मार्कण्डेयपुराणम्

प्रथमोऽध्यायः

आरम्भमङ्गलम्

यद्योगिभिर्भवभयार्तिविनाशयोग्यम् आसाद्य वन्दितमतीव विवक्तचित्तैः । तद्वः पुनातु हरिपादसरोजयुग्मम् अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः॥मंगल१॥

पायात् स वः सकलकल्मषभेददक्षः क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः । श्वासावधूतसलिलोत्कणिकाकरालः सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात्॥मंगल२॥

नारायणं समस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥मंगल३॥


तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् । व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत॥१.१॥

भगवन् भारताख्यानं व्यासेनोक्तं महात्मना । पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः॥१.२॥

जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् । पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम्॥१.३॥

त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा । भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः॥१.४॥

यथायुधानां कुलिशमिन्द्रियाणां यथा मनः । तथेह सर्वशास्त्रणां महाभारतमुत्तमम्॥१.५॥

अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते । परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक्॥१.६॥

धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् । कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम्॥१.७॥

चतुराश्रमधर्माणामाचारस्थितिसाधनम् । प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता॥१.८॥

तथा तात कृतं ह्येतद् व्यासेनोदारकर्मणा । यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते॥१.९॥

व्यासवाक्यजलौघेन कुतर्कतरुहारिणा । वेदशैलावतीर्णेन नीरजस्का मही कृता॥१.१०॥

कलशब्दमहाहंसं माख्यानपराम्बुजम् । कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम्॥१.११॥

तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् । तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः॥१.१२॥

कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः । वासुदेवो जगत्सूति-स्थिति-संयमकारणम्॥१.१३॥

कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा । पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान्॥१.१४॥

भेषजं ब्रह्महत्याया बलदेवो महाबलः ।

तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः॥१.१५॥

कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः । पाण्डुनाथा महात्मानो वधमापुरनाथवत्॥१.१६॥

एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि । भवन्तो मूढबुद्धीनामवबोधकराः सदा॥१.१७॥

इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः । दशाष्टदोषरहितो वक्तुं समुपचक्रमे॥१.१८॥


मार्कण्डेय उवाच क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम । विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते॥१.१९॥

ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव । तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः॥१.२०॥

पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा । द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः॥१.२१॥

वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः । विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च॥१.२२॥

एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता । प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः॥१.२३॥


जैमिनिरुवाच अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी । यत् पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम्॥१.२४॥

तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् । कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः॥१.२५॥

कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् । जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम्॥१.२६॥


मार्कण्डेय उवाच शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा । शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे॥१.२७॥

नारदो नन्दनेऽपश्यत् पुंश्चलीगणमध्यगम् । शक्रं सुराधिराजानं तन्मुखासक्तलोचनम्॥१.२८॥

स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः । समुत्तस्थौ स्वकं चास्मै ददावासनमादरात्॥१.२९॥

तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः । प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः॥१.३०॥

ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ । यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः॥१.३१॥


शक्र उवाच

ततः कथान्तरे शक्रस्तमुवाच महामुनिम् । देह्याज्ञां नृत्यतामासां तव याभिमतेति वै॥१.३२॥

रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा । घृताची मेनका वापि यत्र वा भवतो रुचिः॥१.३३॥

एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः । विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः॥१.३४॥

युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् । आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः॥१.३५॥

गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै । चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम्॥१.३६॥

तद्वाक्यसमकालं च एकैकास्ता नतास्ततः । अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम्॥१.३७॥


मार्कण्डेय उवाच

तासां संभ्रममालोक्य भगवान् पाकशासनः । पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम्॥१.३८॥

शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः । प्रोवाच यत् तदा वाक्यं जैमिने तन्निबोध मे॥१.३९॥

तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् । दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम्॥१.४०॥


मार्कण्डेय उवाच तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः । अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः॥१.४१॥

तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता । प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥१.४२॥

अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥१.४३॥

ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । तमप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥१.४४॥

इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा । मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम्॥१.४५॥

स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः । क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः॥१.४६॥

तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः । जगाम तत्र यत्रास्ते सा बाला रुचिरानना॥१.४७॥

तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् । क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः॥१.४८॥

उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः॥१.४९॥

यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् । आगतासि मदोन्मत्ते मम दुः खाय खेचरि॥१.५०॥

तस्मात् सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता । जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश॥१.५१॥

निजरूपं परित्यज्य पक्षिणीरूपधारिणी । चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः॥१.५२॥

अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि । वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन॥१.५३॥

इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा । तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम्॥१.५४॥


इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः