मार्कण्डेयपुराणम्/अध्यायः ००१‌-००५

मार्कण्डेयपुराणम्

1(1) प्रथमोऽध्यायः

आरम्भमङ्गलम्

यद्योगिभिर्भवभयार्तिविनाशयोग्यम्
आसाद्य वन्दितमतीव विवक्तचित्तैः ।
तद्वः पुनातु हरिपादसरोजयुग्मम्
अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः॥मंगल१॥

पायात् स वः सकलकल्मषभेददक्षः
क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः ।
श्वासावधूतसलिलोत्कणिकाकरालः
सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात्॥मंगल२॥

नारायणं समस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥मंगल३॥


तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् ।
व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत॥१.१॥

भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।
पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः॥१.२॥

जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् ।
पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम्॥१.३॥

त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा ।
भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः॥१.४॥

यथायुधानां कुलिशमिन्द्रियाणां यथा मनः ।
तथेह सर्वशास्त्रणां महाभारतमुत्तमम्॥१.५॥

अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते ।
परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक्॥१.६॥

धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् ।
कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम्॥१.७॥

चतुराश्रमधर्माणामाचारस्थितिसाधनम् ।
प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता॥१.८॥

तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा ।
यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते॥१.९॥

व्यासवाक्यजलौघेन कुतर्कतरुहारिणा ।
वेदशैलावतीर्णेन नीरजस्का मही कृता॥१.१०॥

कलशब्दमहाहंसं माख्यानपराम्बुजम् ।
कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम्॥१.११॥

तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् ।
तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः॥१.१२॥

कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवो जगत्सूति-स्थिति-संयमकारणम्॥१.१३॥

कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान्॥१.१४॥

भेषजं ब्रह्महत्याया बलदेवो महाबलः ।

तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥१.१५॥

कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥१.१६॥

एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि ।
भवन्तो मूढबुद्धीनामवबोधकराः सदा॥१.१७॥

इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः ।
दशाष्टदोषरहितो वक्तुं समुपचक्रमे॥१.१८॥


मार्कण्डेय उवाच

क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम ।
विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते॥१.१९॥

ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव ।
तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः॥१.२०॥

पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।
द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः॥१.२१॥

वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः ।
विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च॥१.२२॥

एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता ।
प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः॥१.२३॥


जैमिनिरुवाच

अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी ।
यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम्॥१.२४॥

तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् ।
कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः॥१.२५॥

कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् ।
जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम्॥१.२६॥


मार्कण्डेय उवाच

शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा ।
शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे॥१.२७॥

नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् ।
शक्रं सुराधिराजानं तन्मुखासक्तलोचनम्॥१.२८॥

स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः ।
समुत्तस्थौ स्वकं चास्मै ददावासनमादरात्॥१.२९॥

तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः ।
प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः॥१.३०॥

ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ ।
यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः॥१.३१॥


शक्र उवाच


ततः कथान्तरे शक्रस्तमुवाच महामुनिम् ।
देह्याज्ञां नृत्यतामासां तव याभिमतेति वै॥१.३२॥

रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा ।
घृताची मेनका वापि यत्र वा भवतो रुचिः॥१.३३॥

एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः ।
विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः॥१.३४॥

युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् ।
आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः॥१.३५॥

गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै ।
चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम्॥१.३६॥

तद्वाक्यसमकालं च एकैकास्ता नतास्ततः ।
अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम्॥१.३७॥


मार्कण्डेय उवाच


तासां संभ्रममालोक्य भगवान् पाकशासनः ।
पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम्॥१.३८॥

शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः ।
प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे॥१.३९॥

तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् ।
दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम्॥१.४०॥


मार्कण्डेय उवाच

तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः ।
अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः॥१.४१॥

तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता ।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥१.४२॥

अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् ।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥१.४३॥

ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः ।
तमप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥१.४४॥

इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा ।
मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम्॥१.४५॥

स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः ।
क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः॥१.४६॥

तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः ।
जगाम तत्र यत्रास्ते सा बाला रुचिरानना॥१.४७॥

तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् ।
क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः॥१.४८॥

उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः॥१.४९॥

यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् ।
आगतासि मदोन्मत्ते मम दुः खाय खेचरि॥१.५०॥

तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता ।
जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश॥१.५१॥

निजरूपं परित्यज्य पक्षिणीरूपधारिणी ।
चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः॥१.५२॥

अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि ।
वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन॥१.५३॥

इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा ।
तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम्॥१.५४॥


इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः

2(2)

द्वितीयोऽध्यायः

मार्कण्डेय उवाच

अरिष्टनेमिपुत्रोऽभूद् गरुडो नाम पक्षिराट् ।
गरुडस्याभवत् पुत्रः सम्पातिरिति विश्रुतः॥२.१॥

तस्याप्यासीत् सुतः शूरः सुपार्श्वो वायुविक्रमः ।
सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः॥२.२॥

तस्यापि तनयावास्तां कङ्कः कन्धर एव च॥२.३॥

कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् ।
ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम्॥२.४॥

आपानासक्तममलस्त्रग्दामाम्बरधारिणम् ।
भार्यासहायमासीनं शिलापट्टेऽमले शुभे॥२.५॥

तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् ।
प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम॥२.६॥

स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि ।
नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु॥२.७॥


कङ्क उवाच

साधारणोऽयं शैलेन्द्रो यथा तव तथा मम ।
अन्येषां चैव जन्तूनां ममता भवतोऽत्र का॥२.८॥


मार्कण्डेय उवाच

ब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः ।
क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम्॥२.९॥

कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः ।
विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः॥२.१०॥

स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः ।
तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः ।
कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन्॥२.११॥

जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः ।
पक्षवातेन महता चालयन् भूधरान् वरान्॥२.१२॥

वेगात् पयोदजालानि विक्षिपन् क्षतजेक्षणः ।
क्षणात् क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः॥२.१३॥

पानासक्तमतिं तत्र तं ददर्श निशाचरम् ।
आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम्॥२.१४॥

स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् ।
केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम्॥२.१५॥

वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् ।
पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम्॥२.१६॥

ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् ।
तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया॥२.१७॥

यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया ।
तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम्॥२.१८॥

विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् ।
यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः॥२.१९॥


मार्कण्डेय उवाच

इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा ।
रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम्॥२.२०॥

यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् ।
त्वामप्यद्य हनिष्येऽहं खड्गेनानेन खेचर॥२.२१॥

तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि ।
इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे॥२.२२॥

ततः पतगराजस्य यक्षाधिपभटस्य च ।
बभूव युद्धमतुलं यथा गरुड-शक्रयोः॥२.२३॥

ततः स राक्षसः क्रोधात् खड्गमाविध्य वेगवत् ।
चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम्॥२.२४॥

पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् ।
वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा॥२.२५॥

वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् ।
तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत॥२.२६॥

ततः पतगराजेन वक्षस्याक्रम्य राक्षसः ।
हस्त-पाद-करैराशु शिरसा च वियोजितः॥२.२७॥

तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् ।
किञ्चित् संजातसंत्रासा प्राह भार्या भवामि ते॥२.२८॥

तामादाय खगश्रेष्ठः स्वकं गृहमगात् पुनः ।
गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात्॥२.२९॥

कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी ।
मेनकातनया सुभ्रूः सौपर्णं रूपमाददे॥२.३०॥

तस्यां स जनयामास तार्क्षों नाम सुतां तदा ।
मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् ।
तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः॥२.३१॥

मन्दपालसुताश्चासंश्चत्वारोऽमितबुद्धयः ।
जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः॥२.३२॥

तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः ।
उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम्॥२.३३॥

कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह ।
सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा॥२.३४॥

कुरु-पाण्डवयोर्युद्धे वर्तमाने सुदारुणे ।
भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा॥२.३५॥

तत्रापश्यत् तदा युद्धं भगदत्तकिरीटिनोः ।
निरन्तरं शरैरासीदाकाशं शलभैरिव॥२.३६॥

पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् ।
तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम्॥२.३७॥

भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् ।
आयुषः सावशेषत्वात् तूलराशाविवापतत्॥२.३८॥

तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् ।
पपात महती घण्टा बाणसंछिन्नबन्धना॥२.३९॥

समं समन्तात् प्राप्ता तु निर्भिन्नधरणीतला ।
छादयन्ती खगाण्डानि स्थितानि पिशितोपरि॥२.४०॥

हते च तस्मिन् नृपतौ भगदत्ते नरेश्वरे ।
बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः॥२.४१॥

वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् ।
भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान् महात्मनः॥२.४२॥

घण्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम ।
आजगाम तमुद्देशं शमीको नाम संयमी॥२.४३॥

स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् ।
बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति॥२.४४॥

अथर्षिः शिष्यसहितो घण्टामुत्पाट्य विस्मितः ।
अमातृपितृपक्षाणि शिशुकानि ददर्श ह॥२.४५॥

तानि तत्र तथा भूमौ शमीको भगवान् मुनिः ।
दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान्॥२.४६॥

सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् ।
पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम्॥२.४७॥

न गन्तव्यं निवर्तध्वं कस्माद् व्रजथ कातराः ।
उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ॥२.४८॥

नश्यतो युध्यतो वापि तावद्भवति जीवितम् ।
यावद्धातासृजत् पूर्वं न यावन्मनसेप्सितम्॥२.४९॥

एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः ।
भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः॥२.५०॥

विलासिनस्तथैवान्ये कामयाना निरामयाः ।
अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः॥२.५१॥

अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः ।
योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम्॥२.५२॥

शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ।
हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः॥२.५३॥

तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः ।
प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः॥२.५४॥

विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते ।
ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम्॥२.५५॥

इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे॥२.५६॥

क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् ।
क्व च मांस-वसा-रक्तैर्भूमेरास्तरणक्रियाः॥२.५७॥

केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः ।
दैवानुकूलता लोके महाभाग्यप्रदर्शिनी॥२.५८॥

एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् ।
निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान्॥२.५९॥

मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् ।
श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः॥२.६०॥

द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः ।
रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः॥२.६१॥

तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु ।
कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम्॥२.६२॥

इति मुनिवरचोदितास्ततस्ते मुनितनयाः परिगृह्य पक्षिणस्तान् ।
तरुविटपसमाश्रितालिसङ्घं ययुरथ तापसरम्यमाश्रमं स्वम्॥२.६३॥

स चापि वन्यं मनसाभिकामितं प्रगृह्य मूलं कुसुमं फलं कुशान् ।
चकार चक्रायुध-रुद्र-वेधसां सुरेन्द्र-वैवस्वतः जातवेदसाम्॥२.६४॥

अपाम्पतेर्गोष्पतिवित्तरक्षिणोः समीरणस्यापि तथा द्विजोत्तमाः ।
धातुर्विधातुस्त्वथ वैश्वदेविकाः श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः॥२.६५॥


इति श्रीमार्कण्डेयपुराणे चटकोत्पत्तिर्नाम द्वितीयोऽध्यायः

3(3)

तृतीयोऽध्यायः

मार्कण्डेय उवाच

अहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः ।
चकाराहारपयसा तथा गुप्त्या च पोषणम्॥३.१॥

मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि ।
कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः॥३.२॥

दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् ।
रथचक्रप्रमाणां ते पुनराश्रममागताः॥३.३॥

श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः ।
ज्ञानञ्च प्रकटीभूतं तत्र तेषां प्रभावतः॥३.४॥

ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् ।
कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन्॥३.५॥

ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने ।
आवास-भक्ष्य-पयसां त्वं नो दाता पिता गुरुः॥३.६॥

गर्भस्थानां मृता माता पित्रा नैवापि पालिताः ।
त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः॥३.७॥

क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् ।
गजघण्टां समुत्पाट्य कृतवान् दुः खरेचनम्॥३.८॥

कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा ।
कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान्॥३.९॥

कदा मे सहजा कान्तिः पांशुना नाशमेष्यति ।
एषां पक्षानिलोत्थेन मत्समीपविचारिणाम्॥३.१०॥

इति चिन्तयता तात भवता प्रतिपालिताः ।
ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम्॥३.११॥

इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत् स्फुटम् ।
शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा॥३.१२॥

कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः ।
उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः॥३.१३॥

कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा ।
रूपस्य वचसश्चैव तन्मे वक्तुमीहार्हथ॥३.१४॥


पक्षिण ऊचुः

विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः ।
तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा॥३.१५॥

सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः ।
तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि॥३.१६॥

तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च ।
यथाभिमतमस्माभिस्तदा तस्योपपादितम्॥३.१७॥

समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् ।
एवं तत्राथ वसतां तस्यास्माकञ्च कानने॥३.१८॥

आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः ।
आताम्रनेत्रः स्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः॥३.१९॥

सत्य-शौच-क्षमाचारमतीवोदारमानसम् ।
जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च॥३.२०॥


पक्ष्युवाच

द्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि ।
भक्षणार्थो महाभाग गतिर्भव ममातुला॥३.२१॥

विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै ।
पतितोऽस्मि महाभाग श्वसनेनातिरंहसा॥३.२२॥

सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः ।
स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम्॥३.२३॥

प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः ।
भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा॥३.२४॥

तत् कुरुष्वामलमते मत्त्राणायाचलां मतिम् ।
प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम॥३.२५॥

स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् ।
प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम्॥३.२६॥

इत्युक्त्वा पुनरप्येनमपृच्छत् स द्विजोत्तमः ।
आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया ।
स चाह नरमांसेन तृप्तिर्भवति मे परा॥३.२७॥


ऋषिरुवाच

कौमारं ते व्यतिक्रान्तमतीतं यौवनञ्च ते ।
वयसः परिणामस्ते वर्तते नूनमण्डज॥३.२८॥

यस्मिन् नराणां सर्वेषामशेषेच्छा निवर्तते ।
स कस्माद् वृद्धभावेऽपि सुनृशंसात्मको भवान्॥३.२९॥

क्व मानुषस्य पिशितं क्व वयश्चरमं तव ।
सर्वथा दुष्टभावानां प्रशमो नोपपद्यते॥३.३०॥

अथवा किं मयैतेन प्रोक्तेनास्ति प्रयोजनम् ।
प्रतिश्रुत्य सदा देयमिति नो भावितं मनः॥३.३१॥

इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः ।
शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च॥३.३२॥

उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् ।
विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन्॥३.३३॥

कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह ।
जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः॥३.३४॥

गुरुः पूज्यो यदि मतो भवतां परमः पिता ।
ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा॥३.३५॥

तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः ।
यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम्॥३.३६॥


ऋषिरुवाच

मामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः ।
युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेत वै॥३.३७॥

तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् ।
ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः ।
कष्टं कष्टमिति प्रोच्य नैतत् कुर्मेति चाब्रुवन्॥३.३८॥

कथं परशरीरस्य हेतोर्देहं स्वकं बुधः ।
विनाशयेद् घातयेद्वा यथा ह्यात्मा तथा सुतः॥३.३९॥

पितृ-देव-मनुष्याणां यान्युक्तानि ऋणानि वै ।
तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः॥३.४०॥

तस्मान्नैतत् करिष्यामो नी चीर्णं यत् पुरातनैः ।
जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च॥३.४१॥

मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा ।
आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः॥३.४२॥

इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् ।
प्रोवाच पुनरप्यस्मान् निर्दहन्निव लोचनैः॥३.४३॥

प्रतिज्ञातं वचो मह्यं यस्मान्नैतत् करिष्यथ ।
तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ॥३.४४॥

एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् ।
अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम्॥३.४५॥

भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम ।
आहारीकृतमेतत् ते मया देहमिहात्मनः॥३.४६॥

एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते ।
यावत् पतगजात्यग्रय स्वसत्यपरिपालनम्॥३.४७॥

न यज्ञैर्दक्षिणावद्भिस्तत् पुण्यं प्राप्यते महत् ।
कर्मणान्येन वा विप्रैर्यत् सत्यपरिपालनात्॥३.४८॥

इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः ।
प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा॥३.४९॥

योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् ।
जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन॥३.५०॥

तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः ।
तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत्॥३.५१॥

भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक ।
जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ॥३.५२॥

तत् क्षमस्वामलमते का चेच्छा क्रियतां तव ।
पालनात् सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि॥३.५३॥

अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति ।
तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति॥३.५४॥

इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः ।
प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः॥३.५५॥

बिभ्यतां मरणात् तात त्वमस्माकं महामते ।
क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः॥३.५६॥

त्वगस्थिमांससङ्घाते पूयशोणितपूरिते ।
कर्तव्या न रतिर्यत्र तत्रास्माकमियं रतिः॥३.५७॥

श्रूयतां च महाभाग यथा लोको विमुह्यति ।
कामक्रोधादिभिर्देषैरवशः प्रबलारिभिः॥३.५८॥

प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् ।
चर्मभित्तिमहारोधं मांसशोणितलेपनम्॥३.५९॥

नवद्वारं महायामं सर्वतः स्नायुवेष्टितम् ।
नृपश्च पुरुषस्तत्र चेतनावानवस्थितः॥३.६०॥

मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।
यतेते वैरनाशाय तावुभावितरेतरम्॥३.६१॥

नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।
कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः॥३.६२॥

यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।
सदा सुस्थबलश्चैव निरातङ्कश्च जायते॥३.६३॥

जातानुरागो भवति शत्रुभिर्नाभिभूयते॥३.६४॥

यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति ।
रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति॥३.६५॥

सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः ।
तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम्॥३.६६॥

प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसंज्ञकैः ।
रागः शंश्लेषमायाति मनसा च सहेतरैः॥३.६७॥

इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः ।
द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ॥३.६८॥

मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् ।
अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा॥३.६९॥

रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति ।
एवं रागस्तथा मोहो लोभः क्रोधस्तथैव च॥३.७०॥

प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः ।
रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते॥३.७१॥

लोभाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥३.७२॥

एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् ।
जीविते च सलोभानां प्रसादं कुरु सत्तम॥३.७३॥

योऽयं शापो भगवता दत्तः स न भवेत् तथा ।
न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम॥३.७४॥

यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन ।
न मे वागनृतं प्राह यावदद्येति पुत्रकाः॥३.७५॥

दैवमत्र परं मन्ये धिक् पौरुषमनर्थकम् ।
अकार्यं कारितो येन बलादहमचिन्तितम्॥३.७६॥

यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः ।
तस्मात् तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ॥३.७७॥

ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकल्मषाः ।
मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ॥३.७८॥

एवं शप्ताः स्म भगवन् पित्रा दैववशात् पुरा ।
ततः कालेन महता योन्यन्तरमुपागताः॥३.७९॥

जाताश्च रणमध्ये वै भवता परिपालिताः ।
वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः ।
नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते॥३.८०॥


मार्कण्डेय उवाच

इति तेषां वचः श्रुत्वा शमीको भगवान् मुनिः ।
प्रत्युवाच महाभागः समीपस्थायिनो द्विजान्॥३.८१॥

पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् ।
सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः ।
ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे॥३.८२॥

ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना ।
जग्मुः शिखरिणां श्रेष्टं विन्ध्यं द्रुमलतायुतम्॥३.८३॥

यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः ।
तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः॥३.८४॥

इति मुनिवरलब्धसत्क्रियास्ते मुनितनया विहगत्वमभ्युपेताः ।
गिरिवरगहनेऽतिपुण्यतोये यतमनसो निवसन्ति विन्ध्यपृष्ठे॥३.८५॥


इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नाम तृतीयोऽध्यायः

4(4)

चतुर्थोऽध्यायः

मार्कण्डेय उवाच

एवं ते द्रोणतनयाः पक्षिणो ज्ञानिनोऽभवन् ।
वसन्ति ह्यचले विन्ध्ये तानुपास्व च पृच्छ च॥४.१॥

इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य जैमिनिः ।
जगाम विन्ध्यशिखरं यत्र ते धर्मपक्षिणः॥४.२॥

तन्नगासन्नभूतश्च शुश्राठ पठतां ध्वनिम् ।
श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः॥४.३॥

स्थानसौष्ठवसम्पन्नं जितश्वासमविश्रमम् ।
विस्पष्टमपदोषञ्च पठ्यते द्विजसत्तमैः॥४.४॥

वियोनिमपि सम्प्राप्तानेतान् मुनिकुमारकान् ।
चित्रमेतदहं मन्ये न जहाति सरस्वती॥४.५॥

बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे ।
त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती॥४.६॥

इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरम् ।
प्रविश्य च ददर्शासौ शिलापट्टगातान् द्विजान्॥४.७॥

पठतस्तान् समालोक्य मुखदोषविवर्जितान् ।
सोऽथ शोकेन हर्षेण सर्वानेवाभ्यभाषत॥४.८॥

स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनिं मां निबोधत ।
व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकम्॥४.९॥

मन्युर्न खलु कर्तव्यो यत् पित्रातीव मन्युना ।
शप्ताः खगत्वमापन्नाः सर्वथा दिष्टमेव तत्॥४.१०॥

स्फीतद्रव्ये कुले केचिज्जाताः किल मनस्विनः ।
द्रव्यनाशे द्विजेन्द्रास्ते शबरेण सुसान्त्विताः॥४.११॥

दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे ।
पातयित्वा च पात्यन्ते त एव तपसः क्षयात्॥४.१२॥

एतद्दृष्टं सुबहुशो विपरीतं तथा मया ।
भावाभावसमुच्छेदैरजस्त्रं व्याकुलं जगत्॥४.१३॥

इति सञ्चिन्त्य मनसा न शोकं कर्तुमर्हथ ।
ज्ञानस्य फलमेतावच्छोकहर्षैरधृष्यता॥४.१४॥

ततस्ते जैमिनिं सर्वे पाद्यार्घ्याभ्यामपूजयन् ।
अनामयञ्च पप्रच्छुः प्रणिपत्य महामुनिम्॥४.१५॥

अथोचुः खगमाः सर्वे व्यासशिष्यं तपोनिधिम् ।
सुखोपविष्टं विश्रान्तं पक्षानिलहतक्लमम्॥४.१६॥


पक्षिण ऊचुः

अद्य नः सफलं जन्म जीवितञ्च सुजीवितम् ।
यत् पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम्॥४.१७॥

पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते ।
सोऽद्य शान्तिं गतो विप्र युष्मद्दर्शनवारिणा॥४.१८॥

कच्चित् ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु ।
वृक्षेष्वथ लता-गुल्म-त्वक्सार-तृणजातिषु॥४.१९॥

अथवा नैतदुक्तं हि सम्यगस्माभिरादृतैः ।
भवता सङ्गमो येषां तेषामकुशलं कुतः॥४.२०॥

प्रसादञ्च कुरुष्वात्र ब्रूह्यागमनकारणम् ।
देवानामिव संसर्गो भवतोऽभ्युदयो महान् ।
केनास्मद्भाग्यगुरुण आनीतो दृष्टिगोचरम्॥४.२१॥


जैमिनिरुवाच

श्रूयतां द्विजशार्दूलाः कारणं येन कन्दरम् ।
विन्ध्यस्येहागतो रम्यं रेवावारिकणोक्षितम् ।
सन्देहान् भारते शास्त्रे तान् प्रष्टुं गतवानहम्॥४.२२॥

मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहम् ।
तमहं पृष्टवान् प्राप्य सन्देहान् भरतं प्रति॥४.२३॥

स च पृष्टो मया प्राह सन्ति विन्ध्ये महाचले ।
द्रोणपुत्रा महात्मानस्ते वक्ष्मन्त्यर्थविस्तरम्॥४.२४॥

तद्वाक्ययोदितश्चेममागतोऽहं महागिरिम् ।
तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ॥४.२५॥


पक्षिण ऊचुः

विषये सति वक्ष्यामो निर्विशङ्कः शृणुष्व तत् ।
कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम्॥४.२६॥

चतुर्ष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि ।
समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमितम्॥४.२७॥

एतेषु गोचरोऽस्माकं बुद्धेर्ब्राह्मणसत्तम ।
प्रतिज्ञान्तु समारोढुं तथापि नहि शक्नुमः॥४.२८॥

तस्माद्वदस्व विश्रब्धं सन्दिग्धं यद्वि भारते ।
वक्ष्यामस्तव धर्मज्ञ न चेन्मोहो भविष्यति॥४.२९॥


जैमिनिरुवाच

सन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे ।
शृणुध्वममलास्तानि श्रुत्वा व्याख्यातुमर्हथ॥४.३०॥

कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः ।
वासुदेवोऽखिलाधारः सर्वकारणकारणम्॥४.३१॥

कस्माच्च पाण्डुपुत्राणामेका सा द्रुपदात्मजा ।
पञ्चानां महिषी कृष्णा सुमाहनत्र संशयः॥४.३२॥

भेषजं ब्रह्महत्याया बलदेवो महाबलः ।
तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥४.३३॥

कथं च द्रौपदेयास्तेऽकृतदारा महारथाः ।
पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥४.३४॥

एतत् सर्वं कथ्यतां मे सन्दिग्धं भारतं प्रति ।
कृतार्थोहं सुखं येन गच्छेयं निजमाश्रमम्॥४.३५॥


पक्षिण ऊचुः

नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च॥४.३६॥

चतुर्व्यूहात्मने तस्मै त्रिगुणायागुणाय च ।
वरिष्ठाय गरिष्ठाय वरेष्यायामृताय च॥४.३७॥

यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् ।
येन विश्वमिदं व्याप्तमजेन जगदादिना॥४.३८॥

आविर्भाव-तिरोभाव-दृष्टादृष्ट-विलक्षणम् ।
वदन्ति यद् सृष्टमिदं तथैवान्ते च संहृतम्॥४.३९॥

ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना ।
ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम्॥४.४०॥

प्रणिपत्य तथेशानमेकबाणविनिर्जितैः ।
यस्यासुरगणैर्यज्ञा विलुप्यन्ते न यज्विनाम्॥४.४१॥

प्रवक्ष्यामो मतं कृत्स्नं व्यासस्याद्भुतकर्मणः ।
येन भारतमुद्दिश्य धर्माद्याः प्रकटीकृताः॥४.४२॥

आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः॥४.४३॥

स देवो भगवान् सर्वं व्याप्य नारायणो विभुः ।
चतुर्धा संस्थितो ब्रह्मन् सगुणो निर्गुणस्तथा॥४.४४॥

एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः ।
ज्वालामालोपरुद्धाङ्गी निष्ठा सा योगिनां परा॥४.४५॥

दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा ।
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते॥४.४६॥

रूपवर्णादयस्तस्या न भावाः कल्पनामयाः ।
अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी॥४.४७॥

द्वितीया पृथिवीं मूद्र्घ्ना शेषाख्या धारयत्यधः ।
तामसी सा समाख्याता तिर्यक्त्वं समुपाश्रिता॥४.४८॥

तृतीया कर्म कुरुते प्रजापालनतत्परा ।
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी॥४.४९॥

चतुर्थो जलमध्यस्था शेते पन्नगतल्पगा ।
रजस्तस्या गुणः सर्गं सा करोति सदैव हि॥४.५०॥

या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा ।
सा तु धर्मव्यवस्थानं करोति नियतं भुवि॥४.५१॥

प्रोद्धूतानसुरान् हन्ति धर्मविच्छित्तिकारिणः ।
पाति देवान् सतश्चान्यान् धर्मरक्षापरायणान्॥४.५२॥

यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ॥४.५३॥

भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च ।
एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा॥४.५४॥

कृत्वा नृसिंहरूपञ्च हिरण्यकशिपुर्हतः ।
विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः॥४.५५॥

वामनादींस्तथैवान्यान् न संख्यातुमिहोत्सहे ।
अवताराश्च तस्येह माथुरः साम्प्रतं त्वयम्॥४.५६॥

इति सा सात्त्विकी मूर्तिरवतारान् करोति वै ।
प्रद्युम्नेति च सा ख्याता रक्षाकर्मण्यवस्थिता॥४.५७॥

देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता ।
गृह्णाति तत्स्वभावं च वासुदेवेच्छया सदा॥४.५८॥

इत्येतत् ते समाख्यातं कृतकृत्योऽपि यत्प्रभुः ।
मानुषत्वं गतो विष्णुः शृणुष्वास्योत्तरं पुनः॥४.५९॥


इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम द्वितीयोऽध्यायः

5(5)

पञ्चमोऽध्यायः

पक्षिण ऊचुः

त्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ।
ब्रह्महत्याभिभूतस्य परा हानिरजायत॥५.१॥

तद्धमं प्रविवेशाथ शाक्रतेजोऽपचारतः ।
निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते॥५.२॥

ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।
अवलुञ्च्य जटामेकामिदं वचनमब्रवीत्॥५.३॥

अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः॥५.४॥

स्वकर्माभिरतो येन मत्सुतो विनपातितः ।
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम्॥५.५॥

ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः ।
महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः॥५.६॥

इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः ।
अहन्यहनि सोऽवर्धदिषुपातं महाबलः॥५.७॥

वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ।
प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः॥५.८॥

सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा ।
ऋषयः प्रीतमनसः सर्वभूतहिते रताः॥५.९॥

समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः ।
वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत॥५.१०॥

तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् ।
सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम्॥५.११॥

अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः ।
धर्षयामास देवेन्द्रस्तदा रूपमहीयत॥५.१२॥

अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् ।
विहाय दुष्टं देवेन्द्रं नासत्यावगमत् ततः॥५.१३॥

धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् ।
ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम्॥५.१४॥

राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः ।
कुलेष्वतिबला दैत्या अजायन्त महामुने॥५.१५॥

कस्यचित्त्वथ कालस्य धरणी भारपीडिता ।
जगाम मेरुशिखरं सदो यत्र दिवौकसाम्॥५.१६॥

तेषां सा कथयामास भूरिभारावपीडिता ।
दनुजात्मजदैत्योत्थं खेदकारणमात्मनः॥५.१७॥

एते भवद्भिरसुरा निहताः पृथुलौजसः ।
ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम्॥५.१८॥

अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः ।
तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम॥५.१९॥


पक्षिण ऊचुः

तेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् ।
प्रजानामुपकारार्थं भूभारहरणाय च॥५.२०॥

यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः ।
कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः॥५.२१॥

बलं मुमोच पवनस्ततो भीमो व्यजायत ।
शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः॥५.२२॥

उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती ।
पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः॥५.२३॥

तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात्॥५.२४॥

शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् ।
योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि॥५.२५॥

पञ्चानामेकपत्नीत्वमित्येतत् कथितं तव ।
श्रूयतां बलदेवोऽपि यथा यातः सरस्वतीम्॥५.२६॥


इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः