंस्कादनूह समानाधिकरणे स्त्रियामपूरणीप्रियादिषु इति प्राप्तस्य पुंवद्भावस्य *वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे* इति रक्तविकारादतिरिक्तार्थस्य च वृद्धिनिमित्ततद्धितान्तस्य पुंवद्भावो नेति विधीयमानो निषेध इहालो वृद्धिनिमित्तत्वाभानान्नेति पुंवद्भावे सौवातभार्य्य इति भवति । *स्त्रिया: पुंवत् *इति सूत्रस्यार्थ:। स्त्रयर्थस्य शब्दस्य स्त्रियां वर्त्तमारने समानाधिकरणे पूरणीप्रियादिवर्जित उत्तरपदे पुंस इव रूपं भवति स चेत् स्त्रीशब्दो भाषितपुंस्कादनूङ् भवतीति
। पूरणीति पूरणप्रत्ययान्त: स्त्रीलिङ्गपञ्चम्यादिशब्द उच्यते । भाषित: पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्क:, इह तु शब्दस्तद्योगात्तथोक्त:, ऊङो ऽनूङ् भाषितपुंस्कात्परोनूङ् निपातनात्पञ्चम्यलुक् । अतिथि:, ""ऋतन्यज्जिवन्यञ्जर्पिमद्यत्यङ्गिकुयुकृशिभ्य: कत्निच्यतुजलिजिष्ठूजिष्टजिसन्स्यनिथिनुल्यसासानुक् इत्यर्त्त्यादिभ्यो द्वादशभ्य: कत्नयादयो द्वादश प्रत्यया यथा संख्यमित्यतेरिथिन् । अतिथौ साधुरातिथेय: । ""पथ्यतिथिवसतिस्पतेर्ढञ् इति सप्तम्यन्तात्साध्वित्यर्थे ढञ् । ढस्य ""आयनेयीनीयइत्येयादेश: । अतिथय इदमातिथ्यम् । *अतिथेञर्य:* इति चतुर्थ्यन्तात्तादर्थ्ये ञ्य । अतस: क्षौमं प्रहरणं वायुश्च । ""अत्यविचमितमनमिरभिनभितपिपतिपनिपणिमहिभ्योऽसच् इत्यसच् । अतसी उमा, ""षिद्गौरादिभ्यश्च इति स्त्रियां ङीष् । सातयतीति सातय: ।
""अनुपसर्गाल्लिम्पविन्दधारिवेद्युदेजिचेतिसातिसाहिभ्यश्च इति कर्त्तरि शे शपि गुणायौ, साति: सौत्रो धातुरिति वृत्तौ । बौधिन्यासेपि साति: सुखे वर्त्तते सौखे इति जिनेन्द्रहरदत्तौ सातिर्हेतुमण्ण्यन्त इति । हदिद्वन्धनार्थ उत्तरत्र भविष्यति ।। 38 ।।
चिती संज्ञाने ।। संज्ञानं चैतन्यम् ( चेतति । चिचेत । चिचिततु: । चिचेतिथ । चिचिते । चिचेत । चिचितिव । चिचितिम । चेतिता । चेतिष्यति । चेततु । अचेतत् । चेतेत् । आशिषि चित्यात् । अचेतीत् । अचेतिष्यित् ) भावे ( चित्यइत्यादि, चिचितिषति । चिचेतिषति । चितित्वा । चेतित्वा ) ""रलो व्युपधात् इति कित्त्विविकल्प: ( चेचित्यते । चेचितीति ) "नाभ्यस्तस्य इति गुणनिषेञ: ( चेचेत्ति । चेतयति देवदत्तम् । अचीचितत् )""अणावकर्मकात् इति परस्मैपक्ष्मेव । ""गतिबुद्धि इति प्रयोज्यं कर्म । ( चित्त: । चित्तवान् ) "श्वीदितइति ( चित: )इगुपधलक्षण: क: । (चेतन:) बाहुलकात्कर्त्तरि ल्युट्त्वम् ल्यु: (चित् चैतन्मयम् )संपदादित्वाद्भावे क्किप् ( चेत: ) ""असुन् इत्यसुन् । ( सुचेतीकरोति ) ""अरुर्मनश्चुश्चेतोराहोरजसां लोपश्च इति ""कृभ्वस्तियोगे च्चि: सलोपश्च । ""अस्य च्चौ तीकारो ऽकारस्य । अत्र मैत्रैय: ""कण: कश्च इति चिते: कणप्रत्यये धातोरन्त्यस्य ककारे चिक्कण इति । बहुलवचनाद्गुणाभाव: प्रतृययकस्येत्संज्ञाऽभावश्चेति । हरदत्तस्तु चिनोते: क्किप् चित्, कणतेरच् कण:, तकारस्य ककारश्चिक्कणदिपाठात् । के चित्तु चिक्णादिषु तकारमेव पठन्ति । न्यासकारो ऽप्येवं निरुवाह । स्मरणार्थे ऽप्ययम् । चेतन्ती सुमतीनामिति दर्शनात् । ""अधीगर्थदयोशां कर्मणि इति कमण: शेषत्वे षष्ठी । अधीगर्थ: स्मरणार्था:। तथा संधानार्थो ऽपि । यदाह श्रीरामस्वामी । प्रायो विनाश: चित्तं सन्धानं विष्टस्य संधानं प्रायश्चित्तमिति । ""प्रायस्य चित्तिचित्तयो: इति पारस्करादिपाठात् सुट् । चिति स्मृत्यामिति चुरादौ । चित संचेतन इति तत्रैवात्मनेपदी ।। 39 ।।
च्युतिरासेचने ।। ""उपदेशेजनुनासिक इत् ""हलन्त्यम् इतीकाररेफयोरित्वे । सेचनमार्द्रीभावनम् । यदाह हरदत्त:, सिचि: कर्मस्थक्रिय:, आर्द्रीभावनं ह्मत्र प्रधानं तदथैत्वात्कारकव्यापारस्येति । आङीषदर्थे ऽभिव्याप्तौ वा ( च्योतति । चुच्योत । चुच्योतिथ । चुच्युतिव । च्योतिता । च्योतिष्यति । अच्योतत् । च्योतेत् अशिषि । च्युत्वात् ) लुङि ""इरितो वा इति च्ले: परस्मैपदे ष्वङादेशविधानान् ङित्त्वन्न गुण: ( अच्युतत् । अच्युततामित्यादि । ) अङभावे अच्योतीदित्यादि, कर्मादौ च्युत्यत इत्यादि । चुच्युतिषति । चुच्योतिषति ।
च्योतित्वा । च्युतित्वा ) पूर्ववत् कित्त्वविकल्प: ( चोच्युत्यते । चोच्युतीति । चोच्योत्ति ) ईटि ""नाभ्यस्तस्य इतिगुणनिषेध: ( च्योतयति । अचुच्युतत् ) निष्ठायाम् ""उदुपधाद्भावादिकर्मणो इति कित्त्वविकल्प उदाहार्य: । ( च्युतितमनेन । च्योतितमनेनेत्यादि ) कर्माविवक्षायां कर्मकर्त्तरि भावसम्भव: ।। 40 ।।
श्च्युतिरृ क्षरणे ।। क्षरणं सूति: ( श्चयोयति । चुश्चयोतेत्यादि ) च्युतिवत् । अभ्यासे खय: शेष: । सकारादिरयं, निर्देश: श्चुत्वेन । सकारादित्वे प्रयोजनं मधु श्च्योततीति ( मधुश्च्युत् ) क्किप् अस्मात् ""त्तत्करोति तदाचष्टे इति णिचि [ णाविष्टवत्प्रातिपदिकस्य ] इष्ठनीव कार्यविधानाट्टिलोपे मधुशच्यायते: क्प् । तस्य लोपे प्रत्ययलक्षणेन ""णेरनिट् इति णेश्च लोपे यकारान्ताद् अस्मात् कृदन्तात् प्रातिपदिकात्सौ तस्य इल्ङ्यादिलोपे प्रत्ययलक्षणेन सुबन्तत्वेन पदत्वे ""संयोगान्तस्य इति यलोपे श्चुत्वस्य पूर्वत्रासिद्धात्वात् ""स्को: इति सलोपे ""चो: कु: इति चकारस्य पदान्तसय कुत्वे तस्य जश्त्वे मधुगिति रूपसिद्धिरिति वृत्तिन्यासपदमञ्जरीसंमताकारमैत्रेयादिभिरुक्तत् । यद्येवमटतीत्यट्, अट् श्च्योततोत्यत्रापिव श्चुत्वस्यासिद्धत्वात्सकारपत्वरात् ""ड: सि धुट् इति धुट् प्राप्नोति, नैतत् । [ श्चुत्वं धुट्तृवे सिद्धं वकृतव्यम् ]
इत्युक्तत्वात् । अत एन वृत्ति कारादिविरोधात् तालव्योष्मादिवादिनौ स्वामिकाश्यापावुपेक्ष्यो । यद्यपि तयोरट् शश्चोतीतित्यत्र धुडभाव: सिद्ध:, मधुगितृयत्र ""सयोगान्तस्य इति यकारवकारयोर्लोपे *व्रश्चभ्रस्जमृजयजराजभ्राजच्दशां ष:* इति व्रश्चादीनां छकारशकारान्तानां च ज्ञलि पदान्तेच षत्वविधानाच् शकारस्य षकार ""ज्ञलां जश् इति जश्त्वे मधुडिति स्यात् । अत्र श्चुति रित्ययकारमपि पठन्ति । तथा च मधुश्चुतं घृतमिव सुपूतं श्चोतन्ति ते इत्यादौ भट्टभास्कर: अत्र मैत्रेयोपि । श्चुतिरित्यप्येके पठन्ति, चुतिर् हसन इति च ।। 41 ।।
मन्थ विलोडने ।। विलोडनं क्षेभणम् ( मन्थति । ममन्थ । ममन्थिथ । मन्थिता । मन्थिष्यति । मन्थतु । अमन्थत् । मन्येत् । आशिषि । मथ्यात् ) यासुट: कित्वान्नलोप: ""अनिदितां हल उपधाया: ङ्किति इति
( अमन्यीत् । अमन्थिष्यत् । ) कर्मादौ ( मथ्यत ( इत्यादिमिमन्थिषति । मामथ्यते । मामन्थीति । मामन्थि ) लङस्तिप्सिपोर्हल्ङयादिलोपे संयोगान्तलोपे ( अमामन् मन्थयति । अममन्थत् । मथित्वा । मन्थित्वा ) नोपधात्परस्य *नोपधात्थफान्ताद्वा* इति थकारुफकारान्तात्सेट: क्त्व: कित्वविकल्पनात् पक्षे नलोप: ( मन्थ: )""हलश्च इति करणे घञ् । ( मन्थती )करणाधिकरण्योश्च इति अधिकरणे ल्युडन्तात् ""टिद्ढाणञ् इति ङीष् ( मन्थान: ) ""सम्यानच् स्तुव इत्यानज्बाहुलकादस्मादपि । अत्रायं धातुर्यदयति क्षीरस्वाभ्यादिभिर्न पठ्यते तथापि मैत्रेयचन्द्र दुर्गै: पठितत्वात् शमीगर्भादग्नि मन्थति ततो यथा प्राशु मन्थति यदि मथ्यमानो न जायेतेत्यादिदर्शनादस्त्वेव । अयं द्विकर्मक: । दुहादित्वादप्रधाने कर्मणि लादय: । अमृतमम्बुनिधिर्मथ्यति इति । द्वितीयावत् कृद्योगलक्षणा षष्ठ्युभयत्र, कर्मणि गुणे तूभयथा गोणिकापुत्र इति वचनात् द्वितीयापि । अमृसस्याम्बुनिधेर्मन्थिता । अम्बुनिधिमिति च अमृतं मन्थितव्योऽम्बुधिर्देवैंरित्यत्र ""कृत्यानाम् इति योगविभागेन कर्तृकर्मणो: षष्ठी निषिध्यते । नाथतौ सर्वमेतद् उपपादितम् । अयं क्यादावपि । इह चाग्रे निरनुषङ्ग एदित् ।। 42 ।।
कुथि पुथि लुथि मथि हिसासंक्लेशनयो: । ( कुन्थति । चुकुन्थेतृयादि ) मन्थिवत् । विशेषस्त्विदित्वात् ङ्किति नलोपाभाव: ( कुनथ्यत इत्यादि ) तथा र्हिसार्थत्वात् ""नयतिहिंस इति कमव्यतिहारे हिंसायां तङ्निषेधश्च । एवं पुन्थतिलुन्थमन्थतयो ऽपि । मन्थतिस्तु सर्वत्र मन्थतिवत् । अत्र च क्षीश्रस्वामी मन्थं सानुषङ्गमनिदितं पठित्वा मथ्यतइति चोदात्यहूमथीति दौर्गा मन्यन्त इत्याह । संमतायां तु द्वावपि पठ्येते । खङ्गोपकुन्थं शत्रुं मारयति । खङ्गोपकुन्थमिति वा । *र्हिसार्थानां च समानकर्मकाणाम्* इति अनुप्रयोगधातुना समानकर्मकाणां र्हिसार्थानां तृतीयान्त उपपदे वा णमुलिति णमुल् । ""तृतीयाप्रभृतीनि इति समासविकल्प: । सर्वस्मिन्नेवात्र णमुलप्रकरणे क्रियाभेदे सति वासरूपेण क्त्वापीति वृत्तावुक्तम् । तेन खङ्गेनोपकुन्थ्येति ""समानकर्तृकयो: पूर्वकाले इति क्त्वापि भवति । एवं खङ्गोपकुन्थमित्यप्युदाहार्यंम् । कुन्थ संश्लेषण इति क्र्यादौ । कुथ पूतीभावे । पुथ हिंसायामितिं दिवादौ । पुथ भाषार्थश्चुरादौ ।। 36 ।।
षिध गत्याम् ।। के चिदुदितं पठन्ति । यदाह काश्यप:, उकार ""उदितो वा इति विशेषणार्थ इति, तरङ्गिणी चायमुदिदिति, तद्वृत्तिविरोधादुपेक्ष्यं, यदाह तत: परं सिध्यतिरेव नेतर इत्यनिट्कारिकायां सिध्यतिबुध्यत्यो श्यना निर्द्देशादन्यविकरणयोर्बुधिसिध्योरिडभवत्येव । बोधिता । सोधिता । निष्ठायामपि प्रतिषेधाभावाद् बुधितं सिधि?तमित्येव भवतीति । उदित्त्वे हि ""उदितो वा इति क्त्वायां विकल्पस्योक्तत्वाद् *यस्य विभाषा* यस्य धातो: क्क चिद्वभाषेहुक्तस्तस्य निष्ठायामिण नेति प्रतिषेधेन भाव्यमिति कथमेवं ब्रूयात् । तत्र न्यासपदमञ्जर्योरपि सिधेरुदित्त्वमनार्षमित्युक्तम् । अत एव क्षीरस्वामी सिद्धमित्युदाहृत्य निरनुबन्धपाठे तु सिधित इत्यपरितुष्यन्नुदाजहार । अथोदाहरणानि ""धात्वादे: ष: स: ।। ( सेधति । सिषेध । सिषेधिथ । सिषिधिव ) "आदेशप्रत्यययो: इति षत्वं, ( सेधिता । सेधिष्यति । सेधतु । असेधत् । आशिषि । सिध्यात् । असेधीत् । असेधिष्यत् । कर्मणि सिध्यत इत्यादि ) गत्यर्थत्वेन कर्तृस्थक्रियत्वाद् न कर्मकर्तास्ति ( सिसेधिषति । सिसिधिषति । सिधित्वा । सेधित्वा ) ""रलो व्युपधात् इति कित्त्वविकल्प: । ""स्तौतिण्योरेव षणी'7 इति नियमान्न षत्वम् ( सेषिध्यते ) कुटिलं गच्छतीत्यर्थ: । ""नित्यं कौटिल्ये गतौ इति यङ् । नित्यग्रहणं क्रियासमभिहारे यङो निवृत्तय इति वृत्तौ प्रतिपादितम् ( सेषिधीति । सेषेद्धि )""ज्ञषस्तथौ: इति धत्वे जश्त्वम । ( सेधयति । असीषिधत् ) ""दीर्घो लधो: इति दीर्घ:, ""सिध्यतेरपारलौकिके इति णावात्वं श्यना निर्देशादस्य न भवति । प्रतिषेधति) । *उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिसथासेनयसेधसिचसञ्जस्वञ्जाम्* इति उपसर्गस्यान्निमित्तात्पस्य सुनोत्यादिसकारस्य षत्वविधानात् ""सात्पदाद्यो: इति निषेधं बाधित्वा सिधिसकारस्य षत्वं, सेधतीति शपा निर्देशो यङ्लुङ्निवृत्त्यर्थश्चेति हरदत्त: तेन प्रतिसेषिधीतीत्यत्र अभ्यासे न षत्वं, परस्य ""आदेशप्रत्यययो: इति षत्वं अस्त्विह शपा निर्देशोयं सिध्यतेरेव निवृत्त्यार्थो न यङ्लुक:, तेनेह षत्वं भवत्येव, एवं हि
""सेधतेर्गतौ इति निषेधे शपा निर्द्देशो ऽर्थवान् अन्यथ यङ्लुकि षत्यस्वैवाप्रसङ्गात् किमनेनेति, प्रत्यषेधदित्यादौ उपसर्गस्थान्निमित्तात्परत्वाभावेऽपि *प्राक् सितादड्व्यवाये ऽपि* इति षत्वम् । प्राक् सितादिति उपसर्गस्थात्सुनोतीत्यादय: परिनिविभ्य: सेवत्यन्ता उच्यन्ते । प्रतिषिषिधिषतीत्यत्र ""स्तौतिण्योरेव इति नियमं बाधित्वा ""स्थादिष्वभ्यासेन चाभ्यासरू इति अभ्यासात्परस्य षत्वं, प्रकृतेनतु ""उपसर्गात् इति । इदं षत्वमषोपदेशार्थमवर्णान्ताभ्यासार्थं ""स्तौतिण्योरेव इति नियमबाधनार्थं चेत्युक्तम् । सूत्रार्थस्तु स्थादिषु प्राक्सितीयेषु उपसर्गादिति अभ्यवहितस्य च भवति । अत्राभ्यासस्योपसर्गादित्येव सिद्धे ऽभ्यासग्रहणं योगभेदेन प्राक्सितीयेषु स्थादिष्वेवाभ्यासस्य षत्वं न त्वन्यत्रेति निषेधप्रतिपादनार्थम्, इदं च ""उपसर्गाद् इति षतृवं ""सेधतेर्गतौ निषेधात् ( प्रतिसेधति गा ) इत्यादौ गत्श्यर्थत्वेन भवति। ( सुषेध:, दु:षेध:, नि:षेध: ) । ""नुम्विसर्जनीयशर्व्यवायेपि इति किमेषां गणे पाठेन । अत्र वृत्ति: । सुशब्दस्य कर्मप्रवचनीयत्वान्निर्दुदशद्वयो: क्रियान्तरविषत्वादनुपसर्गत्वे सति पाठोयं, ""सेधतेर्गतौ इति प्रतिषेधबाधनार्थं चेति । सिध्र: साधुपर्याय: सिध्यतेर्वायम् । ""स्फायितञ्चि इत्यादिना रक् । सिध्रको वृक्षविशेष: । संज्ञायां कन् । सिध्रकप्रचुरो वनविशेष:, सिध्रकावणम् । *वनगिर्यो: संज्ञायां कोटरकिंशुलुकादीनाम्* इति कोटरादित्वा,न उत्तरपदे दीर्घ: । *वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्य:* इति वननकारस्य णत्त्वम्, वनमिति षष्ठयर्थे प्रथमा । इदं णत्वं संज्ञायामग्रात्परत्वे ऽसंज्ञायामपीति स्थितम् । सिध्यं, बाहुलकान्मन् । ( सिध्मल: ) ""सिध्मादिभ्यश्च इतिप्रथमान्तादस्तुपाधिकादस्त्यर्थे लच् ।। 47 ।।
षिधू शास्त्रे माङ्गल्ये च ।। शास्त्रं शासनमिति मेत्रेयशाकटायनौ, शिष्टावित्येव चन्द्र: । शास्त्रं शास्त्रविषयं शासनम् । माङ्गल्यं मङ्गलक्रियेति क्षीरस्वामी । एवं तरङ्गिण्यामपि ( सेधतीत्यादि ) पूर्ववत् । विशेषस्तूदित्त्वाद्वलादावार्धधातुके ""स्वरतिसूतिसूयतिधूञूदितो वा इति इटो विकल्पनात् ( सेद्धा । सेत्स्यति असैतृसीद् ) इति, लुङि ""वदव्रज इति वृद्धि: । तथा ऽऽशीर्लिङ्लुङोरात्मनेपदेषु। *लिङ्सिचावात्मनेपदेषु* । इक्समीपाद्धल: परौ ज्ञलादी लिङ्सिचावात्मनेपदेषु किताविति कित्त्वादगुण:, ( व्यतिषित्सीष्ट । व्यत्यषिद्ध्वम् । व्यत्यषित्सातामित्यादि ) भवति । क्त्वासनोश्चेडभावे ( सिद्धा सिषित्सति ) । *हलन्ताच्च* इति इक्समीपाद्धल: परस्य ज्ञलादे: सन: कित्त्वान्न गुण: निष्ठायां ""यस्य विभाषा इति इण्निषेधात्सिद्धमिति भवति । अत्र मैत्रेयसंमताकारौ *कृसृभृस्तुद्रुस्त्रुश्रुवो लिटि* । क्रादयएव लिठ्यनिटस्ततोन्ये लिटि सेडित्यनेन नियमेन पुरस्तात्प्रतिषेधकाण्डस्यारम्भात् तस्यतदाश्रयस्य नियमस्य च बलीयस्त्वमिति यावान्कश्चिदिडभाव: प्रतिषेधनिबन्धनो वा विकल्पनिबन्धनो वा स सर्वो बाध्यत इत्युदिल्लक्षणं विकल्पं बाधित्वा? लिटि क्रादिनियमान्नित्यमिडिति ( सिषेधिथ ) इत्याहतु: । तथा ""अचस्तास्वत् इत्यत्र वृत्तिकारो नित्यग्रहणंकिं विधोत, तासौ विभाषितेटस्थलि नित्यमिडागमो भवतीति । अत्र न्यासे ""स्वरी सूत्रेण धूञ इड्विकल्प:, तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवतीति । हरदत्तस्तु नित्यमिडागमो भवतीति वृत्तिमुपादाय यावान् कश्चिदिभाव: प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्व: क्रादिसूत्रेण नियम्यत इत्यस्मिन्पक्ष इति भाव:। यदा तु प्रतिषेधाधिकारेण क्रादीनामेव लिटीण् न भवतीति नियमात् प्रतिषेध एव सर्वो निवर्त्त्यते, ""स्वरति इत्यादि सुत्रेण विकल्पो भवत्येवेति पक्षस्तदा विदुधोथ, विदुधविथेत्युभयं भवतीति । अस्यायमभिप्राय: । अत्र वृञ्व्यतिरिक्तानां क्रादीनाम् *एकाच उपदेशेनुदात्तात्* एकाज् यो क्षातुरुपदे शे ऽनुदातृतस्तस्मात्परस्यवलादेरार्धाधातुकस्येणनेति प्रकृत्याश्रय: प्रतिषेध सिद्ध:, वृङ्वृञोस्तूगन्तत्वात् ""श्रयुक: किति इति प्रत्ययाश्रय इति सिद्धे सत्यारभ्यमाणेनोनन नियमेन तुल्यजातीयानां क्रादिव्यतिरिक्तानां येषां प्रकृत्याश्रय: प्रत्ययाश्रयो वा निषेध: प्राप्तस्तेषामेवेट् प्राप्यत इति पुरस्तात्प्रतिरिक्तानां येषां प्रकृत्याश्रय: प्रत्ययाश्रयो वा निषेध: प्राप्तस्तेषामेवेट् प्राप्यत इति पुरस्तात्प्रतिषेधकाण्डारम्भस्य प्रयोजनं स्मृत्वा स्मृत इत्यादौ परमपि स्वरत्यादिविकल्पं बाधित्वा ""श्युक: कित् इति निषेधप्रवृत्तिरिति च तेनोक्तम् । हरदत्तानुवादी रामदेव
( 1 ) ( 1 ) वेदेति पाठ: कुत्रचित् ।
मिश्रोपि क्रादिसूत्रे ऽनुदात्तोपदेशानामत्र प्रकृत्याश्रय: प्रतिषेध: कृङ्वृञोस्तु प्रत्ययाश्रयस्तदुभयस्याप्ययं नियम इति वृत्तिग्रन्थोप्यत्रैवानुकूल: । अत्र मते ( सिषेधिथ सिषेद्ध सिषिधिव सिषिध्वेत्यादि ) भवति । एतदनन्तरं मृ
मरण इत्याभरणे पठ्यते, तद्भाष्यविरोधादुपेक्ष्यम् । यद्ययं स्याविरोधादुपेक्ष्यम् । यद्ययं स्यात्कथं ""व्यत्ययो बहुलम् इत्यत्र स च न मरति, नम्रियत इति प्राप्त इति ब्रूयात् । अयमनूदित्संराध्यर्थे दिवादौ ।। 48 ।।
खादृ भक्षणे ।। ( खादति । चखाद । चखादिथ । खादिता । खादिष्यति । खादतु। अखादत् । खादत् आशिषि खाद्यात् । अखादीत् । कर्मादौ खाद्यत इत्यादि । चिखादिषति । चाखाद्यते । चाखादीति, । चाखात्ति खादयति मोदकं देवदत्तेन, ) ""गतिबुद्धि इत्यादिना प्राप्तं प्रयोज्यस्य कर्मत्वम् [ आदिखाद्यो: प्रतिषेध: ] इति निषिध्यते । ""निगरणचलन इति नित्यं परस्मैपदम् । ऋदित्त्वादचखाददित्यत्र उपधाहस्वो न भवति ( खादितो मोदक:, खादितमनेन, इदमेषां खदितं, ) ""क्तोधिकरणे च इत्यादिना कर्मभावाधिकरणेषु क्त: । खादक: । *निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ्* इति ताच्छीलिको वुञ् । ण्वुलैव सिद्धे वुञ्चिधानं ज्ञापकार्यं तच्छीलादिषु वासरूपविधिना तृजादयो न भवन्तीति वृत्तौ ।। 49 ।।
खद स्थैर्ये हिंसायां च ।। चकाराद्भक्षणे च । स्थैर्ये ऽकर्मंक: । ( खदति । चखादेत्याद ) खादिवत् । लुङि ( अखादीत् । अखदीत् । अखदीत् ) ""अतो हलादेर्लघो: इति वृद्धिविकल्प: (खादयति । अचीखदत्) सथैर्ये कर्मबलात् प्रयोज्यं कर्म, खदिर: । ""अजिरशिशिरश( 1 ) ( 1 ) बाहुलकाच्छीडो बुग् इस्वत्वं चेति दीक्षता: ।
बिरशिथिलस्थिरस्फिरस्थविरखदिरा: इति किरजन्तो निपातित: । यवखदा, यवस्य सार: । स्वभावात्स्रीविषयोयं, यवखदी । ""व्रिह्मादिभ्यश्च व्रिह्मादिभ्यश्च इति मत्वर्थ इनि: ।। 50 ।।
बद स्थैर्ये ।। ओष्ठ्यादि: ( बदति । बबादेत्यादि ) खदिवत् । किति लिति थलि च सेटि रूपाभेदे आदेशादित्वानाश्रयणादेत्वाभ्यासलोपयो: ( वेदतु, वेदु:, वेदिथेत्यादि ) ( बदरं ) बाहुलकादरन्प्रत्यय: ( बदरी ) ""षिद्गौरादिभ्यश्च इति ङीष् । अत्र पाठादेवारन् प्रत्यय: । अत्र मैत्रेय: सानुषङ्गं पठित्वा नलोपे कृते एत्वाभ्यासलोपयोर्बेदतुरित्याह, तदसत् । संयोगान्तत्वेन मन्थ्यादिवल्लिट: कित्त्वाभावात । बिदि अवयवे इत्यग्रे ।। 51 ।।
गद व्यक्तायां वाचि ।। ( गदति । जगाद । गदितेत्यादि ) खदिवत् । वचनं शब्दप्रकाशनफलत्वकर्मस्थमिति न्यासपदमञ्जरीकैयटेषु ( प्रणिगदति ) *नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च* इति उपसर्गस्थान्निमित्तात्परस्य नेर्गदादिषु णत्वमिति णत्वम् । अङ्व्यावाये ऽपि इदमिष्यत इति प्रण्यगददित्यादावपि भवति । ( गादयति पुत्रं श्लोकं देवदत्त: ।) ""गतिबुद्धि इत्यादिना प्रयोज्यस्य कर्मत्वम् । अत्र शब्दकर्मेति कर्मशब्देन साधनमुच्यते न क्रिया । यदि हि स्याद्गतिबुद्धिप्रत्यवसानशब्दार्थाकर्मकेति लघ्वसंदिग्धं च ब्रूयात् । एवं न्यासकैयटपदमज्जर्यादिष्वपि स्थितमिति न शिष्येण धर्मं गादयतीत्यत्र प्रयोज्यस्य कर्मत्वम् । अत्रानित्याकर्मकगत्यर्थाभ्यवहारार्थशब्दकर्मदृशो ऽखाददिक्रन्दिशब्दायह्वेञ इति शाकटायनसूत्रव्याख्यायाममोघायां नित्याकर्मकेभ्यो गत्यर्थेभ्योभ्यवहारार्थेभ्य: शब्दनिक्रियेभ्य: शब्दकर्मकेभ्यश्च दृशेश्च यो णिस्तस्य कतां कर्म भवति खादादिक्रन्दिशब्दायह्वेञ इत्येतान् वर्जयित्वेत्युक्तम् । तन्मते क्रन्दित्रयव्यतिरिक्तेषु शब्दार्थेषु प्रयोज्यस्य कर्मत्वेन भाव्यम्, सूत्रे शब्दकर्मकेति कर्मग्रहणात् क्रन्द्यादिपर्युदासाच्च । तेनार्थद्वयस्य लाभ: । ( गद्यम् ) । ""गदमदचरयमश्चचानुपसर्गे इति कर्मणि यत् । उपसृष्टात्तु ण्यत् । ( प्रगाद्यमिति । निगद:। ) ""नौ गदनदपठस्वन: इति पक्षे ऽप् । अन्यदाघ?ञि ( निगाद: अनुगदतीत्यानुगादिक: । ) ""अनुगादिनष्टक् इति स्वार्थे ठक् । अस्मादेव निपातनाण्ण्िनि: । न त्वयं केवलं प्रयोगार्ह:, ठको नित्यत्वादिति न्यासपदमज्जर्यादिषु । कर्मव्यतिहारे नास्य तङस्ति । [ प्रतिषेधे हसादीनामुपसंख्यानम् ] इति निषेधात् । हसादयो हसिप्रकारास्ते च शब्दनक्रिया: । स्तनगदी देवशब्द इति चुरादौ ।। 52 ।।
रद विलेखने ।। विलेक्षनं भेदनम् ( रदति । रराद । रेदतु: । रेदिथेत्यादि, पूर्ववत् । रदन:) ""करणाधिकरणयोश्च इति ल्युट् ।। 53 ।।
णद शब्दे ।। ""णो न: । धात्वादेरिति शेष: ( प्रणदति । प्रणनाद । प्रणेदतु:, प्रणेदिथेत्यादि गदिवत्)
- उपसर्गादसमासे ऽपि णोपदेशस्य* इति उपसर्गस्थान्निमित्तात्परत्वेन नकारस्य णत्वम् । प्रणिनदतीत्यादौ ""नेर्गदइति णत्वम् । इदमप्यड्व्यवाये?पीति प्रण्यनददित्यादावपि भवति । धातुनकारस्य निशब्देन व्यवधानादुपसर्गादिति णत्वं न भवति । अशब्दकारकत्वे ऽपि ""अणावकम्रकइति प्रयोज्यस्य कर्मत्वं घटं नादयतीति । (नदी) । पचादौ नदडिति पाठातृ टित्त्वात् ङीप् ( नद्यां भवा नादेया: ) ""नद्यादिभ्यो ढक् इति शैषिको ढक्, तस्यैयादेश: । पञ्चानां नदीनां समाहार: ( पञ्चनदम् )। ""नदीभिश्च इति नदीवचनै: सहसंख्याया अव्ययीभाव: । अभिधानस्वभावादयं समास: समाहार इत्युक्तम् । अजिति योगविभागादच् समासान्त: । उक्तं च ।
कृष्णोदक्पाडुपूर्वाया भूमेरच् प्रत्यय: स्मृत: ।
गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि ।।
इति ( निनद: ) ""नौ गदनद इति पक्षे अप् । तदभावे घञ् । । निनाद: । हदित्समृर्ध्यर्थो ऽग्रे, णद भाषार्थश्चुरादौ ।। 54 ।।
अर्द गतौ याचने च ।। याचने द्विकर्मक: । नाथत्यादिवल्लादयो नेया: ( अर्दति । आनर्द । आनर्दतु: । आनर्दिथ । आनर्दिव ) ""अत आदे: इत्यभ्यासादेर्दीर्घे ""तस्मान्नतुङ् द्विहल: इति दीर्घभृतादभ्यासात्परस्य नुडागम: ( अर्दिता । अर्दिष्यति । अर्दतु । आर्दत् । अर्देत् । आशिषि । अर्द्यात् । माभवानर्दीत् ) ""नेटि इति सिचि वृद्धेर्निषेध: ( कर्मादौ अर्द्यत इत्यादि ) गत्यर्थत्वे कर्तृस्यक्रियात्वान्न कर्मकर्त्तास्ति । ""क्तोधिकरणे च इत्यादिना कर्तृकर्मभावाधिरेणेषु क्त उदाहार्य:। तथा ""गत्यर्थकर्म इति द्वितीयाचतुर्थ्यौ । कर्मव्यतिहारे ""न गतिर्हिसा इति तङ्निषेध:, णौ ""गतिबुद्ध् इति प्रयोज्यस्य कर्मत्वं च ( अर्दिदिषति ) ""न न्द्रा: इति निषेधान्नदरवर्जितस्य द्वितीयस्यैकाचो द्विर्वचनम् ( समण्ण: । न्यर्ण्ण: । व्यर्णा: । अभ्यर्ण्ण: ) ""अर्दे: सन्निविभ्य: । ""अभेश्चाविदूर्ये इति समादिपूर्वप् दादर्दे: परस्य निष्ठाया इण्णिषेधे ""रदाभ्याम् इति तकारदकारयोर्नत्वं पूर्वस्य ""रषाभ्याम् इति णत्वे परस्य ष्टुत्वे वणकार: । ""अभेश्चाविदूर्य्ये इति निषेधादन्यत्र ( अभ्यर्दितोवृषल: शीतेनेति भवति ) आविदूर्या प्रत्यासत्ति: । अस्मादेव निपातनाद् ""न नञ् पूर्वात् इति निषेधं बाधित्वा भावे ष्यञ् । हिंसार्थो ऽयंचुरादौ ।। 55 ।।
नर्द गर्द शब्दे ।। दन्त्यादि:, नृतिनन्दिनर्दीति पर्युदासात् ( नर्दति । ननर्देत्यादि । यङ्लुकि पर्दत्यादिवत् । गृहेनर्दी ) ""पात्रे समितादयश्च इति, पक्षे तत्पुरुषस्तत्रैव पाठात्सप्तम्या अलुक् । एवं गर्दतीत्यादि । ( गर्दभ: ) ""शॄकरिकलिगर्द्रिभ्यो ऽभच्इतृयभच् ।। 57 ।।
तर्द र्हिसायाम् । सकर्मक: । तर्दतीत्यादि, पूर्ववत् । ""न गतिहिंसा इति तङ्निषेधात् कर्मव्यतिहारेपि परस्मैपदम् । दण्डोपतर्दं गा: कालयति । दण्डेनोपतर्दमिति च् ""हिंकर्मव्यतिहारेपि परस्मैपदम् । दण्डोपतर्दं गा: कालयति । दण्डेनोपतर्दमिति च् ""हिंसा र्थानाम् इति णमुल् । ""तृतीयाप्रभूति इति समासविकल्प: । वासरूपेण क्त्वायां दण्डनोपतर्द्यम् ।। 28 ।।
कर्द कुत्सिते शब्दे ।। कुत्सितशद्व इह कौक्ष: । यदाह केशावस्वामी कौक्षि कर्दति पर्दते गुदरव इति
( कर्दतीत्यादि नर्दतिवत् । कर्दम: ) बाहुलकादमच् ।। 49 ।।
खर्द दन्दशूके ।। दन्दशूकइति दन्दशूककर्तृका क्रिया ऽभिधीयते । साधनप्रधानप्रयोगित्वस्थापनार्थं दन्तशूकग्रहणमिति संमतातरङ्गिण्यौ । दन्द्रशूको गर्हितो दशनशील:, इह तु तत्स्था क्रिया, दश इत्यनुक्तिस्ताच्छील्यादिप्रतिपत्त्यर्थेति मैत्रेये प्रतिपादितम् । दन्तशूक इति केशवस्वामी दकारस्य स्थाने तकारमाह, तन्महान्तो न सहन्ते । यदाह दन्दशूको बिलेशय इति, अत्र सुभूतिवन्द्रा: दंशेर्यङन्तादूकपत्यये ऽल्लोपयलोपयोरिति । तथा इषुमति रखुसिंहेदन्दशूकान् जिघांसाविति भट्टिश्लोकव्याख्याने दन्शूकान् र्हिस्त्रन् दंशेर्लुपसदेत्याद्युक्तं शंकराचार्येण । ?र्हिस्त्रमात्रे प्रयुञ्जनो भट्टिकारो दन्दशूकशब्दस्य नैघण्टुकप्रसिद्धिं नाद्रियते । खर्दतीत्यादि पूर्ववत् ।। 60 ।।
अति अदि बन्धने ।। अत्र धनपाल:, तान्तं द्रविडा: पठन्ति । आर्यास्तु दान्तमिति । उभयमिति मैत्रेयस्वामिकाश्यपसंताकारादय: । ( अन्तति । आनन्त । आनन्ततु: । आनन्थिथ । आनन्तिव ।
अनिततेत्यादि ) हदित्त्वान्नुमि द्विहल्वात् ""तस्मान्नुड् द्विहल: ति लिटि नुडागम: । अन्तितिषति । अनुस्वारपसवर्णयो: पूर्वत्रासिद्धत्वात् । ""न न्द्रा: इति नकारवर्जं द्विरुच्यते । न च [ पूर्वत्रासिद्धीयमद्विर्वचने ] इत्यसिद्धत्वनिषेध: । अस्यद्वेर्वचननिषेधरूपत्वात् । उक्तं चात्रैव "हयवरङ्' इत्यत्र जैयटे । अन्तयति । आन्तितत् । एवमन्दतीत्यादि । अन्त: । घञज्वा । उणादिवृत्तौ तु ""हमिमृयीण्वामिदमिलूपूधूर्विभ्यस्वन् इति अमेस्तनि व्युत्याद्यते । अन्ते भवमन्त्यम् । ""दिगादिभ्यो यत् इति सप्तम्यन्ताद्भावार्थे सत् । अन्तिमम् अन्ताच्चेति वकृतव्यम् ] इति शैषिको डिमच् । अन्तिक:। *अत इनिठनौ* । अदन्तादस्त्युपाधिकादस्येति षष्ठ्यर्थे इनिठनाविति ठन् । ""ठस्येक । आवसथस्यान्तिके । ""दूरान्तिकार्थै: षष्ठ्यान्यतरस्याम् इत्यन्तिकयुक्तात् षष्ठीपञ्चम्यौ । अन्तिकशद्बात्तु ""दूरान्तिकार्थेभ्यो द्वितीया च इत्यत्र पञ्चम्यनुवर्त्तते, चकारेण तृतीया समुच्चीयत इति द्वितीयापञ्चमीतृतीया: स्यु:। तथा ""सप्तम्यधिकरणे च इति चश्याब्दाद् दूरान्तिकार्थसमुच्चयार्थात्सप्तमी चेति चतस्त्रो विभक्तय: ( अन्तिकम् । अन्तिकात् । अन्तिकेन । अन्तिके इति)
एताश्चतस्त्रो विभक्तयोसत्त्ववचनेभ्य: प्रातिपादिकार्थं इति वृत्तौ । भाष्ये
दूरादावसथान्मूत्रं दूरात् पादावसेचनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद्गुरो: ।।
इति । सत्त्ववचनादधिकरणे पञ्चमी दृश्यते । कैयटे चावसथस्य दूर इत्यर्थ इति । अन्तिकादागत: *स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन*स्तोकाद्यर्था: कृछ्रशब्दश्च पञ्चम्यन्ता: क्तान्तेन वा समस्यन्? इति तत्पुरुषपक्षे विभक्तेस्तु ""पञ्चम्या: स्तोकादिभ्य: इत्यलुक् । ऐकपद्यमैकस्वर्यञ्च विशेष: ( नेदिष्ठ: । नेदीयात् ) ""अन्तिकबाढयोर्नेदसाधौ इति इष्ठन्नीयसुनोर्यथासङ्कयन्नेदसाघावादेशौ । अस्मादेव वचनात् ""अजादी गुणवचनादेव इति बाध्यते । अन्दूर्भाषायां शृङ्खले च । ""अन्दूदृम्भू: इत्यूकारप्रत्यये निपातित: । अन्दुको गजनिगल: । संज्ञायां कनि ""केण: इति हस्व: ।। 62 ।।
इदि परमैश्वर्यो ।। ( इन्दति । इन्दाञ्चकार । हन्दितेत्यादि ) लिटि ""हजादेश्च इत्याम् । इन्द्र: । ""ऋज्जेन्द्र इरनन्तो निपातित: । इन्द्राणी । *इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवयनमातुलाचार्याणामानुक्* इति पुंयोगादाख्यां ङीषानुकौ । *पुंयोगादाख्यायाम्* पुंसोयोगात्तच्छब्देन स्त्रियामभिधानम् । इन्द्रमात्मन इच्छति""सुप आत्मन: क्यच्इति इषिकर्मण: सुबन्तादात्मेच्छायां क्यचि अकारस्य ""अस्य च्वौ क्यचि च इतीकारे हन्द्रीयति। अस्मात्सन्यतो लोपे ""नन्द्रा इतृयत्राजादेरिति वर्त्तते, स च कर्मधारय: पचम्यन्त इत्यादेरच: परेषां नदराणां द्विर्वचननिषेध इति व्यवहितत्वादृकारस्य द्विर्वचने ( इन्दिद्रीयिषतीति भवति । अग्रीन्द्रौ देवते अस्य आग्नेन्द्रं हवि: ) ""देवताद्वन्द्वे च इति पूर्वपदस्यानङ्, ""सास्य देवता । प्रथमान्ताद्देवतोपाधिकादस्त्यर्थेऽणित्यणि ""देवताद्वन्द्वे च इति प्राप्ताया उत्तरपदवृद्धे: ""नेन्द्रस्य परस्य इति निषेध: ( हन्दिरा ) बाहुलकात् किरच् ।। 63 ।।
बिदि अवयवे ।। अवयव इति अवयवक्रियोच्यते । बशादि: । ( बिन्दति । बिबिन्द । बिन्दितेत्यादि ) ( किन्दु: ) बाहुलकादुप्रत्यय: । अत्र मैत्रेय: । ""बिन्दुरिच्छु: इति सूत्रं बशादिं पठन् बिन्दुशब्दं व्युदपादयत्. । वृत्तौ तु वेतेरेव तत्र पाठ: । अत्र सम्मतायां भिदिअवयवे । भिन्दति । यद्यभिधानमस्ति भिन्दुरिति दृश्यत इति ।। 64 ।।
गडि वदनैकदेशे ।। इह वदनैकदेशारम्भलक्षणा क्रिया वदनैकदेनोच्यते ( गण्डति । गण्ड: ) अच् । अत्यादय: पञ्चै न तिङ्विषया इति काश्यप: । सम्मतायां बिदिभिदो एव प्रकृत्यैवमुक्तम् । अविगोतमन्ये सर्वेषां तिङ्मुदाहरन्ति ।। 65 ।।
णिदि कुत्सायाम् । ( निन्दति । निनिन्द । निनिन्दिथ । निनिन्दिव । निन्दितेत्यादि ) । कर्मादौ
( निद्यते ) इत्यादि । ( प्रणिन्दति ) । ""उपसर्गादसमासेपि इति णत्वम् । अत्र मैत्रेयाभरणसम्मतकारा: ""वा निंसनिक्षनिन्दाम् इति णत्वविकल्पमिच्छन्ति, तदयुक्तम् । यतोत्र ""कृत्यच: इत्यत: कृतीति वर्त्तते, तच्च निन्दादिभिर्विशेष्यमाणमर्थात्परसप्तम्?यन्तीमिति उपसर्गस्थान्निमित्तात्परपरस्य निंसादिनकारस्य कृति परे वा णत्वमिति सूत्रार्थ: । तथा च शाकटायन: । "निंसनिक्षनिन्द: कृति वा' इति । एवं हि प्रकरणमबाधितं भवति
णोपदेशश्च सार्थक: । वृत्तौ च प्रणिन्दनम् । प्रनिन्दनमिति कृदन्तमेवोदाहारि । ( निन्दक: ) । ""निन्दहिंस
टुनदि समृद्धौ । *आदॢ?र्ञिटुडव* इति त्रय एते धात्वादय: समुदाया इत: । प्रयोजनं नन्दथुरित्य ""द्वितोऽथुच् इति भावादावथुच् । ( नन्दति । ननन्द । नन्दितेयादि । भावे नन्द्यत इत्यादि । निनन्दिषति । नानन्द्यते । नानन्दीति । नान्ति । नन्दयति । अननन्दत् । नन्दयतीति नन्दन: ) । ""नन्दिग्रहि इति ल्यु । अयं तनर्गींयोपदेश:, नृतिनन्दीति णोपदेशलक्षणर्युदासात् ( न नन्दतीति ननान्दा । ननान्दरौ ) ""न?ञि च नन्दे: इति ऋन्प्रत्ययो वृद्धिश्च, ""न षट्स्वस्त्रादिभ्य: इति ""ऋन्ने भ्य: इति ङीपो निषेध: । *ष्णान्ता षट्* इति षकारनकारान्ता सङ्गया षडितृयुच्यते । स्वस्रादिपाठादेव नञो नलोपाभाव: । ननान्दुरपत्यं नानान्द्र: ।। *अनृष्यानन्तर्ये विदादिभ्योञ* । अनृषीत्यकविभक्तिं भिन्नं पदं, तेन बिदादिभ्योगोत्रापत्येऽङ् जनृषिभ्यस्त्वनन्तरापत्ये इति सूत्रार्थ: ।। 67 ।।
चदि आह्लादने दीप्तौ च ।। ( चन्दति । चचन्द । चन्दितेत्यादि ) ( चन्दन: ) । करणे ल्युट् ।
( चन्द्र: ) । ""स्फायितञ्चि इत्यादिना रक् । ( चन्द्रकम् ) । संज्ञायां कन् । ( चन्द्रिका ) । टापि *प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुप:* इति इत्वमकारस्य, असूप इत्यापो विशेषणम्, स चेदाप् सुप: परो न भवतीति । ( चन्दिर: ) । ""इषिमुषि इत्यादिना किरच् ।। 68 ।।
त्रदि चेष्टायाम् ।। ( त्रन्दति । तत्रन्द । त्रन्दितेत्यादि ) ।। 69 ।।
कदि क्रहि क्लदि आह्वाने रोदने च ।। आह्वने सकर्मक: । ( कन्दति । चकन्द । कन्दितेत्यादि । विक्रन्दिषति । चाकन्दाते । चाकन्दीति । चाकन्ति । कन्दयति पुत्रन्देवदत्तेन ) । ""गतिबुद्ध इत्यत्र शब्दकर्मेति साधनकर्मणो ग्रहणात् प्रयोज्यस्य न कर्मत्वे, शाकटायनमते त्वस्यैव सर्वमेतद्गदतौ प्रतिपादितं तत एवावगन्तव्यम् । क्रन्दीत्यादि पूर्ववत् । ( संक्रन्दयतीति संक्रन्दन: ) । नन्द्यादित्वाद् ल्यु । कर्मण्यधिकरणे वा घञ् । ( अगक्रन्दं धावति आक्रन्दिक: ) । ""आक्रन्दाट्ठञ्च इति ठन् ठकोद्य । अनयो: स्वरे विशेष:
( कन्दर: ) बाहुलकादर: । यद्वा । कन्दं वैल्कव्यं राति भीरूणामिति ( कन्दर:। कन्दल: ) । बाहुलकाद् लप्रत्यय: । यद्वा पूर्ववद्राते: क: । ""?कपिलकादीनां संज्ञाछन्दसो इति लत्वम् । अथ वा लाते रन्तभांवितण्यर्थात्क: । ( कन्दली ) । गौरादित्वाद् ङीष् । एते घटादयोऽपि । आद्यावेवेत्यपरे ।।
क्लिदि परि?देवने ।। ( क्लिन्दतीत्यादि ) । अस्यानुदात्तेतृसु पठितस्येह पाठ: परस्मैपदार्थ स्वरितेतृसु पाठ: क्रियालफस्य कतृगामित्वेऽपि परस्मैपदं यथा स्यात् ।। 73 ।।
शुन्ध शुद्धौ ।। ( शुन्?धति । शुशुन्ध । शुन्धितेत्यादि )। आशीर्लिङि कित्त्वात् ""अनिदिताम् इति उपधालोपे शुध्यात् । त?था यक्यङोरपि (शुध्यते, शोशुध्यत इति ) । यङ्लुकि लङि तित्सिपोर्हल्ङयादिलोपे संयोगान्तलोपे च प्रत्ययलक्षणेन लघुपधगुणोन न भवति, संयोगानतलोपस्य पूर्वत्रासिद्धत्वात् । ( शुधित: । शुधितवान् । शुधित्वा ) । ""उदुपधात् इति निष्ठाया: कित्त्वविकल्पो न भवति "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति । अत्र कित्त्वसन्निपातनिमित्तमुदुपधत्वं यदिदं कित्त्वाश्रये नलोपे भवति । धान्तप्रकरणमपहाय संयागान्तप्रकरणानुरोधेनायमिह निर्दिष्ट: । अयं शौचकर्मणि युजादौ । शुधि र्शोच इति दिवादद्वै । अनुषङ्गो नेह ।। अन्तादय उदात्ता उदात्तेतो गता: ।। 74 ।।
प्रथमं माङ्गलिकमेधतिं पठित्वा मातृकापाठक्रमेण कवर्गीयान्तानाह ।।
शीकृ सेचने ।। तालव्यादि: । दन्त्यादिरिति धनपालकाश्यपौ । अत एव षोपदेशलक्षणे सूपि सृज्स्मतृस्त्यासीकृसेसृवर्जमिति पेठतु: । पुरुषकारस्त्वत्र मृष्यतिं पठति यदाह सीकृ इत्यार्या इति धनपाल: । तत्र चायं पक्ष: शीकर इति प्रयोगाननुगुण: । योऽपि षोपदेशलक्षणे सीकृपाठ: सोऽप्येवं प्रत्युक्त इति । ( शीकते । शिशीके । शीकिता । शीकिष्यते । शीकताम् । अशीकत । शीकेत । आशिषि । शीकिषीष्ट । अशीकिष्ट । अशीकिष्यत ) । कर्मणि ( शीक्यते ) इत्यादि । ( शिशीकिष्?ाते । शेशीक्यते । शेषीकीति । शेशीक्ति:, इति । लुङि अशेषीकीत् ) हल्ङ्यादिलोप: । अशेशीक् स्यातेतृयत्र ""स्कोस् इति' लोपो न भवति । निमित्तनिमित्तिनोर्भिन्नपदस्य सत्वात् । उक्त चैवं ""परेश्च घाङ्कयो: इत्यत्र कैयटे । पदस्येत्यधिकारात् प्रत्यासत्तिन्यायाश्रयणादेकपदस्थयोर्निमित्तनिमित्तिनोर्ग्रहणमिति । ( शीकयति । अशिशीकत् । शहका ) ।
""गुरोश्च हल: इत्यकार: । ( शीकायते ) । [ तत्करोत्यर्थेऽटाट्टशीकाकोटापोटासोटाप्लुष्टाग्रहणं कत्तेव्यम् ] इति क्यङ् । भयमपि पाठस्तालव्यादित्वे प्रमाणम् । अयं क्यङ् ""तत्करोति इति णिचोपवाद इत्येके, सोपीष्यत इति न्यासादौ । कान्तत्वादस्मात् क्किप् नोदाइर्त्तव्य:, स्थितं चैवं ""परेश्च घाङ्कयो: इत्यत्र भाष्यकैयटयो:, तथा ""स्को: संयोगाद्यो इत्यत्र वृत्तितद्व्याख्यानेष्वपि । मर्षणार्थायं युजादौ ।। 75 ।।
लोकृ दर्शने ।। ( लोकते । लोक: ) । भाषार्थोयं चुरादौ ।। 76 ।।
श्लोकृ संघाते ।। ( श्लोकते ) । संघातो ग्रन्थ:, स चेदं पठ्यमानव्यापार इति स्वाम्यादय: । काश्यपादयस्तु ग्रन्थितृव्यापार इति मथ्नातिवत्सकर्मक इति, श्लोकेरुपस्तौति, उपश्लोकयति । ""सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् इति णिच् ।। 77 ।।
द्रेकृ ध्रेकृ शब्दोत्साहयो: ।। शब्दोत्साह इति केचित् । यदाह काश्यप: ( द्रेकते ) शब्देनोत्साहं करोतीति । उत्साहो वृद्धिरिति चन्द्र:। औद्धत्यमिति स्वामी । ( द्रेकते । दिद्रेके । द्रेकितेत्यादि । द्रेकण: ) । ""रषाभ्याम् इति ण: । एवं ध्रेकत इत्यादि ।। 79 ।।
रेकृ स्त्रेकृ स्त्रकि श्रकि श्लकि गत्यर्था: ।। अन्त्यौ तालव्यादी, अन्ये दन्त्यादय: । ( सते । सिसेके सेकिता सेकते । सिस्त्रेके । स्त्रङ्कते । सस्त्रङ्के । स्रङिकता । श्रङ्कते । शश्रङ्के । श्रङ्किता । श्लङ्कते । शश्लङ्के । श्लङ्किता ) । इत्यादि । अत्र मैत्रेय: । तृतीयं श्रेकृ इति तालव्यादिमेकारोपधं पठति ।। अत्र क्क चित्सीकृ इति दन्त्यादिरपरोपि धातु3 पठ्यते, तदनार्षम् । स्तॄसृजिसृपिसॄस्तृयासेकृसृजमिति षोपदेशपर्युदासे भाष्याद्विष्वाठात् । अत्र क्षीरस्वामी । अत्र दन्त्यादे: स्थाने तालव्यार्दि पठित्वाऽर्थभेदात्पुन: पाठ इत्युक्तवा षेकृ इत्यन्ये विकल्पेन षोपदेशं कार्यार्थे पेठुरिति ।। 85 ।।
शकि शङ्कायाम् ।। ( शङ्कते । शशङ्के । शङ्कितेत्यादि । शिश?ङ्किषते । शाशङ्कीति । शाशङ्क्ति । लङि ईडभावे अशाशन् । शङ्कु: ) । ""खरुशङ्कुयीयुनीलगु इत्युप्रत्ययान्तो निपातित: ।
( शङ्कुला ) । बाहुलकादुलच् । शक्लृ शक्ताविति स्वादौ । शकविभाषितो मर्षण इति दिवादौ ।। 86 ।।
अकि लक्षणे ।। ( अङ्कते । आनङ्के । अह्कितेत्त्यादि । अ?ञ्चिकिषते ) । अनुस्वारपरसवर्णयो: पूर्वत्रासिद्धत्वात् । ""नन्द्रा: इति निषेधात् ककारादिर्द्विरुच्यते । न च ?[ पूर्वत्रासिद्धीयमद्विर्वचन]इति असिद्धत्वनिषेध: । ""नन्द्रा: इत्यस्य निषेधरूपत्वादित्यतन्तौ स्थापितम् । आहुश्चात्र स्वामिकाश्यपादयोपि, ""नन्द्रा इति निषेधात् कादेर्द्विवैचनम् । ( प्राङ्कनम् ) । ""कृत्यच: इति: णत्वस्य *इजादे: सनुम:* । इशन्ताद्धातो: सनुमो यदि भवति तर्हिं इजादेरेवेति नियमादभाव: ( अङ्कुर: ) । ""मन्दिवाशिमथिचतिचङ्कयङ्किभ्य उरच इत्युरच् । अकि कुटिलायां गतावित्यग्रे । अङ्कु लक्षण इति चुरादौ ।। 87 ।।
वकि कौटिल्ये ।। ( वङ्कत । ववङ्के । वहिङ्कतेत्यादि । प्रवङ्कनम् ) पूर्ववदण्त्वम् । (वङिक:)
""वङ्कयादयश्च इति किन्नन्तो निपातित: । अयं गत्यर्थ: पठिष्यते ।। 86 ।।
मकि मण्डने ।। ( मङ्कते ) इत्यादि । ( प्रमङ्कनम् ) । अङ्किवदणत्वम् । ( मङ्कन: ) । ""क्रुधमण्डार्थेम्यश्च इति युच् । कर्मकर्त्तरि ""भूषाकर्म इति यक्चिणोर्निषेधाद् ( मङ्कत्ते कन्या स्वयमेव, अमङ्किष्ट कन्या स्वयमेवेति ) शप्सिचोर्निषेधाद् (मङ्कत्ते कन्या स्वयमेव, अमङ्किष्ट कन्या स्वयमेवेति ) शप्सिचौ भवत: मङ्कि: । इन्नितीन् ।। 89 ।।
कक लौल्ये ।। लौल्यं गर्वश्चापल्यं च । ( ककते । चकके । ककितेत्यादि । काक:, ) घञ् । बाहुलकात्कर्तिरिख्? गत्यर्थ:, पठिष्यते तस्माद्वा घञ् ।। 90 ।।
कुल वृक आदाने । ( कोकते । चुकुके । कोकितेत्यादि । चुकुकिषते । चुकोकिषते । कुकित्वा । कोकित्वा ) । ""रलो व्युपाधात् इतिकित्त्वविकल्प: । ( कुकितमनेन, कोकितमनेन । प्रकुकित: । प्रकाकित: । प्रकुकितवान् । प्रकोकितवान् ) । ""उदुपधात् इति कित्त्वविकल्प: । ( प्रकोकनम् । प्रकोकणम् ) ।। *हलश्चेजुपधात् * हलादेरिजुपधात्परो य: कृत् ततस्थस्य नकारस्य उपसर्गस्थान्निमित्तात्परस्य वा ण इति णत्वविकल्प:। ""कृत्यव: इत्यस्यापवाद: । ( कोक: ) । देवसेवमेषादय: पचादिषु द्रष्टव्या इत्यादिशब्दस्य
प्रकारार्थत्वादिदुपधात्कं बाधित्वा ऽच् प्रत्यय: । ""सलिकल्यनिमहिब( 1 ) ( 1 ) वडीति: पञ्चपादीवृत्तौ नास्ति ।
डिभडिभण्डिशण्डिपिण्हितुण्डिकुकिभूभ्य इलच् इति इलच् । ( वर्कते । ववृके । वर्कितेत्यादि । विवर्किषते । वरीवृक्यते ) । *रीगृदुपधस्य च* ।। ऋत्वतोभ्यासस्य री??गिति रीगागम:, ( वरीवृकांचक्रे ) इत्यदावल्लोपस्य स्थानिवत्त्वात् ""न धातुलोप: इति वा रुगभाव: ( वर्वक्ति । वरिवार्क्ति । वरीवर्क्ति ।। वर्वृकीति वरिवृकीति । वरीवृकीति । ) *रुग्रिकौ च लुकि* इति ऋत्वतोभ्यासस्य रुग्रिकौ चकारद्रीक् । ईटि ""नाभ्यतस्याचि पिति इत्यगुणत्वम् । एवं वर्वृक्त इत्यादि । वर्वकां चकारेत्यादौ यङ्लुकोऽनैमित्तकत्वात् ""न धातुलोप: इति गुणनिषेधाभाव: । ( अवर्वृ कीत् । अवर्वर्क् सथातेत्यत्र ) ""स्को: इति कलोपो भिन्न्पदत्वान्नेति सीकतावुक्तम् । लुङि सार्वधातुकाश्रये गुणे ""नाभ्यस्तस्य इति निषिद्धेपि सिजाश्रयो भत्येव प्रत्यलक्षणेन, ( अवर्वर्कीत् । अवर्वर्किष्टामित्यादि ) । हलन्तलक्षणा वृद्धि: ""नेटि। इति निषिध्यते । ( वर्कयति । अववर्कत् । अवीकृकत् )
- उर्ऋत्*।। चङ्परे णावुपधाया ऋकारस्य वा ऋकार इत्यृकार: । इररा रामपवाद: । वृक: । हगुपधलक्षण: क: । मृगविशेष आयुधजीविसंघविशेषश्च । तत्र द्वितीयार्थाभिधायिनो ""वृकाट्टेण्यण् इति स्वार्थे टेण्यणि वर्किण्य:।।*ञ्यादयस्तद्राजा:* । ""पूगाञ्ञ्योग्रामणीपूर्वात् इत्यारभ्यापादपरिसमाप्तेर्वक्ष्यामाणा: प्रत्ययास्तद्राजसंज्ञा इति टेण्यस्य तद्राजत्वे ""तद्राजस्य बहुषु तेनैवास्त्रियाम् इति लुकि बहुषु वृका: तेनैवेति वचनाद्यदि बहुत्वं तद्राजकृतमेवेत्यवगतेर्वार्केण्यमतिक्रान्ता अतिवार्केण्या इत्यादावर्थान्तरकृते बहुत्वे लुग् न भवति । तथा । अस्त्रियामितिवचनात् स्त्रियां टित्त्वात् ङीवि हलस्तद्धितस्य । हल उत्तरस्य तद्धितयकारस्य लोपो भवतीति परत इति ""आदे: परस्य इति यकारलोपे च इत्यकारलोपे ( वार्केणी । वार्केण्य ) इति भवति । वर्करस्तरुण: पशु: । बाहुलकादरच् ।। 92 ।।
चक तृप्तौ प्रतिघाते चेति धनपालमैत्रेयादय: । चक तृप्ता?वित्येव क्षीरस्वामिशाकटायनौ । ( चकते । चेके । चकितेत्यादि । चकोर: ) । ""कटिचकिभ्यामोरच् इत्योरच् । अयं घटावपि ।। 93 ।।
ककि वकि श्वकि त्रकि ढौकृ ष्वष्क वस्क मस्क टिकृ रघि गत्यर्था: ।। ( कङ्कते । चकङ्के । कङ्कितेत्यादि । वङ्कते । ववङ्के । वङ्कितेत्यादि प्रवङ्कनम् । प्राङ्कुनम् ) । ""कृत्यच: इति णत्वम् ""इजादे: सनुम: इति नियमान्न भवति । ( कङ्तम् ) । बाहुलकादतच् । । कङ्कत एव कङ्कतिका । संज्ञायां कनि टापि ""प्रत्ययस्थात् इतीत्वम् । ( श्वङते । शश्वङ्के । श्वहिङ्कता । त्रङ्कते । तत्रङ्के । त्रङ्किता ।। ढौके । ढौकिता ।। त्रोकते । तुत्रौके । त्रौकिता । ष्वष्कते । ष्वष्किता ) ।
[ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्य: ] इति सत्वनिषेध: । ( वस्कते । ववस्के । वस्किता । मस्कते । ममस्के । मस्किता टेकते । टिटिके । टेकिता । ""असंयोगाल्लिट् कित् इति कित्त्वाम्र गुण: । ( टीकते ।
टिटीके । टीकिता । रङ्घते । ररर्ङ्घे । रङ्घिता । लङ्घते । ललङ्घे । लङ्घितेत्यादि ) दौकतित्रौकत्योर्यङ्लुकोरभ्यासस्य हस्वे गुण: । न च हस्वस्य ""दीर्घोकित: इत्यनेन बाध: । "अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन् बाधन्त' इति तत्राकित इत्यनेन ज्ञापितत्वात् । अस्ति च्च दीर्घस्य दीघेत्वे प्रयोजनं स्वस्वनिवृत्ति: । कृते तु हस्वे तस्य दीर्घ ऊकारो न भवति, ""गुणो यङ्लुको: इत्यस्य निर्विषयत्वप्रसङ्गात् । ढौकतित्रौकतिटेकतिटीकतिटीनामृदित्त्वाण्णौ चङ्युपधाया हस्वा भाव: । ( अडुढौकत् । अतुत्रौकत् । अटिकेकत् । अटिटीकदित्याह ) । लघु ""लङ्किघंह्मोर्नलोपश्च इतृयुप्रत्ययनलोपौ । (लघिमा)।
- पृथ्वादिभ्य इमनिज्वा* इति भावकर्मणोरिमनिव् । तीष्टेमेयस्सु लोप: । वाग्रहणात् *इगन्ताच्च लघुपूर्वात्* इति अणि लाघव मिति, लघुपूर्वान्तादिति सूत्रार्थ: । रघु: । ""बालमूललघ्वङ्गलीनां वा लो रत्वमापद्यते इति पक्षे लकारस्य रेफ: । श्वङ्कति: संमतायां दन्त्यादि: पठ्यते । अत्र दण्डके तिकृ तीकृ इति क्कचित्पठ्येते, तदपि तिक: प्रतीक इति दर्शनाद् ग्राह्ममेव, इगुपधलक्षणकान्तौ । तिकस्यापत्यं, ( तैकायनि: ) । "तिकादिभ्य: फिञ् । फस्यायनादेश: । तैकायनयश्च कैतवायनयश्च कितकितवा: । *तिककितवादिभ्यो द्वन्द्वे* इति हन्द्वे बहुषु फिञो लुक् । लघि भोजननिवृत्तौ चेति स्वाम्यादय । लघि शोषण इत्यग्रे । भाषर्थोयं चुरादौ ।। 106 ।।
अघि वधि मघि गत्याक्षेपे ।। आक्षेपो निन्द, गतौ गमनारम्भे चेति स्वामी । ( अङ्कते । आनङ्के । अङ्कितेत्यादि । अञ्जिषते ) । ""नन्द्रा: इति नवर्जं द्विरुच्यते । अभ्यासस्य चुत्वेन ज्ञकारे जश् वे जकार: ।
( अङ्घयति । आ?ञ्जिघत् । वक्ङते । मङ्घते ) । इत्यादि । प्राङ्घनमित्यादौ ""ज्ञजादे: सनुम इति नियमादणत्वम् । मघि कैतवे च ।। 109 ।।
राघृ लाघृ सामर्थ्ये ।। ( राघते । रराघे । राघितेत्यादि । रिराघिषते । राराघ्यते । राराघीति । राराग्धि । ?लङि । आराराक् । राघयति । अरराघत् । ) मृदित्त्वादुपाधाहस्वनिषेध: । एवमितरयोरपि ( उल्लाघ: ) ""अनुपसर्गात्फुल्लक्षीबकृशोल्लाघा: इति क्ते उडभावस्तलोषश्च निपात्यते । उल्लाघेतिवचनाद् अनुपसृष्टाच्च ( लाघित: प्रलाघित ) इति भवति । द्राघृ आयामे च । आयामो दैर्ध्यक्रियेति कौशिक: । कदर्थनमिति स्वामी । घाघृ इति तवर्गचतुर्थादिमपि के चित्पठन्ति ।। 111 ।।
श्लाघृ कत्थने ।। कत्थनं श्लाघनम् (देवदत्ताय श्लाघते । ) देवदत्तं स्तुवँस्तमेव बोधयितुमिच्छतीत्यर्थ: । *श्लाघह्नङ्स्थाशपां ज्ञीप्स्यमान:* । श्लाध्यादीनां प्रयोगे ज्ञीप्स्यमानो ज्ञापयितुमिष्यमाण: संप्रदानमिति देवदत्ताच्चतु र्थी, के चिदाहु: । आत्मानं परं वा स्तुवन् तां स्तुतिं बोधयितुमिच्छतीत्यर्थ इति । तथा च भट्टि:, श्लाघमान: परस्त्रीभ्यस्तत्रागाद्राक्षसेश्वर इति । देवदत्तं श्लघत इति ज्ञीप्स्यमानत्वाविवक्षायां कर्मत्वम् ।। शीकादय उदात्ता अनुदार्त्तेतो गता: ।। 112 ।।
अथ परस्मैपदिन आह----
फक्ल नीचैर्गतो ।। इल: शिध्यन्ता उदात्ता उदात्तेत: । नीचैर्गतिर्मन्दगमनमसद्वयवहारो वेति स्वामी
( फक्कति । फक्क । फक्किता । फक्किष्यति फक्कतु । अफक्कत् । फक्केत् । आशिषि फक्यात् । अफक्कीत् । अफक्किष्यत् । कर्मादौ फक्क्यत इत्यादि । पिफक्किषति । पाफवक्यते पाफकीति । पाफक्ति । फाफक्ति । फक्कयति । अफक्कत् ।। 113 ।।
तक हसने ।। ( तकति । तताक । तेकतु: । तकिता । अतकीत् । अताकरद् ) इत्यादि । अतो हलादे इति वा वृद्धि: । ( व्यतितकन्ति ) [ प्रतिषेधे हसादीनाम् ] इति तङ्निषेध: ( तक्यम् ) । ""तकिशसि इति यत् ।। 114 ।।
तकि कृच्छ्रजीवने ।। ( तङ्कति । ततङ्क । तङ्कितेत्यादि । यङ्लुकि लङि ईडभावे अतातन् ) । अस्यानन्तरं मैत्रेय: शुक गताविति पठित्वा शोकति, शुक:, शुक्र इत्युदाजहार, अस्मिन्हि सति शुकवलोल्का इति शुभे: कनि भलोपे शुकशब्दनिपातनमर्थकं स्यात्, हगुपधलक्षणेन कप्रत्ययेनैव सिद्धत्वात्, तथा शुकेरग्विधानेनापि शुक्रशब्दे सिद्धे ऋजेन्द्रादौ शुचेर्निपातनमनर्थकं स्यादित्यस्य पाठोऽनार्ष इव प्रतीयते।।115।।
बुक्क भषणे ।। भषणमिह श्वरव: । ( बुक्कति । बुबुक्क । बुक्कितेत्यादि ) । अयं चुरादावपि
।। 116 ।।
कख हसने । ( कखति । चकाख । कखितेत्यादि । अकखीत् । अकाखीत् ) । । ""अतो हलादे: इति वा वृद्धि: ।। 117 ।।
ओखृ राखृ लाख्र द्राखृ घ्राखृ शोषणालमर्थयो: । ( ओखति । ओखांचकार । ओखितेत्यादि । ओचिखिषति । ओखयति । ( मा भवानोचिखत् ) । ""द्विर्वचनेचिइति णिलोपस्यस्थानित्त्वात खिशब्दस्य द्वितीयस्यैकाचो द्विर्वचनमृद्वित्त्वान्नोपधाहस्व: । इदमेव ऋदित्त्वंज्ञापकमन्तरङ्गादपि द्विर्वचनात्पूर्वमुपधाहस्वत्वं भवतीत्यस्य । अस्य च प्रयोजनं मा भवानिदिधदिति सिद्धिरित्येधतावुक्तम् । ( प्रोखति ) । *एङि पररूपम्* । अवर्णान्तादुपसर्गादेङि परे पूर्वपरयो: पररूपमिति पररूपत्वम् । ( राखति । अरराखत् । लाखति । द्राखति । घाखतीत्यादि ) ।। 122 ।।
शाखृ श्लाखृ व्याप्तौ ।। ( शाखति । श्लाखतीत्यादि । शाखा ) । ""गुरोश्च इत्यकार: शाखेव शाख्यम् । ""शाखादिभ्यो य: इति इवार्थे य: । ( प्रतिशाखं भवं प्रातिशाख्यतम् । ""अव्ययीभावाच्च इति भवार्थे ण्य: । शाखा अस्य सन्तीति, शाखी । ""ब्रीह्मादिभ्यश्च इति इनि: । विशिष्टा शाखा विशाखा । सा प्रयोजनं प्रयोजिका यस्य वैशाखो मन्ध: । ""विशाखाषाढादण्मन्थण्डयो: इति प्रयोजने ण्प्रत्यय: । विशाखेति नक्षत्रं तत्र जात: । ""सन्धिवेलाद्यृतुनक्षत्रेभ्योण् इत्यण् । तस्य ""श्रविष्ठाफल्गुनीइत्यादिना लुकि ""कुक्
तद्धितलुकि इति स्त्रीप्रत्यस्य लुकि विशाखे माणवक: ।। 124 ।।
उख उखि वख वखि मखि णख णखि रख रखि लख लखि इख इखि ईखि वलग रगि लगि अगि वगि मगि तगि त्वगि त्वगि श्रगि श्लगि इति रिगि लिगि गत्यर्था: ।। द्वितीयन्ता: पञ्चदश, तृतीयान्तास्त्रयोदश ।। ( ओखति । प्रोखति ) "एङि पररूपम्' । ( उवोख । ऊखतु: । उवोखिथ । उवोख ) । गुणविषये *अभ्यासस्थासवर्णे* इति अभ्यासस्येवर्णेवर्णेयोरसवर्णेऽचि परत इतयङ्च्डावित्युवङ् । लिटि पिद्वचनेषु गुण:, गुरुमानयं धातुरिति तेषां स्थानिवत्येन लिट्त्वाद् आम् प्राप्त: । सन्निपातपरिभाषया निवर्त्तते । आमि गुणनिमित्तप्रत्ययस्य ""आम: इति लुक् स्यात् । ऊखतुरित्यादौ सवर्णदीर्घस्यान्तवत्त्वेनाभ्यासत्वाद् हस्वो न भवति, अभ्यासमात्राश्रयत्वेनान्तरङ्गेस्मिन् पूर्वपराश्रयस्य बहिरङ्गस्य सवर्णदीर्घस्य "असिद्धं बहिरङृगमन्तरङ्गे' इत्यसिद्धत्वात् । ( ओचिखिषति ) लघुपधगुणे कृते द्वितीयस्यैकाचो द्विर्वचनम् ।
( ओखयति मा भवानुचिखत् ) । द्विर्वचनात् पूर्वमेवोधाहस्वत्वमिति ज्ञापितम् । ( ओखित्वा ) ""न क्वा सेट् इति अकित्त्वाद्गुण: । भावादिकर्मणोर्निष्?्ठायाम् । ""उदुपधात् इति कित्त्वविकल्पनादुखितमनेन, ओखितमनेनेत्यादि नेयम् । उखो मुनि: । हगुपधत्वात्क: । उखेन प्रोक्त औखीय: श्लोक: । ""तित्तिरिवरतन्तुखण्डिकोखाच्छण् इति तृतीयान्तात् प्रोक्तार्थे छण्, णित्त्वाद्वृद्धि: । यदा तु प्रोक्तं छन्दो ब्राह्मणं वा तदा ""छन्दोब्राह्मणानि च तद्विषयाणि इति नियमाद् अध्येतृप्रत्ययविषयमेव, तेन ""तदधीते तद्वेद इति औखीयशब्दाद् द्वितीयान्ताद् अध्येतृवेदित्रोरण, तस्य ""प्रोक्तप्रत्ययाच्छण: परत्वेन लुकि औखीयो माणवक: । औखीया ब्राह्मणीतृयत्र प्रत्ययलक्षणेनाणन्तत्वाद् ""टिङ्ढाञ् इति न ङीब् भवति, अत इत्यनुवर्त्याणो1़कारस्य च विशेषणविशेष्यत्वाद् "वर्णाश्रये नास्ति प्रयलक्षणम्' इति प्रत्ययलक्षणनिषेधात् । ( उखायां संस्कृतमुख्यम् ) । *शूलोखाद्यत्* इति सप्तम्यन्तात्संस्कृतमित्यर्थे यत् । र्प्रोखणम् । ""कृत्यच: इति णत्वम् । ( उङ्गति । उङ्खांचकार । उङ्खिता । उ?ञ्चिखिषति । उङ्खयति । औ?ञ्चिखदित्वादि ) प्रोङ्खणम् । ""इतादे: सनुम: इति णत्वम् । ( वखति । ववाख । वखितेत्यादि, ववखतुरित्यादौ किति लिटि वकारादित्वादेत्वाभ्यासलोपौ न । लुङि ""अतो हलादे: इति वा वृद्धि: । ( अवाखीदिति ) एवं परेषामनिदिताम् । ( वङ्खयति । प्रवङ्खनम्) । ""इजादे: इति नियमाद्णत्वम् । ( मखति । ममाख । मखितेतृयादि । मङ्खति । लखति । नङ्खति ) । मूर्धन्यादेरुपदेश ""उपसर्गात् इति णत्वेन प्रणखतीरत्याद्यपि यथास्यादिति ( रखति । रङ्खति । प्ररङखणम् । ""रषाभयाम् इति णत्वम् । इजादेरिति नियमं उपसर्गात्कृत्यच इति प्राप्तज्ञयैव । ( लखति । लङ्खति । एखति । इयेख । एखितेत्या दि । ओखतिवम् । ( इङ्खां चकार । ईखति । ईखां चकार ) । यद्यपि मेत्रेयेणादितस्त्रय इदित उखिवखिमखय: । मूर्द्धन्यादिर्नखिरनिदित, इखिश्च न पढ्यते, तथापि इतरानेकव्याख्यातॄणां प्रामाण्यादस्माभि: पठित । अत्र चन्द्रो मुखिमपि पपाठ। संमतायां तु त्रख त्रखि शिखि इति त्रय: पठ्यनते । द्रविडास्तु रिखमपि पठन्ति, एवमेकोनर्विशति: खान्ता: । वल्गति रङ्गति ) रङ्गन्त्यस्मिन् प्रेक्षकाणां मनांसीति, रङ्ग । ""हलश्च इति संज्ञायामधिकरणे धञ् । रञ्जेर्वा घो द्रष्टव्य:
( लङ्गति । विलगि:) अनिदितां नलोपे [ लङ्गिकम्पोरुपतापशरीरविकारयोरुपसंख्यानम् ] इति नलोप: उपतापादन्यत्रावयवीत्यङ्गम् । रङ्गवद् घञ् । अङ्गिरगतौ विरीतलक्षणया प्रवर्तते, दर्श इत्यत्र दृशिवत् । न दृश्यतेऽस्मिन् चन्द्र इति हि दर्शशब्दो धूर्त्तस्वामिना व्युत्पादित: । कल्याणान्यङ्गन्यस्या: सन्तीति अङ्गना । "" अङ्गात् कल्याणे इति पामादिपाठान्मत्वर्थोयो न:, विशिष्टं विहीनं वा ऽङ्गमस्येति व्यङ्ग:, तस्यापत्यं व्याङ्गि: ""अत इञ् ""स्वागतादिनां च इति वृद्धिप्रतिषेधेजागमयोर्निषेध: । एवं स्वाङ्गिरित्यत्रापि सर्वार्ङ्ग व्याप्नोतीति सर्वाङ्गीण: स्त्रायु:, * तर्त्वादे: पथ्यङ्गकर्मपत्रपात्रं व्याप्रोति* इति सर्वादे: पथ्याद्यन्ताद् द्वितीयान्ताद्व्याप्रोतीत्यर्थे ख: । [ सर्वत्र अग्रिकलिभ्यां ढक् प्रत्यय: ] । सर्वत्रेति वचनादर्थान्तरेप्ययमेव । ( अग्रीषोमौ अग्रीवरुणौ ) । ""ईदग्रे: सोमवरुणयो: इति देवाताद्वलक्षणस्यानङोपवाद ईकार
। अग्रीवरुणौ देवता अस्याग्रिवारुणम् । ""देवताद्वन्द्वे चइत्युभयपदवृद्धि: ""इद्वृद्धौ इति वृद्धिमत्युत्तरपदे अग्रेरिकार ईत्वापाद: । अग्रायी । *वृषाकुप्यग्रकुसितकुसिदानामुदात्त* इति पुंयोगे ङीष्युदात्तऐकारान्तादेशे आयादेश: । आग्रायीदेवता अस्य आग्रेयम् । लिङ्गविशिष्टपरिभाषया [ सर्वत्राग्रिकलिभ्यां ढक् ] इति ढकि
[ भस्याढे तद्धिते ] इति पुंवद्भावपर्युदासे स्त्रीभ्यो ढको ग्रहणमिति कैयटावुक्तत्वात्पुंवद्भाव: । अग्रिमिन्द्धइत्यग्रिमिन्द्ध: । [ भ्राष्ट्राग्नयेरिनुद्धे मुम्वक्तव्य ] इति मुम् ।। अयम् ""रुद्रेन्द्रा इति निपातनाद्रिकि ललोप: । अये भवयमिम् ।। ""अग्रादिपश्चाडिमीच् इति डिमच् । ( अङ्गार: ) ""अगिमगिनन्दिभ्य आरन् इत्यारन् । ( अङ्गुलि: ) । ""रुतञ्जी इत्यादिना उलिप्रत्यय: ( अङ्गुरि: ) । ""घालमूल इत्यादिना पक्षे र: । पञ्चाङ्गुलय: प्रमाणमस्य पञ्चाङ्गुल: । *तद्धितार्थोत्तपदसमाहारे च* तद्धितार्थे विषयभूते उत्तरपदे परत: समाहारे चाभिधेये दिक्संख्ये समानाधिकरणेन समं समस्येते इति प्रमाणे तद्धितार्थे विषयभूते समास: ।। ""सङ्खयापूर्वो द्विगु: इति द्विगुत्त्वे ""द्विगुश्च इति तत्पुरुषषश्चार्थात्तत्र *प्रमागे द्वचज्दघ्रञ्मात्रच:* इति प्रमाणोपाधिकादस्मातृप्रमाणि मात्रचु, तस्य ""द्विगोर्लुङ् नित्यम् इति लुकि ""तत्पुरुषस्याङ्गुले: सङ्खयाव्यादे: इत्यचि ""यस्येति च इतीकारलोप: । अत्यङ्गुलम् । [ अत्यादय: क्रान्ताद्यर्थे ] इति तपुरुष:, अव्ययादित्वादिच् । शोभनाङृगुलि: स्वङ्गुलि: । *न पुजनात्* । यान् शब्दानुपादाय समासान्तो विधीयते ते यदा पूजावचनात्परे भवन्ति तदा समासान्तो नेत्यत्राचोभाव: । ( कुत्सिताङ्गुलि: किमङ्गुलि: ) । *किं क्षेपे* । क्षपे य: किं शब्द: स समानाधिकरणेन सुबन्तेन समर्थेन समस्यत इति तत्पुरुष: । *किम: क्षेपे* इति क्षेपवचनादस्मात्परस्य स मासान्तनिषेधाद् अच्न भवति । ( माङ्गुलि:, अनङृगूलि:) । यत्र *नञस्तत्पुरुषात्* इति समासान्तनिषेध: । नञ: परे ये वक्ष्यमाणा ऋगादयस्तदन्तात्पषचिति सूत्रार्थ: । पञ्चाङ्गुलमाहु: । *अङ्गुलेर्दारु* इति बहुव्रीहौ षच् (अङ्गुलीयकम् ) संज्ञायां कन् । ""जिह्वामूलाङ्गुलेच्छ: इति सप्तम्यन्ताद्भावार्थे छ: । ( वङ्गयीति वङ्गा: जनपद: ) । अङ्गचद्युत्पत्ति: ।
( मङ्गलम् )। ""मङ्गेरलच् इत्यलच् । तङ्गति । अङ्गति । श्लङ्गति । इङ्गति । रिङ्गति । लिङ्गति) । लिगि चित्रीकरण इति चुरादौ च ।
त्वगि कमृपने च ( त्वङ्गति ) ।। 153 ।।
युगि जुगि रुगि वर्जने ।। ( युङ्गति । जुङ्गतीत्यादि ) ।। 156 ।।
घघ हसने ।। ( घघति । जघाथ । घघितेत्यादि ) ।। 157 ।।
मघि मण्डने ।। ( मङ्घन: । ""कुडमण्डार्थेभ्यश्च इति युच् ।। 158 ।।
शिघि आघ्राणे ।। ( शिङ्घति ) । शिङ्घानको रोगविशेष: । ""लृशिघिधाभ्यश्च इत्यादिनानक् प्रत्यय: ।। फक्कादय उदात्तेत: ।। 159 ।।
अथ क्रमप्राप्ताश्चवर्गान्तानात्मनेपदिन आह ।।
वर्च दीप्तौ ।। एतदादय ईजन्ता उदात्ता अनुदात्तेत: ।। ( वर्चते ।। ववर्चे । वर्चिता । वर्चिष्यते । वर्चताम् ।। अवर्चत । वर्चेत ) । आशिषि ( वर्चिषीष्ट । अवर्चिष्ट । अवर्चिष्यत । भावे वर्च्यते ) इत्यादि । (विवर्चिषते । वावर्च्यते । वावर्क्षीति ।। वावर्क्ति ।। अवावर्चीत् ) अवावर्क् ) । ""राज्सस्य इति नियमान्न संयोगान्तलोप: ।। अवावर्क स्थातेत्यादौ कुत्वस्यासिद्धत्वास्को: इति कलोपो न भवति, यद्वा तत्र निमित्तनिमित्तिनो: समनपक्षस्थत्वा एव सलोप इतीह नैव प्रसङृग: । ( वर्चयति । अवर्चत् ) । वर्च: दीप्ति: पुरीषं च ।। ""असुन् इत्यसुन् । वर्चस्क: पुरीषम् । संज्ञायां कन्, ""सोपदादौ इति विसजेनीयस्य सत्चं, ""असुन् इत्यसुन् । वर्चस्क: पुरीषम् । संज्ञायां कन्, ""सोपदादौ इति विसजेंनीयस्य सत्वं, ""कुप्वो: ।। इत्यस्यापवाद: । ब्रह्मवर्चसम् । हस्तिवर्चसम् । ""ब्रह्महस्तिभ्यां वर्चस: इत्यच् समासान्त: । ( पल्यवर्चसम् । राजवर्चसम् । ) [ पल्यराजभ्याञ्च ] इत्यच् । ब्रह्मवर्चसनिमित्तं संयोग उत्पातो वा ब्रह्मवर्चस्यम् ।। [ तस्य निमित्तप्रकरणे ब्रह्मवर्चसादुपसङ्खयानम् ] इति यत् । वर्च्यम् । ण्यति ""चजो: कुघिण्ण्यतो: इति कुत्वं न भवति । ""न क्कादे: इत्यत्र क्काद्व्यजिव्रजियाचिरुच्यादीनां न प्रतिषेधो निष्ठायामनिट: कतृववचनात् ] अस्थार्थ: । चजो: कुधिण्ण्यतोर्निष्ठायामनिट:'इति सूत्रं कर्त्तव्यं, तेन ""न क्कादे: ""अजिव्रज्योश्च इति योगद्वयं ""यजयाचरुच्रपवचर्चश्च इत्यत्र याविरुच्यृचिग्रहणं न कर्त्तव्यं भवतीति । तेषां सेट्त्वादित्यभिप्राय: । अयमत्र विवेक: । ये क्कदयोऽन्ये वा निष्टायामनिटस्तेषां कुत्वं ये तु सेटस्तेषां नेति । एवञ्चात्र मते ग्लुचादीनां कवर्गादित्चेपि निष्ठायामनिट्त्वात्कुत्वेन भाव्यम् । अत्र हरदत्त: । [ यथोत्तरं मुनीनां प्रामाण्यम् ]
इति वार्त्तिककारानुसारेण कुत्वस्य भावाभावौ व्यवस्थाप्याविति । कथन्तर्हि शोक: समङ्ग इति । यत: शुच्युञ्जी निष्ठायां सेटौ । अत्र भाष्यं, [ शुच्युज्योर्घञि कुत्वं वक्तव्यम् ] इति । अत्र हरदत्त:। तच्च यथान्योसेपिक्तव्यं घञ्चेव यथा स्याद्ण्यति माभूदिति, तदेव वार्त्तिककारपक्षे विध्यर्थं भविष्यतीति ।। 160 ।।
षच सेचने ।। अथं सेवनार्थोपि, तथा च 'त्रय एनां महिमान: सचन्त' इत्यत्र क्षुरभट्टभास्करीययो: सचते सेचतइति । निरुक्ते च सक्त: सचित इति, सेव्यमानस्येति । अस्यैतौ वाचकावित्यर्थ: । "प्रभूमहित्वं वृषभस्त वोचं यं पूरवो वृत्रहणं सचन्त' इति । ( सचते । सेचे । सचिता । सिचष्यते । सचताम् । असचत । सचेत । आशिषि सचिषीष्ट । अष्टचिषत् ) । ""स्तौतिण्योरोव इतिसत्वम् ( सासच्यते । सासक्ति । साचयति । असीषचत् ) सक्तु: । ""सितनिगमिमसिसचि"इति तुन् ""तितुत्रइतीणिनषेध: । सक्तुल: । ""सिध्यादिभ्यइति मत्वर्थे ल: । सचिव: । बाहुकाद्वप्रत्यय: । यद्वा सचि: सेवा, इन प्रत्यय:, तां वातीति सचि:, ""आतोनुपसर्गे क: । यद्वा ""केशाद्वोन्यतरस्याम् इति वप्रत्यय: ""अन्येभ्योपि दृश्यते इति मणिवराजीवादिवदस्मादपि । अयं समवाये स्वरितेदग्रे ।। 161 ।।
लोघृ दर्शने ।। ( लोच्यति । अलुलोचे । लोचितेत्यादि । लुलोचिषते । लोलोच्यते । लोलो चीति । लोलोक्ति । लोचयति । अलुलोचत् ) । ऋदित्वाण्णै चङि हस्वाभाव: । भाषार्थोयं चुरादौ ।। 162 ।।
शच व्यक्तायां वाचि ।। ( शचते । शेचे । शचितेत्यादि । शची ) इन्नन्तात्कृम् ""इकाराक्तिन इति ङीष् ।। 163 ।।
श्वच श्वचि गतौ ।। ( श्वचते । शश्वचे । श्वचिता । श्वञ्चते । शश्व़ञ्चे । श्वञ्चितेत्यादि ) । उच्यादयस्तालव्यादय: ।। 165 ।।
कच बन्धने ।। ( कचचे । चकचे । कचितेत्यादि ) कचते यूनां मनांसि बध्नातीति कच: । पचाद्यच्
( काच: ) ""हलश्चइति संज्ञायां घञ् ।। 166 ।।
कचि काचि दीप्तिबन्धनयो: ।। ( कञ्चते । चकञ्चे । कञ्चिता । काञ्चत ) । ( कञ्चुक: ) । बाहुलकादुक: प्रत्यय: । ( काञ्चनम् ) । अनुदात्तेत्त्वाद्युच् । काञ्चनस्य विकार: । ( काञ्चनम् )
""प्रा?णिरजतादिभ्योञ् इति । रजतादित्वादञ् ""नित्यं वृद्धशरादिभ्य:' इति मयटोपवाद: । ( काञ्चि: । काञ्ची। ) इन्नन्तात् कृदिकारादक्तिन: इति वा ङीष् । ( काञ्चिकम् ) संज्ञायां कल्लने कन् । दीप्तौ चेति वक्तव्ये बन्धनप्रहणं प्रपञ्चार्थम् 168
मच मुचि कल्कने ।। कल्कनं दम्भ: शाठ्यं चेति मैत्रेय: । दम्भभ: कत्थनं चेति स्वामी । मचते । मेचे । मचिता । मुञ्चते । मुमुञ्च । मञ्चितेत्यादि ) । मुचेति चन्द्र: । तन्मते मोचत इति । मुच्लृ मोक्षणहति तुदादौ । मुच प्रमोचन इति चुरादौ ।। 170 ।।
मचि धारणोच्छ्रायपूजनेषु ।। ( मञ्चते ) इत्त्यादि । ( मञ्च: ) । पचाद्यच् । शाकटायनस्तु मुचिं हित्वा द्वावेव धातू पपाठ । सचि कल्कने । मञ्चु धारणोच्छ्रायपूजनेष्विति । तेन चानुदात्तेत्स्थाने इङ्विक्रियते । तस्य स्थाने बोदित्, धनपानस्तावत् शाकटाय नानुसारी ।। 171 ।।
पचि व्यक्तीकरणे ।। पञ्चते । पङ्क: । ""चजो: कुघिण्ण्यतो: इति कुत्त्वम् । वार्त्तिकमते न्यङ्क्काद्रिर्द्रष्टव्य: । तेन हि निष्ठायामनिट: कुत्वमुच्यते । पञ्चन् बाहुलकात्कनिन् बहुवचनान्त: । तत्र ""ष्णान्ता षट्""इति षट्संज्ञाविधानात् । षडभ्यो लुक् इति जस्शसोर्लुक् । पञ्चानामित्यत्र ""षट्चतुर्भ्यश्च इत्यामो नुटि *नोपधाया:* नान्तस्योपधाया नामि दीर्घ इति दीर्घे ""न लोप: प्रातिपदिकान्तस्य इति नलोप: स्त्रियामपीदमेव रुपम् । ""न षट्स्वस्रादिभ्य इति टापो ङीषश्च निषेधात । अस्ति च टाप: प्रसङ्गो नकारे लुप्ते । पञ्चानामपत्यं, पा?ञ्चि: । बाह्वदित्वादिञ् *नस्तद्धिते* नान्तस्य भस्य तद्धिने टिलोप इति टिलोप: ।
( पङ्क्ति: ) । ""पङ्क्तिर्विशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् इति ""तदस्य परिमाणाम् इति विषये तिप्रत्ययो निपात्यते । पञ्च ?परिणामस्य वर्गस्य पञ्चत् । ""पञ्चहशतौ वर्गे वा इति डत्यन्तो निपातित: । वाग्रहणात् ""इत्संख्याया अतिशदन्ताया कन्इति कनि पञ्चक: । पञ्चेति दुर्ग: । तथा वर्धमानोपि, यदाह । अनिङ्विधो पच्यादिसूत्रे डुपचष्याके पच व्यक्तीकरणइति । संमतायां तु
वर्धमानवदुक्त्वाऽन्यैस्त्वयमिदित् पठ्यतइत्यूक्तम् । ""तिङो गोत्रादीनि इत्यत्र प चतिगोत्रमित्युपादाय पच व्यक्तीकरणइति पठन् न्यासकार: पपरस्मैदिनं च मन्यते । डुपचष्पाकइत्यग्रे । पचि विस्तारवचनइति चुरादौ ।। 172 ।।
ष्टुच प्रसादे ।। स्तोचते । ""धात्वादे: ष: स: । ष्टुत्वं निमित्ताभावन्न भवत । सत्वा त्वूर्वं तु पूर्वत्रासिद्धत्वेन भवति । ( तुष्टुचे ) । ""शपूर्वा: खय इति शेश: । ( स्तोचितेत्यादि तुस्तुचिषते । तुस्तोविषयते । स्तुचित्वा । स्तोचित्वा ) ""रलो व्युपधात् इति कित्वविकल्प: । ""स्तौतिण्योरेव इति नियमात्सन्यषत्वम् । ( तोष्टुचयते । तोष्टुचीति । तीष्टोक्ति स्तोचयति । अतुष्टुचत् । स्तोक: ) । घङ् ।
( उदश्वित्स्तोकम् ) अल्पमुदश्विदित्यर्थ: । *पोटायुवतिस्तोकतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जाति:* । पोटादिभि: समानाधिकरणै: जातिवाचि सुबन्तं समस्यत इति तत्पुरुष: । अत्रैव निर्देशाद्वार्त्तिककारमते कुतृवम् । स हि ""चजो: कु घिण्ण्यतोर्निष्टायामनिट: इति सूत्रं न्यास्थत् । ( स्तोकान्मुक्त:, स्तोकेन मुक्त: । ) स्तोकतृवेन मुकृत इत्यर्थ: । "करणे च स्तोकाल्प?कृछ्रकतियायस्यासत्ववचनस्य इति तृतीयापञ्चम्यौ । असत्त्ववनस्येति वचनात् स्तोकेन विषेणइत इति सत्त्ववचनात्तृतीयैव । स्तोकान्मुक्त इत्यत्र "स्तोकान्तिके' इत्यादिना समासे "पञ्चम्या: स्तोकादिभ्य इत्यलुग्वचनात्तदेव रूपम् । संस्तोजा इति वर्णविकाराभ्युपगमादिति मैत्रेय: ।। 173 ।।
"ऋज गतिस्थानार्जनोपार्जनेषु' अयं पाठो मैत्रेयस्य । ऊज्रनेष्विति क्षीरस्वामिधनपालशाकटायना: । अर्जते । ""उरण् रपर: इति पररो गुण: । आनृते । अत्र ऋजशब्दस्य द्विर्चचने हलादिशेषे ""उरत् इति ऋवर्णान्ताभ्यासत्त्वाद् इति नुट् ।। ऋकारैकरेशस्यापि रेफस्य हल्त्वाश्रयणाद् द्विहल्त्वम् । तत्र हि द्विहलपरत्वं
गौणस्येदृशस्य हल: परिग्रहार्थम् । अन्यथा तस्मान्नुडित्येव ब्रूयात् । न चाटतुरित्यादावेकलहल्यतिप्रसङ्ग: । ""अश्नोतेश्च इत्यनेनद्विहलो यदि भवत्यश्नोतेरेवेति नियमात्, अस्याश्नोतिमात्रनिवृत्यर्थत्वे नाश्न इत्येव ब्रूयात् । ""ऐऔच् इत्यत्र हिल्ग्रहणं न करिष्यत इति भाष्यम् । तत्र कैयटे "अवर्णोषधस्य यदि भवति अश्रोतेरेवेति नियमाश्रयेण द्विहल्ग्रहणं प्रत्याख्याय लुडु?क:' ( अर्जिता । अर्जिष्यते । अर्जताम् । आर्जत ) । आशिषि ।
( अर्जिषीष्ट । आर्जिष्ट । अर्टिष्यत । अर्जिष्यत । अजादित्यादाडागम: । ( अर्जिजिषते ) सनीटि गुणे ""न न्द्रा इति रेफवर्जं द्विरुच्यते । ( अर्जयति । । आर्जिजत् ) । प्रार्ज्यतइत्यत्र कर्मादौ यकि । *""उपसर्गाइति धातौ*। परे पूर्वपरयोर्वृद्धिरेकादेश इति आर्वृद्धि: । ( अर्जित्वा ) । ""न क्त्वा सेट् इत्यकित्त्वाद्गुण: । ऋज्यम् । "ऋदुपधाच्चाक्लृपिचृते: ।। इति भावकर्मणो: क्यप् ।। 174 ।।
ऋजि भृजी भर्जने ।। द्वितीय ईदित् । भर्जनं पाकविशेष: । ( ऋञ्जते । प्रार्ञ्चते )।। ""उपसर्गाडति इति वृद्धि: । ऋञ्जां चक्रे । आनृजइति संमतातरङ्गिण्यो: । तदसत् । नु?म्विधावुपदेशिवद्वचनात् । अत एव काश्यपमैत्रेयादय आममेव सर्व उदाजह: । ( ऋ?ञ्जिता ।ऋञ्जिष्यते । ऋञ्जताम् । आर्ञ्जत । ऋञ्जेत । ऋञ्जिष्ट । आर्ञ्जिष्यत । ""आटश्च इति वृद्धि: । ऋञ्जिजिषते । ""न न्द्रा: इति नवर्जं द्विरुच्यते ।
( ऋञ्जयित । मा भवान् ऋञ्जिजत् । भर्ज्जते । वभृजे । भर्जितेत्यादि । बिभर्ज्जिषते । बरीभृज्यते ) । ""रीगृदुपधस्य च इति रीक् ( बर्भृजीति । बरिभृजीति । बरीभृजीति । बर्भर्क्ति । बरिभर्क्ति । बरीभर्क्ति ) । ""रुगृकौ च लुकि इति रुग्रिकौ, ( भर्जयति । अबीभृजत् । ) उर्ऋद्वा । अन्यदा ( अबभर्जत् । भृक्त: । भृक्तवान् ) । ""श्चीदितो निष्ठायमा इति अनिट्त्वम् । भर्ग: । घञि कुत्वम् । भ्रस्ज पाक इति तुदादौ
।। 176 ।।
एवृ भ्रेजृ दीप्तौ । ( एजते । भ्रेजते ) ""एङि पररूपम् । एजां चक्रे । एजितेत्यादि । एजिजिषते । एजयति । मा भावानेजिजत् ) ऋदित्त्वान्नेधाहस्व: । अन्यथा इदिधदित्यादिवद् द्विर्व्वचनात्पूर्व्वमेवोपधाहस्व: स्यात् । अङ्गमेजयतीत्यङ्गमेजय: । ""एजे: खश् इति ण्यन्तादस्मात्कर्मण्युपपदे खश: शित्त्वात्सार्वधातुकत्वाच्दपि गुणायादेशौ । अन्यथार्धधातुक्त्वात् ""ण्यल्लोप: इत्यादिना गुणं बाधित्वा णिलोप: स्यात् । खित्त्वात् ""अरुर्द्विषदजन्तस्य इति पूर्वपदस्य मुम् । वृत्तौ तु एजृ कम्पनइति परस्मैपदिण्यन्तात् खशुक्त: उदेजयतीत्युदेजय: । ""अनुपसर्गाल्लिम्प0 इत्यादिना उत्पूर्वात् ण्यन्तादस्माच्छप्रत्यये शपि गुणायौ ।
अनुपसर्गग्रहणमर्थादन्यविशेषणम् । अत्राप्युपसर्गान्तरनिवृत्त्यर्थं च, तेन ( समुद ) इत्यादौ अचि णिलोप: । ( भ्रेजते । भ्रेतितेत्यादि । बिभ्रेजिषते । बेभ्रेज्यते । वेभ्रेजीति ?। बेभ्रेक्ति । भ्रेजयति । अबिभ्रेजत् ) ""हस्व: इति इकारोभ्यासस्य, पूर्ववद्ददित्त्वान्नोपाधाहस्व: । भ्राजत इत्यादि भ्रेजिवत् । ""ब्रश्चभ्रसृजसृ इत्यादिना ज्ञलि पदान्ते च विधीयमानं षत्वमस्य नास्ति । राजिसाहचर्यात्फणादिपठितस्यैव तत्र ग्रहणादिति मैत्रेयक्षीरस्वामिसंमताकारादय: । एवं चावश्य?पिइतव्येन फणादिकेन भ्राजत इत्यादीनां सिद्धेरिह, पाठोऽनार्ष इवेति न्यासोक्तं दुरुक्तं, यद्वा तत्रापीवशब्देन पूर्वोक्त एव पक्ष: सूच्यते । ( भ्राजयति । अबिभ्रजत् । अबभ्राजत्)
। *भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्* इति चङ्परेणौ उपधाहस्वविल्प: । एवं चास्य ऋदित्त्वमनुदात्तेत्त्वमात्रुलम् । भ्राजिष्णु: । ""भुवश्च इति चकारादिष्णुच् । विभ्राक् । ""भ्राजभासणधुर्विद्युतोर्जिपॄजुग्रावस्तुव: क्किप् ""चो: कु: इति कुत्वम् । ब्रश्चादिसूत्रे राजिसाहचयात् फणादिकस्यैव ग्रहणमित्युक्तत्वान्न षत्वम् । यत्तु वृत्तौ क्किभ्राडिति कृतषत्वस्यैवोदाहरणं तद्व्यनुबन्धकत्वेपीह फणादिकमपि गृह्मत इति सूचयितुं न त्वस्यापि षत्वमस्तीति । अत्र रेजिरपि क्कचित्पठ्यते, तदनार्षभिव । यदाह भट्टभास्कर:। "रेजते अग्रेपृथि?वीमखेभ्य' इत्यत्र राजतेश्छान्दसत्वमिति ।। 179 ।।
ईज गतिकुत्सनयो: । ( ईजते । ईजांचक्रे । ईजिता ) इत्यादि । कर्मणि ( ईज्यते ) इत्यादि । ( ईजिजिषते । ईजयति । मा भवानिजिजत् ) द्विर्वचनात्पूर्वं ""णौ चङिति हस्व इत्युक्तम् । वर्चादय उदात्ता अनुदात्तेत: ।। 180 ।।
शुच शोके । एतदादयो ब्रजन्ता उदात्ता उदात्तेत: ।। ( शोचति । शुशोच । शोचिता । शुशुचिषति । शुशोचिषति । शुचित्वा । ) शोचित्वा । कित्त्वविकल्प:।(शोशुचीति । शोशोक्ति । शीचयति । अशुशुचत् ) ""दीर्घो लघो:'। ( शोचन: ) ""चुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतद'इति तच्छीलादौ युच् । प्रशुचित: । ""उदुपधाद्0 इति कित्त्वविकल्प: । गूद्र:। ""शुचेर्दश्च इति रक्प्रत्ययो दकारोन्तादेश: दीर्घश्च, [ शूद्रा चामहत्पूर्वा जाति: ] इत्यजादिपाठात् ""जातेरस्त्रीविषयाद्0 इ?ति ङीषं बाधित्वा स्त्रियां टापि शूद्रा । जातिवचनात्पुंयोगे शूद्रीति ङीष् भवति । अमहत्पूर्वेत्युक्तेर्महाशूद्रशब्दाज्जातिलक्षणो ङीषेव भवति महाशूद्रीति । महाशूद्रशब्दो ह्माभीरजातिवचन: । अयमेवामहत्पूर्वस्येतिप्रतिषेधो ज्ञापक: स्त्रीप्रत्ययेषु तदन्तविधे: । ( शोक: ) । घञ् वार्त्तिकमते ""तुन्दशोकयो0 इति निपातनान् कुत्वमेष्टव्यम् । शुचिर् पूतीभावइति दिवादौ ।। 181 ।।
कुञ्च क्रुञ्च कौटिल्याल्पीभावयो: ।। दन्त्योपधौ । गतिकौटिल्याल्पीभावयो:, गतौ कौटिल्ये द्रव्याल्पत्वे चेति क्षीरस्वामी । ( कुञ्चति । चुकुञ्च । कुञ्चितेत्यादि । कुचुञ्चिषति चोकुच्यते ) ""अनिदिताम्0 इति नलोप: ( चोकुञ्चीति ) ""न लुमताङ्गस्य इति निषेधात् प्रत्ययलक्षणेन नलोपो न भवति, ""चो: कु इति। कुत्वेन चकारे निवर्त्तिते निमित्ताभावे नैमित्तिकस्याप्यभाव इति ञकारे निवृत्तेऽनुस्वारस्य पुन: परसवर्णो डकार: । ( अचोकुञ्चीत् अचोकुन् ) संयोगान्तलोपं सति पूर्ववन्निमित्ताभावात् ञकारेऽनुस्वारे च निवृत्ते नकारोऽवतिष्ठते ( कुञ्चयति । अचुकुञ्चत् ) चङपेक्षो ""अनिदिताम्0 इति नलोपो णिलोपस्य स्थानिवत्त्वात् ""असिद्धवदत्रा0 इत्यसिद्धत्वाव्यवधानान्न भवति । ( कुचित:, कुचितवान् ) । ""अनिदिताम्0 इति नलोप: । कुञ्चित्वेत्यत्र तु ""न क्त्वा सेट् इत्यकित्त्वान्नलोपो न भवति । निकुचितमननेनेत्यादौ भावादिकर्मणो: ""उदुपधाद्0 इति कित्त्वविकल्पो न भवति, सन्निपालक्षणो विधिरनिमित्तं तद्विघातस्य इति । तथा चास्या: परिभाषाया: प्रयोजनवार्किम्-उदुधत्वमकित्वस्य निकुचितमिति, इदमेवास्य नोपधत्वे मानम् । अत एवोदित्पाठिनौ चन्द्रतराङ्गिणीकारौ प्रत्युक्तौ, यतस्तन्मते ""उदितो वा इति क्त्वायामिटो विकल्पनान्निष्टायां ""स्य विभाषा इति प्रतिषेधात्सेटो निष्ठाया एवाभाव:। इदित्पाठोप्यनेनैव प्रत्युक्त:। यत इदित्वान्नलोपस्य नैव प्रसङ्ग:, निकुचितमित्यत्र ""तितुत्रथसिसुसरकसेषु चइति तिप्रत्ययस्य विधीयमानमनिट्त्वं तितुत्रेष्वग्गहादीमित्युक्तत्वान्न भवति । एवं कुञ्चतीत्यादि कुङ् ""ऋत्विकदधृक्षग्दिगुष्णगञ्चैचुजिक्रुञ्चां च इति क्किन् तस्य सर्वापहारी लोप: । पदत्वे चकारस्य संयोगान्तलोपे ""क्किन्प्रत्ययस्य कु: क्विन्प्रत्ययो यस्माद्वहितस्तस्य पदस्य कवर्गादेश इति नकारस्य ङकार: । संयोगान्तलोपात्पूर्वं प्रत्ययलक्षणेन ""अनिदिताम्0 इतिलोपो न भवति । ऋत्विगित्यादिभिर्निपातनै: साहचर्यात् । अन्त्तस्याप्यलाक्षणिकस्य
कार्यस्य ज्ञापनात् । तदुक्तं वृत्तौ । नलोप: कस्मान्न भवति । ऋत्विगित्यादिनिपातनै: साहचर्यादिति । अत एव साहचर्यादुपपदाधिकारेपि केवलात क्विन्प्रत्यय: । ( क्रुञ्चा ) अजादिपाठाद्धलन्तादपि टाप् ( क्रुञ्चैव क्रौञ्च: ) ""प्रज्ञादिभ्यश्चेति स्वार्थेण् प्रत्यय: (क्रुञ्जकीयो देश:)। ""क्रुञ्चा हस्वत्वं च इति नडादिपाठात् चातुरर्थिक: छप्रत्ययस्तत्सन्नियोगेन कुगागमो हस्वत्वं च । ""चो: कु: इत्यत्र यदुक्तं वामने न । क्रुञ्चेत्यत्र सङीतिवचनाञकारस्य चकारे ज्ञलि परत: कुत्वं न भवति, ""युजिक्रुञ्चां चइति निपातनाद्वा । नकारोपधो वा धतुरपरै रेफवर्जित: कुञिक्रुञ्चामिति तस्यैव रेफाधिको नलोपाभावश्च निपात्यतइति तत्क्रुञ्चेर्नोपधत्वेपि क्रुञ्चाषब्दे दोष इत्येवंपरं न त्वयं धातुर्नास्ति । यद्वा ञकारोपध इत्येवं परम् । स्पष्टं चैवं तत्र न्यासपदमञ्जर्यो: ""न क्त्वासेट इत्यत्र च द्वावपि धातू न्यासकृतोपात्तौ । तथा ""ऋत्विक्0 इत्यादिसूत्रे जयादित्यश्च, क्रुञ्चेर्नलोप: कस्मान्न भवति निपातनै: साहचर्यादिति ।। 184 ।।
लुञ्च अपनयने ।। लुञ्चतीत्यादि पूर्ववत् ( लुञ्चित्वा । "'वञ्चिलुञ्च्यृतश्च इति सेट: क्त्व:कित्त्वविकल्पनात् पक्षे नलोप: । के चिदमुं ""कुचितं पठन्ति तदनार्षं, राजद्न्तादिषु लुचितमिति पाठाद्, उदित्त्वे हि क्त्वायाम् ""उदितो वा इतीटो विकल्पनाद् निष्ठायां ""यस्य विभ।षा इति प्रतिषेधाल्लुचितमिति न स्यात् ।। 185 ।।
अञ्चु गतिपूजनयो: ।। ( अञ्चति । आनञ्च । अञ्चित्यादि ) गतौ व्यत्यञ्चतीत्यत्र ""न गतिहिसा0 इवि तङ्निषेध: । पूजायां तु""नाञ्चे: पूजायाम् इति नलोपनिषेधाद् (अञ्च्यतेगुरु: अञ्च्यादिति भवति । अञ्चित्वा । अङ्क्त्वा ) ""उदितो वा इति इङ्विकल्प: । इटि ""न क्वा सेट् इत्यकित्त्वान्नलोपाभाव: । निष्ठायां ""यस्य विभाषा इतीट: प्रतिषेधात्समक्रमिति, ""अञ्चोनपादाने इति निष्ठानत्वम् । अपादाने तूदक्तमुदकं कूपादिति । पृजाया तुं कत्वानिष्ठयो: ""उदितो वा इति विकल्पं ""यस्य विभाषा इति निषेधं च बाधित्वा ""अञ्चे: पूजायाम् इति नित्यमिट् । (अञ्चित्वा । अ?ञ्चितोऽस्य गुरु: । ) ""मतिबुद्धिपूजार्थेभ्यश्च इति वर्त्तमाने क्त: । मतिरिच्छा, बुद्धिज्ञांनं, पूजा सत्कार:, ""क्तस्य च र्त्तमाने इ?ति ""न लोकाव्यय0 इति निषेधं बाधित्वा कर्त्तरि षष्ठी । अस्याश्च ""क्तेन च पूजायाम् इति समासो निषिध्यते । पूजितो य: सुरासुरेपीत्यत्र वर्त्तमानक्तने तक्रकौण्डिन्यायेन भूते क्तस्य बाधात तृतीया चिन्त्या । यद्वा तेनेत्यधिकार, ""उपज्ञाते' इति भूते क्तेन निर्देशाद् अथं वर्त्तमानक्तेन न बाध्यत इति सामान्येन ज्ञापकाश्रयणेनायं प्रयोग: समर्थनीय:। तैलमुदच्यतेऽस्मिन्निति तैलोदङ्कश्चर्ममयस्त्रिकाष्ठि:। ""उदङ्कोनुदके इति घ़ञ्निपात्यते । उदके तूदकोदञ्चनम् । ल्युट् ""पुंसि संज्ञायाम्0 इति धस्तु न प्रत्युदाहृत:, घघञो रूपे स्वरे वा विशेषाभावात् । घञोपि कृदुत्तरपदप्रकृतिस्वरमाद्युदात्तत्वं बाधित्वा ""थाथघञ्क्ताजबित्रकाणाम् इति उत्तरपदं घञन्तोदात्तमेव । प्रत्यञ्चतीति ( प्रत्यङ् )""ऋत्विक्0 इत्यादिना क्किनि ""अनिदिताम्0 इत्यादिना नलोपे सौ""उगिदचां सर्वनामस्थाने0इति नुमि हल्ङयादिसंयोगान्तलोपयो: "क्किन्प्रत्ययस्य कु: इति कुत्वं ङ्कार:, प्रत्यञ्चावित्यादि । भसंज्ञायां तु ""अच: । लुप्तनकारस्याञ्चतेरकारस्य लोपो भसंज्ञायामित्यल्लोपे *चौ* लुप्तनकारेञ्चतौ परे पूर्वपदस्य दीर्घं इति दीर्घे ( प्रतीच इत्यादि ) हलादौ जशत्वे ( प्रत्यग्भ्यामित्यादि ) प्रत्यदिक्षवत्यत्र ""खरि च इति चर्त्वम् । नपुंसके तु स्वमोलुकि प्रत्यक् । द्विवचनबहुवचनयो: ""नपुंसकासच्चइति शीभावं भत्वे पूर्ववदललोपदीर्घयो: ( प्रतीची ) ""जसशसो: शि: इति तस्य सर्वनामस्थानत्वाद् ""नपुंसकस्य ज्ञलच: इति नुमि ( प्रत्य?ञ्चि )शेषं पूर्ववत् । स्त्रियां ( प्रतीची ) ""अञ्चतेश्चोपसंख्यानम् इति ङीपि भत्वे पूर्ववदलोपदीर्घत्वे । पूजायां तु सर्वत्र नकारस्य लोपनिषेधाच्छ्रवणम् । अत एव ""अच: ""चौ इति अल्लोपदीर्घत्वे न भवत:। ( प्रत्यञ्चावित्यादि ) पदत्वे संयोगान्तलोपे ""क्किन्प्रत्ययस्य इति कुत्वं ङ्कार:, सप्तमाबहुवचने *ङ्णो: कुक् शरि* । ङकारणकारयो: पदान्तयोर्यथासंख्यं कुक्दुकौ शरि वेति कुकि [ चयो द्वितीया: शरि पौष्कारसादे0 ] इति वा खकारे
( प्रत्यङ्द्क्षु प्रत्यङ्षु प्रत्यङ्खाष्वति ) त्रीणि रूपाणि । नपुंसके शीभावे विशेष:। उत्पूर्वत्वे *उद ईत्* इति उद: परस्य लुप्तनकारस्याञ्चतेरादे: भसंज्ञायामीकारे ( उदीच: ) इत्यादि । अन्यत्सर्वं प्रत्यक्शब्दवत् । प्रताच्यादिभ्यो *दिक्शब्देभ्य: सप्तमोपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्ताति:* इति दिगादिवृत्तिभ्य:
सप्तम्याद्यन्तेभ्य: स्वार्थे वास्ताति: । दिशि दृशि दृष्ट: शब्दो दिक्शब्द: । ""अञ्चेलुक् इत्यास्तातेर्लुक् । ""लुक् तद्धितलुकि इति स्त्रीप्रत्ययस्य लुक् । ( प्रत्यग्वसति । प्रत्यगागत:। प्रत्यग्रमणीयमित्यादि । ) प्रत्ययलक्षेन ?तद्धितान्तत्वात् ""तद्धितश्चासर्वविभक्ति:इति अव्ययत्वात्सुपो लुक् । अस्तातेरभावे प्रतीच्यामागत:( प्रतीचरे रमणीया ) इत्यादि । ( प्रागेव पुरुष: प्राचान: । प्रागेवकुलं प्राचीनम् । प्राच्येव ब्राह्मणी प्राचीना ) इति ""विभाषाञ्चेरदिक्स्त्रियाम् इत्यञ्चत्यन्तात् प्रातिपदिकात्स्वार्थे वा ख: । अदक्स्त्रियामित्युक्तत्वाद् दिग्वृर्त्तेरप्यस्तात्यन्तादव्ययादलिङ्गादस्त्रीवृत्तित्वात्खो भवति प्राचीनं दिगिति। यदा सप्तमीपञ्चम्यर्थादस्मात् खस्तदापि सप्तमीपञ्चम्योरर्थस्याभिहितत्वात् प्रादिकार्थत्वात् प्रथमैव, ( प्राचीनां दिशि वसति, प्राचरनं दिश आगत) इति । तथा च स्थानिवत्सूत्रे भाष्यं, ( प्राचीनं ग्रामादाम्रा ) इति, प्राचि देश इत्यर्थ: । खान्तोयं स्वभावान्नपुंसकलिङृग:, ( प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ) ""द्युप्रागपादुदक्प्रतीचो यत् इति शैषिको यत् ( सम्यक् । ) ""सम: समि इति अञ्चतावप्रत्ययान्त उत्तरपदे सम: सम्यादेश: । तिर्यंङ् । ""तिरसस्तिर्यलोपे इति ""अच: इति लोपाभावे तिर्यादेशे यण् लोपे तु ( तिरश्च )इत्यादि । सहाञ्चतीति
( सध्न्यङ् ) ""सहस्य सध्रि: इत्यञ्चतावप्रत्ययान्त उरदे सध्यादेश:। विष्वगञ्चतीति ( विष्वगद्यङ् । देवानञ्चतीति देवाद्यङ् ) *विष्वक्देवयोश्च टेरद्यञ्चतावप्रत्यये*अप्रयान्तउत्तरपदे चकारात्सर्वनाम्नश्च । ( सर्वद्रयङ् इत्यादि) अदसोद्रयादेशे मतभेद: । ""अदसोसोर्दादु दो म: इति असकारान्तस्यादसी दकारात्परस्य विधीयमानमुत्वमकाररेफयोरपि, तथा दो म इति मत्वमपि द्वयोरपि दकारयोरिति ( अमुमुयङ् ) इति भवतीति केचित् । अदसो रेफादेशस्योकारस्य इकारापेक्षया यण् उत्वस्य पूर्वत्रासिद्धत्वान्न भवति । शसाभवे
( अमुमुईच: ) इत्यादि । अपरे तूत्वमत्वे अन्त्यसदेशयोरेव रेफदकारयोरिति ( अदमुयङिति ) रूपं प्रतिपन्ना: । अत्रापि पूर्ववदुकारस्य यणभाव: शसादावल्लोपादि च । अन्ये च असेरितिपदम: से: सकारस्थानिकोऽकारो यस्येति व्याचक्षाणा अद्यादेशे त्यदाद्यत्वाभावान्नोत्वमत्वे इति अद्यङिति रूपमाहु: । तथा च श्लोकवार्त्तिकम्---
अदसोद्रे: पृथङ् सुत्वं के चिदिच्दन्ति लत्ववत् ।
के चिदन्त्यसदेशस्य नेत्येके ऽसेर्हि दृश्यते ।। इति
अञ्चु गतियाचनयोरित्यग्रे स्वरितेत् । विशेषणार्थो युजादौ ।। 186 ।।
वञ्चु चञ्चु तञ्चु म्रुञ्चु म्लुञ्चु म्रुचु म्लुचु गत्यर्था: ।। ( वञ्तति । ववञ्च । वञ्चितेत्यादि) आशीर्लिङि यासुट: । कित्वादनुनासिकलोपे वच्यात् । विवञ्चिषति । वनीवच्यते ) ""नीग्वञ्चभ्रुसुध्सुस्त्रंसुकसपतपदस्कन्दाम् इति यङ्लुकोरभ्यासस्य नीगागम: ( वनीवञ्चीति । वनीवङ्क्ति ) । यङो लुका लुप्तत्वान्नलोपाभाव:। वनीवक्त इत्यादौ तसादीनां ङित्त्वेन नलोप: । माणवकं वञ्चयते । विप्रलभतइत्यर्थ: । *गृधिवञ्च्यो: प्रलम्भने* इति ण्यन्ताभ्यामाभ्यामकर्त्रभिप्रायोपि तङ् । प्रलम्भनं मिथ्याफलाख्यानमतोऽन्यत्र वञ्चयति वञ्चयतइत्युभयंभवति । (वङ्क्तवा । व?ञ्चित्वा ) ""उदितो वा इतीङ्विकल्प: । ""व?ञ्चिलुञ्च्यु इति सेट: क्त्वो वा कित्वविधानात्पक्षे नलोप: ( वक्त: । वक्तवान् ) ""यस्य विभाषा इति ण्यति ""चजो: कुत्वं भवति । कुटिलमित्यर्थ: । वक्रम् । ""स्फायितञ्चत्क: । यश्च मण्यादि: स्वयमचञ्चन्नपि प्रभया चञ्चन्निव लक्ष्यश्चञ्चा, तत्प्रकारश्चञ्चक: । ""केण: इति हस्व: । ? ( तञ्चति । तक्रम् )""स्फायिञ् चि इत्यादिना रक् ( त्वञ्चति । । म्लुञ्चति । म्रोचति म्लोञ्चति । अमुचत् । अम्रोचीत् । म्रुञ्च चति । म्लुञ्चति । म्लोचति । म्रचत् । अम्रचीत् । अम्लुचत् । अम्लोचीत् )
""जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञचुश्विभ्यश्च इति च्लेर्वा ऽङ् । ( मुमुचिषति । म्रुम्रोचिष्ति म्रुचित्वा ) ""रलो व्युपधाद् इति कित्त्वविकल्प: । भावादिकर्मणो: उदुपधादिति कित्वविकल्पना ( म्रुचितमनेन, म्रोचितमनेनेत्यादि) एवं म्लुचेरपि सर्वेषामुदित्वेन क्त्वायामिङ्विकल्पनान्निष्ठायामनिट्त्वम् । वच प्रलम्भनइति चुरादौ । तञ्चू सङ्कोचनइति रुधादौ ।। 194 ।।
ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे ( ग्रोचति । जुगोच । ग्रोचितेत्यादि । ग्लोचतीत्यादि म्लुविचत् ।) जॄस्तम्भुसूत्रं ग्रुचिमपि केचित्पठन्ति ( कोजति । खोजति ) इमावपि म्लुचि वत्, अङ्भावो विशेष: ( प्रणिकोजति । प्रणिखोजति ) *शेषे विभाषा* इति उपसर्गस्थान्निमितात्परस्य नेर्णत्वं तत्रवं सूत्रे
""कखादावषन्तउपदेश श्चजो: कु घिण्ण्यतो: निष्टायामनिट: इति वार्त्तिकसूत्रेण कुत्वम् ।। 198 ।।
ग्लुञ्च षस्ज गतौ ।। ग्लुञ्चति । जुग्ल्लञ्च । ग्लुञ्चितेत्यादि । लुङि ""जॄस्तम्भु:0 इत्यादिना वाऽङ्नलोपे । ( अग्लुचत् । अग्लुञ्चीत् ) अङ्विधौ ग्लुचिग्लुच्योरेकतरोपादान्तोपादानेनापि अग्लुचदग्लोचीदिति सिद्धौ उभयोपादानमर्थभेदादिति केचित् । अपरे तूभयोपादानसामर्थ्याद् ग्लुञ्चेर्नलोपो न भवतीति अग्लुञ्चदिति चतुर्थमपि रूपमाहु: । इदमुद्भाष्यमन्यतरोपादानेनापि रूपत्रयसिद्धेरन्यतरच्छक्यमकर्त्तुमिति प्रतिपादित्वात् । अनेकार्थत्वाद् धातुनामत्र विषये ऽर्थभेदो न्र प्रयोजक इति तत्र कैयटे ( ग्लुचित्वा सज्जति )""धात्वादे: घ: स:' इति द्वितीयस्य सकारस्य जश्त्वेन शकारे तस्य "ज्ञलां जश ज्ञशिति जश्त्वेन जकार: ( ससज । सज्जितेत्यादि । सिसज्जिषति ) ""स्तौतिण्योरेव0 इति नियमादणावषत्वं, हेतुमति च इत्यत्र यदभिप्रायेषु भाष्यप्रयोगादयमात्मनेपद्यपि, अतो ऽस्यात्मनेपदं दूषयन्तो वर्द्धमानक्षीरस्वाम्यादय एव दुष्टा: । अत्र सश्चिमपि के चित्पठन्ति "तमजिकोसश्च'इत्यादि च दृश्यते।।200।।
गुजि अव्यक्ते शब्दे ।। ( गुञ्जति । जुगुञ्ज । गुञ्जितेत्यादि । गुञ्जा ) *गुरोश्च हल:* गुगुरुमतो हलन्ताद्धातोरकार हत्यकर:, ( गुञ्ज्चते ) इदित्त्वान्नलोपाभाव: । अत्र स्वामी अनिदित्येकइति स्वसूत्रे । सुधाकरस्तु अनिदित्पारायणेष्वपाठीत्, लक्ष्ये पुनरिदमविगीतमिति । शाकटायनस्तु द्वावपि पपाठ । गुञ्जशब्दइति तुदादौ ।। 202 ।।
अर्च पूजायाम् ।।( अर्चति । आनर्चं । बअर्चितेत्यादि ) अयं युजादौ स्वरितेत् पठिष्यति ।तत एवार्चतीति सिद्धे क्रियाफस्य कर्तृगामित्वे परस्मैपदार्थ इह इइ पाठ: । अयमात्मनेपदीति शकटायन:, प्रयोजनं तु तन्मते क्रियाफलस्याकर्तृगामित्वेपि तङ् । "य: पूर्णादुदर्चति अविरघ्रीमुदचन्त्वाप' इत्यादिदर्शनात्, अञ्च इत्येकइत्याभरणोक्तं युक्तम् ।। 202 ।।
म्लेच्छ अव्यक्ते शब्दे ।। इहाव्यक्तशब्दोस्फटशब्दोपशब्दश्च । उक्तं हि पस्पशायां "तसमाद्ब्राह्मणेन न म्लेच्छितवै नापभाषितव्ये म्लेच्छोह वा एष यदपशब्द' इति, न म्लेच्छितवा इत्यस्य पर्यायो नापभाषितवाइति कैयटे । ( म्लेच्छिति । मिम्लेच्द म्लेच्छितेत्यादि ) *दीर्घात्* दीर्घाच्छकारे परतो दार्घस्य तुगिति तुक् *तस्मिन्निति निर्दिष्टे पूर्वस्य* इति सप्तमीनिर्देशे पूर्वज्ञस्य षष्ठी प्रकल्प्योति दोर्धंस्य तुगागम: । ननु ""तसमादित्युत्तरस्य इति पञ्चमीनिर्देशे उत्तरस्य षष्ठी प्रकल्प्येत्युक्तत्वादिह चानवकाशया दीर्घादितिपञ्चम्या ""छे च इत्य सावकाशाया छइति सप्तम्या एव षष्ठी प्रकलृप्तिर्युक्ता,ततश्च तुक: कित्त्वेन छकारात्परत्वे चुत्ववचर्त्वयोर्म्लेच्चतीति द्विचकारकं रूपं स्यात् । नैष दोष: । यत: ""विभाषा सेनासुराच्छाया0 इति निर्देशाल्लिङ्गात् प़ञ्चम्या एव षष्ठी प्रकल्ययिष्यते ( मिम्लेच्छिषति । मेम्लेच्छ्यते । मेम्लेच्छीति । मेम्लेष्िअ । मेम्लेष्ट: । मेम्लेच्छति ) इत्यादि, ज्ञलि "व्रश्च0 आदिना षत्वे ष्टुत्वम् । म्लेक्षि । ""षढो: क: सि इति कत्वे षत्वं, ( म्लेश्मि म्लेश्म ) म्लेश्म ) इत्यत्र *च्छो: । शुडनुनासिके च* च्छकारवकारयोर्थथासङ्ख्यं शकारोठौ भवतो ऽनुनासिकादौ प्रत्यये ज्ञलादौ च ङ्कितीति च्छकारस्य शकार: । अयं च ""क्रमश्च कित्व ""च्छ्वो इतिनिर्देशात्सतुक्कस्य । अन्त्यादेशस्तु न भवति ""नानर्थके ऽलोत्यस्य विधि इति नङो ङित्करणाद्वा, अन्त्यादेशे विश्न इत्यत्रानिगुपधत्वादेव गणाप्रसङ्गात् किं कित्त्वेन । अत एव ङित्त्वाच्छ्वोरितिनिर्देश: सतुक्कस्येत्यपि ज्ञायते, ये तद्विधौ ङ्कितीति नानुवर्त्तयन्ति तेषां ज्ञलादिमात्रे शकारेकृते तस्यैव ""व्रश्च0 आदिना षत्वं द्रष्टव्यम् । अत्र मते तत्र छ्यग्रहणं व्यर्थं स्यात्, वृत्तिप्रदीपे तु छस्य शावादेश उक्त:, तुगभावस्तु ""अकृतव्युहा:पाणिनीया: कृतमपि शास्त्रं निवर्त्तयन्तीति । म्लिष्टम् । ""क्षुब्दस्वान्तध्वान्तलग्रम्लिष्टविरब्धफाण्टबाढानि मन्थमनस्तम: सक्ताविस्पष्टस्वरानायासभूषेषु इति अविस्पष्टार्थे निपातित: । अपशब्दे तु म्लेच्छितमिति भवति, अस्य शपि पाठोम्लेच्छतीति ""शप्श्यनोर्नित्यम् इति नित्यनुमर्थ:, शे हि विकल्य: स्यात, स्वरे भेद: । शपि शप: पित्त्वाद् ""अनुदात्तौ सुप्तितौ' इति अनुदात्त:, शस्तु प्रत्त्ययस्वरेणाद्युदात्त: । एवमीदृशामन्येषामपि धातूनां विकरणभेदे फलत्रयम् । अयञ्चुरादावपि।। 203।।
लछ लाछि नक्षणे ।। ( लच्छति । ललच्छ । लच्छितेत्यादि ) *दे च* हस्वस्य छे परतस्तुगिति तुक् । अलच्छीदित्यत्रान्तरङ्गत्वात्पूर्वं तुकि अकारस्यालघुत्वाद् ""अतो हलादे0 ?इति वा वृद्धिर्न । भवति । तथा
ललच्छेत्यादौ ""अत उपधाया:इति बृद्धिरनुपधात्वान्न भवति । लाञ्छतीत्यादिपूर्ववत्, लालाञ्छ्यत इत्यादाविदित्त्वान्नलोपो न भवति ( लाञ्छ: ) "क्किप्0 इति सोपपदनिरुपपदसाधरणे क्किपि तस्य लोपे ""च्छ्वे: शू0 इत्यत्र द्विच्छारनिद्देश:, एक: सतुक्को ऽपर: केवल इति न्यासपदयञ्जर्यादिषूक्तत्वात् ( लान् लांशौ लांश ) इत्यादि भवति । च्छ्वोरिति निर्द्देश: पूर्वं वितुकसतुक्कयो: समाहारद्वन्द्वे पश्चाद् वकारेणेतरेतरयोगे द्विवचनयथासङ्ययोरुपपत्ति:, ""द्वन्द्वाच्चुषहान्तात्0 इति समासान्त: सौत्रत्वान्न भवति । हरदत्तस्तु सतुक्छकारवकारयो: समाहारद्वन्द्वे पश्चाद्वितुक्छेनेतरेतरयोग इति समासान्ताभावो द्विवचनोपपत्तिश्चेति । अत्र मते सतुक्कस्यापि च्छुकारस्योठ् स्यादिति तदभावे यत्न: कर्त्तव्य: । एवं च यङ्कलुक्यपि शत्त्वं ( लालांष्टि लार्लाष्टि लालांष्ट इत्यादि पूर्ववद्भवति ) शूङ्विधौ क्डिद्ग्रहणानुवृत्तिपक्षे लालांष्टीत्यादौ ब्रश्चादिसूत्रे छग्रहणे षत्वम्, तत्रापि पूर्ववत् केवलीपि छो गृह्मते ।। 205 ।।
वाञ्छि इच्छायाम् ।। ( वाञ्छित्यादि लाञ्छिवत् ) ।। 206 ।।
आञ्छि आयामे ।। ( आञ्छति । लाञ्छ । ) अत्र लिट्यभ्यासहस्वे ""अत आदे:इत्यत्रतपरकरणं स्वाभाविकह स्परिग्रहार्थमिति न्यासकारहदत्तादिभि: प्रतिपादितत्वाद्र दीघीभावाद् नुडभावे सवर्णदीर्घ: । अन्ये
तु तपरकरणं मुखसुखार्थंमिति आलनाञ्छेत्युदाहरन्तीति मैत्रेय: । ( आञ्चितेत्यादि । लाञ्छिच्छिषति । ) ""न न्द्रा: इति नकारर्वं द्वितीयैकाच् द्विरुच्यते । ( आञ्छति लाञ्छिच्छत् ) ।। 208 ।।
हुलां कौटिल्ये ।। इह कौटिल्यमपसरणमिति मैत्रेयस्य मतम् । ( हूर्छति । जुहूर्छतेत्यादि) ""उपधायां च इतीको दीर्घं: । ( जुहूर्छिषति । जोहूर्छीति । जोहोत्ति । जोहूर्त्त: जोहोर्षि । जोहोर्मि । जोहूर्व: । जोहूर्म:) । *राल्लोप:* इति रेफात्परयो: छ्वोर्लोप: र्क्का ज्ञलादानुनासिकादौ प्रत्यये । अत्र सतुक्कस्य छस्याभावात् केवलो गृह्मत इति वृत्तृयादौ । हू: हुरौ हुर: । ""राल्लोप: तत्र पदत्वे च *र्वोरुपधाया दीर्घ* इति रेफवकारान्तस्य धातो: पदस्योपधाया इको दीर्घ इति इको दीर्घ: । हूर्ण: । हूर्णवान् । ""आदि तश्च इत्यनिट् निष्ठायाम् । राल्लोपे ""रदाभ्याम् इति नत्वे ""रषाभ्याम् इति णत्वम् । भावादिकर्मणोस्तु *विभाषाभावादिकर्मणो* इति आदितो निष्ठाया: पक्षे इङ्विधानाद् हूर्णमनेन, हूर्छितमनेनेत्यादि द्रष्टव्यम्
।। 209 ।।
मूर्छा मोहसमुछ्राययो: ( मूर्छति ) हूर्छिवत् । विशेषस्त्वनिटो निष्टायां ""न ध्याख्यापॄमूर्छिमदाम् इति नत्वनिषेध: ( मूर्त्त: । मूर्त्तवान् । मूर्त्तमनेनेत्यादि । मूर्छास्य सञ्जातोपाधिकादस्येत्यर्थादितच् ।। 210 ।।
स्फुर्छा विस्तृतौ ( स्फूर्छति ) । पुस्फूर्छेत्यादि ) पूर्ववत् । अभ्यासे खय: शेष: ।। 211 ।।
युच्छ प्रमादे ( युच्छति । युयुच्छ । युच्छि । युच्छितेत्यादि ) म्लेच्छादिवत् । अन्तरङ्गात्वात्तुकिअलघूपधत्वानन्? गुण: । ""वार्णादाङ्गं बलीय: इत्याङ्गस्य बलीयस्त्वं यत्रङ्गवार्णयोर्युगपत्प्राप्ति:समानाश्रयत्वं च तत्रेति, इहवैपरीत्यान्न भवति ।। 212 ।।
उच्छि उञ्छे ।। "उञ्छ: कणश आदानं कणिशाद्यर्जनं शिलम्' इति यादवप्रकाश: । एवं विज्ञानेश्वरोपि । ""उञ्छति सूत्रे उञ्छति उच्चिनोतीत्यर्थ इति न्यासो बदाराण्युञ्छति बादरिक: । श्यामाकानुञ्छति श्यामाकिक इत्युदाहरतो वृत्तिकारस्यापि व्यापित्वेनोच्चयनार्थइत्यभिप्रायो लक्ष्यते ( उञ्छति । सञ्छांचकर । लञ्छितेत्यादि ) इदित्त्वाद् उञ्छ्यते इत्यादौ नलोपो न भवति ( उञ्चिच्छषति ) ""न न्द्रा0' इति छादेद्विर्वचनमभ्यासस्य चर्त्वेहस्वे ""छे च इति तुकि हलादिशेषो न भवति, अवयवभक्तत्वेनाभ्यासभक्तत्वाभावात् । च स्वङ्गुलिर्देवदत्त इत्यादिवत् इहावयववायवस्य समुदायवयवत्वम् । यत: ""छेच इत्यात्रागमिनो भावादेव पूर्वसूत्रात् हस्वस्येत्युनवृत्तिसिद्धावपि चकारेण तदनुकृष्यते, पूर्वसूत्रे हस्वान्तस्येति स्थितम् । इह तु तथा माभूदिति हि भाव: । ( उञ्छयति मा भवानुञ्चि च्छत् ) अयं तुदादौ पठिष्यते । स पाठ (उञ्छती लञ्छन्तीति) शीनद्योर्नुम्बिकल्पार्थोऽवश्याभ्युपगन्तव्यइति पाठ: किमर्थ इति चेत् स्वरार्थ: । उञ्छतीत्यत्र शपि ""अनुदात्तौ सुप्पितौ इति शप्तिपोरनुदात्तत्वेन । *धातो:* । धातोरन्त उदात्त इत्युकारस्योदात्तत्वे ""उदात्तादनुदात्तस्य स्वरित: इति शबकारस्य स्वरितत्वे ""स्वरिताम् संहितायामनुदात्तानाम् इति तीकारस्य प्रचयत्वे अच: क्रमेणोदात्तस्वरितप्रचया भवन्ति, शे तु आद्युदात्त्त्वे
प्रत्ययादित्वेलनाकारयोदात्तत्वे *अनुदात्तं दमेकवर्जम्* यत्र पदे उदात्त: स्वरितो वा विधीयते तत्र तं वर्जयित्वाऽन्यदनुदात्तमिति धातोरप्युनुदात्तत्वे पूर्ववत्तिप: स्वरितत्वेऽचोनुदात्तोदात्तस्वरिता भवन्ति । विपर्यय: कस्मान्न भवति धातोरन्तोदात्तत्वेशस्यानुदात्तत्वमिति यतोऽयं स्वरभेदो न स्यात् । नैतदस्ति । सति? शिष्टस्वरो बलीयानिति यस्मिन्नसति य: शिष्यते स बलीयानित्यर्थ: । ननु ""अन्यत्र विकारणेभ्य इत्यपि तत्र पठ्यते । नायं पर्युदासो धातुस्वरविषय: । र्कि तु लसार्वधातुकस्वरविषय: । लादेशस्य सार्वधातुकस्य प्रत्ययाद्युदात्तत्वं सति शिष्टोपि विकरणस्वरो न बाधत इति, अस्य च ज्ञापकं तादृशमेव । तथाहि । ""तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्विङो: इति तासे: परस्य सार्वधातुकस्य सति शिष्टस्वरेणानुदात्तत्वेपि सिद्धे पुनर्विधानाज् ज्ञायतेऽन्यत्र विकरणेभ्य इति तच्च लार्वधातुकविषयम् ।। 213 ।।
उच्छी विवासे ।। समाप्तिर्विवास इति तरङ्गिण्यां, विपूर्वश्चायं प्राय: प्रयुज्यइति पुरषकारे ( व्युच्छति । । व्युच्छां चकार । व्युच्छितेत्यादि ) आम्विधावगमनिमित्ता गुरुमत्ता गृह्मते, अत एव अनृच्छ इति प्रतिषेध: ( उचिच्छिषति) अत्र द्विवर्चने तुकि श्चुत्वस्य पूर्वत्रासिद्धत्वात् हलादिशेषेण तकारस्य शेषे प्राप्ते [ षर्पूर्वा: खय इति वक्तव्यं ] शर्पूर्वा: खय इत्यत्र शर्ग्रहणमपनीय खर्प्रहणं कर्त्तव्यमित्यर्थ: । तेन शर्पूर्वा: खय: शिष्यन्ते अन्ये निवर्त्तन्त इति तकारस्य निवृत्तौ छकारस्य ""अभ्यासे चचे इति चर्त्वे रूपम् । अभ्यासचर्त्वस्य तुक्यसिद्धत्वादुकारस्य पुनस्तुङ्ग भवति [ आभ्?यासजशत्वचत्वमेत्वतुको: सिद्धं वक्तव्यम् ] इति वर्त्वस्य सिद्धत्वात् । अत्र पूर्वत्रासिद्धीयमद्विर्वचनइति अनाश्रित्योक्तं षर्पूर्वा: खय इति । यदाहुर्हरदत्तादय: । तदाश्रयणे हि श्चुत्वस्य द्विर्चचने सिद्धत्वाद्धलादिशेषेण छस्य निवृत्ताविष्टसिद्धे: ( व्युष्ट: । व्युष्टवान् ) ""श्वीदितो निष्ठायाम् इतीड्भाव: ( व्युष्टे दीयते कार्यं चा वैयुष्टम् । ""व्युष्टादिभ्योऽण् इति ""तत्र च दीयते कार्यम्0 इति विषयेऽण् प्रत्यय: । ""नस्वाभ्याम्0 इति ऐच् वृद्धेरभावश्च । अयमपि तुदादो पठिष्यते । पूर्ववदुभयत्रप्रयोजनम् ।। 214 ।।
ध्रज ध्रजि धृज धजि ध्वज ध्वजि गतौ ।। ( ध्रि?जति । दध्राज । ध्रजितेत्यादि । अध्रजीत् । अध्राजीत् ) । ""अतो हलादे0 इति वा वृद्धि: । ( दिध्रजिषति । दाध्रज्यते । दाध्रजीति । दाध्रक्ति )""चो: कु: ज्ञलि पदान्ते च । ""खरि च इति चर्त्वम् ( ध्रजयति । अदिध्रजत् । ध्रञ् जति । दध्रञ्ज । ध्रञ्जितेत्यादि ।
दिध्रञ्जिषति । दाध्रञ् ज्यते । दिध्रञ्जिषति । दाधृज्यते । दाध्रञ्जीति । दाधङ्क्ति ) लङि तिप्सिपोर्हलङ्यादिलोपे संयोगान्तलोपे च ( अदाध्रन् । धर्जति । दधर्ज । धर्जितेत्यादि । दिधर्जिषति । दरीघृज्यते ) ""रीगृदुपधस्य च इति रीक् ( दर्ध्रजीति । दरिधृजीति । दरीधृजीति । दर्धर्क्ति । दरिधक्तिं । दरीधर्क्ति )" रुग्रिकौ च लकि इति रुग्रिग्रीक: । ""नलाभ्यस्तस्याच्इति पक्षे न गुण:, एवं तसादौ ( दर्धर्क्त:)
इत्याद्युदाहार्यम् । धर्जयति । अदधजत् । अदीधृजत् । उर्ऋद्वा ) । ""न । क्त्वा सेट् इत्यकित्त्वाद्गुण:, धृज्यम्, धृज्यम्, ""ऋदुपधाच्चाक्लृपिचृते: इति क्यप् । धर्ज: ""चजो: कुधिण्ण्यतोर्निष्ठायामनिट:: इति वार्त्तिकसूत्रेणकुत्वम् ( धृञ्जति । दधृञ्ज । धृञितेत्यादि । दिधृजिषति । दरिधृञ् ज्यते ) पूर्ववद्रीक् ।
( दायधृञ्जीति । दाधृङ्क्तीत्यादि धृजिवत् ) लङि तिप्सिपोर्हलङयादिलोपसंयोगान्तलोपयोरदाधृन् । संयोगान्तलोपस्यासिद्धत्वात् अलघूपधत्वात् प्रत्ययलणेन न गुण: ( धृञ् जयति । अदधृञ्जत् । ध्वजति । ध्वञ्जतीत्यादि ) ध्रजधृजिवत् । तरङ्गिणीकाश्यपसंमतास्तु आद्यौ व्रजव्रजी इति इन्त्योष्ट्यादी पठ्येते । सर्वत्र तवर्गीयादीएव 220
कृज अव्यक्ते शब्दे ( कूजति । चुकूज । कृजिता । कृजिष्यति । चोकूज्यते । चोकूजीति । चीकृक्ति । कूजयति । अचूकुजत् । कृज: । कृज्यम् ) ""न क्वादे: इति निष्ठायां सेट्त्वात्कुत्वाभाव: ।। 221 ।।
अर्ज षर्ज अर्जने ।। ( आनर्ज । अर्जितेत्यादि । अर्जिजिषति । अर्जयति । आर्जिजत् । स्वर्ग: ) वार्त्तिककारमते न्यङ्क्वादित्वात् कुत्वम् । ( ऋजु: ) ""अर्जिट्टश् इत्यादिना कुप्र त्यय:, ऋजादेशश्च । अर्ज प्रयत्न इति चुरादौ । ( सर्जति । सप्तर्ज । सर्जिता । सिसर्जिषति ) ""स्तौतिण्योरेव0 इतिनियमान्न षत्वम् । ( समासज्यते । सासर्क्तीत्यादि । सर्जयति । अससर्जत् ) ।। 223 ।।
गर्जशब्दे ।। ( गर्जतीत्यादि ) ।। 224 ।।
तर्ज भर्त्सने ( तर्जति । ततर्जेत्यादि ) अयं चुरादावपि ।। 225 ।।
कर्ज व्यथने ।।
खर्ज पूजने च ।। ( कर्जति । चकर्ज । कजिता । खर्जतीत्यादि ) ( खर्जूर: ) ""खर्जपिञ्जादिभ्य ऊरोलचौ इत्यूर: ।। 227 ।।
अज गतिक्षेपणयो: ( अजति । विवाय । विव्यतु विव्यु:। विवयिथ । विवेथ । विव्यथु: । विव्य । विवाय । विवय । विव्यिव । *अजेर्व्यधञपो:* ।। घञपोरन्यस्मिन्नार्द्धधातुके विषयभूते वीभाव इति वीभावे द्विर्वचने *एरनेकाचोऽसंयोऽसंयोगपूर्वस्य* धातोरवयव: संयोगो यस्मादिवर्णात्पूर्वो नास्ति तदन्तस्यानेकाचोङ्गस्याजादौ यणिति यण् । अत्र वकारस्य हल्परत्वात् ""उपधायां च इति दीर्घे ""अच:परस्मिन्'7 इति यण: स्थानिवत्त्वात् "असिद्धं बहिरङ्गन्तरङ्ग' इति असिद्धत्वाद्व न भवति । वृद्धिगुणयोर्विषये परत्वात्तौ भवत: । ""णलुत्तमो वा इति उत्तमे? णित्त्वविकल्पनात्पक्षे गुण: । वलादौ क्रादिनियमादिट्, वीभावो ह्मनुदात्तत्त्वाद् अनिटु, थलि तु *अचस्तास्वत्थल्यनिटो नित्यम.* अजन्तो यो धातुस्तासौ नित्यमनिट् तस्य तासाविव थलीङ्निषेधे प्राप्ते । *ऋतो भारद्वाजस्य:* । योयं तासौ नित्यानिट: स्थलीण्निषेध: स भारद्वावजस्य मतेन ऋकारान्तस्यैवेति नियमादन्यत्रार्थाद्विकल्प इतीडागम: पाक्षिक:, अजेरुदात्तत्वस्य इडर्थत्वात् वलादावार्द्धधातुकेऽयमादेशो विकल्पित इति पक्षे व्यादेशाऽभावात् आजिथेत्यपि भवति, तथा वमयोरपि ( आजिव आजिमेति ) उक्तञ्च वृत्तौ । चलादावार्द्धधातुके विकल्प इष्यते इत्यत्र केचिन्मतेवलादित्वस्य क्रयादिनियमेनेट: पर्यवसानान्न कदाचिदपि वलाद्यार्द्धधातुकव्यक्तिरिति न तत्रायमादेशविकल्प: थलि तु भवत्येव यतस्तत्रेड्विकल्पित इति । ननु विव्यतुरित्यादौ द्विर्वचनात्पूर्वं परत्वादियङि ""द्विर्वचनेचि इति तस्य द्विर्वचने कर्त्तव्ये स्थानिवत्त्वादुत्तरखण्डेजग्मुरित्यादिवत् आदेशरूपमेवावतिष्ठेतेति कुतो यण: प्रसङ्ग: । उच्यते । द्विर्वचनाथेमियङि निवृत्ते पुनरयमिच्छतावश्यं प्रवर्त्तयितव्य:, तत्र दशायाम् ""असिद्धवदत्रा0 इतीयङोऽसिद्धत्वाङ्गस्यानेकाचत्वादपवादत्वेन वा यणेव भवविष्यतीति इट किटेत्यत्रायमर्थ: प्रपञ्चयिष्यते । ( अजिता । वेता । अजिष्यति । वेष्यति । अजतु । आजत् । आशिषि । वीयात् ) वलाद्यार्धातुकत्वान्नित्यं वीभाव: ( आजीत् । अवैषीत् । आहजष्यत् । अवेष्यत् । अजिजिषति । विवीषति ) ""इको ज्ञल् इति सन: कित्त्वान्न गुण: । आर्द्धधातुक इत्यस्य विषयसप्तमीत्वात् प्रागेव प्रत्ययोत्पत्तौ वीभावे हलादित्वाद्यङि ( वेवीयते ) नात्र यङ्लुगस्ति । यतो लुका यर्ङ्द्धधातुकस्य विषयत्वापहारन्ना8र्धातुकाभिव्यक्तिरितिवीभावस्य नैव प्रसङ्ग:, उक्तञ्चैवं ""न लुमताङ्गस्य इत्यत्र कैयटे "न लुमता यस्मिन्निति चेत् हनिणिडादेश न सिद्धयन्ति' इति भाष्यवार्त्तिकयोरुक्तौ ""लुङि चइत्यादौ विषयसप्तम्याश्रयणेनापदेशा: सेत्यन्तीत्याशङ्कय लुका लुङो विषयत्वापहाराराद्विषयसप्तम्याश्रयणेप्यसिद्धिरिति ( वाययति, अवीवयत् ) कर्मादौ ( वीयतइत्यादि ) स्यादिषु स्यसिचसीयुट्तासिषुवाचिण्वदिडिति वृञ्चाययो: ( वायिष्यते । अवायिष्यत । अवायिष्यथ । अवायिष्यताम् ।
वायिषीष्ट । अवायिष्टत्यादि) चिण्वदिटोऽभावे ( वेष्यते, अवेष्ट । वेषीष्ट । वेषीष्ट, वेतेत्यादि ) अत्र पक्षे वलाद्यार्धधातुकसद्भावात्पक्षे व्यादेशाभावे ( अजिष्यते । आजिष्यत आजिषाताम् । अजिषीष्ट । आजितेत्यादि )
इति त्रैरूप्यम् । लिटि ध्वमि चिण्डवत्पक्षे वृद्यायादेशयो: ""विभाषेट: इति मूर्द्धन्यौ विकल्पेन, अन्यदा तु "हण:
षीध्वम्0 इति नित्यो व्यादेशाभावश्चेति चातूरूप्यम् ( वायिषीध्वम् । वायिषीट्वम् । अजिषीध्वमिति) लुङि तु ""घि च इति सिचो लोपे चिण्वदिटिव्यादेशस्य वृद्धयाययोर्मुर्द्धन्यस्य पूर्ववद्विक्प: ।
अचिण्वत्पक्षे तु नित्य:, आदेशाभावे च सिज्लोपे इदमङ्गमिणन्तमिति नित्यो मूर्धन्य: ( अवायिध्वम् । अवायिढ्वम् । अवेद्म् । आजिढ्वमिति ) चातूरूप्यम्, येषां तु दर्शनम् ""इण: षीध्वम् इत्यत्रेण् ग्रहणेनेटो न ग्रहणमिति तेषां मूर्द्धन्याभावात् लिङ्वदेव रूपाणि । कर्मकर्त्तरि तशब्दे ""अच: कर्मकर्त्तरि ""इति चिणो विकल्पनात्पक्षे सिचि चिण्वदिटि च ( अवायि अवेष्ट । अवायिष्टे ) इति त्रैरूष्यम्, अन्यत् सर्वं कर्मवत्, संभवति च क्षेपणार्थस्य कर्मकर्त्ता ( प्रवयणम् । प्राजनम् )""वा यौवा यौ इति वीभावविकल्प:, ""कृत्यच इति विभाषा णत्वम् । ( समज: )पशूनां संध इत्यर्थ:,(उदज:) तेषामेव प्रेरामेव प्रेरणम् । ""समुदोरतज:पशुषु
इत्यप् । धात्वर्थस्यापशुविषयत्वे (समाज:। उदाज )इति घञेव । अघञपोरिति पर्युदासान्न वीभाव:। ""अजिव्रज्योश्चइति अकुत्वम् । (समज्या) । *संज्ञायां समजनिषदिनपतमनविद्षुञ्शीङ्भृञिण:ञिण:* इति स्त्रियां भावादौ क्यप् । [ प्रतिषेधे क्यप उपसंख्यानम् ] इति वीभावनिषेध: । (प्रवेयम् । ) आर्द्धंधातुके इत्यस्य विषयसप्तमीत्वात् प्रागेव वीभावे ""अचोयत्, अन्यथ ण्यति वृद्धौ प्रवेयमिति स्यात् । [ वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्य उपसंख्यानम् ] इति खश् । अस्य शित्त्वेन सार्वधातुकत्वान्न वीभाव:। अजिरम् । ""अजिरशिशि0इति निपातित: । (वेणु: । ) ""अचिवरीभ्यो निद्0 इति णु:प । ( वेणुकीयम् )""नडादीनां कुक् च इति चातुरर्थिकश्छ: कुगागमश्च । ( आजि:) । ""अज्यतिभ्यां च इतोणि वृद्धि:, ""पादस्य पदाज्यात्0 इति निर्देशान्नवीभाव: । अच्, ( अजा ) अजादिपाठाट्टप्। अत एव वीभावाभाव: । अजानां समूह: ( आजिकम् ) । ""गोत्रीक्षोष्ट्रीरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् इति वुञ् ।। 228 ।।
तेज पालने ।। (तेजति) ( तितेज । तेजितेत्यादि । तेज: । ) ""असुम् तिज:' इति नित्यासुन्नन्त: । क्षमार्थोग्रे । तिज निशान इति चुरादौ ।। 229 ।।
खज मन्धे ( खजति । चखाज । खजितेत्यादि । अखजीत् अखाजीत् ) ""अतो हलोदे:इति वा वृद्धि: । ( खजाकोमन्ध: । ""खजेराक: इत्याक: । अत्र के चित् कज मद इत्यपि पठनित ।।
खजि गतिवैकल्ये ( खञ्जति । चखञ्ज । खञ्जितेत्यादि ) इदित्त्वान्न्लोपाभाव: ।। 230 ।।
एज कम्पने ।। एजति । एजां चकार । एजिता । एजिजिषति । एजयति । मा भवानेजिजत् । ऋदित्वान्नोपधाहस्व: । एवति?र्दीप्तौ गत: ।। 231 ।।
टुओस्फूर्जा वज्रनिर्धोषे ।। दुशबृदस्य ""आदि?र्ञिटुडव: इतीत्वे लोप: । ""टिवतो ऽथुच् इत्यथुचि (स्फूर्जथुरिति) । ओकार ""ओदितश्च इति निष्ठानत्वार्थ:। ( स्फूर्णवान् ) । ""आदित इत्यनिट्त्वम् । ननु निष्ठानत्वार्थादोदित्करणसामर्थ्यादेवानिट्त्वं सिद्धम् । एवं तर्हि ?""विभाषा भावादिकर्म्मणो: इति हङ्किल्पार्थमादित्वम् ( स्फूर्णमनेन स्फूर्जितमनेनेत्यादि । स्फूर्जति । पुस्फूर्ज । स्फूर्ज्जिता । पुस्फूर्जिषति । पोस्फूर्ज्यते । पोस्फूर्क्ति । अपोस्फूर्क । स्फूर्जयति । अपुस्फूर्जत् )अस्य दीघापदेशेन ""उपधायां च इति दीर्घस्यानित्यत्वज्ञापनात् ( मुर्छति हुर्छति स्फुर्छति इत्यपि भवताति के चिदिति मैत्रेयप्रतिपादिते ।। 232 ।।
क्षि क्षये ।। अनिट् स्वरान्त इत्ययमनिट इह पाठस्तु उतृतरधातुसादृश्यादिति मैत्रेये प्रतिपादितम् । (क्षयति । चिक्षाय । चिक्षियतु: । चिक्षेथ । चिक्षयिथ । चिक्षियिव ) क्रादिनियमादिद् थलि ""अचस्तास्वात्इति निषेधाद् भारद्वाजजियमाच्च विकल्पित: । अजादौ ""अचि । श्नुधातु इत्यादिनेयङ्, ""एरनेकाच इति यण् तु संयोगपूर्वत्वान्न भवति ( क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् । आशिषि क्षोयात् ) ""अकृत्सार्वधातुकयो:इति दीर्घ: । ( अक्षैषीत् )सिचि वृद्धि:। कर्मादौ ( क्षीयते ) इत्यादि वीवत् । अन्तर्भावितण्यर्थोयं सकर्मक: । "न क्षीयतइत्यक्षरम्' इति भाष्ये दर्शनात् ( चिक्षीषति) *अज्ज्ञनगमां सन* इति ज्ञलादौ सनि दीर्घ: (चेक्षीयते । चेक्षयीति । ""सार्वधातुकयो: इति गुण: । ""नाभ्यस्तस्य इति निषेधो लघूपधगुणस्य । क्षीण:। ( क्षीणवान् । क्षीणमिदम् ) । अस्य ध्रौव्यार्थत्वात् क्तोधिकरणे क्त:। ""अधिकरणवाचिनश्च इति तद्यीगे कर्तरि षष्ठी* निष्टायामण्दर्थे* इति क्षियो दीर्घ:, ण्यदर्थो भावकर्मणी, ""क्षीयो दीर्घात् इति निष्ठानत्वम् । ण्यदर्थे तु ( क्षितमनेन क्षितोयमनेन क्षीणस्तपस्वी । क्षीणो जालम: । क्षित इति, ) *वाक्रोशदैन्ययो:* इति क्षियो निष्टायां वा दीर्घ: । पूर्ववहीर्घपक्षे नत्वम् ( क्षेतुं शक्य: क्षय्य:) ""क्षय्यजयौ शक्यार्थे"" इति निपातनादयदेशो भवति । (प्रक्षीय) । "क्षिय: इति ल्यपि दीर्घ: । क्षी निवासगत्योरिति तुदादौ । क्षीष हिसायामिति क्यादौ । क्षिणु र्हिसायामिति तनादौ ।। 233 ।।
क्षीज अव्यक्ते शब्दे ।। ( क्षीजति । चिक्षीज । क्षीजिता । चिक्षीजिषति । चेक्षीज्यते । चेक्षीक्ति । क्षीजयति । अचिक्षिजत् ) ""णौ चङ्यु0 इति हस्व: । कृजिना सहायं न पिठतोऽप्रसिद्धत्वात् ।। 234 ।।
लज लजिभर्जने ।।
लाज लालि भर्त्सने च ।। चकारो भिन्न्क्रम: एतावपि भर्जनइति मैत्रेय: । भर्त्सनग्रहणंभर्जनस्याप्युपलक्षणमिति पुरुषकार: । ( लजति । ललाज । लेजतु: । लजिता । अलीजत् )
अलाजित् ) ""अतो हलादे0 इति वा वृद्धि: ( लिलजिषति । लालज्यते । लालक्ति ।लाजयति । अलीलजत । लञ्जति । ललञ्ज । लञ्जिता । लिलञ्जिषति । लालञ्चते ) इदित्त्वान्नलोपाभाव: ( लालङ्णि । लञ्जयति । अललञ्जत् । एवं लाजति लाञ्जतीत्यादि । लाज: ) । ओलजी ओलस्जीव्रीडनइति तुदादौ । अज प्रकाशनइति कथादौ । लजिति दण्डके भाषार्थ: ।। 238 ।।
जज जजि युद्धे ( जजति । लवित् । जङ्गलम् ) बाहुलकात् कलप्रत्यय: कुत्वं च ( कुरुजङृगतेषु भवं (कौरुजाङ्गलम्, कौरुजङ्लम् ) । ""तत्र भव: इत्यण् । ""जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् इति पूर्वपदस्य नित्या वृद्धि3, उत्तरपदस्य तु वा ।। 240 ।।
तुज र्हिसायाम् ।। तोजित्वा । ""रलोव्युपधादु0 इति कित्त्वविकल्प: । ( तोतुज्यते तोतोक्ति । तोतयति । अतूतुजत् ) भावादिकर्मणो: ""उदुपधाद्0 इति कित्त्वविकल्पनात् तुजितमनेन तोजितमनेत्यादि
।। 241 ।।
तुजि पालने ( तुञ्जति । तुतुञ्ज । तुञ्जिता तुतुञ्जिषति । तोतुञ्जते । तोतुङ्क्ति । अतोतुन् । तुञ्जयति । अतुतुञ्जत् तुङ्ग: ) वार्त्तिकमते न्याङ्क्कादित्वात् कुत्वम् । भाषार्थोयं युजादौ।। 242 ।।
गज गजि गृज गृजि मुज मुजि शब्दार्था: ।। ( गजति । गञ्जतीत्यादि) । लजलजिवत् । ( जगजतु:)
इत्यादावादेशादित्वान्नेत्वाभ्यासलोपौ। ( गज: । अच् । गञ्जा तु मदिरागृहम् गर्जति । जगर्ज । गर्जिता । जिगर्जिषति । जरीगृज्यते । जर्गृजीतीत्यादि पूर्ववत् । ( गर्जयतिअजगर्जत् । अजीगृजत्: इति रीक् ।
( जरिगृञ्जीति इत्यादि । ( मोजति । मुञ्जतीत्यादि । तुजिवत् । मृजमृजीति स्वामिचन्द्रौ । गज मदने च । अयं चुरादावपि शब्दार्थ: । गर्ज शब्द इत्यग्रे ।। 248 ।।
वज व्रज गतौ । ( वजति । ववाज । ववजु: । वजितेत्यादि ) "न शददवादिगुण0 इत्येत्वाभ्यासलोपनिषेध: ( अवजीत् । अवाजीत् ) ""अतो हलादे0 इति वा वृद्धि: । ( वाज:। वाज्यम् )। घञ्ण्यतौ । ""अजिव्रज्योश्च इति चकारेण कुत्वनिषेध: । ( व्रजति ) इत्यादि । लुङि""वदव्रजइतिनित्या वृद्धि:। ( अव्राजीदिति । व्रज्या)""व्रजयजोर्भावे क्यप् इतिक्यप् । व्रज: । ""गोचरसंचरवहव्रजव्यजापणनिगमाश्च इति अधिकरण घञन्तो निपातित: । परिव्राट्: । परिव्राट् । *परौ व्रजे:ष: पदान्ते* इति क्किपि षत्वं दीर्घश्च । एतौ चुरादावपि ।। शुचादत्ता उदात्तेत: क्षिवर्जम् ।। 250 ।।
अथ क्रमेण प्राप्तानात्नेपदिनष्टवर्गीयान्तानाह---
अट्ट अतिक्रमर्हिसयो: ।। इत: शाठ्यन्ता उदाता अनुदात्तेत: । दोपधोयं स्मर्यतइति मैत्रेय: । तोपधोयमिति ""हुना ष्टु: इत्यत्र न्यासवृत्तिपकारादय:। स्वाम्यपि क्किपि अदिति तकारश्रवणार्थं तोपधत्वमुक्त्वा दोपधत्वमप्याह । मैत्रेयस्तु स्वमते दोपधत्वमुक्त्वा तोपधत्वं मतान्तर आह । अहु इति डान्तपाठ: प्रकरणविरोधादुपेक्ष्य: ( अट्टते । आनट्टे । अट्टताम् । आट्टत । अट्टेत । आशिषि । ?अट्टिषीष्ट [ पूर्वत्रासिद्धीयमद्विर्वचने ] इति ष्टुत्वस्यासिद्धत्वाभावाद् द्विठटकारस्य सन्नन्तस्य द्विर्वचने हलादिशेषे रूपम् । यदापि प्राणिणिषतीत्यादौ णत्त्वे कृते तस्यासिद्धत्वाभावात्सणस्य द्विर्वचनेनैवेष्टसिद्धौ ""उभौ साभ्यासस्य इति पुनर्णत्वविधानात् ""पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्वत्यज्ञापनात् ष्टुत्वस्यासिद्धत्वात् तकारादेर्द्विर्वचनं तदापि ""शर्पूर्वा: खय: इति टकारस्यैव शेषादिदमेव रूपम् । एवं च पुरुषकारादिषु अतिट्टिषतीति तकारस्य शेशेणोदाहरणप्रदर्शनं चिन्त्यम् । दोपधत्वे तु ""पूर्वत्रासिद्धीयमद्विर्वचने इत्यस्य द्विर्वचनविषयत्वात् ""नन्द्रा इति द्विर्वचननिषेधे प्रवृत्त्यभावात् ष्टत्वस्यासिद्धत्वात् दकारवर्जं द्विरुच्यते, दकारस्य पुनष्टुत्वे चर्त्वं च अट्टिषत इति भाव्यम् । ( अट्टयति । आटिष्टत् दोषधत्वे तु अट्टिटत् । अट्टा ) । ""गुरोश्च इत्यकार: । अट्टां करोति । ( अट्टायते ) । अटाठ्येत्यादिना क्यप् । अयमनादरे चुरादि:
।। 251 ।।
वेष्ट वेष्टेन ( वेष्टते । विवेष्टे । वेष्टिता । विवेष्टिषते । वेवेष्टयते । वेवेष्टीति । वेवेष्टि । वेवेष्ट: । लङि अवेवेट् । वेष्टयति । अविवेष्टत् । अववेष्टत् । ) ""विभाषा वेष्टिचेष्ठ्य:' इति चङ्परे णावभ्यासस्य पक्षे ऽकार: । कर्मादौ वेष्ठ्यत इत्यादि ।। 252 ।।
चेष्ट चेष्टायाम् ।। वेष्टिवत्, अकर्मकस्त्वयम् ।। 253 ।।
गोष्ट लोष्ट संघाते ।। ( गोष्टते । जुगोष्ठो गोष्टिता । लोष्टते । लुलोष्टे । लोष्टिता ) इत्यादि, वेष्टिवत् ।। 255 ।।
घट् चलने ।। ( घट्टते । जघट्टे । घट्टितेत्यादि ) । अयं चुरादावपि ।। 256 ।।
स्कुट विकसने ।। ( स्फोटते । पुस्फुटे । स्फोटितेत्यादि । पुस्फुटिषते । पुस्फोटिषते । स्फुटित्वा । स्फोटित्वा ) । ""रलो व्युपधात् इति कित्त्वविकल्प: । ( पोस्फुट्ठ्यते, पोस्कुटीति । पोस्फोट्टि । अचोस्फोफोट् । स्फोटयति । अपुस्फटत् । अयं तुदादावपि, विशरणार्थो?ग्रे परस्मैपिइषु, भेदनार्थश्चुरादौ
।। 257 ।।
अटि गतौ ।। ( अण्टते । आष्टे । अण्ठितया । अण्टिटिषते । अष्टयति । आण्टिटत् ) । ""न न्द्रा: इति नवर्जं द्विरुच्यते ।। 158 ।।
वठि एकवर्यायाम् ।। एकवर्या सहायगमनम् । ( वण्ठते । ववण्टे । विवण्ठिषते वावण्ठीति । वावण्टि । ) ष्टुत्वम् । चर्त्वम् । लोटि हेर्द्धित्वे ष्टुत्त्वे जश्त्वे ( वावण्डि ) । लङि अवान् । ( वण्ठयति । अववण्ठत् ) ।
अयमनिदित् स्थौल्यार्थ: परस्मैपदिषु ।। 159 ।।
मठि कठि शोके ।। इह शोक आध्यानम् । कर्तुर्मण्ठते उत्कण्ठत इत्यर्थ:। ""अधीगर्थ इति कर्मणि शेषे षष्ठी । मदनिवासयो:, कठ कृच्छ्रजीवनइत्यग्रे परस्मैपदिष्वनिदितौ । कठि शोकहतीदित् चुरादौ
।। 259 ।।
मुठि पालने ।। मुण्ठतहत्यादि ।। 262 ।।
हेठ विबाधायाम् । अमुं परस्मैपदिष्वपि केचित् पठन्ति । विबाधनं शाठ्यम् । ( हेठते । जिहेठे । हेठिता । इत्यादि, हेठयति । अजीहिठत्, अजिहेठत् ) । [ काण्यादीनां वा ] इति णौ चङ्युपधाया इस्वविकल्नप: । काणेराणेस्तथा श्राणेर्भाणेहेठेर्लुठेरपीति ण्यन्तस्य भाष्यकारेण काण्यादित्वं प्रदर्शितम् ।।
बोधिन्यासकृता लोटिर्लोपिर्वाणिश्च व्हायिना ।
सहिता: पूर्वमुक्ताश्च काण्यादौ परिकीर्त्तिता: ।।
दुर्गश्चार्णि च काण्यादिं मन्यते शाकटायन: ।
लोठिं तदेव मैत्रेयो धातवो द्वादश स्मृता: ।। 263 ।।
एठ च ।। विपूर्वोयमिति स्वामिकाश्यपौ । मैत्रेयादयस्तु केवलेधोदाजहु: । ( एठते । एदांचक्रे । एठिता । एटिठिषते । एठयति । मा भवानिटिठत् ) द्विर्वचनात् पूर्वमुपधाहस्वइत्युक्तम् ।। 264 ।।
हिडि गत्यनादरयो: ।। ( हिण्डते । जिहिण्डे । हिण्डिता । जिहिण्डिषते । जेहिण्यते । जेहिण्डि । अजेहिन् । अजिहिण्डत् ) ।। 265 ।।
हुडि संघाते ।। ( हुण्डते । जुडुण्डे । हुण्डितेत्यादि ) पूर्ववत् । अत्र काश्यप: । आर्यास्तु न पठन्ति । इद्रविडास्तु पठन्तीति । भाष्यादौतु हुण्डेत्यविगीतमुदाहियते ।। 266 ।।
कुठि दाहे ।। ( कुण्डते इत्यादि । कुण्ड: । कुण्डम् ) अच् । स्त्रियां ( कुण्डी ) । ""जानपदकुण्डगोणस्थलभाजनागकाशनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्रणास्थौल्यवर्णानाच्छानायोविकारमैथुनेच्दाकेशवेशेषु इति अमत्रे ङीष् । अन्यत्र कुण्डा । वैकल्यार्थोत्रेंव पठिष्यते, रक्षणार्थश्चुरादौ ।। 267 ।।
वहि विभाजने ।। 268 ।।
मडि च ।। अत्र स्वामी वडि विभाजने, मडि चेति पृ?थक् सूत्रणादर्थान्तरेपि । नन्ददी तु वडि विभाजने, मडि वेष्टन इति भङ्क्त्वा पठतीति । ( वण्डते । ववण्डे । वण्डिता । ममण्डे । मण्डितेतृयादि । मण्डूक: ) । ""शरिमण्डिभ्यामूकण् इत्यूकण् । कृपमण्हूक: । ( उदपानमण्डूक: कच्छमण्डूक: ) ""पात्रेसमितादयश्च इति क्षेपे सप्तमीतत्पुरुष: । क्षेपक्ष कूपे मण्डूक हवेत्यदृष्टविस्तारताद्यवगमात् । ""क्रुधमण्डार्थेभ्यश्च इति युज्विधौ भूषणार्थ एव वृत्तौउदाहृत: । तस्यानुदात्तेत इति युच: सिद्धत्वान्न त्वस्य युज्
नेतीति । मण्डि भूषायामित्यग्रे परस्मैपदिषु, णौ हर्षे च ।। 269 ।।
भडि परिभाषेण ।। परिहास इति देव: । परितो भाषणं परिभाषणमिति स्वाम्यादय: । य: सनिन्द उपालम्भस्तत्र स्यात्परिभाषणभिति निघण्टु: । भण्डतइत्यादि । भण्डिलो दूत: । ""सलिकल्पनिमहिभडिभण्डी
इत्यादिना इलच् कल्याणार्थश्चुरादौ ।। 270 ।।
पिडि संघाते ।। ( पिण्डयते ) इत्यादि । पिण्डिलो माणवक: । पूर्ववदिलच् । वुरादावप्ययम्।।271।।
मुडि मार्जने ।। शुद्धिन्यग्भावौ मार्जनम् । मुण्डतइत्यादि । खण्डनार्थ: परस्मैपदिषु ।। 272 ।।
तुडि तोडने ।। तोढनं दारणं हिंसनं च । ( तुण्डते ) इत्यादि । ( तुण्डि: ) । ""इन् इतीन्प्रत्ययो नाभिवृद्धौ । सास्यास्तीति तुण्डिल: । ""तुण्डादिभ्य इलच्च इत्यत्र स्वाङ्गाद् वृद्धाविति गण्सूत्रेण वृद्धौ वृत्तात्स्वाङ्गादस्माद्रिलच् तुण्डिल एव तुण्डिभ: । ""तुण्डिवलिवटेर्भ:इति मत्वर्थीयो भ: । तुण्डिलो बहुभाषी । ""सलिकल्पनी इत्यादिनेलव् । अयमनिदित्परस्मैपदिषु ।। 273 ।।
हुडि वरणे ।। वरणं स्वीकार: । हरणमिति मैत्रेय: । ( हुण्डते । जुहुण्डे । हुण्डितेत्यादि । )स्फुडि विकसनइत्येके पठन्ति ।। 274 ।।
चडि कोपे ।। ( चण्डते ) इत्यादि । ( चण्डन: ) । ""क्रुधमण्ड0 इति वा ""अनुदात्तेत: इति वा युच् । ( चण्डाल: ) । ""चण्डपतिभ्यामालच् इत्यालच् । चण्डालस्यापत्यं, ( चाण्डालकि:) । अत इ?ञि ""सुधातुरकङ् च ""व्यासवरुडनिषादचण्डालबिम्बानाम् इत्यकडादेशोन्त्यस्य । चाण्डलीति शार्ङ्गरवादित्वात् ङीनि तद्युक्तादिति सूत्रकरणे । ""[ कुलाललकुटकर्मारव्यासवरुडनिषादचण्डालकित्रामित्रेभ्यष्छन्दस्युपसंख्यानम् इति उक्तत्वाच्छान्दस: । ( चणल: । चण्डीति ) ""कृदिकारादक्तिन: इति ङीष् । अयं चुरादौ च ।। 275 ।।
शडि रुजायां संघाते च ।। तालव्योष्मादि: । ( शण्डते ) इत्यादि । शण्ड:, असुरपुरोहित: । शण्डिल: ।। ( तडते ) इत्यादि । तण्ड: । अच् । ( वतण्ड: ) । "वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयो: इत्युपसर्गस्याल्लोप: । वतण्डस्य गोत्रापत्यं, ( वातण्ड्य: । वातण्ड: ) । ""गर्गादिभ्यो यञ्, ""शिवादिभ्योण् इति यञणौ । यदा त्विदमपत्यमाङ्गिरसं भवति तदा""वतण्डाच्च इति शिवाद्यणं बाधित्वायमेव अपत्ये तु स्त्री लिङ्गे ""लुक् स्त्रियाम् वात् वातण्ड्यायनी । ""प्राचां ष्फ तद्धितो इति यञ्चन्तात् ष्फ:, फस्यायनादेश: । षित्करणसामर्थ्यात् स्वार्थे ङीष्ष्फप्रत्ययाभावे ""यञजच्च इति ङीषि ""यस्येति च इत्यल्लोपे *आपत्यस्य च तद्धितेनाति* । आपत्ययकारसनकारादौ भसंज्ञानिमितृते तद्धितर्हति च परे लोपे वातण्डी । अनातीति वचनात् वातड्यायनीत्यत्र यलोपो न भवति । ( वितण्डा, तण्डुला ) । ""लुठितनितण्डिभ्य उलच् इत्युलच् ।। 277 ।।
पडि गतौ ।। ( पण्डते । पण्डित: । गोष्ठेपण्डिन: ) । ""पात्रेसमितादयश्च इति क्षेपेसप्तमीतत्पुरुष: तत्रैव पाठादलुक्, गोष्टएव पण्डितो न सदसीति क्षेपावगति: । पण्ड: । अच् । पणतेर्वा ""अमन्ताहु: । पण्डस्यापत्यं, पाण्डार: । ""आरगुदीचाम् इत्यत्र रकापि गोधार इति सिद्धे आरग्वचनादन्यत्रापि भवतीति वृत्तावुक्तम् । नाशर्थचुरादौ ।। 278 ।।
कण्ड मदे ।। (कण्डते) इत्यादि । भदेने चचरादि: । अनिदिहैव । अदादौ च परस्मैपदी ।। 279 ।।
खडि मन्थे ।। खुडीत्यप्येके पठन्ति । ( खण्डते । खण्ड: । ) खडि भेदने चुरादि: ।। 280 ।।
हेडृ होडृ अनादरे ।। (हेडते । जिहेहे । हेडिता । जिहेडिषते । जेहेढ्यते । जेहेङ्डि । हेडयति । जिहेडत् ) । ऋदित्त्वान्नोपधाहस्व: । एवं (होडत जुहोडे) इत्यादि । होड: । पचाद्यच् । होडइवाचरति । (होडते) [ आचारेऽवगल्भक्तीवहोडेभ्य:क्किब्वा ] इति क्किपि ""सना़द्यन्ताइति धातुत्वे लादय: । होडादीनामकारस्यानुदात्तत्वानुनासिकत्यो: प्रतिज्ञानात् ""अनुदात्तङित: इति तङ् । तथा च भाष्यम् । सर्वप्रातिपदिकेभ्य: क्किबित्युक्त्वा न तर्हीदार्नी गलभाद्यनुक्रमण्धं कर्त्तव्यं, कर्त्तव्यं च, आत्मनेपदार्थंमनुबन्धानासङ्क्ष्यामीति क्किब् भवति, ""कर्तृ: क्यङ्सलोपेश्चे इति उपमानात्त्कर्तु: सुबन्तादाचारे क्यङिति क्यङ् । उपमानस्य कर्तृत्वं संनिघानादाचरणक्रियापेक्षं, लोपश्चेति चशब्दस्यान्वचयशिष्टत्वात् यत्रात्य: सकार: संभवति तस्य लोप:, स च व्यवस्थितविभाषया, ( होहायते अनुनासिकत्यप्रतिज्ञानं
क्कप्सिंनियोगेनेवेतीत्संज्ञाया अभावात् ""अकृत्सार्वधातुकयो: इति दीर्घ: । हेडृ वेषृनइति घटादौ । होडॄ गतावित्यग्रे परस्मैपदी ।। 272 ।।
वाडृ आप्लाव्ये ।। वशादि: । आप्लवनमाप्लव: । ( वाडते । अववाडतेत्यादि) ।। 283 ।।
द्राहृ ध्राडृ विशरणे ।। द्राडते । ध्राडतइत्यादि ।। 285 ।।
शाडृ श्लाघायाम् ।। शाडतइत्यादि । लडयोरैक्यात् शालतहति काश्यप: । अत एष मैत्रेये रूपशाली शालेत्युदाहृतं, ""लस्य इत्यत्र भाष्यकैयटयो: शालेति श्यतेर्लप्रत्यये व्युत्पादनीय: । ( शालीन:, अघृष्ट: ) ""शालीनकौपीने अघृष्टाकर्ययो: इति खञि निपातित: । गवां शाला, ( गोशालं, गोशाला ) । *विभाषा सेनासुराच्छायाशालानिशानाम्* इति सेनाद्यन्तस्य तत्पुरुषस्य वा नपुंसकत्वं, गोशले जात: । गोशाल: । ""तत्र जात: इत्यण्, ""स्थानान्तगोशालखरशालाच्च इति लुक् । लिङ्गविशिष्टपरिभाषया गोशालाशब्दादप्यणो लुग्भवति । एवं खरशाल: । वत्सशालायां जात:, वत्सशाल: । वात्सशालो वा । ""वत्सशालाभिजिदश्वयुक्शतभिषजो वा इति अणो वा लुक् ।। अट्टादय उदात्ता अनुदात्तेत: ।। 286 ।।
शौट्ट गर्वे ।। इतो गढ्यन्ता उदात्ता उदात्तेत: । ( शौटति । शशोट । शौटिता । शौटिष्यति । शौटतु । अशौटत् । आशिषि शौठ्यात् । अशौटीत् । अशौटिष्यत् । शुशोटिषति । शोशौठ्यते । शोशौट्टि ) । अभ्यासस्य हस्व: । गुण: । गुण: । ( शौटयति, अशुशौटत् । शौटीर: । ""कृशृपृकटिपटिशौटिभ्यईरन् इतीरन् ।। 287 ।।
यौट्ट बन्धे ।। यौटतीत्यादि ।। 288 ।।
म्रेट्ट म्लेडृ उन्मादे ।। द्वितीयस्तृतीयान्त: । तथा च ""तस्य परमास्त्रेडितम् इति दृश्यते, अत्र न्यासे आम्रेड्यते आधिक्येनोच्यइति, टान्तमध्ये पाठस्तु तदर्थसाम्यान्नाथतिवत् । ( म्रेटति । म्लेडतीत्यादि ) ।।290।।
कटे वर्षावरणयो: ।। अयमनेदिदेव । ( कटति चकाट कटित ) इत्यादि । ( अकटीत् )। ""अतो हलादे: इति वा वृद्धि: ""ह्मयन्तक्षणश्वसजागृहणिश्व्येदिताम् इति एदितां निषिध्यते । ( कट: ) । पचाद्यच् ।
( कटी ) । कटात्तु श्रोणिवचनइति ङीष् । निकटे वसति नैकटिक:, ""निकटे वसति इति सप्तम्यन्ताद्वसत्यर्थे ठक् । ( काटोङ्गनं, ) अधिकरणे संज्ञायां घञ् । ( कटीर: ) । जघनं कञ्चुकम् । कृशृहतृयादिना ङीरन् । कटिरं चर्म । असित्रादिनेरन् । कटित्रं र्च । अशित्रादिभ्य इतीत्र: ( कटकम् ) । ""क्कुन् शिल्पिसंज्ञयो: इति क्कुन् । ( कटु: ) बाहुलकादुप्रत्यय: । ( कद्वर: ) । ""छितृवरछतृरधीवरपीवरमीवरचीवरनीवरगह्वरकट्वरसयद्वरा इति वरचि निपात्यते । चटत्येकइति काश्यप: । चटतीत्यादि पूर्ववत् । ( चाटु: ) । ""सनिजनिचटिहिभ्य उण् इति उण् । ( चटु:) । बाहुलकादुकार: ।
( चटुल: ) । बाहुलकादुलच् । ( चटक: ) । ""कुन् शिल्पिसंज्ञयो: इति क्कुन् । ( चटका ) । अजादिपाठाट्टाप्,""प्रत्ययस्थात् इतीत्वाभावश्च । चटकाया अपत्यं, चाटकैर: । ""चटकाया ऐग् इत्यैरक् । [ चटकाच्चेति वक्तव्यात् ] चटकस्यापत्यमांप चाटकैर:, स्त्रियां त्वपत्ये [ स्त्रियामपत्येलुग्वक्तव्य:] इति ऐरको लुकि चटकेति भवति । भेदनार्थेयं चुरादौ ।। 291 ।।
अट पट गातौ ।। ( अटति । आट । अटिता । अटिष्यति । अटतु । आटत् । अटेत् ) । आशिषि
( अट्यात् मा भवानटीत् ) ""नेटि इति सिचि वृद्धभाव: । ( अटिटिषति । अटाट्यते )
[ सूचिसूत्रिमूत्र्यठ्यर्त्यशूर्णोतीनामुपसंख्यानम् ] इति यङ् अजादित्वात् ठ्यशब्दस्य द्विर्वचने ऽभ्यासस्ठ ""दीर्घोकित इति दीर्घं:। नन्वत्र यङेव कार्यी निमित्तं च, एकस्य कार्मिनिमित्तत्वे च विरुद्धे । नैतत् । आकारभेदात्, अनभ्यासाकारेण कार्यी यङकारेण निमित्तम् ,तथा हि । देवदत्तशालायां ब्राह्मण आनीयतमित्युक्ते यदि देवदत्तोपि ब्राह्मणश्च शालास्?थश्च भवति तदा सोप्यानीयते, यङ्लुकि ""सन्यङो: इत्यस्य षष्ठ्यन्तत्वात् यङ्पेक्षया पूर्वस्य कार्याभावात् ""नु लुमत इति प्रत्ययलक्षणस्य प्रतिषेधाभावाद्यडन्तत्वाद् अटशब्दस्य द्विर्वचने हलादिशेषे ""दीर्घोकित: इति दीर्धे सवर्णदीर्घे च तिप्ष्टुत्वे ( आट्टि ) इति भवति । ईट्पक्षे तु । ( आटीति । आट्ट: । अगटति । आटसि । आट्ट: । आटांचकारेत्यादि ) । आङ्ढीत्यत्र हेर्धिभावे ष्टुत्वे पूर्वस्य जश्त्वं डकार: । लङि इल्ङ्यादिना तिस्योर्लोपे ( आट् । अटतीत्या । ) अचि टाप् ।
तां करोति । ( अटायते )अटाट्येत्यादिना क्यङ्, कुजटाया अपत्यं, ( कौलटिनेय: । कौलटेय:) स्त्रीभ्यो ढकि ""कुजटाया वा इति पक्षे इनङोदशोऽन्तयस्य । यदायं कुलटाशब्द: क्षुद्रायां वर्त्तते क्षुद्रा दु:शीला अङ्गहीना वा तदा ""क्षुद्राभ्यो वा इति ढ्रकि कौलटेर इति भवति, तदभावे वाशब्देन ढकि कौलटेय: इति । अटाठ्या । [ परिचर्यापरिर्सामृगयाट्यानामुपसंख्यानम् ] इति गमनमात्रे शप्रत्यये यकि द्विर्वचनहलादिशेषाभ्यासदीर्घेषु निपात्ये । ( पटति । पपाट । पेटतु: । पेटिथ । पटिता अपटीत् । अपाटीरत् ) ""अतो हलोद: इतिवृद्धि: ।
( पिपटिषति । पापठ्यते, पापटीति । पापट्टीत्यादि । पाटयति । अपीपटत् । पाद्वपट: ) ण्यन्तात्पचा़चि
[ पाटेर्णिलुक् चोक् चाभ्यासस्य ] इति णिलुक्, द्विर्वचमभ्यासस्योगाम उपधादीर्घश्च, ऊको दोर्धोच्चारणसामर्थ्यात् हस्वस्याभाव: अस्यागमत्वसामर्थ्याच्च इलादिशेष: । अन्यथादेशमेव विद्ध्यादुकारम् । ""अभ्यासस्यानचि इति वा इलादिशेषहस्वयोरभाव:, अभ्यासस्य यदुक्तं तदचि नेति ""णेरनिटि इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणे वृद्धेरभावार्थं, पाठ्यका सुराविशेष: । पाठ्यकालावदातसुरायामिति स्थूलादिपाठात् ण्यन्तादस्मात् क्कुन् । पटु: ""कलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च इत्युप्रत्यये यथासंख्यात्पटादेश:, अत्र गुगेक आगम:, अन्ये आदेशा:, पटोर्भावकर्मणी । पटिमा । ""पृथ्वादिभ्य इमनिज्वा इतीमनिच्, ""टे: इति टिलोप: । तदभावे ""इगन्ताच्च लघुपूर्वात् इत्यणि पाटवम् । गोष्ठेपटु: । ""पात्रेसमितादयश्च इति क्षेपे
सप्तमीतत्पुरुष: तत्रैव पाठादलुक्, गोष्ठ एवपटुर्न सदसीति क्षेपावगति: । ( पटाका )। ""शलिपटिपदिभ्यो निदित्याकिन्निच्च । ( पटलम् ) । ""वृषादिभ्यश्चित् इति कलप्रतृयय: चिच्च । पटलिका, संज्ञायां कन् ।
( पटीर: ) । कृदृइत्यादिनेरन् । ( पाटलम् ) । ण्यन्तात्कलप्रत्ययो बाहुलकात् । ( पाली )। ""जातेरस्त्रीषयादयोपधात् इति ङीष् । पाटल्या: पुष्पाणि, पाटलानि । "बिल्वादिभृयोण् इति विकारावयवयोरण् , तस्य ""पुष्फलमूलेषु बहुलम् इति लुप् तत्रैव बहुलहणान्न भवति, लुपि हि कौशीतक्या: फलानीत्यादिवत् ""लुपि युक्तवद्व्यक्तिवचने इति युकृतवद्भाव: स्यात् ।। 293 ।।
रट परिभाषाणे ।। रटतीत्यादि । ( परिराटी ) । ""संपृचानुरुधाङ्यमाङ्यसपरिसूसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहयुजाक्रीडविवचत्यजरजभजातिचरापचरामुषाभ्याहनश्च इति परिपूर्वादस्मात्ताच्छीलिकको घिनुण् । ( परिररटक: ) । ""निन्दहिंसा इत्यादिना वुन् ताच्छीलिक: ।। 294 ।।
लट बाल्ये ।। लटतीत्यादि । लट्वा । ""अशुश्रंशुपुटिलिटिकाणिखटिपिशिभ्य: क्कन् इति क्कन् । लाटयतीति लाट: । ण्यन्तादच् । केवलाद्वासंज्ञायां घञ् ।। 295 ।।
शट रुजाविशरणगत्यवसादनेषु ।। ( शटतीत्यादि । शाटक: । घञन्तात्संज्ञयां कन् । ( शाटी । जातिलक्षणो ङीष् ।। 296 ।।
वट वेष्टने ।। ( वटति । वबाट । ववटतु: ) वादित्त्वादेत्त्वाभ्यासलोपाभाव: । ( वटि: ) । ""इन् इतीन्प्रत्यय: । ( वटिभ: ) ""तुन्दवलिवटेर्भ: इति मत्वर्थे भ: । ( वटक: ) । ""संज्ञयां कन् वटका अन्नमस्यां पौर्णंमास्यां वटकिनी पौर्णमासी । ""तदस्मिन्नन्नं प्राये संज्ञायाम् इन्यत्र [ वटकेभ्य इनिर्वकृतव्य: ] इतीन् । घटावयं परिभाषणार्थ: । पट वट ग्रन्थइति कथादौ । वटवेष्टनइति क्षीरस्वामी । यस्तु तत्र विभाजनार्थ: तं वटीति शाकटायनादय: पठन्?ित । वटी विभाजनइति इर्हवाग्रे चुरादौ चानदन्तेषु ।। 297 ।।
किट खिट त्रासे । ( केटति । चिकेट । केटिता । त्रिकिटिषति । चिकेटिषति । किटित्वाकेटित्वे त्यादि । एवं खेटतीत्यादि । ( खेट:) । ""हलश्च इति संज्ञयां घञ् इह त्रासो भयोत्पादन्म् । किटिर्गत्यर्थोग्रे भविष्यति । इहैके न पठन्ति । मैत्रेयादीनार्मिाभेदात् पुन: पाठ इत्यभिप्राय: ।। 299 ।।
शिट षिट अनादरे ।। आद्यस्तालव्यादि:, अपरो मूर्द्धन्यादि: । ( शेटति ) । सेटतीत्यादि किटिवत् ।
( सिसेटिषति ) इत्यत्र ""स्वौतिण्योरेव इति नियमान्न षत्वं, षोपदेशफलं तु ( सेषिट्यते । असीषिटत् ) इत्यादौ ।। 301 ।।
जट ज्ञट सङ्घाते ।। ( जटति । जजाट । जेटतु: । जटिता । जटा । ) अजादित्वाट्टाप् । निन्दिता जटा अस्य जटाले जटिल: । जटाघटाकला: क्षेपइति सिध्मादौ पिच्छादौ च पाठाल्लजिलचौ ।
जटीति? ? भाष्यकारप्रयोगाद् अनदन्तत्वेपीनि: ( ज्ञटति । जज्ञामट । जज्ञटतु: । ज्ञटितेत्यादि ।। 303 ।।
भट भृतौ ।। ( भटति ) । भटत्रिं शूलेन संस्कृतं मांसमिति निघण्?टु: । वेतनमित्युणादिवृत्तौ । अशित्रादिभ्या इतीत्र: । अयं घटादि: परिभाषणार्थ: ।। 304 ।।
तट डच्छ्राये ।। ( तटति ) । तटोस्या अस्तीति तटिनी । ""अत इनिठनौ इति मत्वर्थे इनि: । (तठी)
। गौरादिपाठान् ङीष् । तड आघातइति डकारान्तश्रूरादौ ।। 305 ।।
खट काङ्क्षायाम् ।। ( खटति । खट्वा ) । अशुपृषीत्यादिना क्कुन् । खट्वारूढो जाल्म: ""खट्वा क्षेप इति क्षेपे गम्यमाने द्वितीयान्तस्य खट्वाशब्दस्य क्तान्तेन तत्पुरुष: ।। 305 ।।
खट काङ्क्षायाम् ।। ( खटति । खट्वा ) । अशुषृषीत्यादिना क्कुन् । खट्वारूढो जाल्म: ""खट्वा क्षेप इति क्षेपे गम्यमाने द्वितीयान्तस्य खट्वाशब्दस्य क्तान्तेन तत्पुरुष: ।। 306 ।। णट नृतौ ।। अत्र पुरुषकारे णट नृत्तावित्यपि क्षीरस्वामा, इत्युभयथापि नर्तनमेवार्थ इति, क्षयं णोपदेश: । नृतिनन्दीति णोपदेशपर्युदासवाक्ये नाटीति सवृद्धिकस्य ग्रहणादस्य घटादितृवान्मित्त्वात् नाटिरूपाभावादग्रहणम् । यदाह हरदतृत: । ""जासिनिप्रहण इत्यत्र नट नृताइत्यस्य घटादिप?ठितस्याग्रहणं, विकृतनिर्देशादिति, अत एव णोपदेशपर्युदासविवरणेपि न्यासपदमञ्जरीपुरुषकारादिभिरवस्यन्दनार्थस्य चौरादिकस्य ग्रहणं कृतम् । ननु क्षीरस्वामी घटादौ नट नृताविति पठित्वा नटयति शाखा इत्युदाहृत्य नृत्तौ नाटयतीति वक्ष्यति, अवश्यं हरदत्तादिभिरप्युभत्र पाठसामर्थ्यादस्य नाटयतीत्यङ्गीकार्यं, तत्कथमुक्तं विकृतनिर्देशादिति । उच्यते । द्वयोर्ग्रहणे नटीत्येव निर्दिशेत् न नाटीति विकृतं, तत्सामर्थ्यात् यस्य नाटीत्येव रूपं तस्यैव पर्युदासो विज्ञास्यते न तु स्य नटिरूपं नाटिरूपं च । ननु योऽस्ति घटादिधातुर्नित्यं नटिरूपमापन्न: स एव विकृतनिर्देशेन व्यावर्त्त्यते, मैवम् । ये ऽष्यत्र पठिता घटादौ पठ्यन्ते न ते पृथग् धातव:, किन्तु मित्त्वार्थमेव तेषामनुवाद इति तत्र स्थितत्वात् । इह नृत्तिर्नर्त्तनं, यत्कारिषु नटव्यपदेश: । न तु मार्गदेशीब्दाभ्यां प्रसिद्धं नृत्तं नृत्यं च, यत्कारिषु नर्त्तकव्यंपदेश: । तत्र वाक्यार्थाभिनयो नाठयं, पदार्थाभिनयस्तु नृत्यम् । अभिनयशून्य: पुन: शास्त्रो क्ताङ्गभङ्ग: स्वगात्रविक्षेपो नृत्त इति तद्विद:, नैघण्टुकानां तु ताण्डवं नटनं नाट्य लास्यं नूत्यं च नर्त्तनमिति अभेदव्यवहारो निरूढलक्षणया नेय: । ( प्रणटतीत्यादि । नटी ) । गौरादित्वान् ङीष् ।। 307 ।।
पिट शब्दंसङ्घातयो: ।। ( पेटति । पिपेट । पे?टितेत्यादि । पिपिटिषति । पिपेटिषति पिटित्वा । पेटित्वा । पेटयति । अपीपिठत् । पिटकम् ) ""क्कुन् शिल्पिसंज्ञयो: इति क्कुन् । ( पिटाक: ) । पिटाकादयश्चेत्याक: ।। 308 ।।
हट दीप्तौ । ( हटति । जहाट । हटिता । अहटीत् । अहाटीदित्यादि। हाटकम् ) । ""संज्ञायां च इति ण्वुल्, बाहुलकादयस्त्रियामपि हाटशब्दात् कन्वा ।। 309 ।।
षट अवयवे । ( सेटति । ससाट । सेटतु: । सटिता । सिसटिषति ) ""स्तौतिण्योरेवइत्यषत्वम् ।
( साटयति । असीषटत् । सटा ) । अजन्ताट्टाप् ।। 310 ।।
लुट विलोडने ।। एतदादय: पाठत्यन्ताष्टवर्गतृतीयान्ता इति कौशिककाश्पनिन्द्द्रविडा: । ते चास्मादनन्तरे पिटहटी च पेठु: । ?( लोटति । लुलोट । लोटितरा । लुलुटिषति । लुलोटिषति । लुटित्वा । लोटित्वा । लोटित्वा । लोटयति । अलृलुटत् । अलुलोटत् ) । काण्यादित्वादुषधाहस्वविकल्प: । लृसूत्रे सुधाकर:, लुक विलोडन इति लान्तोपि इदृश्यते । लोलद्भुजाकारबृहत्तरङ्गमिति माघ: । डलयोरेकत्वस्मरणमिति वा प्रतिविधेयमिति । अयं दिवादावपि । भाषार्थश्चुरादौ । प्रतिघाते द्युतादौ इति । स्तेयार्थ: परस्मैपदिषु । लुठति: चुरादौ ।। 311 ।।
च्टिं परप्रेष्ये ।। ( चेटतीत्यादि ) । पूर्ववत् । काण्यादित्वाभावो विशेष: । ( चेटी ) । इनन्तात् ""सर्वतोक्तिन्नर्थादित्येके इति ङीष् ।। 312 ।।
विट शब्दे ।। ( वेटतीत्यादि । विट: ) । इगुपधलक्षण: क: । ( विटप: ) विटपविष्ठपविशिपोलपा इति
निपातित: ।। 313 ।।
बिट आक्रोशे ।। बशादि: । बेटतीत्यादि । हिठेत्यत्र केचित्पठन्ति, हेठतीत्यादि ।। 314 ।।
इट किट गतौ ।। अत्र मैत्रय: । कटीति हस्वान्तं पठन्तीति चतुर्थं धातुमुक्त्वा मतान्तरेण दीर्घान्तं पठत् ई इति चतुर्थं दीर्घमुक्त्वा फलं च व्यपदेशिवद्भावेन गुरुमत्त्वे इजादित्वात् अयांचारेत्याम्सिद्धिमाह । क्षीरस्वामी तु त्रयो धातव: । तृतीय ईदिदित्यङ्गीकृत्य कटित्वा कट्वा, कट्टवानित्युदाहृत्य अन्ये कटीति धात्वन्तरं प्रश्लिष्टमाहुरिति चोक्त्वा कण्टति । कण्टक: । "उदयति दिननाथे याति शीतांशुस्तम्'इति चोदाजहारा । सम्मतातरङ्गियो स्तु कटि इति चत्वारो धातव इति व्याख्यायि । धनपालशाटायनौ त्रीनेव धातूनाहतु: । अयं पक्ष: समर्थित: पुरुषकारेण । यदाह, इईइति हस्व: दीर्घो धातु: प्रस्तुत्य अन्ये पुनरुभावपि न पठन्ति । व्यक्तं चैतत् धनपालशाकटायनवृत्त्यो: । अपि च शौट्ट गर्वइत्यादिकान् कांश्चन धातून्पठित्वा अन्ते चोदात्ता इत्युच्यन्ते तच्चास्मिन्प्रकरणे ऽयते?रपि पाठे सति तस्य अनिट्स्वरान्तो भवतीति दृश्यतामित्यनुदात्तत्वात् प्राचुर्याभिप्रायेण कथं चिन्नेयं स्यात्, यथाह मैत्रेयरक्षित: । उदात्तत्वमयतिवर्जं भट्टग्रामन्यायेनोदात्ता इत्युच्यन्ते इति, स चायं न्याय: सुनिश्रित एवायते: पाठे शोभते, विप्रतिपन्ने पुनरुदात्तत्वोक्त्याञ्जस्यवशादपपाठ एव ज्यायान् । उदयतीत्यादि चैमसाध्वेवास्त्विति हरदत्तस्याभिप्रायोयमेव पक्षोऽभिमत: । यदाह ""उपसर्गस्यायतौ इत्यत्रायतिरनुदात्तेत्कथं तर्हि उदयति विततोर्ध्वरश्मिरज्जाविति परस्मैपदं, किमनेन वन्यगजशौचेन, यदि वा पचाद्यजन्तादुदयशब्दादाचारक्किपि लट् । के चित् तु इटकिटकटीत्यत्र इकारमपि धातुं पठन्तीति । वृत्तिकारोपि प्रायेणात्रैवानुकूल: । यदाह ""एतिस्तुशासु इत्यत्र क्यपि इत्य इत्यूदाहृत्य कथमुपेयमिति, ईत्यस्यैतद्रपूमिति । यदि हीमौ स्यातां प्राथम्यादनयोरेकुमपाददीत । अथोदाहरणानि । ( एटति । इयेट । ईटतु: । इयेटिथ ) । पिद्वचनेषु ""द्विर्वचनेचि इति गुणस्य स्थानिवत्त्वादिशब्दस्य द्विरुक्तौ हलादिशेषे ""अभ्यासस्यासवर्णे इति इयङ् । नन्वेवं गुणस्य स्थानिवत्त्वादवश्यं स पुन: प्रवर्त्तयितव्य:, तस्यां च दशायां गुणादन्तरङ्गत्वात् सवर्णदीर्धेण भाव्यम् । न चास्ति वार्णादाङ्गं बलीय इति, यत इदमाङ्गचार्णयो: समाननिमित्तत्वे प्रवर्त्तते । न च कार्यो निमित्तत्वेनाश्रीयते, सत्यम् इदानीमेवाग्रे परिहरिष्यते ( एटितेत्यादि । एटिटिषति । एटयति । मा भवानिटिटत् ) । णिलोपस्य ""द्विर्वचनेचि इति स्थानिवत्त्वाट्टिशब्दस्य द्विर्वचनम् । अत: पूर्वमेवोपधाहस्व इत्युक्तम् । ( केटति । चिकेट । केटिता । चिकेटिषति । किटित्वा । केटित्वेत्यादि ) । ( किटि: ) । हगुपधादितील् कित्त्वान्न गुण: ।
( कण्टति । चकण्ट । कण्टिता । कण्टक: ) । इइति चतुर्थथातुवादिनाम्, ( अयति । इयाय । इयतु: । इयु: । इययिथ । इयेथ ) । भारद्वाजनियमादिकल्प: । ( इयय । इयाय । इयिम । ) पिद्वचनेषु । गुणवृद्धयो: ""द्विर्वंचनेचि इति स्थानिवत्त्वाद् इकारस्य द्विर्वचने ""अभ्यासस्यासवर्णे इतीयङ् । अन्यत्र पूर्ववदियङ् । स्थानिवद्भावादिशब्दस्य द्विरुक्तौ पुनरियड: प्रवर्त्तनायां तं बाधित्वा ""एरनेकाच: इति प्राप्तं यणमन्तरङ्गत्वाद्वाधित्वा सर्वर्णदीर्घ: । पुनरियङादेश: । यदापि सवर्णदीर्घस्य यणश्चेकार आश्रयो भवति स्थानित्वेनेति समानाश्रयणे वार्णादाङ्गं बलीय इति दीर्घं बाधित्वा यण् प्रवर्त्तते ततोपीदमेव रूपम् । अत्र पक्षे इत्ययिथेत्यत्रापि न दोष: । यतस्तत्रापि समानस्थानित्त्वे चास्ति समानाश्रयणत्वं दीर्घंगुणयो: । एवमपि न सिद्धयति, यदत्र द्विर्वचनकाले ऽपहृतो गुण: पुन: प्रवर्त्तते, ततश्चानादिष्टादच: पूर्व्वत्वेनाभ्यासो दृष्ट इति तस्य ""अभ्यासस्यासवर्णे इति इयङि कर्त्तव्ये गुणस्य स्थानिवत्त्वाद् असवर्ण इति प्रतिषेध: स्यात्, एवं तर्हि अत एवासवर्णग्रहणसामर्थ्यात् स्थानिवत्त्वं न भविष्यति । नन्वयमस्ति वचनस्यावकाशोऽर्त्तेर्लिटि द्विर्ववचने ""अर्त्तिपिपत्तर्योश्च इति अभ्यासेत्वे इयर्त्ति इयृत इत्यादि । नैतत् । न ह्मेकमुदाहरणं योगारम्भं प्रयोजयति । इयति प्रयोजने अभ्यासस्यार्त्तावित्येव ब्रूयात् । उवोणादि तु न प्रयोजनं तस्य छान्दसत्वे तन्वादीनां छन्दस्युपसङ्खयानमिति सुवर्गादिवदुवड: सिद्धत्वात् भाषायामामा भाव्यम् । ( एता । एष्यति ) । स्वरान्तत्वानिट्त्वम् । ( अयतु । आयत् । अयेत् ) । आशिषि ( ईयात् ) । ""अकृत्सार्वधातुकयो: इति दीर्घ: । ऐषीत् । मा भवानेषीत् । ऐष्यत् । कर्म्मणि ईयत इत्यादि । स्यादौ चिण्वदिटि वृद्धौ आयिष्यतेत्यादि ।
( ईषिषति ) । ""अज्ज्ञनगमां सनिइति दीर्घ: । ""इको ज्ञल् इति सन: कित्त्वान्न गुण: । आययति । मा भवानयियत् । णौ चङि वृद्धयाययो: ""णौ चङि इति हस्वे णितलोपे तस्य स्थानिवत्त्वेन यिशद्वस्य द्विर्वचनम् । ( इत: । इतवान् )। प्रेत्य । ल्यपि ""षत्वतुकोरसिद्ध: इति एकादेशस्यासिद्धत्वाद् हस्वनिबन्धनस्तुक् ।
किटेति मैत्रेयमतेन त्रासे गत: । कटिश्च वर्षावरणयो: ।। 217 ।।
मडि भूषायाम् ।। ( मडिति । ममण्ड । मण्डितेत्यादि ) मण्डते कन्या स्वयमेव । अमण्डिष्ट कन्या स्वयमेव । भूषाकर्मत्वाद्यक्चिणोर्निषेध: । (?B मिमण्डिषित । मामण्डयते । अमामन् । मण्डयति । अममण्डत् । मण्डन: ) । ""क्रुधमण्डार्थेभ्यश्च इति युच् । मण्ड इति विभागे गत: ।। 318 ।।
कुडि वैकल्ये ।। कुण्डतीत्यादि । कुण्डत इति दाहे गतम् । अत्र स्वामी । कुटीति कौशिकदुर्गाविति,
शाकटायन: पुन: प्रकरणानुरोधेन डान्तमेवाध्यगीष्ट ।। 319 ।।
मुट प्रमर्दने ।। ( मोटति । मुमोट । मोटिता । मुमुटिषति । मुमोटिषति । मुटित्वा । मोटित्वा ) । ""रलो व्युपधात् इति कित्त्वविकल्प: । मुडेतिधनपाल: । पुडिति पकारादिडान्त इति शकाटायन: । क्षीरस्वामी तु द्वावपीदितौ पपाठ । मैत्रेयस्त्वमुं टान्तमेव पठित्वा मुडि खण्डन इति चाग्रे पठित्वा पुडि चेत्येकइत्याह । मुट प्रमर्दनाक्षेपयोरिति तुदादौ । मुड संचूर्णनइति चुरादौ ।। 320 ।।
चुडि अल्पीभावे ।। चुण्डतीत्यादि । चुटेति दुर्ग: । चुटच्छेदनइति तुदादौ । चुटच्युटीद्वावपि चुरादौ
।। 321 ।।
मुडि ख्?ाण्डने ।। मुण्डतीत्यादि । मुण्ड: तं करोतीति ( मुण्डयति । ) ""मुण्डमिश्रश्लक्ष्णलवण्व्रतवस्त्रहलकृतस्तूस्तेभ्यो णिच् इति करोत्यर्थे णिचि णाविष्ठवदिति टिलोप: ।
( यवनमुण्ड: । काम्बोजमुण्ड: ) । मयूरव्यंसकादित्वादिशेषणस्य परिनपात: अत्र मैत्रेय: । पुडि चेत्येके ।
( पुण्डति । पुण्ड: । पण्डरीकमिति) । डकारवत् पवर्गादिप्रकारणादिहायं निर्दिष्यते, मुडि भूषायामित्युकारवन्न्? भवति इति डकारान्तोप्यकारवत्त्वादादौ निर्दिष्ट इति मैत्रेय: । अत्र शुठि खण्डनप्रमर्हनयोरिति क्कचिद्धातुकोशे पठ्यते । मैत्रेयादयस्यतु न पठन्ति । तत्राद्यपाठ एव ज्यायान्यदिहैवाग्रे शुठि शोषणइति भविष्यति, अस्मिन् हि सति तस्य रूपाभेदाद् शोषाणग्रहणमपीहैव कर्त्तव्यं स्यात् ।। 322 ।।
रूठि लुठि स्तेये ।। ( रुण्ठति । लुण्ठतीत्यादि ) । रूठिलुठीत्येकइति क्षीरस्वामी । शाकटायनस्तृतीयान्तौ पपाठ । लोठतीति विलोडने गतम् । लुठ प्रतिघातइति युजादौ । रुठ रोषणइति चुरादौ । तत्र रुठेत्येके ।। 324 ।।
स्फुटिर्विशरणे ।। अयं पाठो मैत्रेया दीनाम्( 1 )। ( 1 ) देवेत्यधिकं क्कचित् पु0 ।
( स्फोठति । पुस्फोठ । स्फोटिता । पुस्फुठिषति । पुस्फोठिषति । स्फुठित्वा । स्फोठित्वा ) इत्यादि । इकाररेफयो: ""उपदेशेजनुनासिक इत्"" ""हलन्त्यम् इतीत्त्वं, तेन लुङि ""इरितो वा इति परस्मैपदे विधीयमानो ऽङ्विकल्पो भवति । ( अस्फुटत् । अस्फोटीदिति । ) ""इदितो नुम् धातो: इति नुम् अन्तेदितो विधानादस्य न भवति । स्फुटेति चन्द्र: । अस्याङ् नास्ति । स्वामिकाश्पौ तु स्फट स्फुठि स्फटिरिति त्रीन् धातून् पठत: । ( स्फण्ठति । स्फोटतीत्यादि स्फुटा ) । अच् टाप् । स्फुट विकाश्नाहतृयात्मनेपदिषु टान्त:
।। 325 ।।
पठ व्यक्तायां वाचि ।। (पठति । पपाठ । पेठतु: । पठिता । अपाठीत् । अपाठीत् ) पाठयति श्लोकं पुत्रमित्यादि ।। 326 ।।
वठ स्थौल्ये ।। ( वठति । ववाठ । वठितेत्यादि ) । वादित्वान्नैत्वाभ्यासलोपौ । वठि एकचर्यायामात्नेपदी गत: ।। 327 ।।
मठ कठ मद?निवासयो: ।। अयं पाठो मैत्रेयज्ञस्य । अन्येषां मठ मदनिवासयो: । कठ कृच्छ्रजीवनइति
। ( मठति । कठति ) । इत्यादि । ( कठ: ) । अच् । अच् । कठेन प्रोक्तं च्छन्द: ""कला पिवै श्म्पायनान्तेवासिभ्श्च इति वैशम्पायनान्तवासित्वाण्णिनि: । तस्य ""कठचरकाल्लुक् इति लुक् । ""दन्दोब्राह्मणानि च तद्विषयाणि इति नियमात् तदधीते तथैवं इति अध्येतृवेदितृप्रत्ययान्त एव प्रयोगार्ह: । तस्य चाण: ""प्रोक्ताद् लुक् इति लुक् । तदव कठेन प्रोक्तं छन्दोधीयमानोपि ( कठ: । कठिनम् । ) औणादिक इन् । वंशक?ठिने व्यवहरति ( वांशकठिनिक: । ""कठिनान्तप्रस्तारसंथानेषु व्यवहारति इति कठिनान्तादिभ्य: सप्तम्यन्तेभ्यो व्यवहरीतष्यर्थे ठगिति ठक् । ( कठोरम् ) । कठिचकिभ्यामोरजित्यारेच् ।
अनन्?तरं मठ गताविति क्कचित्पठयते । मैत्रेयादयस्तु न पठन्ति ।। 329 ।।
रठ परिभाषणे ।। रठतीत्यादि ।। 330 ।।
हठ प्लुतिशठत्वयो: ।। ( हठति । जहाठेतयादि ) । हठ बलात्कार इति चन्द्रदुर्गौ ।। 331 ।।
रुठ लुठ उठ उपघाते ।। ( रोठति । । लोठतीत्यादि ) अत्र मैत्रेय: । उठेत्यप्येकइति । धनपालशाकटायनौ तु रुठलुठेत्येव पेठतु: । क्षीरस्वामी तु उठिं पठित्वा रुठ लुठ इत्यपि दौर्गा इत्याह ।
( उठति । उवोठ । ऊठतु: ) । ओठितेत्यादि । पठतिवत्प्रक्रिया । लुठ: काण्यादित्वात् आलूलुढत् । अलुलोठदिति भवति अयं श्लेषणे तुदादि: । लुठि आलेख्ये प्रतिघाते च । रुठि लुठि गतावित्यग्रे इदितौ । लुठ श्लेषणइति तुदादौ । असौ डान्त इत्येकइति मैत्रेय: । तथा च स्वामी लुठतीति लक्ष्दर्शनात् तुदादौ पाठ इति । लुठ प्रतिघात इति द्युतादौ ।। 334 ।।
पिठ हिंसासंक्लेशनयो: ।। पेठतित्यादि । ( पीठम् ) । घञ् । ""अन्येषामपि दृश्यतेइति दीर्ध: ।
( पीठी ) । इञन्तात् ""कृदिकारादक्तिन: इति ङीष् ।। 335 ।।
शठ कैतवे च ।। चकारार्द्धि सासंक्लेशनयोश्च । शठति इत्यादि । स्वाम्यादय: पुनश्चकारं नैव पेठु: । गत्यसंस्कारकारयोरयं चरादौ । तत्रैव श्लाघायामत्मनेपदिषु, सम्ययगवभा षणे कठादौ ।। 336 ।।
शुठ गतिप्रतिघाते ।। प्रतिघात इत्येव धनपाल: । तथा च कुठि इत्युत्तरधातौ प्रतिइतिमात्रं प्रतीयते इत्यर्थ इति स एवाह । शोठतीत्यादि । शुठीति क्षीरस्वामी । आलापइति चुरादौ । शुठि शोषणइत्यत्रैवाग्रे
।। 337 ।।
कुठि च ।। ( कुण्ठतीत्यादि । कुण्ठ: ) ।। 338 ।।
लुठ आलस्ये प्रतिघाते च ।। ( लुण्ठतीत्यादि ) । लोठतीत्युपघाते गतम् ।। 339 ।।
शुठि शोषणे । ( शुण्ठति । शुण्ठ: । शुण्ठी ) । शोठतीति गतिप्रतिघाते गत: ।। 340 ।।
रुठि लुठि गतौ ।। अर्थभेदात्पुन: पाठो लुण्ठेरित्याहु: । रुण्ठति । लुण्ठन्तीत्यादि ) ।। 342 ।।
चुडु भावकरुणे ।। भावकरणमभिप्रायसूचनम् । ( चुड्डति । चुचुड्ड । चुड्डितेत्यादि । चुचुड्डिषति
। चोचुडयते । अचोचुत् ) ।। 343 ।।
अड्ड अभियोगे ।। बयमपि दोपघ इति क्किप्यदिति भवति । ( अङ्डति । आनडड । अड्डिता। ?अड्डिडिषति) ""न न्द्रा: इति दकारवर्ज्जस्य द्विर्वचनम् । ( अङ्डयति । आड्डिडत् ) ।। 344 ।।
कड्ड कार्कश्ये ।। कड्डतीत्यादि अस्यापि दोपधात्व्राघङ्लुक्रि किपि च । ( अचीकत् कद ) इति च भवति । कच्च तत् जलं च ( कज्जलम् ) ।। 345 ।।
क्रीडृ विहारे ।। ( क्रीडति । चिक्रीड । क्रीडिता । चिकीडिषति । चेक्रीड्यते । चेक्रीट्टि । अचेक्रीट्
। आक्रीडते ) ""क्रीडोऽनुसंपरिभ्यश्च इति अन्वादिपूर्व्वाच्चकारादाङ् पूर्वात्तड्, एवमुनक्रीडतइत्याद्युदाहर्यम् । समासहचर्यादनोरुपसर्गस्य ग्रहणं, तेन ""तृतीयार्थे इति यदानो: कर्मप्रवचनीयत्वं तदा न भवतीति
( माणवकमनुक्रीडतीति ) माणवकेन सह क्रीडतीर्त्य:। ""कर्मप्रवचनीययुक्ते द्वितीया इति माणवकाद् द्वितीया । संक्रीडन्ति शकटानीत्यत्र ।
[ समोकृजन इति वक्तव्यम् ] इति उक्तत्वान्न तङ् । कूजन्ति शकठानीति ह्मस्यार्थ: । ( आक्रीडी ) ।
""संपृचे इत्यादिना घिनुण् । चिक्रीड: । ""कृञादीनां के द्व भवत: इति कप्रत्यये द्विवर्चनम् ।। 346 ।।
तुडृतोडने ।। तोडनं दारणं र्हिसनं चेत्युक्तम् । ( तोडति । तुतोड । तोडितेत्यादि )। तुड इति स्वामिशाकटायनौ, तुडतइत्यात्मनेपदी गत: ।। 347 ।।
हूहृ हुहृ होडृ गतौ ।। ( हूडति । जुहूड । हुडिता । हूडयति । अजुहूडत् । होडति । जुडोड । हीडिता । होडयति । अजुहोडदित्यादि ) हुहृ हूडृ गताविति घनपालशाकटायनौ । होडतइत्यनादरे गत:
।। 350 ।।
काडृ अनादरे ।। काडतीत्यादि ।। 351 ।।
रोडृ लोडृ उन्मादे ।। ( रोडति । लोडतीत्यादि ) ।। 353 ।।
अड उद्यमे ।। ( अडति । अडो ) वृश्चिकांगलं तेन तैक्ष्ण्यं लक्ष्यते । विशिष्टो ऽडस्तैण्यमस्य व्यड:, तस्यापत्यं व्याडि: । ""अत इञ् ""स्वागतादीनां च इति वृद्धिप्रतिषेधैजागमयोर्निषेध: ।। 354 ।।
लड विलासे ।। लडतीत्यादि । जिहोन्मथने घटादौ । अनन्तरे लल ईप्सायामिति । क्वचित्पठ्यते । तत् क्षीरस्वामिपुरुषकारादयो नानुमन्यते, यत् रलयोईलयोश्चैकत्व स्मरणात् ललयति ललनेतृयाहु: । लड उपसेवायामिति चुरादौ ।। 355 ।।
कड मदे ।। कडतीत्यादि । क्षीरस्वामी तु कडीति पठित्वा कडेति दुर्गा इत्याह । अयं तुदादौ च उभयत्र पाठफलं तत्रैव वक्ष्यते । कण्डतइति गत: ।। 356 ।।
गडि वदनैकदेशे ।। आगण्डतीत्यादि । अत्र वक्तव्यं दन्त्यादिष्वमुं पठित्वोक्तम् । शौटादय उदात्ता उदात्तेत: तवर्गान्ता: ।। 357 ।।
केचनैधत्यादयो गता: । केचन द्युतादौ वक्ष्न्ते । इति क्रमप्राप्तानात्मनात्मनेयदिन: पवर्गान्तानाह ।।
तिपृ तेपृ ष्टिपृ ष्ठेपृ क्षरणार्था: ।। एतदायस्तोभत्यन्ता उदात्ता अनुदोत्तत: । तपिं तिपिंचापीत्यनिट्कारिकासु पाठात्. तिषिरेकोऽनुदात्त: ऋदित्पवर्गान्तात्मनेपदित्वसाम्याच्चेह पाठ: । क्षीरस्वामिना त्वयं सेडुदाहृत:, तत्काश्यपवृत्तिन्यासपदमञ्जर्यादिविरोधात् तपिं तिपिसिति व्याघ्रभूतिवचनविरोधात् चोपेक्ष्यम् । ( तेपते । तितेपे । तितपिषे । तितपिवहे ) । क्रादिनियमादिट् । ( तेप्ता । तप्त्स्ये । तेपताम् । अतेपत । तेपेत । आशिषि । तिप्सीष्ट । अतिप्त । अतप्साताम् ) ज्ञलि सिज्लोप: *लिङ्सिचावात्मनेपदेषु* इति इक्समीपा द्धल: परयोर्ज्ञलाद्योर्लिङसिचो: कित्त्वान्न गुण: । आत्मनेपदेष्वितिसिच एव विशेषणं नलिड:, परत्वासम्भवात् परस्मैपदिषु ज्ञलादित्वासंभवाच्च ( तितिप्सते ) । *हलन्ताच्च* इति इक्समीपाद्धलादे: सन: कित्त्वाणौ चङि हस्वाभाव: । ( तेपते । तितेपे । तेपिता । तेपिष्यते । तेपताम् । अतेपत । तेपेत । तेषिषीष्ट । अतीपिष्ट । तितेपिषते, तेतिप्यते । तेतेपीत । त्तेतेप्ति । स्तेपते । तिष्टिपे । तिष्टिपाते ) । ""अभ्यासे खय: शेष:, स्तेपितेत्यादि । तेपिवत् । ( तिस्तेपिषते । तिस्तिपिषते, स्तिपित्वा, स्तेपित्वा ) । ""स्तौतिरण्योरेव इत्यषत्वम् । ""रलो व्युपधात् इति वा कित्त्वम् । ( तेष्टिष्यते । तेष्टिपीति । तेष्टेप्ति । ष्ठिस: ) । तिपिवत् ष्टपि: । अभ्यासे खय: शेषे विशेष:। दिपृ ?देपृ इति च काश्यप: ।। 361 ।।
तेपृ कम्पने च ।। 362 ।।
ग्लेपृदैन्ये ।। ग्लेपत इत्यादि ।। 363 ।।
टुवेपृ कम्पने ।। ( वेते । वेपथु: ) ""ट्वितो ऽथुच इत्यथुच् । विपिनम् । ""वेपितुह्मोर्हस्वश्चइतीनचि हस्व: ।। 364 ।।
केपृ गेपृ ग्लेपृ च ।। चकारात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्नइत्यपेक्षतइत्याह । वेपतिना सहैषामपाठोऽप्रतिसद्धत्वज्ञापनायेति तस्याभिप्राय: । ग्लेपेरर्थभेदात्पुन: पाठ: । केपतइत्यादि। केपादीनां वेपतेश्चनार्थत्वात् ""निगरणचलना इति णौ परस्मैपदमेव । एषामनुदात्तेत्वात् ""वलनशब्दार्थादकर्मकाद्युव् इति युचि वेपन इत्युदाहार्यम् ।। 367 ।।
मेपृ रेपृ लेपृ गतौ ।। अयं पाठ: स्वामिन: । मैत्रेयस्तु मेपृ लेपृ सेवने, रेपृ प्लवगतावित्याह । मेषते, रेपते, लेषत इत्यादि । क्कचित्पठतेते हेपृ घेपृ इति च ।। 370 ।।
त्रपूष् लज्जायाम् ।। त्रपते । त्रेप । ""तॄफलभजत्रपश्च इति किति लिट एत्वाभ्यासलोपौ त्रपेस्थलि नास्ति । ( त्रपिता । त्रप्ता । त्रपिष्यते । त्रप्स्यते ) । उदित्त्वादिड्विकल्प: । ( त्रपताम् । अत्रपत । त्रपेत । आशषि त्रपिषीष्ट । त्रप्सीष् । अत्रपि । अत्रप्त ) । ज्ञलि सिचो लोप: । ( तित्रपिषते तित्रप्सते । तात्रप्यते । तात्रपीति । तात्रप्ति । त्रपयति । अतित्रपत् । घटादित्वान्मित्त्वम् । ( त्रपित्वा । त्रप्त्वा । त्रप्त: । त्रप्तवान् )
। ""यस्य विभापा इति निष्ठायामिणिनषेध: । त्राप्यम् । ""आसुयुवपिरपिलपिलपित्रपिचमश्च इति भावे ण्यत् ""पोरदुपधात् इति यतोऽपवाद:। ( त्रपा ) । ""षिद्भिदादिभ्योङ् इति स्रियामङ् । अपत्रविष्णु: । ""अलङ्कृञ्निराकृञ्प्रजयोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् इति तच्छीलादाविष्णुच् । त्रपु । ""शस्वृस्निहित्रप्यसिहनिक्लिदिबन्धिमनिभ्श्श्च इत्युप्रत्यय: । त्रपुणो विकारस्त्रापुषम् । *पुजतुनो: षुक्* इति
षुगागमोऽण्प्रत्ययश्च ।। 371 ।।
कपि चलेन ।। ( कम्पते । चकम्पे । कम्पितेत्यादि । कम्पयति ) । ""निगरणचलना इति नित्यं परस्मैपदम् । कम्प्र: ""नमिकम्पिस्म्यजसमर्हिसदीपो र: इति तच्छीलादौ र: । वा सरूपविधिना ""अनुदात्तेत: इति वा ""चलनशब्दा इति वा यु चिकम्पन: । ननु पदेरनुदात्तेत्त्वादेव युचि सिद्धे ""जुचक्रम्या इत्यादिना पुनर्युज्विधानेन ताच्छीलिकेषु वासरूपविधिर्नेति ज्ञापितम् । अन्?यथा लषपतपदेत्युकञा अनुदात्तेल्लक्षण्युच: समाववेशे सिद्धे पुनस्तद्विधानमनर्थकं स्यात् । नैतदस्ति । ""सूदीदीप इतियुज्निषेधादस्यानित्यत्वज्ञापनात्, नित्ये हि ""नमिकम्पि इत्यादिना विशेषविहितेन रप्रत्ययेन युचो बाधस्य सिद्धत्वात् किं तन्निषेधेन । ( विकम्पित:) । विकृतशरीर इत्यर्थ: । ""लगिकम्पोरुपतापशरीरयो: इति नलोप: । कपि: । ""कटिकम्प्योर्ललापश्च इतीन्प्रत्यये नलोप:। कपेर्भावकर्मणी कापेयम् । ""कपिज्ञात्योढक् इति ढक् । वृषो धर्मस्तस्याकपि:, अकम्पिता, वृपाकपि: विष्णु: रुद्रश्च । वृषाकपायीं । श्री गौरी च । ""वृषाकपी इत्यादिना पंयोगलक्षणे ङीषि अन्त्यस्यैकार: । कपिल: । ""कपेश्च इतीलच्त्यच: बाहुलकादत एव निर्द्वेशाद्वा नलोप: । ( कबल: कम्बल: ) बाहुलकात् । कलप्रत्यय: पकारस्य बकार: पक्षे नलोपश्च । कम्बल्यमूर्णापलशतम् । कम्बलाय हितमिति विषये ""कम्बलाच्च संज्ञायाम् इति यत् । द्वाभ्यां कम्बल्याभ्यां क्रीता शाटी द्विकम्बल्या । ""तद्वितार्थोत्तरपदसमाहारे च इति तद्धितार्थे समासे ""द्विगुश्च इति द्विगुत्वं ""प्राग्वतेष्इक् इति प्राग्वतीयेष्वर्थेषु विहितस्य ठञ: , "अध्यर्द्धपूर्वद्विगोलुगसंज्ञायाम् इतिलुक् ।
अत्र ""द्विगो: इति प्रापतस्य ङीप: *अपरिमराणबिस्ताचितकम्बल्येभ्यो न ?तद्धितलकि* इति निषेध: । अपरिमाणान्तात्परिमाणत्वेपि बिस्ताद्यन्ताच्च द्विगोस्तद्धितलुकि सति ङीब्नेति सूत्रार्थ: । पाण्डुकम्बलेन परिवृतो रथ: पाण्डुकम्बली । ""पाण्हुकम्बलादिनि: इति पाण्डुकम्बलशब्दात्तृतीयान्तात् परिवृतो रथ इत्यर्थे इनि: । येन तत्परिवृतं तत्तस्यास्ति इति मत्वर्थीयेन सिद्धे इदं वचनं ठनो निवृत्त्यर्थम् ।। 372 ।।
रबि लबि अबि शब्दे ।। ( रम्बते । ररम्बे । ररम्बक । रम्बिता । रिरम्बिषते । राराम्बयते । रारम्बीति । रारम्प्ति । अरारन् । हे इति रमृबतइति हे रम्ब: । लम्बतहत्यादि । अम्बते । आनम्वे । अम्बिबिषते । अम्बयति । आम्बिबत् । ) त्रीण्यम्बकानि चक्षूंषि अस्येति ( त्र्यम्ब: ) त्रयाणां लोकानाम्ब: पितेत्यागमविदु: । द्यौर्भृमिरापस्तिस्त्रोम्बा अस्य इति भाश्रतम् । शब्दा अकारोकारा: प्रतिपादका अस्यवेति भट्टभास्कर: स एव सृष्टिस्थितिसंहारविषयास्तिस्त्रो वा शक्तयोऽस्येति च । ( अम्बरीष्?ाम् ) भ्राष्टम्बरीषम् इति निपात्यते । अम्बा । र्हे अम्ब । ""अम्बार्थनद्यो: इति हस्व: सम्बुद्धौ ।। 375 ।।
लबि अवस्त्रं सने च ।। "नञि लम्बेर्नलोपश्च इति नञ्चुपपदे उकारप्रत्ययो नलोपश्च णिद्वद्भवात् वृद्धिश्च ।। 376 ।।
कवृ वर्णे ।। ( कबते । चकवे : कबिता । विकविषते । चाकव्यते । चासि । काबयति । अचकबत् । कवर: ) बाहुलकादर: । ( कबरी । ) ""जानपद इत्यादिना केशवेश ङीष् अन्यत्रकबरा । कर्बुर: । बाहुलकादु: प्रत्योयो रेफोपजनश्च ।। 377 ।।
क्लीवृ अधाष्ठर्ये ।। ( क्लीबते । चिक्लीवे । क्लीबिता । क्लीबयति । अचिक्लीबत् । क्लीब इवाचरति क्लीबते ) । ""आचारेवगल्भक्लीब इति क्किप् तत्सन्नियोगेन चैषामकारस्यानुदात्तताऽनुनासिकताप्रतिज्ञानादनुदात्तेत्वात्तङिति होडतौ प्रतिपादितम् । क्किबभावे ""उपमानादाचारे इति क्यङि क्लीबायये ।। 378 ।।
क्षीबृ मदे ।। ( क्षीबते । चिक्षोवे । क्षीबिता । क्षीबयति । चिक्षीबत् । क्षीब: ) । ""अनुपसर्गात्फल्लक्षीब इति निष्ठायामिडभात्वस्तलोपञ्च, इच्छब्दलोपो वा निपात्यते ।। 379 ।।
शीभृ कत्थने ।। ( शीभते ) शिशीभे । शीभिता । शिशीभिषते । शेशीभ्यते । शेशीब्धि ""ज्ञषस्तथो: इति तकारस्य धकारे ""ज्ञलां जश् ज्ञशि इति भकारस्य बकार: । ( शीभयति । अशिशीभत् । शीभर: बाहुलकादर: ।। 380 ।।
चीभृ च ।। चीभतइत्यादि ।। 381 ।।
रेभृ शब्दे ।। ( रेभते । अरेभतेत्यादि । विरिब्ध:। ) ""क्षुब्धस्वान्त: इत्यादिना स्वरेनिष्ठायामिडभावे उपधाहस्वत्वं च निपात्यते । अन्यत्र रेभित: । अभिरभी च क्वचित्पठ्येते । अमृभते रम्भतइत्यादि । ( अम्भ:) असुन् । अम्भसोपत्यं आन्भि: । "अम्भस: सलोपश्चे'ति बाह्वादिपवाठादिञि सलोप: ।। 382 ।।
ष्टभि स्कभि प्रतिबन्धे ।। ( स्तम्भते । तस्तम्भे ।खय: शेष: । स्तम्भिता । तिस्तम्भिषते)""स्तौतिण्योरेव इत्यषत्वम् । षोपदेशफलं ण्यन्तात्सनि तिष्इमृभयिषती?ति षत्वम् । ( उत्तम्भते । उत्तम्भिता । उत्तम्भित:) । *उद: सथा म्भस्तम्धो: पूर्वस्य* इति उद: परयोरनयो: सकारस्थाने पूर्वस्य सवर्ण इति तकार: स्तम्भे: इत्यादावुपसर्गात्परस्य षत्वविधौ स्तम्भुस्तुम्भ्विति प्रतिपदोक्तस्यैव ग्रहणं स्तम्भे:, न त्वस्य लाक्षणिकस्येति विस्तम्भ इत्यादौ न षत्वम् । ""उद: स्यास्तम्भो: इत्यत्र तु नायं न्याय:, यतस्तम्भुरूपमुभयोरपि लाक्षणिकम् । अत्र स्वामिमैत्रैयो ष्टभेष्टकारमेकीयमतेनौपदेशिकमाहतु: । तत्र ष्टम्भते विष्टम्भतइत्यादौसर्वत्र ष्टुत्वेन षत्वे लिडादावभ्यासे टकारस्य शेषे तष्टम्भइत्यादि भवति । स्कम्भते ।
( चस्कम्भे। स्कभित । स्कम्भिता ) ""यसितस्कभत इति निपातनं तु छन्?दसि ""वे: स्कम्भातेर्नित्य इति षत्वं श्नानिर्देशात् सौत्रस्येव नास्येति विस्कम्भितइति भवति स्तम्मु स्तुम्भुस्कम्भु स्कुम्भु इति सैत्राश्चत्वारो धातवस्ते च ""स्तम्भुस्तुम्भु स्कम्भुस्कुम्भस्कुङ्भ्य श्नुश्चे इति वा श्नाश्नुविकरणा इति तत्रोदाहियते । स्तोभतइत्वग्रे स्तम्भार्थं ।। 384 ।।
जभी जृभि गात्रविनामे ।। जभीत्येके, जब्ध्धमिति मैत्रेय:। अयमेव पाठ: पाठ: प्रायेण वृत्तिकारस्य संमत: । यदाह ""रधिजभोरचि इत्यत्र अज्ग्रहणप्रत्युदाहरणे जब्धमिति, अनीदित्त्वे इटा भाव्यमिति कथमेवमुदाहरेतु । ( जम्भते । जजम्भे । जम्भिता । जम्भिष्यते । ज्मभताम् । अजम्भत । जम्भेत । जम्बिभषीष्ट । अजम्भिष्यत । जिजम्भिषते ) । ""रधिजभारेचि इति अजादौ।प्रत्यये नुम् ( जञ्जभ्यते )
"लुपसदचरजपजभदहदशग्दृभ्यो भावगर्हायाम् इति यङ् । भावो धात्वर्थस्तस्य गर्हा भावागर्हा । अयं च यङ् पूर्वसूत्रान्न्त्यिग्रहणानुवृत्त्या तक्रकौण्डिन्यन्यायेन वा क्रियासमभिहारयङो बाधक इति भाष्यादौ स्थितम् । ""जपजभदशभञ्जपशां च इति अभ्यासस्य यङि यङलुकि च नुगागम: । इदं च नुग्ग्रहणमनुस्वारोपलक्षणार्थं ""नुगतोनुनासिकान्तस्य इति अत्रान्तग्रहणात्, तद्धि तदन्तविधिनाप्यनुनासिकान्तस्य धातोरभ्यासस्य नुकि सिद्धे तदन्तस्य त्कार्यं तद्यथा स्यादिति । न च नुकोन्त्यत्वे किंचित्कार्थमस्ति, अस्ति चानुस्वारस्य ""वा पदान्तस्य इति परसवर्णविकल्प:। ""कर्तु: क्यङ् स0 इति वदनुनासिकेत्यविभक्तिको निर्देश:। तेन जञ्जभ्यते इत्यत्रानुस्वारस्यापि पक्षे श्रवणं भवति । ( जञ्जभीति । जञ्जब्ध: । ज़ञ्जम्भतीत्यादि) । ""रधिजभोरचि इत्यत्र प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति अजादौ नमुमागम:। (जम्भयति। अजजम्भत् )
जम्भो दन्तविशेषो ऽभ्यवहार्यं च, शोभनो जम्भोस्यास्तीति सुजम्भा । ""जम्भासुरिततृणसोमेभ्य: इति स्वाद्यादेर्जम्भात बहुव्रीदेरनिचि ""सर्वनामस्थाने वासंबुद्धौ इति नान्तस्योपधाया दीर्ध: । पदत्वे ""न लोप: प्रातिपदिकान्तस्य इति नलोप: भसंज्ञायां ""अल्लोन: इत्यल्लोप:। (सुजम्भ्र) इत्यादि । ङौ तु ""विभाषा ङिश्यो: इति विकल्पित इति सुजम्भ्रि सुजम्भनीति भवति: । सम्बुद्धौ ""न ङिसम्बुध्यो: इति नलोपनिषेध:। नपुंसके तु ""वा नपुंसकानाम् इति पक्षे नलोप:। अन्यत्र तु नित्य:, दीर्घस्तु न भवत असर्वनामस्थानत्वात् । शौ सर्वनामस्थानपरत्वात् सुजम्भानीति ""विभाषा डिश्यो: इति श्यामल्लोपविकल्पनात् ( सुजम्भ्री सुजम्भनी) इति भवत: । स्त्रियां "ऋन्नेभ्य: इति ङीप: ""अनो बहुब्रीहे: इति निषिद्धत्वात् सुंसीव रूपम् । यदा तु *डाबुभाभ्यामन्यरस्याम्*। अन्नन्तात्प्रतिपदिकादनन्ताद्वहुव्रीहेश्च डा?बि?ित डाप्तदा डित्त्वाट्टिलोपे ( सुजम्भा सुजम्भे ) इत्यादि। ङीप्: प्रतिषेधस्य डाप: श्रवणस्य च वनद्वयप्रामाण्योदेव सिद्धौ अन्यतरर्स्याग्रहणेन भिन्नेन योगेन ङीपोभ्यनुज्ञानात् (सुजम्भ्री)इत्याद्यपि भवति। अत्र च योगे ""अनो बहुव्रीहे: इत्येवानुवर्त्तते न तु ""मन:
इति सीमादे: प्रातिपदिकाद् ङीबभाव: । ( सुजम्भ्री )इत्यदौ तु अन्न्तन्तबहुब्रीहित्याद्भवत्येव । ( सुपर्वा सुशमी)
इत्यादौ तु ""अनउपधालोपिनोन्यतरस्याम् इति नियमान्न भवति । सिद्धे सत्यारभ्यमाणोयं नियमार्थ: । यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति,अत्र ह्मल्लोपो *नसंयोगाद्वमन्तात्* इति निषिद्ध्यते । वमन्तात् संयोगात् भसंज्ञानिमित्ते प्रत्यये परे ऽल्लोपो नेति सूत्रार्थ: । ""जम्भा सुहरिततृण0 इतृयत्र ज्भेति भाविना
समासान्तेन निर्देशात्समासार्थं तदुत्तरपदाकृते एव समासे समासान्ता इत्ययं पक्षो ज्ञाप्यते । तेनद्विपुरीत्यादि सिद्धति । यदि ह्मत्र ""ऋक्पूरब्धू: इत्यकार: समासे कृते स्यात् तदा समासस्याकारान्तोत्तरपदत्वाभावात्
[ अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्यते ] इति स्त्रीलिङृगता न स्यात् । जृम्भते। जृम्भितेत्यादि । यङ्लुको ""रीगृत्यत: इति वचनाद्रुग्रिग्रीको भवन्ति । ( जरीजृभ्यते । जपरस्मैपदिष्वपि इति केचित् ।। 386 ।।
शल्भ कत्थने ।। शल्भते । शशल्भे । शल्भितेत्यादि ।। 387 ।।
वल्भ भोजने ।। दन्त्योष्ठ्यादि: । वल्भते । णौ निगरणार्थत्वात् नित्यं । परस्मैपदम् । वल्भयति
।। 388 ।।
गल्भ्?ा धाष्टर्ये ।। (गल्भते । प्रगल्भ: । अवगल्भ इवाचरति अवगल्भते ) । ""आचारे ऽवगल्भ: इति क्किप्, तत्संनियोगेनाकारस्यानुदात्तत्वानुनासिकत्वप्रतिज्ञानात्प्रागेवोक्तमित्यनुन्योपसृष्टाच्चाचारक्किपि ( गल्भपति । प्रगल्भति ) इति भवति ।। 389 ।।
श्रम्भु प्रमादे ।। तालव्योष्मादि:, एवं काश्यप: । दन्त्यारिति चन्द्र: । स्वामी चैवं पठित्वा मातन्तरेण स्त्रन्सेति दन्त्यान्तमप्याह । मैत्रेयस्य त्वयमेव पक्ष:। यदाह स संयोगान्?तसाधर्म्येण सान्तोप्यत्र निर्दिश्यते । द्युतादावप्ययं पठिष्यते । तस्यैव च ध्वंसुसाहचर्यान्नीगित्याहु: । दत्वे पुनरसाहचर्यमिच्छन्तीति । दैवेप्येवमेवोक्तम् । तत्र तावदयं पक्षो वृत्तितद्व्याख्याकृतामनभिमत इव प्रतीयते, यद्दत्त्वसूद्धेउभयोर्गहणं नीक्सूत्रे नास्येति चाहु: । सति ह्मेवमवश्यवक्तव्यं, तथैव स्वाभिचन्द्रयोरपि पाठोनभिमत इव । यत् ""वौ कषलसकत्थश्रम्भ इत्यत्र रम्भु विश्वास इति वदन्नमुं नोपाददते, वृत्तिकारोऽग्रहणे कारणं चाचष्ट । तथा व्याख्याकृतोपि न वृत्तिकारवचनमुपलक्षणमाचक्षता नान्यग्रहणे कारणम् । ( श्रम्भते । शश्रम्भे । श्रम्भिता । श्रम्भितृवा श्रब्ध्वा ) । उदित्त्वादिड्विकल्प: ""न क्त्वासेट् इत्यकित्त्वान्नलोपाभाव: । ( श्रब्ध: ) । ""यस्य विभाषा इत्यनिट्त्वम् ।। 390 ।।
ष्टुभु स्तम्भे ।। ( स्तोभते । तुष्टुभे । स्तोभितेत्यादि । तुस्तुभिषते । तुस्ययोभिषते । स्तुभित्वा । स्तोभित्वा ) ""रलो व्युपधात् इति वा कित्त्वम् । उदित्त्वात्पक्षे क्त्वायामिडभावे ""निष्ठा इति निष्ठायां ""यस्य विभाष इति (स्तुब्धम्), सनि ""स्तौतिण्योरेव इत्यषत्वं, ( निष्टोभिता । निष्टोब्धा ) । ""उपसर्गात्सुनोति इत्यादिना ""प्राक् सितादड्व्यायेपि इति नियम एवावतिष्इते । ( अनुष्टुप् ) । पूर्ववत् षत्वं, ( त्रिष्टुप् ) ""सुषामादिषु च इति षत्वम् । अनुष्टबेवआनुष्टुभम् । एवं (त्रैष्टुभं), [छन्दस: प्रत्ययविधाने नपुंसकेस्वार्थउपसंख्यानम् } इति स्वार्थे उत्सादिभ्य: प्राग्र्दीव्यतीयोण्, स्वार्थेपि प्राग्दीव्यतीय: । तिप्यादय उदात्ता अनुदात्तेत: तिपिवर्जम् ।। 391 ।।
गुपू रक्षणे ।। एतदादय: शुम्भान्ता उदाता उदात्तेत: ।। ""गुपूधूपविच्छिपणिपनिभ्य आय: इत्या: स्वार्थे । ""आयादय आर्द्धधातुके वा इति आर्द्धधातुके विषये विकल्पेनायमुत्पाद्यते । तस्मिन् लघृपधगुण:, आयादय आयेयङ्णिङ: । ""सनापद्यन्ता धातकव: इति धातुत्वं, ( गोपायति । गोपायांचकार) । ।।कास्प्रत्ययात् इत्याम् । ( गोपायिता । गोपायिष्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाययति । अजुगोपायत् ) । सर्वत्रार्द्धधातुके गतो लोप: अत एवाग्लोपित्वात् ""णौ चङि इति हस्वाभाव: । ( गोपाय्यम् )
। ""अचो यतत् ( गोपायित: । गोपायित्वा । गोपाया ) । ""अप्रत्ययात् इत्यकार: । आयाभावे ( जुगोप । जुगुपतु: । जुगोपिथ । जुगोप्थ । जुगुपिव । जुगुप्व ) । ऊदित्त्वादिड्विकल्प: । यावत् कश्चिदिडभाव: प्रतिषेनिबन्धनो वा विकल्पनिबन्धनो वा सर्व: क्रादिसूत्रेण नियम्यत इति मैत्रेय: सेधतावाह । तन्मते । नित्यमिटा भाव्यम् । क्रादिनियम: प्रतिषेधविषय इति वादिनांहरदत्तादीनां विकल्प एव । आयादीनामुत्पतिृतविकल्प इत्युक्तेर्निवृत्तिविकल्पे हि प्रत्ययलक्षोन प्रत्ययान्तत्वात् धातुतृवात् ( गोपायांचकारेति स्यात् । गोपिता । गोप्ता । गोपिष्यति । गोप्स्यति । अगोप्स्यत् । जुगुप्सति । जुगुपिषति । गुप्त्वा । गुपित्वा । गोपित्वा ) । । ""रलोव्युपधात् इति क्त्वासनो: कित्त्वविकल्प: । सनि अनिट् पक्षे ""हलन्ताच्य
इति कित्त्वम् । ( जोगुप्यते ) । आयान्तस्यानेकाच्त्त्वात् न यङुदाहृत: । आयोत्पत्तिविकल्पस्य यङपि प्रयोजनम् । नात्र यङ्ो लुगस्ति यत् ""आयादय आर्द्धधातुके वा इति आर्द्धधातुकव्यक्तेरभिव्यक्तावेवायं विकल्प उच्यते
। लुकि हि तेन विषयत्वापहारान्नार्द्धधातुकव्यक्तेरभिव्यक्तिरिति कथमायाभाव: स्यात् । उपपादितश्चायं प्रकारोऽजगतिक्षेपणयोरित्यत्र । ( गोपयति । अजूगुपत् । गुप्त: । ।गुप्ति: )। ""तितुत्र इति नेट्, ""यस्य विभाषा इति नेट उत्पत्ति: । उत्पत्तिविक्पस्य चेदं प्रयोजनम् । अन्यथा प्रत्ययान्तत्वादकार एव स्यात् ।
( गोप्यम् ) । ण्यत् । (कुप्यम्) । ""राजसूयसूर्यमृषोद्यरुच्यकुप्यकुष्टपच्याव्यथ्या: इति क्यपि गुपेरादिकत्त्वं निपात्यते । अयं भाषार्थो रक्षणार्थश्चुरादौ । गुप गोपनइति इहैवाग्रे । गुप व्याकुलत्य इति दिवादौ ।। 392।।
धूप संतापे ।। अस्यापि पूर्ववादायस्तदभावश्च । ( धूपायति । धूपायांचकार । धूपायिता ) इत्यादि । नायाभावे वलादौ सर्वत्र नित्यमिडस्य विशेषो, ""रलोव्युपधात् इति कित्त्वविकप्यस्याप्यत्र न प्रयोजनम्, अलघूपधत्वात्, आयाभावेपि नास्य क्तिनस्ति गुरुमत्त्वात् । तेन ( धूपा)इत्यकार एव भवति, भाषार्थेऽयं चुरादौ
।। 393 ।।
जल्प जप व्यक्तायां वाचि ।। जप मानसे च ।। ( जल्पति । जजल्प । जल्पितेत्यादि । जल्पाक: ) । ""जल्पभिक्षकुष्टलुण्टवृङ: षाकन् ।। इति तच्छीलादौ षाकन् । स्त्रियां जल्पाकी । जल्पति पुत्रं देवदत्त: । जल्पयति पुत्रं देवदत्तं यज्ञदत्त: [ ""जल्पत्यादीनामुपसंख्यानम् ]इति प्रयोज्यस्याशब्दकारक्त्वेपि कर्मत्वम् ।
( उपति । जजाप । जेपतु: । जपिता । अजपीत् । अजापीत् ) ""अतो हलादे: इति वा वृद्धि: ( जिजपिषति । जञ्जप्यते ) । ""लुपसद इत्यादिना । भावगहार्यो यङ् । ""जपजभ इत्यादिनाभ्यासस्य नुक्तयनुस्वारे परसवर्णविकल्पो जभतिवत् । ( जञ्जि । जापयति । अजीजपत् । जप्यम् ) । ""पोरदुपधात् इति यत् ।
(कर्णेजप:) । *स्तम्बजर्णयोरभिजपो:* इति यथासंख्यं जपे: कर्णे सुबन्ते उपपदे च [हस्तिसूचकयो:] इति वचनात् सूचकविषय:, ""तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक् । ( जञ्जपूक:) । ""यजजप इति यङन्तात्तच्छीलादावकप्रत्यये ""अतो लोप: यस्य हल: इति अतो लोपयलोपौ । ( जप: )""व्यधजपोरनुपसर्गे इति अप् । उपसृष्टात्तु घञि ( उपजाप: ) । अनयो: कर्मव्यतिहारे न तङस्ति । [ प्रतिषेधे हसादीनामुपसंख्यानम् ] इत्यूक्तत्वात् ।। 395 ।।
चप सान्त्वने ।। ( चपिति । चचाप । चेपतु: । चपिता ) इत्यादि जपिवत् । चपो वृक्ष इति मैत्रेय: । वेणुविशेष इति दण्डनाथ: । तस्य विकार: । ( चापम् ) । ""तालादिभ्योऽण् इतिविकारावयवयोरञ्।। 396।।
षप समावाये ।। समवाय: संबन्ध: सम्यगवबोधो वा । ( सपिति )इत्यादि जपिवत् । ( सिसपिषति ) । ""स्तौतिण्योरेव इति अषत्वम् ।( सापयति । असीषपत् । सप्ति: ) । ""क्तिच्क्तौ च संज्ञायाम् इति क्तिच् ।
(सप्त) । ""सप्यशूभ्यां तुट् च इति कनिन्प्रत्यय: तुडागमश्च । पञ्चशब्दवत् षट्संज्ञा तत्कार्यं च, सप्तानामपत्यं (साप्ति: ) ""बह्वादिभ्यश्च इती?ञि ""नस्तद्धिते इति टिलोप: । अत्र शाकटायन: क्षीरस्वामी सचतिं चाहुरित्युक्त्वा ( सचति सचित: ) इत्यप्याह ।। 397 ।।
रप लप व्यक्तायां वाचि।। ( रपति । लपति )इत्यादि जपिवत् । (विलापयति पुत्रम् )इत्यत्र जल्पत्यादित्वात्प्रयोज्यस्य कर्मत्म् । ( अलीलपत् । अललापत् ) । काण्यादित्वाद् उपधाहस्वविकल्प: ।
( राप्य: । लाप्य: ) । ""आसुयुवपिरपिलपिलपित्रपि इति ण्यत् । यतोऽवाद: । अत एव जपतिना समानार्थत्वेपि पृथद्विर्देश: । ( रिपु: ) । ""रपेरिच्चोपधाया: इति उप्रत्यय उपधाया इकार: ।। 399 ।।
चुप मन्दायां गतौ ।। ( ।चोपयति । चुचोप । चोपिता । चुचुपिषति । चुचोपिषति । चुपित्वा ) । ""रलो व्युपधात् इति कित्त्वविकल्प: । ( चोचुप्यते । चोचुपीति । चोचोप्ति । चोपयति । अचुचुपत् । चोपन:)
। चलार्थत्वाद् युच् । णौ ?नित्यं परस्मैपदम् । गले चोप्यते ( गलेचोपक: ) । ""कृत्यल्युटो बहुलम् इति बहुलवचनाद् ण्यन्तादस्मात्कर्मणि ण्वुल् । ""कर्तृकरणे कृता बहुलम् इति बहुलवचनात् सप्तम्यन्तस्यापि समास: । ""तत्पुरुषे कृति बहुलम् इति अलुक्, ""अमूर्द्धमस्तकात्स्वाङ्गादकामे इति च, ""उदुपधाद्भावादिकर्मणो:निष्ठायां वा कित्त्वे (चुपितमनेन । चोपितमनेनेत्यादि । चुप्रम् ) ऋजेन्द्रादौ रकि निपातित: । ""स्वरेण नीचेन शपिञ्छुर्पि क्षिपिम् इत्यानिट्कारिकापाठो द्वितीयादेरिति तत्र तौदादिकस्य छुप संस्पर्शन इत्यस्यैव ग्रहणं न त्वस्य ।। 400 ।।
तुप तुम्य त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसार्था: ।। तोपतीत्यादि चुपिवत् । ( तुम्पति । तुतुम्पतु: )
। संयोगान्तत्वाल्लिटो न कित्त्वम् । ( तुम्पिता । तुम्पिष्यति । ( तुम्पतु । अतुम्पत् । तुप्यातृ ) । ""किदाशिषि इति कित्त्वात् अनिदितामिति नलोप: । ( अतुम्पीत् । अतुम्पिष्यत् । तुतुम्पिषति । तोतुप्यते । तोतुम्पीति । तोतुमसि । तोतुप्त: । तुम्पयति । अतुतुम्पत् । प्रस्तुम्पति गौ: ) । ""प्रात्तुम्पतौ गवि कर्त्तरिइति सुट् । तुम्पतेस्तुम्पताविति धातुनिद्देशो न तिङन्तानुकारणमिति प्रस्तुम्प: प्रस्तुम्पक इत्यादावपि भवति, प्रतोतुम्पीतीत्यादावत एव श्तिपा निर्द्देशान्न भवति । ( त्रोपति । त्रुम्पति । तोफति त्रुम्फति ) इत्यादि तुपितुम्फिवत् । तत्रारेफसरेफयो: सानुषङ्गवद्वितीयान्तयो: सेट्त्वाद् ""नोपधात्थफान्ताद्वा इति कित्त्वविकल्पनात् पक्षे नलोपे ( त्रुपित्वा । त्रुम्पित्वा । त्रुफित्वा । त्रुम्फित्वा ) इति भवति । अरेफाश्चत्वारस्तुदादावपि । आद्यस्तु चुरादावपि । तत्र त्वर्दनमर्थ: ।। 408 ।।
पर्प रफ रफि अर्ब पर्व लर्ब बर्ब मर्ब कर्ब खर्ब गर्ब शर्ब षर्ब चर्ब गतौ ।। आद्य: प्रथमान्त: । परौ द्वावसपि द्वियीयान्तौ । एकादश परे तृतीयान्ता: । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधा: । ( पर्पति । पपर्प । पर्पितेत्यादि । पर्प्यतेनेति पर्ष:, ) येन पीठने पङ्गवश्चरन्ति स उच्यते । ""हलश्च इति घञ् । पर्पेण चरति, ( पर्पिक:) । *पपांदिभ्यष्ठन्* इति तृतीयान्ताच्चरत्यर्थे ष्ठन् । षित्त्वात् स्त्रियां ( पर्पिकी । ररुति । अर्बति । आनर्ब । आनर्ब । अ?र्बिता । पर्बति । लर्बति । अर्वादयो नोपधा इति कौशिक: ।। 422 ।।
कुबि छादने ।। ( कुम्बतीत्यादि । कुम्बा ) । गुरुमत्त्वादकार: । ""चिन्तिपूजिकथिकुम्बिचर्चश्च इत्यङ्विधौ चौरादिकस्य ग्रहणम् ।। 423 ।।
तुबि तुबि अर्दने ।। (लुम्बति । तुम्बतीत्यादि । तुम्बी) अलाबू: । गौरादित्वान् ङीष् ।। 425 ।।
चुबि वक्त्रसंयोगे ।। चुम्बतीत्यादि । लुम्ब्यादस्त्रयश्चुरादौ । 436 ।।
ष्ठभु ष्टम्भु हिंसार्थौ ।। अत्र मैत्रय एवं पठित्वा षिभु षिभु षिम्भु इत्येकइति ऋकारस्य स्थाने इकारमवप्याह । तरङ्गिण्यां तु ऋकारवन्तौ दन्त्यादौ पठित्वा षोपदेशपर्युदासे सृग्रहणेनानर्थकस्यापि ग्रहणमित्युक्तम् । ( सर्भति । ससर्भ । सर्भितेत्यादि । सिषर्भिषति ) । मैत्रेयपाठे""स्तौतिण्योरेव इत्यषत्वम् । ( सरीष्टभ्यते । सरीष्टभीति । सरिष्टभीति । सर्वृभीति । सरीष्टब्धि । सरिष्टब्धि । सर्षृब्धि। सर्भयति । अससर्भत्।) । ऊदित्त्वादिड्विकल्प: । ( सूब्धम् ) । ""यस्य विभाशा इत्यनिट्त्वम् । ( सूभ्यम् ) । ऋदुपधत्वात् क्यप् । ( सूम्भति । ससूम्भ । सूभ्यात् । ससृम्भतु: ) । नलोप: ङ्कितो:। इकारवत्पाठपक्षे (सेभति । सिम्भतीत्यादि) ।। 428 ।।
शुभ शुम्भ भाषणे ।। हिसायां द्वाविमौ शोभतइति शपीतिवचनात् । दुर्गस्तु भासनइत्यस्यार्थमाह । एवं धनपालशाकटायनौ । गुप्तस्तु "सावष्टम्भनिषुम्भसम्भ्रमनद्भ्गोल' इत्यादिदर्शनान्मूर्धन्यादित्वमाह ( शोभति । शुम्भतीत्यादि), तोपति तुम्पतिवत् । ( शुभ: )। इगुपधलक्षण: क: । ( शुभ्रम् । स्फायितञ्चीत्यादिना रक् । इमौ शोभार्थौ तुदादी । निरनुषङ्गस्त्वग्रे । गुपादय उदात्ता उदात्तेत: ।। 430 ।।
अथानुनासिकान्ता: ।।
घिणि घुणि घृणि ग्रहणे ।। एतदादय: कम्यन्ता उदात्ता अनुदरात्तेत: । ( घिण्णते । जिघिण्णे । धिण्णिता । घिण्णिष्यते । घिण्णताम् । अघिण्णत । घिण्णेत । आशिषि घिण्णिषीष्ट । अघिण्णिष्ट । अघिण्णिष्यत । जिघिण्णिषते । जेघिण्ण्यते । जेघिण्णीति । जेघिण्टि । लङि । अजेघिन् । घिण्णयति । अजीघिण्णत् । घिण्णित्वा ) । सर्वत्र नुमि ष्टुत्वम् । यङ्लुकि लङि संयोगान्तलोपस्यासिद्धत्वात् नकारान्त एव । ( घुण्णते । घृण्णते । जघृण्णे ) इत्यादि । (जरिघृण्ण्यते ) । ""रीगृत्वत: इति रीक् । ( जरीघृण्णीति । (जर्घृण्णीति )इत्यादि । (अजर्घृन् ) इत्यत्र संयोगान्तलोपस्यासिद्धत्वान्न गुण:, ""पदान्तस्य इति णत्वं न
।। 433 ।।
घुण घूर्ण भ्रमणे ।। ( घोणते । तुघुणे । घोणिता । जुघुणिषते । जघोणिषते । घुणित्वा । घोणित्वा । ) ""रलो व्युपधात् इति कित्त्वविकल्प:। ( जोघुण्यते । जोघुणीति । जोघुण्टि । जोघूण्ट: ) इत्यादौ अनुनासिकान्तत्वात् ""अनुनासिकस्य क्किज्ञलो: ङ्किति इति दीर्धं उपधाया: । ज्ञलिति क्ङितोर्विशेषणम् ।
( घोणयति । अजूघुणत् ) उदुपधाद्भावादिकर्मणो: ( घुणितमनेनत्यादि) ( घोणा ) । क्रोडादिनिपातनादचि
टाप् । (कल्याणोणा ) । अत्र *स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्* इति उपसर्जनसंयोगोपधस्वाङ्गान्ताद्वहुव्री?ङीषिति प्राप्तस्य ङीष: *न क्रोडादिबह्वच:* इति निषेध: । अयं ङीष् क्रोडाद्यन्ताद्वह्वजन्ताच्च नेत्यर्थ: । ( घूर्णते ) इत्यादि । यङ्लुकि लुङि ( अजोघूर्ण् ) । ""राजत्सस्य इति नियमात् संयोगान्तलोपाभाव: । इमौ तुदादौ परस्मैपदिनौ ।। 434 ।।
पण व्यवहारे स्तुतौ च ।। 435 ।।
पन च ।। पृथन्निर्देशात् स्तुतावित्यनेनैवायं सम्बध्यते । ( शतस्य पणते। शतं पणते ) । *व्यवहृपणो: समर्थयो:* इति कर्मणि शेषे षष्ठी । अन्यदा द्वितीयैव । समर्थयोरिति समानार्थयोरित्यर्थ:, शकन्ध्वादित्वात् समशब्दाकारस्य पररूपम् । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयो: । ( पेणे । पणिता । पणिष्यते । पणताम् । अपणत । पणिषीष्ट । अपणिष्ट । अपणिष्यत । पिपणिषते । पम्पण्यते ) । ""नुगतोनुनासिकान्तस्य इति नुक् । पम्पणीति । पम्पण्टि । पम्पाण्ट: ) । ""अनुनासिकस्य क्किज्ञलो: इति दीर्घ: ( अपम्पण् । पाणयति । अपीपणत् । पण्यम् ) । ""अवद्यपण्यवयां गर्ह्मपणितव्यानिरोधेषु इति पणतिव्ये व्यहर्तव्ये निपातित: । अन्यत्र ण्यति ( पाण्यम् । मूलकापण: । शाकपण:) । य: संख्यवहाराय मूलकादीनां परिमितो मुष्टिर्बध्यते स उच्यते । *नित्यं पण: परिमाणे* इति परिमाणे गम्यमाने अप् प्रत्यय: । अन्यत्र (पाण:) । व्यावहारिकोप्युन्मानलक्षणपरिमाणयोगात् पण इत्युच्यते, स पणश्चेद्विवाद: स्यादितृयादौ इदं दास्यामीति पणनस्य परिच्देदनात् पणोक्ति:। ( अध्यर्द्धपण्यम् । द्विपण्यम् ) *पणपादमाषतात्यत्*इति अध्यर्धपूर्वात् प्रातिपदिकात् पणाद्यन्ताद् द्विगोश्चार्हीयेष्वर्थेषु यत् । एत्यात्र आपणतइति ( आपण: ) । ""गोचरसञ्चरवहव्रजव्यजापणनिणमाश्च इत्यधिकरणे घान्तो निपातित: । ( पणितम् ) । क्किपि ( पाण् )। ""अनुनासिकस्य इति दीर्घ:। (वणिक्)। ""पयोरिज्यादेश्च व:इति इजिप्रत्यय:, पकारस्य च वकार: । विणजो भावो ( वाणिज्या ) ""दूतपवणिग्भ्यां च इति यत् । यद्यप्ययं भावकर्माधिकारे तथापि स्वभावाद्भाव एव स्त्रियां च । ( वाणिज्यमिति) ""प्रादिभ्यश्च'7 इत्यणन्ताद् वाणिजशब्दात् ""गुणवचनाब्राह्मणादिभ्य: कर्मणि च इति ब्राह्मणादेराकृतिगणत्वात् ष्यञि कर्मणि चेति चकारेण भाव: समुञ्चीयते । विविधमत्र पणन्तइति
( विपणि:) । इनितीन् । ( पणसम् )। पण्यपर्याय: । ""अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् इत्यसच् । ""गुपूधूप इत्यायो व्यवहारार्थस्य नेत्युक्तान्युदाहरणानि तद्विषयाणि । तथा च वृत्ति: स्तुतृयर्थेन पनिना साहच्यात्तदर्थ: पणि: प्रत्ययमुत्पादयतीति । एवं न्यासपदमञ्जर्यादिष्वपि । अत एव तरङ्गिण्यामपि । "न चोपलेभे वणिजां पणाया' इति प्रयुञ्जानो भट्टिर्भ्रान्त इत्युक्तम् । (पणायति राजानम् । पणायां चकार । पणायिता)इत्यादि। आर्द्धधातुकविवक्षायामायानुत्पत्तौउक्तान्येवोदाहरणानि । गुष्यादिवदायोत्पत्तिविकल्पस्य प्रयोजनं पणतइत्यादिसिद्धि:। पणां चकारेत्यादिनिवृत्तिश्च । निवृत्तिविकल्पे हि प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात् । एवमन्यत्रापि प्रयोजनानि गुपिवन्नेयानि । अत्र स्वामिकाश्यपसम्ताकारवासुदेवादय: पणायतइत्यायान्तादात्मनेपदमुदाहरन्ति । तदसत् । यदस्यानुदात्तत्वं व्यवहारार्थस्यायाभावात् स्तुत्यर्थस्यार्द्धधातुक आयविकल्पनात् प्रकृतावेव चरितार्थम् । अवयवे चारितार्थं लिङ्गं समुदायस्य विशेषकं यथा जुगुप्सतहति, स्पष्टं चैवं ""गुपूधूप इत्यत्र न्यासपदमञ्जर्यादिषु । अत्र मैत्रेयेन्द्रन्यासे पणते: सार्वधातुकादिपाठाल्लिङ्गातसार्वधातुके ऽपि विकल्पमाहु: नित्ये ह्माये विच्छायतीति शपापि सिद्धत्यीति किं तत्र पाठने । न चास्ति स्वरभेद: । ने कृते प्रत्ययस्वरेण तस्योदात्तत्वे धातुर्वर्ज्यमानस्वरेणानुदात्त: शपि तु अस्य पित्त्वेनानुदात्तत्वात् घातोरन्त इति धातुरन्तोदात्त: । तत्र ""एकादेश उदात्तेनोदात्त: इत्युभयथापि विकरणान्तस्योदात्तत्वात् । अनेनैवाभिप्रायेण ""च्छ्वो: शूट् इत्यत्र न्यासेगां विच्छति गोविडित्युक्तम्। नैतत्साधु। (विच्छायती विच्छायन्ती) ""आच्छीनद्यो:इति नुम्विकल्पस्य प्रयोजनस्यसम्भवात्। शपि तु""शप्श्यनोर्नित्यम्इति नित्यो नुम् स्यात्। ""गुपूधूपविच्छि इत्यत्र कैयटदमञ्जर्यादिष्वप्येवमेव स्थितम् । विच्छगतावितृयत्रात्रेयमैत्रेयावप्येवमेवाहतु: । तथा देवोपि विच्छेरपि शर्तुवा नुम् स्यादिति तुदादितेति । अत्र पुरुषकारे तुतादौ विच्छि: पठ्यते, न तु विच्छायतिरिति विच्छेरेवानन्तरेण शेन भाव्यम् । स चैवं भवन्नाय
विकल्पस्य कल्पक: स्यादेव । अत्रैव ""आयादय आर्द्धधातुके वा इत्यत्र न्यासान्तरम् , आयदादय: शपि नित्यमिति भाष्यं चानुकूलम् । नित्ये विच्छेराये शब्ग्रहणं शित उपलक्षणमिति कल्प्यं स्यादिति सुधाकराद्युक्तमेव समर्थितं, नायं भाष्यस्यार्थ: । तत्र हि परसप्तमीत्वमाश्रित्य सूत्रं दूषयित्वा तत्परिहाराय सार्वधातुके नित्यमित्यभिहितम् । तत्राप्यायेनानवकाशने विकरणानां बाधदोषमुद्भाव्य तत्परिहारायैव तथा पुनरयं सूत्रभेदेन परिहार:, यदि पुन: शपि नित्यमित्युच्येत तदा सिध्यतीत्युक्तं, तेनापि न्यासेन सार्वधातुके नित्यमित्यनेन समानफलेन भाव्यं, तच्चशब्ग्रहणस्य शित उपलक्षणत्वेन युज्यते, अतश्चोपलक्षणत्वमेष्टव्यम् , तत्तत्र यथान्यासमेवास्तु इति सूत्रमेव विषयसप्तम्याश्रयणेन सिद्धान्तितम् । अत एव च तत्र कैयटेन तौदादिकाद्विच्छे: शेन भाव्यं न तु शपा, एवं तर्हि न्यासभेदोपलक्षणार्थमिदं शिति नित्त्यमिति न्यास:: कर्त्तव्य इत्युक्तम् । यदप्युक्तं पुरुषकारे ""तुदादिभ्य: श: इति हि शो विधीयते न तु विच्छाये, विच्छेरेव तुदादिषु पाठात्तच्चैतद्विच्छे: शविधानमाये नित्ये सति गुणादिष्वनुबन्धकरणवत् विच्छे: पाठोऽपि समुदायार्थतया युज्यतइति न संकटम् । तथा च हरदत्त: । विच्दिरंयं तुदादौ पठ्यते त्तसामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति न तु शप्, यथा जुगुप्सते इत्यात्मनेपदं, तेन ( विच्छयती विच्छायन्तीति ) ""अच्छीनद्यो: इति नुम्बिकल्पो भवतीति । पनायतीत्यादि । पणिवत् । ( पनस: ) । ""अत्यमि इत्यादिनाअसच् ।। 436 ।।
भाम क्रोधे । ( भामते । बभामे । भामितेत्यादि । बिभामिषति । बाभान्ति । बाभान्मि बाभान्म: ) । ""नुगत: इति तपरकीरणात् यङ्लुकोरभ्यासस्य नु नुगागम: । ""म्वोश्च इति मकारान्तस्य धातोर्नंकारादेशो भवति मकारवकारयो: परत इति मकारस्य नकार: । लुङि ( अबाभन् ) । ""मोनो धातो: इति नकार: पदस्येति शेष: । एवं क्किपि ( भान् )। ( भम: ) क्रोध: । सोऽस्यास्तीति ( भामिनी )। देवदत्ताय भामत इत्यत्र *क्रुधद्रेहेर्ष्यासूयार्थानां यं प्रति कोप:*इति कोपविषाविष्करणमसूया ।। 437 ।।
क्षूमूष् सहने ।। ( क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे । चक्षण्वहे । चक्षमिमहे । चक्षण्महे ) । ऊदित्त्वात्सर्वत्र वलाद्यार्द्धधातुक इड्विकल्व: । अनिट्पक्षे ""म्वोश्च इति नत्वे ""रषाभ्याम्'7 इति णत्वं, ( क्षमिष्यते । क्षंस्यते । क्षमताम् । अक्षमत । क्षमेत । आशिषि । क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त । अक्षमिष्यत् , अक्षंस्यत् ) कर्मादौ ( क्षम्यते । अक्षमि ) *नोदात्तोपदेशस्य मान्तस्यानाचम:* इति चिणि ञ्णिति कृति च वृद्धिनिषेध: । ( चिक्षमिषते । चिक्षंसते । चङ्क्षम्यते । चङ्क्षन्ति)। ""नुगत: इत्यभ्यासस्य नुक् । लुङि ""ह्नन्त इति वृद्धिनिषेधात् ( अचङक्षमीत् । क्षमयति । अचिक्षमत् । ) । "जनीनॄष्क्नसुरञ्जोमन्ताश्च इति अमतन्तत्वलक्षणे मित्त्वे ""मितां हस्व: इत्युपधाया हस्व:।
(क्षमित्वा । क्षान्त्वा ) । ""यस्य विभाषाइत्यनिट्त्त्वम् । ( क्षम: ) । घञ् । ( क्षमक: ) । ण्वुल् । ( अपराधक्षम: अपराधक्षमा ) । ""ईक्षिक्षमिभ्यां च इतृयणोपवादो ण: । अणि हि ङीप्स्यात् । ( क्षमा ) ""षिद्भिदादिभ्योङ् इति षित्त्वात् स्त्रियामङ् , ण्यन्तस्यास्य ""चिण्णमुलोर्दीर्घोन्यतरस्याम् इति चिण्णमुल्परे णौ मितामुपधाया दीर्घविकल्पनात् (अक्षमि । अक्षामि । क्षर्मक्षमम् क्षामंक्षामम् ) इति भवति । ""आभीक्ष्ण्ये णमुल् । चकार: क्त्वासमुच्चयार्थ: । ""आभीक्ष्ण्ये द्वे भवत इति द्विर्वचनम् । पौप:पुन्यमाभीक्ष्ण्यम् । स्यादिष्वपि दीर्घविकल्प: चिण्वदिट्पक्षे भवति । (क्षामिष्यते । क्षमिष्यते । अक्षामिषाताम् । अक्षमिशाताम् । क्षामिषीष्ट । क्षामिता । क्षमितेत्यादि ) चिण्वदिटोभावे ( क्षमयिष्यते । अक्षमिषाताम् । क्षमयिषीष्ट । क्षमयितेति) । लुङ्येकवचने चिण्परो णिरिति पक्षे दीर्घो भवति । (अक्षमि, अक्षामीति ) । यङ्लुगान्तादपि चिष्णमुलोश्चिण्वदिटि च अयंदीर्घविकल्पो द्रष्टव्य: । (अचङ्खमि । अचङ्क्षमि चङ्क्षामं चङ्क्षमं चङ्क्षम् । चङ्क्षामिष्?यते । चङ्क्षमिष्यते ) इत्यादि । अत्राप्यचिण्वत्पक्षे ( चङ्क्षमिष्यते ) इत्यादि । अत्र ""चिण्णमुलोरन्यतरस्याम् इति हस्वविकल्लेनापि सिद्धे दीर्घग्रहणं ण्यन्ताद्यङन्ताच्च णौ चिण्णमुल्परेदीर्घार्थम्, अक्रियमाणेस्मिन् णिलोपाल्लोपयो: परनिमित्तयो: पूर्वस्य हस्व्विकल्पे कर्त्तव्ये स्थानिवत्त्वान्न चिण्णमुल्परे णौ यदङ्गमनन्तरमित्यसौ न स्यात्, क्रियमाणे तु दीर्घविधिं प्रति न स्थानिवदिति स्थानिवत्त्वं निषिद्धते । एवमपि ?दीर्घे कर्तव्ये ण्यल्लोपयो: ""?असिद्ध इत्यसिद्धत्वात् व्यवधानं दुर्वारम् । नैतत् । व्याश्रयत्वेनासिद्धत्वाभावात्, तथा च वामन: णौ हि णियङोर्लोप:, चिण्णमुल्परे णावङ्गस्येति दीर्घंत्वमिति । अयमपि दिवादौ ।। 438 ।।
कमु कान्तौ ।। ""कर्मेणिङ् इति स्वार्थे णिङ्, अयमार्द्धधातुके विकल्पनोत्पद्यते । अत्राप्युत्पत्तिविकल्पस्य प्रयोजनं गुणिवद् द्रष्टव्यम् । कामयतेर्ङित्त्वाङ्, ( कामयाञ्चक्र । कामयिता कामयिष्ते । कामयाताम् । अकामयत । कामयेत । आशिषि कामयिषीष्ट । अचीकमत ) । णिप्रहणेष्वयमपि गृह्मत इति ""णिश्री इति कर्तरि चङ् । ""णेरनिटि इति णिलोपे ""णौ च ति हस्?व: । (चिकामयिषते । कामयति ) णिङन्तण्णै ""णेरनिटि इति लोप: ( कामयित्वा । कामना ) । ""ण्यासश्रन्थ: इति युच् । ( मांसकाम: । मांसकामा ) । ""शीलिकामिभिक्षिचरिभ्यो ण: इति अणौऽपवादो ण: । अणि हि सति स्त्रियां ङीप्स्यात् । णिडभावे ( चकमे । कमिता । कमिष्यते । कमिषीष् । अचकमत ) ।
[ ""कमेरुपसंख्यानम् ] इति कर्तकरि चङ् । ( अकमिष्यत । चिकमिषते । चङ्कम्यते ) । अत्र यङ्लुङ् नेति गुपू रक्षण इत्यत्र स्थापिनं तत एवावगन्तव्यम् । ( कामयति ) । ""न कम्यमिच माम् इति मित्त्वनिषेधाद् वृद्धि: । ""चिण्णमुलो: इकति दीर्घविकल्पो मिद्विषय इत्यस्यामित्त्वात् चिण्णमुल्परेपि णौ नित्या वृद्धि: । ( कामङ्कामिति ) । तथा चिण्वदिठ्यपि मित्त्वाभावात् ( अकामिष्यत ) इत्याद्येव भवति न तु कमिष्यत इत्यादि । अचिण्वत्पक्षे तु गुणाययो: ( कामयिष्यत ) इत्यादि। अस्योदित्त्वमणिङ्पङ्क्षे क्त्वायामिड्विकल्पार्थं, । तेन (कामित्वा, कात्वेति ) । निष्ठायां तु ""यस्य विभाषा इति निषेधात् ( कान्त इति । कामुक:)। ""लषपतइया?दिभ उकञ् । (कामङ्कामम् ) । ""नादात्तोपदेशस्य इति चिणि ञिति णिति कृति वृद्धिनिषेधोऽस्य न भवति । तत्राचमिकमिवमीनामिति पर्युदासात् । ( कामुकी ) ""अजानपद इत्यादिना र: । ( कमन ) इति वासरूपेणानुदात्तेल्लक्षणे युचि । ( कन्तु:) काम: । अर्जिदृशीत्यादिनोप्रत्यस्तुगागमश्च ।
(कन्तुकम्) । ""कुमारीक्रीडनकानि च इति कुमारीक्रीडनकादस्मात् कन् । ( कंस: )। ""वॄतॄवदिनिकमिकषिभ्य: स: इति स: । (कंसाय हितं, कंसीयम्)। ""तस्मै हितम् इति विषये ""प्राक् क्रीताच्छ: इति छ: । तस्य विकार: (कांस्यम्)। ""कंसीयपरशव्ययोर्यञञौ लुक्च इति यथासंख्यादस्माद्विकारे यञि प्रातिपदिकादित्याधिकात्तत: परस्य छस्य यतश्च लुक्, यञञोस्तु विधानसामर्थ्यान्न भवति । कंसेन क्रीतं (कंसिकम्)। *"कंसाट्टिठन्*इति टिठन् आर्हीयेष्वर्थेषु । टित्त्वात् स्त्रियां ( कंसिकी ) ।। घिण्णदय उदात्ता अनुदात्तेत: ।। 439 ।।
अण रण वण मण कण क्कण व्रण व्रण भ्रण ध्वण शब्दार्था: ।। इत: क्रम्यन्ता उदात्ता उदात्तेत: ।
( अणति । आणा । अणिता । अणिणिषति आणयति । मा भवानणिणत् । अणु: ) स्वल्पो धान्यविशेषश्च । ""अणश्च ""अधान्येनित् इत्युप्रत्यय: । अणूनां धान्यानां भवनं क्षेत्रम् । ( अणव्यम् आणवीनम् )। ""विभाष तिलमाषोमाषोमाभङ्गाणुभ्य: इति षष्ठयन्ताद्भवने क्षेत्रे यत्, विभाषाग्रहणात् खञ्च । यति *ओर्गुण:* । उवर्णान्तस्य गुणो भवति भसंज्ञानिमित्ते तद्धिते पर इति गुणे""वान्तो यिइत्यावादेश:अणुप्रकार:
( अगुक:)*स्थूलादिभ्य: प्रकारवचने कन्* इति कन् प्रकारो भेद: सादृश्यं च, (अणुक:) सूक्ष्मदृक्। अणु निपुण इतिया वादिपाठात् कन् । ( अण्ड: ""यमन्ताङ्ड: इति ड: । बाहुकाहडकारस्य नेत्त्वम् । ( अडु: )
(जलतरणि: ) । ""अणो डश्च इतृयुक्तारप्रत्ययो डश्चान्तादेश: । ( रणति । रराण । रणिता अरणीत् । अराणीत् )""अतो हलोद: इति वा वृद्धि: । ( रिरणिषति । रंरण्यते । रंरणीति । रंरण्टि । रंराण्ट: ) ""नुगतोनुनासिकान्तस्य इत्यभ्यासस्यानुस्वार:, ""अनुनासिकस्य क्किज्ञलो: क्ङिति इति दीर्ध: । ( रण्यति । अरीरणत् । अराणीत् ) काण्यादित्वाद् हस्वविकल्प: । राणयतीति गतौ घटादि: । ( रणनं ) शब्द: । रणन्त्यस्मिन्निति ( रणो ) तेज: संग्रामश्च । [ वशिरण्योरुपसंख्यानम् ] इति अकर्त्तरि कारके अच् प्रत्यय: ।
( रणितं, रण्डा ) । ""ञमन्ताडङ:। (रणरणको ) हृल्लेख:। [घञे कविधानम् ] इति क:। [ कृञ्यादीनां के द्व भवत:) इति द्विर्वचंन , संज्ञायां कन् । पृषोदरादित्वाद्धलादिशेषाभावो ऽभ्यासस्याकारश्च । (वणति । ववाण । ववणतुरित्यादि ) । वकारादित्वादेत्वाभ्यासलोपाभाव: । अयमपि काण्यादि: । (वाण: ) शतं तनु:। ""अलश्च इति संज्ञायां घञ् । ( वाणी ) ""इञ् लपाकादिभ्य: इति इञन्तात् [ सर्वतोक्तिन्नर्थादित्येके] इति ङीष् । अन्तर्वाण्यस्येति (अन्तर्वाणि:), विपश्चित् । ""निष्प्रवाणिश्च इति चकारात् ""नद्युतश्च इति कपोध: । अवश्यं वणतीति (वाणिनी) आवश्यकणिन्यन्तान्ङीप् । (वण्ड:): । पूर्ववडु: । अल्पतनु: पशु: । (भणति । बभाण ।
भणितेत्यादि ) अयमपि काण्यादि: । अभण्य इति ( भाण: ) । कर्मणि घञ् । ( भणिति: । ) ""तितुत्र इतीणिनेषेधे [तितुत्रेष्वग्रहादीनाम]इति वचनादिडागम: । (भण्ड: । भाण्ड:)।भण्डे र्वा ""पुच्छभाण्ड इति निर्देशाद्दीर्घ: । भामेर्वा डप्रत्यये । ( संभाण्डयति), भाण्डानि सञ्चिनोतीत्यर्थ: । ""पुच्छभाण्डचीवराण्णिङ् इति णिङ्, ""भाण्डात्समाचयने इति च वृत्ति: । ङित्त्वात्तङ्। (समबभाण्डत) । ""णिश्चि इति चङ् । (मणव्रि। ममाण । मेणतु: । मणितेत्यादि । मणितम् । मणि: ) । इन्प्रत्यय: । मणिप्रकारो मणिक: । स्थूलदित्वात् कन् मणिरेव ( मणिक: ) यावादित्वात्कन् । ( मणिको ) लञ्जर: । संज्ञायां कन् । (मण्ड:)।मण्डतेर्वा । ( कणति चकाण । कणितेत्यादि। ) । अयमपि काण्यादि: । कणयतीति गतौ घटादित्वात् । ( कण: )। लेश: सूक्ष्मतण्डुलशच । गोचरादिसूत्रे चकास्यानुक्तसमुच्चस्यानुक्तसमुच्चयार्थत्वाद् घ: । ( कणिका ) । संज्ञायां कनि ""प्रत्ययस्थात् इतीत्वम् । ( कण्ठ: ) । कणेष्ठ: । बाहुलकात् ठस्येकाभाव: । अयं निमीलनार्थश्चुरादौ । ( क्कणति चक्काण । क्कणितेत्या दि । क्काण: क्कण: । निक्काण: निक्कण: । कल्याणप्रक्कणा वीणा । कल्याक्काणेति वा ) । *क्कणो वीणायां च* । अनुपसृष्टान्निपूर्वात् वीणाविषयाच्च क्कणेवां ऽप्प्र्यय: । सोपसर्गार्थं वीणाग्रहणम् । ( कुणालो ) धान्यं यज्ञापेपकरणं च । ""पीयुक्कणिभं कलायन् इस्व: संप्रसारणं च इति कालन्प्रत्यय: यथासंख्यात्संप्रसारणं च ।(कुणपम् ) । ""क्कण:संप्रसारणं च इति पन्प्रत्यय: संप्रसारणं च । ( कङकणीका) । प्रतिसर: । ""चङ्क्कणे: कङ्कणश्च इति यङ्लुगन्तादीकन्प्रत्यय: कङणादेशश्च । ( व्रणति । वव्रणति । वव्राण । व्रणितेत्यादि ) । अयं बशादि: क्कचित्पष्यते । दन्तोष्ठयादिरेव सर्वत्र, तथा च यादव:, व्रणेश्शब्दार्थविषये, व्रणगात्रचूर्णनेइति गात्रचूर्णनार्थोयं कथादि: ।
( भ्रणति । बभ्राण । भ्रणिता । ध्वणति । दध्वाण । ध्वणितेत्यादि ) । घ्रणिरपि संमतायामत्र पठ्यते।। 449।।
ओणृ धपनयने ।। ( ओणति । प्रोणति । ओगणां चकार । ओणिता । ओणिणिषति । ओणयति ) । मा भवानौणिणत् । ( अवावा ) । ""अन्येभ्योपि दृश्यते इति वनिपि ""विड्वनोरनुनासिकस्यात् इति णकारस्याकारेऽवादेशे ""सर्वनामस्थाने इत्युपधादीर्घे नलोप: । स्त्रियाम् ( अवावरी । *वनो र च* इति वन्नन्तप्रातिपदिकत्वात् ङीब्रौ । [ वनो न हश: ] । हशन्ताद्यो वन् विहितस्तदन्तान् ङीब्रौ नेत्ययं प्रतिषेध: प्रायिकत्वादत्र नेति न्यासादौ ।। 450 ।।
शोणृ वर्णगत्यो: ।। शोणति । शुशोण । शोणिता । शुशोणिषति । शोशोण्यते । शोशोण्टि । शोणयति । अशुशोणत् । शोणितम् । शोण: । शोणी । शोणा ) । ""शोणात्प्राचाम्इति वा ङीष् ।। 551 ।।
श्रोणा ) । नक्षत्रम् । अजन्ताष्टाप् । श्रोणि:) । इन्प्रत्यय: । (श्रोणी) । कृदिकारत्वाद्वा ङीष् । (श्रोणा)
। नक्षत्रम् । अजन्ताष्टम् ।। 452 ।।
श्लोणृ च ।। (श्लोणतीत्यादि) । शोणादय: तालव्योष्मादय: ।। 453 ।।
णैणृ गतिप्रेरणश्लेषणेषु ।। तेणृ इति क्कचित्पठ्यते । पैणतीत्यादौ ।। 454 ।।
ध्रण शब्दे ।। उपदेशे नान्तोयमिति प्रागस्य निर्देशो न कृत: । तस्य प्रयोजनं यङ्लुकीति मैत्रेय:' अतोस्य दण्डके पाठ: प्रत्युक्त: । ध्रणतीत्यादि । ""रषाभ्याम् इति णत्वम् । यङ्लुकि (दन्ध्रन्ति दन्ध्रान्त ) इत्यादौ णत्वस्य ""नश्चापदान्तस्य इत्यनुस्वारे ऽसिद्धत्वात् कृते तस्मिन्परसवर्ण:, तस्यासिद्धत्वात् पुनर्णत्वं न भवति। अभ्यासस्य ""नुगत इति नुक् । अस्मादनन्तरं क्कचित् कोशे वण भण धण इति त्रय: पठ्यन्ते, तत्र भणिर्मैत्रेयानुसारेण दण्डके ठित: । धणिरपि संमतायामिति तत्रैवोक्तम् । ( वणति: । वण: ) । ""उद्ण इत्यच् ।। 455 ।।
क?नी दीप्तिकान्तिगतिषु ।। (कनति । चकान । कनितेत्यादि । कन्या ) । कन्याया अपत्यं (कानीन: ) ""कन्याया: कनीन च इति अण् कनीनादेशश्च । अत एव निर्देशाद्यत्, स्वरितान्तत्वं तु ""तिल्यशिक्यमर्त्यकार्श्मर्यधान्यकन्याराजन्यमनुष्याणामन्त: इति, अन्यथा *यतोनाव:* इति यदन्तस्य द्व्यवो विधीयमान आद्युदात्त: स्यात् । (कनकम् )""क्रुन् शिल्पिसंज्ञयो: इति क्कुन् ।। 456 ।।
ष्टन वन शब्दे ।। ( स्तनति । तस्तान । स्तनितेत्यादि । तिस्तनिषति । तंस्तन्यते । तंस्तनीति । संस्तन्ति ) । ध्वनतिवत्प्रक्रिया । ( स्तनयति । अतिष्टनत् । अभिनिष्टान: ) । विसर्जनीय: । ""अभिनिस:
स्तन: शब्दसंज्ञायाम्"" इति षत्वम्, अन्यत्राभिनिस्तनति मृदङ्ग: अत्र न्यासे सकारादिरयं पठित: । तदस्य षोपदेशपर्युदासवाक्ये उपादनान्निर्मूलम् । अत एव पुरुषकारे मृर्द्धन्यादिरेवायं दर्शित: । ( स्तान्यम् ) ण्यत् ।
( स्तन: ) । अच् । ( स्तन्यम् ) ""शरीरावयवाद्यत् इति भवार्थे यत् । ( स्तनिनम् । स्तनय?तीति देवशब्दार्थस्य कथादिपठितस्य । ( वनति । ववान । ववनतु: । वनितेत्यादि । वनितम् । वनित्वा । वति: ) क्तिनि ""तितुत्र इतीण्निषपेधात् ""अनुदात्तोपदेशवनतितनोत्यादीनामननुनासिकलोपो ज्ञलि क्डिति इत्यनुनासिकलोपे ( वति: ) इति भवति । अनुदात्तोपदेश यमिरमिमिहमिहनिगमिमन्यतय: । ( प्रवत्य ) । ""वा ल्पपि इत्यनुदात्तोपदेशादीनां विधीयमानोयमनुनासिकलोपविकल्पो व्यवस्थितविभाषाविज्ञानात् नान्तेषु नित्य:, अन्यत्र विकल्प इतीह नित्य: । ( वन्ति: ) । क्तिच् ""न क्तिचि दीर्घश्च इति दीर्घानुनासिकलोपयोर्निषेध: । ""अनुदात्तोपदेशबनति इतिश्तिपा निर्देशात् ( वंवान्त ) इत्यादावनुनासिकलोपो न भवति । वनोतिनिवृत्त्यर्थं तु श्तिपा निर्देशा न भवति । तनोत्यादित्वेन तस्यानुनासिकलोपस्येष्टत्वात् । (वनिष्ठ:) । अपानं मांसविशेषश्च । ऋतन्यक्षिवनिचत्यादिनेष्ठच् ( वनम् ) अच् । वनानां समूहो ( वन्या ) ""पाशादिभ्यो य: इति सूमूहे य: । तदेततस्वभावात् स्त्रीलिङ्गम् ( वन्यम् ) दिगादित्वाद्भवार्थे यत् । ( वानेयम् ) पूर्वनगरीतिनद्यादित्वात् ढक् शैषिक: । ( वनि: । वनी ) । ""कृदिकारादक्तिन: इति वा ङीष् ।। 458 ।।
वन षण संभक्तौ ।। वनेर्रिभेदात्पुन: पाठ इति मैत्रेय: । तथैवेदाहरणानि । ( सनति । ससान सेनतु: । सनितेत्यादि । सायात् । सन्यात् ) ""किदाशिषि इति कित्त्वाद् । * ये विभाषा *लोपोयि इतिवद्वर्णमात्रे निर्देष्टव्ये य इत्यत्त्वतो निद्देशाद्यासुट्यात्वं नेत्युक्तम् । ( सिसनिषति । सिषासति )। ""सनीवन्तर्द्धभ्रस्त्रजदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् इतीड्विकल्प: । इडभावे ""जनसनखनां सन्ज्ञलो: इति ज्ञलादौ सनि क्ङिति विधीयमानमात्वं भवति (सान्यमिति । संसनीति । संसन्ति । संसात: ) इदं च क्ङित्येवेति ण्यति न भवति (सान्यमिति । संसनीति ""ये विभाषा इत्यात्वम् । इदं च क्डित्येवेति ण्डति न भवति (सान्यमिति । संसनीति । संसन्ति । संसात: ) । प्रकृतिग्रहणन्यायेन ""जनसन इत्यात्वे ""अनुनासिकस्य इतिदीर्घे परत्वाद् बाधित्वा ऽत्रापि भवति ( साति: । सात: । सातवान् ) आत्वसूत्रे च ज्ञलादिसन् जनसनोर्न संभवतीति सनोतेरेव विशेषणमिति वदता वृत्तिकारेण सनोते: ""सनीवन्त इति पक्ष इडागम:, तदिह सनोत्यर्थमेव सन्ग्रहणमित्यभिधानादिड्विधावात्वे च तानादिकस्यैव ग्रहणमिति च प्रतीयते । अन्ये तु पुनरुभयत्रोभयत्रोर्ग्रहणमाहु: । एवं वृत्तौ सनोतेरित्युपादानं [ तस्यानुनासिकलोपादात्वं विप्रतिषेधेन]इति
वक्ष्यामीत्येवमर्थं मन्तव्यम् । सानु: ) ""हसनिजचिरिचटिभ्यो ञुण् इति ञुण्प्रत्यय: । वन पाने, षणुदानइति द्वयं तनादौ ।। 460 ।।
अम गतृयादिषु ।। कनी दीप्तिगतीत्यत्र गते: परयो: शब्दसम्भक्तयोरादिशब्देन ग्रह: । ( अमति । आम । आमतु: । अमितेत्यादि । अमिमिषति ) । आमयतीत्यत्र ""न कम्यमिचमाम् इति मित्त्वनिषेधात् ""मितां हस्व: इति हस्वाभाव: । ( अम्यम् । अमितवान् )""पोरदुपधात् इति यत् । अमित्त्वात् निष्ठायां ""हृष्यमत्वरसंघुषास्वनाम् इतीड्विकल्पनात ( अमित: । आन्त: । अमितवान्, आन्तवान् ) इति भवति । इडभावे ""अनुनासिकस्यक्किज्ञलो: किङति इति दीर्घ: क्किपि पूर्ववत् । दीर्घे ""मो नो घातो: इति नत्वे आनिति भवति । नलोपस्तु न भवति असिद्धतृवादिति प्रोवोक्तम् । (अम:) । घ?ञि ""नोदात्तोपदेश इति वृद्धिनिषेध: । अत एव चिण्यति ण्यन्तात् ""न कम्यमि कति मित्त्वनिषेण्धात । ण्यपेक्षयावृद्धौ (मा भवान् आमीति) भवति । (आमय:) इत्यम रोगइति चौरादिकस्य । ( अमत्रम् )""अनिनक्षियज्बिध्रिपातिभ्यो ऽत्रन् इत्यत्रन् । ( अमित्र: )। ""अमेर्द्विषि चिच्च इतीत्रप्रत्यय: । (आम्रा:) । ""मितम्योर्दीर्घश्च इति रप्रत्यये दीर्घ: । ( आन्त्रम् ) । ""अत्यमिचमिशसिभ्य: क्रन् इति क्रन् ।। 461 ।।
द्रम हम्म मीमृ गतौ ।। ( द्रमति । दद्राम । द्रमितेत्यादि )। लुङि ""ह्मयन्त इति वृद्धिनिषेधात् ( अद्रमीत् । दिद्रमिषति । दन्द्रमीति । दन्द्रमीति । दन्द्रन्ति । दन्द्रान्त इत्यादि ) उत्तमे ""म्वोश्च इति नत्वे णत्वम् । ( दन्द्रण्मीत्यादि)। ( अदन्द्रन् )इत्यत्र तिप्सिपोर्हल्ङयादिलोपे ""मो नो धातो: इति नत्वे ""पदान्तस्य
इति णत्वं न भवति । ( द्रमयति । अदिद्रमत ) अमन्तत्वान्मित्त्वम् । ( अद्रमि । अद्रामि । द्रमन्द्रमम् ।
द्रामन्द्रामम् ) ""चिण्ण्मुलो: इति दीर्घविकल्प: । स्यादिषु चिण्वद्पिक्षे दीर्घविकल्पे णिलोपेच (द्रमिष्ते द्रामिष्त)इत्यादि । शुद्धे पुनरिटि णेर्गुणायादेशायो:(द्रमयिष्यते), इत्यादि । अण्यन्तात् चिणि ""नोदात्तोपदेश इति वृद्धिनिषेधात् ( अद्रमि )इत्येवेति । एवं णिति कृति च (द्रम:द्रमक) इत्यादि। ( दन्द्रमण:)""जुचङ्कम्य इत्यादिना तच्छीलादौ यङन्तादस्माद्युचि अल्लोपयलोपौ । (द्रमिड:) । ""ञमत्ताडु: इति ड: । "नेड्विशि कृति इति निषेधो बाहुलकान्न्? भवति । ( हम्मति । जहम्म हम्मितेत्यादि । जिहम्मिषति । जेहम्म्यते । जंहम्मीति । जंहन्ति जंहन्त ) इत्यादावनुपधात्वान्नोपधादीर्घ: । लङि हलङयादिसंयोगान्तलोपयो: ""मो नो धातो: इति नत्वे (अजंहन् हम्मयति । अजहम्मत् । हम्मित्वा । हम्मति:) । ज्ञानं, गत्यर्थो बुद्ध्यर्थ:, न हम्मति: ( अहम्मति ) अज्ञज्ञनम् । यद्वा अहमिति मति: । अहंशब्दो मान्तोहङकारवचनोव्ययम् । ( मीमति । मिमीम । मिमीमतु: । मीमितेत्यादि । मिमीमिषति । मेमीम्यते । मेमीमीति । मेमीन्त इत्यादि । लङि अमेमीन् । मीमयति । अमिमीमत् । मीमित्वा मीमित: ) अयं शब्दे चेति क्कचित्पठ्यते ।। 464 ।।
वमु छमु जमु ज्ञमु अदने ।। ( चमति । चचाम । चेमतु: । चमितेत्यादि ) । आङ्पूर्वत्वे तु""ष्टिवुक्लमुचमां शिति इति दीर्घ: । ( आचामति । आचामतु । आचामत् । आचामि ।आचामयति ) चिणि
ञिति णिति कृति च ""नोदात्तोपदेश इति वृद्धिनिषेधात् ( अचमि । चम: चमक) इत्यादि अत्रापि ""अनाचमिइति वचनात् (आचामि आचाम) इति वृद्धिरेव । ननु वार्त्तिके""अचमिकमिवमीनाम्इति केवलस्योपादानात् सर्वत्र वृद्धया भाव्यम् । नैतत् । यत इदं वार्तिकं धात्वन्तरमपि पर्युदसनीयं न केवलं सूत्रोपात्त इत्येवं परम् । तथा च भाष्ये अध्यगीष्ट । अत्यल्पमिदमुच्यते अनाचमेरित । अत एव न्यासश्चमेस्तावत् अनाचमेरिति सूत्र एवोपादानातृ प्रतिषेध इति । तथा वर्द्धमानोपि उपसर्गोपादानात् (अचमि, पर्यचमीति) । अपि च वृत्तावपि वार्त्तिकस्योदाहरणमाङ्पूर्वमेव दर्शितम् । ( चिचमिषति । चञ्चम्यते । चञ्चन्ति । चञ्चान्त ) इत्यामयति)। ""न कम्यमिचमाम् इति मित्त्वनिषेध:। चम्तेत्रेति (चमस:) ""अत्ममिचमि इत्यसन् । ( चमू: ) । ""कृषिचमितनिरमिसर्जिभ्य ऊ: इतृयूकारप्रत्यय: । ( छमति । चच्छाम । छमितेत्यादि । चिच्छमिषति । चञ्छम्यते । चञ्छमीति । चञ्छन्ति । चञ्छान्त ) इत्यादि । (छमयति) अमन्तत्वान्मित्त्वम् । चिण्णमुल्परे णौ ""चिण्णमुलोर्दोर्घोन्यतरस्याम् इति वा दीर्घ: । ( अच्छमि । अच्छामि, छमंछम् । छामछाममिति ) । चिवदिटि वृद्धेर्भावाभावाभ्यां, णिलोपे ( छमिष्यते, छामिष्यते ) इत्यादि । शुद्धे पुनरिटि गुणाययो: (छमयिष्यत)इत्यादि। णिचोभावे चिणि ञिति णिति कृति च ""नोदात्तोपदेशस्य इति वृद्धिनिषेधात् (अच्छमि) इत्यादिरेव भवति । ( जमति । जजाम । जेमतु: । जमिता । प्तमति । जज्ञाम । ज्ञमिता) इतृयादि पूर्ववत् । अत्र मैत्रेय: । जिमिं केचिदिच्दन्ति, ( जेमनमिति)। एषामुदित्त्वात्क्कायामिड्विकल्पे (चमित्वा । चान्त्वेत्यादि भवति )। निष्ठायां ""यस्य विभाषा इत्यनिट्त्वात् (चान्त ) इत्यादि । अनिटि । ""अनुनासिकस्य क्किज्ञलो: क्ङितिति दीर्घ: ।। 468 ।।
क्रमु पादविक्षेप ।। (क्रामति । चक्राम । चक्रमतु: । क्रमिता । क्रमिष्यति । क्रामतु । अक्रामत् । क्रामेत् । आशिषि । क्रम्यात् । ?अक्रमीत् )। ""हयन्तक्षण इति वृद्धिनिषेध: । (अक्रमिष्यत् ) । *क्रम: परस्मैपरेषु* (क्राम)इति परस्मैपदे शिति दीर्घ: । इत्यत्र हेर्लुकि प्रत्ययलक्षणेन परस्मैपदपरशित्परत्वेन दीर्घ: । न च ""न लुमता इति निषेध: । तस्य लुमता लुप्तप्रयनिमित्ताङ्गसंज्ञज्ञविषयत्वात् । इह च हौ विकरणान्तमङ्गं क्रमस्तु विकरणे, विकरणश्च नेत्यत्वात् पूर्वमत्र भवति । ""वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष: इति शब्विषये पक्षेश्यनो विधानात् ( क्राम्यति, क्राम्यतु, अक्राम्यतृ । क्राम्येत् ) । इत्यादि । ( क्रमयति । अचिक्रमत् ) । ""मितां हस्व: इत्यत्र वृत्ति: । के चिदत्र वेत्यनुवर्त्तयन्ति सा च व्यविस्थतविभाषा, तेन संक्रामयतीत्येवमादि सिद्धं भवति, अविगीतस्तु संक्रमयतीति, अत्रैव रसातले संक्रमितेत्यादिप्रयोगोनुकूल: । ( क्रमते । चक्रमे । क्रन्ता । क्रंस्यते । ?अक्रमत । क्रमेत, क्रंसीष्ट । अक्रंस्त ।
अक्रंस्यत ) । "अनुपसर्गाद्वा इति पक्षे तङ् । अत्रापि शब्विषये वा श्यनि (क्रम्यते) इत्यादि *वृत्तिसर्गतायनेषु क्रम:* इति वृत्त्यादिषु नित्यस्तङुदाहार्य: । वृत्तिरप्रतिबन्ध: । सग उत्साह: । तायनं स्फीतता, अयं वृत्त्यादिविषयस्तङ् ""उपपराभ्याम् इति सिद्धे सत्यारम्भान्नियमादन्योपसृष्टान्न्?ा भवति, तेन संक्रामतीति
परस्मैपदमेव । यदायमाङ्पूर्व उदग्मनार्थंस्तदा ""आङ् उद्गमने इति वचनात् नित्यस्तङुदाहार्य: (आक्रमते भानु:) इत्यादि। अत्र [ज्यीतिरुद्गमनइति वक्तव्यम्]इत्युक्तत्वात् (आक्रामति घूमो हर्म्यतलात् )इत्यत्र न भवति।
अत्र [ज्योतिरुद्गमनइतिवक्तव्यम्]इत्युक्त्वात् (आक्रामति धूमो हर्म्यतलात् )इत्यत्र न भवति उद्गमने वतमानोयमकर्मक इति कैयट उक्तम् । पदमञ्जर्यो तु आक्रमति धूमो हर्म्यतलमिति वृत्तिमुपादाम उद्गमने क्रमिरकर्मक: तस्मादाक्रामति धूमो हर्म्यतलादिति पठितव्यमित्युक्तम् । यद्वा उद्गमनपूर्विकायां व्यापतौ अत्र क्रमिर्द्रष्टव्य इति द्वितीया समर्थिता । ( नभ: समाक्रामति चन्द्रमा:)इत्यत्र नोद्गमनं विवक्षितं किं तर्हि व्याप्तिरिति परस्मैपदमिति तत्रैवोक्तम्। ( विक्रमति ) सुष्टु पदानि विक्षिपतीत्यर्थ: । अश्वादीनां गतिविशेषी विक्रम इति वृत्ति: । ""वे: पादविहरणे' इति नित्यस्तङ् अण्यत्र(विक्रामत्यजिनसन्धि:)इति । त्रुठ्यतीत्यर्थ:।(प्रपक्रमते भोक्तुम्)। उपक्रमते भोक्तुम् ) । ""प्रोपाभ्यां समर्थाभ्याम् इति नित्यस्तङ् । समर्थौ समानार्थौ । तच्च समानार्थत्वमादिकर्मणि । अन्यत्र ( प्रक्रामति उपक्रामतीति) आगच्छति उपगच्छतीति चार्थ:।आत्मनेपदेषु वलाद्यार्धधातुकस्य *स्नुक्रमीरनात्मनेपदनिमित्त* इतीडभाव: । स्नुक्रमोर्वला द्यार्द्धधातुकस्येडागमो भवति आत्नेपदनिमित्ताभाव इत्यक्षरार्थ: । तदर्थादनयोरुदात्तत्वादेवेट: सिद्धावारम्भादात्मनेपदनिमितृतत्वे निषेधार्थ सूत्रं भवति । निमित्तग्रहणं कुवद्रपताप्रतिपत्त्यर्थं न तु योग्यतापरमिति कर्मकर्तृविषयाद्भावकर्मविषयाच्चास्मात् कृत: सत्यामपियोग्यतायामात्मनेपदाभावात् ( प्रकमिता
प्रक्रमितुं प्रकमितव्यम्)इतीड् भवत्येवा न चार्थविशेषादुपसर्गविशेषाच्चात्मनेपदस्य निमित्तं न क्रामतिरिति कथमस्यात्मनेपदनिमित्तत्वमिति मन्नव्यम् । यतस्तेषां विषयतया विशेषणत्वात् तद्विशिष्टो धातुरेव निमित्तम् ।
( चिक्रंसते )इत्यादौ ""पूर्ववत् सन: इत्यतिदेशात्प्रकृतिगतमेव सनन्तेप्यात्मनेपदस्य निमित्तमिति तस्य क्रमिनिमितृतत्वादिडभाव: । (चिक्रंस्यत)इत्यादौ भावकर्मणोरवि परत्वात् ""पूर्ववत् सन: इतृयात्मनेपदमिति प्रकृतेरेवात्मनेपदनिमित्तत्वाभावादिट् स्यात्, अनेन तु सति नेति । यदा तु सनन्ताण्णिच् तदातमेव) इति कर्मकर्तर्यपि । अत्र तु कर्मवदतिदेशनिमित्तमेवात्मनेपदं न तु क्रमिनिमित्तम् । अत्र हरदत्त: सिद्धं स्नुक्रमोरात्मनेपदेन समानपदस्तस्येणिषेधात् । ""क्रमेश्च इति वार्त्तिककारवचनादिहाप्यत्नेपदेन
समानपदस्य लाभादिटा न भाव्यमित्याह । भाष्यवार्तिकपूर्वापरपरपर्यालाचनायां समानपदस्थतृवे तात्पर्यं नेति प्रतीयते । यतस्तु वार्त्तिकाकार आत्नेपदे परे स्नुक्रमोर्नत्येवं सूत्रार्थे आश्रीयमाणे निर्दिष्टपरिभाषाया: आनन्तर्ये एव भाव्यत्वात् प्राचक्रमिष्यतइत्यत्र स्येन व्यवधानात् प्रक्रसिष्टत्यत्र च सीयुट आत्मनेपदभक्तत्वात् प्रक्रस्येते इत्यत्र व्यपवर्गाभावात् आत्मनेपदरत्वाभावादिणिनषेधाप्रसङ्गाद् [आत्मनेपदपरतङ्परसीयुडेकादेशेषु च प्रतिषेधो वक्तव्य:]इत्युक्तत्वात्, परिहारमात्रीयं [सिद्धं त्वात्मनेपदेपदेन समानपदस्यस्येणिनषेधाद्[इत्याह । भाष्यकृता च यथान्यासमेवास्त्विति सूत्रमेव स्यापितम्। न च तत्र समानपदस्थत्वागति:, तथा वृत्तावपि, न चेत्स्रुक्रमी आत्मनेपदस्य निमित्ते, निमित्तग्रहणं सीयुडादेस्तत्परस्य च प्रतिषेधार्थमित्युक्तम् । गतमद, प्रक्रान्तेत्यादावात्मनेपदाभावेपि क्रमेस्तु कर्त्तर्यात्मनेपदविषयादसत्यप्यात्मनेपदे [प्रकृतिषेधो वक्तव्य] इति इडभाव:।अनुपसर्गात् क्रमे:(क्रन्ता क्रमिता)इत्युभयमपि भवति। ""अनुपसर्गाद्वा इति विकल्पेनात्मनेपदविषयादित्येके । अन्येत्वातृमनेपदविषयादिति अनन्यभावे विषयशब्दं वर्णयन्त: क्रमितेत्येव भवितव्यमित्याहुरिति पदमञ्जर्याम् । क्रमेरातृमनेपदे तासावनिट्त्वात् ""उपदेश्?ोत्वत: इति थल इण्निषेधो नाशङ्कय: । यत: परस्मैपदे तासौ सेट्त्वान्नित्यानिट्त्वाभाव: (क्रान्त्वा क्रमित्वा ) । उदित्त्वादिड्विकल्प:, इडभावे ""क्रमश्च क्त्वि इति वा दीर्घ: । ( क्रान्त: । ) ""यस्य विभाषा इतीण्निषेध: (क्रम:) घञ्। ""नोदात्तोपदेश इति वृद्धिनिषेध: । क्रममधीते (क्रमक:) । ""क्रमादिभ्यो वुन् इति तदधीते तद्वेदेति विषये वुन् । ( चङ्क्रमण: ) । ""जुचङ्क्रम्य इति युच् । न क्रामतीति नक्र:। ""डोन्यत्रापि दृश्यते इति ड: । ""नभ्राण्नपान्नवेदानासत्यानमुचिनुकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या इति निपातनान्नो नलोपाभाव: । (क्रिमि:) । क्रमिगमिनमिस्थम्भामच इच्चेतीन्द्रत्यये अकारस्येकार: । (क्रिमिण:) । ""लोमादिपामादिपिच्छादिभ्य3 शनेलच इति पामादिपाठान्मत्वर्थीयो न: ।।
यज्ञनारयणार्येण ( 1 )प्रक्रियेयं प्रपञ्चिता ( 1 ) ग्रन्थकर्तुरपरं नामैतत् ।
तस्या नि:?शेषतस्सन्तु बोद्धारो भाष्यपारगा: ।।
अणादय उदात्ता उदात्तेत: ।। 469 ।।
अय वय पय मय चय तय णय गतौ ।। इत आरभ्य रेवत्यन्ता उदात्ता अनुदात्तेत:। (अयते । अयां चक्रे)। ""दयायासश्च इत्त्याम् । (अयिता । अयिष्यते । अयाताम् । आयत । अयेत । आशिषि। अयिषीष्ट । आयिष्यत । ) अस्य लुङ्लिटोर्ध्वमि ""विभाषेट: इति मूर्द्धन्यविकल्प उदाहार्य: । एवमन्येष्वपि यान्तेषु ।
(अयियिषते । अययति माभवानयियत् । आय: अय:) घञचौ । चलानार्थत्वेपि नास्य युजस्ति, ""न ये इति यान्तानां तन्निपेधतु । तेन अयितेति सामान्यस्त्रृन् भवति । (प्लायते) *उपसर्गस्यायतौ* इति उपसर्गस्थस्य रेफस्यायतिपरत्वाल्लत्वम् । नन्वेकादेशस्य स्थानिवत्त्वद्रेफस्यायति: परो न भवति । सत्यम् । "येननाव्यवधानं तेन व्यवहितेपि वचनप्रामाणत्' इति एकेन वर्णेन व्यवधानमाश्रयिष्यते । न चास्ति ""पूर्वत्रासिद्धे न स्थानवद् इति, ""तस्य दोष: संयोगादिलोपलत्वणत्वेषु इति तस्य सापवादत्वात । एवं च (पल्ययते) इत्यत्रापि लत्वं भवति । न चानन्तरो निर्दुरो रेफोवकाश इति वाच्यम्। तर्हि लाघवार्थे तावेवोपाददीत । येषामुपसर्गविशेषणमयतिग्रहणम् । अयतिपरस्योपसर्गस्य यो रु इति तेषां नैवास्य चोद्यस्यावसर:, किं तु प्रत्यय इत्यत्रापि ल्वं स्यात् । भविव्यमेवेति तेषामेव के? चित्, अपरे तु प्रतिपूर्वस्यायतेर्नैष प्रयोग इति, तेषां प्रत्ययशब्द: प्रतिपूर्वादिणोचि, प्रत्ययितशब्दोप्यस्मादेव तारकादित्वादितचि । (निरयते । दुरयते । ) इति प्रयोगस्मान्तयोर्द्रष्टव्य: । नह्मत्र लत्वप्रसङ्ग, ""ससजुषो: इत्यस्यासिद्धत्वात् । (वयते । ववये ।) वादित्वान्नैत्त्वाभ्यासलोपौ । (वयिता) इत्यादि पूर्ववत् । (विवयिषते । वावय्यते । वावयीति । वावति । वावत: । वावयति। वावयीषि । वावसि । वावथ: । वावथ । वावयीमि । वावामि । वावाव: । वावाम:) । वलि यलोप: । यञादौ तु कृते लोपे ""अतो दीर्घो यञि इति दीर्घ: । ज्ञो यलोपात्पूर्वं नित्यत्वादद्भावे वल्परत्वाभावाद्यलोपाभाव:, लोटि सेर्हिभावात् परत्वात्पूर्वं वलि लोपे तदनन्तरं हिरादेश:, तस्यैव ""अतो हे:।इति लुकि (वाव)इति भवति। पूर्वं तु हिभावे तमाश्रित्य वलि लोपे सन्निपातपरिभाषया हेर्लुङ् न स्यात्, उत्तमे तु नित्यत्वादाटि यलोपाप्रसङ्गात्, ( अवावत्, अवाव )इत्यादि भवति । इदं च व्योर्वलि लोप इत्यनुवादपूर्वं विधेयं निर्दिश्य तस्य पूर्वनिर्देशेन विद्धयन्तराद्बलीयस्त्वज्ञापनादवगम्यते, यत्तु तत्र वृत्तावुक्तंपूर्वनिर्देशस्य फलं वेरपूक्तलोपात्पूर्वं वलि लोप इति, तद्विध्यन्तरोपलक्षणम् । आहुश्चैवं तत्र व्याख्यातार: । यद्वा प्रकृतिविषेषं प्रत्ययविशेषं चापेक्षमाणाद्धलङ्यादिलोपात् वर्णमात्रापंक्षत्वादन्तन्ङ्गो वलि लोप इति पूर्वमेवासावत्र प्रवर्त्तिष्ते । ( पयते । पेये । पयिता । मयते । मेये । मयिता । चयते । चेये । चयिता । तयते । तेये । ?तयिता । नयते । नेये । नयिता) इत्यादि । चयिवत् । नयतेर्णोपदेशत्वात् प्रणयतइति णत्बं भवति । अत्र षयीति मूर्द्धन्योष्मादिरपि क्कचित् कोशे पठ्यते, मैत्रेयादिभिस्तु न पठ्यते । नयादीनामपि अयिवत् ""न ये इति युज्निषेधात् तच्छीलादौ तृनेव । णय रक्षणे चेति मैत्रेय: । तय णयेत्येके । अयादीनां क्कौवलि लोपे तुकि (यत्, वत्,) इत्यादि भवति । अतो । लोपस्तु न भवति, आर्द्धधातुकोपदेशे यदकारान्तं तस्य तद्विधानात् ।। 476 ।।
दय दागतिरक्षणहिंसादानेषु।।(सर्पिषो दयते । सर्पिर्दयते) ""अधीगर्थदयेशां कर्मणिइति कर्मणि शेषे षष्ठी । अशेषे तु द्वितीयैव । दयां चक्रे। ""दयायासश्च इत्याम् । (दयिता) इत्यादि वयिवत् । (दयालु: । )
""स्पृहिगृहपितिदयिनद्रातन्द्राश्रद्धाभ्य आलुच् इति ताच्छीलिक आलुच्, दया । दयतिर्भिदादिषु द्रष्टव्य:
।। 477 ।।
रय गतौ ।। ( रयते ) इत्यादि वयिवत् । (राय:,) घञ् । ( रय: ) तु अचि ।। 478 ।।
ऊयी तन्तुसंताने ।। (ऊयते । ऊयां चक्रे । ) ""इजादेश्चगुरुमत: इत्याम् । ( ऊयितेत्यादि। ऊययति । मा भवानूयियत् ) । द्विर्वचनात्पूर्वमुपधाहस्वत्वमित्युक्तम् । (ऊयित्वा, ऊत:, ऊतवान् । ) ईदित्त्वान्निष्ठायामनिट्त्वम् । ( ऊति: ) । बाहुलकात् क्तिन् ""ऊतियुति इति निपातनमञ्चते: क्तिनि उदात्तार्थमिति वृत्तावुक्तम् ।। 479 ।।
पूयी विशरणे दुर्गन्धे च ।। ( पूयते । पुपूये । पूयितेत्यादि । पुपूयिषते । पोपूययते । पोपूयीति ।
पोपोति । पोपूत:) । इत्यादि वयतिवत् । तसादौ ङित्त्वान्न गुण: । (पूययति । अपूयुत् । पूयित्वा । पूत: । पूतवान् ) । ईदित्त्वान्निष्ठायामनिट्त्वम् । (पूति:) । ""गन्धस्येदुत्पूति इत्यादिनिर्देशात् । क्तिन् । (पूय:) । पचाद्यच् ।। 480 ।।
क्नूयी शब्दो दन्दे च ।। (क्नूयते) । चुक्नूये । क्नेयिता ) इत्यादि पूयतिवत् । क्रोपयदि""अर्त्तिह्णीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इति पुकि यलोपे ""पुगन्तलघूपधस्य च इति गुण: । (अचुक्नूपत् )कृतेपि गुणे ""णौ चङि इति हस्व: । क्नूयीति सानुबन्धकस्य निर्द्देशाद्यङ्लुकि (चोक्नूयी?तीति) भवति । (चेलक्रोपं वृष्टो देव:) । ""चेले क्रोपे:इति ण्यन्तादस्मात् कर्मणिचेल उपपदे वर्षप्रमाणे गम्यमाने णमुल् । यावता वर्षेण चेलं क्नूप्यते तावद् वृष्टइत्यर्थ:। चेलइत्यर्थग्रहणमिति । (वस्त्रक्रोपम्) इत्याद्यपि भवति।अस्यापीदित्त्वान्निष्टायामनिट्त्वम् ।। 481 ।।
क्ष्मायी शब्दो विधूनने ।। ( क्ष्मायते । चक्ष्माये । क्ष्मायितेत्यादि । चिक्ष्मायिषते । चाक्ष्माय्यते । चाक्ष्मायीति । चाक्ष्माति) । तसादौ क्ङिति सार्वधातुके ""श्नाभ्यस्तयोरात:ईहल्यघो: इतीत्वम् । (चाक्ष्मीत) इत्यादि । लोटि तातङ्पक्षे तस्य ङित्त्वात् (चाक्ष्मीतात् )इति भवति, हेरप्यपित्त्वात् ङित्त्वात् चाक्ष्मीहि । लङि नित्यत्वाद्यलोपात्पूर्वं ""सिजभ्यस्त इति जुस्भावो भवति । (अचाक्ष्मायीत् ।अचाक्ष्मीताम् । । अचाक्ष्मायुरित्यादि
। क्ष्मापयति। अचिक्ष्मपत् ) ""र्त्तिही इत्यादिना पुक् । अस्यापि सानुबन्धकस्य निर्द्देशात् यङ्लुकि
( चाक्ष्माययतीति ) । ईदित्त्वान्निष्ठायां क्ष्मात: । ( क्ष्मातवान् ) ।। 482 ।।
स्फायी ओप्यायी वृद्धौ । (स्फायते । पस्फाये ) अभ्यासे ""शर्पूर्वा: खय: इति खय: शेष्?ा:
( स्फायितेत्यादि ) क्ष्मायिवत् । णौ ""स्फायो व: इति यकारस्य वाकारे ( स्फायति । अपिस्फवदिति भवति, स्फीतवान् ) ""स्फाय: स्फी निष्ठायाम्' इति स्फीभाव: । वत्वस्फीभावौ प्रकृतिग्रहणन्यायेन यङ्लुक्यपि भवति इति ( पास्फावयति । स्फीत: स्फीतवानि भवति । स्फायतइति स्फा: ) क्किपि वलिलोप: । अयं वरेपूक्तलोपात्पूर्वं भवतीति व्यतौ प्रतिपादितम् । स्फाश्च तदण्डं च ( स्फाण्डस् । एवं स्फाण्त्रम् )। वृद्धाण्डमुच्यते ( स्फार: ) । "6स्फायितञ्ची: इत्यादिना रक् ( प्यायते । पिप्ये । पिप्यिषे । पिप्याथे । पिप्यिघ्वे । पिप्यिवहे ) परत्वात् ""लिड्यङोश्च इति प्याय: पीभाव: । पुन: प्रसङ्गुविज्ञानात् पीशब्दस्य द्विर्वचनम् । ""एरनेकाच0 इत्यजादौ यण् ( प्यायितेत्यादि ) पूर्ववत् । लुङि ""दीपजनबुधपूरितायिप्याभ्योन्यतरस्याम् इति कर्त्तरि तशब्दे वा चिणि ( अप्यायि अप्यायिष्टेति ) भवति । यङि लिङ्वत्पीभावे ( आपीनोन्धु:, आपीनमूध: ) इति । ""ओदितश्च इति निष्ठानत्वम् । ईदित्त्वं पीभावाभावे निष्ठाया इण्निवृत्त्यर्थम् । ईदितोनन्तराया निष्ठाया नत्वार्थमिदमोदित्त्वम् । कृते । पीभावे स्वरान्तत्वादन्टिस्वरान्तइत्य?न्टित्वे सावकाश इति पीभाव इणिनवृत्तेर्न ज्ञापक:। स्फायसस्त्वीदित्त्वे स्फीभावस्य नित्यत्वात् स्वरान्तत्वादनिटत्वे सिद्धे अनुदात्तेत्वमात्रं फलम् । न च सत्यपीटि सवर्णदार्घत्वेनेदमेव रूपमिति मन्तव्यम् । परत्वादियङ्प्रसङ्गात् ।। 484 ।।
तायृ सन्तानपालनयो: ।। संतान: प्रबन्ध: ( तायते । तायते । तताये । तायितेत्यादि । पूर्ववत् । लुङि ""दोपजन0 इत्यादिना कत्तैरी तशब्दे वा चिणि ( अतापि अतायिष्टेति भवति ) ऋदित्त्वाण्णै चङ्युपधाया हस्वाभावात् ( अततायत् ) अनीदित्त्वान्निष्ठायां ( तायित:तायितवान् ) ।। 485 ।।
शल चलनसंवरणायो: ( शलते शेले । शलिता । शलिष्यते । शलताम् । अशलत । शलेत् ) आशिषि शलिषीष्ट । अशलिष्ट । अशलिष्ट । शाशल्यते । शशलीति । शशल्ति ) लङि तिप्सिपोर्हलङ्यादिलोप: ।
( अशाशल् । शालयति । अशीशलत् । शलित्वा । शलित: । शलभ:) ""कृगृसृशलिभ्यो भच् (शल्कम् ) । ""इणिकापाशल0 इति कन् । शलाका । ""शलिपतिपटिभ्यो नित् इत्याक: । (शालूक:) । ""शलिमण्डिभ्यामूकण् इत्यूकण् । शललं, कलप्रत्ययश्चेत्यत्र प्रत्ययस्य पूर्वनिर्देशस्य घात्वन्तरादप्ययं भवतीति सूचनार्थत्वात् कुण्डलादिवत् कल: प्रत्यय: ( शलली) । पिप्पल्यादित्वात् ङीष् जातिलक्षणो वा
( शलालु: ) । पिप्पल्यादित्वात् ङीष् जातिलक्षणो वा ( शलालु: ) गन्धद्रव्यविशेष:, शलालु: पण्यं व्यवहार्यमस्य (शलालुक:) । ""शलालुनोन्यतरस्याम् इति प्रथमान्तादस्य पण्यमित्यर्ये ष्ठन्, षित्त्वात् स्त्रिर्या
( शलालुकी ) । अन्यतरस्यांग्रहणात् ""प्राग्वहतेष्ठक् इति ठकि ""किति च इत्यादिवृद्धौ ( शालालुक: )। उभयोरपि ठशब्दयोरुक: परत्वात् ""इसुसुक्तान्तात्क: इति कादेश: । अत एव शलालुन इति निर्देशादालुप्रत्यय: । शालेति शालतावुक्तम् । अयं गत्यर्थे ज्वलादौ परस्मैपदी ।। 486 ।।
वल वल्ल संवरणे सञ्चरणे च ।। (वलते । ववले । वलितेत्यादि) शलिवत् । णौ घटादित्वाद्वलयतीति । ( वाल: )।""हलश्च इति करणे घञ् । ( वार: ) । वालमूलेत्यादिना पक्षेर: ( वलि: )
(वली ) इन्नन्तात् ""कृदिकादक्तिन: इति वा ङीष् । (वलिन:) पामादित्वान्मत्वर्थे न:।वलिभ:। "तुन्दिवलिवटेर्भं:,' अयमपि मत्वर्थीय: (वलि:) ""वलेर्वलश्चादिरण्य इति हन्प्रत्यये वलादेश: । वलभी । बाहुलकादभचिपिप्पल्यादिदर्शनात् डीष् (वलय:) वलि मलि तनिभ्य: कयन इति कयन् ( वलगु:) ""वलेर्गुक्व इति उकप्रत्ययो गुगागमश्च (वलाक:) ""वकालदायश्च इत्याकनन्तो निपातित: । वलाकाया अपत्वं (वालकि:)
""वाह्वादिभ्यश्च इतीञ्प्रत्यय: । अत्र पाठात् जातिलक्षणङीषं बाधित्वा टाप् अजादित्वाद्वा । वलाका अस्य सन्तीति वलाकी, ""ब्रीह्मादिभ्यश्च इति मत्वर्थइनि: । (वल्लितेत्यादि) । यङ्लुकि तिप्सिपोर्हल्ङयादिलोपे संयोगान्तलोपे च अवावल् । ( वल्लभ: ) । ""रासिवल्लिभ्यां च इत्यभच् । ( वल्लरी ) । बाहुलकादरप्रत्यये पिष्पल्यादिदर्शनात् ङीष् । (वल्लि: वल्ली ) इति कृदिकारत्वाद्वा ङीष् । ( वल्लूरं ) शुष्कर्मासम् । खर्जपिञ्जादिभ्य ऊरोलचाविति ऊर: ।। 488 ।।