अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


कदाचित् अहं केनचित् ज्येष्ठेन सह भाषमाण: आसम् । तदा सम्भाषणसमये स: मां पृष्टवान् - ‘‘किम् अद्यत्वे संस्कृतस्य प्रसार: वेगेन जायमान: अस्ति ?’’ इति ।

अहं प्रतिपृष्टवान् - ‘‘किमर्थं भवान् अमुं प्रश्नं पृष्टवान् ?’’ इति ।

पत्रिकाः

तदा तेन उक्तम् - ‘‘अद्यत्वे अहं वार्तापत्रेषु पत्रिकादिषु च संस्कृतविषये बहुधा पठामि, अत:..’’ इति । एतत्प्रसङ्गादारभ्य मम मनसि केचन विचारा: प्रचलन्ति । तान् अत्र भवद्भि: सह संविभक्तुम् इच्छामि । ‘लोकसभाया: विधानसभाया: वा निर्वाचनसमये कस्मै अभ्यर्थिने कस्मै दलाय च जना: मतं यच्छेयु: ?’ इति पृष्टे तञ्ज्ञा: राजनीतिज्ञा: वदन्ति - ‘पराजयं प्राप्नुवते अभ्यर्थिने दलाय वा कोऽपि मतं न ददाति । जयते अभ्यर्थिने जयते दलाय वा एव मतस्य दानं जना: चिन्तयन्ति’ इति । यथा निमज्जति उडुपे कोऽपि स्थातुं न इच्छेत्, प्लवमानां नौकाम् एव, अपरं पारं प्रति तरन्तीं नौकामेव सर्व: अपि आरोढुम् इच्छेत्, तथैव अस्ति संस्कृतपठनविषय: अपि ।

‘भविष्यत: भाषा संस्कृतभाषा’, ‘जगति महता वेगेन वर्धमाना भाषा संस्कृतम्’, ‘अद्यतनसमस्यानां परिहारस्य दात्री संस्कृतभाषा’, ‘अग्रिमे काले आधुनिकविषयाणां ज्ञानेन सह संस्कृतस्यापि ज्ञानं येषां भवेत् तेषामेव यश: भविष्यति’, ‘संस्कृतज्ञा: अग्रस्थानीया: भविष्यन्ति’, ‘सर्वे संस्कृतं पठन्त: सन्ति’, ‘अत्र संस्कृतम् आगतम्’, ‘तत्र संस्कृतं पठन्त: सन्ति’ (तर्हि अहमपि संस्कृतं पठिष्यामि) इत्येवंप्रकारेण यदा वयं जनमानसे भावनिर्माणं कर्तुं समर्था: भवेम तदा संस्कृतभाषा वायुवेगेन वर्धिष्यते ।

समाजमानसे अद्य सर्वै: आद्रियमाणा पठ्यमाना च भाषा इति भावनिर्माणाय किञ्चन महत्त्वपूर्णं साधनं नाम ‘माध्यम’(Media)पदेन निर्दिश्यमानानि वृत्तपत्र-पत्रिका-विद्युन्मान-जालपुट-अन्तर्जालादीनि । संस्कृतानुरागिभि: अस्माभि: कुशलतापूर्वकं प्रयत्नपूर्वकं च तेषां माध्यमानाम् उपयोग: करणीय: । प्रतिदिनं जनानां श्रुतिपथे दृष्टिपथे च संस्कृतम् आगच्छेत् । तदर्थम् उपाया: चिन्तनीया: । यदा सर्वत: अपि संस्कृतसम्बद्धा: वार्ता: श्रूयेरन्, यदा वार्तापत्रिकादिषु संस्कृतविषयका: वार्ता: पठ्येरन् तदा नूतनेषु संस्कृतपठनोत्साह: वर्धेत, संस्कृतज्ञेषु विश्वास: दार्ढ्यं प्राप्नुयात्, छात्रेषु संस्कृतप्रीति: अङ्कुरिता भवेत् च ।

दैनिकवार्तापत्रेषु प्रान्तस्तरीया: जनपदीया: नगरीया: च वार्ता: भवन्ति । प्रान्तीयानां वार्तापत्रेषु जनपदीयपृष्ठानि पृथक् भवन्ति, किञ्च सप्ताहे कतिपयदिनेषु शिक्षा-कृषि-विज्ञानादिरूपेण एकैकविषयस्य अतिरिक्तपृष्ठानि अपि भवन्ति । दैनिकवार्तापत्राणामेव साप्ताहिकविशेषपत्राणि अपि भवन्ति । एतेषु सर्वेषु संस्कृतसम्बद्धा: वार्ता:, स्तम्भलेखा:, चित्राणि, सूचना:, सन्दर्शनानि, सुभाषितादीनि च आवर्षं पुन: पुन: भवितुम् अर्हन्ति, यदि वयं तदर्थं प्रयत्नं कुर्याम ।

प्रत्येकं कार्यक्रमस्य वार्तां सज्जीकृत्य वार्तापत्रेभ्य: सा प्रेषणीया । प्रमुखवार्तापत्राणां प्रतिनिधय: प्रतिनगरं भवन्ति । तै: सह स्नेहसम्बन्धं स्थापयेम चेत् तेषां माध्यमेन बहु साधयितुं शक्येत । वार्तानिर्माणम् अपि किञ्चन कौशलम् ।

1. कार्यक्रमस्य वैशिष्ट्यानां वर्णनस्य वार्ता
2. नगरस्य/जनपदस्य श्रेष्ठस्य संस्कृतविदुष: वैशिष्ट्यपरिचायिका वार्ता
3. कमपि छात्रविशेषं स्वीकृत्य तस्य द्वारा अष्टाध्याय्या: अमरकोषस्य वा कण्ठस्थीकरणं कारयित्वा तद्विषये वार्ता
4. समीपे विद्यमानस्य ताडपत्रसङ्ग्रहस्य, कस्यचन विशिष्टस्य ताडपत्रग्रन्थस्य वा परिचायिका वार्ता
5. जनपदस्य संस्कृतविद्यालयानां, विदुषां, छात्राणां, शिक्षणस्य च सामान्यं सर्वेक्षणं कृत्वा तद्विषये वार्ता
6. भवत्स्थानं प्रति संस्कृतभारत्या: प्रान्तीयपदाधिकारिण: आगमनावसरे वार्ता
7. पर्वविशेषप्रसङ्गे तस्य पर्वण: संस्कृतस्य च सम्बन्धं कल्पयित्वा वार्ता,
8.संस्कृतभाषिबालविषये, संस्कृतगृहविषये, संस्कृतबालकेन्द्रविषये वा वार्ता

इत्येवं बहुविधा: वार्ता: निर्मातुं प्रसारयितुं च शक्या: ।

संस्कृतभारत्या प्रकाशितं ‘Science in Samskrit’ ‘Pride of India’ ‘भुवमवतीर्णा भगवद्भाषा’ इत्यादीनां बहूनां पुस्तकानां साहाय्येन लघून् लेखान् सज्जीकृत्य जनपदीयेभ्य: नगरीयेभ्य: वा वार्तापत्रेभ्य: दातुं शक्नुम: । प्राय: तादृशवार्तापत्राणां समीपे जनाभावत: लेखानाम् अभाव: अपि भवति एव । अत: वयं लेखान् दद्याम चेत् अवश्यं प्रकाशयिष्यन्ति ता: पत्रिका: । आवर्षं प्रकाशनं भवेत् एव । यदा यदा संस्कृतवार्ता प्राप्येत, प्रसङ्ग: वा लभ्येत तदा सर्वदा वयं ‘वाचकानां पत्राणि’ इत्यस्मै विभागाय पत्रं लिखेम । साप्ताहिकी पाक्षिकी मासिकी इत्यादय: बह्व्य: पत्रिका: भवन्ति । विविधानां सामाजिकसांस्कृतिकधार्मिकसङ्घटनानां च मुखपत्रिका: अपि भवन्ति । एतासु सर्वासु अपि संस्कृतानुकूला: लेखा: यथा प्रकाशिता: स्यु: तथा अस्माभि: प्रयतनीयम् । एकैक: अपि अस्मदीय: एतदर्थं चिन्तनस्य प्रारम्भं यदि कुर्यात् तर्हि बहव: उपाया: स्फुरेयु:, अनेके मार्गा: दृश्येरन् च ।

जनशक्ति:, धनशक्ति:, राजशक्ति:, ज्ञानशक्ति: इत्यादिषु शक्तिषु माध्यमशक्ति: अपि अन्यतमा । सा च अद्यतने काले सर्वसमर्था ! विशेषतया जनाभिप्रायरूपणे जनजागरणे जनान्दोलननिर्माणे च माध्यमशक्ते: महत्तमभूमिका भवति । तस्मात् संस्कृतोज्जीवनाय अस्माभि: माध्यमशक्ते: सम्पूर्णोपयोग: चिन्तनीय: । तदर्थं माध्यमानां विषये अस्माकम् अध्ययनम् अपेक्षितम् । पत्रकारै: सह, वार्ताहरै: सह, सम्पादकै: सह अस्माभि: मिलद्भि: भवितव्यम् । पत्रकारिताक्षेत्रे संस्कृतज्ञै: प्रवेश: कर्तव्य: ।

संस्कृतस्य प्रचार: भवेत् । संस्कृतकार्यस्य प्रचार: भवेत् । कार्यकर्तृगणस्य च प्रचार: भवेत् । परन्तु स्वस्य प्रचार: न भवेत् । संस्कृतस्य, संस्थाया:, कार्यस्य च प्रकाशनं नाम स्वस्य प्रकाशनं नैव । वार्तासु इतरेषां प्रदर्शनं भवेत्, स्वस्य न । एषा जागरूकता सदा भवेत् । तत्र कारणद्वयम् - स्वस्य प्रसिद्धि: यावती अधिका भवेत् तावता एव प्रमाणेन स्वस्य अहङ्कार: अपि अधिक: भवेत् । अपि च इतरेषां प्रचार: क्रियेत चेत् तेषां प्रोत्साहनं भवेत्, गणभाव: च वर्धेत । स्वस्यैव प्रचार: स्वयमेव येन क्रियेत स: उपहासभाग् भवेत्, लाघवं प्राप्नुयात्, जना: तस्मात् दूरं गच्छेयु: च ।

विभिन्नेषु दिनेषु विभिन्नासु पत्रिकासु संस्कृतसम्बद्धा: लेखा: आवर्षं प्रकाशिता: यदि भवेयु: प्रतिदिनं प्रतिसप्ताहं वा काचित् वार्ता कश्चन लेख: च यदि प्रकाशित: भवेत्, संस्कृतं सदैव चर्चायां यदि भवेत्, तर्हि जनानां तत्र अवधानं भवेत् । एवं कर्तुं सर्वै: संस्कृतज्ञै: मिलित्वा प्रयत्न: करणीय: । संस्कृतं वार्ताविषय: कथं भवेत् इति विषये संस्कृतमहाविद्यालयै:, विश्वविद्यालयै: चापि गभीरं चिन्तनं करणीयम् । जालपुटे इदानीं तु अधिकांशै: संस्कृतज्ञै: (मया अपि) आङ्ग्लभाषया लिख्यते । तत्रापि अस्माभि: संस्कृतेन लेखनस्य प्रारम्भ: करणीय: । ‘Blog’ इति या व्यवस्था अस्ति तत्र वयं संस्कृतेन निरन्तरतया स्वीयान् विचारान् प्रकटयितुं शक्नुम: । संस्कृतज्ञानां परस्परव्यवहाराय संस्कृताध्येतॄणां ज्ञानवर्धनसाहाय्याय च वयं तत्र जालपुटे संस्कृतेन व्यवहारं कुर्याम । परन्तु बाह्यजगत: बोधनाय आङ्ग्लभाषया अपि लिखेम । अस्मत्परिचिता: अस्माकं विविधकक्षाणां छात्रा: भूतपूर्वच्छात्रा: च ये ये आङ्ग्लादिभाषाभि: जालपुटेषु लिखन्ति ते सर्वे संस्कृतविषये यथा लिखेयु: तथा ते अस्माभि: प्रेरणीया: ।

लेखका: पत्रकारा: च संस्कृतानुरागिण: बहव: सन्ति । परं तेषां संस्कृतविषये अधिकं ज्ञानं न भवति । यदि अस्माभि: तै: सह मिलित्वा तेभ्य: विषया: दीयेरन् तर्हि ते अवश्यमेव अस्मदपेक्षितान् लेखान् लिखेयु: एव । संस्कृतस्य प्रचाराय माध्यमानाम् उपयोग: कथं करणीय: इत्येष: विषय: अस्माभि: सर्वै: अवगन्तव्य: चेत् प्रतिराज्यं स्थाने स्थाने संस्कृतज्ञेभ्य: कार्यकर्तृभ्य: तद्विषयक-प्रशिक्षणात्मिका: कार्यशाला: अनुभविनां पत्रकाराणां द्वारा आयोजनीया: ।

अद्यावधि वयं प्रचारत: दूरे आस्म । तत्र कारणानि अपि आसन् । तेन प्रसिद्धिपराङ्मुखत्वेन लाभा: अपि अभवन् । परम् इदानीं समय: आगत: अस्ति पुनश्चिन्तनाय । स्वयम् अस्माकं गुणसंस्कारान् अनाशयित्वा, कस्मिन् अपि जने स्वप्रचारेच्छा यथा न उत्पद्येत तथा जागरूकतां वहन्त:, कार्यकर्तॄणां प्रसिद्धिप्रियतां विना संस्कृतस्य विषये प्रचार: यथा अधिकाधिकं भवेत्, प्रतिनगरं प्रतिस्थानं संस्कृतसम्बद्धा: वार्ता: प्रतिदिनं यथा स्यु: तथा कर्तुम् अवश्यमेव प्रयत्न: कर्तव्य: ।

वयं माध्यमस्य महत्त्वम् अवगच्छेम । स्वीयं पत्रं, पुष्पं, फलं, तोयं च समर्पयेम ! प्रतिवर्षं त्रिचतुरान् वा लेखान् लिखेम !!

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - अक्टोबर् २००९
लेखकः - च मू कृष्णशास्त्री
"https://sa.wikisource.org/w/index.php?title=माध्यमानाम्_उपयोगः&oldid=41174" इत्यस्माद् पुनः प्राप्तिः