अलर्क उवाच
यत्कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् ।
बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः ॥ २९.१ ॥
उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता ।
यथा च क्रियते तन्मे यथावत्पृच्छतो वद ॥ २९.२ ॥
मदालसोवाच
वत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् ।
पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान् ॥ २९.३ ॥
पितरो मुनयो देवा भूतानि मनुजास्तथा ।
कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः ॥ २९.४ ॥
गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च ।
मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै ॥ २९.५ ॥
सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी ।
यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ॥ २९.६ ॥
ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा ।
इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ॥ २९.७ ॥
शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ।
आजीव्यमाना जगतां साक्षया नापचीयते ॥ २९.८ ॥
स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! ।
हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम् ॥ २९.९ ॥
स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् ।
मुनयश्च वषट्कारं देवभूतसुरेतराः ॥ २९.१० ॥
हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ।
एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी ॥ २९.११ ॥
तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् ।
स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति ॥ २९.१२ ॥
यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः ।
पाययत्युचिते काले स स्वर्गायोपपद्यते ॥ २९.१३ ॥
तस्मात्पुत्र ! मनुष्येण देवर्षिपितृमानवाः ।
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ॥ २९.१४ ॥
तस्मात्स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ।
प्रजापतेस्तथैवादिभः काले कुर्यात्समाहितः ॥ २९.१५ ॥
सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ।
ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा ॥ २९.१६ ॥
ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ।
धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् ॥ २९.१७ ॥
प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ।
प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम् ॥ २९.१८ ॥
दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु ।
अर्यम्णेऽथ बहिर्दद्याद्गृहेभ्यश्च समन्ततः ॥ २९.१९ ॥
नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।
पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः ॥ २९.२० ॥
गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ।
ततस्तोयमुपादाय तेष्वेवाचमनाय वै ॥ २९.२१ ॥
स्थानेषु निक्षिपेत्प्राज्ञस्तास्ता उद्दिश्य देवताः ।
एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः ॥ २९.२२ ॥
आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.२३ ॥
वैश्वदेवं हि नामैतत्सायं प्रातरुदाहृतम् ।
आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ॥ २९.२४ ॥
मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् ।
अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च ॥ २९.२५ ॥
सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा ।
न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम् ॥ २९.२६ ॥
अज्ञातकुलनामानं तत्कालसमुपस्थितम् ।
बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम् ॥ २९.२७ ॥
ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः ।
न पृच्छेद्गोत्रचरणं स्वाध्यायञ्चापि पण्डितः ॥ २९.२८ ॥
शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९.२९ ॥
तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद्गृहाश्रमी ।
तस्माददत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः ॥ २९.३० ॥
स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ २९.३१ ॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।
अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम् ॥ २९.३२ ॥
पूजयेत्तु नरः शक्त्या तेनैवातिथिमादरात् ।
कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च ॥ २९.३३ ॥
पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ।
अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत् ॥ २९.३४ ॥
भिक्षाञ्च याचतां दद्यात्परिव्राड्ब्रह्मचारिणाम् ।
ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥ २९.३५ ॥
अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।
भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ॥ २९.३६ ॥
अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ।
पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः ॥ २९.३७ ॥
विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा ।
वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः ॥ २९.३८ ॥
कुटुम्बिना भोजनीयः समर्थे विभवे सति ।
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ॥ २९.३९ ॥
सीदता यद्कृतं तेन तत्पापं स समश्नुते ।
सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम् ॥ २९.४० ॥
पूजयीत यथाशक्ति शयनासनभोजनैः ।
एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम् ॥ २९.४१ ॥
स्कन्धे विधाता देवाश्च पितरश्च महर्षयः ।
श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः ॥ २९.४२ ॥
पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः ।
गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत ॥ २९.४३ ॥
ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः ।
देवान् पितॄंश्चातिथींश्च तद्वत्सम्पूज्य बान्धवान् ॥ २९.४४ ॥
जामयश्च गुरुञ्चैव गृहस्थो विभवे सति ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.४५ ॥
वैश्वदेवं हि नामैतत्कुर्यात्सायं तथा दिने ।
मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् ।
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ २९.४६ ॥

इति श्रीमार्कण्डेयपुराणे मदालसोपदेशो नामोनत्रिंशोऽध्यायः