प्रमुखा विकल्पसूचिः उद्घाट्यताम्


धर्मपक्षिण ऊचुः


हरिश्चन्द्रेति राजर्षिरासीत् त्रेतायुगे पुरा ।
धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः॥७.१॥

न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।
नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे॥७.२॥

बभूवुर्न तथोन्मत्ता धन-वीर्य-तपोमदैः ।
नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः॥७.३॥

स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् ।
शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम्॥७.४॥

स विहाय मृगं राजा मा भैषीरित्यभाषत ।
मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान्॥७.५॥

तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।
एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत्॥७.६॥

विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।
प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती॥७.७॥

साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।
ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया॥७.८॥

तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः ।
क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे॥७.९॥

अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः ।
इममेव प्रविश्याशु साधयिष्ये यथेप्सितम्॥७.१०॥

इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः ।
तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत्॥७.११॥

कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः ।
बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते॥७.१२॥

सोऽद्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति॥७.१३॥

विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।
क्रुद्धे चर्षिवरे तस्मिन् नेशुर्विद्याः क्षणेन ताः॥७.१४॥

स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।
भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत्॥७.१५॥

स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।
ततः स राजा विनयात् प्रणिपत्याभ्यभाषत॥७.१६॥

भगवन्नेष धर्मो मे नापराधो मम प्रभो ।
न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे॥७.१७॥

दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता ।
चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः॥७.१८॥

विश्वामित्र उवाच


दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप ।
क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव॥७.१९॥

हरिश्चन्द्र उवाच


दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः ।
रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः॥७.२०॥

विश्वामित्र उवाच


यदि राजा भवान् सम्यग्राजधर्ममवेक्षते ।
निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा॥७.२१॥

पक्षिण ऊचुः


एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।
पुनर्जातमिवात्मानं मेने प्राह च कौशिकम्॥७.२२॥

उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् ।
दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम्॥७.२३॥

हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् ।
प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः॥७.२४॥

विश्वामित्र उवाच


राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।
प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम्॥७.२५॥

राजोवाच


ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।
व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः॥७.२६॥

विश्वामित्र उवाच


ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।
राज्यं च सकलं वीर रथाश्व-गजसङ्कुलम्॥७.२७॥

कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव ।
विना भार्यां च पुत्रं च शरीरं च तवानघ॥७.२८॥

धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति ।
बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम्॥७.२९॥

पक्षिण ऊचुः


प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।
तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः॥७.३०॥

विश्वामित्र उवाच


सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् ।
प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि॥७.३१॥

हरिश्चन्द्र उवाच


यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा ।
तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः॥७.३२॥

विश्वामित्र उवाच


यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा ।
यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि॥७.३३॥

श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् ।
तरुवल्कलमाबध्य सह पत्न्या सुतेन च॥७.३४॥

पक्षिण ऊचुः


तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।
स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च॥७.३५॥

व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् ।
क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम्॥७.३६॥

हरिश्चन्द्र उवाच


भगवन् राज्यमेतत् ते दत्तं निहतकण्टकम् ।
अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम॥७.३७॥

विश्वामित्र उवाच


तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा ।
विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम्॥७.३८॥

यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप ।
तावदेव तु दातव्या दक्षिणा राजसूयिकी॥७.३९॥

प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।
रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम्॥७.४०॥

हरिश्चन्द्र उवाच


भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते ।
प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च॥७.४१॥

विश्वामित्र उवाच


किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप ।
शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति॥७.४२॥

हरिचन्द्र उवाच


मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।
साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि॥७.४३॥

विश्वामित्र उवाच


गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय ।
शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः॥७.४४॥

पक्षिण ऊचुः


अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः ।
पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया॥७.४५॥

तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् ।
दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः॥७.४६॥

हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् ।
त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा॥७.४७॥

नयास्मानपि राजर्षे यदि धर्ममवेक्षसे ।
मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम्॥७.४८॥

पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः ।
यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः॥७.४९॥

तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।
यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः॥७.५०॥

स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।
हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम्॥७.५१॥

पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।
तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय॥७.५२॥

आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।
किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा॥७.५३॥

सर्वमेतत् परित्यज्य छायाभूता वयं तव ।
हानाथ हा महाराज हा स्वामिन् किं जहासि नः॥७.५४॥

यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् ।
नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः॥७.५५॥

इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः ।
अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया॥७.५६॥

विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् ।
रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत्॥७.५७॥

धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् ।
मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि॥७.५८॥

इत्युक्तः परुषं तेन गच्छामीति सवेपथुः ।
ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे॥७.५९॥

कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।
सहसा दण्डकाष्ठेन ताडयामास कौशिकः॥७.६०॥

तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।
गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत्॥७.६१॥

अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः ।
विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति॥७.६२॥

येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः ।
कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।
पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम्॥७.६३॥

पक्षिण ऊचुः


इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः ।
शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ॥७.६४॥

प्रसादितश्च तैः प्राह पुनरेव महामुनिः.
मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः॥७.६५॥

न दारसंग्रहश्चैव भविता न च मत्सरः ।
कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः॥७.६६॥

ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।
द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः॥७.६७॥

एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः ।
न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः॥७.६८॥

एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् ।
प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि॥७.६९॥

इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः