प्रमुखा विकल्पसूचिः उद्घाट्यताम्

6(6)
षष्ठोऽध्यायः

पक्षिण ऊचुः

रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली ।
चिन्तयामास बहुधा किं कृतं सुकृतं भवेत्॥६.१॥

कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ।
पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपम्॥६.२॥

जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ।
तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम्॥६.३॥

तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ।
कुरूणां पाण्डवानां च यावदन्ताय कल्पते॥६.४॥

इत्यामन्त्र्य हृषीकेशं पार्थ-दुर्योधनावपि ।
जगाम द्वारकां शौरिः स्वसैन्युपरिवारितः॥६.५॥

गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलाम् ।
श्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः॥६.६॥

पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ।
हस्ते गृहीत्वा समदां रेवतीमप्सरोपमाम्॥६.७॥

स्त्रीकदम्बकमध्यस्थो ययौ मत्तः पदा स्खलन् ।
ददर्शच वनं वीरो रमणीयमनुत्तमम्॥६.८॥

सर्वर्तुफलपुष्पाढ्यं शाखामृगगणाकुलम् ।
पुण्यं पद्मवनोपेतं सपल्वलमहावनम्॥६.९॥

स शृण्वन् प्रीतिजननान् बहून् मदकलान् शुभान् ।
श्रोत्ररम्यान् सुमधुरान् शब्दान् खगमुखेरितान्॥६.१०॥

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ।
अपश्यत् पादपांस्तत्र विहगैरनुनादितान्॥६.११॥

आम्रानाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान् ।
आविल्वकांस्तथा जीरान् दाडिमान् बीजपूरकान्॥६.१२॥

पनसान् लकुचान् मोचान् नीपांश्चातिमनोहरान् ।
पारावतांश्च कङ्कोलान् नलिनानम्लवेतसान्॥६.१३॥

भल्लातकानामलकांस्तिन्दुकांश्च महाफलान् ।
इङ्गुदान् करमर्दांश्च हरीतक-विभीतकान्॥६.१४॥

एतानन्यांश्च स तरून् ददर्श यदुनन्दनः ।
तथैवाशोक-पुन्नाग-केतकी-बकुलानथ॥६.१५॥

चम्पकान् सप्तपर्णांश्च कर्णिकारान् समालतीन् ।
पारिजातान् कोविदारान् मन्दारान् बदरांस्तथा॥६.१६॥

पाटलान् पुष्पितान् रम्यान् देवदारुद्रुमांस्तथा ।
सालांस्तालांस्तमालांश्च किंशौकान् वञ्जुलान् वरान्॥६.१७॥

चकोरैः शातपत्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारीतैर्जोवजीवकैः॥६.१८॥

प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम्॥६.१९॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः॥६.२०॥

कह्लारैः कमलैश्चापि आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः॥६.२१॥

कारण्डवैः प्लवैर्हंसैः कूर्मैर्मद्गुभिरेव च ।
एभिश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः॥६.२२॥

क्रमेणेत्थं वनं शौरिर्वोक्षमाणो मनोरमम् ।
जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम्॥६.२३॥

स ददर्श द्विजांस्तत्र वेदवेदाङ्गपारगान् ।
कौशिकान् भार्गवांश्चैव भारद्वाजान् सगौतमान्॥६.२४॥

विविधेषु च सम्भूतान् वंशेषु द्विजसत्तमान् ।
कथाश्रवणबद्धोत्कानुपविष्टान् महत्सु च॥६.२५॥

कृष्णाजिनोत्तरीयेषु कुशेषु च वृषीषु च ।
सूतञ्च तेषां मध्यस्थं कथयानं कथाः शुभाः॥६.२६॥

पौराणिकीः सुरर्षोणामाद्यानां चरिताश्रयाः ।
दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम्॥६.२७॥

मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ।
पूजयन्तो हलधरमृते तं सूतवंशजम्॥६.२८॥

ततः क्रोधसमाविष्टो हली सूतं महाबलः ।
निजघान विवृत्ताक्षः क्षोभिताशेषदानवः॥६.२९॥

अध्यास्याति पदं ब्राह्मं तस्मिन् सूते निपातिते ।
निष्क्रान्तास्ते द्विजाः सर्वे वनात् कृष्णाजिनाम्बराः॥६.३०॥

अवधूतं तथात्मानं मन्यमानो हलायुधः ।
चिन्तयामास सुमहन्मया पापमिदं कृतम्॥६.३१॥

ब्राह्मं स्थानं गतो ह्येष यद् सूतो विनिपातितः ।
तथा हीमे द्विजाः सर्वे मामवेक्ष्य विनिर्गताः॥६.३२॥

शरीरस्य च मे गन्धो लोहस्येवासुखावहः ।
आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितम्॥६.३३॥

धिगमर्षं तथा मद्यमतिमानमभीरुताम् ।
यैराविष्टेन सुमहन्मया पापमिदं कृतम्॥६.३४॥

तत्क्षयार्थं चरिष्यामि व्रतं द्वादशवार्षिकम् ।
स्वकर्मख्यापनं कुर्वंन् प्रयश्चित्तमनुत्तमम्॥६.३५॥

अथ येयं समारब्धा तीर्थयात्रा मयाधुना ।
एतामेव प्रयास्यामि प्रतिलोमां सरस्वतीम्॥६.३६॥

अतो जगाम रामोऽसौ प्रतिलोमां सरस्वतीम् ।
ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम्॥६.३७॥


इतिश्री मार्कण्डेयपुराणे बलदेवब्रह्महत्यानाम षष्ठोध्यायः

7(7)
सप्तमोऽध्यायः

धर्मपक्षिण ऊचुः

हरिश्चन्द्रेति राजर्षिरासीत् त्रेतायुगे पुरा ।
धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः॥७.१॥

न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।
नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे॥७.२॥

बभूवुर्न तथोन्मत्ता धन-वीर्य-तपोमदैः ।
नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः॥७.३॥

स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् ।
शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम्॥७.४॥

स विहाय मृगं राजा मा भैषीरित्यभाषत ।
मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान्॥७.५॥

तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।
एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत्॥७.६॥

विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।
प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती॥७.७॥

साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।
ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया॥७.८॥

तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः ।
क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे॥७.९॥

अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः ।
इममेव प्रविश्याशु साधयिष्ये यथेप्सितम्॥७.१०॥

इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः ।
तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत्॥७.११॥

कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः ।
बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते॥७.१२॥

सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति॥७.१३॥

विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।
क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः॥७.१४॥

स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।
भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत्॥७.१५॥

स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।
ततः स राजा विनयात् प्रणिपत्याभ्यभाषत॥७.१६॥

भगवन्नेष धर्मो मे नापराधो मम प्रभो ।
न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे॥७.१७॥

दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता ।
चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः॥७.१८॥


विश्वामित्र उवाच

दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप ।
क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव॥७.१९॥


हरिश्चन्द्र उवाच

दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः ।
रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः॥७.२०॥


विश्वामित्र उवाच

यदि राजा भवान् सम्यग्राजधर्ममवेक्षते ।
निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा॥७.२१॥


पक्षिण ऊचुः

एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।
पुनर्जातमिवात्मानं मेने प्राह च कौशिकम्॥७.२२॥

उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् ।
दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम्॥७.२३॥

हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् ।
प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः॥७.२४॥


विश्वामित्र उवाच

राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।
प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम्॥७.२५॥


राजोवाच

ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।
व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः॥७.२६॥


विश्वामित्र उवाच

ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।
राज्यं च सकलं वीर रथाश्व-गजसङ्कुलम्॥७.२७॥

कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव ।
विना भार्यां च पुत्रं च शरीरं च तवानघ॥७.२८॥

धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति ।
बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम्॥७.२९॥


पक्षिण ऊचुः

प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।
तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः॥७.३०॥


विश्वामित्र उवाच

सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् ।
प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि॥७.३१॥


हरिश्चन्द्र उवाच

यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा ।
तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः॥७.३२॥


विश्वामित्र उवाच

यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा ।
यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि॥७.३३॥

श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् ।
तरुवल्कलमाबध्य सह पत्न्या सुतेन च॥७.३४॥


पक्षिण ऊचुः

तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।
स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च॥७.३५॥

व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् ।
क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम्॥७.३६॥


हरिश्चन्द्र उवाच

भगवन् राज्यमेतत् ते दत्तं निहतकण्टकम् ।
अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम॥७.३७॥


विश्वामित्र उवाच

तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा ।
विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम्॥७.३८॥

यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप ।
तावदेव तु दातव्या दक्षिणा राजसूयिकी॥७.३९॥

प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।
रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम्॥७.४०॥


हरिश्चन्द्र उवाच

भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते ।
प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च॥७.४१॥


विश्वामित्र उवाच

किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप ।
शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति॥७.४२॥


हरिचन्द्र उवाच

मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।
साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि॥७.४३॥


विश्वामित्र उवाच

गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय ।
शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः॥७.४४॥


पक्षिण ऊचुः

अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः ।
पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया॥७.४५॥

तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् ।
दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः॥७.४६॥

हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् ।
त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा॥७.४७॥

नयास्मानपि राजर्षे यदि धर्ममवेक्षसे ।
मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम्॥७.४८॥

पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः ।
यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः॥७.४९॥

तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।
यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः॥७.५०॥

स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।
हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम्॥७.५१॥

पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।
तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय॥७.५२॥

आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।
किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा॥७.५३॥

सर्वमेतत् परित्यज्य छायाभूता वयं तव ।
हानाथ हा महाराज हा स्वामिन् किं जहासि नः॥७.५४॥

यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् ।
नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः॥७.५५॥

इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः ।
अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया॥७.५६॥

विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् ।
रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत्॥७.५७॥

धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् ।
मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि॥७.५८॥

इत्युक्तः परुषं तेन गच्छामीति सवेपथुः ।
ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे॥७.५९॥

कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।
सहसा दण्डकाष्ठेन ताडयामास कौशिकः॥७.६०॥

तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।
गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत्॥७.६१॥

अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः ।
विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति॥७.६२॥

येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः ।
कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।
पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम्॥७.६३॥


पक्षिण ऊचुः

इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः ।
शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ॥७.६४॥

प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः॥७.६५॥

न दारसंग्रहश्चैव भविता न च मत्सरः ।
कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः॥७.६६॥

ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।
द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः॥७.६७॥

एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः ।
न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः॥७.६८॥

एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् ।
प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि॥७.६९॥


इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः

8(8)
अष्टमोऽध्यायः

जैमिनिरुवाच

भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् ।
महत् कौतूहलं मेऽस्ति हरिश्चन्द्र कथां प्रति॥८.१॥

अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् ।
कच्चित् सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः॥८.२॥


पक्षिण ऊचुः

विश्वामित्रवचः श्रुत्वा स राजा प्रययौ शनैः ।
शैव्ययानुगतो दुः खी भार्यया बलापुत्रया॥८.३॥

स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् ।
नैषा मनुष्यभोग्येति शूलपाणेः परिग्रहः॥८.४॥

जगाम पद्भ्यां दुः खार्तः सह पत्न्यानुकूलया ।
पुरीप्रवेशे ददृशे विश्वामित्रमुपस्थितम्॥८.५॥

तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ।
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम्॥८.६॥

इमे प्राणाः सुतश्चायमियं पत्नी मुने ! मम ।
येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम्॥८.७॥

यद्वान्यत् कार्यमस्माभिस्तदनुज्ञातुमर्हसि॥८.८॥


विश्वामित्र उवाच

पूर्णः स मासो राजर्षे दीयतां मम दक्षिणा ।
राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि॥८.९॥


हरिश्चन्द्र उवाच

ब्राह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन ।
तिष्ठत्येतद् दनार्धं यत्तत् प्रतीक्षस्व माचिरम्॥८.१०॥


विश्वामित्र उवाच

एवमस्तु महाराज आगमिष्याम्यहं पुनः ।
शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि॥८.११॥


पक्षिण ऊचुः

इत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत् तदा ।
कथमस्मै प्रदास्यामि दक्षिणा या प्रतिश्रुता॥८.१२॥

कुतः पुष्टानि मित्राणि कुतोर्ऽथः साम्प्रतं मम ।
प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम्॥८.१३॥

किमु प्राणान् विमुञ्चामि कां दिशं याम्यकिञ्चनः ।
यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम्॥८.१४॥

ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः ।
अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः॥८.१५॥


पक्षिण ऊचुः

राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।
प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा॥८.१६॥

त्यज चिन्तां महारजा स्वसत्यमनुपालय ।
श्मशानवद् वर्जनीयो नरः सत्यबहिष्कृतः॥८.१७॥

नातः परतरं धर्मं वदन्ति पुरुषस्य तु ।
यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम्॥८.१८॥

अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम्॥८.१९॥

सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।
तारणायानृतं तद्वत् पातनायाकृतात्मनाम्॥८.२०॥

सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः ।
कृतिर्नाम च्युतः स्वर्गादसत्यवचनात् सकृत्॥८.२१॥

राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह ।
बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः॥८.२२॥


हरिश्चन्द्र उवाच

विमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः ।
उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि॥८.२३॥


पत्न्युवाच

राजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः ।
स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्॥८.२४॥


पक्षिण ऊचुः

एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः ।
प्रतिलभ्य च संज्ञां स विललापातिदुः खितः॥८.२५॥

महद्दुः खमिदं भद्रे यत् त्वमेवं ब्रवीषि माम् ।
किं तव स्मितसंलापा मम पापस्य विस्मृताः॥८.२६॥

हा हा कथं त्वया शक्यं वक्तुमेतत् शुचिस्मिते ।
दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम्॥८.२७॥

इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद् ब्रुवन् ।
निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः॥८.२८॥

शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् ।
उवाचेदं सकरुणं राजपत्नी सुदुः खिता॥८.२९॥


पत्न्युवाच

हा महारजा कस्येदमपध्यानमुपस्थितम् ।
यत् त्वं निपतितो भूमौ राङ्कवास्तरणोचितः॥८.३०॥

येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् ।
स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः॥८.३१॥

हा कष्टं किं तवानेन कृतं देव ! महीक्षिता ।
यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम्॥८.३२॥

इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह ।
भर्तृदुः खमहाभारेणासह्येन निपीडिता॥८.३३॥

तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः ।
दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः॥८.३४॥

तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद ।
क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा॥८.३५॥


पक्षिण ऊचुः

एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः ।
दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम्॥८.३६॥

स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् ।
उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम्॥८.३७॥

ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते ।
आप्याय्यमानः स तदा हिमशीतेन वारिणा॥८.३८॥

अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ।
पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः॥८.३९॥

स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः ।
दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे॥८.४०॥

सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ।
सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः॥८.४१॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥८.४२॥

अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् ।
अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि॥८.४३॥

त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् ।
अद्य मे दक्षिणां राजन् न दास्यति भवान् यदि॥८.४४॥

अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् ।
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः॥८.४५॥

कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः ।
भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम॥८.४६॥

मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि ।
स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः॥८.४७॥

प्राह भद्रे करोम्येष विक्रयं तव निर्घृणः ।
नृशंसैरपि यद् कर्तुं न शक्यं तत् करोम्यहम् । ४८।
यदि मे शक्यते वाणी वक्तुमीदृक् सुदुर्वचः ।
एवमुक्त्वा ततो भार्यां गत्वा नागरमातुरः ।
बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत्॥८.४९॥


राजोवाच

भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ।
किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः॥८.५०॥

राक्षसो वातिकठिनस्ततः पापतरोऽपि वा ।
विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम्॥८.५१॥

यदि वः कस्यचित् कार्यं दास्या प्राणेष्टया मम ।
स ब्रीवीतु त्वरायुक्तो यावत् सन्धारयाम्यहम्॥८.५२॥


पक्षिण ऊचुः

अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् ।
समर्पयस्व मे दासीमहं क्रेता धनप्रदः॥८.५३॥

अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया ।
गृहकर्म न शक्नोति कर्तुमस्मात् प्रयच्छ मे॥८.५४॥

कर्मण्यता-वयो-रूप-शीलानां तव योषितः ।
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम्॥८.५५॥

एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः ।
व्यदीर्यत मनो दुः खान्न चैनं किञ्चिदब्रवीत्॥८.५६॥

ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् ।
बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षयत्॥८.५७॥

रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् ।
हस्तेन वस्त्रमाकर्षन् काकपक्षधरः शिशुः॥८.५८॥


राजपत्न्युवाच

मुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् ।
दुर्लभं दर्शनं तात पुनरस्य भविष्यति॥८.५९॥

पश्यैहि वत्स मामेवं मातरं दास्यतां गताम् ।
मां मा स्प्रार्क्षो राजपुत्र ! अस्पृश्याहं तवाधुना॥८.६०॥

ततः स बालः सहसा दृष्ट्वा कृष्टां तु मातरम् ।
समभ्यधावदम्बेति रुदन् सास्त्राविलेक्षणः॥८.६१॥

तमागतं द्विजः क्रोधाद्वालमभ्याहनत् पदा ।
वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम्॥८.६२॥


राजपत्न्युवाच

प्रसादं कुरु में नाथ क्रीणीष्वेमं च बालकम् ।
क्रीतापि नाहं भवतो विनैनं कार्यसाधिका॥८.६३॥

इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव ।
मां संयोजय बालेन वत्सेनेव पयस्विनीम्॥८.६४॥


ब्राह्मण उवाच

गृह्यतां वित्तमेतत् ते दीयतां बालको मम ।
स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ।
शतं सहस्रं लक्षं च कोटिमूल्यं तथा परैः॥८.६५॥


पक्षिण ऊचुः

तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः ।
प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत्॥८.६६॥

नीयमानौ तु तौ दृष्ट्वा भार्या-पुत्रौ स पार्थिवः ।
विललाप सुदुः खार्तो निः श्वस्योष्णं पुनः पुनः॥८.६७॥

यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः ।
दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता॥८.६८॥

सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ।
सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम्॥८.६९॥

हा प्रिये ! हा शिशो ! नत्स ! ममानार्यस्य दुर्नयैः ।
दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक्॥८.७०॥


पक्षिण ऊचुः

एवं विलपतो राज्ञः स विप्रोऽन्तरधीयत ।
वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः॥८.७१॥

विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचत ।
तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम्॥८.७२॥

तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् ।
शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्॥८.७३॥

क्षत्रबन्धो ! ममेमां त्वं सदृशीं यज्ञदक्षिणाम् ।
मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम्॥८.७४॥

तपसोऽत्र सुतप्तस्य ब्राह्मण्यस्यामलस्य च ।
मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च॥८.७५॥

अन्यां दास्यामि भगवन् ! कालः कश्चित्प्रतीक्ष्यताम् ।
साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः॥८.७६॥


विश्वामित्र उवाच

चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।
एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया॥८.७७॥

पक्षिण ऊचुः

तमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः ।
तदादाय धनं तूर्णं कुपितः कौशिको ययौ॥८.७८॥

विश्वामित्रे गते राजा भयशोकाब्धिमध्यगः ।
सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधोमुखः॥८.७९॥

वित्तक्रीतेन यो ह्यर्थो मया प्रेष्येण मानवः ।
स ब्रवीतु त्वरायुक्तो यावत् तपति भास्करः॥८.८०॥

अथाजगाम त्वरितो धर्मश्चण्डालरूपधृक् ।
दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी॥८.८१॥

कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः ।
गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः॥८.८२॥

कपालहस्तो दीर्घास्यो भैरवोऽतिवदन् मुहुः ।
श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः॥८.८३॥


चण्डाल उवाच

अहमर्थो त्वया शीघ्रं कथयस्वात्मवेतनम् ।
स्तोकेन बहुना वापि येन वै लभ्यते भवान्॥८.८४॥


पक्षिण ऊचुः

तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिष्ठुरम् ।
वदन्तमतिदुः शीलं कस्त्वमित्याह पार्थिवः॥८.८५॥


चण्डाल उवाच

चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे ।
विख्यातो वध्यवधको मृतकम्बलहारकः॥८.८६॥


हरिश्चन्द्र उवाच

नाहं चण्डालदासत्वमिच्छेयं सुविगर्हितम् ।
वरं सापाग्निना दग्धो न चण्डालवशं गतः॥८.८७॥


पक्षिण ऊचुः

तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ।
कोपामर्षविवृताक्षः प्राह चेदं नराधैपम्॥८.८८॥


विश्वामित्र उवाच

चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः ।
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा॥८.८९॥


हरिश्चन्द्र उवाच

भगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक ।
कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः॥८.९०॥


विश्वामित्र उवाच

यदि चण्डालवित्तं त्वमात्मविक्रयजं मम ।
न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम्॥८.९१॥


पक्षिण ऊचुः

हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः ।
प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः॥८.९२॥

दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः ।
कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः॥८.९३॥

भवेयं वित्तशेषेण सर्वकर्मकरो वशः ।
तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः॥८.९४॥


विश्वामित्र उवाच

यदि प्रेष्यो मम भवान् चण्डालाय ततो मया ।
दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै॥८.९५॥


पक्षिण ऊचुः

एकमुक्ते तदा तेन श्वपाको हृष्टमानसः ।
विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्॥८.९६॥

दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ।
इष्टबन्धुवियोगार्तमनयन्निजपत्तनम्॥८.९७॥

हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने ।
प्रातर्मध्याह्नसमये सायञ्चैतदगायत॥८.९८॥

बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।
मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः॥८.९९॥

उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् ।
न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम्॥८.१००॥

राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः ।
प्राप्ता चण्डालता चेयमहो दुः खपरम्परा॥८.१०१॥

एवं स निवसन् नित्यं सस्मार दयितं सुतम् ।
आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः॥८.१०२॥

कस्यचित्त्वथ कालस्य मृतचेलापहारकः ।
हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः॥८.१०३॥

चण्डालेनानुशिष्टश्व मृतचेलापहारिणा ।
शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम्॥८.१०४॥

इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति ।
त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम्॥८.१०५॥

इति प्रतिसमादिष्टो जगाम शवमन्दिरम् ।
दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा॥८.१०६॥

श्मशानं घोरसंनादं शिवाशतसमाकुलम् ।
शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम्॥८.१०७॥

पिशाच-भूत-वेताल-डाकिनी-यक्षसङ्कुलम् ।
गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम्॥८.१०८॥

अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् ।
नानामृतसुहृन्नाद-रौद्रकोलाहलायुतम्॥८.१०९॥

हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे ।
हा पते ! भगिनि ! मातर्हा मातुल ! पितामह॥८.११०॥

मातामह ! पितः ! क्व गतोऽस्येहि बान्धव ।
इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान्॥८.१११॥

ज्वलन्मांस-वसा-मेदच्छमच्छमितसंकुलम्॥८.११२॥

अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः ।
हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति॥८.११३॥

अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु ।
बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः॥८.११४॥

गायतां भूत-वेताल-पिशाचगणः रक्षसाम् ।
श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः॥८.११५॥

महामहिषकारीष-गोशकृद्राशिसङ्कुलम् ।
तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः॥८.११६॥

नानोपहारस्त्रग्दीप-काकविक्षेपकालिकम् ।
अनेकशब्दबहुलं श्मशानं नरकायते॥८.११७॥

सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् ।
भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम्॥८.११८॥

स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः ।
हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम्॥८.११९॥

हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् ।
विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम॥८.१२०॥

इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः ।
मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी॥८.१२१॥

लकुटी कालकल्पश्च धावंश्चापि ततस्ततः ।
अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत॥८.१२२॥

इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् ।
इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः॥८.१२३॥

जीर्णकर्पण्टसुग्रन्थि-कृतकन्थापरिग्रहः चिताभस्मरजोलिप्त-मुखबाहूदराङिघ्रकः॥८.१२४॥

नानामेदो-वसा-मज्जा लिप्तपाण्यङ्गुलिः श्वसन् ।
नानाशवोदनकृता-हारतृप्तिपरायणः॥८.१२५॥

तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः ।
न रात्रौ न दिवा शेते हा हेति प्रवदन् मुहुः॥८.१२६॥

एवं द्वादशमासास्तु नीताः शतसमोपमाः ।
स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान्॥८.१२७॥

निद्राभिभूतो रूक्षाङ्गो निश्चेष्टः सुप्त एव च ।
तत्रापि शयनीये स दृष्टवानद्भुतं हमत्॥८.१२८॥

श्मशानाभ्यासयोगेन दैवस्य बलवत्तया ।
अन्यदेहेन दत्त्वा तु गुरवे गुरुदक्षिणाम्॥८.१२९॥

तदा द्वादश वर्षाणि दुः खदानात्तु निष्कृतिः ।
आत्मानं स ददर्शाथ पुक्कसीगर्भसम्भवम्॥८.१३०॥

तत्रस्थश्चाप्यसौ राजा सोऽचिन्तयदिदं तदा ।
इतो निष्क्रान्तमात्रो हि दानधर्मं करोम्यहम्॥८.१३१॥

अनन्तरं स जातस्तु तदा पुक्कसबालकः ।
श्मशानमृतसंस्कार-करणेषु सदोद्यतः॥८.१३२॥

प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विजः ।
आनीतो बन्धुभिर्दृष्टस्तेन तत्राधनो गुणी॥८.१३३॥

मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः ।
ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम्॥८.१३४॥

पापिष्ठमशुभं कर्म कुरु त्वं पापकारक ।
हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुक्कसः॥८.१३५॥

कृतः पुण्यविनाशेन ब्राह्मणस्वापनाशनात् ।
यदा न क्षमते तेषां तैः स शप्तो रुषा तदा॥८.१३६॥

गच्छ त्वं नरकं घोरमधुनैव नराधम ।
इत्युक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा॥८.१३७॥

अपश्यद्यमदूतान् वै पाशहस्तान् भयावहान् ।
तैः संगृहीतमात्मानं नीयमानं तदा बलात्॥८.१३८॥

पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे ।
एवंवादी स नरके तैलद्रोण्यां निपातितः॥८.१३९॥

क्रकचैः पाट्यमानस्तु क्षुरधाराभिरप्यधः ।
अन्धे तमसि दुः खार्तः पूयशोणितभोजनः॥८.१४०॥

सप्तवर्षं मृतात्मानं पुक्कसत्वे ददर्श ह ।
दिनं दिनन्तु नरके दह्यते पच्यतेऽन्यतः॥८.१४१॥

खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाट्यतेऽन्यतः ।
क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः॥८.१४२॥

एवं दिनं वर्षशत-प्रमाणं नरकेऽभवत् ।
तथा वर्षशतं तत्र श्रीवितं नरके भटैः॥८.१४३॥

ततो निपातितो भूमौ विष्ठाशी श्वा व्यजायत ।
वान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः॥८.१४४॥

अथापश्यत् खरं देहं हस्तिनं वानरं पशुम् ।
छागं विडालं कङ्कञ्च गामविं पक्षिणं कृमिम्॥८.१४५॥

मत्स्यं कूर्मं वराहञ्च श्वाविधं कुक्कुटं शुकम् ।
शारिकां स्थावरांश्चैव सर्पमन्यांश्व देहिनः॥८.१४६॥

दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा ।
अपश्यद् दुः खसन्तप्तो दिनं वर्षशतं तथा॥८.१४७॥

एवं वर्षशतं पूर्णं गतं तत्र कुयोनिषु ।
अपश्यच्च कदाचित् स राजा तत् स्वकुलोद्भवम्॥८.१४८॥

तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् ।
भार्या हृता च पुत्रश्च स चैकाकी वनं गतः॥८.१४९॥

तत्रापश्यत स सिंहं वै व्यादितास्यं भयावहम् ।
बिभक्षयिषुमायातं शरभेण समन्वितम्॥८.१५०॥

पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः ।
हा शैव्ये ! क्व गतास्यद्य मामिहापास्य दुः खितम्॥८.१५१॥

अपश्यत् पुनरेवापि भार्यां स्वं सहपुत्रकाम् ।
त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो॥८.१५२॥

पुत्रस्ते शोच्यतां प्राप्तो भर्यंया शैव्यया सह ।
स नापश्यत् पुनरपि धावमानः पुनः पुनः॥८.१५३॥

अथापश्यत् पुनरपि स्वर्गस्थः स नराधिपः ।
नीयते मुक्तकेशी सा दीना विवसना बलात्॥८.१५४॥

हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यसकृत्स्वना ।
अथापश्यत् पुनस्तत्र धर्मराजस्य शासनात्॥८.१५५॥

आक्रान्दन्त्यन्तरीक्षस्था आगच्छेह नराधिप ।
विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थतः॥८.१५६॥

इत्युक्त्वा सर्पपाशैस्तु नीयते बलवद्विभुः ।
श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम्॥८.१५७॥

तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत ।
एताः सर्वा दशास्तस्य याः स्वप्ने सम्प्रदर्शिताः॥८.१५८॥

सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश ।
अतीते द्वादशे वर्ष नीयमानो भटैर्बलात्॥८.१५९॥

यमं सोऽपश्यदाकारादुवाच च नराधिपम् ।
विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः॥८.१६०॥

पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः ।
गच्छ त्वं मानुषं लोकं दुः खशेषञ्च भुङ्क्ष्व वै ।
गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति॥८.१६१॥

व्यतीते द्वादशे वर्षे दुः खस्यान्ते नराधिपः ।
अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः॥८.१६२॥

पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् ।
अहो कष्टमिति ध्यात्वा क्षते क्षारावसेवनम्॥८.१६३॥

स्वप्ने दुः खं महद्दृष्टं यस्यान्तो नोपलभ्यते ।
स्वप्ने दृष्टं मया यत्तु किं नु मे द्वादशाः समाः॥८.१६४॥

गतेत्यपृच्छत् तत्रस्थान् पुक्कसांस्तु स सम्भ्रमात् ।
नेत्युचुः केचित् तत्रस्था एवमेवापरेऽब्रुवन्॥८.१६५॥

श्रुत्वा दुः खी तदा राजा देवान् शरणमीयिवान् ।
स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च॥८.१६६॥

नमो धर्माय महते नमः कृष्णाय वेधसे ।
परावराय शुद्धाय पुराणायाव्ययाय च॥८.१६७॥

नमो बृहस्पते तुभ्यं नमस्ते वासवाय च ।
एवमुक्त्वा स राजा तु युक्तः पुक्कसकर्मणि॥८.१६८॥

शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा ।
मलिनो जटिलः कृष्णो लकुटी विह्वलो नृपः॥८.१६९॥

नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे ।
नष्टोत्साहो राज्यनाशात् श्मशाने निवसंस्तदा॥८.१७०॥

अथाजगाम स्वसुतं मृतमादाय लापिनी ।
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम्॥८.१७१॥

हा वत्स ! हा पुत्र ! शिशो ! इत्येवं वदती मुहुः ।
कृशा विवर्णा विमनाः पांशुध्वस्तशिरोरुहा॥८.१७२॥


राजपत्न्युवाच

हा राजन्नद्य बालं त्वं पश्य सोमं महीतले ।
रममाणं पुरा दृष्टं दुष्टाहिना मृतम्॥८.१७३॥

तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।
जगाम त्वरितोऽत्रेति भविता मृतकम्बलः॥८.१७४॥

स तां रोरुदतीं भार्यां नाभ्यजानात्तु पार्थिवः ।
चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम्॥८.१७५॥

सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् ।
नाभ्यजानान्नृपसुता शुष्कवृक्षोपमं नृपम्॥८.१७६॥

सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः॥८.१७७॥

अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ।
जातो नीतः कृतान्तेन कामप्याशां दुरात्मना॥८.१७८॥

एवं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् ।
स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः॥८.१७९॥

सोऽप्येतामेव मे वत्सो वयोऽवस्थामुपागतः ।
नीतो यदि न घोरेण कृतान्तेनात्मनो वशम्॥८.१८०॥


राजपत्न्युवाच

हा वत्स ! कस्य पापस्य अपध्यानादिदं महत् ।
दुः खमापतितं घोरं यस्यान्तो नोपलभ्यते॥८.१८१॥

हा नाथ ! राजन् ! भवता मामनाश्वास्य दुः खिताम् ।
क्वापि सन्तिष्ठता स्थाने विश्रब्धं स्थीयते कथम्॥८.१८२॥

राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ।
हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया॥८.१८३॥

इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युतः ।
प्रत्यभिज्ञाय दयितां पुत्रञ्च निधनं गतम्॥८.१८४॥

कष्टं शैव्येयमेषा हि स बालोऽयमितीरयन् ।
रुरोद दुः खसन्तप्तो मूर्च्छामभिजगाम च॥८.१८५॥

सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ।
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले॥८.१८६॥

चेतः सम्प्राप्य राजेन्द्रो राजपत्नी च तै समम् ।
विलेपतुः सुसन्तप्तौ शोकभारावपीडितौ॥८.१८७॥


राजोवाच

हा वत्स ! सुकुमारं ते स्वक्षिभ्रूनासिकालकम् ।
पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते॥८.१८८॥

तात ! तातेति मधुरं ब्रुवाणं स्वयमागतम् ।
उपगुह्य वदिष्ये कं वत्स ! वत्सेति सौहृदात्॥८.१८९॥

कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ।
ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति॥८.१९०॥

अङ्गप्रत्यङ्गसम्भूतो मनोहृदयनन्दनः ।
मया कुपित्रा हा वत्स ! विक्रीतो येन वस्तुवत्॥८.१९१॥

हृत्वा राज्यमशेषं मे ससाधनधनं महत् ।
दैवाहिना नृशंसेन दष्टो मे तनयस्ततः॥८.१९२॥

अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् ।
निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना॥८.१९३॥

एकमुक्त्तवा तमादाय बालकं बाष्पगद्गदः ।
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह॥८.१९४॥


राजपत्न्युवाच

अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।
विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः॥८.१९५॥

तथास्य नासिका तुङ्गा अग्रतोऽधोमुखं गता ।
दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः॥८.१९६॥

श्मशानमागतः कस्मादद्यैष स नरेश्वरः ।
अपहाय पुत्रशोकं सापश्यत् पतितं पतिम्॥८.१९७॥

प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता ।
वीक्षन्ती सा ततोऽपश्यद् भर्तृदण्डं जुगुप्सितम्॥८.१९८॥

श्वपाकार्हमतो मोहं जगामायतलोचना ।
प्राप्य चेतश्च शनकैः सगद्गदमभाषत॥८.१९९॥

धिक् त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् ।
येनायममरप्रख्यो नीतो राजा श्वपाकताम्॥८.२००॥

राज्यनाशं सुहृत्त्यागं भार्या-तनयविक्रयम् ।
प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः॥८.२०१॥

हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् ।
उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते॥८.२०२॥

नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ।
चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः॥८.२०३॥

यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः ।
स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम्॥८.२०४॥

सोऽयं कपालसंलग्न-घटीघटनिरन्तरे ।
मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे॥८.२०५॥

वसानिस्यन्दसंशुष्क-महीपुटकमण्डिते ।
भस्माङ्गारार्धदग्धास्थि-मज्जासङ्घट्टभीषणे॥८.२०६॥

गृध्र-गोमायुनादार्तनष्टक्षुद्रविहङ्गमे ।
चिताधूमाततिरुचा नीलीकृतदिगन्तरे॥८.२०७॥

कुणपास्वादनमुदा सम्प्रहृष्टनिशाचरे ।
चरत्यमेध्ये राजेन्द्रः श्मशाने दुः खपीडितः॥८.२०८॥

एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा ।
कष्टशोकशताधारा विललापार्तया गिरा॥८.२०९॥


राजपत्न्युवाच

राजन् ! स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ।
तत् कथ्यतां महाभाग मनो वै मुह्यते मम॥८.२१०॥

यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता ।
तथैव विप्रदेवादिपूजने पालने भुवः॥८.२११॥

नास्ति धर्मः कुतः सत्यमार्जवं चानृशंसता ।
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः॥८.२१२॥

इति तस्या वचः श्रुत्वा निश्वस्योष्णं सगद्गदम् ।
कथयामास तन्वङ्ग्या यथा प्राप्ता श्वपाकता॥८.२१३॥

रुदित्वा सापि सुचिरं निश्वस्योष्णञ्च दुः खिता ।
स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत्॥८.२१४॥


राजोवाच

प्रिये ! न रोचये दीर्घं कालं क्लेशमुपासितुम् ।
नात्मायत्तश्च तन्वङ्गि पश्य मे मन्दभाग्यताम्॥८.२१५॥

चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ।
चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि॥८.२१६॥

नरके च तपिष्यामि कोटकः कृमिभोजनः ।
वैतरण्यां महापूय-वसासृक्-स्नायुपिच्छिले॥८.२१७॥

असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् ।
तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ॥८.२१८॥

मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् ।
एकोऽपि बालको योऽयमासीद्वंशकरः सुतः॥८.२१९॥

मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा ।
कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः॥८.२२०॥

अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते ।
तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा॥८.२२१॥

वैतरण्याङ्कुतस्तादृग् यादृशं पुत्रविप्लवे ।
सोऽहं सुतशिरीरेण दीप्यमाने हुताशने॥८.२२२॥

निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम ।
अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते॥८.२२३॥

मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा ।
यदि दत्तं यदि हुतं गुरवो यदि तोषिताः॥८.२२४॥

परत्र सङ्गमो भूयात् पुत्रेण सह च त्वया ।
इह लोके कुतस्त्वेतद् भविष्यति ममेङ्गितम्॥८.२२५॥

त्वया सह मम श्रेयो गमनं पुत्रमार्गणे ।
यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते॥८.२२६॥

अश्लीलमुक्तं तत् सर्वं क्षन्तव्यं मम याचतः ।
राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः ।
सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे॥८.२२७॥


राजपत्न्युवाच

अहमप्यत्र राजर्षे दीप्यमाने हुताशने ।
दुः खभारासहाद्यैव सह यास्यामि वै त्वया॥८.२२८॥


पक्षिण ऊचुः

ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा॥८.२२९॥

चिन्तयन् परमात्मानमीशं नारायणं हरिम् ।
हृत्कोटरगुहासीनं वासुदेवं सुरेश्वरम् ।
अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम्॥८.२३०॥

तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।
धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः॥८.२३१॥

आगत्य सर्वे प्रोचुस्ते भो भो राजन् ! शृणु प्रभो ।
अयं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम्॥८.२३२॥

साध्याश्च विश्वे मरुतो लोकपालाः सवाहनाः ।
नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ॥८.२३३॥

एते चान्ये च बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा॥८.२३४॥

विश्वामित्रस्तु ते मैत्रीमिष्टञ्चाहर्तुमिच्छति ।
आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः॥८.२३५॥


धर्मि उवाच

मा राजन् ! साहसं कार्षोर्धर्मोऽहं त्वामुपागतः ।
तितिक्षा-दम-सत्याद्यैः स्वगुणैः परितोषितः॥८.२३६॥


इन्द्र उवाच

हरिश्चन्द्र माहभाग ! प्राप्तः शक्रोऽस्मितेऽन्तिकम् ।
त्वया सभार्यपुत्रेण जिता लोकाः सनातनाः॥८.२३७॥

आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः ।
सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः॥८.२३८॥


पक्षिण ऊचुः

ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ।
इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः॥८.२३९॥

पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् ।
ततस्ततो वर्तमाने समाजे देवसंकुले॥८.२४०॥

समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः॥८.२४१॥

ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् ।
सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः॥८.२४२॥

सुस्थः सम्पूर्णहृदयो मुदा परमया युतः ।
बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत॥८.२४३॥

सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् ।
समारोह माहभाग निजानां कर्मणां फलैः॥८.२४४॥


हरिश्चन्द्र उवाच

देवराजाननुज्ञातः स्वामिना श्वपचेन वै ।
अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम्॥८.२४५॥


धर्म उवाच

तवैनं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम्॥८.२४६॥


इन्द्र उवाच

प्रार्थ्यते यत् परं स्थानं समस्तैर्मनुजैर्भुवि ।
तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्॥८.२४७॥


हरिश्चन्द्र उवाच

देवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे ।
प्रसादसुमुखं यत् त्वां ब्रवीमि प्रश्रयान्वितः॥८.२४८॥

मच्छोकमग्नमनसः कोशलानगरे जनाः ।
तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम्॥८.२४९॥

ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।
तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम्॥८.२५०॥

भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् ।
नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज॥८.२५१॥

यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ।
ततोऽहमपि यास्यामि नरकं वापि तैः सह॥८.२५२॥


इन्द्र उवाच

बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् ।
कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि॥८.२५३॥


हरिश्चन्द्र उवाच

शक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् ।
यजते च महायज्ञैः कर्म पौर्तं करोति च॥८.२५४॥

तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ।
उपकर्तॄन् न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया॥८.२५५॥

तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ।
दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः॥८.२५६॥

बहुकालोपभोग्यं हि फलं यन्मम कर्मणः ।
तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः॥८.२५७॥


पक्षिण ऊचुः

एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ।
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः॥८.२५८॥

विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् ।
गत्वायोध्याजनं प्राह दिवमारुह्यतामिति॥८.२५९॥

तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः ।
आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः॥८.२६०॥

अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् ।
देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम्॥८.२६१॥

राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः ।
सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः॥८.२६२॥

पदे पदे विमानात् ते विमानमगमन् नराः ।
तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः॥८.२६३॥

सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः ।
आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते॥८.२६४॥

ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ ।
दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्॥८.२६५॥


शुक्र उवाच

हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।
यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात्॥८.२६६॥

स्वर्गार्थोप्राप्नुयात् स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् ।
भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात्॥८.२६७॥

अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान्॥८.२६८॥


पक्षिण ऊचुः

एतत् ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् ।
अतः परं कथाशेषः श्रूयतां मुनिसत्तम॥८.२६९॥

विपाको राजसूयस्य पृथिवीक्षयकारणम् ।
तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत्॥८.२७०॥


इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः

9(9)
नवमोऽध्यायः

पक्षिण ऊचुः

राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् ।
निश्चक्राम महातेजा जलवासात् पुरोहितः॥९.१॥

वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः ।
शुश्राव च समस्तन्तु विश्वामित्रविचेष्चितम्॥९.२॥

हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः ।
चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम्॥९.३॥

स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ ।
चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति॥९.४॥


वशिष्ठ उवाच

मम पुत्रशतं तेन विश्वामित्रेण घातितम् ।
तत्रापि नाभवत् क्रोधस्तादृशो यादृशोऽद्य मे॥९.५॥

श्रुत्वा नराधिपमिमं स्वराज्यादवरीपितम् ।
महात्मानं महाभागं देवब्राह्मणपूजकम्॥९.६॥

यस्मात् स सत्यवाक् शान्तः शत्रावपि विमत्सरः ।
अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः॥९.७॥

सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः ।
स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः॥९.८॥

तस्माद् दुरात्मा ब्रह्मद्विट् प्राज्ञानामवरोपितः ।
मच्छापोपहतो मूढः स बकत्वमवाप्स्यति॥९.९॥


पक्षिण ऊचुः

श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः ।
त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत॥९.१०॥

अन्योऽन्यशापात् तौ प्राप्तौ तिर्यक्त्वं परमद्युती ।
वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः॥९.११॥

अन्यजातिसमायोगं गतावप्यमितौजसौ ।
युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ॥९.१२॥

योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः ।
यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः॥९.१३॥

तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ ।
प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा॥९.१४॥

विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् ।
आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत्॥९.१५॥

तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि ।
गिरिप्रपाताभिहता चकम्पे च वसुन्धरा॥९.१६॥

क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च ।
ननाम चैकपार्श्वेन पातालगमनोन्मुखी॥९.१७॥

केचिदिगरिनिपातेन केचिदम्भोधिवारिणा ।
केचिन्महीसञ्चलनात् प्रययुः प्राणिनः क्षयम्॥९.१८॥

इति सर्वं परित्रस्तं हाहाभूतमचेतनम् ।
जगदासीत् सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम्॥९.१९॥

हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः ।
हा प्रिये ! कान्त ! शैलोऽयं पतत्याशु पलायताम्॥९.२०॥

इत्याकुलीकृते लोके संत्रासविमुखे तदा ।
सुरैः परिवृतः सर्वैराजगाम पितामहः॥९.२१॥

प्रत्युवाच च विश्वेशास्तावुभावतिकोपितौ ।
युद्धं वा विरमत्वेतल्लोकाः स्वास्थ्यं व्रजन्तु च॥९.२२॥

शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ।
कोपामर्षसमाविष्टो युयुधाते न तस्थतुः॥९.२३॥

ततः पितामहो देवस्तं दृष्ट्वा लोकसंक्षयम् ।
तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत्॥९.२४॥

ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः ।
व्युदस्ते तामसे भावे वशिष्ठ०-कौशिकर्षभौ॥९.२५॥

जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम ।
तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम्॥९.२६॥

राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः ।
युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः॥९.२७॥

न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते ।
स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः॥९.२८॥

तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ ।
परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम्॥९.२९॥

एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि ।
क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम्॥९.३०॥

ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ ।
वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम्॥९.३१॥

एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा ।
कथयिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति चैव ये॥९.३२॥

तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति ।
न चैव विघ्नकार्याणि भविष्यन्ति कदाचन॥९.३३॥


इति श्रीमार्कण्डेयपुराणे आडि-बकयुद्धवर्णनं नाम नवमोऽध्यायः

10(10)
दशमोऽध्यायः

जैमिनिरुवाच

संशयं द्विजशार्दूलाः प्रब्रूत मम पृच्छतः ।
आविर्भाव-तिरोभावौ भूतानां यत्र संस्थितौ॥१०.१॥

कथं सञ्जायते जन्तुः कथं वा सविवर्धते ।
कथं वोदरमध्यस्थस्तिष्ठत्यङ्गनिपीडितः॥१०.२॥

निष्क्रान्तिमुदरात् प्राप्य कथं वा वृद्धिमृच्छति ।
उत्क्रान्तिकाले च कथञ्चिद्भावेन वियुज्यते॥१०.३॥

कृत्स्नो मृतस्तथाश्नाति उभे सुकृत-दुष्कृते ।
कथं ते च तथा तस्य फलं सम्पादयन्त्युत॥१०.४॥

कथं न जीर्यते तत्र पिण्डीकृत इवाशये ।
स्त्रीकोष्ठे यत्र जीर्यन्ते भुक्तानि सुगुरूण्यपि ।
भक्ष्याणि यत्र नो जन्तुर्जोर्यते कथमल्पकः॥१०.५॥

एतन्मे ब्रूत सकलं सन्देहोक्तिविवर्जितम् ।
तदेतत् परम गुह्यं यत्र मुह्यन्ति जन्तवः॥१०.६॥


पक्षिण ऊचुः

प्रश्नभारोऽयमतुलस्त्वयास्मासु निवेशितः ।
दुर्भाव्यः सर्वभूतानां भावाभावसमाश्रितः॥१०.७॥

तं शृणुष्व महाभाग यथा प्राह पितुः पुरा ।
पुत्रः परमधर्मात्मा सुमतिर्नाम नामतः॥१०.८॥

ब्राह्मणो भार्गवः कश्चित् सुतमाह महामतिः ।
कृतोपनयनं शान्तं सुमतिं जडरूपिणम्॥१०.९॥

वेदानधीष्व सुमते ! यथानुक्रममादितः ।
गुरुशुश्रूषणे व्यग्रो भैक्षान्नकृतभोजनः॥१०.१०॥

ततो गार्हस्थ्यमास्थाय चेष्ट्वा यज्ञाननुत्तमान् ।
इष्टमुत्पादयापत्यमाश्रयेथा वनं ततः॥१०.११॥

वनस्थश्च ततो वत्स परिव्राड् निष्परिग्रहः ।
एवमाप्स्यसि तद्ब्रह्म यत्र गत्वा न शोचसि॥१०.१२॥


पक्षिण ऊचुः

इत्येवमुक्तो बहुशो जडत्वान्नाह किञ्चन ।
पितापि तं सुबहुशः प्राह प्रीत्या पुनः पुनः॥१०.१३॥

इति पित्रा सुतस्नेहात् प्रलोभि मधुराक्षरम् ।
स चोद्यमानो बहुशः प्रहस्येदमथाब्रवीत्॥१०.१४॥

तातैतद्बहुशोऽभ्यस्तं यत् त्वयाद्योपदिश्यते ।
तथैवान्यानि शास्त्राणि शिल्पानि विविधानि च॥१०.१५॥

जन्मनामयुतं साग्रं मम स्मृतिपथं गतम् ।
निर्वेदाः परितोषाश्च क्षयवृद्ध्युदये गताः॥१०.१६॥

शत्रुमित्रकलत्राणां वियोगाः सङ्गमास्तथा ।
मातरो विवधा दृष्टाः पितरो विवधास्तथा॥१०.१७॥

अनुभूतानि सौख्यनि दुः खानि च सहस्रशः ।
बान्धवा बहवः प्राप्ताः पितरश्च पृथग्विधाः॥१०.१८॥

विण्मूत्रपिच्छिले स्त्रीणां तथा कोष्ठे मयोषितम् ।
पीडाश्च सुभृशं प्राप्ता रोगाणाञ्च सहस्रशः॥१०.१९॥

गर्भदुः खान्यनेकानि बालत्वे यौवने तथा ।
वृद्धतायां तथाप्तानि तानि सर्वाणि संस्मरे॥१०.२०॥

ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्चापि योनिषु ।
पुनश्च पुशुकीटानां मृगाणामथ पक्षिणाम्॥१०.२१॥

तथैव राजभृत्यानां राज्ञाञ्चाहवशालिनाम् ।
समुत्पन्नोऽस्मि गेहेषु तथैव तव वेश्मनि॥१०.२२॥

भृत्यतां दासताञ्चैव गतोऽस्मि बहुशो नृणाम् ।
स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथा गतः॥१०.२३॥

हतं मया हतश्चान्यैर्हतं मे घातितं तथा ।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशाः॥१०.२४॥

पितृ-मातृ-सुहृद्-भ्रातृ-कलत्रादिकृतेन च ।
तुष्टोऽसकृत् तथा दैन्यमश्रुधौताननो गतः॥१०.२५॥

एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे ।
ज्ञानमेतन्मया प्राप्तं मोक्षसम्प्राप्तिकारकम्॥१०.२६॥

विज्ञाते यत्र सर्वोऽयमृग्यजुः सामसंज्ञितः ।
क्रियाकलापो विगुणो न सम्यक् प्रतिभाति मे॥१०.२७॥

तस्मादुत्पन्नबोधस्य वेदैः किं मे प्रयोजनम् ।
गुरुविज्ञानतृप्तस्य निरीहस्य सदात्मनः॥१०.२८॥

षट् प्रकारक्रिया-दुःख-सुख-हर्ष-रसैश्च यत् ।
गुणैश्च वर्जितं ब्रह्म तत् प्राप्स्यामि परं पदम्॥१०.२९॥

रस-हर्ष-भयोद्वेग-क्रोधामर्ष-जरातुराम् ।
विज्ञातां स्वमृगग्राहिसंघपाशशताकुलम्॥१०.३०॥

तस्माद्यास्याम्यहं तात त्यक्त्वेमां दुः खसन्ततिम् ।
त्रयीधर्ममधर्माढ्यं किं पापफलसन्निभम्॥१०.३१॥

पक्षिण ऊचुः

तस्य तद्वचनं श्रुत्वा हर्षविस्मयगद्गदम् ।
पिता प्राह महाभागः स्वसुतं हृष्टमानसः॥१०.३२॥


पितोवाच

किमेतद्वदसे वत्स कुतस्ते ज्ञानसम्भवः ।
केन ते जडता पूर्वमिदानीञ्च प्रबुद्धता॥१०.३३॥

किन्नु शापविकारोऽयं मुनिदेवकृतस्तव ।
यत्ते ज्ञानं तिरोभूतमाविर्भावमुपागतम्॥१०.३४॥


पुत्र उवाच

शृणु तात ! यथा वृत्तं ममेदं सुख-दुःखदम् ।
यश्चाहमासमन्यस्मिन् जन्मन्यस्मत्परन्तु यत्॥१०.३५॥

अहमासं पुरा विप्रो न्यस्तात्मा परमात्मनि ।
आत्मविद्याविचारेषु परां निष्ठामुपागतः॥१०.३६॥

सततं योगयुक्तस्य सतताभ्याससङ्गमात् ।
सत्संयोगात् स्वस्वभावाद्विचारविधिशोधनात्॥१०.३७॥

तस्मिन्नवे परा प्रीतिर्ममासीद् युञ्जतः सदा ।
आचार्यताञ्च सम्प्राप्तः शिष्यसन्देहहृत्तमः॥१०.३८॥

ततः कालेन महता ऐकान्तिकमुपगतः ।
अज्ञानाकृष्टसद्भावो विपन्नश्च प्रमादतः॥१०.३९॥

उत्क्रान्तिकालादारभ्य स्मृतिलोपो न मेऽभवत् ।
यावदब्दं गतं चैव जन्मनां स्मृतिमागतम्॥१०.४०॥

पूर्वाभ्यासेन तेनैव सोऽहं तात ! जितेन्द्रियः ।
यतिष्यामि तथा कर्तुं न भविष्ये यथा पुनः॥१०.४१॥

ज्ञानदानफलं ह्येतद्यज्जातिस्मरणं मम ।
न ह्येतत् प्राप्यते तात त्रयीधर्माश्रितैर्नरैः॥१०.४२॥

सोऽहं पूर्वाश्रमादेव निष्ठाधर्ममुपाश्रितः ।
एकान्तित्वमुपागम्य यतिष्याम्यात्ममोक्षणे॥१०.४३॥

तद्ब्रूहि त्वं महाभाग ! यत् ते संशयिकं हृदि ।
एतावतापि ते प्रीतिमुत्पाद्यानृण्यमाप्नुयाम्॥१०.४४॥


पक्षिण ऊचुः

पिता प्राह ततः पुत्रं श्रद्दधत् तस्य तद्वचः ।
भवता यद्वयं पृष्टाः संसारग्रहणाश्रयम्॥१०.४५॥


पुत्र उवाच

शृणु तात ! यथा तत्त्वमनुभूतं मयासकृत् ।
संसारचक्रमजरं स्थितिर्यस्य न विद्यते॥१०.४६॥

सोऽहं वदामि ते सर्वं तवैवानुज्ञया पितः ।
उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति॥१०.४७॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः॥१०.४८॥

उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
भुक्तानामम्बुभक्ष्याणामधोगतिनिरोधकृत्॥१०.४९॥

ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा ।
दत्ताः स तस्य आह्लादमापदि प्रतिपद्यते॥१०.५०॥

अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा॥१०.५१॥

येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च ।
आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति॥१०.५२॥

देवब्राह्मणपूजायां ये रता नानसूयवः ।
शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः॥१०.५३॥

यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ।
यथोक्तकारी सोम्यश्च स सुखं मृत्युमृच्छति॥१०.५४॥

अवारिदायिनो दाहं क्षुधाञ्चानन्नदायिनः ।
प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते॥१०.५५॥

शीतं जयन्तीन्धनदास्तापं चन्दनदायिनः ।
प्राणघ्नीं वेदनां कष्टां ये चानुद्वेगकारिणः॥१०.५६॥

मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् ।
वेदनाभिरुदग्राभिः प्रपीड्यन्तेऽधमा नराः॥१०.५७॥

कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।
ते मोहमृत्यवः सर्वे तथा वेदविनिन्दकाः॥१०.५८॥

विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः ।
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा॥१०.५९॥

प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः ।
क्रान्दत्यविरतं सोऽथ भ्रातृ-मातृसुतानथ॥१०.६०॥

सास्य वागस्फुटा तात एकवर्णा विभाव्यते ।
दृष्टिश्च भ्राम्यते त्रासाच्छ्वासाच्छुष्यत्यथाननम्॥१०.६१॥

ऊर्ध्वश्वासान्वितः सोऽथ दृष्टिभङ्गसमन्वितः ।
ततः स वेदनाविष्टस्तच्छरीरं विमुञ्चति॥१०.६२॥

वाय्वग्रसारी तद्रूपं देहमन्यत् प्रपद्यते ।
तत्कर्मजं यातनार्थं न मातृ-पितृसम्भवम् ।
तत्प्रमाणवयोऽवस्था-संस्थानैः प्राग्भवं यथा॥१०.६३॥

ततो दूतो यमस्याशु पाशैर्बध्नाति दारुणैः ।
दण्डप्रहारसम्भ्रान्तं कर्षते दक्षिणां दिशम्॥१०.६४॥

कुश-कण्टक-वलमीक-शङ्कु-पाषाणकर्कशे ।
तथा प्रदीप्तज्वलने क्वचिच्छृभ्रशतोत्कटे॥१०.६५॥

प्रदीप्तादित्यतप्ते च दह्यमाने तदंशुभिः ।
कृष्यते यमदूतैश्चाशिवसन्नादभीषणैः॥१०.६६॥

विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः ।
प्रयाति दारुणे मार्गे पापकर्मा यमक्षयम्॥१०.६७॥

छत्रोपानत्प्रदातारो ये च वस्त्रप्रदा नराः ।
ये यान्ति मनुजा मार्गं तं सुखेन तथान्नदाः॥१०.६८॥

एवं क्लेशाननुभवन्नवशः पापपीडितः ।
नीयते द्वादशाहेन धर्मराजपुरं नरः॥१०.६९॥

कलेवरे दह्यमाने महान्तं दाहमृच्छति ।
ताड्यमाने तथैवार्ति छिद्यमाने च दारुणाम्॥१०.७०॥

क्लिद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते ।
स्वेन कर्मविपाकेन देहान्तरगतोऽपि सन्॥१०.७१॥

तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह ।
यच्च पिण्डं प्रयच्छन्ति नीयमानस्तदश्नुते॥१०.७२॥

तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् ।
तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः॥१०.७३॥

भूमौ स्वपद्भिर्नात्यन्तं क्लेशमाप्नोति बान्धवैः ।
दानं ददद्भिश्च तथा जन्तुराप्याय्यते मृतः॥१०.७४॥

नीयमानः स्वकं गेहं द्वादशाहं स पश्यति ।
उपभुङ्क्ते तथा दत्तं तोयपिण्डादिकं भुवि॥१०.७५॥

द्वादशाहात् परं घोरमायसं भीषणाकृतिम् ।
याम्यं पश्यत्यथो जन्तुः कृष्यमाणः पुरं ततः॥१०.७६॥

गतमात्रोऽतिरक्ताक्षं भिन्नाञ्जनचयप्रभम् ।
मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम्॥१०.७७॥

दंष्ट्राकरालवदनं भ्रकुटीदारुणाकृतिम् ।
विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम्॥१०.७८॥

दण्डासक्तं महाबाहुं पाशहस्तं सुभैरवम् ।
तन्निर्दिष्टां ततो याति गतिं जन्तुः शुभाशुभाम्॥१०.७९॥

रौरवे कूटसाक्षी तु याति यश्चानृतो नरः ।
तस्य स्वरूपं गदतो रौरवस्य निशामय॥१०.८०॥

योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।
जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः॥१०.८१॥

तत्राङ्गारचयोपेतं कृतञ्च धरणीसमम् ।
जाज्वल्यमानस्तीव्रेण तापिताङ्गारभूमिना॥१०.८२॥

तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।
स दह्यमानस्तीव्रेण वह्निना तत्र धावति॥१०.८३॥

पदे पदे च पादोऽस्य शीर्यते जीर्यते पुनः ।
अहोरात्रेणोद्धरणं पादन्यासं च गच्छति॥१०.८४॥

एवं सहस्रमुत्तीर्णो योजनानां विमुच्यते ।
ततोऽन्यं पापशुद्ध्यर्थं तादृङ्निरयमृच्छति॥१०.८५॥

ततः सर्वेषु निस्तीर्णः पापी तिर्यकत्वमश्नुते ।
कृमि-कीट-पतङ्गेषु श्वापदे मशकादिषु॥१०.८६॥

गत्वा गजद्रुमाद्येषु गोष्वश्वेषु तथैव च ।
अन्यासु चैव पापासु दुः खदासु च योनिषु॥१०.८७॥

मानुषं प्राप्य कुब्जो वा कुत्सितो वामनोऽपि वा ।
चण्डालपुक्कसाद्यासु नरो योनिषु जायते॥१०.८८॥

अवशिष्टेन पापेन पुण्येन च समन्वितः ।
ततश्चारोहणीं जातिं शूद्र-वैश्य-नृपादिकाम्॥१०.८९॥

विप्रदेवेन्द्रतां चापि कदाचिदवरोहणीम् ।
एवन्तु पापकर्माणे नरकेषु पतन्त्यधः॥१०.९०॥

यथा पुण्यकृतो यान्ति तन्मे निगतदः शृणु ।
ते यमेन विनिर्दिष्टां यान्ति पुण्यां गतिं नराः॥१०.९१॥

प्रगीतगन्धर्वगणाः प्रवृत्ताप्सरसाङ्गणाः ।
हारनूपुरमादुर्य-शोभितान्युत्तमानि च॥१०.९२॥

प्रयान्त्याशु विमानानि नानादिव्यस्त्रगुज्ज्वलाः ।
तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम्॥१०.९३॥

जायन्ते च कुले तत्र सद्वृत्तपरिपालकाः ।
भोगान् सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा॥१०.९४॥

अवरोहणीं च सम्प्राप्य पूर्ववद्यान्ति मानवाः ।
एतत् ते सर्वमाख्यातं यथा जन्तुर्विपद्यते ।
अतः शृणुष्व विप्रर्षे यथा गर्भं प्रपद्यते॥१०.९५॥


इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम दशमोऽध्यायः
सञ्चरणावलिः